काशिका/सप्तमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः



अथ सप्तमाध्याये तृतीयः पादः

देविकाशिंशपादित्यवाड्‌दीर्घसत्त्रश्रेयसामात् ।। <7-3-1> ।।
देविका, शिंशपा, दित्यवाट्‌, दीर्घसत्त्र, श्रेयस्‌---इत्येतेषामङ्गानामचामादेरचः स्थाने वृद्धिप्रसङ्गे आकारो भवति ञिति, णिति, किति तद्धिते परतः । देविकायां भवमुदकं दाविकमुदकम् । देविकाकूले भवाः शालयो दाविकाकूलाः शालयः । पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः । प्राचां ग्रामनगराणाम्(7-3-14/1400) इत्युत्तरपदवृद्धिः, साप्याकार एव भवति ।
शिंशपा--शिंशपाया विकारश्चमसः शांशपश्चमसः । पलाशादिरयम्, तेन पक्षे अण्‌, अनुदात्तादिलक्षणो वा अञ्‌ । शिंशपास्थले भवाः शांशपास्थलाः । पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः ।
दित्यवाट्‌---दित्यौह इदं दात्यौहम् । दीर्घसत्त्रे भवं दार्घसत्त्रम् । श्रेयस्‌---श्रेयसि भवं श्रायसम् ।

  • वहीनरस्येद्वचनं कर्तव्यम् * (म.भा.3-317)। वृद्धिविषयेऽचामादेरचः स्थाने वहीनरस्य इकारादेशो भवति । वहीनरस्यापत्यं वैहीनरिः । केचित्तु विहीनरस्यैव वैहीनरिमिच्छन्ति ।।

</7-3-1>
केकयमित्रयुप्रलयानां यादेरियः ।। <7-3-2> ।।
केकय, मित्रयु, प्रलय---इत्येतेषां यकारादेः `इय---इत्ययमादेशो भवति तद्धिते ञिति, णिति, किति च परतः । केकयस्यापत्यं कैकेयः । जनपदशब्दात्क्षत्त्रियादञ्‌(4-1-168/1186) इत्यञ्प्रत्ययः ।
मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते । गोत्रचरणाच्छ्‌लाघात्याकारतदवेतेषु(5-1-134/1799) इति वुञ्‌ । लौकिकं हि तत्र गोत्रं गृह्यते । लोके च ऋषिशब्दः `गोत्रम् इत्यभिधीयते ।
प्रलय---प्रलयादागतं प्रालेयमुदकम् ।।
</7-3-2>
न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्‌ ।। <7-3-3> ।।
यकारवकारभ्यामुत्तरस्य अचामादेरचः स्थाने वृद्धिर्न भवति; ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतो ञिति, णिति, किति च तद्धिते परतः । यकारादैकारः, वकारादौकारः । व्यसने भवं वैयसनम् । व्याकरणमधीते वैयाकरणः । स्वश्वस्यापत्यं सौवश्वः ।
य्वाभ्यामिति किम् ? न्रर्थस्यापत्यं न्रार्थिः । पदान्ताभ्यामिति किम् ? यष्टिः प्रहरणमस्य याष्टीकः । यत इमे छात्त्रा याताः (म.भा.3-318)।
प्रतिषेधवचनमैचोर्विषयप्रक्लृप्त्यर्थम् । इह मा भूद्‌---दाध्यश्विः, माध्वश्विरिति, न ह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति । वृद्धेरभावात् प्रतिषेधोऽपि नास्तीत्यप्रसङ्गः ।
उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते । पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः । यत्र तूत्तरपदसम्बन्धी यण्न भवति तत्र नेष्यते प्रतिषेधः---द्वे अशीति भृतो भूतो भावी वा द्व्याशीतिकः ।।
</7-3-3>
द्वारादीनां च ।। <7-3-4> ।।
`द्वार---इत्येवमादीनां य्वाभ्याम् उत्तपदस्याचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्यामैजागमौ भवतः । द्वारे नियुक्तो दौवारिकः । द्वारपालस्येदं दौवारपालम् । तदादिविधिश्चात्र भवति । स्वर---स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । सौवरोऽध्यायः । सौवर्यः सप्तम्य इति । व्यल्कश---व्यल्कशे भवः वैयल्कशः । स्वति---स्वस्तीत्याह सौवस्तिकः । स्वर्‌---स्वर्भवः सौवः ।

  • अव्ययानां भमात्रे टिलोपः * । स्वर्गमनमाह सौवर्गमिकः ।

स्वाध्याय इति केचित्पठन्ति, तदनर्थकम् । शोभनोऽध्याय इत्येतस्यां व्युत्पत्तौ तु पूर्वेणैव सिद्धम् । अथाप्येवं
प्युत्पत्तिः क्रियते---स्वोऽध्यायः स्वाध्याय इति ? एवमप्यत्रैव स्वशब्दस्यैव पाठात्सिद्धम् । तदादावपि हि वृद्धिरियं भवत्येव ।
स्फ्यकृत---स्फ्यकृतस्यापत्यं स्फैयकृतः । स्वादुमृदुन इदं सौवादुमृदवम् ।
श्वन्‌---शुन इदं शौवनम् । अणि अन्‌(6-4-167/1155) इति प्रकृतिभावः । शुनो विकारो मांसं शौवम् । प्राणिरजतादिभ्योऽञ्‌(4-3-154/1532) इत्यञ्‌ । श्वादंष्ट्रायां भवः शौवादंष्ट्रो मणिः । स्वस्येदं सौवम् । स्वग्रामे भवः सौवग्रामिकः । अध्यात्मादित्वाट्ठञ्‌ (वा.456)। अपदान्तार्थोऽयमारम्भः ।
द्वार । स्वर । स्वाध्याय । व्यल्कश । स्वस्ति । स्वर्‌ । स्फ्यकृत । स्वादुमृदु । श्वन् । स्व । द्वारादिः ।।
</7-3-4>
न्यग्रोधस्य च केवलस्य ।। <7-3-5> ।।
न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति, तस्माच्च पूर्वमैकार आगमो भवति । न्यग्रोधस्य विकारो नैयग्रोधश्चमसः ।
केवलस्येति किम् ? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूला शालयः । `न्यग्रोहयतीति न्यग्रोधः---इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम् ।।
</7-3-5>
न कर्मव्यतिहारे ।। <7-3-6> ।।
कर्मव्यतिहारे यदुक्तं तन्न भवति । प्रतिषेधागमयोरयं प्रतिषेधः । व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्त्तते । कर्मव्यतिहारे णच्‌ स्त्रियाम्(3-3-43/3215) इति णच्‌ प्रत्ययः, तदन्तात् णचः स्त्रियामञ्‌(5-4-14/3216) ।।
</7-3-6>
स्वागतादीनां च ।। <7-3-7> ।।
`स्वागत---इत्येवमादीनां यदुक्तं तन्न भवति । स्वागतमित्याह स्वागतिकः । स्वध्वरेण चरति स्वाध्वरिकः । स्वङ्गस्यापत्यं स्वाङ्गिः । व्यङ्गस्यापत्यं व्याङ्गिः । व्यडस्यापत्यं व्याडिः । व्यवहारेण चरति व्यावहारिकः । व्यवहारशब्दोऽयं लौकिके वृत्ते वर्त्तते, न तु कर्मव्यतिहारे । स्वपतौ साधुः स्वापतेयः । द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः ।
स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यड । व्यवहार । स्वपति । स्वागतादिः ।।
</7-3-7>
श्वादेरिञि ।। <7-3-8> ।।
श्वादेरङ्गस्य इञि परतो यदुक्तं तन्न भवति । श्वभस्त्रस्यापत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । श्वन्शब्दो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवतीत्येतदेव वचनं ज्ञापकम् ।

  • इकारादिग्रहणं कर्त्तव्यं श्वागणिकाद्यर्थम् * (म.भा.3-319)। श्वगणेन चरति श्वागणिकः । श्वायूथिकः ।

तदन्तस्य चान्यत्रापि तद्धिते प्रतिषेध इष्यते । श्वाभस्त्रेरिदं श्वाभस्त्रम् ।।
</7-3-8>
पदान्तस्यान्यतरस्याम् ।। <7-3-9> ।।
पश्वादेरङ्गस्य पदशब्दान्तस्यान्यतरस्यां यदुक्तं तन्न भवति । श्वापदस्येदं श्वापदम्, शौवापदम् ।।
</7-3-9>
उत्तरपदस्य ।। <7-3-10> ।।
`उत्तरपदस्य इत्ययमधिकारः, हनस्तोऽचिण्णलोः(7-3-32/2474) इति प्रागेतस्मात् यदित ऊर्ध्वमनुक्रमिष्यामः, `उत्तरपदस्य इत्येवं तद्वेदितव्यम् । वक्ष्यति---अवयवादृतोः(7-3-11/1397) । पूर्ववार्षिकम् । अपरवार्षिकम् । पूर्वहैमनम् । अपरहैमनम् ।
यत्र पञ्चमीनिर्देशो नास्ति---जे प्रोष्ठपदानाम्(7-3-18/1409) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः ।
पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्व व्यपदेशार्थम् । उत्तरपदवृद्धौ सर्वं च(6-2-105/3839) इत्युत्तरपदाधिकारे या वृद्धिरित्येवं विज्ञायते ।।
</7-3-10>
अवयवादृतोः ।। <7-3-11> ।।
अवयववाचिन उत्तरस्य ऋतुवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । पूर्ववार्षिकम् । पूर्वहैमनम् । अपरवार्षिकम् । अपरहैमनम् । पूर्वं वर्षाणाम्, अपरं वर्षाणामित्येकदेशिसमासः । तत्र भवः(4-3-53/1428) इत्येतस्मिन्नर्थे वर्षाभ्यष्ठक्‌(4-3-18/1389), हेमन्ताच्च(4-3-21/3452), सर्वत्राण् च तलोपश्च(4-3-22/1390) इत्यण्प्रत्ययः, तत्र ऋतोर्वृद्धिमद्विधौ `अवयवात् इति तदन्तविधिः ।
अवयवादिति किम् ? पूर्वासु वर्षासु भवं पौर्ववर्षिकम् । कालाट्ठञ्‌(4-3-11/1381) इति ठञ्‌ । अवयवपूर्वस्यैव तदन्तविधिः, नान्यस्य ।।
</7-3-11>
सुसर्वार्धाज्जनपदस्य ।। <7-3-12> ।।
सु, सर्व, अर्ध---इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योश्च(4-2-124/1248), अवृद्धादपि बहुवचनविषयात्(4-2-125/1349) इति वुञ्‌ । `सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः ।।
</7-3-12>
दिशोऽमद्राणाम् ।। <7-3-13> ।।
दिग्वाचिन उत्तरस्य जनपदवाचिनो मद्रवर्जितस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणपाञ्चालकः । पूर्ववत्तदन्तविधिः प्रत्ययश्च ।
दिश इति किम् ? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः । आपरपञ्चालकः । अमद्राणामिति किम् ? पौर्वमद्रः । आपरमद्रः । मद्रेभ्योऽञ्‌(4-2-108/1329) इत्यञ्प्रत्ययः ।।
</7-3-13>
प्राचां ग्रामनगराणाम् ।। <7-3-14> ।।
प्राचां देशे ग्रामनगराणां दिश उत्तरेषामचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति,किति च परतः ।
ग्रामाणाम्---पूर्वेषु कामशम्यां भवः पूर्वैषुकामशमः । अपरैषुकामशमः । पूर्वकार्ष्णमृत्तिकः । अपरकार्ष्णमृत्तिकः ।
नगराणाम्---पूर्वस्मिन्पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः । अपर पाटलिपुत्रकः । पूर्वकान्यकुब्जः । अपरकान्यकुब्जः ।
ग्रामत्वादेव नगराणामपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत्सम्बन्धभेदप्रतिपत्त्यर्थम् । दिक्पूर्वपदो हि समुदायः पूर्वेषुकामशम्यादिः ग्रामनामधेयम् । पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह । तत्र ग्रामवाचिनामङ्गानामवयवस्य दिक्शब्दादुत्तरस्य च नगरवाचिनामुत्तरपदानामवयवस्य वृद्धिर्भवतीत्येवमभिसम्बन्धः क्रियते । इतरत्र तु दिश उत्तरेषां नगराणामित्येव ।
पूर्वैषुकामशमः---इत्येवमादिषु कृतायामुत्तरपदवृद्धौ एकादेशो भवतीति ज्ञापितम् नेन्द्रस्य परस्य(7-3-22/1240) इति प्रतिषेधेन ।।
</7-3-14>
संख्यायाः संवत्सरसंख्यस्य च ।। <7-3-15> ।।
संख्याया उत्तरपदस्य संवत्सरशब्दस्य संख्यायाश्चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । द्वौ, संवत्सरावधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः ।
संख्यायाः---द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः । द्विसाप्ततिकः । द्विषष्ट्यादिशब्दो वर्षेषु संख्येयेषु वर्त्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति ।
परिमाणान्तस्य(7-3-17/1683) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणार्थम् । तेन द्वैसमिकः, त्रैसमिकः---इत्युत्तरपदवृद्धिर्न भवति । द्विवर्षा त्रिवर्षा माणविकेति अपरिमाणबिस्ताचित(4-1-22/480) इति पर्युदासो न भवति ।।
</7-3-15>
वर्षस्याभविष्यति ।। <7-3-16> ।।
संख्याया उत्तरस्य वर्षशब्दस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, स चेत्तद्धितो भविष्यत्यर्थे न भवति । द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः । त्रिवार्षिकः ।
अभविष्यतीति किम् ? यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये, अधिकं वापि विद्येत, स सोमं पातुमर्हति । त्रीणि वर्षाणि भावीति त्रैवर्षिकम् ।
अधीष्टभृतयोः `अभविष्यति इति प्रतिषेधो न भवति । गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः ।।
</7-3-16>
परिमाणान्तस्यासंज्ञाशाणयोः ।। <7-3-17> ।।
परिमाणान्तस्याङ्गस्य संख्यायाः परं यदुत्तरपदं तस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः; संज्ञायां विषये शाणे चोत्तरपदे न भवति । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । विभाषा कार्षापणसहस्राभ्याम्(5-1-29/1694) इत्यत्र `सुवर्णशतमानयोरुपसंख्यानम्(वा.505) इति लुको विकल्पः । द्वाभ्यां निष्काभ्यां क्रीतम् द्वित्रिपूर्वान्निष्काद्‌(5-1-30/1695)---द्विनैष्किकम् ।
असंज्ञाशाणयोरिति किम् ? पाञ्चलोहितिकम् । पाञ्चकलापिकम् । पञ्च लोहित्यः परिमाणस्य, पञ्च कलापानि परिमाणमस्येति विगृह्य तदस्य परिमाणम्(5-1-57/1723) इति योगविभागात्प्रत्ययः, तद्धितान्तश्चायं समुदायः संज्ञा । द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणम् । त्रैशाणम् । शाणाद्वा(5-1-35/1700), द्वित्रिपूर्वादण्च(5-1-36/1701) इत्यण्प्रत्ययः ।
`असंज्ञाशाणकुलिजानाम् इति केचित्पठन्ति । द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः ।।
</7-3-17>
जे प्रोष्ठपदानाम् ।। <7-3-18> ।।
`जे इति जातार्थो निर्दिश्यते । तत्र यस्तद्धितो विहितस्तस्मिन् ञिति, णिति, किति च परतः प्रोष्ठपदानामुत्तरस्याचामादेरचो वृद्धिर्भवति । प्रोष्ठपदा नाम नक्षत्रम्, ताभिर्युक्तः काल इत्यण् । तस्य लुबविशेषे(4-2-4/1205) इति लुप्‌ । प्रोष्ठपदासु जातः---ऋतुनक्षत्रेभ्योऽण्‌(4-3-16/1387) इत्यण्‌---प्रोष्ठपदो माणवकः ।
जे इति किम् ? यदा प्रोष्ठपदो मघो धरणीमभिवर्षति---प्रोष्ठपदासु भवः प्रोष्ठपदः ।
`प्रोष्ठपदानाम् इति बहुवचननिर्देशात् पर्यायोऽपि गृह्यते---भद्रपाद इति ।।
</7-3-18>
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ।। <7-3-19> ।।
हृद्‌, भग, सिन्धु---इत्येवमन्तेऽङ्गे पूर्वपदस्योत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । सुहृदयस्येदं सौहार्दम् । सुहृदयस्य भावः सौहार्द्यम् । सुभगस्य भावः सौभाग्यम् । दौर्भाग्यम् । सुभगाया अपत्यं सौभागिनेयः । दौर्भागिनेयः ।
कल्याण्यादिषु(5-1-126/1131) `सुभगदुर्भग इति पठ्यते । `सुभग मन्त्रे इत्युद्‌गात्रादिषु(5-1-129/1794) पठ्यते, तत्रोत्तरपदवृद्धिर्नेष्यते---महते सौभगाय; छन्दसि सर्वविधीनां विकल्पितत्वात् ।
सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः । पानसैन्धवः । सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इत्यण्प्रत्ययः ।।
</7-3-19>
अनुशतिकादीनां च ।। <7-3-20> ।।
`अनुशतिक---इत्येवमादीनां चाङ्गानां पूर्वपदस्य चोत्तरपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । अनुशतिकस्येदम् आनुशातिकम् । अनुहोडेन चरति आनुहौडिकः । अनुसंवरणे दीयते आनुसांवरणम् । अनुसंवत्सरे दीयते आनुसांवत्सरिकः । अङ्गारवेणुर्नाम कश्चित् , तस्यापत्यम् आङ्गारवैणवः ।
असिहत्य---तत्र भवं आसिहात्यम् । `अस्यहत्य इति केचित् पठन्ति, ततोऽपि विमुक्तादित्वाद्‌ण्(5-2-61/1861) । अस्यहत्यशब्दोऽस्मिन्नध्यायेऽस्ति आस्यहात्यः । `अस्यहेतिः इत्येवमपरे पठन्ति, अस्यहेतिः प्रयोजनमस्य आस्यहैतिकः । अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्चालुक् ।
वध्योग इति---बिदादिरयम्(4-1-104/1106), तस्यापत्यं वाध्यौगः । पुष्करसत्, अनुहरत्‌--एतौ बाह्वादिषु(4-1-96/1096) पठ्येते । पौष्करसादिः, आनुहारतिः । कुरुकत---गर्गादिः(4-1-105/1107), कौरुकात्यः । कुरुपञ्चाल---कुरुपञ्चालेषु भवः कौरुपाञ्चालः । `जनपदसमुदायो जनपदग्रहणेन न गृह्यते इति वुञ्‌ न भवति---उदकशुद्धस्यापत्यम् औदकशौद्धिः ।
इहलोक, परलोक---तत्र भवः ऐहलौकिकः, पारलौकिकः । `लोकोत्तरपदस्य(वा.459) इति ठञ्‌ । सर्वलोक---तत्र विदितः सार्वलौकिकः । सर्वपुरुषस्येदं सार्वपौरुषम् । सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । प्रयोग---तत्र भवः प्रायोगिकः । परस्त्री---पारस्त्रैणेयः । कुलटाया वा(4-1-127/1132) इतीनङ्‌ ।

  • राजपुरुषात् ष्यञि * (ग.सू.176)। राजपौरुष्यम् । ष्यञीति किम् ? राजपुरुषस्यापत्यं राजपुरुषायणिः । उदीचां वृद्धादगोत्रात्(4-1-157/1181) इति फिञ्‌ ।

शतकुम्भसुखशयनादयः---शतकुम्भे भवः शातकौम्भः । सौखशायनिकः । पारदारिकः । सूत्रनडस्यापत्यं सौत्रनाडिः । आकृतिगणश्चायमिष्यते । तेनेदमपि सिद्धं भवति---अभिगममर्हति आभिगामिकः । अधिदेवे भवमाधिदैविकम् । आधिभौतिकम् । चतस्र एव विद्याः चातुर्वैद्यम् । स्वार्थे ष्यञ्‌ ।
अनुशतिक । अनुहोड । अनुसंवरण । अनुसंवत्सर । अङ्गारवेणु । असिहत्य । वध्योग । पुष्करसत् । अनुहरत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । * राजपुरुषात् ष्यञि * (ग.सू.176)। सूत्रनड । अनुशतिकादिः ।।
</7-3-20>
देवताद्वन्द्वे च ।। <7-3-21> ।।
देवताद्वन्द्वे च पूर्वपदस्योत्तपदस्य चाचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । `आग्निमारुतीमनड्‌वा हीमालभेत(मै.2-5-7) । आग्निमारुतं कर्म ।
यो देवताद्वन्द्वः सूक्तहविः सम्बन्धी, तत्रायं विधिः । इह च न भवति---स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः । ब्रह्मप्रजापती---ब्राह्मप्रजापत्यम् ।।
</7-3-21>
नेन्द्रस्य परस्य ।। <7-3-22> ।।
इन्द्रशब्दस्य परस्य यदुक्तं तन्न भवति । सौमेन्द्रः । आग्नेन्द्रः ।
परस्येति किम् ? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत् ।
इन्द्रशब्दे द्वावचौ---तत्र तद्धिते एकस्य यस्येति च(6-4-148/311)इति लोपः, अपरस्य पूर्वेण सहैकादेश इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्---बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति, पश्चादेकादेश इति । तेन पूर्वैषुकामशम इत्यादि सिद्धं भवति ।।
</7-3-22>
दीर्घाच्च वरुणस्य ।। <7-3-23> ।।
दीर्घादुत्तरस्य वरुणस्य यदुक्तं तन्न भवति । ऐन्द्रावरुणम् । मैत्रावरुणम् ।
दीर्घादिति किम् ? `आग्निवारुणीमनड्‌वाहीमालभेत(काठ.13-6) । अग्नेः---ईदग्नेः
सोमवरुणयोः(6-3-27/923) इत्यस्यानङपवादस्य इद्वृद्धौ(6-3-28/925) इति प्रतिषेधो विधीयते, तेन दीर्घात्परो न भवति ।।
</7-3-23>
प्राचां नगरान्ते ।। <7-3-24> ।।
प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । सुह्मनगरे भवः सौह्मनागरः । पौण्ड्रनागरः ।
प्राचामिति किम् ? मद्रनगरमुदक्षु, तत्र भवः माद्रनगरः ।।
</7-3-24>
जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ।। <7-3-25> ।।
जङ्गल, धेनु, वलज---इत्येवमन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरम्=उत्तरपदस्य विभाषा भवति तद्धिते ञिति, णिति, किति च परतः । कुरुजङ्गलेषु भवं कौरुजङ्गलम्, कौरुजाङ्‌गलम् । वैश्वधेनवम्, वैश्वधैनवम् । सौवर्णवलजः, सौवर्णवालजः ।।
</7-3-25>
अर्धात्परिमाणस्य पूर्वस्य तु वा ।। <7-3-26> ।।
अर्धशब्दात्परस्य परिमाणवाचिन उत्तरस्याचामादेरचः स्थाने वृद्धिर्भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः । अर्धद्रोणेन क्रीतमार्धद्रौणिकम्, अर्धद्रौणिकम् । आर्धकौडविकम्, अर्धकौडविकम् ।
परिमाणस्येति किम् ? अर्धक्रोशः प्रयोजनमस्यार्धक्रोशिकम् ।।
</7-3-26>
नातः परस्य ।। <7-3-27> ।।
अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, च परतः । अर्धप्रस्थिकः, आर्धप्रस्थिकः । अर्धकंसिकः, आर्धकंसिकः ।
अत इति किम् ? आर्धकौडविकः । तपरकरणं किम् ? इह मा भूत्‌---अर्धखार्यां भवा अर्धखारी । किं च स्यात् ? अर्धखारी भार्या यस्य अर्धखारीभार्यः---वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे(6-3-39/840) इति पुंवद्भावप्रतिषेधो न स्यात् । यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा---वैयाकरणी भार्या अस्य वैयाकरणभार्य इति ।।
</7-3-27>
प्रवाहणस्य ढे ।। <7-3-28> ।।
प्रवाहणस्य ढे परत उत्तपदस्याचामादेरचो वृद्धिर्भवति पूर्वपदस्य वा भवति । प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः । शुभ्रादिभ्यश्च(4-1-123/1126) इति ढक् प्रत्ययः ।।
</7-3-28>
तत्प्रत्ययस्य च ।। <7-3-29> ।।
ढक्प्रत्ययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वस्य तु वा । प्रवाहणेयस्यापत्यं प्रावाहणेयिः, प्रवाहणेयिः । प्रावाहणेयकम्, प्रवाहणेयकम् ।
बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुमशक्येति सूत्रारम्भः ।।
</7-3-29>
नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ।। <7-3-30> ।।
नञ उत्तरेषां शुचि, ईश्वर, क्षेत्रज्ञ, कुशल, निपुण--इत्येतेषामचामादेरचो वृद्धिर्भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः । शुचि--आशौचम्, अशौचम् । ईश्वर---आनैश्वर्यम्, अनैश्वर्यम् । क्षेत्रज्ञ---आक्षैत्रज्ञ्यम्, अक्षैत्रज्ञ्यम् । कुशल---आकौशलम्, अकौशलम् । निपुण---आनैपुणम्, अनैपुणम् ।
अत्र केचिदाहुः--इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते । न नञ्पूर्वात्तत्पुरुषात्(5-1-121/1783)
इत्युत्तरो भावप्रत्ययः प्रतिषिध्यते, तत्र शुच्यादिभ्य एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनाद्भवतीति ।
तदपरे न मृष्यन्ते---भाववचनादन्योऽपि हि तद्धितो वृद्धिनिमित्तमपत्यादिष्वर्थेषु नञ्समासादेव विद्यते । बहुव्रीहेश्च नञ्समासाद्भाववचनोऽप्यस्ति, तत्राङ्गाधिकारोपमर्द्दनं न युज्यत इति ।
अक्षेत्रज्ञानीश्वरौ तत्पुरुषावेव ब्राह्मणादिषु पठ्येति, ततस्ताभ्यां भावे ष्यञ्भवति ।।
</7-3-30>
यथातथायथापुरयोः पर्यायेण ।। <7-3-31> ।।
यथातथ, यथापुर---इत्येतयोर्नञ उत्तरयोः पर्यायेणाचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । आयथातथ्यम्, अयाथातथ्यम् । आयथापुर्यम्, अयाथापुर्यम् । अयथातथ, अयथापुरेति ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्यौ ।
सुत्रे यथातथ---यथापुरशब्दौ तु यथाऽसादृश्ये(2-1-7/661) इति अव्ययीभावसमासौ, तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम् । भाष्ये तु यथा दर्शितम्---`अयथातथा भावः(म.बा.3-322) इति तथा `सुप्सुपा इति समासो लक्ष्यते ।।
</7-3-31>
हनस्तोऽचिण्णलोः ।। <7-3-32> ।।
`तद्धितेषु इति निवृत्तम्, तत्सम्बद्धम् `किति इत्यपि । `ञ्णिति इति वर्तते । हनस्तकारादेशो भवति ञ्णिति प्रत्यये परतः, चिण्णलौ वर्जयित्वा घातयति । घातकः । साधुघाती । घातङ्घातम् । घातो वर्तते ।
अचिण्णलोरिति किम् ? अघानि । जघान ।
धातोः कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते । इह न भवति---वार्त्रघ्नमितरदिति ।।
</7-3-32>
आतो युक्चिण्कृतोः ।। <7-3-33> ।।
आकारान्तस्याङ्गय चिणि कृति ञ्णिति युगागमो भवति । अदायि । अधायि । कृति---दायः, दायकः; धायः, धायकः ।
चिण्कृतोरिति किम् ? ददौ, दधौ । चौडिः, बालाकिः---बाह्वादित्वादिञ्‌ (4-1-96/1096)। ज्ञा देवता अस्य ज्ञः ।।
</7-3-33>
नोदात्तोपदेशस्य मान्तस्यानाचमेः ।। <7-3-34> ।।
उदात्तोपदेशस्य मान्तस्याङ्गस्याचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन्न भवति । किञ्चोक्तम् ? अत उपधायाः(7-2-116/2282) इति वृद्धिः । अशमि, अतमि, अदमि । कृति खल्वपि---शमकः, तमकः, दमकः । शमः, तमः, दमः ।
उदात्तोपदेशस्येति किम् ? यामकः, रामकः ।
कथमुद्यमोपरमौ ? `अङ उद्यमे(धा.पा.358), `यम उपरमे(धा.पा.985)---इति निपातनादनुगन्तव्यौ । उपदेशग्रहणं किम् ? शमी, दमी, तमीत्यत्र यथा स्यात्; इह मा भूत्‌---यामकः, रामक इति । मान्तस्येति किम् ? चारकः, पाठकः । अनाचमेरिति किम् ? आचामकः ।

  • अनाचमिकमिवमीनामिति वक्तव्यम् * । आचामः । कामः । वामः । आम इति---चौरादिकस्य णिचि वृद्धौ सत्यां भवति । तत्र हि मित्त्वं नास्ति---`नान्ये मितोऽहेतौ(धा.पा.985) इति ।

`सूर्यविश्रामा भूमिः---इत्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते ।
चिण्कृतोरित्येव---शशाम, तताम ।।
</7-3-34>
जनिवध्योश्च ।। <7-3-35> ।।
जनि, वधि---इत्येतयोश्चिणि कृति च ञ्णिति यदुक्तं तन्न भवति । अजनि, जनकः, प्रजनः । अवधि, वधकः, वधः ।
वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति, तस्यायं प्रतिषेधो विधीयते `भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यते---इति हि प्रयोगो दृश्यते वधादेशस्यादन्तत्वादेव वृद्धेरभावः ।
चिण्कृतोरित्येव---`जजान गर्भं महिमानमिन्द्रम्(अ.वे.3-10-12) ।।
</7-3-35>
अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ ।। <7-3-36> ।।
सर्वं निवृत्तम्, `अङ्गस्य इति वर्त्तते । अर्ति, ह्री, व्ली, री क्नूयी, क्ष्मायी---इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः । अर्ति---अर्पयति । ह्री---ह्रेपयति । व्ली---व्लेपयति । री--रेपयति । क्नूयी---क्नोपयति । क्ष्मायी---क्ष्मापयति । आकारान्तानाम्‌-दापयति, धापयति ।
अर्तीति `ऋ गतिप्रापणयोः(धा.पा.937), `ऋ गतौ(धा.पा.1099)---इति द्वयोरपि धात्वोर्ग्रहणम् ।
रीत्यपि--`री गतिरेषणयोः(धा.पा.1501) `रीङ्‌ श्रवणे(धा.पा.1139) इति ।
पुकः पूर्वान्तकरणम्---अदीदपदित्यत्रोपधाह्रस्वो यथा स्यादिति ।।
</7-3-36>
शाच्छासाह्वाव्यावेपां युक् ।। <7-3-37> ।।
शा, छा, सा, ह्वा, व्या, वे, पा---इत्येतेषामङ्गानां युगागमो भवति णौ परतः । शा--निशाययति । छा---अवच्छाययति । सा-अवसाययति । ह्वा---ह्वाययति । व्या---संव्याययति । वे---वाययति । पा---पाययति ।
पाग्रहणे `पै ओवै शोषणे(धा.पा.921,922)---इत्यस्यापीह ग्रहणमिच्छन्ति । `पा रक्षणे(धा.पा.1057) इत्यस्य लुग्विकरणत्वान्न भवति ।

  • लुगागमस्तु तस्य वक्तव्यः * (म.भा.3-323)। पालयति ।
  • धूञ्प्रीञोर्नुग्वक्तयः * (म.भा.3-323)। धूनयति । प्रीणयति ।

एतेऽपि पूर्वान्ता एव क्रियन्ते, तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणत्---इत्युपधाह्रस्वत्वं भवति ।
शाच्छासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम् । किमेतस्याख्याने प्रयोजनम् ? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीत्युपदिश्यते । तेनाध्यापयति, जापयति---इत्येवमादि सिद्धं भवति ।।
</7-3-37>
वो विधूनने जुक्‌ ।। <7-3-38> ।।
`वा---इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः । पक्षेणोपवाजयति ।
विधूनन इति किम् ? आवापयति केशान् ।
किमर्थं सूत्रम्, `वज गतौ(धा.पा.252) ण्यन्तस्य सिद्धत्वात् ? वातेः पुग्मा भूदित्येवमर्थम् । `पै ओवै शोषणे(धा.पा.921,922) इत्यस्यैतद्रूपम् ।।
</7-3-38>
लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ।। <7-3-39> ।।
ली, ला--इत्येतयोरङ्गयोरन्यतरस्यां नुक्, लुक्---इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे । घृतं विलाययति । विलीनयति घृतम् । विलालयति । विलापयति ।
ली ई इतीकारः प्रश्लिष्यते, तत ईकारान्तस्यैव लुग्भवति, न तु कृतात्वस्य विभाषा लीयतेः(6-1-51/2509) इति ।
स्नेहविपातन इति किम् ? जतु विलापयति । जटाभिरालापयते ।
`ली इति लीलीङोर्ग्रहणम् । `ला इति लातेः, कृतात्वस्य च लीयतेः ।।
</7-3-39>
भियो हेतुभये षुक्‌ ।। <7-3-40> ।।
`भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः । मुण्डो भीषयते । जटिलो भीषयते ।
अत्रापि भी + ई इतीकारप्रश्लेषः कृतात्वस्य षुग्निवृत्त्यर्थः । मुण्डो भापयते---इत्येवं हि तत्र भवति ।
हेतुभय इति किम् ? कुञ्चिकयैनं भाययति । नात्र हेतुः प्रयोजको भयकारणम्, किं तर्हि ? कुञ्चिका ।।
</7-3-40>
स्फायो वः ।। <7-3-41> ।।
`स्फाय्‌ इत्येतस्याङ्गस्य वकारादेशो भवति णौ परतः । स्फावयति ।।
</7-3-41>
शदेरगतौ तः ।। <7-3-42> ।।
शदेरङ्गस्यागतावर्थे वर्तमानस्य तकारादेशो भवति णौ परतः पुष्पाणि शातयति ।
अगताविति किम् ? गाः शादयति गोपालकः ।।
</7-3-42>
रुहः पोऽन्यतरस्याम् ।। <7-3-43> ।।
रुहेरड्गस्यान्यतरस्यां पकारादेशो भवति णौ परतः । व्रीहीन्‌ रोपयति । व्रीहीन् रोहयति ।।
</7-3-43>
प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ।। <7-3-44> ।।
प्रत्ययस्थात्ककारात् पूर्वस्याकारस्य इकारादेशो भवति, आपि परतः, स चेदाप्सुपः परो न भवति । जटिलिका । मुण्डिका । कारिका । हारिका । एतिकाश्चरन्ति ।
प्रत्ययग्रहणं किम् ? शक्नोतीति शका ।
स्थग्रहणं विस्पष्टार्थम्, ककारमात्रं प्रत्ययो नास्तीति सामर्थ्यात् प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम् ।
कादिति किम् ? मण्डना । रमणा । पूर्वस्येति किम् ? परस्य मा भूत्‌---पटुका । मृदुका । अत इति किम् ? गोका । नौका । तपरकरणं किम् ? राका, धाका । आपीति किम् ? कारकः, धारकः ।
अथ आपीत्यनेन किं विशिष्यते ? ककारः । यद्येवम्, कारिकेत्यत्रापि न प्राप्नोति, अकारेण व्यवहितत्वात् ? एकादेशे कृते नास्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवतीति व्यवधानमेव ? वचनाद्‌ व्यवधानमीदृशं यत्स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते । रथ कट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानमिति इत्त्वं न भवति ।
असुप इति किम् ? बहवः परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा । सुबन्तादयं परिव्राजकशब्दात्पर आबिति प्रतिषेधो भवति । प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः । पर्युदासे हि सति समुदायादसुबन्तात्पर आबितीत्त्वमत्र स्यादेव । अविद्यमानः सुप् यस्मिन् सोऽयमसुबिति---अयमपि नाश्रीयते । तथा हि सति बहुचर्मिकेत्यत्रापि न स्यात्।

  • मामकनरकयोरुपसंख्यानं कर्त्तव्यमप्रत्ययस्थत्वात् * (म.भा.3-324)। मम इयं मामिका । नरिका । अणि ममकादेशः । केवलमामक(4-1-30/488) इति नियमात् संज्ञाच्छन्दसोरीकारो नास्त्यत्र । तेनाण्प्रत्ययान्तादपि टाब्भवति,नरान् कायतीति नरिका । आतोऽनुपसर्गे कः(3-2-3/2915) इति कः प्रत्ययः ।
  • प्रत्ययनिषेधे त्यक्त्यपोश्चोपसंख्यानम् * (म.भा.3-324)। उदीचामातः स्थाने यकपूर्वायाः(7-3-46/465) इति विकल्पो मा भूदिति, दाक्षिणात्यिका । इहत्यिका ।।

</7-3-44>
न यासयोः ।। <7-3-45> ।।
`या, `सा---इत्येतयोरिकारादेशो न भवति । यका । सका ।
`यासा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणमेतत् । इहापि प्रतिषेध इष्यते---यकांयकामधीमहे, तकांतकां पचामहे इति ।

  • यासयोरित्त्वप्रतिषेधे त्यकन उपसंख्यानम् * (म.भा.3-325)। उपत्यका । अधित्यका ।
  • पावकादीनां छन्दस्युपसंख्यानम् * (म.भा.3-325)। `हिरण्यवर्णाः शुचयः पावकाः(अ.वे.1-33-1) । यासु अलोमकाः । छन्दसीति किम् ? पाविका ।
  • आशिषि चोपसंख्यानम् * (म.भा.3-325)। जीवताद्‌ जीवका । नन्दताद् नन्दका । भवताद् भवका ।
  • उत्तरपदलोपे चोपसंख्यानम् * (म.भा.3-325)। देवदत्तिका, देवका । यज्ञदत्तिका, यज्ञका ।
  • क्षिपकादीनां चोपसंख्यानम् * (म.भा.3-325)। क्षिपका । ध्रुवका ।
  • तारका ज्योतिष्युपसंख्यानम् *(म.भा.3-325) । तारका । ज्योतिषीति किम् ? तारिका दासी ।
  • वर्णका तान्तव उपसंख्यानम् * (म.भा.3-325)। वर्णका=प्रावरणभेदः । तान्तव इति किम् ? वर्णिका भागुरी लौकायते ।
  • वर्तका शकुनौ प्राचामुपसंख्यानम् * (म.बा.3-326)। वर्तका शकुनिः । प्राचामन्यत्र उदीचां तु---वर्तिका । शकुनाविति किम् ? वर्तिका भागुरी लौकायतस्य ।
  • अष्टका पितृदैवत्ये * (म.भा.3-326)। अष्टका । पितृदैवत्य इति किम् ? अष्टिका खारी ।
  • वा सूतकापुत्रकावृन्दारकाणामुपसंख्यानम् * (म.भा.3-326)। सूतिका, सूतका । पुत्रिका, पुत्रका । वृन्दारिका, वृन्दारका ।।

</7-3-45>
उदीचामातः स्थाने यकपूर्वायाः ।। <7-3-46> ।।
उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्चातः स्थाने योऽकारस्तस्यातः स्थाने इकारादेशो भवति । `उदीचाम्---ग्रहणं विकल्पार्थम् । इभ्यिका, इभ्यका । क्षत्त्रियिका, क्षत्त्रियका । ककारपूर्वायाः---चटकिका, चटकका । मूषिकिका, मूषिकका ।
आत इति किम् ? सांकाश्ये भवा सांकाश्यिका ।
स्थानग्रहणमनुवादेऽपि स्थानसम्बन्धप्रतिपत्त्यर्थम् । `आत इत्यनेन ह्यत इति स्थानी विशिष्यते ।
यकपूर्वाया इति किम् ? अश्वा, अश्विका । `यकपूर्वायाः इति स्त्रीलिङ्गनिर्द्देशः---आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम् । इह न भवति---शुभं यातीति शुभंयाः, शुभंयिका । भद्रं यातीति भद्रंयाः, भद्रंयिका ।

  • यकपूर्वाया धात्वन्तप्रतिषेधः * (म.भा.3-326)। धात्वन्तयोर्यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः । सुनयिका । सुशयिका । सुपाकिका । सुशोकिका ।

</7-3-46>
भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ।। <7-3-47> ।।
एषामातः स्थाने योऽकारस्तस्य इत्त्वं न भवति उदीचामाचार्याणां मतेन । भस्त्रा---भस्त्रका, भस्त्रिका; अभस्त्रका, अभस्त्रिका । एषका, एषिका । अजा---अजका, अजिका; अनजका, अनजिका । ज्ञा---ज्ञका, ज्ञिका, अज्ञका, अज्ञिका । द्वा---द्वके, द्विके । स्वा---स्वका, स्विका; अस्वका, अस्विका ।
एषाद्वे नञ्पूर्वे न प्रयोजयतः, किं कारणम् ? अत्र हि सति यदि साकच्काभ्यां नञ्सामासः, अथापि कृते नञ्समासे पश्चादकच्‌ उभयथापि समासाद्‌ या विभक्तिरुत्पद्यते तस्यां सत्यां त्यदाद्यत्वे सति टापा भवितव्यम्, सोऽन्तर्वर्त्तिन्या विभक्त्या सुबन्तात्पर इति इत्त्वस्य प्राप्तिरेव नास्ति । तेन अनेषका, अद्वके---इत्येव नित्यं भवितव्यम् ।
स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोऽपि प्रयोजयति ।
`भस्त्रा---इत्ययमभाषितपुंस्कः, तस्य अभाषितपुंस्काच्च(7-3-48/467) इत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम् । अविद्यमाना भस्त्रा यस्या अभस्त्रा, साल्पा अभस्त्रका, अभस्त्रिका । अत्रोपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रीहौ कृते भाषितपुंस्काद्‌ यष्टाबुत्पद्यते तस्य केऽणः(7-4-13/834) इति यो ह्रस्वः, नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति ।`नञ्पूर्वाणामपि इत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते । निर्भस्त्रिका, निर्भस्त्रका । बहुभस्त्रिका, बहुभस्त्रका---इत्येवमनयोरपीष्यते । अत्र `नञ्पूर्वाणाम्
इति वचनमनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः ।।
</7-3-47>
अभाषितपुंस्काच्च ।। <7-3-48> ।।
अभाषितपुंस्काद्विहितस्यातः स्थाने योऽकारस्तस्योदीचामाचार्याणां मतेन इकारादेशो न भवति । खट्‌वका, खट्‌विका । अखट्‌वका, अखट्‌विका । परमखट्‌वका, परमखट्‌विका ।
बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यमनेन विधिना । अत्राप्यभाषितपुंस्काद्विहितस्यातः स्थाने भवत्यकार इति । यदा तु अविद्यमाना खट्‌वा अस्याः अखट्‌वा, अल्पा अखट्‌वा अखट्‌विकेति, तदा न भवति । तथा अतिक्रान्ता खट्‌वामतिखट्‌वा, अल्पा अतिखट्वा अतिखट्‌विका ।।
</7-3-48>
आदाचार्याणाम् ।। <7-3-49> ।।
अभाषितपुंस्कादातः स्थाने योऽकारस्तस्याचार्याणामाकारादेशो भवति । खट्‌वाका, अखट्‌वाका, परमखट्‌वाका ।।
</7-3-49>
ठस्येकः ।। <7-3-50> ।।
अङ्गस्य निमित्तं यष्ठः, कश्चाङ्गस्य निमित्तम् ? प्रत्ययः, तस्य प्रत्ययठस्य इक इत्ययमादेशो भवति । प्राग्वहतेष्ठक्‌(4-4-1/1548), आक्षिकः, शालाकिकः । लवणाट्ठञ्‌(4-4-52/1501), लावणिकः ।
ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः; तदा इहाप्यकार उच्चारणार्थः, वर्णमात्रं तु स्थानित्वेनोपादीयते । सङ्घातग्रहणे तु प्रत्ययेऽत्रापि सङ्घातग्रहणमेव । तत्र `कणेष्ठः(उ.108), कण्ठः---इत्येवमादीनामुणादीनाम् उणादयो बहुलम्(3-3-1/3169) इति न भवति । मथितं पण्यमस्य माथितिकः---इत्यत्र तु यस्येति च(6-4-148/311) इति लोपे कृते इसुसुक्तान्तात्कः(7-3-51/1221) इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति; `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.प.12) इति न भवति । यस्येति च(6-4-148/311) इति लोपस्य स्थानिवद्भावाद्वा । पूर्वस्मादपि हि विधौ स्थानिवद्भावः ।।
</7-3-50>
इसुसुक्तान्तात्‌ कः ।। <7-3-51> ।।
इस्‌, उस्‌---इत्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य `क इत्ययमादेशो भवति । इस्‌---सार्पिष्कः । उस्‌---धानुष्कः । याजुष्कः । उक्‌---नैषादकर्षुकः । शाबरजम्बुकः । मातृकम् । पैतृकम् । तान्तात्‌---औदश्वित्कः । शाकृत्कः । याकृत्कः ।
इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति---आशिषा चरति आशिषिकः । उषा चरति औषिकः ।

  • दोष उपसंख्यानम् * । दोर्भ्यां चरति दौष्कः ।।

</7-3-51>
चजोः कु घिण्ण्यतोः ।। <7-3-52> ।।
चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः । घिति---पाकः । त्यागः । रागः । ण्यति---पाक्यम् । वाक्यम् । रेक्यम् ।।
</7-3-52>
न्यङ्‌क्वादीनां च ।। <7-3-53> ।।
`न्यङ्‌कु---इत्येवमादीनां कवर्गादेशो भवति । न्यङ्‌कुः---`नावञ्चेः(उ.17) इति उप्रत्ययः । मद्‌गुः---`मिमस्जिभ्य उः(उ.7) इति मस्जेरुप्रत्ययः । भृगुः---`प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च(उ.28) इत्युप्रत्ययः ।
दूरेपाकः । फलेपाकः । दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव---पचाद्यच्‌(3-1-134/2896), निपातनाद्वृद्धिः, तत्पुरुषे कृति बहुलम्(6-3-14/972) इति सप्तम्या अलुक् । क्षणेपाकः---इत्यपि हि केचित् पठन्ति । दूरेपाकाः, फलेपाकाः---इति टाबन्तमपरेऽधीयते । उकारान्तावपरे---दूरेपाकुः, फलेपाकुरिति । तेषामुप्रत्ययो निपातनादेव ।
तक्रम्, वक्रमिति---तञ्चतेः, वञ्चतेश्च `स्फायितञ्चिवञ्चि(उ.178) इत्यादिना सूत्रेण रक् । व्यतिषङ्गः । व्यतिषजतीति पचाद्यच्‌ (3-1-134/2896)। अनुषङ्गः । अवसर्गः । उपसर्गः । मेघः । श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाक इति---कर्मोपपदादण्प्रत्ययः ।
संज्ञायम्---मेघः । अवदाघः । निदाघः । अर्हतेर्घञ्‌---अर्घः । अवपूर्वस्य निपूर्वस्य च दहेः---अवदाघः । निदाघः ।
संज्ञाया अन्यत्र---अर्हः । अवदाहः । निदाहः । न्यग्रोधः, वीरुत्‌---इत्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि विपूर्वस्य क्विपि धकारो विधीयते । न्यग्रोहयतीति न्यग्रोधः । विरोहयतीति वीरुत् ।।
</7-3-53>
हो हन्तेर्ञ्णिन्नेषु ।। <7-3-54> ।।
हन्तेर्हकारस्य कवर्गादेशो भवति ञिति, णिति प्रत्यये परतो नकारे च । घातयति । घातकः । साधुघाती । घातङ्घातम् । घातो वर्तते । नकारे---घ्नन्ति । घ्नन्तु । अघ्नन् ।
ह इति किम् ? अलोऽन्त्यस्य मा भूत्‌ । हन्तेरिति किम् ? प्रहारः । प्रहारकः ।
ञ्णित्प्रत्ययो हन्तेर्विशेषणम् । नकारो हकारस्य---नकारे अनन्तरस्य हन्तिहकारस्येति । तच्चानन्तर्यं श्रुतिकृतं सन्निपातकृतमाश्रीयते । स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्; वचनसामर्थ्यात् ।
यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते, तथापि `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्(व्या.प.46) इति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति । इह तु न भवति---हननमिच्छति हननीयति, हननीयतेर्ण्वुल्‌, हननीयक इति ।।
</7-3-54>
अभ्यासाच्च ।। <7-3-55> ।।
अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति । जिघांसति । जङ्घन्यते । अहं जघन ।
अभ्यासनिमित्ते प्रत्ययो हन्तेरङ्गस्य योऽभ्यासस्तस्मादेवैतत् कुत्वम् । इह न भवति--हननीयितुमिच्छति जिहननीयिषति ।।
</7-3-55>
हेरचङि ।। <7-3-56> ।।
हिनोतेर्हकारस्याभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि । प्रजिघीषति । प्रजेघीयते । प्रजिघाय ।
अचङीति किम् ? प्राजीहयद् दूतम् ।
अचङीति शक्यमकर्त्तुम् । कथम् ? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्राभ्यासनिमित्ते प्रत्यये हेरङ्गस्येति विज्ञायमाने प्राप्तिरेव नास्ति ? तत्क्रियते ज्ञापकार्थम् । एतज्ज्ञाप्यते---`हेरचङि इति चङोऽन्यत्र हेर्ण्यधिकस्यापि कुत्वं भवतीति । तेन प्रजिघाययिषतीति सिद्धं भवति ।।
</7-3-56>
सन्लिटोर्जेः ।। <7-3-57> ।।
सनि लिटि च प्रत्यये जेरङ्गस्य योऽभ्यासस्तस्मादुत्तरस्य कवर्गादेशो भवति । जिगीसति । जिगाय । सन्लिटोरिति किम् ? जेजीयते ।
जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात्तस्य ग्रहणं न भवति । जिज्यतुः, जिज्युः---इत्येव भवति ।।
</7-3-57>
विभाषा चेः ।। <7-3-58> ।।
चिनोतेरङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति । चितीषति, चिकीषति । चिकाय, चिचाय ।
`सन्लिटोः इत्येव---चेचीयते ।
</7-3-58>
न क्वादेः ।। <7-3-59> ।।
कवर्गादेर्धातोश्चजोः कवर्गादेशो न भवति । कूजो वर्त्तते । खर्जः । गर्जः । कूज्यं भवता, खर्ज्यं गर्ज्यं भवता ।।
</7-3-59>
अजिव्रज्योश्च ।। <7-3-60> ।।
अजि, व्रजि---इत्येतयोश्च कवर्गादेशो न भवति । समाजः । उदाजः । व्रजि---परिव्राजः । परिव्राज्यम् ।
`अजेस्तु---अजेर्व्यघञपोः(2-4-56/2292) इति वीभावस्य विधानात् ण्यति नास्त्युदाहरणम् ।।
</7-3-60>
भुजन्युब्जौ पाण्युपतापयोः ।। <7-3-61> ।।
भुज, न्युब्ज---इत्येतौ शब्दौ निपात्येते पाणौ, उपतापे च । भुज्यतेऽनेनेति भुजः=पाणिः । हलश्च(3-3-121/3300) इति घञ्‌ । तत्र कुत्वाभावः गुणाभावश्च निपात्यते । `उब्ज आर्जवे(धा.पा.1304), न्युब्जिताः शेरतेऽस्मिन्निति न्युब्जः । उपतापः=रोगः, तथैव घञि कुत्वाभावो निपात्यते ।
पाण्युपतापयोरिति किम् ? भोगः, समुद्‌गः ।।
</7-3-61>
प्रयाजानुयाजौ यज्ञाङ्गे ।। <7-3-62> ।।
प्रयाज, अनुयाज---इत्येतौ निपात्येते यज्ञाङ्गे । `पञ्च प्रयाजाः(आश्व.श्रौ.1-4-2) । पञ्चानुयाजाः । त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात् ।
यज्ञाङ्गे इति किम् ? प्रयागः अनुयागः । प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्---अन्यत्राप्येवम्प्रकारे कुत्वं न भवति । `एकादशोपयाजाः(ऐ.ब्रा.2-1-8), उपांशुयाजमन्तरा यजति, `अष्टौ पत्नीसंयाजा भवन्ति(ऐ.ब्रा.2-3-2), `ऋतुयाजैश्चरन्ति(ऐ.ब्रा.2-9-9)---इत्येवमादि सिद्धं भवति ।।
</7-3-62>
वञ्चेर्गतौ ।। <7-3-63> ।।
वञ्चेरङ्गस्य गतौ वर्त्तमानस्य कवर्गादेशो न भवति । वञ्च्यं वञ्चन्ति वणिजः ।
गताविति किम् ? वङ्कं काष्ठम् । कुटिलमित्यर्थः ।।
</7-3-63>
ओक उचः के ।। <7-3-64> ।।
उचेर्धातोः के प्रत्यये `ओकः इति निपात्यते । किं पुनरत्र निपात्यते ? कुत्वम्, गुणश्च । न्योकः शकुन्तः । न्योको गृहम् ।
कर्त्तरि इगुपधलक्षणः कः प्रत्ययः । अधिकरणादौ तु कारकान्तरे `घञर्थे कविधानम्(वा.306) इति ।
किमर्थं पुनरयं घञ्येव न व्युत्पाद्यते ? स्वरार्थमन्तोदात्तोऽयमिष्यते, घञि सत्याद्युदात्तः स्यात् ।
दिवौकसः, जलौकसः---इत्येवमादावप्यसुनि प्रत्यये उणादयो बहुलम्(3-3-1/3169) इति कुत्वं द्रष्टव्यम् ।।
</7-3-64>
ण्य आवश्यके ।। <7-3-65> ।।
ण्ये परतः आवश्यकेऽर्थे कवर्गो न भवति । अवश्यपाच्यम् । अवश्यवाच्यम् । अवश्यरेच्यम् ।
आवश्यके इति किम् ? पाक्यम् । वाक्यम् । रेक्यम् ।।
</7-3-65>
यजयाचरुचप्रवचर्चश्च ।। <7-3-66> ।।
यज, याच, रुच, प्रवच, ऋच---इत्येतेषां ण्ये परतः कवर्गादेशो न भवति । यज---याज्यम् । याच---याच्यम् । रुच---रोच्यम् । प्रवच---प्रवाच्यम् । ऋच---अर्च्यम् । ऋदुपधादपि ऋचेरत एव निपातनाद् ण्यद्भवति ।
प्रवचग्रहणं शब्दसंज्ञार्थम् । प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति ।
अपरे पुनराहुः---उपसर्गपूर्वस्य नियमार्थम्---प्रपूर्वस्यैव वचेरशब्दसंज्ञायां कुत्वप्रतिषेधो यथा स्यात्,
अन्योपसर्गपूर्वस्य मा भूदिति । `अविवाक्यमहः इति पठन्ति, एतत्तु विशेष एवेष्यते---दशरात्रस्य यद्‌ दशममहः । अन्यत्राविवाच्यमेव भवति ।

  • ण्यति प्रतिषेधे त्यजेरुपसंख्यानम् * (म.भा.3-332)। त्याज्यम् ।।

</7-3-66>
वचोऽशब्दसंज्ञायाम् ।। <7-3-67> ।।
वचोऽशब्दसंज्ञायां ण्यति परतः कवर्गो न भवति । वाच्यमाह । अवाच्यमाह ।
अशब्दसंज्ञायामिति किम् ? अवघुषितं वाक्यमाह ।।
</7-3-67>
प्रयोज्यनियोज्यौ शक्यार्थे ।। <7-3-68> ।।
प्रयोज्य, नियोज्य---इत्येतौ शब्दौ शक्यार्थे निपात्येते । शक्यः प्रयोक्तुं प्रयोज्यः । शक्यो नियोक्तुं नियोज्यः ।
शक्यार्थ इति किम् ? प्रयोग्यः, नियोग्यः ।।
</7-3-68>
भोज्यं भक्ष्ये ।। <7-3-69> ।।
भोज्यं निपात्यते भक्ष्येऽभिधेये । भोज्य ओदनः । भोज्या यवागूः । इह भक्ष्यमभ्यवहार्यमात्रम् ।
भक्ष्य इति किम् ? भोग्यः कम्बलः ।।
</7-3-69>
घोर्लोपो लेटि वा ।। <7-3-70> ।।
घुसंज्ञकानां लेटि परतो वा लोपो भवति । `दधद्रत्नानि दाशुषे(ऋ.4-15-3) । `सोमो ददद् गन्धर्वाय(ऋ.10-85-41) । न च भवति---यदग्निरग्नये ददात् ।
आडागमे सति लोपेऽपि ददादिति सिद्धं भवति । तत्र वावचनं विस्पष्टार्थम् । एषा हि कस्यचिदाशङ्का स्याद्‌---ददादित्येव नित्ये प्राप्ते लोप आरभ्यमाणो बाधत एवैतद्रूपमिति ।।
</7-3-70>
ओतः श्यनि ।। <7-3-71> ।।
ओकारान्तस्याङ्गस्य श्यनि परतो लोपो भवति । शो---निश्यति । छो---अवच्छ्यति । दो---अवद्यति । सो---अवस्यति ।।
</7-3-71>
क्सस्याचि ।। <7-3-72> ।।
क्सस्याजादौ प्रत्यये लोपो भवति । अधुक्षाताम् । अधुक्षाथाम् । अधुक्षि ।
अचीति किम् ? अधुक्षत् । अधुक्षताम् । ककारवत उपादानं किम् ? इह मा भूत्‌---उत्सौ, उत्साः । वत्सौ, वत्साः ।।
</7-3-72>
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ।। <7-3-73> ।।
दुह, दिह, लिह, गुह---इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्सस्य वा लुग्भवति । अदुग्ध, अधुक्षत । अदुग्धाः, अधुक्षथाः । अदुग्ध्वम्, अधुक्षध्वम् । अदुह्वहि, अधुक्षावहि । दिह---अदिग्ध, अधिक्षत । लिह---अलीढ, अलिक्षत । गुह--न्यगूढ, न्यघुक्षत ।
दुहादीनामिति किम् ? व्यत्यपुक्षत ।
आत्मनेपदे इति किम् ? अधुक्षत् । दन्त्ये इति किम् ? अधुक्षामहि ।
लोप इति वर्त्तमाने लुगग्रहणं सर्वादेशार्थम्, तच्च बह्यर्थम् । अन्यत्र त्वन्त्यस्यैव लोपे कृते झलो झलि(8-2-26/2281) इति सकारलोपेन सिद्ध्यति । स्थानिवद्भावोऽपि अकारलोपस्य नास्ति; `पूर्वत्रासिद्धे न स्थानिवत्(पु.वृ.112) इति ।
दन्त्योष्ठ्योऽपि वकारो दन्त्य इति गृह्यते । यदि स न गृह्येत, ततस्तौग्रहणमेवात्र कृतं स्यात् ।।
</7-3-73>
शामामष्टानां दीर्घः श्यनि ।। <7-3-74> ।।
शमादीनामष्टानां दीर्घो भवति श्यनि परतः । शम्---शाम्यति । तम्---ताम्यति । दम्---दाम्यति । भ्रम्‌---भ्राम्यति । क्षम्---क्षाम्यति । क्लम्---क्लाम्यति । मदी---माद्यति ।
अष्टानामिति किम् ? अस्यति । श्यनीति किम् ? भ्रमति । वा भ्राश(3-1-70/2321) इति श्यनो विकल्पः । बभ्राम ।।
</7-3-74>
ष्ठिवुक्लम्याचमां शिति ।। <7-3-75> ।।
ष्ठिवु, क्लमि, आचम्---इत्येतेषां दीर्घो भवति शिति परतः । ष्ठीवति । क्लमु---क्लामति । आचामति ।
क्लमिग्रहणं शबर्थम् ।
चमेराङ्‌पूर्वस्य ग्रहणम्, इह मा भूत्‌---चमति, विचमति ।।
</7-3-75>
क्रमः परस्मैपदेषु ।। <7-3-76> ।।
क्रमः प्रस्मैपदपरे शिति परतो दीर्घो भवति । क्रामति, क्रामतः, क्रामन्ति ।
परस्मैपदेष्विति किम् ? आक्रमते आदित्यः ।
इह उत्क्राम्, संक्राम---इति हेर्लुकि कृते न लुमताङ्गस्य(1-1-66/263) इति प्रत्ययलक्षणप्रतिषेधाद्दीर्घो न प्राप्नोति ? नैष दोषः; लुमता शब्देन लुप्ते यदङ्गं तस्य कार्ये स प्रतिषेधः । न च हौ क्रमिरङ्गम्, किं तर्हि ? शपि ।।
</7-3-76>
इषुगमियमां छः ।। <7-3-77> ।।
इषु, गमि, यम---इत्येतेषां शिति परतश्छकारादेशो भवति । इच्छति । गच्छति । यच्छति ।
इषेरुदितो ग्रहणम्, इह मा भूत्‌---इष्यति, इष्णातीति ।
ये इषिमुदितं नाधीयते, इह च सूत्रे `अचि---इत्यनुवर्त्तयन्ति । तच्च प्रधानमज्ग्रहणं शितीत्यनेन विशेष्यते इति वर्णयन्ति । तथा च सति तदादिविधिर्न भवति । `यस्मिन्विधिस्तदादावल्ग्रहणे(व्या.प.127)---इत्येतदपि विशेषणेनैवेष्यते, तेन इषाणेत्यत्र छत्वं न भवति । न ह्ययमजेव शिदिति ।।
</7-3-77>
प्राघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्यधौशीयसीदाः ।। <7-3-78> ।।
पा, घ्रा, ध्मा, स्था, म्ना, दाण्‌, दृशि, अर्ति, सर्त्ति, शद, सद इत्येतेषां पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय, सीद---इत्येते आदेशा भवन्ति शिति परतः । पा---पिबति । घ्रा---जिग्रति । ध्मा---धमति । स्था---तिष्ठति । म्ना---मनति । दाण्‌यच्छति । दृशि---पश्यति । अर्त्ति---ऋच्छति । सर्त्ति---धावति । शद-शीयते । सद्‌---सीदति ।
पिबतेर्लघूपधगुणः प्राप्नोति, सः `अङ्गवृत्ते पुनर्वत्तावविधिर्निष्ठतस्य(व्या.प.38) इति न भवति । अथ वा---अकारान्तोऽयमादेश आद्युदात्तो निपात्यते ।
सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति । अन्यत्र---सरति, अनुसरतीत्येव भवति ।।
</7-3-78>
ज्ञाजनोर्जा ।। <7-3-79> ।।
ज्ञा, जन---इत्येतयोर्जादेशो भवति शिति परतः । जानाति । जायते । जनेर्दैवादिकस्य ग्रहणम् ।।
</7-3-79>
प्वादीनां ह्रस्वः ।। <7-3-80> ।।
`पू---इत्येवमादीनां ह्रस्वो भवति शिति परतः ।
प्वादयः क्र्यादिषु पठ्यन्ते । `पूञ्‌ पवने(धा.पा.1483)---इत्यतः प्रभृति `व्ली गतौ वृत्‌(धा.पा.1504) इति यावत्केचिदिच्छन्ति, वृत्करणमेतल्ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति । अपरे तु---ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति, आगणान्ताः प्वादय इति ।
पूञ्‌---पुनाति । लूञ्‌---लुनाति । स्तृञ्‌---स्तृणाति ।
येषामागणान्ताः प्वादयः, तेषां जानातीत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर्जा(7-3-79/2511) इति दीर्घकरणसामर्थ्यान्न भवति । जनेरपि हि जादेशे सपि अतो दीर्घो यञि(7-3-101/2170) इति दीर्घत्वेन---जायते इति सिद्ध्यति ।।
</7-3-80>
मीनातेर्निगमे ।। <7-3-81> ।।
मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये । प्रमिणन्ति व्रतानि ।
निगम इति किम् ? प्रमीणाति ।।
</7-3-81>
मिदेर्गुणः ।। <7-3-82> ।।
मिदेरङ्गस्येको गुणो भवति शिति प्रत्यये परतः । मेद्यति, मेद्यतः, मेद्यन्ति । शितीत्येव---मिद्यते ।।
</7-3-82>
जुसि च ।। <7-3-83> ।।
जुसि च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति । अजुहवुः । अबिभयुः । अबिभरुः ।
अथ चिनुयुः, सुनुयुरित्यत्र कस्मान्न भवति ? अत्र द्वे ङित्त्वे---सार्वधातुकाश्रयम्, यासुडाश्रयं च । तत्र नाप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुण आरभ्यमाणस्तमेव बाधते । यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते चाप्राप्ते चारभ्यत इति ।।
</7-3-83>
सार्वधातुकार्धधातुकयोः ।। <7-3-84> ।।
सार्वधातुके आर्धधातुके च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति । तरति । नयति । भवति । आर्धधातुके---कर्ता, चेता, स्तोता ।
सार्वधातुकार्धधातुकयोरिति किम् ? अग्नित्वम् । अग्निकाम्यति । यदि हि प्रत्यये, सङीति वोच्येत, इहापि स्यात् ।।
</7-3-84>
जाग्रोऽविचिण्णल्ङित्सु ।। <7-3-85> ।।
`जागृ---इत्येतस्याङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः । जागरयति । जागरकः । साधुजागरी । जागरंजागरम् । जागरो वर्त्तते । जागरितः । जागरितवान् ।
वृद्धिविषये, प्रतिषेधविषये च यथा स्यात्‌---इति जागर्त्तेरयं गुण आरभ्यते । तस्मिन् कृते या अत उपधायाः(7-2-116/2282) वृद्धिः प्राप्नोति, सा न भवति । यदि हि स्याद्, अनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनमनर्थकम् ।
अविचिण्णल्ङित्स्विति किम् ? `जॄशॄस्तॄजागृभ्यः क्विन्(उ.503)---जागृविः । चिण्‌---अजागारि । णल्‌---जजागार । ङित्‌---जागृतः, जागृथः ।
`वि इति केचिदिकारमुच्चारणार्थं वर्णयन्ति । क्वसावपि वकारादौ गुणो न भवति---जजागृवान् । कथमजागरुः, अहं जजागर इति, अत्र प्रतिषेधः प्राप्नोति ? न; अप्रतिषेधात् । अविचिण्णल्ङित्स्विति पर्युदासोऽयम् ।
अथ वा---`जाग्रः इति प्राप्तिरसावानन्तर्याद्‌ विचिण्णल्ङित्सु प्रतिषिध्यते; या तु जुसि च(7-3-83/2481), सार्वाधातुकार्धधातुकयोः(7-3-84/2168) इति च प्राप्तिः, सा न प्रतिषिध्यते ।।
</7-3-85>
पुगन्तलघूपधस्य च ।। <7-3-86> ।।
पुगन्तस्याङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति । पुगन्तस्य---व्लेपयति, ह्रेपयति, क्नोपयति । लघूपधस्य---भेदनम्, छेदनम्, भेत्ता, छेत्ता ।
प्रत्ययादेरड्गावयवस्य च हलोरानन्तर्ये सति लघूपधगुणो न व्यावर्त्यते---इति ज्ञापितमेतत् क्नुसनोः कित्करणेन । त्रसिगृधिधृषिक्षिपेः क्नुः(3-2-140/3120) । हलन्ताच्च(1-2-10/2613) इति ।
संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति ।
विध्यपेक्षं लघोश्चासौ कथं कुण्डिर्न दुष्यति ।।
धातोर्नुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात् ।
अनल्लोपशीदीर्घत्वे विध्यपेक्षे न सिध्यतः ।।
अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत् ।
क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गुणे ।।
उपधा चात्र इगेव गृह्यते, ततो भिनत्तीति गुणो न भवति ।
अपरे---पुकि अन्तः पुगन्तः; लघ्वी उपधा उघूपधा; पुगन्तश्च लघूपधा च पुगन्तलघूपधमिति सूत्रार्थं वर्णयन्ति ।।
</7-3-86>
नाभ्यस्तस्याचि पिति सार्वधातुके ।। <7-3-87> ।।
अभ्यस्तसंज्ञकस्याङ्गस्य लघूपधस्याजादौ पिति सार्वधातुके गुणो न भवति । नेनिजानि, वेविजानि, परिवेविषाणि । अनेनिजम्, अवेविजम्, पर्यवेविषम् ।
अभ्यस्तस्येति किम् ? वेदानि । अचीति किम् ? नेनेक्ति ।
पिद्‌ग्रहणमुत्तरार्थम् । सार्वधातुक इति किम् ? निनेज ।
लघूपधस्येत्येव---जुहवानि । अजुहवम् ।

  • बहुलं छन्दसीति वक्तव्यम् * (म.भा.3-338)। जुजोषदिति यथा स्यात् । पस्पशाते । चाकशीति । वावशीति । यङ्‌लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम् । पस्पशाते---इत्यत्राभ्यासह्रस्वत्वं च ।

प्रकृत्यन्तराणां वा स्पशिकशिवशीनामेतानि रूपाणि ।।
</7-3-87>
भूसुवोस्तिङि ।। <7-3-88> ।।
भू, सू---इत्येतयोस्तिङि सार्वधातुके गुणो न भवति । अभूत्, अभूः, अभूवम् । सुवै, सुवावहै, सुवामहै । सूतेर्लुग्विकरणस्येदं ग्रहणम् ।
सुवति---सूयत्योर्विकरणेन तिङो व्यवधानम् । विकरणस्यैव ङित्त्वाद्‌ गुणाभावः सिद्धः ।
तिङीति किम् ? भवति ।
`सार्वधातुके इत्येव---व्यतिभविषीष्ट ।
अथ बोभवीतीति यङ्‌लुकि गुणप्रतिषेधः कस्मान्न भवति ? ज्ञापकात् । यदयं बोभूत्विति गुणाभावार्थं निपातनं करोति ।।
</7-3-88>
उतो वृद्धिर्लुकि हलि ।। <7-3-89> ।।
`सार्वधातुके, `पिति इति वर्त्तते । उकारान्तस्याङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके । यौति, यौषि, यौमि । नौति, नौषि, नौमि । स्तौति, स्तौषि, स्तौमि ।
उत इति किम् ? एति, एषि, एमि । लुकीति किम् ? सुनोति, सुनोषि, सुनोमि । हलीति किम् ? यवानि, रवाणि ।
`पिति इत्येव---युतः, रुतः ।
अपि स्तुयाद्राजानम्---इत्यत्र हि `ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद्‌ वृद्धेरभावः ।
नाभ्यस्तस्य(7-3-87/2503) इत्येतदिहानुवर्त्तते---योयोति, रोरोति---इत्येवमाद्यर्थम् ।
</7-3-89>
ऊर्णोतेर्विभाषा ।। <7-3-90> ।।
ऊर्णोतेर्विभाषा वृद्धिर्भवति हलादौ पिति सार्वधातुके । प्रोर्णौति, प्रोर्णोति । प्रोर्णौषि, प्रोर्णोषि । प्रोर्णौमि, प्रोर्णोमि ।
`हलि इत्येव---प्रोर्णवानि ।
</7-3-90>
गुणोऽपृक्ते ।। <7-3-91> ।।
ऊर्णोतेर्धातोरपृक्ते हलि पिति सार्वधातुके गुणो भवति । प्रोर्णोत् । प्रोर्णोः ।
`हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेनैव ज्ञाप्यते---भवत्येषा परिभाषा `यस्मिन्विधिस्तदादावल्ग्रहणे(व्या.प.127) इति ।।
</7-3-91>
तृणह इम् ।। <7-3-92> ।।
`तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके । तृणेढि । तृणेक्षि । तृणेह्मि । अतृणेट्‌ ।
वर्णाश्रयेऽप्यत्र प्रत्ययलक्षणमिष्यते ।
हलीति किम् ? तृणहानि ।
`पिति इत्येव---तृण्ढः ।
`तृणह---इत्यागतश्नम्को गृह्यते, श्नमि कृते इमागमो यथा स्यादिति ।।
</7-3-92>
ब्रुव ईट्‌ ।। <7-3-93> ।।
`ब्रू---इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति । ब्रवीति । ब्रवीषि । ब्रवीमि । अब्रवीत् ।
हलीत्येव---ब्रवाणि । पितीत्येव---ब्रूतः ।।
</7-3-93>
यङो वा ।। <7-3-94> ।।
यङ उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति वा । शाकुनिको लालपीति । दुन्दुभिर्वावदीति । `त्रिधा बद्धो वृषभो रोरवीति । महो देवो मर्त्त्यां आविवेश(ऋ.4-58-3) ।
न च भवति---वर्वर्ति, चर्कर्ति चक्रम् ।
हलादेः पितः सार्वधातुकस्य यङन्तादभाव इति यङ्‌लुगन्तस्योदाहरणम् ।।
</7-3-94>
तुरुस्तुशम्यमः सार्वधातुके ।। <7-3-95> ।।
`तु इति सौत्रोऽयं धातुः, `रु शब्दे(धा.पा.1035), `ष्टुञ्‌ स्तुतौ(धा.पा.1044), `शम उपशमे(धा.पा.1202), `अम गत्यादिषु(धा.पा.465)----इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति । उत्तौति, उत्तवीति । उपरौति, उपरवीति । उपस्तौति, उपस्तवीति । शाम्यध्वम्, शमीध्वम् । अभ्यमति, अभ्यमीति ।
शम्यमोः बहुलं छन्दसि(2-4-73/3400) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं सम्भवति ।
आपिशलाः---`तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि इति पठन्ति । तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति ।
`सार्वधातुके---इत्यनुवर्त्तमाने पुनः सार्वधातुकग्रहणमपिदर्थम् । स्तुवीत, शमीध्वमित्यत्रापि यथा स्यात् इति ।।
</7-3-95>
अस्तिसिचोऽपृक्ते ।। <7-3-96> ।।
अस्तेरङ्गात् सिजन्ताच्च परस्यापृक्तस्य सार्वधातुकस्य ईडागमो भवति । अस्तेः---आसीत् । आसीः ।
सिजन्तात्---अकार्षीत् । असावीत्, अलावीत् । अपावीत् ।
अपृक्ते इति किम् ? अस्ति । अकार्षम् ।
`आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेधः, तेनेह न भवति---आत्थ । अभूदिति ।।
</7-3-96>
बहुलं छन्दसि ।। <7-3-97> ।।
अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडागमो भवति बहुलं छन्दसि विषये । आप एवेदं सलिलं सर्वमाः । आसीदिति स्थाने आः क्रियापदम् । `अहरेवासीन्न रात्रिः(मै.1-5-12) ।
सिचः खल्वपि---`गोभिरक्षाः(ऋ.9-107-9) । `प्रत्यञ्चमत्साः(ऋ.10-28-4) ।
अभैषीर्मा पुत्रकेति च भवति; छान्दसत्वात् । माङ्योगेऽप्यडागमो भवति---अक्षाः, अत्सा इति । सिच इडभावश्च ।।
</7-3-97>
रुदश्च पञ्चभ्यः ।। <7-3-98> ।।
रुदादिभ्यः परस्य सार्वधातुकस्य हलादेरपृक्तस्य ईडागमो भवति । अहोदीत्, अरोदीः । अस्वपीत्, अस्वपीः । अश्वसीत्, अश्वसीः । प्राणीत्, प्राणीः । अजक्षीत्, अजक्षीः ।
पञ्चभ्य इति किम् ? अजागर्भवान् ।
`अपृक्तस्य इत्येव---रोदिति ।।
</7-3-98>
अड्‌ गार्ग्यगालवयोः ।। <7-3-99> ।।
रुदादिभ्यः पञ्चभ्यः परस्य अपृक्तस्य सार्वधातुकस्याडागमो भवति गार्ग्यगालवयोर्मतेन । अरोदत्, अरोदः । अस्वपत्, अस्वपः । अश्वसत्, अश्वसः । प्राणत्, प्राणः । अजक्षत्, अजक्षः ।
गार्ग्यगालवयोर्ग्रहणं पूजार्थम् ।।
</7-3-99>
अदः सर्वेषाम् ।। <7-3-100> ।।
`अद भक्षणे(धा.पा.1012)---अस्मादुत्तरस्यापृक्तस्य सार्वधातुकस्याडागमो भवति सर्वेषामाचार्याणां मतेन । आदत् । आदः ।
`अपृक्तस्य इत्येव---अत्ति । असि ।।
</7-3-100>
अतो दीर्घो यञि ।। <7-3-101> ।।
अकारान्तस्याङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः ।
पचामि, पचावः, पचामः । पक्ष्यामि, पक्ष्यावः, पक्ष्यामः ।
अत इति किम् ? चिनुवः, चिनुमः । यञीति किम् ? पचतः । पचथः ।
`सार्वधातुके इत्येव---अङ्गना, केशवः ।
केचिदत्र `तिङि इत्यनुवर्त्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति ।।
</7-3-101>
सुपि च ।। <7-3-102> ।।
अतो दीर्घो यञि(7-3-101/2170) इत्यनुवर्त्तते । सुपि च यञादौ परतोऽकारान्तस्याङ्गस्य दीर्घो भवति । वृक्षाय । प्लक्षाय । वृक्षाभ्याम् । प्लक्षाभ्याम् ।।
`अतः इत्येव---अग्निभ्याम् ।
`यञि इत्येव---वृक्षस्य । प्लक्षस्य ।।
</7-3-102>
बहुवचने झल्येत् ।। <7-3-103> ।।
बहुवचने झलादौ सुपि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति । वृक्षेभ्यः । प्लक्षेभ्यः । वृक्षेषु । प्लक्षेषु ।
बहुवचन इति किम् ? वृक्षाभ्याम् । प्लक्षाभ्याम् । झलीति किम् ? वृक्षाणाम् । सुपीत्येव---यजध्वम् । पचध्वम् ।।
</7-3-103>
ओसि च ।। <7-3-104> ।।
ओसि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति । वृक्षयोः स्वम् । प्लक्षयोः स्वम् । वृक्षयोर्निधेहि । प्लक्षयोर्निधेहि ।।
</7-3-104>
आङि चापः ।। <7-3-105> ।।
`आङ्‌ इति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते । तस्मिन्नाङि परतश्चकारादोसि च आबन्तस्याङ्गस्यैकारादेशो भवति । खट्‌वया, मालया । खट्‌वयोः, मालयोः । बहुराजया, कारीषगन्ध्यया । बहुराजयोः, कारीषगन्ध्ययोः ।
आप इति पितो ग्रहणं किम् ? कीलालपा ब्राह्मणेन । कीलालपोर्ब्राह्मणकुलयोः ।
`ङ्याब्ग्रहणेऽदीर्घग्रहणम् इति वचनादिह न भवति---अतिखट्‌वेन ब्राह्मणकुलेन ।।
</7-3-105>
सम्बुद्धौ च ।। <7-3-106> ।।
`आपः इति वर्त्तते । सम्बुद्धौ च परत आबन्तस्याङ्गस्य एत्वं भवति । हे खट्‌वे ! हे बहुराजे ! हे कारीषगन्ध्ये ! ।।
</7-3-106>
अम्बार्थनद्योर्ह्रस्वः ।। <7-3-107> ।।
`सम्बुद्धौ इति वर्त्तते । अम्बार्थनामङ्गानां नद्यन्तानां ह्रस्वो भवति सम्बुद्धौ परतः । हे अम्ब ! हे अक्क ! हे अल्ल !
नद्याः खल्वपि---हे कुमारि । हे शार्ङ्गरवि ! हे ब्रह्मबन्धु ! हे अम्बिके !

  • डलकवतीनां प्रतिषेधो वक्तव्यः * (म.भा.3-340)। हे अम्बाडे ! हे अम्बाले ! हे अम्बिके !
  • छन्दसि वेति वक्तव्यम् * । हे अम्बाड, हे अम्बाडे ! हे हे अम्बाल, हे अम्बाले ! हे अम्बिक, हे अम्बिके !
  • तलो ह्रस्वो वा ङिसम्बुद्ध्योरिति वक्तव्यम् * । देवते भक्तिः, देवतायां भक्तिः । हे देवत, हे देवते ! । छन्दस्येव ह्रस्वत्वमिष्यते ।
  • मातॄणां मातच् पुत्रार्थमर्हते * (म.भा.3-340)। मातॄणां मातजादेशो वक्तव्यः सम्बुद्धौ, पुत्राय पुत्रमभिधातुम्, कीदृशाय ? अर्हते । मात्राव्यपदेशमर्हति श्लाघनीयत्वाद्यः पुत्रस्तदर्थम् । हे गार्गीमात ! नद्यृतश्च(5-4-153/833) इति समासान्तापवादो मातजादेशः । चित्करणमन्तोदात्तार्थम् ।।

</7-3-107>
ह्रस्वस्य गुणः ।। <7-3-108> ।।
`सम्बुद्धौ इति वर्तते । ह्रस्वान्तस्याङ्गस्य गुणो भवति सम्बुद्धौ परतः । हे अग्ने ! हे वायो ! हे पटो !
हे कुमारि, हे ब्रह्मबन्धु---इत्येवमादीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति । यदि गुण इष्टः स्यात्, `अम्बार्थानां ह्रस्वः इत्युक्त्वा `नदीह्रस्वयोर्गुणः इत्येवं ब्रूयात् ।।
</7-3-108>
जसि च ।। <7-3-109> ।।
जसि परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति । अग्नयः । वायवः । पटवः । धेनवः । बुद्धयः ।

  • जसादिषु छन्दसि वावचनं प्राग्णौ चङ्युपधाया ह्रस्व इत्येतस्मात् * (म.भा.3-341)। इतः प्रकरणात् प्रभृति छन्दसि वेति वक्तव्यम् । किं प्रयोजनम् ? अम्बे, दर्वि, शतक्रत्वः, पश्वे भृत्यः, किकिदीव्या । अम्बे, अम्ब । पूर्णा दर्वि, पूर्णा दर्वी । अधा शतक्रत्वः, शतक्रतवः । पश्वे भृत्यः, पशवे भृत्यः । किकिदीव्या, किकिदीविना ।।

</7-3-109>
ऋतो ङिसर्वनामस्थानयोः ।। <7-3-110> ।।
`गुणः इति वर्त्तते । ऋकारान्तस्याड्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति । ङौ---मातरि, पितरि, भ्रातरि, कर्तरि । सर्वनामस्थाने---कर्तारौ, कर्तारः । मातरौ, पितरौ, भ्रातरौ ।
तपरकरणं मुखसुखार्थम् ।।
</7-3-110>
घेर्ङिति ।। <7-3-111> ।।
घ्यन्तस्याङ्स्य ङिति प्रत्यये परतो गुणो भवति । अग्नये । वायवे । अग्नेरागच्छति, वायोरागच्छति । अग्ने स्वम् । वायोः स्वम् ।
घेरिति किम् ? सख्ये, पत्ये । ङितीति किम् ? अग्निभ्याम् ।।
`सुपि इत्येव---पट्‌वी । कुरुतः ।।
</7-3-111>
आण्नद्याः ।। <7-3-112> ।।
नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति । कुमार्यै, ब्रह्मबन्ध्वै । कुमार्याः, ब्रह्मबन्ध्वाः ।।
</7-3-112>
याडापः ।। <7-3-113> ।।
आबन्तादङ्गादुतरस्य ङितः प्रत्ययस्य याडागमो भवति । खट्‌वायै । बहुराजायै । कारीषगन्ध्यायै । खट्‌वायाः । कारीषगन्ध्यायाः । बहुराजायाः ।
अतिखट्‌वाय---इत्यत्राकृते दीर्घे ङ्याब्ग्रहणे `अदीर्घः इति वचनाद्याडागमो न भवति, कृते तु लाक्षणिकत्वात् ।
</7-3-113>
सर्वनाम्नः स्याड्‌ढ्रस्वश्च ।। <7-3-114> ।।
सर्वनाम्न आबन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य स्याडागमो ह्रस्वश्च भवति । सर्वस्यै, विश्वस्यै, यस्यै, तस्यै, कस्यै, अन्यस्यै सर्वस्याः, विश्वस्याः, यस्याः, तस्याः, कस्याः, अन्यस्याः ।
`आपः इत्येव---भवति । भवते ।।
</7-3-114>
विभाषा द्वितीयातृतीयाभ्याम् ।। <7-3-115> ।।
द्वितीया, तृतीया---इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याडागमो भवति, द्वितीयातृतीययोश्च ह्रस्वो भवति । द्वितीयस्यै, द्वितीयायै । तृतीयस्यै, तृतीयायै ।।
</7-3-115>
ङेराम्नद्याम्नीभ्यः ।। <7-3-116> ।।
नद्यन्तादाबन्तान्नीत्येतस्माच्चोत्तरस्य ङेरामित्ययमादेशो भवति । कुमार्याम् । गौर्याम् । ब्रह्मबन्ध्वाम् । धीबन्ध्वाम् ।
आपः---खट्‌वायाम् । बहुराजायाम् । कारीषगन्ध्यायाम् ।
नी---राजन्याम् । सेनान्याम् ।।
</7-3-116>
इदुद्भ्याम् ।। <7-3-117> ।।
इकारोकाराभ्यां नदीसंज्ञकाभ्यामुत्तरस्य ङेरामादेशो भवति । कृत्याम् । धन्वाम् ।।
</7-3-117>
औत् ।। <7-3-118> ।।
इदुद्भ्यामुत्तरस्य ङेरौकारादेशो भवति । यन्न नदीसंज्ञं नापि घिसंज्ञमिकारान्तम्, तदिहोदाहरणम् । सख्यौ पत्यौ ।।
</7-3-118>
अच्च घेः ।। <7-3-119> ।।
`औत् इति वर्तते । घिसंज्ञकादुत्तरस्य ङेरौकारादेशो भवति, तस्य च घेरकारादेशो भवति । अग्नौ । वायौ । कृतौ । धेनौ । पटौ ।
अदिति तपरकरणं स्त्रियां टापो निवृत्त्यर्थम् ।
`औदच्च घेः इति येषामेकमेवेदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्त्वं वर्णयन्ति---अन्वाचयशिष्टं घेरकारमिति ।।
</7-3-119>
आङो नाऽस्त्रियाम् ।। <7-3-120> ।।
घेरुत्तरस्याङो नाभावो भवति अस्त्रियाम् । अग्निना । वायुना । पटुना ।
`पुंसि इति नोक्तम्; अमुना ब्राह्मणकुलेन ।
अस्त्रियामिति किम् ? कृत्या । धेन्वा ।।
            इत्युपाध्यायश्रीवामनकृतायां काशिकावृत्तौ
                सप्तमाध्यायस्य तृतीयः पादः
 </7-3-120>