काशिका/सप्तमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः


अथ सप्तमाध्याये द्वितीयः पादः

सिचि वृद्धिः परस्मैपदेषु ।। <7-2-1> ।।
परस्मैपदपरे सिचि परत इगन्तस्याङ्गस्य वृद्धिर्भवति । अचैषीत् । अनैषीत् । अलावीत् । अपावीत्। अकार्षीत् । अहार्षीत् । अन्तरङ्गमपि गुणमेषां वृद्धिर्वचनाद्बाधते । न्यनुवीत् , न्यधुवीद् - इत्यत्र कुटादित्वान्ङित्त्वे सति प्रतिषिद्धायां वृद्धावुवङादेशः क्रियते । परस्मैपदेष्विति किम्? अच्योष्ट । अप्लोष्ट ।।
</7-2-1>
अतो ल्रान्तस्य ।। <7-2-2> ।।
रेफलकारौ यावतोऽन्तौ - समीपौ, तदन्तस्याङ्गस्य अत एव स्थाने वृद्धिर्भवति । क्षर - अक्षारीत् । त्सर - अत्सारीत् । ज्वल - अज्वालीत् । ह्मल - अह्मालीत् । अतो हलादेर्लघोः(7-2-7/2284) इति विकल्पस्यायमपवादः । अत इति किम्? न्यखोरीत् । न्यमीलीत् । ल्रान्तस्येति किम्? मा भवानटीत् । मा भवानशीत् । अन्तग्रहणं किम् अवभ्रीत् । अश्वल्लीत् । अत्र यौ रेफलकाराड्गस्यान्तौ न तावतः समीपौ ।।
</7-2-2>
वदव्रजहलन्तस्याचः ।। <7-2-3> ।।
वदव्रजोर्हलन्तानां चाङ्गानामचः स्थाने वृद्धिर्भवति सिचि परस्मैपदे परतः । अवादीत् । अव्राजीत् । विकल्पबाधनार्थं वदिव्रजिग्रहणम् । हलन्तानाम् - अपाक्षीत् । अभैत्सीत् । अच्छैत्सीत् । अरौत्सीत् । अत्र योगविभागे सति हलन्तग्रहणमन्तरेणापि सिद्ध्यति, कथम्? वदिव्रज्योरित्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्त्तते, ततो यत् अचः इति सूत्रम्, तत्राङ्गेनाज्विशेष्यते - अङ्गस्याचः सिचि परतो वृद्धिर्भवति । तदेतद्धल्ग्रहणं हल्समुदायपरिग्रहार्थम् । इहापि स्यात् - अराङ्‌क्षीत्, असाङ्‌क्षीत्। अन्यथा हि येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात् । उदवोढाम्, उदवोढमित्यत्र वहेः सिचि ढत्वसलोपादीनां पूर्वत्रासिद्धम्(8-2-1/12) इत्यसिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोप निमित्तमोत्त्वम् । तत्र कृते पुनर्वुद्धिर्न भवति, कृतत्वात् ।यत्र त्वकृता वृद्धिः, ओकारस्यैव तत्र भवति - सोढामित्रस्यापत्यं सौढामित्रिरिति ।।
</7-2-3>
नेटि ।। <7-2-4> ।।
इडादौ सिचि हलन्तस्याङ्गस्य वृद्धिर्न भवति । अदेवीत् । असेवीत् । अकोषीत् । अमोषीत् । हलन्तस्य इत्येव - अलावीत् । नन्वत्रैतदप्यन्तरङ्गत्वाद् गुणावादेशोः कृतयोर्हलन्तं भवति नैतदेवम्, अन्तरङ्गमपि गुणं वचनारम्भसामर्थ्यात्सिचि वृद्धिर्बाधते इत्युक्तम् ।।
</7-2-4>
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ।। <7-2-5> ।।
हकारान्तानां मकारान्तानां यकारान्तानामङ्गानाम्, क्षण, श्वस, जागृ, णि, श्वि - इत्येतेषामेदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति। ग्रह-अग्रहीत्। स्यम-अस्यमीत्। व्यय-अव्ययीत्। टुवम् - अवमीत् । क्षण - अक्षणीत् । श्वस् - अश्वसीत् । जागृ - अजागरीत् । णि - औनयीत्, ऐलयीत् । श्वि - अश्वयीत् । एदिताम् - रगे , अरगीत् । कखे - अकखीत् । ह्म्यन्तक्षणश्वसामेदितां च अतो हलादेर्लघोः(7-2-7/2284) इति विकल्पे प्राप्ते प्रतिषेधः । जागृ - णि - श्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि(7-2-4/2268) इति न प्रतिषिध्यते । न च अन्तरड्गत्वादत्र पूर्वं गुणो भवति सिचि वृद्धेरनवकाशत्वात् । यदि पूर्वं गुणः स्यात्, इह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशायोः कृतयोर्यकारान्तत्वादेव प्रतिषेधस्य सिद्धत्वात् । तस्मादिदमेव णिश्विग्रहणं ज्ञापकम् - न सिच्यन्तरङ्गमस्तीति । अथ जागृग्रहणं किमर्थम्? जाग्रोऽविचिण्णल्ङित्सु(7-3-85/2480) इति जागर्त्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति(6-2-115/254) इति वृद्धिं बाधते, तथा सिचिवृद्धिमपि बाधिष्यते
नैतदस्ति, कृते गुणे अतो ल्रान्तस्य(7-2-2/2330) इति या वृद्धिः प्राप्नोति सा प्रतिषिध्यते । अथ गुणविधानसामर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयतीत्यत्र अत उपधायाः(7-1-113/2282) इत्यपि वृद्धिर्न भवति, तथा चिण्णलोः प्रतिषेधोऽर्थवान्भवति इति शक्यमिह जागृग्रहणमकर्त्तुम् तत्त्‌ क्रियते विस्पष्टार्थम् ।।
</7-2-5>
ऊर्णोतेर्विभाषा ।। <7-2-6> ।।
ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति । प्रौर्णवीत्, प्रौर्णावीत् । विभाषोर्णोः(1-2-3/2447) इत्यङित्त्वपक्षे वृद्धिविकल्पोऽयम् । ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ् भवति - प्रौर्णुवीत् ।।
</7-2-6>
अतो हलादेर्लघोः ।। <7-2-7> ।।
हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति । अकणीत् , अकाणीत् । अरणीत्, अराणीत् । अत इति किम्? अदेवीत् । असेवीत् । न्यकुटीत्, न्यपुटीत् - इत्यत्र अतः इत्यस्मिन्नसति स्थानिनिर्देशार्थम् अचः इत्येतदनुवर्तयितव्यम् । तत्र अड्लक्षणा वृद्धिरिग्लक्षणा न भवतीति क्ङिति च(1-1-5/2217) इति प्रतिषेधो न स्यात् । हलादेरिति किम्? मा भवानशीत् । मा भवानटीत् । लघोरिति किम्? अतक्षीत् । अक्षरीत् । अथेह कस्मान्न भवति - अचकासीदिति येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादिति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति । अथ पुनरेकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेन - इति कल्पने शक्यमकर्तुम् लघोः इति, अतक्षीदित्यत्रानेकेन व्यवधानमिति न भविष्यति तत्क्रियते विस्पष्टार्थम् । इटीत्येव - अपाक्षीत् ।।
</7-2-7>
नेड्‌वशि कृति ।। <7-2-8> ।।
वशादौ कृति प्रत्यये परत इडागमो न भवति । वरमनादौ प्रयोजनम् । ईशिता, ईशितुम् - ईश्वरः । दीपिता, दीपितुम् - दीप्रः । भसिता, भसितुम् - भस्म । याचिता, याचितुम् - याच्ञा । वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम् । तेन `ञमन्ताण्ड्डः(उ.119) इत्येवमादावपि हि प्रतिषेधो भवति । अथ तत्र उणादयो बहुलम्(3-3-1/3169) इति समाधीयते सम्भवोदाहरणप्रदर्शनमेतत् । कृतीति किम्? रुरुदिव । रुरुदिम ।।
</7-2-8>
तितुत्रतथसिसुसरकसेषु च ।। <7-2-9> ।।
ति, तु , त्र , त, थ , सि, सु, सर, क, स - इत्येतेषु कृत्सु इडागमो म भवति । ति इति - क्तिन्क्तिचोः सामान्यग्रहणम् । क्तिच् - तनिता, तनितुम् - तन्तिः । क्तिन् - दीपिता, दीपितुम् - दीप्तिः । तु - `सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्(उ.72), सचिता, सचितुम् - सक्तुः । त्र - दाम्नीशसयुयुज(3-3-182/3162) इति ष्ट्रन् , पतिता, पतितुम् - पत्त्रम् - वाहनम् । उणादिष्वपि `सर्वधातुभ्यः ष्ट्रन्(उ.608), तनिता, तनितुम् - तन्त्रम्। त - `हसिमृगृण्वमिदमितमिलूपूधुर्विभ्यस्तन्(उ.373) , हसिता, हसितुम् - हस्तः । लविता, लवितुम् - लोतः । पविता, पवितुम् - पोतः । धूर्विता, धूर्वितुम् - धूर्तः । औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य हसितमित्येव हि तत्र भवति । थ - `हनिकृषिनीरमिकाशिभ्यः क्थन्(उ.167) , कोषिता, कोषितुम्, कुष्ठम् । काशिता, काशितुम् - काष्ठम् । सि - `प्लुषिशुषिकुषिभ्यः क्सिः(उ.443), कोषिता, कोषितुम् - कुक्षिः । सुक् च इषेः , एषिता, एषितुम् - इक्षुः । सर - अशेः क्सरन्, अशिता, अशितुम् - अक्षरम् । क - `इण्भीकापाशल्यतिमर्चिभ्यः कन्(उ.330) शलिता, शलितुम् - शल्कः । स - `वृतृवदिहनिक्रमिकषियुमुचिभ्यः सः(उ.349), वदिता, वदितुम् - वत्सः ।

  • तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम् *(म.भा.3-283)। ग्रहादयो ग्रहप्रकाराः, येषामिट् क्तिनि दृश्यते । निगृहीतिः । उपस्निहितिः । निकुचितिः । निपठितिः । कृति इत्येव - रोदिति । स्वपिति ।।

</7-2-9>
एकाच उपदेशेऽनुदात्तात् ।। <7-2-10> ।।
उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति । प्रकृत्याश्रयोऽयं प्रतिषेधः । के पुनरुपदेशेऽनुदात्ताः ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थमनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते -
    `अनिट्स्वरान्तो भवतीति दृश्यताम्, इमांस्तु सेटः प्रवदन्ति तद्विदः ।
     अदन्तमॄदन्तमृतां च वृङ्‌वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि ।।
     गणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः ।
     इति स्वरान्ता निपुणं समुच्चिताः ततो हलन्तानपि सन्निबोधतः ।।
द्वये त एव धातवः - स्वरान्ताः , व्यञ्जनान्ताश्च । तत्र सर्वे स्वरान्ता एकाचोऽनुदात्ताः, अदन्तादीन्वर्जयित्वा । दाता । नेता । चेता । स्तोता । कर्त्ता । हर्त्ता । अजन्तादय उदात्ताः - अवधिष्ट । ॠदन्तम् - तरिता, तरीता । ॠतां च वृङ्‌वृञौ - निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता । श्विडीङिवर्णेष्वथ शीङ्‌श्रियावपि -- श्वयिता, उड्डयिता, शयिता, श्रयिता। गणस्थमूदन्तम् - लविता । पविता । उतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः - रीविता । प्रस्नविता । क्षविता । प्रोर्णविता । वाच्य ऊर्णोर्णुवद्भावो यङ्‌प्रसिद्धिः प्रयोजनम् - इत्यतिदेशादेकाच्त्वमूर्णोतेरस्तीति उदात्त उपदिश्यते । यविता । नविता । क्ष्णविता । इति स्वरान्ता निपुणं समुच्चिताः, ततो हलन्तानपि सन्निबोधत ।
     शकिस्तु कान्तेष्वनिडेक इष्यते, धसिश्च सान्तेषु वसिः प्रसारणी ।।
घसिः प्रकृत्यन्तरमस्ति -घस्ता । वसिः प्रसारणी -- वस्ता । प्रसारणीति किम्? वसिता वस्त्राणाम् । `वस निवासे(धा.पा.1006) इत्यस्य यजादित्वात्सम्प्रसारणं विहितम्, न तु `वस आच्छादने(धा.पा.1024) इत्यस्य ।
        रभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ।
आरब्धा । यब्धा । लब्धा ।
यमिर्यमन्तेष्वनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मनिः ।
नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम् ।।
यन्ता । रन्ता । मन्ता । श्यनीति किम्? मनुतेर्मनिता - इत्येव भवति । नन्ता । हन्ता । गन्ता ।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः ।
इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः ।।
देग्धा । दोग्धा । मेढा । आरोढा । वोढा । नद्धा । दग्धा । लेढा । मुक्तसंशया इति किम्? तन्त्रान्तरे चत्वारोऽपरे पठ्यन्ते -- सहिमुहिरिहिलुहयः । तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ । इतरौ तु धातुषु न पठ्येते । कैश्चिदभ्युपगम्येते इति स्वरूपेणैव ससंशयौ ।
दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् ।
लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ।।
देष्टा, द्रष्टा, दंष्टा, आम्रष्टा, आमर्ष्टा, स्प्रष्टा, स्पर्ष्टा । ऋदुपधानामुदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्(6-1-59/2402) इति रमागमविकल्पः । रेष्टा रोष्टा, क्रोष्टा, प्रवोष्टा, लोष्टा ।
रुधिः सराधिर्युधिबन्धिसाधयः क्रुधिक्षुधी शुध्यतिबुध्यती व्यधिः ।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ।। रोद्धा । राद्धा । योद्धा । बन्द्धा । साद्धा । क्रोद्धा । क्षोद्धा । शोद्धा । बोद्धा । व्यद्धा । सेद्धा । बुध्यतिसिध्यत्योः श्यना निर्द्देशात् न्याय्यविकरणयोर्बुद्धिसिध्योरिड् भवत्येव - बोधिता, सेधिता। निष्ठायामपि प्रतिषेधाभावात् - बुधितम् , सिधितमित्येव भवति ।
शिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम् ।
इमान् दशैवोपदिशन्त्यनिड्‌विधौ गणेषु षान्तान् कृषिकर्षती तथा ।।
शेष्टा । पेष्टा । शोष्टा । पोष्टा । त्वेष्टा । वेष्टा । श्लेष्टा । तोष्टा । दोष्टा। द्वेष्टा । क्रष्टा । कर्ष्टा । कृषेस्तौदादिकस्य , भौवादिकस्य च कृषिकर्षती - इति निर्द्देशः ।
तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्।
स्वरेण नीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश ।।
तप्ता । तेप्ता । आप्ता । वप्ता । स्वप्ता । लेप्ता । लोप्ता । तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव । इट् त्वनयो रधादिपाठाद्विकल्पेन भवति - त्रप्ता, तर्प्ता, तर्पिता, द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदात्तावेव - त्रप्ता, तर्प्ता । शप्ता । छोप्ता। क्षेप्ता ।
अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्वद्यतिपद्यती खिदिम् ।
तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान्दश पञ्च चानिटः ।।
अत्ता । हत्ता । स्कन्ता । भेत्ता । छेत्ता । क्षेत्ता । शत्ता । सत्ता । स्वेत्ता । स्विद्यतीति श्यना निर्द्देशः - `ञिष्विदा(धा.पा.979) इत्यस्य ग्रहणं मा भूत् । उदात्त एवायम् । पत्ता । खेत्ता । तोत्ता । नोत्ता । वेत्ता । विद्यति विन्त इत्यपि - श्यना श्नमा च निर्देशोऽन्यविकरणनिवृत्त्यर्थः । वेतिविन्ती उदात्तावेव - नेदिता विद्यानाम् , वेदिता धनस्य ।।
पचिं वचिं विचिरिचिरञ्जिपृच्छतीन्
निजिं सिचिं मुचिभजिभञ्जिभृज्जतीन् ।
त्यजिं युजिरुजिसञ्जिमज्जतीन्
भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान् ।।
पक्ता । वक्ता । विवेक्ता । रेक्ता । रङ्क्ता । प्रष्टा । निर्णेक्ता । सेक्ता । रोक्ता । सङ्क्ता । मङ्‌क्ता । भोक्ता । परिष्वक्ता । स्रष्टा । मार्ष्टा । मृजिरयमूदित्पठ्यते, ततोऽस्य विकल्पेनेटा भवतितव्यम् - मार्ष्टा , मर्जिता इति अमागमोऽप्यस्य न दृश्यते? तदिह पाठस्य प्रयोजनं चिन्त्यम् । केचिदस्य स्थाने विचिं पठन्ति - सृजिं विजिं विद्ध्यनिट्स्वरानिति । निजादिषु यो विजिरसावनिडिष्यते । तथा च ग्रन्थान्तरे - निजिविजिष्वञ्जिवर्जम् इत्युक्तम् । एकाच इति किम्? अवधीत् । वृद्धिनिवृत्त्यर्थमदन्तो वधिरुपदिश्यते । उपदेशग्रहणं किम्? इह च यथा स्यात् - लविष्यति, पचिष्यति । इह च मा भूत् - कर्ता कटान्, कर्तुमिति ।।
</7-2-10>
श्र्युकः किति ।। <7-2-11>।।
श्रि इत्येतस्य, उगन्तानां च किति प्रत्यये परत इडागमो न भवति । श्रित्वा, श्रितः, श्रितवान् । उगन्तानां च - युत्वा, युतः, युतवान् । लूत्वा, लूनः, लूनवान् । वृत्वा, वृतः, वृतवान् । तीर्त्वा, तीर्णः, तीर्णवान् । श्र्युक इति किम्? विदितः । कितीति किम्? श्रयिता, श्रयितुम्, श्रयितव्यम् । केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्णयन्ति - भूष्णुरित्येवं यथा स्यात्, सौत्रत्वाच्च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृत इति । ग्लाजिस्थश्च क्स्नुः(3-2-139/3119) इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः
सिद्धत्वान्न किञ्चिदेतत् । उपदेशे इत्येव - तीर्ण इत्यत्रापि यथा स्यात् । इत्त्वे हि कृते रपरत्वे च न स्यात् । मा भूदेवम्, इट् सनि वा(7-2-41/2625)इति विकल्पे विहिते यस्य विभाषा(7-2-15/3025) इति निष्ठायां प्रतिषेधो भविष्यति? कस्य पुनः सा विभाषा? ॠतः । यद्येवम्, इत्त्वे हि कृते नायमॄकारान्तो भवतिष्यति स्थानिवद्भावाद्भविष्यति । अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम्? तस्मादनुवर्त्तयितव्यमुपदेश इति । तथा च सति - जागरितः, जागरितवानित्यत्रापि प्राप्नोति, तदर्थम् एकाचः इत्यनुवर्त्तयिव्यम् । ऊर्णोतेस्तु -
वाच्य ऊर्णोर्णुवद्भावो यङ्‌प्रसिद्धिः प्रयोजनम् ।
आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ।।
प्रोर्णुतः । प्रोर्णुतवान् ।।
</7-2-11>
सनि ग्रहगुहोश्च ।। <7-2-12> ।।
ग्रह, गुह - इत्येतयोरुगन्तानां च सनि प्रत्यये परत इडागमो न भवति । जिघृक्षिति । जुघुक्षति। उगन्तानां च रुरूषति । लुलूषति । सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्(7-2-49/2618) इति विकल्पविधानात् श्रयतिरत्र नानुकृष्यते । ग्रहेर्नित्यं प्राप्तः । गुहेरुदित्वाद् विकल्पः ।।
</7-2-12>
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ।। <7-2-13> ।।
कृ, सृ, भृ, वृ, स्तु, द्रु, स्रु, श्रु - इत्येतेषां लिटि प्रत्यय इडागमो न भवति । कृ - चकृव, चकृम । सृ - ससृव, ससृम । भृ - बभृव, बभृम । वृञ् - ववृव, ववृम । वृङ्‌ - ववृवहे, ववृमहे । स्तु - तुष्टुव, तुष्टुम । द्रु - दुद्रुव, दुद्रुम । स्रु - सुस्रुव, सुस्रुम । श्रु - शुश्रुव, शुश्रुम । `सिद्धे सत्यारम्भो नियमार्थः(कात.प.62) - कादय एव लिट्यनिटः , ततोऽन्ये सेट इति । बिभिदिव, बिभिदिम । लुलुविव, लुलुविम । अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्रत्ययाश्रयः, तदुभयस्याप्ययं नियमः । वृञो हि थलि ववर्थेति निपातनाद् व्यवस्था । स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य(7-2-63/2296) इत्यस्मादपि नियमाद् य इट् प्राप्नोति सोऽपि नेष्यते - तुष्टोथ, दुद्रोथ, सुस्रोथ, शुश्रोथ ।

  • कृञोऽसुट्‌कस्येति वक्तव्यम् *(म.भा.3-286)। ससुट्‌कस्य इडागमो यथा स्यात् । सञ्चस्करिव । सञ्चस्करिम । ऋतो भारद्वाजस्य(7-2-63/2296) इत्येतदप्यसुट्‌कस्यैवेष्यते - सञ्चस्करिथ ।।

</7-2-13>
श्वीदितो निष्ठायाम् ।। <7-2-14> ।।
श्वयतेरीदितश्च निष्ठायामिडागमो न भवति । शूनः, शूनवान्। ईदितः - ओलजी , लग्नः, लग्नवान्। ओविची - उद्विग्नाः, उद्विग्नवान् । ओदित्तश्च(8-2-45/3019) इति निष्ठातकारस्य नकारः । दीपी - दीप्तः , दीप्तवान् । डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्‌त्वस्य । स हि नत्वार्थः, नत्वं च निष्ठातोऽनन्तरस्य विधीयते । उड्डीनः । उड्डीनवान् । निष्ठायामित्यधिकारः आर्धधातुकस्येड्‌वलादेः(7-2-35/2184) इति यावत् ।।
</7-2-14>
यस्य विभाषा ।। <7-2-15> ।।
यस्य धातोर्विभाषा क्वचिदिडुक्तस्तस्य निष्ठायां परत इडागमो न भवति । वक्ष्यति --स्वरतिसूतिसूयतिधूञूदितो वा(7-2-44/2279) विधूतः, विधूतवान् । गुहू - गूढः, गूढवान् । उदितो वा(7-2-56/3328) - वृद्धः, वृद्धवान् । तनिपतिदरिद्राणामुपसंख्यानम् इति पतेर्विभाषितेट्‌कस्यापि द्वितीयाश्रितातीतपतित(2-1-24/686) इति निपातनादिडागमः ।।
</7-2-15>
आदितश्च ।। <7-2-16> ।।
आदितश्च धातोर्निष्ठायामिडागमो न भवति । `ञिमिदा(धा.पा.1244) -- मिन्नः, मिन्नवान् । `ञिक्ष्विदा(धा.पा.1245) - क्ष्विण्णः, क्ष्विण्णवान् । `ञिष्विदा(धा.पा.744) - स्विन्नः, स्विन्नवान् । चकारोऽनुक्तसमुच्चयार्थः । आश्वस्तः । वान्तः ।
योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्याम् यस्य विभाषा(7-2-15/3025) इति प्रतिषेधो भविष्यति? ज्ञापनार्थमेतत् । ज्ञापयति - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः इति । तेन विभाषा गमहनविदविशाम्(7-2-68/3099) इत्यत्र विदेर्लाभार्थस्य विभाषेति ज्ञानार्थस्य प्रतिषेधो न भवति । विदितः । विदितवान् ।।
</7-2-16>
विभाषा भावादिकर्मणोः ।। <7-2-17> ।।
भावे आदिकर्णणि च आदितो धातोर्विभाषा निष्ठायमिडागमो न भवति । मिन्नमनेन, मेदितमनेन । प्रमिन्नः, प्रमेदितः । सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन । शकितो घटः कर्तुम् । शक्तो घटः कर्तुम् ।
भावे न भवत्येव - शक्तमनेन । अस्यतेर्भावे - असितमनेन । आदिकर्मणि च न भवत्येव- अस्यः काण्डः ।।
</7-2-17>

क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु ।। <7-2-18>।।
क्षुब्ध, स्वान्त, धवान्त, लग्न, म्लिष्ट, विरिब्ध, फाण्ट, बाढ - इत्येते निपात्यन्ते यथासंख्यं मन्थ, मनः, तमः, सक्त, अविस्पष्ट, स्वर, अनायास , भृश - इत्येतेष्वर्थेषु । क्षुब्ध इति भवति मन्थाभिधानं चेत् । क्षुब्धो मन्थः ।
क्षुभितमन्यत् । क्षुभितं मन्थेन, क्षुब्धा गिरिनदी - इत्येवमाद्युपमानाद्भविष्यति । स्वान्तमिति मनोऽभिधानं चेत् । स्वनितमन्यत्, स्वनितो मृदङ्गः । स्वनितं मनसा । ध्वान्तमिति भवति तलोऽभिधानं चेत् । ध्वनितमन्यत् । ध्वनितो मृदङ्गः । ध्वनितं तमसा । लग्वमिति भवति सक्तं चेत् । लगितमन्यत् । म्लिष्टमिति भवति अविस्पष्टं चेत् । म्लेच्छितमन्यत् । इत्त्वमप्यकारस्य निपातनादेव । विरिब्धमिति स्वरश्चेत् । विरेभितमन्यत् । `रेभृ शब्दे(धा.पा.385) इत्यस्यैतन्निपातनम् । अन्ये तु विरिभितमन्यदिति पठन्ति । रभिं सौत्रं धातुं पठन्ति, ते विरिभितमिति प्रत्युदाहरन्ति । फाण्टमिति भवत्यनायासश्चेत् । फाणितमन्यत् । यदशृतम्पिष्टं च कषायमुदकसम्पर्कमात्राद् विभक्तरसमीषदुष्णं तत्फाण्टम् । तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते । बाढमिति भवति भृशं चेत् । बाहितमन्यत् । `बाहृ प्रयत्ने(धा.पा.645) इत्यस्य धातोरेतन्निपातनम् । अतिशयश्च भृशमिहोच्यते ।।
</7-2-18>
धृषिशसी वैयात्ये ।। <7-2-19> ।।
वियातस्य भवो वैयात्यम् - प्रागल्भ्यम्, अविनीतता । तत्र धृष, शस - इत्येतयोर्निष्ठायामिडागमो न भवति । धृष्टोऽयम् । विशस्तोऽयम् । धृषेः आदितश्च(7-2-16/3036) इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा(7-2-56/3328), यस्य विभाषा(7-2-15/3025) इति नियमार्थं वचनम् - धृषिशस्योर्वैयात्ये एवेड्‌ न भवति । भावादिकर्णणोरपि वैयात्ये धृषिर्नास्ति । धृष्टः । विशस्तः । वैयात्य इति किम्? धर्षितः । विशसितः ।।
</7-2-19>
दृढः स्थूलबलयोः ।। <7-2-20> ।।
दृढः इति निपात्यते, स्थूले बलवति चार्थे । दृढः स्थूलः । दृढो बलवान् । किमत्र निपात्यते? दृंहेः क्तप्रत्ये इडभावः, हकारनकारयोर्लोपः, परस्य ढत्वम् । अथ दृहिः प्रकृत्यन्तरमस्ति ? तत्राप्येतदेव सर्वं नलोपवर्जम्, नकारस्याभावात् । हलोपनिपातनं पूर्वत्रासिद्धत्वनिवृत्त्यर्थम् । ढलोपे हि सति तस्य पूर्वत्रासिद्धत्वाद् द्रढिमा,द्रढीयान्, द्रढीयतीत्यत्र र ऋतो हलादेर्लघोः(6-2-161/1785) इति रेफो न स्यात्, इह च परिद्रढय्य गत इति ल्यपि लघुपूर्वात्(6-4-56/3436) इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्येति गुरुपोत्तमलक्षणः ष्यङ्(4-9-78/1198) च प्रसज्येत । स्थूलबलयोरिति किम्? दृंहितम्, दृहितम् ।।
</7-2-20>
प्रभौ परिवृढः ।। <7-2-21> ।।
परिवृढः इति निपात्यते प्रभुश्चेद्भवति । परिवृढः कुटुम्बी । पूर्वेण तुल्यमेतत् । वृंहेर्निपातनम् । वृहिश्च यदि प्रकृत्यन्तरमस्ति, तस्यापि तदेव सर्वम् । हलोपनिपातनस्य च तदेव प्रयोजनम् । परिव्रढयति । परिव्रढय्य गतः । पारिवृढी कन्येति । परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्पद्यते । संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिरिष्यते नान्यस्मादिति । तथा सति परिव्रढयतीति तिङ्‌ङतिङः(8-2-28/3935) इति निघातो भवति । परिव्रढय्येत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति । प्रभाविति किम्? परिवृंहितम्, परिवृहितम् ।।
</7-2-21>
कृच्छ्रगहनयोः कषः ।। <7-2-22> ।।
कृच्छ्र, गहन - इत्येतयोरर्थयोः कषेर्धातोर्निष्ठायामिडागमो न भवति । कष्टोऽग्निः । कष्टं व्याकरणम् । ततोऽपि
कष्टतराणि सामानि । कृच्छ्रम् - दुखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते । गहने - कष्टानि वनानि । कष्टाः पर्वताः । कृच्छ्रगहनयोरिति किम्? कषितं सुवर्णम् ।।
</7-2-22>
घुषिरविशब्दने ।। <7-2-23> ।।
घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति । घुष्टा रज्जुः । घुष्टौ पादौ । अविशब्दन इति किम्? अवघुषितं वाक्यमाह । विशब्दनम् - प्रतिज्ञानम् । `घुषिरशब्दार्थे(धा.पा.653) इति भूवादिषु पठ्यते, `घुषिर् विशब्दने(धा.पा.17-27) इति चुरादिषु, तयोरिह सामान्येन ग्रहणम् । विशब्दनप्रतिषेधश्च ज्ञापकः - चुरादिणिज्विशब्दनार्थस्यानित्यः इति । तेनायमपि प्रयोग उपपन्नो भवति - महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः इति । स्वाभिप्रायं शब्देनाविष्कृतवन्त इत्यर्थः ।।
</7-2-23>
अर्देः संनिविभ्यः ।। <7-2-24> ।।
सम्, नि, वि - इत्येतेभ्य उत्तरस्यार्देर्निष्ठायामिडागमो न भवति । समर्णः । न्यर्णः । व्यर्णः । अर्देरिति किम्? समेधितः । संनिविभ्य इति किम्? अर्दितः ।।
</7-2-24>
अभेश्चाविदूर्ये ।। <7-2-25> ।।
अभिशब्दादुत्तरस्यार्देराविदूर्येऽर्थे निष्ठायामिडागमो न भवति । अभ्यर्णा सेना । अभ्यर्णा शरत् । आविदूर्य इति किम्? अभ्यर्दितो वृषलः । शीतेन पीडित इत्यर्थः । विदूरम् - विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भाव आविदूर्यम् । एतस्मादेव निपातनात् न नञ्पूर्वात्तत्पुरुषात्(5-1-121/1783) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति ।।
</7-2-25>
णेरध्ययने वृत्तम् ।। <7-2-26> ।।
ण्यन्तस्य वृत्तेर्निष्ठायामध्ययनार्थे वृत्तमितीडभावो णिलुक्च निपात्यते । वृत्तो गुणो देवदत्तेन । वृत्तं पारायणं देवदत्तेन । अध्ययन इति किम्? वर्त्तितमन्यत् । वृतिरयमकर्मकः, स ण्यर्थे वर्त्तमानः सकर्मको भवति । तेन निर्वृत्तम् इति हि प्रकृतेरेव कर्मणि क्तप्रत्ययो दृश्यते । तद्वदिहापि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदेत्तेनेति भविष्यतीति निपातनमनर्थकम् तत्क्रियते - यदापि णिचैव ण्यर्थोऽभिधीयते तदा वर्त्तितमित्यध्ययने मा भूदिति केचित् । अपरे तु- वर्त्तितो गुणो देवदेत्तेन इत्यपीच्छन्ति ।।
</7-2-26>
वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ।। <7-2-27> ।।
णेः इत्यनुवर्त्तते । दम्, शम्, पूरी, दस्, स्पश्, छद्, ज्ञप् - इत्येतेषां ण्यन्तानं धातूनां वा अनिट्‌त्वं निपात्यते । दान्तः, दमितः। शान्तः, शमितः । पूर्णः, पूरितः । दस्तः , दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञपितः । इट्‌प्रतिषेधो णिलुक्च निपात्यते । ज्ञपेस्तु भरज्ञपिसनाम् इति विकल्पविधानाद् यस्य विभाषा(7-2-15/3025) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम् ।।
</7-2-27>
रुष्यमत्वरसंघुषास्वनाम् ।। <7-2-28> ।।
वा इति वर्तते । रुषि, अम, त्वर, सङ्घुष, आस्वन - इत्येतेषां निष्ठायां वा इडागमो न भवति । रुष्टः, रुषितः । तीषसहलुभरुषरिषः(4-2-102/1327) इति विकल्पविधानाद् यस्य विभाषा(7-2-15/3025) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् । अम - अभ्यान्तः , अभ्यमितः । त्वर - तूर्णः, त्वरितः । आदितश्च(7-2-16/3035) इति प्रतिषधे प्राप्ते वचनम् । सङ्घुष - सङ्‌घुष्टौ पादौ, सङ्‌घुषितौ पादौ । सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह । सङ्‌घुष्टौ दम्यौ, सङ्‌घुषितौ दम्यौ । सम्पूर्वस्य घुषेरविशब्दनेऽपि परत्वादयमेव विकल्पो भवति । आस्वन् - आस्वान्तो देवदत्तः,आस्वनितो देवदत्तः । आस्वान्तं मनः, अस्वनितं
मनः । अङ्‌पूर्वस्य स्वनेर्मनोभिधानेऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त(7-2-18/3058) इति निपातनं बाधते ।।
</7-2-28>
हृषेर्लोमसु ।। <7-2-29> ।।
लोमसु वर्त्तमानस्य हृषेर्निष्ठायां वा इडागमो न भवति । हृष्टानि लोमानि, हृषितानि लोमानि । हृष्टं लोमभिः, हृषितं लोमभिः । हृष्टाः केशाः, हृषिताः केशाः । हृष्टं केशैः, हृषितं केशैः । `हृषु अलीके(धा.पा.709) इत्युदित्त्वान्निष्ठायामनिट् , `हृष तुष्टौ(धा.पा.1230) इत्ययं सेट्, तयोरुभयोरिह ग्रहणमित्युभयत्रविभाषेयम् । लोमानि मूर्धजानि, अङ्गजानि च सामान्येन गृह्यन्ते यथा - लोमनखं स्पृष्ट्वा शौचं कर्त्तव्यम् इति । तद्विषये च हर्षे वर्त्तमानो लोमसु वर्त्तत इत्युच्यते । लोमस्विति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्त इति तुष्ट्यर्थस्य ।

  • विस्मितप्रतिघातयोश्चेति वक्तव्य् *(म.भा.3-290) । हृष्टो देवदत्तः, हृषितो देवदत्तः । विस्मित इत्यर्थः । हृष्टा दन्ताः , हृष्टो देवदत्तः, हृषितो देवदत्तः । विस्मित इत्यर्थः । हृष्टा दन्ताः, हृषिता दन्ताः । प्रतिहता इत्यर्थः ।।

</7-2-29>
अपचितश्च ।। <7-2-30> ।।
अपचितः इति वा निपात्यते । अपपूर्वस्य चायतेर्निष्ठायामनिट्‌त्वं चिभावश्च निपात्यते । अपचितोऽनेन गुरुः । अपचायितोऽनेन गुरुः ।

  • क्तिनि नित्यमिति वक्तव्यम् *(म.भा.3-290)। क्तिनि नित्यं चिभावो निपात्यते । अपचितिः ।।

</7-2-30>
ह्रु ह्वरेश्छन्दसि ।। <7-2-31> ।।
ह्वरतेर्धातोर्निष्ठायां छन्दसि ह्रु इत्ययमादेशो भवति । ह्रुतस्य चाह्रुतस्य च । `अह्रुतमसि हविर्धानम्(वा.सं.1-7) । छन्दसीति किम्? ह्वृतम् ।
</7-2-31>
अपरिह्वृताश्च । <7-2-32> ।।
अपरिह्वृता इति निपात्यते छन्दसि विषये । ह्रु इत्येतस्यादेशस्याभावो निपात्यते । `अपरिह्वृताः सनुयाम वाजम्(ऋ.1-100-19) ।।
</7-2-32>
सोमे ह्वरितः ।। <7-2-33> ।।
ह्वरितः इति ह्वरतेर्निष्ठायामिडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद्भवति । मा नः सोमो ह्वरितः, विह्वरितस्त्वम् ।।
</7-2-33>
ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीतिच ।।<7-2-34> ।।
ग्रसित स्कभित, स्तभित, उत्तभित, चत्त, विकस्त, विशस्तृ, शंस्तृ, शास्तृ, तरुत्तृ, तरूतृ, वरुतृ, वरूतृ, वरूत्रीः, उज्ज्वलिति, क्षिरिति, वमिति, अमिति - इत्येतानि छन्दसि निपात्यन्ते । तत्र ग्रसितस्कभितस्तभितोत्तभितेति - ग्रसु, स्कन्भु, स्तन्भु इत्येतेषामुदित्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इडागमो निपात्यते । `ग्रसितं वा एतत्सोमस्य(मै.3-7-4) । ग्रस्तमिति भाषायाम् । स्कभित - `विष्कभिते अजरे(ऋ.6-70-1) । विष्कब्ध इति भाषायाम् । स्तभित - `येन स्वस्तभितम्(ऋ.10-121-5) । स्तब्धमिति भाषायाम् । उत्तभित - `सत्येनोत्तभिता भूमिः(ऋ.10-85-1) । उत्तब्धेति भाषायाम् । उत्तभितेति उत्पूर्वस्य निपातनसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति । चत्त विकस्तेति - चतेः, कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते । चत्ता वर्षेण विद्युत् । चतितेति भाषायाम् । विकस्त - `उत्तानाया हृदयं यद् विकस्तम्(मै.2-7-4) । विकसितमिति भाषायाम् ।
निपातनं बहुत्वापेक्षम् , विकस्ताः इति बहुवचनं कृतम् । अपरे, तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः । विशस्तृ, शंस्तृ, शास्त्रिति - शसेर्विपूर्वस्य, शंसेः, शसेश्च तृचि इडभावो निपात्यते । विशस्तृ - `एकस्त्वष्टुरश्वस्याविशस्ता(ऋ.1-162-19) । विशसितेति भाषायाम् । शंस्तृ - `उत शंस्ता सुविप्रः(ऋ.1-162-5) । शंसितेति भाषायाम् । शास्तृ - `प्रशास्ता(ऋ.1-94-6) । प्रशासितमिति भाषायाम् । तरुतृतरूतृवरुतृवरूतृवरूत्रीरिति - तरतेः, वृङ्‌वृञोश्च तृचि उट्, ऊट् - इत्येतावागमौ निपात्येते । `तरुतारं रथानाम्(ऋ.10-178-1), तरूतारम् । तरितारम्, तरीतारमिति भाषायाम् । वरुतारं रथानाम्, वरूतारं रथानाम् । वरितारम्, वरीतारमिति भाषायाम्। `वरुत्री त्वा देवीर्विश्वदेव्यावती(मै.2-7-6) । जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम् । अतन्त्रं चैतत्, इदमपि हि भवति - अहोरात्राणि वै वरूत्रय इति । छान्दसिकमत्र ह्रस्वत्वम् । प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम्, वरूतृशब्दो ही निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः । उज्ज्वलिति, क्षरिति, क्षमिति, वमिति, अमितीति च - ज्वलतेरुत्पुर्वस्य, क्षर, क्षम, वम, अम - इत्येतेषां च तिपि शप इकारादेशो निपात्यते, शपो लुग्वा, इडागमः । अग्निरुज्ज्वलिति । उज्ज्वलतीति भाषायाम् । क्षमिति - स्तोमं क्षमिति । क्षमतीति भाषायाम् । वमिति - यः सोमं वमिति । वमतीति भाषायाम्। अमिति - अभ्यमिति वरुणः । अभ्यमतीति भाषायाम् । इतिकरणं प्रदर्शनार्थम्, तेन क्वचिदीकारो भवति - `रविमभ्यमीति वरुणः(वा.22-5) इत्यपि हि वेदे पठ्यते ।।
</7-2-34>
आर्धधातुकस्येड्‌वलादेः ।। 7 - <<2-0-35>> ।।
छन्दसि इति निवृत्तम् । आर्धधातुकस्य वलादेरिडागमो भवति । लविता, लवितुम्, लवितव्यम् । पविता, पवितुम्, पवितव्यम् । आर्धधातुकस्येति किम्? आस्ते । शेते । वस्ते । रुदादिभ्यः सार्वधातुके(7-2-76) इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवतीति आर्धधातुकग्रहणं क्रियते । वलादेरिति किम्? लव्यम्, पव्यम् । लवनीयम्, पवनीयम् । इडिति वर्त्तमाने पुनरिड्‌ग्रहणं प्रतिषेधनिवृत्त्यर्थम् ।।
</2-0-35>
स्नुक्रमोरनात्मनेपदनिमित्ते ।। <7-2-36> ।।
नियमार्थमिदम् । स्नुक्रमोरार्धधातुकस्य वलादेरिडागमो भवति, न चेत्स्नुक्रमौ आत्मनेपदस्य निमित्तं भवतः । क्व च तावात्मनेपदस्य निमित्तम्? यत्रात्मनेपदं तदाश्रयं भवति - भावकर्म - कर्मकर्तृ - कर्मव्यतिहाराः, क्रमेर्वृत्त्यादयश्च । तेनायं सत्यात्मनेपदे प्रतिषेधो भवति, नासतीति । प्रतिषेधफलं चेदं सूत्रम् । स्नुक्रमोरुदित्त्वादिट् सिद्ध एव । प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम् । प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यम् ।
अनात्मनेपदनिमित्ते इति किम्? प्रस्नोषीष्ट, प्रक्रंसीष्ट । प्रस्नोष्यते, प्रक्रंस्यते । प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते । सर्वत्रैवात्र स्नौतिः, क्रमिश्चात्मनेपदस्य निमित्तम् । सनन्तादपि हि पूर्ववत्सनः(1-3-62/1764) इत्यात्मनेपदं विधीयते । निमित्तग्रहणं किम्? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम् । इह तु प्रस्नवितेवाचरतीति प्रस्नवित्रीयत इति क्यङन्तमात्मनेपदस्य निमित्तम् , न स्नौतिः ।

  • क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः *(म.भा.3-292)। प्रक्रन्ता । उपक्रन्ता । कर्त्तरीति किम्? प्रक्रमितव्यम् । उपक्रमितव्यम् । आत्मनेपदविषयादिति किम्? निष्कमिता । स्नौतेः सनि किति च प्रत्यये सनि ग्रहगुहोश्च(7-2-12/2610) श्र्युकः किति(7-2-11/2381), इत्येव प्रतिषेधो भवति - प्रसुस्नूषति । प्रस्नुतः । प्रस्नुतवान् ।।

</7-2-36>
ग्रहोऽलिटि दीर्घः ।। <7-2-37> ।।
ग्रह उत्तरस्य इटः अलिटि दीर्घो भवति । ग्रहीता, ग्रहीतुम्, ग्रहीतव्यम् । अलिटीति किम्? जगृहिव । जगृहिम । प्रकृतस्येटो दीर्घत्वम्, इदं चिण्वदिटो न भवति -- ग्राहिता, ग्राहिष्यते ।।
</7-2-37>
वॄतो वा ।। <7-2-38> ।।
वृ इति वृङ्‌वृञोः सामान्येन ग्रहणम् । तस्मादुत्तरस्य, ॠकारान्तेभ्यश्चेटो वा दीर्घो भवति । वरिता, वरीता। प्रावरिता, प्रावरीता। ऋकारान्तेभ्यः - तरिता, तरीता । आस्तरिता, आस्तरीता । वॄत इति किम्? करिष्यति । हरिष्यति । अलिटीत्येव - ववरिथ । तेरिथ।।
</7-2-38>
न लिङि ।। <7-2-39> ।।
वॄत उत्तरस्य इटो लिङि दीर्घो न भवति । विवरिषीष्ट । प्रावरिषीष्ट । आस्तरिषीष्ट । विस्तरिषीष्ट ।।
</7-2-39>
सिचि च परस्मैपदेषु ।। <7-2-40> ।।
परस्मैपदपरे सिचि वॄत उत्तरस्य इटो दीर्घो न भवति । प्रवारिष्टाम्, प्रवारिषुः । अतारिष्टाम्, अतारिषुः । आस्तारिष्टाम् , आस्तारिषुः । परस्मैपदेष्विति किम्? प्रावरिष्ट, प्रवरीष्ट ।
</7-2-40>
इट् सानि वा ।। <7-2-41> ।।
वॄतः सनो वा इडागमो भवति । वुवूर्षति । विवरिषते, विवरीषते । प्रवुवूर्षति, प्राविवरिषति, प्राविवरीषति । ॠकारान्तेभ्यः - तितीर्षति, तितरिषति, तितरीषति । आतिस्तीर्षति, आतिस्तरिषति, आतिस्तरीषति । सनि ग्रहगुहौश्च(7-2-12/2610) इति इट्‌प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते । इटश्च वॄतो वा (7-2-38/2391) इति पक्षे दीर्घः । चिकीर्षति, जिहीर्षति - इत्यत्रोपदेशाधिकारात्, लाक्षणिकत्वाच्च इडागमो न भवति ।।
</7-2-41>
लिङ्‌सिचोरात्मनेपदेषु ।। <7-2-42> ।।
वॄतो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति । वृषीष्ट, वरिषीष्ट। प्रावृषीष्ट, प्रावरिषीष्ट । आस्तरिषीष्ट, आस्तीर्षीष्ट। सिचि खल्वपि - अवृत, अवरिष्ट, अवरीष्ट । प्रावृत, प्रावरिष्ट, प्रावरीष्ट । आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट । आत्मनेपदेष्विति किम्? प्रावारिष्टाम्, प्रावारिषुः । लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात्, यासुटोऽवलादित्वादिति ।।
</7-2-42>
ऋतश्च संयोगादेः ।। <7-2-43> ।।
ऋदन्ताद्धातोः संयोगादेरुत्तरयोर्लिङ्‌सिचोरात्मनेपदेषु वा इडागमो भवति । ध्वृषीष्ट, ध्वरिषीष्ट । स्मृषीष्ट, स्मरिषीष्ट । अध्वृषाताम्, अध्वरिषाताम्। अस्मृषाताम्, अस्मरिषाताम् । ऋत इति किम्? च्योषीष्ट, प्लोषीष्ट । अच्योष्ट, अप्लोष्ट । संयोगादेरिति किम्? कृषीष्ट, हृषीष्ट । अकृत, अहृत । आत्मनेपदेषु इत्येव - अध्वार्षीत् , अस्मार्षीत् । संस्कृषीष्ट, समस्कृत -- इत्यत्रोपदेशाधिकारात्, अभाक्तत्वाच्च सुट इडागमो न भवति ।।
</7-2-43>
स्वरतिसूतिसूयतिधूञूदितो वा ।। <7-2-44> ।।
 स्वरति, सूति, सूयति, धूञ् - इत्येतेभ्यः, ऊदिद्भ्यश्चोत्तरस्य वलोदेरार्धधातुकस्य वा इडागमो भवति । स्वर्त्ता, स्वरिता । सूति-प्रसोता, प्रसविता । सूयति - सोता, सविता । धूञ् - धोता , धविता । ऊदिद्भ्यः खल्वपि - गाहू । विगाढा, विगाहिता । गुपू - गोप्ता , गोपिता । वा इति वर्त्तमाने पुनर्वाग्रहणं लिङ्‌सिचोर्निवृत्त्यर्थम् । सूतिसूयत्योर्विकरणनिर्देशः `षू प्रेरणे(धा.पा.1409) इत्यस्य निवृत्त्यर्थः । धूञ् इति सानुबन्धकस्य निर्देशः - `धू निधूनने(धा.पा.1399) इत्येतस्य निवृत्त्यर्थः । सविता, धुवितेत्येव नित्यमेतयोर्भवति । स्वरतेरेतस्माद्विकल्पाद् ऋद्धनोः स्ये(7-2-70) इत्येतद्भवति विप्रतिषेधेन - स्वरिष्यति । किति तु प्रत्यये श्र्युकः किति(7-2-11/2381) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन - स्वृत्वा, सूत्वा, धूत्वा ।।
</7-2-44>
रधादिभ्यश्च ।। <7-2-45> ।।
`रध हिंसासंसिद्ध्योः(धा.पा.1194) इत्येवमादिभ्योऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति । रद्धा, रधिता ।
नंष्टा, नशिता । त्रप्ता, तर्प्ता, तर्पिता । द्रप्ता, दर्प्ता , दर्पिता । द्रोग्धा, द्रोढा, द्रोहिता। मोग्धा, मोढा, मोहिता। स्नोग्धा, स्नोढा, स्नोहिता । स्नेग्धा, स्नेढा, स्नेहिता । क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति । अपरे पुनराहुः - पुर्वविधेरिण्निषेधविधानसामर्थ्याद् बलीयस्त्वं प्रतिषेधनियमस्येति नित्यमिटा भवतितव्यम् - ररन्धिव, ररन्धिमेति भवति ।।
</7-2-45>
निरः कुषः ।। <7-2-46> ।।
निर् इत्येवम्पूर्वात् कुष उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति । निष्कोष्टा, निष्कोषिता। निष्कोष्टुम्, निष्कोषितुम् । निष्कोष्टव्यम्, निष्कोषितव्यम् । निर इति किम्? कोषिता, कोषितुम्, कोषितव्यम् । निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तमुपसर्गान्तरमस्तीति ज्ञाप्यते । तस्य हि निलयनमिति उपसर्गस्यायतौ(8-2-19/2326) इति लत्वं भवति । निसो हि रुत्वस्यासिद्धत्वाल्लत्वं न स्यात् ।।
</7-2-46>
इण्निष्ठायाम् ।। <7-2-47> ।।
निरः कुषो निष्ठायामिडागमो भवति । निष्कुषितः । निष्कुषितवान् । इड्‌ग्रहणं नित्यार्थम् । आरम्भो हि यस्य विभाषा(7-2-15/3025) इत्यस्य बाधकः, अन्यथा हि विकल्पार्थ एव स्याद् । अत्रैव नित्यमिडागमः, उत्तरत्र विकल्प एवेति ।।
</7-2-47>
तीषसहलुभरुषरिषः ।। <7-2-48> ।।
तकारादावार्धधातुके इषु, सह, लुभ, रुष, रिष - इत्येतेभ्यो वा इडागमो भवति । इषु - एष्टा, एषिता । `इषु इच्छायाम्(धा.पा.1352) - इत्यस्यायं विकल्प इष्यते । यस्तु `इष गतौ(धा.पा.1128) इति दैवादिकः, तस्य - प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति । योऽपि `इष आभीक्ष्ण्ये(धा.पा.1526) इति क्र्यादौ पठ्यते, तस्याप्येवमेव । तदर्थमेव `तीषसह इति सूत्रे केचिदुदितमिषं पठन्ति । सह - सोढा, सहिता । लुभ - लोब्धा, लोभिता। रुष - रोष्टा, रोषिता। रिष - रेष्टा, रेषिता । तीति किम्? एषिष्यति ।।
</7-2-48>
सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ।। <7-2-49> ।।
इवन्तानाम् धातूनाम् , ऋधु, भ्रस्ज, दम्भु , श्रि, स्वृ, यु, ऊर्णु, भर, ज्ञपि, सन् - इत्येतेषां च सनि वा इडागमो भवति । इवन्तानाम् - दिदेविषति, दुद्यूषति । सिसेविषति, सुस्यूषति । ऋध् - अर्दिधिषति, ईर्त्सति । भ्रस्ज - बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति । दम्भु -- दिदिम्भिषति, धिप्सति, धीप्सती । श्रि -- उच्छिश्रयिषति, उच्छिश्रीषति । स्वृ -- सिस्वरिषति, सुस्वूर्षति । यु -- यियविषति , युयूषति । ऊर्णु - प्रोर्णुनविषति, प्रोर्णुनुविषति, प्रोर्णुनूषति । भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्। शपा निर्देशात् । बिभरिषति, बुभूर्षति । ज्ञपि - जिज्ञपयिषति, ज्ञीप्सति । सन् - सिसनिषति, सिषासति । केचिदत्र `भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति । तितनिषति, तितंसति , तितांसति । पिपतिषति, पित्सति । दिदरिद्रिषति, दिदरिद्रासति । सनीति किम्? देवता । भ्रष्टा ।।
</7-2-49>
क्लिशः क्त्वानिष्ठयोः ।। <7-2-50> ।।
क्लिशः क्त्वानिष्ठयोर्वा इडागमो भवति । क्लिष्ट्वा, क्लिशित्वा । क्लिष्टः क्लिष्टवान् । क्लिशितः, क्लिशितवान् । `क्लिशू विबाधने(धा.पा.1523) - इत्येतस्य क्त्वायां विकल्पः सिद्ध एव, निष्ठायां तु यस्य विभाषा(7-2-15/3025) इति प्रतिषेधः प्राप्नोति । क्लिश उपतापे - इत्यस्य तु क्त्वायाम् , निष्ठायां च नित्यमिडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते ।।
</7-2-50>
पूङश्च ।। <7-2-51> ।।
पूङ्श्च क्त्वानिष्ठयोर्वा इडागमो भवति । पूत्वा, पवित्वा । सोमोऽतिपूतः, सोमोऽतिपवितः । पूतवान्, पवितवान् । श्र्युकः किति(7-2-11/2381) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते ।।
</7-2-51>
 वसतिक्षुधोरिट्‌ ।। <7-2-52> ।।
वसतेः क्षुधेश्च क्त्वानिष्ठयोरिडागमो भवति । उषित्वा । उषितः । उषितवान् । क्षुधित्वा । क्षुधितः । क्षुधितवान् । वसति इति विकरणनिर्देशः धातुनिर्धेशार्थ एव । वस्तेस्तूदात्तत्वादेव भवितव्यमिटा । पुनरिड्‌ग्रहणं नित्यार्थम् ।।
</7-2-52>
अञ्चेः पूजायाम् ।। <7-2-53> ।।
अञ्चेः पूजायामर्थे क्त्वानिष्ठयोरिडागमो भवति । अञ्चित्वा जानु जुहोति । अञ्चिता अस्य गुरवः । उदितो वा(7-2-56/3328) इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायाम् यस्य विभाषा(7-2-15/3025) इति प्रतिषेधः प्राप्तः, तदर्थमिदं प्रारब्धम् । पूजायामिति किम्? उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः ।।
</7-2-53>
लुभो विमोहने ।। <7-2-54> ।।
लुभो विमोहनेऽर्थे वर्त्तमानात् क्त्त्वानिष्ठयोरिडागमो भवति । लुभित्वा, लोभित्वा । विलुभिताः केशाः । विलुभितः सीमन्तः । विलुभितानि पदानि । विमोहनम् - आकुलीकरणम्, तत्र क्त्वायां तीषसहलुभ(7-2-48/2340) इति विकल्पः, निष्ठायाम् यस्य विभाषा(7-2-15/3025) इति प्रतिषेधः प्राप्तः । विमोहन इति किम्? लुब्धो वृषलः । शीतेन पीडित इत्यर्थः । लुब्धा, लुभित्वा , लोभित्वा । गार्ध्ये यथाप्राप्तमेव भवति ।।
</7-2-54>
जॄव्रश्च्योः क्त्वि ।। <7-2-55> ।।
जृ व्रश्चि - इत्येतयोः क्त्वाप्रत्यये इडागमो भवति । जरित्वा, जरीत्वा । व्रश्चित्वा । जॄ इत्येतस्य श्र्युकः किति(7-2-11/2381) इति प्रतिषेधः प्राप्तः व्रश्चेरुदित्त्वाद्विकल्पः । क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम् ।।
</7-2-55>
उदितो वा ।। <7-2-56> ।।
उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति । शमु - शमित्वा, शान्त्वा । तमु - तमित्वा, तान्त्वा । दमु - दमित्वा, दान्त्वा ।।
</7-2-56>
सेऽसिचि कृतचृतच्छृदतृदनृतः ।। <7-2-57> ।।
सकारादावसिच्यार्धधातुके कृत, चृत, छृद, तृद, नृद - इत्येतेभ्यो धातुभ्यो वा इडागमो भवति । कृत् -- कर्त्स्यति । अकर्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यत् । चिकर्तिषति । चृत -- चर्त्स्यति । अचर्त्स्य । चिचूत्सति । चर्तिष्यति । अचर्तिष्यत् । चिचर्तिषति । छृद - छर्त्स्यति । अच्छर्त्स्यत् । चिच्छृत्सति । छर्दिष्यति । अच्छर्दिष्यत् । चिच्छर्दिषति । तृद् -- तर्त्स्यति । अतर्त्स्यत् । तितृत्सति । तर्दिष्यति । अतर्दिष्यत् । तितर्दिषति । नृत् - नर्त्स्यति । अनर्त्स्यत् । निनृत्सति । नर्तिष्यति । अनर्तिष्यत् । निनर्तिषति । से इति किम्? कर्तिता । असिचीति किम्? अकर्तीत् ।।
</7-2-57>
गमेरिट् परस्मैपदेषु ।। <7-2-58> ।।
गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति । गमिष्यति । अगमिष्यत् । जिगमिषति । गमेरिति किम्? चेष्यति । इड्‌ग्रहणं नित्यार्थम् । परस्मैपदेष्विति किम्? संगंसीष्ट । संगंस्यते । संजिगंसते, संजिगंसिष्यते । अधिजिगांसते, अधिजिगांसिष्यते । गमेरिङादेशस्य अज्झनगमां सनि(6-4-16/2614) इति
दीर्घत्वम् । से इत्येव - गन्तास्मि, गन्तास्वः, गान्तास्मः । आत्मनेपदेन समानपदस्थस्य गमेरयमिडागमो नेष्यते । अन्यत्र सर्वत्रैवेष्यते । कृत्यपि हि भवति, परस्मैपदलुकि च - सञ्जिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति । पदशेषकारस्य पुनरिदं दर्शनम् - गम्युपलक्षणार्थं परस्मैपदग्रहणम् , परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात्सकारादेरार्धधातुकस्येड् भवति । तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकारणस्य - इत्येव भवितव्यम् ।।
</7-2-58>
न वृद्भ्यश्चतुर्भ्यः ।। <7-2-59> ।।
वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडागमो न भवति । वृत् - वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वृधू - वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । श्रृधु - शर्त्स्यति । अशर्त्स्यत् । शिशृत्सति । स्यन्दू - स्यन्त्स्यति । अस्यन्त्स्यत् । सिस्यन्त्स्यति । चतुर्भ्यः इति न वक्तव्यम् । वृदग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते - `कृपू समार्थ्ये(धा.पा.811) वृदिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते, न किञ्चिदनिष्टं प्राप्नोति तत्क्रियते स्यन्देरूदिल्क्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेतेति । चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः सन्निधापितो भवति । परस्मैपदेषु इत्येव । वर्तिष्यते । वर्तिषीष्ट । अवर्तिष्यत । विवर्तिषते । अत्राप्यात्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते । अन्यत्र सर्वत्र प्रतिषेधः । कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति - विवृत्सिता, विवृत्स त्वमिति ।।
</7-2-59>
तासि च क्लृपः ।। <7-2-60> ।।
कृप उत्तरस्य तासेः सकारादेश्चार्धधातुकस्य परस्मैपदेषु इडागमो न भवति । श्वः कल्प्ता । कल्प्स्यति । अकल्प्स्यत् । चिक्लृप्सति । परस्मैपदेषु इत्येव । कल्पितासे । कल्पिष्यते । कल्पिषीष्ट । अकल्पिष्यत । चिकल्पिषते । क्लृपेरप्यात्मनेपदेन समानपदस्थस्य इडागम इष्यते । अन्यत्र प्रतिषेधः । कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति - चिक्लृप्सिता, चिक्लृप्स त्वमिति ।।
</7-2-60>
अचस्तास्वत्थल्यनिटो नित्यम् ।। <7-2-61> ।।
तासौ ये नित्यानिटो धातवोऽजन्ताः तेभ्यस्तासाविव थलीडागमो न भवति । याता - ययाथ । चेता - चिचेथ । नेता - निनेथ । होता - जुहोथ । अच इति किम्? भेत्ता - बिभेदिथ । तास्वदिति किम्? लूत्वा-लुलविथ । थलिति किम्? याता - ययिव । ययिम । अनड्‌ग्रहणं नित्यमित्यनेन विशेषणार्थम् । नित्यग्रहणं किम्? विधोता, विधविता विदुधविथ । तासि विभाषितेट्, थलि नित्यमिडागमो भवति । तास्वदिति वतिनिर्द्देशः किमर्थः तासौ सतस्थलि प्रतिषेधार्थः । यो हि तासावसन्, असत्त्वाच्च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति - जघसिथ । उवयिथ । उत्तरसूत्रेऽपि तास्वत् इति वर्त्तते । अदादेशो हि घसिः, वेञादेशाश्च वयिस्तासौ नास्ति ।।
</7-2-61>
उपदेशेऽत्वतः ।। <7-2-62> ।।
उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात्तासाविवथलीडागमो न भवति । पक्ता - पपक्थ । यष्टा - इयष्ट । शक्ता - शशक्थ । उपदेशे इति किम्? कर्ष्टा - चकर्षिथ । अत्वत इति किम्? भेता - भिभेदिथ । तपरकरणं किम्? राद्धा - रराधिथ । तास्वदित्येव - जिघृक्षति । जग्रहिथ । नित्यमनिट इत्येव - अङ्क्ता , अञ्जिता - आनञ्जिथ ।।
</7-2-62>
 ऋतो भारद्वाजस्य ।। <7-2-63> ।।
ऋकारान्ताद्धातोर्भारद्वाजस्याचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति । स्मर्त्ता - सस्मर्थ । ध्वर्त्ता - दध्वर्थ । सिद्धे सत्यारम्भो नियमार्थः - ऋत एव भारद्वाजस्य, नान्येषां धातूनाम् । ययिथ । वविथ । पेचिथ । शेकिथ । तदयमर्थात्पूर्वयोर्योगयोर्विकल्पः । तपरकरणमृकारान्तस्य निवृत्त्यर्थम् । तथा हि सति
विध्यर्थमेतत्स्यात् ।।
</7-2-63>
बभूथाततन्थजगृभ्मववर्थेति निगमे ।। <7-2-64> ।।
बभूथ, आततन्थ, जगृभ्म, ववर्थ - इत्येतानि निपात्यन्ते निगमविषये । निगमः - वेदः । बभूथ - `त्वं हि होता प्रथमो बभूथ(तै.3-1-4-4) । बभूविथेति भाषायाम् । आततन्थ - `येनान्तरिक्षमुर्वाततन्थ(ऋ.3-22-2) । आतेनिथेति भाषायाम् । जगृभ्म -- `जगृभ्मा ते दक्षिणमिन्द्र हस्तम्(ऋ.10-47-1) । जगृहिमेति भाषायाम् । ववर्थ - `ववर्थ त्वं हि ज्योतिषा । ववरिथेति भाषायाम् । क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम् - निगम एव, न भाषायामिति ।।
</7-2-64>
विभाषा सृजिदृशोः ।। <7-2-65> ।।
सृजि, दृशि -- इत्येतयोस्थलि विभाषा इडागमो न भवति । सस्रष्ठ, ससर्जिथ । दद्रष्ठ, ददर्शिथ ।।
</7-2-65>
इडत्त्यर्तिव्ययतीनाम् ।। <7-2-66> ।।
अत्ति, अर्ति, व्ययति - इत्येतेषां थलीडागमो भवति । आदिथ । आरिथ । संविव्ययिथ । व्येञः न व्यो लिटि(6-1-46/2416) इत्यात्वप्रतिषेधः । अतिव्ययत्योः ऋतो भारद्वाजस्य(7-2-63/2296) इति नियमाद्विकल्पः । अर्त्तेरपि नित्यं प्रतिषेधः । अत्रेड्‌ग्रहणं विस्पष्टार्थम् । विकल्पविधाने हि सति अत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने चार्त्तिग्रहणमिति नित्योऽयं विधिरिड्‌ग्रहणमन्तरेणापि शक्यते विज्ञातुम् ।।
</7-2-66>
वस्वेकाजाद्‌घसाम् ।। <7-2-67> ।।
कृतद्विर्वचनानां धातूनामेकाचाम् आकारान्तनाम्, घसेश्च वसाविडागमो भवति । आदिवान् । आशिवान् । पेचिवान् । शेकिवान् । धात्वभ्यासयोरेकादेशे कृते एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एते एकाचो भवन्ति । आत् - ययिवान् । तस्थिवान् । घस् - जक्षिवान् । सिद्धे सत्यारम्भो नियमार्थः - एकाजाद्‌घसामेव वसाविडागमो भवति, नान्येषाम् । बिभिद्वान् । चिच्छिद्वान् । बभूवान् । शिश्रिवान् । क्रादिनियमात्, प्रतिषेधाभावाच्च य इट् प्रसक्तः स नियम्यते । आद्‌ग्रहणमनेकाज्ग्रहणार्थम् । द्विर्वचने हि कृते इटि हि सति आतो लोपेन भवितव्यम् । दरिद्रातेस्तु कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्यामा भवितव्यम् । दरिद्राञ्चकार । अथाप्याम्न क्रियते, तथापि च दरिद्रातेरार्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते इडागमस्य निमित्तं विहतमिति न इडागमो भवति , ददरिद्रवानिति भवितव्यम् । घसेरपि यदि ग्रहणमिह न क्रियते , तदा द्विर्वचनात् परत्वाद् घसिभसोर्हलि च(6-4-100/3550) इति उपधालोपे कृते द्विर्वचनमेव न स्यात् अनच्कत्वाद् । इह तु घसिग्रहणात् उपधालोपमपि परत्वादिडागमो बाधते । तत्र कृते गमहनजनखनघसाम्(6-4-98/2363) इत्युपधालोपः । स च द्विर्वचनेऽचि(1-1-59/2243) इति द्विर्वचने कर्तव्ये स्थानिवद्भवति । तेन जक्षिवान् इति सिद्ध्यति ।।
</7-2-67>
विभाषा गमहनविदविशाम् ।। <7-2-68> ।।
गम, हन, विद, विश - इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति । गम - जग्मिवान्, जगन्वान् । मो नो धातोः(8-2-64/341) इति नकारः । हन - जघ्निवान् , जघन्वान् । विद - विविदिवान्, विविद्वान् । विश-विविशिवान्, विविश्वान् । विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् । ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति ।

  • दृशेश्चेति वक्तव्यम् *(म.भा.3-301)। ददृशिवान्, ददृश्वान् ।।

</7-2-68>
सनिंससनिवांसम् ।। <7-2-69> ।।
सनोतेः , सनतेर्वा धातोः सनिंससनिवांसम् इति निपात्यते। `अञ्चित्वाग्ने सनिंससनिवांसम्(आ.श्रौ.1-3-4-16) । इडागम एत्वाभ्यासलोपाभावश्च निपात्यते । सनिङ्पूर्वादन्यत्र सेनिवांसमित्येव भवति । छन्दसीदं निपातनं विज्ञायते । भाषायां सेनिवांसमिति भवति ।।
</7-2-69>
ऋद्धनोः स्ये ।। <7-2-70> ।।
ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति । करिष्यति । हनिष्यति । हरिष्यति । स्वरतेर्वेट्‌त्वाद्, ऋद्धनोः स्ये इत्येतद्भवति विप्रतिषेधेन - स्वरिष्यति । तपरकरणं विस्पष्टार्थम् ।।
</7-2-70>
अञ्जेः सिचि ।। <7-2-71> ।।
अञ्जेः सिचि इडागमो भवति । आञ्जीत्, आञ्जिष्टाम्, आञ्जिषुः । सिचीति किम्? अङ्‌क्ता, अञ्जिता। ऊदित्वाद् विभाषा भवति ।।
</7-2-71>
स्तुसुधूञ्भ्यः परस्मैपदेषु ।। <7-2-72> ।।
स्तु, सु , धूञ् - इत्येतेभ्यः सिचि परस्मैपदे परत इडागमो भवति । अस्तावीत् । असावीत् । अधावीत् । परस्मैपदेष्विति किम्? अस्तोष्ट । असोष्ट । अधोष्ट, अधविष्ट ।।
</7-2-72>
यमरमनमातां सक्च ।। <7-2-73> ।।
यम, रम, नम - इत्येतेषामङ्गानाम्, आकारान्तानां च सगागमो भवति परस्मैपदे सिचि , इडागमश्च । यम - अयंसीत्, अयंसिष्टाम्, अयंसिषुः । रम- व्यरंसीत्, व्यरंसिष्टाम्, व्यरंसिषुः । नम - अनंसीत्, अनंसिष्टाम्, अनंसिषुः । आकारान्तानाम् - अयासीत्, अयासिष्टाम्, अयासिषुः । यमादीनां हलन्तलक्षणा वृद्धिः प्राप्ता सा नेटि(7-2-4/2268) इति प्रतिषिध्यते । परस्मैपदेष्वित्येव - अयंस्त, अरंस्त, अनंस्त ।।
</7-2-73>
स्मिपूङ्‌रञ्ज्वशां सनि ।। <7-2-74> ।।
स्मिङ्, पूङ् , ऋ , अञ्जू, अशू - इत्येतेषां धातूनां सनीडागमो भवति । सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषते । ङकारग्रहणं पूञो मा भूत् । पुपूषति इत्येव तस्य भवति । अशेरूदितो ग्रहणादश्नोतेर्नित्यमिडागमोऽस्त्येव ।।
</7-2-74>
किरश्च पञ्चभ्यः ।। <7-2-75> ।।
किरादिभ्यः पञ्चभ्यस्सनि इडागमो भवति । कृ - चिकरिषति । गृ-जिगरिषति । दृङ् - दिदरिषते । धृङ् - दिधरिषते । प्रच्छ - पिप्रच्छिषति । पञ्चभ्य इति किम्? सिसृक्षति । किरतिगिरत्योः इट् सनि वा (7-2-41/2625) इति विकल्पः प्राप्तः, वॄतो वा(7-2-38/2391) इति च । अस्येटो दीर्घत्वं नेच्छन्ति ।।
</7-2-75>
रुदादिभ्यः सार्वधातुके ।। <7-2-76> ।।
रुदादिभ्य उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति । रुद् - रोदिति । स्वप् - स्वपिति । श्वस् - श्वसिति । अन् - प्राणिति । जक्ष् - जक्षिति । पञ्चभ्यः इत्येव - जागर्ति । सार्वधातुक इति किम्? स्वप्ता । वलादेः इत्येव - रुदन्ति ।।
</7-2-76>
ईशः से ।। <7-2-77> ।।
ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति । ईशिषे । इशिष्व ।।
</7-2-77>
ईडजनोर्ध्वे च ।। <7-2-78> ।।
ईड, जन - इत्येताभ्यामुत्तरस्य ध्वे इत्येतस्य, से इत्येतस्य च सार्वधातुकस्य इडागमो भवति । ईडिध्वे । ईडिध्वम् । ईडिषे । ईडिष्व । जनिध्वे । जनिध्वम् । जनिषे । जनिष्व । जनी प्रादुर्भावे - इत्येतस्य छान्दसत्वात् श्यनो लुक्, उपधालोपाभावश्च । `जन जनने(धा.पा.1105) - इत्येतस्यापि श्लुविकरणस्य ग्रहणमत्रेष्यते । तस्य कर्मव्यतिहारे - व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् - इति च भवति । ध्वेशब्दे ईशेरपि इडागम इष्यते । ईषिध्वे, ईषिध्वमिति । तदर्थं केचित् - `ईडिजनोः स्ध्वे च इति सूत्रं पठन्ति । तत्र सकारादेः सेशब्दस्य सूत्र एवोपादानाच्चशब्दो भिन्नक्रम ईशेरनुकर्षणार्थो विज्ञायते । `ईशीडिजनां सेध्वयोः इत्येकमेव सूत्रं न पठितम् विचित्रा हि सूत्रस्य कृतिः पाणिनेरिति । ध्वे इति कृतटेरेत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा लोटि पुनरेकदेशविकृतस्यानन्यत्वाद् भवतिव्यमिटा ।।
</7-2-78>
लिङः सलोपोऽनन्त्यस्य ।। <7-2-79> ।।
सार्वधातुके इति वर्त्तते । सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति । कः पुनरनन्त्यो लिङः सकारः यो यासुट् - सुट् - सीयुटाम् । कुर्यात् , कुर्याताम्, कुर्युः । कुर्वीत, कुर्वीयाताम्, कुर्वीरन् । अनन्त्यस्येति किम्? कुर्युः, कुर्याः । सार्वधातुके इत्येव - क्रियास्ताम्, क्रियासुः । कृषीष्ट, कृषीयास्ताम्, कृषीरन्।।
</7-2-79>
अतो येयः ।। <7-2-80> ।।
अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इय् इत्ययमादेशो भवित । पचेत्, पचेताम्, पचेयुरिति । अत्र उस्यपदान्तात्(6-1-96/1214) इति पररुपं बाधितम् । अत इति किम्? चिनुयात् । सुनुयात् । तपरकरणं किम्? यायात् । सार्वधातुक इत्येव - चिकीर्ष्यात् । ननु च अतो लोपः(6-4-48/2308)इत्यनेनात्र भवितव्यम्, पचेदित्यत्रापि हि तर्हि अतो दीर्घो यञि(7-3-101/2170) इति दीर्घत्वेन भवितव्यम्, तदनेनावश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधकः, एवमतो लोपस्यापि बाधकः स्यात्, स्यादेतदेवम्, यदि दीर्घः सार्वधातुके विधीयते । अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यात्, न पुनरतो लोपस्य । येयः इत्यविभक्तिको निर्द्देशः । यः इति वा षष्ठीनिर्देशे यलोपस्यासिद्धत्वमनाश्रित्य आद्‌गुणः(6-1-87/69) कृतः, सौत्रत्वान्निर्द्देशस्येति । केचिद् अत्र - `अतो यासियः - इति सूत्रं पठन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च ।।
</7-2-80>
आतो ङितः ।। <7-2-81> ।।
आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इय् इत्ययमादेशो भवति । पचेते , पचेथे । पचेताम्, पचेथाम् । यजेते, यजेथे । यजेताम् , यजेथाम् । सार्वधातुकमपित्(1-2-4/2234) इत्यत्र न ङितीव ङिद्वदित्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वदिति । पूर्वसूत्रे एव उच्चुकुटिषतीति प्रसिद्धये तथाङ्गीकरणम् । यदि गाङ्कटादिसूत्रे(1-2-1/2461) ङित इव ङिद्वद्भवतीत्येवमङगीक्रियते , तदा अनुदात्तङित आत्मनेपदम्(1-3-12/2157) इति आत्मनेपदं प्राप्नोतीति । आत इति किम्? पचन्ति , यजन्ति। पचन्ते, यजन्ते । ङित इति किम्? पचावहै, पचामहै । अत इत्येव - चिन्वाते, सुन्वाते । तपरकरणं किम्? मिमाते । मिमाथे ।।
</7-2-81>
आने मुक् ।। <7-2-82> ।।
आने परतोऽङ्गस्यातो मुगागमो भवति । पचमानः, यजमानः । अकारमात्रभक्तोऽयं मुक् अदुपदेशग्रहणेन गृह्यते इति अदुपदे शात् इति लसार्वधातुकानुदात्तत्वं भवति । यद्येवम्, आतो ङितः(7-2-81/2235) इत्ययमपि विधिः प्राप्नोति तपरनिर्देशान्न भविष्यति । मुकि सत्यध्यर्धमात्रो भवति । लसार्वधातुकानुदात्तत्वमपि तर्हि न प्राप्नोति नैष दोषः, उपदेशग्रहणं तत्र क्रियते । तेन उपदेशादूर्ध्वं सत्यपि कालभेदे भवितव्यम् । तथा च -
पचावः, पचाम इत्यत्रापि भवति ।।
</7-2-82>
ईदासः ।। <7-2-83> ।।
आस उत्तरस्यानशब्दस्य ईकारादेशो भवति । आसीनो यजते । अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते ।।
</7-2-83>
अष्टन आ विभक्तौ ।। <7-2-84> ।।
अष्टनो विभक्तौ परत आकारादेशो भवति । अष्टाभिः । अष्टाभ्यः । अष्टानाम् । अष्टासु । विभक्ताविति किम्? अष्टत्वम् । अष्टता । आ इति व्यक्तिनिर्द्देशोऽयम्, आकृतिनिर्द्देशे तु नकारस्थानेऽनुनासिकाकारः स्यात् । विकल्पेनायमाकारो भवति, एतज्ज्ञापितम् - अष्टनो दीर्घात्(6-1-172/3718) इति दीर्घग्रहणात्, अष्टाभ्य औश्(7-1-21/372) इति च कृतात्वस्य निर्द्देशात् । तेनाष्टभिः, अष्टभ्य इत्यपि भवति । तदन्तविधिश्चात्रेष्यते - प्रिया अष्टौ येषां ते प्रियाष्टानः । प्रियाष्टौ ।।
</7-2-84>
रायो हलि ।। <7-2-85> ।।
रै इत्येतस्य हलादौ विभक्तौ परत आकारादेशो भवति । राभ्याम् । राभिः । हलीति किम्? रायौ, रायः । विभक्ताविति किम्? रैत्वम्, रैता । मृजेर्वृद्धिः(7-2-114/2473) इत्यतः प्राग्विभक्त्यधिकारः ।।
</7-2-85>
युष्मदस्मदोरनादेशे ।। <7-2-86> ।।
युष्यदस्मदित्येतयोरनादेशो विभक्तौ परत आकारादेशो भवति । युष्माभिः । अस्माभिः । युष्मासु । अस्मासु । अनादेश इति किम्? युष्मत् । अस्मत् । हलि इत्यधिकारादप्यत्र न स्यात्, उत्तरत्र त्वनादेशग्रहणेन प्रयोजनम् - योऽचि(7-2-89/392) इति, तदिहैव क्रियते ।।
</7-2-86>
द्वितीयायां च ।। <7-2-87> ।।
द्वितीयायां च परतो युष्मदस्मदोराकारादेशो भवति । त्वाम्, माम् । युवाम्, आवाम् । युष्मान्, अस्मान् । आदेशार्थं वचनम् ।।
</7-2-87>
प्रथमायाश्च द्विवचने भाषायाम् ।। <7-2-88> ।।
प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोराकारादेशो भवति । युवाम्, आवाम् । प्रथमाया इति किम्? युवयोः, आवयोः । द्विवचन इति किम्? त्वम्, अहम् । यूयम्, वयम् । भाषायामिति किम्? `युवं वस्त्राणि पीवसा वसाथे(ऋ.1-152-1) ।।
</7-2-88>
योऽचि ।। <7-2-89> ।।
अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति । त्वया, मया । त्वयि, मयि । युवयोः , आवयोः । अचीति किम्? युवाभ्याम्, आवाभ्याम् । युष्मदस्मदोरनादेशे(7-2-86/396) इत्यत्र यदि हलि(7-2-85/286) इत्यनुवर्त्तते, शक्यमकर्तुम् अचि इत्येतत्? तत्क्रियते विस्पष्टार्थम् । अनादेश इत्येव - त्वद् गच्छति । मद् गच्छति ।।
</7-2-89>
शेषे लोपः ।। <7-2-90> ।।
शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति । कश्च शेषः यत्राकारो यकारश्च न विहितः ।
पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि ।
यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ।।
त्वम्, अहम् । यूयम्, वयम्। तुभ्यम्, मह्यम्। युष्मभ्यम्, अस्मभ्यम् । त्वत्, मत्। युष्मत्, अस्मत्। तव, मम। युष्माकम्, अस्माकम् ।
शेषग्रहणं विस्पष्टार्थम् । शेषे लोपे कृते स्त्रियां टाप् कस्मान्न भवति - त्वं ब्राह्मणी, अहं ब्राह्मणी? `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) । अलिङ्गे वा युष्मदस्मदी इति । केचित्तु शेषेलोपं टिलोपमिच्छन्ति । कथम्? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद् योऽन्यः स शेष इति, तत्रायं लोप इति टिलोपो भवति ।।

</7-2-90>
मपर्यन्तस्य ।। <7-2-91> ।।
मपर्यन्तस्य इत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः मपर्यन्तस्य इत्येवं तद्वेदितव्यम् । वक्ष्यति - युवावौ द्विवचने(7-2-92/386) । युवाम्, आवाम् । मपर्यन्तस्येति किम्? युवकामावकामिति साकच्कस्य मा भूत् । त्वमावेकवचने(7-2-97/389) । त्वया । मया । मपर्यन्तस्येति किम्? साकच्कस्य सर्वस्य मा भूत् । तथा च सति त्वमयोरकारस्य योऽचि(7-2-89/392) इति यकारे कृतेऽनिष्टं रूपं स्यात् । मान्तस्येत्येव सिद्धे, अस्मिन् यत्परिग्रहणं कृतम्, अवधिद्योतनार्थं तत्, मान्ते मा भूत् । कदा? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः । स्थानिवत्त्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते ।।
</7-2-91>
युवावौ द्विवचने ।। <7-2-92> ।।
द्विवचने इत्यर्थग्रहणम् । द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने युव, आव - इत्येतावादेशौ भवतः । युवाम्, आवाम्। युवाभ्याम्, आवाभ्याम्। युवयोः, आवयोः । यदा समासे द्व्यर्थे युष्मदस्मदी भवतः , समासार्थस्यान्यसंख्यत्वादेकवचनं बहुवचनं वा भवति, तदापि द्व्यर्थयोर्युष्मदस्मदोर्युवावौ भवतः, यदि त्वाहौ सौ(7-2-94/384) इत्येवमादिना आदेशान्तरेण न बाध्येते । अतिक्रान्तं युवाम् अतियुवाम्, अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्, अत्यावान् । अतिक्रान्तेन युवाम् अतियुवया, अत्यावया । अतिक्रान्तैर्युवाम् अतियुवाभिः, अत्यावाभिः । अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्, अत्यावभ्यम् । अतिक्रान्ताद् युवाम् अतियुवत्, अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्, अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम् , अत्यावाकम् । अतिक्रान्ते युवाम् अतियुवयि, अत्यावयि । अतिक्रान्तेषु युवाम् अतियुवासु, अत्यावासु । त्वाहादीनां तु विषये परत्वात्त एव भवन्ति - अतिक्रान्तो युवाम् अतित्वम्, अत्यहम् । अतिक्रान्ता युवाम् अतियूयम्, अतिवयम् । अतिक्रान्ताय युवाम् अतितुभ्यम्, अतिमह्यम् । अतिक्रान्तस्य युवाम् अतितव, अतिमम । यदा तु यष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः । अतिक्रान्तौ त्वाम्, अतित्वाम्, अतिमाम् । अतिक्रान्तौ युष्मान् अतियुष्मान्, अत्यस्मान्। एवमुन्नेयम् ।।
</7-2-92>
यूयवयौ जसि ।। <7-2-93> ।।
युष्मदस्मदोर्मपर्यन्तस्य जसि परतो यूय, वय - इत्येतावादेशौ भवतः । यूयम्, वयम् । परमयूयम्, परमवयम् । अतियूयम्, अतिवयम् । तदन्तविधिरत्र भवति, `अङ्गाधिकारे तस्य च तदुत्तरपदस्य च(सीर.प.77) इति ।
</7-2-93>
त्वाहौ सौ ।। <<7-2-94>> ।।
युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व, अह - इत्येतावादेशौ भवतः । त्वम्, अहम् । परमत्वम्, परमाहम् । अतित्वम्, अत्यहम् ।।
</7-2-94>
तुभ्यमह्यौ ङयि ।। <7-2-95> ।।
युष्मदस्मदोर्मपर्यन्तस्य तुभ्य, मह्य - इत्येतावादेशौ भवतो ङयि परतः । तुभ्यम्, मह्यम् । परमतुभ्यम् ,
परममह्मयम् । अतितुभ्यम्, अतिमह्यम् ।।
</7-2-95>
तवममौ ङसि ।। <7-2-96> ।।
युष्मदस्मदोर्मपर्यन्तस्य तव, मम - इत्येतावादेशौ भवतो ङसि परतः । तव, मम । परमतव, परममम। अतितव, अतिमम ।।
</7-2-96>
त्वमावेकवचने ।। <7-2-97> ।।
एकवचने इत्यर्थनिर्देशः । एकवचने ये युष्मदस्मदी एकार्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व, म - इत्येतावादेशौ भवतः । त्वाम्, माम् । त्वया, मया । त्वत्, मत् । त्वयि , मयि । यदा समासे एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वाद् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः । आदेशान्तराणां तु त्वाहौ सौ(7-2-94/384) - इत्येवमादीनां विषये पुर्वविप्रतिषेधेन ते एवेष्यन्ते । अतिक्रान्तस्त्वामतित्वम्, अत्यहम्। अतिक्रान्तौ त्वाम् अतित्वाम्, अतिमाम्। अतिक्रान्तान् त्वाम् अतित्वान् ,अतिमान्। अतिक्रान्ताभ्यां त्वाम् अतित्वाभ्याम्, अतिमाभ्याम् । अति क्रान्तैस्त्वाम् अतित्वाभिः, अतिमाभिरिति । एवमाद्युदाहर्तव्यम् ।।
</7-2-97>
प्रत्ययोत्तरपदयोश्च ।। <7-2-98> ।।
एकवचने इत्यनुवर्तते । प्रत्यये उतरपदे च परत एकवचने वर्तमानयोर्युष्मदस्मदोर्मपर्यन्तस्य त्व, म - इत्येतावादेशौ भवतः । तवायं त्वदीयः, मदीयः । अतिशयेन त्वं त्वत्तरः, मत्तरः । त्वामिच्छति त्वद्यति, मद्यति । त्वमिवाचारति त्वद्यते, मद्यते । उत्तरपदे - तव पुत्रः त्वत्पुत्रः मम पुत्रो मत्पुत्रः । त्वं नाथोऽस्य त्वन्नाथः, अहं नाथोऽस्य मन्नाथः । एकवचन इत्येव - युष्माकमिदं युष्मदीयम्, अस्मदीयम् । युष्माकं पुत्रोऽस्माकं पुत्रो युष्मत्पुत्रः, अस्मत्पुत्रः । विभक्तौ इत्यधिकारात् पूर्वयोगो विभक्तावेव । ततोऽन्यत्रापि प्रत्यये उत्तरपदे च यथा स्यादित्ययमारम्भः ।
ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेवादेशौ भविष्यतः? नैवं शक्यम्, लुका तस्या भवितव्यम् । बहिरङ्गो लुक् अन्तरङ्गावादेशौ प्रथमं तौ भवतिष्यः एतदेव तर्ह्यादेशवचनं ज्ञापकम् - अन्तरङ्गानपि विधीन्बहिरङ्गोऽपि लुग्बाधते इति । तेन गोमान्प्रियोऽस्य गोमत्प्रिय इत्येवमादौ नुमादि लुका बाध्यते । एवं च सति त्वाहौ सौ(7-2-94/384) इत्येवमादयोऽपि प्रत्ययोत्तरपदयोरादेशा न भवन्ति । त्वं प्रधानमेषां त्वत्प्रधनाः, मत्प्रधानाः । यूयं पुत्रा अस्य युष्मत्पुत्रः, अस्मत्पुत्रः। तुभ्यं हितं त्वद्धितम्, मद्धितम् । तव पुत्रस्त्वत्पुत्रः मत्पुत्रः । अथ किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायते? लक्ष्यस्थित्यपेक्षया । ज्ञापकार्थे ह्येतस्मिन् बहुतरमिष्टं संगृह्यते ।।
</7-2-98>
त्रिचतुरोः स्त्रियां तिसृचतसृ ।। <7-2-99> ।।
त्रि, चतुर् - इत्येतयोः स्त्रियां वर्तमानयोस्तिसृ, चतसृ - इत्येतावादेशौ भवतो विभक्तौ परतः । तिस्रः । चतस्रः । तिसृभिः । चतसृभिः । स्त्रियामिति किम्? त्रयः । चत्वारः। त्रीणि । चत्वारि । स्त्रियामिति चैतत् त्रिचतुरोरेव विशेषणम्, नाङ्गस्य । तेन यदा त्रिचतुः शब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदाप्यादेशौ भवत एव - प्रियास्तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मण इति । प्रियतिस्रौ, प्रियतिस्रः । प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसॄणि । प्रियचतसा, प्रियचतस्रौ , प्रियचतस्रः । प्रियचतसृ, प्रियचतसृणी, प्रियचतसॄणि । नद्यृतश्च(5-4-153/833) इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात् । यदा च त्रिचतुः शब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदा आदेशौ न भवतः - प्रियास्त्रयोऽस्याः , प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः सा प्रियत्रिः, प्रियत्री, प्रियत्रयः । प्रियचत्वाः , प्रियचत्वारौ, प्रियचत्वारः ।

  • तिसृभावे संज्ञायां कन्युपसंख्यानं कर्त्तव्यम् *(म.भा.3-307)। तिसृका नाम ग्रामः ।
  • चतसर्याद्युदात्तनिपातनं कर्त्तव्यम् *(म.भा.3-307)। चतस्रः पश्येत्यत्र चतुरः शसि(6-1-137/3682) इत्येष स्वरो मा भूत् । चतसृणामित्यत्र तु षट्‌त्रिचतुर्भ्यो हलादिः(6-1-179/3725) इत्येव स्वरो भवति । हलादिग्रहणसामर्थ्यान्निपातनस्वरो बाध्यते ।।

</7-2-99>
अचि र ऋतः ।। <7-2-100> ।।
तिसृ, चतसृ - इत्येतयोर्ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः । तिस्रस्तिष्ठन्ति, तिस्रः पश्य । चतस्रस्तिष्ठन्ति, चतस्रः पश्य । प्रियतिस्र आनय, प्रियचतस्र आनय । प्रियतिस्रः स्वम्, प्रियचतस्रः स्वम् । प्रियतिस्रि निधेहि, प्रियचतस्रि निधेहि । पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः । परमपि हि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते । अचीति किम्? तिसृभिः । चतसृभिः । ऋतः इति किम्? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादस्त्रिचतुरोरेवायमादेशो विज्ञायेत ।।
</7-2-100>
जराया जरसन्यतरस्याम् ।। <7-2-101> ।।
जरा - इत्येतस्य जरस् - इत्ययमादेशो भवति अन्यतरस्यामजादौ विभक्तौ परतः । जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते । जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः । अचि इत्येव - जराभ्याम्, जराभिः । नुमो विधानात् जरसादेशो विप्रतिषेधेन । अतिजरांसि ब्राह्मणकुलानि । इहातिजरसं ब्राह्मणकुलं पश्येति लुग्न भवति, आनुपूर्व्या सिद्धत्वात् । अतिजर - अमिति स्थिते लुक्, अम्भावः, जरस्भावः - इति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति। तत्र लुक् तावदपवादत्वाद् अम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन । न च पुनर्लुक्शास्त्रं प्रवर्त्तते, भ्रष्टावसरत्वादिति एवमेव भवति - अतिजरसं ब्राह्मणकुलं पश्येति । प्रथमैकवचने तृतीयाबहुवचने च अतिजरं ब्राह्मणकुलं तिष्ठति,अतिजरैरिति च भवितव्यमिति गोनर्दीयमतेन (म.भा.3-309)। किं कारणम्? `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति । अन्ये तु - अनित्यत्वादस्याः परिभाषाया अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैरित्येवं भवितव्यमिति मन्यन्ते ।।
</7-2-101>
त्यदादीनामः ।। <7-2-102> ।।
त्यत् इत्येवमादीनामकारादेशो भवति विभक्तौ परतः । त्यद्-स्यः, त्यौ, त्ये । तद् - सः, तौ, ते । यद् - यः , यौ, ये । एतद् - एषः , एतौ, एते । इदम् - अयम्, इमौ, इमे । अदस् - असौ, अमू, अमी । द्वि - द्वौ , द्वाभ्याम् । द्विपर्यन्तानां त्यदादीनामत्वमिष्यते (म.भा.3-309)। इह न भवति - भवत् - भवान् । संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ता इतीह न भवति - त्यद् , त्यदौ, त्यदः । अतित्यद्, अतित्यदौ, अतित्यदः । त्यदादिप्रधाने तु शब्दे भवत्येव - परमसः, परमतौ, परमते ।।
</7-2-102>
किमः कः ।। <7-2-103> ।।
किम् - इत्येतस्य क - इत्ययमादेशो भवति विभक्तौ परतः। कः, कौ, के । साकच्कस्याप्ययमादेशो भवति, तेनाकार एव किमो न विधीयते किमोऽत्(5-3-12/1959) इति ।।
</7-2-103>
कु तिहोः ।। <7-2-104> ।।
तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति । कुतः । कुत्र । कुह । तिहौः इतीकार उच्चारणार्थः ।।
</7-2-104>
क्वाति ।। <7-2-105> ।।
 अति इत्येतस्यां विभक्तौ परतः किमित्येतस्य क्व - इत्ययमादेशो भवति । क्व गमिष्यसि । क्व भोक्ष्यते । आदेशान्तरवचनमोर्गुण(6-4-146/847)निवृत्त्यर्थम् । किमो ड्‌वत् इति प्रत्ययान्तरं न विधीयते, साकच्कार्थम् ।।
</7-2-105>
तदोः सः सावनन्त्ययोः ।। <7-2-106> ।।
त्यदादीनां तकारदकारयोरनन्त्ययोः सकारादेशो भवति सौ परतः । त्यद् - स्यः । तद् - सः । एतद् - एषः । अदस् - असौ । अनन्त्ययोरिति किम्? हे स । सा ।।
</7-2-106>
अदस औ सुलोपश्च ।। <7-2-107> ।।
 अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति । असौ ।

  • औत्वप्रतिषेधः साकच्काद्वा वक्तव्यः सादुत्वं च *(म.भा.3-312)। यदा चौत्वप्रतिषेधः, तदा सकारादुत्तरस्य उत्वं भवति । असुकः, असुकौ ।
  • उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः *(म.भा.3-312)। परमाहम् । परमायम् । परमानेन ।

अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते।
ह्रस्वाल्लुप्येत सम्बुद्धिर्न हलः प्रकृतं हि तत् ।।
आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् ।
प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते ।।
</7-2-107>
इदमो मः ।। <7-2-108> ।।
इदमः सौ परतो मकारोऽन्तादेशो भवति । इयम् । अयम् । इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ।।
</7-2-108>
दश्च ।। <7-2-109> ।।
इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः । इमौ, इमे। इमम्, इमौ, इमान् ।।
</7-2-109>
यः सौ ।। <7-2-110> ।।
इदमो मकारस्य यकारादेशो भवति सौ परतः । इयम् । उत्तरसूत्रे पुंसि इति वचनात्स्त्रियामयं यकारः ।।
</7-2-110>
इदोऽय् पुंसि ।। <7-2-111> ।।
इदम इद्रूपस्य पुंसि सौ परतः अय् इत्ययमादेशो भवति । अयं ब्राह्मणः । पुंसीति किम्? इयं ब्राह्मणी ।।
</7-2-111>
अनाप्यकः ।। <7-2-112> ।।
इदमोऽककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः । अनेन । अनयोः । अक इति किम्? इमकेन । इमकयोः । आपि इति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण ।।
</7-2-112>
हलि लोपः ।। <7-2-113> ।।
हलादौ विभक्तौ परत इदमोऽककारस्य इद्रूपस्य लोपो भवति । आभ्याम्, एभिः । एभ्यः । एषाम् । एषु । `नानर्थकेऽलोन्त्यविधिः(व्या.प.62) इति सर्वस्यायमिद्रूपस्य लोपः । अथवा - नायमिल्लोपः । अनाप्यकः(7-2-112/346) इति अन्ग्रहणमनुवर्त्तते ।।
</7-2-113>
मृजेर्वृद्धिः ।। <7-2-114> ।।
विभक्तौ इति निवृत्तम् । मृजेरङ्गस्य इको वृद्धिर्भवति । मार्ष्टा, मार्ष्टुम्, मार्ष्टव्यम् । मृजेरिति धातुग्रहणमिदम् , धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम् । तेन कंसपरिमृड्‌भ्याम्, कंसपरिमृड्भिरित्यत्र न भवति ।।
</7-2-114>
 अचो ञ्णिति ।। <7-2-115> ।।
अजन्तस्याङ्गसाय ञिति णिति च वृद्धिर्भवति । ञिति - एकस्तण्डुलनिश्चायः । द्वौ शूर्वनिष्पावौ । कारः । हारः । णिति - गौः, गावौ, गावः। सखायौ, सखायः । जैत्रम् । यौत्रम् । च्यौत्नः । जयतेः, यौतेश्च उणादयो बहुलम्(3-3-1/3139) इति ष्ट्रन् प्रत्ययः । च्यवतेरपि त्नण् ।।
</7-2-115>
अत उपधायाः ।। <7-2-116> ।।
अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति । पाकः, त्यागः, यागः । पाचयति, पाचकः । पाठयति , पाठकः । अत इति किम्? भेदयति, भेदकः । उपधाया इति किम्? चकासयति, तक्षकः ।।
</7-2-116>
तद्धितेष्वचामादेः ।। <7-2-117> ।।
तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति । गार्ग्यः । वात्स्यः । दाक्षिः । प्लाक्षिः । णिति - औपगवः । कापटवः । त्वाष्ट्रः, जागत इत्यत्राचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते ।।
</7-2-117>
किति च ।। <7-2-118> ।।
किति च तद्धिते परतोऽङ्गस्याचामादेरचः स्थाने वृद्धिर्भवति । नडादिभ्यः फक्(4-1-99/1171) - नाडायनः , चारायणः । प्राग्वहतेष्ठक्(4-4-1/1548) - आक्षिकः , शालाकिकः ।।
           इत्युपाध्यायश्रीवामनकृतायां काशिकावृत्तौ
              सप्तमाध्यायस्य द्वितीयः पादः ।
</7-2-118>