काशिका/सप्तमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः


               अथ सप्तमाध्याये चतुर्थः पादः
णौ चङ्युपधाया ह्रस्वः ।। <7-4-1> ।।
अङ्गस्य(6-4-1/200) इति वर्तते । चङ्‌परे णौ यदङ्गं तस्योपधाया ह्रस्वो भवति । अचीकरत् । अजीहरत् । अलीलवत् । अपीपवत् ।
अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम् । इह तु---मा भवानटिटदिति नित्यत्वात् द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्याकारस्योपधात्वं विहितमिति ह्रस्वो न स्यात् ? नैष दोषः; ओणेर्ऋदित्करणं ज्ञापकम्--नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यत इति ।
णाविति किम् ? `चङ्युपधाया ह्रस्वः इत्युच्यमाने, अलीलवदित्यत्र वचनसामर्थ्यादन्तरङ्गमपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात् । अदीदपदित्यत्र ह्रस्वत्वेन पुको बाधः स्यात् । अपीपचदित्येवमादौ तु नैव स्यात् ।
चङीति किम् ? कारयति । हारयति ।
उपधाया इति किम् ? अचकाङ्‌क्षत् । अववाञ्छत् । तदेतदुपधाग्रहणमुत्तरार्थमवश्यं कर्त्तव्यं तदिहापि ह्रस्वत्वं निवर्त्तयतीत्येवमर्थम्, `येन नाव्यवधानम्(व्या.प.46) इत्येतन्नाश्रयितव्यमिति ।

  • उपधाह्रस्वत्वे णेर्णिच्युपसंख्यानम् * (म.भा.3-345)। वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन । योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेनाग्लोपित्वादङ्गस्य ह्रस्वो न प्राप्नोति । ण्याकृतिनिर्देशात् सिद्धम् ।।

</7-4-1>
नाग्लोपिशास्वृदिताम् ।। <7-4-2> ।।
अग्लोपिनामड्गानां शासेर्ऋदितां च णौ चङ्युपधाया ह्रस्वो न भवति । अग्लोपिनां तावत्---मालामाख्यत् अममालत् । मातरमाख्यत् अममातरत् । राजानमतिक्रान्तवान् अत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् ।
अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिद्ध्यतीति तदर्थमेतद्वचनम् ।
शासेः---अशशासत् । ऋदिताम्---बाधृ, अबबाधत्‌; याचृ-- अययाचत्; ढौकृ, अडुढौकत् ।।
</7-4-2>
भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ।। <7-4-3> ।।
भ्राज, भास, भाष दीप, जीव, मील, पीड---इत्येतेषामङ्गानां णौ चङ्युपधाया ह्रस्वो भवत्यन्यतरस्याम् । भ्राज---अबिभ्रजत्, अबभ्राजत् । भास---अबभासत्, अबीभसत् । भाष---अबभाषत्, अबीभषत् । दीप---अदिदीपत्, अदीदिपत् । जीव---अजिजीवत्, अजीजिवत् । मील---अमिमीलत्, अमीमिलत् । पीड---अपिपीडत्, अपीपिडत् ।
भ्राजभ्रासोर्ऋदित्करणमपाणिनीयम् ।

  • काण्यादीनां वेति वक्तव्यम् * (म.भा.3-346)। अचकाणत्, अचीकणत् ।।

</7-4-3>
लोपः पिबतेरीच्चाभ्यासस्य ।। <7-4-4> ।।
पिबतेरड्गस्य णौ चङ्युपधाया लोपो भवति अभ्यासस्येकारादेशो भवति । अपीप्यत्, अपीप्यताम्, अपीप्यन् । उपधालोपे कृते ओः पुयण्ज्वचनं(7-4-80/2577) ज्ञापकम्---णौ स्थानिवद्भावस्येति । स्थानिवद्भावाद् द्विर्वचनम् ।।
</7-4-4>
तिष्ठतेरित् ।। <7-4-5> ।।
तिष्ठतेरङ्गस्य णौ चङ्युपधाया इकारादेशो भवति । अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन् ।।
</7-4-5>
जिघ्रतेर्वा ।। <7-4-6> ।।
जिघ्रतेरङ्गस्य णौ चङ्युपधाया इकारादेशो वा भवति । अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन् । अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन् ।।
</7-4-6>
उर्ऋत् ।। <7-4-7> ।।
णौ चङ्युपधाया ऋवर्णस्य स्थाने वा ऋकारादेशो भवति । इररारामपवादः । इर्‌---अचिकीर्त्त्, अचीकृतत् । अर्‌---अववर्त्तत्, अवीवृतत् । आर्‌---अममार्जत्, अमीमृजत् । वचनसामर्थ्यादन्तरंड्गा अपि इररारो बाध्यन्ते ।
तपरकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्---अचीकृतदिति । न चायं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपमेवैतदभ्यनुज्ञायते ।।
</7-4-7>
नित्यं छन्दसि ।। <7-4-8> ।।
छन्दसि विषये णौ चङ्युपधाया ऋवर्णस्य स्थाने ऋकारादेशो भवति नित्यम् । अवीवृधत्पुरोडाशेन, अवीवृधताम्, अवीवृधन् ।।
</7-4-8>
दयतेर्दिगि लिटि ।। <7-4-9> ।।
दयतेरङ्गस्य लिटि परतो दिगीत्ययमादेशो भवति । अवदिग्ये, अवदिग्याते, अवदिग्यिरे ।
दयतेरिति दीङो ग्रहणम्, न तु `दय दाने(धा.पा.1135)---इत्यस्य । तस्य हि लिट्याम्विहितः ।
दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते ।।
</7-4-9>
ऋतश्च संयोगादेर्गुणः ।। <7-4-10> ।।
ऋकारान्तस्याङ्गस्य संयोगादेर्गुणो भवति लिटि परतः । स्वृ---सस्वरतुः, सस्वरुः । ध्वृ---दध्वरतुः, दध्वरुः । स्मृ---सस्मरतुः, सस्मरुः ।
ऋत इति किम् ? चिक्षियतुः, चिक्षियुः । संयोगादेरिति किम् ? चक्रतुः, चक्रुः ।
प्रतिषेधविषयेऽपि गुणो यथा स्यादित्ययमारम्भः । वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेवेष्यते । सस्वार । सस्मार । लिटीत्येव---स्मृतः । स्मृतवान् ।

  • संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्त्तव्यम् * (म.भा.3-348)। सञ्चस्करतुः, सञ्चस्करुः---इति । अत्र हि `पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण(सी.प.128) इत्यत्र दर्शने लिटि कृते तदाश्रये च द्विर्वचने पश्चादुपसर्गयोगे सति अडभ्यासव्यवायेऽपि(6-1-136/2539) इति सुट्‌ क्रियते । एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्टेत्यत्र सुटो बहिरङ्गलक्षणस्यासिद्धत्वात् `ऋतश्च संयोगादेः इति इडागमो न भवति ।।

</7-4-10>
ऋच्छत्यॄताम् ।। <7-4-11> ।।
ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ॠकारान्तानां च लिटि परतो गुणो भवति । ऋच्छ---आनर्च्छ, आनर्च्छतुः, आनर्च्छुः । ऋ---आरतुः, आरुः । ॠकारान्तानाम्---निचकरतुः, निचकरुः । निजगरतुः, निजगरुः ।
ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः ।
वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेवेष्यते । निचकार । निजगार ।।
</7-4-11>
शॄदॄप्रां ह्रस्वो वा ।। <7-4-12> ।।
शॄ, दॄ, पॄ----इत्येतेषामङ्गानां लिटि परतो वा ह्रस्वो भवति । विशश्रतुः, विशश्रुः । विशशरतुः, विशशरुः । विदद्रतुः, विदद्रुः । विददरतुः, विददरुः । निपप्रतुः, निपप्रुः । निपपरतुः निपपरुः ।
ह्रस्ववचनमित्त्वोत्त्वनिवृत्त्यर्थम् ।
केचिदेतत्सूत्रं प्रत्याचक्षते । `श्रा पाके(धा.पा.1054), `द्रा कुत्सायाम्(धा.पा.1055), `प्रा पूरणे(धा.पा.1062)---इत्येतेषामनेकार्था धातव इति शॄदॄप्रामर्थे वर्त्तमानानाम्---विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः निपप्रुः---इत्येतानि रूपाणि <K.6.144> साधयन्ति । तथा च सति क्वसौ विशशृवानित्येतद्रूपं
न स्यात् ।
</7-4-12>
केऽणः ।। <7-4-13> ।।
के प्रत्यये परतोऽणो ह्रस्वो भवति । ज्ञका । कुमारिका । किशोरिका ।
अण इति किम् ? गोका । नौका ।
राका, धाका इत्यत्र उणादयो बहुलम् इति ह्रस्वो न भवति । न कपि इति प्रतिषेधसामर्थ्यात्कनोऽपि सानुबन्धकस्य ग्रहणमिह भवति ।।
</7-4-13>
न कपि ।। <7-4-14> ।।
कपि प्रत्यये परतोऽणो ह्रस्वो न भवति । बहुकुमारीकः । बहुवधूकः । बहुलक्ष्मीकः ।
<K.6.145> गोस्त्रियोरुपसर्जनस्य इत्ययमपि ह्रस्वः कपि न भवति । समासार्थे ह्युत्तरपदे कपि कृते पश्चात् कबन्तेन सह समासेन भवितव्यमिति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति ।।
</7-4-14>
<K.6.146>
आपोऽन्यतरस्याम् ।। <7-4-15> ।।
आबन्तस्याङ्गस्य कपि ह्रस्वो न भवत्यन्यतरस्याम् । बहुखट्‌वाकः, बहुखट्‌वकः । बहुमालाकः, बहुमालकः ।।
</7-4-15>
ऋदृशोऽङि गुणः ।। <7-4-16> ।।
ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति । शकलाङ्‌गुष्ठकोऽकरत् । अहं तेभ्योऽकरं नमः । असरत् । आरत् । जरा । दृशेः---अदर्शत्, अदर्शताम्, अदर्शन् ।।
</7-4-16>
अस्यतेस्थुक् ।। <7-4-17> ।।
अस्यतेरङ्गस्य थुगागमो भवत्यङि परतः । आस्थत्, आस्थताम्, आस्थन् ।।
</7-4-17>
श्वयतेरः ।। <7-4-18> ।।
श्वयतेरङ्गस्याकारादेशो भवत्यङि परतः । अश्वत्, अश्वताम्, अश्वन् ।।
</7-4-18>
पतः पुम् ।। <7-4-19> ।।
पतेरङ्गस्य पुमागमो भवत्यङि परतः । अपप्तत्, अपप्तताम्, अपप्तन् ।।
</7-4-19>
वच उम् ।। <7-4-20> ।।
वचेरङ्गस्य अङि परत उमागमो भवति । अवोचत्, अवोचताम्, अवोचन् ।।
</7-4-20>
शीङः सार्वधातुके गुणः ।। <7-4-21> ।।
शीङोऽङ्गस्य सार्वधातुके परतो गुणो भवति । शेते, शयाते, शेरते । सार्वधातुक इति किम् ? शिश्ये ।।
</7-4-21>
अयङ्यि क्ङिति ।। <7-4-22> ।।
यकारादौ क्ङिति प्रत्यये परतः शीङोऽङ्गस्य `अयङ्‌---इत्ययमादेशो भवति । शय्यते । शाशय्यते । प्रशय्य । उपशय्य ।
यीति किम् ? शिश्ये । क्ङितीति किम् ? शेयम् ।।
</7-4-22>
उपसर्गाद्‌ध्रस्व ऊहतेः ।। <7-4-23> ।।
उपसर्गादुत्तरस्य ऊहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः । समुह्यते । समुह्य गतः । अभ्युह्यते । अभ्युह्य गतः ।
उपसर्गादिति किम् ? ऊह्यते । ऊहतेरिति किम् ? समीह्यते ।
`यि इत्येव---समूहितम् । `क्ङिति इत्येव---समूह्योऽयमर्थः । `अणः इत्येव---आ ऊह्यते=ओह्यते । समोह्यते ।।
</7-4-23>
एतेर्लिङि ।। <7-4-24> ।।
एतेरङ्गस्योपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति । उदियात् । समियात् । अन्वियात् । आशिषि लिङि अकृत्सार्वधातुकयोः(7-4-25/2298) इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति ।
उपसर्गादित्येव---ईयात् । `अणः इत्येव---आ ईयात् = एयात् । समेयात् ।।
</7-4-24>
अकृत्सार्वधातुकयोर्दीर्घः ।। <7-4-25> ।।
अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतोऽजन्तस्याङ्गस्य दीर्घो भवति । भृशायते । सुखायते । दुःखायते । चीयते, चेचीयते । स्तूयते, तोष्टूयते । चीयात् । स्तूयात् ।
अकृदिति किम् ? प्रकृत्य । प्रहृत्य । परत्वाद्दीर्घत्वेन तुको बाधः स्यात् ।
असार्वधातुक इति किम् ? चिनुयात् । सुनुयात् ।
`क्ङिति इत्येव---उरुया । धृष्णुया ।।
</7-4-25>
च्वौ च ।। <7-4-26> ।।
च्विप्रत्यये परतोऽजन्तस्याङ्गस्य दीर्घो भवति । शुचीकरोति । शुचीभवति । शुचीस्यात् । पटूकरीति । पटूभवति । पटूस्यात् ।।
</7-4-26>
?Bरीङ्‌ ऋतः ।। <7-4-27> ।।
ऋकारान्तस्याङ्गस्य अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परतः `रीङ्‌ इत्ययमादेशो भवति । माक्षीयति, माक्षीयते । पित्रीयति, पित्रीयते । चेक्रीयते । मात्रीभूतः ।
`क्ङिति इत्येतन्निवृत्तम्, तेनेहापि भवति---पितुरागतं पित्र्यम् ।
ऋत इति तपरकरणं किम् ? चेकीर्यते । निजेगिल्यते ।।
</7-4-27>
रिङ्‌ शयग्लिङ्‌क्षु ।। <7-4-28> ।।
ऋकारान्तस्याङ्गस्य श, यक्‌---इत्येतयोर्लिङि च यकारादावसार्वधातुके परतः `रिङ्‌ इत्ययमादेशो भवति । श---आद्रियते, आध्रियते । यक्‌---क्रियते, ह्रियते । लिङ्‌---क्रियात् । ह्रियात् ।
रिङ्‌वचनं दीर्घनिवृत्त्यर्थम् ।
`असार्वधातुके इत्येव---बिभृयात् । `यि इत्येव---कृषीष्ट, हृषीष्ट ।।
</7-4-28>
गुणोऽर्तिसंयोगाद्योः ।। <7-4-29> ।।
ऋतः यकि लिङि इति वर्त्तते । `श इत्यत्रासम्भवान्निवृत्तम् । गुणो भवत्यर्तेः संयोगादीनामृकारान्तानां यकि परतो लिङि च यकारादावसार्वधातुके । अर्यते, अर्यात् । स्मर्यते, स्मर्यात् ।
इह संस्क्रियते, संस्क्रियादिति सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद्, अभक्तत्वाद्वा संयोगादित्वमङ्गस्य नास्तीति
गुणो न प्रवर्त्तते ।
`यि इत्येव---स्वृषीष्ट । ध्वृषीष्ट ।`असार्वधातुके इत्येव---इयृयात् ।।
</7-4-29>
यङि च ।। <7-4-30> ।।
यङि च परतः, अर्त्तेः संयोगादेश्च ऋतो गुणो भवति । अरार्यते । सास्वर्यते । दाध्वर्यते । सास्मर्यते । अर्तेः `अट्यर्त्यशूर्णोतीनामुपसंख्यानम्(7-4-82/2630.वा.) इति यङ्।
न न्द्राः संयोगादयः(6-1-3/2446) इति द्विर्वचनप्रतिषेधो यकारस्य नेष्यते ।

  • हन्तेर्हिंसायां यङि घ्नीभावो वक्तव्यः * (म.भा.3-349)। जेघ्नीयते । हिंसायामिति किम् ? जङ्घन्यते ।।

</7-4-30>
ई घ्राध्मोः ।। <7-4-31> ।।
`घ्रा, `ध्मा---इत्येतयोर्यङि परत ईकारादेशो भवति । जेघ्रीयते । देध्मीयते ।।
</7-4-31>
अस्य च्वौ ।। <7-4-32> ।।
`ई इति वर्तते । अवर्णान्तस्याङ्गस्य च्वौ परत ईकारादेशो भवति । शुक्लीभवति, शुक्लीस्यात् । खट्‌वीकरोति, खट्‌वीस्यात् ।।
</7-4-32>
क्यचि च ।। <7-4-33> ।।
`अस्य इति वर्त्तते । क्यचि परतोऽवर्णान्तस्याङ्गस्य ईकारादेशो भवति । पुत्रीयति । घटीयति । खट्‌वीयति । मालीयति । अकृत्सार्वधातुकयोर्दीर्घः(7-4-25/2298) इत्यस्यापवादः ।
पृथग्योगकरणमुत्तरार्थम् ।।
</7-4-33>
अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु ।। <7-4-34> ।।
अशनाय, उदन्य, धनाय---इत्येतानि निपात्यन्ते, बुभुक्षा, पिपासा, गर्ध---इत्येतेष्वर्थेषु । अशनायेति---अशनशब्दस्यात्वं क्यचि निपात्यते । अशनायतीति भवति, बुभुक्षा चेत् । अशनीयतीत्येवान्यत्र ।
उदन्येति---उदकशब्दस्य उदन्नादेशो निपात्यते । उदन्यतीति भवति, पिपासा चेत् । उदकीयतीत्येवान्यत्र ।
धनायेति---धनशब्दस्यात्वं निपात्यते । धनायतीति भवति, गर्धश्चेत् । धनीयतीत्येवान्यत्र ।।
</7-4-34>
नच्छन्दस्यपुत्रस्य ।। <7-4-35> ।।
छन्दसि विषये पुत्रवर्जितस्यावर्णान्तस्याङ्गस्य क्यचि यदुक्तं तन्न भवति । किं चोक्तम् ? दीर्घत्वम्, ईत्वं च । `मित्रयुः(मै.2-6-12) । `संस्वेदयुः(मै.4-12-2) । `देवाञ्जिगाति सुम्नयुः(ऋ.3-27-1) ।
अपुत्रस्येति किम् ? `पुत्रीयन्तः सुदानवः(ऋ.7-96-4) ।

  • अपुत्रादीनामिति वक्तव्यम् * (म.भा.3-349)। `जनीयन्तोऽन्वग्रवः(ऋ.7-96-4) ।।

</7-4-35>
दुरस्पुर्द्रविणस्युर्वृषण्यति रिषण्यति ।। <7-4-36> ।।
दुरस्युः, द्रविणस्युः, वृषण्यति, रिषण्यति---इत्येतानि छन्दसि निपात्यन्ते । दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते । अवियोना दुरस्युः । दुष्टीयतीति प्राप्ते ।
द्रविणशब्दस्य द्रविणस्भावो निपात्यते । `द्रविणस्युर्विपन्यया(ऋ।6-16-34) । द्रविणीयतीति प्राप्ते ।
वृषशब्दस्य वृषण्भावो निपात्यते । `वृषण्यति(ऋ.9-5-6) । वृषीयतीति प्राप्ते ।।
रिष्टशब्दस्य रिषण्भावो निपात्यते । `रिषण्यति(ऋ.2-23-12) । रिष्टीयतीति प्राप्ते ।।
</7-4-36>
अश्वाघस्यात् ।। <7-4-37> ।।
अश्व, अघ---इत्येतयोः क्यचि परतश्छन्दसि विषये आकारादेशो भवति । `अश्वायन्तो मघवन्(ऋ.7-32-23) । `मा त्वा वृका अघायवो विदन्(काठ.2-7-39) ।
एतदेवात्त्ववचनं ज्ञापकम्---नच्छन्दस्यपुत्रस्य(7-4-35/3588) इति दीर्घप्रतिषेधो भवतीति ।।
</7-4-37>
देवसुम्नयोर्यजुषि काठके ।। <7-4-38> ।।
देव, सुम्न---इत्येतयोः क्यचि परत आकारादेशो भवति काठके यजुषि । `देवायन्तो यजमानाय(काठ.2-9) । `सुम्नायन्तो हवामहे(काठ.8-17-76) ।
यजुषीति किम् ? `देवाञ्जिगाय सुम्नयुः(ऋ.3-27-1) । काठक इति किम् ? `सुम्नयुरिदमासीत्(तै.2-5-7-4) ।।
</7-4-38>
कव्यध्वरपृतनस्यर्चि लोपः ।। <7-4-39> ।।
कवि, अध्वर, पृतना---इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये । कव्यन्तः सुमनसः । अध्वर---`अध्वर्यन्तः(4-6-3-3) । पृतना---`पृतन्यन्तस्तिष्ठन्ति(पै.2-89-4) ।।
</7-4-39>
द्यतिस्यतिमास्थामित्ति किति ।। <7-4-40> ।।
द्यति, स्यति, मा, स्था---इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः । द्यति---निर्दितः, निर्दितवान् । स्यति---अवसितः, अवसितवान् । मा---मितः, मितवान् । स्था---स्थितः, स्थितवान् ।
तीति किम् ? अवदाय । कितीति किम् ? अवदाता ।।
</7-4-40>
शाच्छोरन्यतरस्याम् ।। <7-4-41> ।।
शा, छा---इत्येतयोरन्यतरस्यामिकारादेशो भवति तकारादौ किति । शा---निशितम्, निशातम् । निशितवान्, निशातवान् । छा---अवच्छितम्, अवच्छातम् । अवच्छितवान्, अवच्छातवान् ।

  • श्यतेरित्वं व्रते नित्यमिति वक्तव्यम् * (म.भा.3-350)। संशितो ब्राह्मणः । संशितव्रत इत्यर्थः । व्यस्थितविभाषाविज्ञानात् सिद्धम् ।

`देवत्रातो गलो ग्राह इतियोगे च सद्विधिः ।
मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः ।।(म.भा.3-350)
</7-4-41>
दधातेर्हिः ।। <7-4-42> ।।
दधातेरङ्गस्य `हि इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः । हितः । हितवान् । हित्वा ।।
</7-4-42>
जहातेश्च क्त्वि ।। <7-4-43> ।।
जहातेरङ्गस्य `हि इत्ययमादेशो भवति क्त्वाप्रत्यये परतः । हित्वा राज्यं वनं गतः । हित्वा गच्छति ।
जहातेर्निर्देशाज्जिहीतेर्न भवति---हात्वा ।।
</7-4-43>
विभाषा छन्दसि ।। <7-4-44> ।।
जहातेरङ्गस्य विभाषा `हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः । `हित्वा शरीरं(तै.ब्रा.2-5-6-5) यातव्यम् । हात्वा ।।
</7-4-44>
सुधितवसुधितनेमधितधिष्वधिषीय च ।। <7-4-45> ।।
सुधित, वसुधित, नेमधित, धिष्व, धिषीय---इत्येतानि छन्दसि विषये निपात्यन्ते । तत्र सुधित, वसुधित, तेमधित---इति सु--वसु--नेमपूर्वस्य दधातेः क्त्वाप्रत्यये इत्त्वमिडागमो वा प्रत्ययस्य निपात्यते । `गर्भं माता सुधितम्(ऋ.10-27-16) । सुहितमिति प्राप्ते । वसुधितमग्नौ जुहोति । वसुहितमिति प्राप्ते । `नेमधिता(ऋ.10-93-13) बाधन्ते । नेमहिता इति प्राप्ते ।
धिष्वेति---लोण्मध्यमैकवचने दधातेरित्त्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते । `धिष्व सोमम्(ऋ.8-33-15) । धत्स्वेति प्राप्ते ।
धिषीयेति---आशीर्लिङ्यात्मनेपदोत्तमैकवचने दधातेरित्वमिडागमो वा प्रत्ययस्य निपात्यते । `धिषीय(तै.1-6-4-4) । धासीयेति प्राप्ते ।।
</7-4-45>
दो दद् घोः ।। <7-4-46> ।।
`दा---इत्येतस्य घुसंज्ञकस्य `दद् इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः । दत्तः । दत्तवान् । दत्तिः ।
द इति किम् ? धातः । धातवान् । धेट एतद्रूपम् । घोरिति किम् ? `दाप् लवने(धा.पा.1060) । दातं बर्हिः । `दैप्‌ शोधने(धा.पा.925) । अवदातं मुखम् ।
अयमादेशस्थान्त इष्यते । एवं ह्युक्तम्---
`तान्ते दोषो दीर्घत्वं स्याद्दान्ते दोषो निष्ठानत्वम् ।
धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात्थान्तम् ।।(म.भा.3-350,351)
यदि तु `दस्ति इति तकारादौ दीर्घत्वम्, तदा तान्तेऽप्यदोषः । दान्तधान्तयोरपि `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य(व्या.पा.12) इति नत्वधत्वे न भविष्यत इति न दोषः ।।
`अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ।।(म.भा.3-351)
अच उपसर्गात्तः(7-4-47/3078) इति प्राप्ते निपात्यन्ते । अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः ।।
</7-4-46>
अच उपसर्गात्तः ।। <7-4-47> ।।
अजन्तादुपसर्गादुत्तरस्य `दा---इत्येतस्य घुसंज्ञकस्य `त---इत्ययमादेशो भवति तकारादौ किति । प्रत्तम्, अवत्तम्, नीत्तम्, परीत्तम् ।
अच इति किम् ? निर्दत्तम् । दुर्दत्तम् ।
उपसर्गादिति किम् ? दधि दत्तम् । मधु दत्तम् ।
`घोः इत्येव---अवदातं मुखम् ।
उपसर्गादिति पञ्चमीनिर्द्देशादादेरलः प्राप्नोति ? तत्र समाधिमाहुः---`अचः इत्येतद् द्विरावर्तयिव्यम्, तत्रैकं पञ्चम्यन्तम् उपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशार्थमित्याकारस्य स्थाने तकारो भवति । द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात् सर्वस्य भविष्यति । अपो भि(7-4-48/442) इत्यत्र पञ्चम्यन्तम् `अचः इत्यनुवर्त्तते, तेन पकारमात्रस्य भविष्यति ।

  • द्यतेरित्वादचस्त इत्येतद्भवति विप्रतिषेधेन * (म.भा.3-351)। अवत्तम् । `प्रत्तं जुहोति(मै.1-6-9) ।।

</7-4-47>
अपो भि ।। <7-4-48> ।।
`अप्‌---इत्येतस्याङ्गस्य भकारादौ प्रत्यये परतः `त इत्ययमादेशो भवति । अद्भिः । अद्भ्यः ।
भीति किम् ? अप्सु ।

  • स्ववः स्वतवसोर्मास उषसश्च तकारादेश इष्यते छन्दसि भकारादौ *(म.भा.3-352)। स्ववद्भिः । स्वतवद्भिः

। माद्भिरिष्ट्वा इन्द्रो वृत्रहा । `समुषद्भिरजायथाः(ऋ.1-6-3) ।।
</7-4-48>
सः स्यार्धधातुके ।। <7-4-49> ।।
सकारान्तस्याङ्गस्य सकारादावार्धधातुके परतस्तकारादेशो भवति । वत्स्यति; अवत्स्यत् । विवत्सति । जिघत्सति ।
स इति किम् ? वक्ष्यति । सीति किम् ? घासः । वासः । आर्धधातुक इति किम् ? आस्से । वस्से ।।
</7-4-49>
तासस्त्योर्लोपः ।। <7-4-50> ।।
तासेरस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति । तासेः---कर्तासि । कर्तासे । अस्तेः---त्वमसि । व्यतिसे ।
अस्तेरकारसकारयोर्लुप्तयोः `से इति प्रत्ययमात्रमेतत्पदम्, तेन सात्पदाद्योः(8-3-111/2123) इति षत्वं न भवति ।।
</7-4-50>
रि च ।। <7-4-51> ।।
रेफादौ च प्रत्यये परतः तासस्त्योः सकारस्य लोपो भवति । कर्तारौ, कर्तारः । अध्येतारौ, अध्येतारः ।।
</7-4-51>
ह एति ।। <7-4-52> ।।
तासस्त्योः सकारस्य हकारादेशो भवति एति परतः । कर्ताहे । अस्तेः---व्यतिहे ।।
</7-4-52>
यीवर्णयोर्द्दीधीवेव्योः ।। <7-4-53> ।।
यकारादाविवर्णादौ च परतो दीधीवेव्योर्लोपो भवति । यकारादौ---आदीध्य गतः । आवेव्य गतः । आदीध्यते । आवेव्यते ।
इवर्णादौ---आदीधिता । आवेविता । लिङि---आदीधीत । आवेवीत ।
यीवर्णयोरिति किम् ? आदीध्यनम् । आवेव्यनम् ।।
</7-4-53>
सनि मीमाघुरभलभशकपतपदामच इस् ।। <7-4-54> ।।
सनि प्रत्यये सकारादौ परतो मी, मा, घु, रभ, लभ, शक, पत, पद---इत्येतेषामङ्गानामचः स्थाने इसित्ययमादेशो भवति । `मी इति मीनातिमिनोत्योर्द्वयोरपि ग्रहणमिष्यते । मित्सति । प्रमित्सति । `मा इति गामादाग्रहणेष्वविशेषः । मित्सते । अपमित्सते । घु---दित्सति, धित्सति । रभ---आरिप्सते । लभ---आलिप्सते । शक---शिक्षति । पत---पित्सति । पद---प्रपित्सते ।
सनीति किम् ? दास्यति ।
`सि इत्येव---पिपतिषति । * तनिपतिदरिद्राणामुसंख्यानम् *(कात्या.वा.5059) इति पतेरिडागमविकल्पः ।

  • सनि राधो हिंसायामच इस्वक्तव्यः * । प्रतिरित्सति । हिंसायामिति किम् ? आरिरात्सति ।।

</7-4-54>
आप्ज्ञप्यृधामीत् ।। <7-4-55> ।।
आप्‌, ज्ञपि, ऋध---इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः । आप्‌---ईप्सति । ज्ञपि--ज्ञीप्सति । ऋध्‌--ईर्त्सति ।
ज्ञपेर्द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य त्वीत्त्वम् ।
`सनि इत्येव---प्राप्स्यति । सीत्येव---जिज्ञपयिषति । अर्दिधिषति । सनीवन्तर्ध(7-2-49/2618) इति ज्ञपेः, ऋधेश्चेटो विकल्पः ।।
</7-4-55>
दम्भ इच्च ।। <7-4-56> ।।
दम्भेरच इकारादेशो भवति, चकारादीच्च सनि सकारादौ परतः । धीप्सति, धिप्सति । `सि इत्येव---दिदम्भिषति ।।
</7-4-56>
मुचोऽकर्मकस्य गुणो वा ।। <7-4-57> ।।
मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः । हलन्ताच्च(1-2-10/2613) इति कित्त्वप्रतिषेधो विकल्प्यते । मोक्षते वत्सः स्वयमेव, मुमुक्षते वत्सः स्वयमेव ।
अकर्मकस्येति किम् ? मुमुक्षति वत्सं देवदत्तः । कर्मकर्त्तरि मुचिरकर्मको भवति, कर्मविशेषस्याविवक्षितत्वाद्वा ।।
</7-4-57>
अत्र लोपोऽभ्यासस्य ।। <7-4-58> ।।
यदेतत्प्रक्रान्तम्---सनि मीमा(7-4-54/2623) इत्यादि मुचोऽकर्मकस्य(7-4-57/2624) इति यावत्, अत्राभ्यासलोपो भवति । तथैवोदाहृतम् । `अभ्यासस्य इत्येतच्चाधिकृतं वेदितव्यम् आ अध्यायपरिसमाप्तेः । इत उत्तरं यद्वक्ष्यामोऽभ्यासस्येत्येवं तद्वेदितव्यम् । वक्ष्यति---ह्रस्वः(7-4-59/2180) । डुढौकिषते । तुत्रौकिषते ।
`सनि मीमाघुरभलभशकपतपदामच इस् अभ्यासलोपश्च इत्येवं सिद्धे यद् `अत्र ग्रहणमिह क्रियते तद्विषयावधारणार्थम्---अत्रैवाभ्यासलोपो भवति, सन्वद्भावविषये न भवति । अमीमपत् । अदीदपत् । सन्वल्लघुनि चङ्‌परे(7-4-93/2316) इति सन्वद्भावात् प्राप्नोति ।
सर्वस्याभ्यासस्यायं लोप इष्यते, तदर्थमेव केचिद् `अत्र ग्रहणं वर्णयन्ति ।
`नानर्थकेऽलोऽन्त्यविधिः(व्या.प.62)---इत्यपरे सर्वस्य कुर्वन्ति ।।
</7-4-58>
ह्रस्वः ।। <7-4-59> ।।
ह्रस्वो भवत्यभ्यासस्य । डुढौकिषते, तुत्रौकिषते । डुढौके, तुत्रौके । अडुढौकत्, अतुत्रौकत् ।

  • अभ्यासस्यानचि * (म.भा.3-352)। अभ्यासस्य यदुच्यते अनचि तद्भवतीति वक्तव्यम् । चराचरः । चलाचलः । पतापतः । वदावदः । हलादिः शेषो न भवति ।।

</7-4-59>
हलादिः शेषः ।। <7-4-60> ।।
अभ्यासस्य हलादिः शिष्यते, अनादिर्लुप्यते । जग्लौ । मम्लौ । पपाच । पपाठ । आट, आटतुः, आटुः ।
आदिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, तत्र अभ्यासजातेराश्रयणात् क्वचिदपि वर्त्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति ।
अपरे तु ब्रुवते---शेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह । तदवस्थानमुक्तितो यद्यपि प्रधानम्, अविधेयत्वात्तु तदप्रधानम्; निवृत्तेरेव तु विधेयत्वात्प्राधानम् । तत्रायमर्थोऽस्य जायते---अभ्यासस्यानादेर्हलो निवृत्तिर्भवतीति । सा किमित्यादेरविधेयां सतीमनिवृत्तिमपेक्षिष्यत इति ।।
</7-4-60>
शर्पूर्वाः खयः ।। <7-4-61> ।।
अभ्यासस्य शपूर्वाः स्वयः शिष्यन्ते, अन्ये हलो लुप्यन्ते । चुश्च्योतिषति । तिष्ठासति । पिस्पन्दिषते ।
शर्पूर्वा इति किम् ? पपाच । खय इति किम् ? सस्नौ ।

  • खर्पूर्वाः खय इति वक्तव्यम् * (म.भा.3-353)। उचिच्छिषतीत्यत्र उच्छेरन्तरङ्गत्वात्तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सत्यभ्यासे तकारः श्रूयेत ।।

</7-4-61>
कुहोश्चुः ।। <7-4-62> ।।
अभ्यासस्य कवर्गहकारयोश्चवर्गादेशो भवति । चकार । चखान । जगाम । जघान । हकारस्य---जहार । जिहीर्षति । जहौ ।
</7-4-62>
न कवतेर्यङि ।। <7-4-63> ।।
कवतेरभ्यासस्य यङि परतश्चुर्न भवति । कोकूयते उष्ट्रः । कोकूयते खरः ।
`कवतेः इति विकरणनिर्द्देशः कौतेः, कुवतेश्च निवृत्त्यर्थः । तयोश्चुत्वमेव भवति---चोकूयते ।
यङीति किम् ? चुकुवे ।।
</7-4-63>
कृषेश्छन्दसि ।। <7-4-64> ।।
कृषेश्छन्दसि विषये यङि परतोऽभ्यासस्य चुर्न भवति । करीकृष्यते यज्ञकुणपः ।
छन्दसीति किम् ? चरीकृष्यते कृषीवलः ।।
</7-4-64>
दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत् करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतः सरीसृपतं वरीवृजन्मर्मृज्यागनीगन्तीति च ।। <7-4-65> ।।
दाधर्ति, दर्धति, दर्धषि, बोभूतु, तेतिक्ते, अलर्षि, आपनीफणत्, संसनिष्यदत्, करिक्रत्, कनिक्रदत्, भरिभ्रत्‌, दविध्वतः, दविद्युतत्, तरित्रतः, सरीसृपतम्, वरीवृजत्, मर्मृज्य, आगनीगन्ति---इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते । दाधर्ति दर्धर्ति दर्धर्षीति---धारयतेः, धृङो वा श्लौ यङ्‌लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च । दाधर्ति । एवं दर्धति---श्लौ रुगभ्यासस्य निपात्यते । तथा दर्धर्षीति । अत्र च यल्लक्षणेनानुपपन्नं तत्सर्वं निपातनात्सिद्धम् ।
बोभूत्विति---भवतेर्यङ्‌लुगन्तस्य लोटि गुणाभावो निपात्यते । नैतदस्ति प्रयोजनम्; अत्र भूसुवोस्तिङि(7-3-88/2224) इति गुणाभावः सिद्धः ? ज्ञापनार्थं तर्हि निपातनमेतत् । ज्ञापयति---अन्यत्र यङ्‌लुगन्तस्य गुणप्रतिषेधो न भवतीति । बोभोति, बोभवीति ।
तेतिक्ते---तिजेर्यङ्‌लुगन्तस्यात्मनेपदं निपात्यते । यङो ङित्त्वात् प्रत्ययलक्षणेनात्मनेपदं सिद्धमेव ? ज्ञापनार्थं तु आत्मनेपदनिपातनम्---`अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति ।
अलर्षीति---इयर्तेर्लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते । सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते---`अलर्ति दक्षः(ऋ.8-48-8) ।
आपनीफणदिति(ऋ.4-40-4)---फणतेराङ्‌पूर्वस्य यङ्‌लुगन्तस्य शतर्यभ्यासस्य नीग्निपात्यते ।
संसनिष्यदिति(मै.1-11-2)---स्यन्देः संपूर्वस्य यङ्‌लुक्‌, शतर्येवाभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते । न चास्य सम्पूर्वता तन्त्रम्, अन्यत्रापि हि दृश्यते---आसनिष्यददिति ।
करिक्रदिति(ऋ.1-131-3)---करोतेर्यङ्‌लुन्तस्य शतरि चुत्वाभावः, अभ्यासककारस्य रिगागमो निपात्यते ।
कनिक्रददिति(ऋ.1-128-3)----क्रन्देर्लुङि च्लेरङादेशो द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते । तथा चास्य हि विवरणं कृतम् । अक्रन्दीदिति भाषायाम् ।
भरिभ्रदिति(ऋ.10-45-7)---बिभर्त्तेर्यङ्‌लुगन्तस्य शतरि भृञामित्(7-4-76/2496) इति इत्त्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमो निपात्यते ।
दविध्वत इति---ध्वरतेर्यङ्‌लुगन्तस्य शतरि जसि रूपमेतत् । अत्राभ्यासस्य विगागम ऋकारलोपश्च निपात्यते । `दविध्वतो रश्मयः सूर्यस्य(ऋ.4-13-4) ।
दविद्युतदिति(ऋ.6-16-45)---द्युतेर्यङ्‌लुन्तस्य शतरि अभ्यासस्य सम्प्रसारणाभावः, अत्वम्, विगागमश्च निपात्यते ।
तरित्रत इति---तरतेः शतरि श्लौ षष्ठ्येकवचनेऽभ्यासस्य रिगागमो निपात्यते ।
सरीसृपतमिति---सृपेः शतरि श्लौ द्वितीयैकवचनेऽभ्यासस्य रीगागमो निपात्यते ।
वरीवृजदिति(ऋ.7-24-4)--वृजेः शतरि श्लौ रीगागमो निपात्यतेऽभ्यासस्य ।
मर्मृज्येति---मृजेर्लिटि णलि अभ्यासस्य रुगागमो धातोश्च युगागमो निपात्यते । ततः मृजेर्वृद्धिः(7-2-114/2473) न भवति; अलघूपधत्वात् । लघूपधगुणे प्राप्ते वृद्धिरारभ्यते ।
आगनीगन्तीति---आङ्‌पूर्वस्य गमेर्लटि श्लौ अभ्यासस्य चुत्वाभावो नीगागमश्च निपात्यते । `वक्ष्यन्ती देवदागनीगन्ति कर्णम्(ऋ.6-75-3) ।
इतिकरणमेवम्प्रकाराणामन्येषामप्युपसंग्रहार्थम् ।।
</7-4-65>
उरत् ।। <7-4-66> ।।
ऋवर्णान्तस्याभ्यासस्याकारादेशो भवति । ववृते, ववृधे, शशृधे ।
नर्नति, नरिनर्त्ति, नरीनर्ति---इत्येवमादौ `अभ्यासविकारेषु अपवादो नोत्सर्गान्विधीन्बाधते(व्या.प.23) इत्युरदत्वे कृते रुगादय आगमाः क्रियन्ते ।।
</7-4-66>
द्युतिस्वाप्योः सम्प्रसारणम् ।। <7-4-67> ।।
द्युति, स्वापि---इत्येतयोरभ्यासस्य सम्प्रसारणं भवति । विदिद्युते । व्यदिद्युतत् । विदिद्योतिषते । विदिद्युतिषते । विदेद्युत्यते ।
स्वापेः---सुष्वापयिषति ।
स्वापिर्ण्यन्तो गृह्यते, तस्याभ्यासनिमित्तेन प्रत्ययेनानन्तर्ये सति सम्प्रसारणमिष्यते । इह न भवति---स्वापयतेर्ण्वुल् स्वापकः, तस्मात् क्यचि स्वापकीयति, स्वापकीयतेः सन्‌---सिष्वापकीयिषति ।।
</7-4-67>
व्यथो लिटी ।। <7-4-68> ।।
व्यथेर्लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति । विव्यथे, विव्यथाते, विव्यथिरे । हलादिः शेषेण यकारस्य निवृत्तौ प्राप्तायां सम्प्रसारणं क्रियते, यकारस्य न सम्प्रसारणे सम्प्रसारणम्(6-1-37/363) इति प्रतिषिध्यते । लिटीति किम् ? वाव्यथ्यते ।।
</7-4-68>
दीर्घ इणः किति ।। <7-4-69> ।।
इणोऽङ्गस्य योऽभ्यासस्तस्य दीर्घो भवति किति लिटि परतः । ईयतुः । ईयुः । इणो यण्‌(6-4-81/2455) इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम् ।
कितीति किम् ? इयाय । इययिथ ।।
</7-4-69>
अत आदेः ।। <7-4-70> ।।
अभ्यासस्यादेरकारस्य दीर्घो भवति लिटि परतः । अतो गुणे(6-1-97/191) पररूपत्वस्यापवादः । आट, आटतुः, आटुः ।
आदेरिति किम् ? पपाच । पपाठ ।।
</7-4-70>
तस्मान्नुड्‌ द्विहलः ।। <7-4-71> ।।
तस्मादतोऽभ्यासाद्दीर्घीभूतादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति । आनङ्ग, आनङ्गतुः, आनङ्गुः । आनञ्ज, आनञ्जतुः, आनञ्जुः ।
द्विहल इति किम् ? आट, आटतुः, आटुः ।
ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते । तेनेहापि द्विहलोऽङ्गस्य नुडागमो भवति---आनृधतुः, आनृधुः ।।
</7-4-71>
अश्नोतेश्च ।। <7-4-72> ।।
अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति । व्यानशे, व्यानशाते, व्यानशिरे ।
`अश्नोतेः इति विकरणनिर्देशो अश्नातेर्मा भूदिति---आश, आशतुः, आशुः ।।
</7-4-72>
भवतेरः ।। <7-4-73> ।।
भवतेरभ्यासस्याकारादेशो भवति लिटि परतः । बभूव, बभूवतुः, बभूवुः ।
`भवतेः इति धातुनिर्द्देशादिहापि भवति---अनुबभूवे कम्बलो देवदत्तेन । `लिटि इत्येव---भुभूषति । बोभूयते ।।
</7-4-73>
ससूवेति निगमे ।। <7-4-74> ।।
`ससूव इति निपात्यते । सूतेर्लिटि परस्मैपदं वुगागमः, अभ्यासस्य चात्वं निपात्यते । `ससूव स्थविरं विपश्चिताम्(ऋ.4-18-10) । सुषुवे इति भाषायाम् ।।
</7-4-74>
णिजां त्रयाणां गुणः श्लौ ।। <7-4-75> ।।
निजादीनां त्रयाणामभ्यासस्य गुणो भवति श्लौ सति । णिजिर्‌---नेनेक्ति । विजिर्---वेवेक्ति । विष्लृ---वेवेष्टि ।
त्रिग्रहणमुत्तरार्थम् । एषां हि वृत्करणं समाप्त्यर्थं पठ्यत एवेति ।
श्लाविति किम् ? निनेज ।।
</7-4-75>
भृञामित् ।। <7-4-76> ।।
भृञादीनां त्रयाणामभ्यासस्येकारादेशो भवति श्लौ सति । भृञ्‌---बिभर्त्ति । माङ्‌---मिमीते । ओहाङ्‌---जिहीते ।
`त्रयाणाम् इत्येव---जहाति । `श्लौ इत्येव---बभार ।।
</7-4-76>
अर्तिपिपर्त्योश्च ।। <7-4-77> ।।
अर्ति, पिपर्ति---इत्येतयोरभ्यासस्येकारादेशो भवति श्लौ । इयर्ति धूमम् । पिपर्ति सोमम् ।।
</7-4-77>
बहुलं छन्दसि ।। <7-4-78> ।।
छन्दसि विषयेऽभ्यासस्य श्लौ बहुलमिकारादेशो भवति । `पूर्णां विवष्टि(ऋ.7-16-11)- वशेरेतद्रूपम् । तथा वचेः---`जनिमा विवक्ति(ऋ.1-97-7) । सचेः---`वत्सं न माना सिषक्ति(ऋ.1-38-8) । जिघर्ति सोमम् । न च भवति---ददातीत्येवं ब्रूयात् । `जजनदिन्द्रम्(मै.1-9-1) `माता यद्वीरं दधनन्धनिष्ठा(ऋ.10-73-1) ।।
</7-4-78>
सन्यतः ।। <7-4-79> ।।
सनि परतोऽकारान्ताभ्यासस्येकारादेशो भवति । पिपक्षति । यियक्षति । तिष्ठासति । पिपासति ।
सनीति किम् ? पपाच । अत इति किम् ? लुलूषति । तपरकरणं किम् ? पपचिषते ।।
</7-4-79>
ओः पुयण्ज्यपरे ।। <7-4-80> ।।
`सनि इति वर्तते, `इत्‌ इति च । उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे चावर्णपरे परत इकारादेशो भवति सनि प्रत्यये परतः । पवर्गेऽपरे---पिपविषते, पिपावयिषति । विभावयिषति ।
यण्यपरे---यियविषति । यियावयिषति । रिरावयिषति । लिलावयिषति ।
ज्यपरे--`जु इति सौत्रोऽयं धातुः, जिजावयिषति ।
एतदेव `पुण्ज्यपरे इति वचनं ज्ञापकम्---अद्विर्वचननिमित्तेऽपि णौ स्थानिवद्भवतीति । ओरिति किम् ? पापच्यते । सन्‌---पापचिषते । पुयण्जीति किम् ? अवतुतावयिषति । जुहावयिषति । अपर इति किम् ? बुभूषति ।।
</7-4-80>
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ।। <7-4-81> ।।
स्रवति, शृणोति, द्रवति, प्रवति, प्लवति, च्यवति---इत्येतेषामभ्यासस्य ओरवर्णपरे यणि वा इकारादेशो भवति सनि परतः । सिस्रावयिषति, सुस्रावयिषति । शृणोति---शिश्रावयिषति, शुश्रावयिषति । द्रवति---दिद्रावयिषति, दुद्रावयिषति । प्रवति---पिप्रावयिषति, पुप्रावयिषति । प्लवति---पिप्लावयिषति, पुप्लावयिषति । च्यवति---चिच्यावयिषति, चुच्यावयिषति ।
वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते । पूर्वसूत्रेण त्वनन्तर एव यणि भवितव्यमित्यप्राप्तविभाषेयम्
`अपर इत्येव---सुस्रूषति । शुश्रूषते ।।
</7-4-81>
गुणो यङ्‌लुकोः ।। <7-4-82> ।।
यङि, यङ्‌लुकि च इगन्तस्याभ्यासस्य गुणो भवति । चेचीयते । लोलूयते । यङ्‌लुकि---जोहवीति । यङो वा इतीड्‌विकल्पः । चोक्रुशीति ।।
</7-4-82>
दीर्घोऽकितः ।। <7-4-83> ।।
अकितोऽभ्यासस्य दीर्घो भवति यङि यङ्‌लुकि च । पापच्यते । पापचीति । यायज्यते । यायजीति ।
अकित इति किम् ? यंयम्यते । यंयमीति । रंरम्यते । रंरमीति ।
ननु चात्रापवादत्वान्नुकि कृतेऽभ्यासस्यानजन्तत्वादेव दीर्घत्वं न भविष्यति ? एवं तर्हि `अकितः इत्यनेनैतज्ज्ञाप्यते---`अभ्यासविकारेष्वपवादा नोत्सर्गान् विधीन्बाधन्ते(व्या.प.23) इति ।
किमेतस्य ज्ञापने प्रयोजनम् ? डोढौक्यते इत्यत्र `दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते; अचीकरदित्यत्र दीर्घो लघोः(7-4-94/2318) इत्यनेन सन्वदित्वं न बाध्यते; मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते---मीमांसते; ई च गणः(7-4-97/2573) इतीत्वेन हलादिशेषो न बाध्यते---अजीगणत् ।।
</7-4-83>
नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ।। <7-4-84> ।।
वञ्चु, स्रंसु, ध्वंसु, भ्रंसु, कस, पत, पद, स्कन्द---इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्‌लुकि च । वञ्चु---वनीवच्यते । वनीवञ्चीति । स्रंसु---सनीस्रस्यते । सनीस्रंसीति । ध्वंसु---दनीध्वस्यते । दनीध्वंसीति । भ्रंसु---बनीभ्रस्यते । बनीभ्रंसीति । कस---चनीकस्यते । चनीकसीति । पत---पनीपत्यते । पनीपतीति । पद---पनीपद्यते । पनीपदीति । स्कन्द---चनीस्कद्यते । चनीस्कन्दीति ।।
</7-4-84>
नुगतोऽनुनासिकान्तस्य ।। <7-4-85> ।।
अनुनासिकान्तस्याङ्गस्य योऽभ्यासस्तस्याकारान्तस्य नुगागमो भवति यङ्‌यङ्‌लुकोः परतः । तन्तन्यते । तन्तनीति । जङ्गम्यते । जङ्गमीति । यंयम्यते । यंयमीति । रंरम्यते । रंरमीति ।
नुगित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम् । स्थानिना ह्यादेशो लक्ष्यते । तेन यंयम्यते--- इत्येवमादावझल्परत्वेऽप्यनुस्वारो भवति ।

  • पदान्तवच्चेति वक्तव्यम् * (म.भा.3-359)। वा पदान्तस्य(8-4-59/125) इति परसवर्णविकल्पो यथा स्यादिति ।

अत इति किम् ? तेतिम्यते ।
तपरकरणं तु भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थम्---बाभाम्यते । अनुनासिकान्तस्येति किम् ? पापच्यते ।।
</7-4-85>
जपजभदहदशभन्जपशां च ।। <7-4-86> ।।
जप, जभ, दह, दश, भञ्ज, पश---इत्येतेषामभ्यासस्य नुगागमो भवति यङ्‌यङ्‌लुकोः परतः । जञ्जप्यते ।
जञ्जपीति । जभ---जञ्जभ्यते । जञ्जभीति । दह---दन्दह्यते । दन्दहीति । दश---दन्दश्यते । दन्दशीति ।
`दश---इति दंशिरयं नकारलोपार्थमेव निर्द्दिष्टः । तेन यङ्‌लुक्यपि नकारलोपो भवति । भन्ज---बम्भज्यते । बम्भञ्जीति ।
`पश इति सौत्रो धातुः---पम्पश्यते । पम्पशीति ।।
</7-4-86>
चरफलोश्च ।। <7-4-87> ।।
चर, फल---इत्येतयोरभ्यासस्य नुगागमो भवति यङ्‌यङ्‌लुकोः परतः । चञ्चूर्यते । चञ्चूरीति । पम्फल्यते । पम्फुलीति ।।
</7-4-87>
उत्परस्यातः ।। <7-4-88> ।।
चरफलोरभ्यासात्परस्यात उकारादेशो भवति यङ्‌यङ्‌लुकोः परतः । चञ्चूर्यते । चञ्चूरीति । पम्फुल्यते । पम्फुलीति ।
परस्येति किम् ? अभ्यासस्य मा भूत् । अत इति किम् ? अलोऽन्त्यस्य मा भूत् ।
उदिति तपरकरणम्--चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम् । दीर्घस्यासिद्धत्वादिह लघुत्वं न निवर्तते ।।
</7-4-88>
ति च ।। <7-4-89> ।।
तकारादौ प्रत्यये परतश्चरफलोरकारस्य उकारादेशो भवति । चरणं चूर्तिः । ब्रह्मणश्चूर्त्तिः । प्रफुल्तिः । प्रफुल्ताः सुमनसः ।
`यङ्‌यङ्‌लुकोः, `अभ्यासस्य---इति चानुवर्त्तमानमपि वचनसामर्थ्यादिह नाभिसम्बध्यते ।।
</7-4-89>
रीगृदुपधस्य च ।। <7-4-90> ।।
ऋदुपधस्याङ्गस्य योऽभ्यासस्तस्य रीगागमो भवति यङ्यङ्‌लुकोः परतः । वरीवृत्यते । वरीवृध्यते । वरीवृतीति । वरीवृधीति । नरीनृत्यते । नरीनृतीति ।

  • रीगृत्वत इति वक्तव्यम् * (म.भा.3-359)। इहापि यथा स्यात्---वरीवृश्च्यते । परीपृच्छ्यते । वरीवृश्चीति । परीपृच्छीति ।।

</7-4-90>
रुग्रिकौ च लुकि ।। <7-4-91> ।।
यङ्‌लुकि ऋदुपधस्याङ्गस्य योऽभ्यासस्तस्य रुग्रिकावागमौ भवतश्चकाराद्रीक्च । नर्नर्ति, नरिनर्ति, नरीनर्ति । वर्वर्ति, वरिवर्ति, वरीवर्ति । उकार उच्चारणार्थः ।

  • मर्मृज्यते मर्मृज्यमानास इत्युपसंख्यानम् * (म.भा.3-359)। मर्मृज्यते । मर्मृज्यमानासः ।।

</7-4-91>
ऋतश्च ।। <7-4-92> ।।
ऋकारान्तस्याङ्गस्य योऽभ्यासस्तस्य रुग्रिकावागमौ भवतो रीक्च यङ्‌लुकि । चर्कर्ति, चरिकर्ति, चरीकर्ति । जर्हर्ति, जरिहर्ति, जरीहर्ति ।
तपरकरणं किम् ? किरतेः---चाकर्ति ।
`किरतिं चर्करीतान्तं पचतीत्यत्र यो नयेत् ।
प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन संग्रहः ।।(म.भा.3-359)
तत्रेयं प्राप्तिः---तपरकरणसामर्थादङ्गविशेषणम् `ऋतः इत्येतत्, तथा चाप्राप्तिः किरते रुगादीनामिति ।।
</7-4-92>
सन्वल्लघुनि चङ्‌परेऽनग्लोपे ।। <7-4-93> ।।
लघुनि धात्वक्षरे परतो योऽभ्यासस्तस्य चङ्‌परे णौ परतः सनीव कार्यं भवति अनग्लोपे । सन्यतः(7-4-79/1317) इत्युक्तम्, चङ्‌परेऽपि तथा---अचीकरत् । अपीपचत् ।
ओः पुयण्ज्यपरे(7-4-80/2577) इत्युक्तम्, चङ्‌परेऽपि तथा---अपीपवत् । अलीलवत् । अजीजवत् ।
स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा(7-4-81/2578) इत्युक्तम्, चङ्‌परेऽपि तथा---असिस्रवत्, असुस्रुवत् । अशिश्रवत्, अशुश्रवत् । अदिद्रवत्, अदुद्रवत् । अपिप्रवत्, अपुप्रवत् । अपिप्लवत्, अपुप्लवत् । अचिच्यवत्, अचुच्यवत् ।
लघुनीति किम् ? अततक्षत् । अररक्षत् । जागरयतेः---अजजागरत् ।
अत्र केचिद् गशब्दं लघुमाश्रित्य सन्वद्भावमिच्छन्ति, सर्वत्रैव लघोरानन्तर्यमभ्यासेन नास्तीति व्यवधानेऽपि वचनप्रामाण्याद्भवितव्यम् ? तदसत्; `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्(व्या.प.46) इत्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन ।
यद्येवम्, कथमचिक्षणदिति ? आचार्यप्रवृत्तिर्ज्ञापयति---भवत्येवञ्जातीयकानामित्त्वमिति । यदयं तद्बाधनार्थं स्मरत्यादीनामत्वं विदधाति ।
चङ्‌पर इति किम् ? अहं पपच । परग्रहणं किम् ? चङ्येव केवले मा भूत्---अचकमत । अनग्लोप इति किम् ? अचकथत् । दृषदमाख्यातवान् अददृषत् ।
वादितवन्तं प्रयोजितवान् अवीवददित्यत्र योऽसौ णौ णेर्लोपः, नासावग्लोप इत्याश्रीयते, किं कारणम् ? `चङ्‌परे इति णिजातेर्निमित्तत्वेनाक्षेपात् ततोऽन्यस्याको लोपः परिगृह्यते । भीमादीनामत्र ग्रहणात् `सन्वद्भावेनाभ्यासलोपो न भवति इत्युक्तम् ।
किञ्च---सन्वदिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनमेवापेक्षते, किं तर्हि ? इस्भावाद्यपि; तदभावाद् अमीमपदित्यादावभ्यासलोपो न भविष्यति ।।
</7-4-93>
दीर्घो लघोः ।। <7-4-94> ।।
दीर्घो भवति लघोरभ्यासस्य लघुनि णौ चङ्‌परेऽनग्लोपे ।
अचीकरत् । अजीहरत् । अलीलवत् । अपीपचत् ।
लघोरिति किम् ? अबिभ्रजत् ।
`लघुनि इत्येव---अततक्षत् । अररक्षत् ।
`चङि इत्येव---अहं पपच ।।
`पर इत्येव---अचकमत ।
`अनग्लोपे इत्येव---अचकथत् ।।
</7-4-94>
अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् ।। <7-4-95> ।।
स्मृ, दॄ, त्वर, प्रथ, म्रद, स्तॄ, स्पश---इत्येतेषामभ्यासस्य `आत् इत्ययमादेशो भवति चङ्‌परे णौ परतः । स्मृ---असस्मरत् । दॄ---अददरत् । त्वर---अतत्वरत् । प्रथ---अपप्रथत् । म्रद---अमम्रदत् । स्तॄ---अतस्तरत् । स्पश---अपस्पशत् । सन्वद्भावादित्त्वं प्राप्तमनेन बाध्यते ।
तपकरणसामर्थ्यादति कृते दीर्घो लघोः(7-4-94/2318) इत्येतदपि न भवति---अददरत् ।।
</7-4-95>
विभाषा वेष्टिचेष्ट्योः ।। <7-4-96> ।।
वेष्टि, चेष्टि---इत्येतयोरभ्यासस्य विभाषा `अत्‌ इत्ययमादेशो चङ्‌परे णौ परतः । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति ।।
</7-4-96>
ई च गणः ।। <7-4-97> ।।
गणेरभ्यासस्य ईकारादेशो भवति चङ्‌परे णौ परतः, चकारादच्च । अजीगणत्, अजगणत् ।।
            इति श्रीवामनाचार्यविरचितायां काशिकावृत्तौ
                सप्तमस्याध्यायस्य चतुर्थः पादः
।। </7-4-97> ।।