काशिका/षष्ठोऽध्यायः/प्रथमः पादः
अथ षष्ठाध्याये प्रथमः पादः
एकाचो द्वे प्रथमस्य ।। <6-1-1> ।।
अधिकारोऽयम्। `एकाचः इति च, `द्वे इति च, `प्रथमस्य इति च त्रितयमधिकृतं वेदितव्यम्। इत उत्तरं यद्वक्ष्यामः प्राक्सम्प्रसारणविधानात् तत्र `एकाचः प्रथमस्य द्वे भवतः इत्येवं तद्वेदितव्यम्।
वक्ष्यति-लिटि धातोरनभ्यासस्य(6-1-8/2177) इति। तत्र धातोरवयवस्यानभ्यासस्य प्रथमस्यैकाचौ द्वे भवतः। जजागार। पपाच। इयाय। आर।
`एकाचः इति बहुव्रीहिनिर्देशः। एकोऽच् यस्य सोऽयमेकाच्---इत्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदायेऽवयवो भवतीति साच्कस्यैव द्विर्वचनं भवति। एवं च--पच् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च। तत्र पृथगवयवैकाचो न द्विरुच्यन्ते, किं तर्हि ? समुदायैकाजेव।
तथा हि--सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते। पपाचेत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय, आर-इत्यत्रैकाच्त्वमपि व्यपदेशिवद्भावादेव।
द्विःप्रयोगश्च द्विर्वचनमिदम्। आवृत्तिसंख्या हि `द्वे इति विधीयते। तेन स एव शब्दो द्विरुच्यार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते ।।
</6-1-1>
अजादेर्द्वितीयस्य ।। <6-1-2> ।।
प्रथमद्विर्वचनापवादोऽयम्। अजादेर्द्वितीयस्यैकाचो द्विर्वचनमधिक्रियते। अच् आदिर्यस्य धातोस्तदवयवस्य द्वितीयस्यैकाचो द्वे भवतः। अटिटिषति। अशिशिषति। अरिरिषति। अर्त्तेः स्मिपूङ्रञ्ज्वशां सनि(7-2-74/2626) इति इट् क्रियते, तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचनेऽचि(1-2-59/2243) इति स्थानिवद्भावः प्राप्नोति। तत्र प्रतिविधानम्--द्विर्वचननिमित्तेऽचीत्युच्यते। न चात्र द्विर्वचननिमित्तमिट्, किं तर्हि? कार्यी। न च कार्यी निमित्तत्वेनाश्रीयते। तथा हि--क्ङिन्निमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयितेत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभाव इति।
अत्र केचिदजादेरिति कर्मधारयात्पञ्चमीमिच्छन्ति---अच्चासावादिश्चेत्यजादिः, तस्मादजादेरुत्तरस्यैकाचो द्वे भवत इति। तेषाम् `द्वितीयस्य इति विस्पष्टार्थं द्रष्टव्यम् ।।
</6-1-2>
न न्द्राः संयोगादयः ।। <6-1-3> ।।
`द्वितीयस्य इत् वर्त्तते। द्वितीयस्यैकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुच्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति।
न्द्रा इति किम्? ईचिक्षिषते। संयोगादय इति किम्? प्राणिणिषति। अनितेः(8-4-19/2478) उभौ साभ्यासस्य(8-4-21/2606) इति णत्वम्।
अजादेरित्येव--दिद्रासति।
केचिदजादेरित्यपि पञ्चम्यन्तं कर्मधारयमनुवर्त्तयन्ति। तस्य प्रयोजनम्--इन्दिद्रीयिषतीति। अजादेरनन्तरत्वाभावाद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रमिच्छति, क्यच्, तदन्तात् इन्द्रीयितुमिच्छतीति सन् ।।
* बकारस्याप्ययं प्रतिषेधो वक्तव्यः *। उब्जिजिषति। यदा बकारोपध उब्जिरुपदिश्यते तदायं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु तदा दकारस्य विधातव्यम् ।
* यकारपरस्य रेफस्य प्रतिषेधो न भवतीति वक्तव्यम् *। अरार्यते। अर्तेः
`अट्यर्तिशूर्णोतीनामुपसंख्यानम्(7-4-82/2630. वा.) इति यङ्। तत्र यङि च(7-4-30/2633) इति गुणः, ततो द्विर्वचनम्।
* ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम् *(म.भा.3-8)। कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्येति--ईर्ष्यियिषति। अपरे पुनः `तृतीयस्यैकाचः इति व्याचक्षते--ईर्ष्यिषिषति।
* कण्ड्वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम् *(म.भा.3-8)। कण्डूयियिषति। असूयियिषति ।।
* वा नामधातूनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम् *(म.भा.3-8)। अश्वीयियिषति। अशिश्वीयिषति।
अपर आह---
* यथेष्टं नामधातुष्विति वक्तव्यम् *(म.भा.3-8)। पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति ।।
</6-1-3>
पूर्वोऽभ्यासः ।। <6-1-4> ।।
`द्वे इति प्रथमान्तं यदनुवर्त्तते तदर्थादिह षष्ठ्यन्तं जायते। तत्र प्रत्यासत्तेरस्मिन्प्रकरणे ये द्वे विहिते तयोर्यः पूर्वोऽवयवः सोऽभ्याससंज्ञो भवति। पपाच। पिपक्षति। पापच्यते। जुहोति। अपीपचत्।
अभ्यासप्रदेशास्तु--अत्र लोपोऽभ्यासस्य(7-4-58/2620) इत्येवमादयः ।।
</6-1-4>
उभे अभ्यस्तम् ।। <6-1-5> ।।
`द्वे इति वर्त्तमाने `उभे ग्रहणं समुदायसंज्ञाप्रतिपत्त्यर्थम्। ये द्वे विहिते ते उभे अपि समुदिते अभ्यस्तसंज्ञे भवतः। ददति। ददत्। दधतु।
उभेग्रहणं किम् ? नेनिजतीत्यत्र अभ्यस्तानामादिः(6-1-189/3673) इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूदिति।
अभ्यस्तप्रदेशाः--अभ्यस्तानामादिः(6-1-189/3673) इत्येवमादयः ।।
</6-1-5>
?Bजक्षित्यादयः षट् ।। <6-1-6> ।।
`अभ्यस्तम् इति वर्त्तते। `जक्ष इत्ययं धातुरित्यादयश्चान्ये षट् धातवोऽभ्यस्तसंज्ञा भवन्ति। सेयं सप्तानां धातूनामभ्यस्तसंज्ञा विधीयते। `जक्ष भक्षहसनयोः(धा.पा.1072) इत्यतः प्रभृति `वेवीङ् वेतिना तुल्ये(धा.पा.1078) इति यावत्। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति।
दीध्यते, वेव्यते---इत्यत्र अभ्यस्तानामादिः(6-1-189/3673) इत्येष स्वरः प्रयोजनम्। दीध्यदिति च शतरि व्यत्ययेन सम्पादिते नाभ्यस्ताच्छतुः(7-1-78/427) इति नुमः प्रतिषेधः ।।
</6-1-6>
तुजादीनां दीर्घोऽभ्यासस्य ।। <6-1-7> ।।
तुजादीनामिति प्रकारे आदिशब्दः। कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च, ये तथाभूतास्ते तुजादयः, तेषामभ्यासस्य दीर्घः साधुर्भवति। `तूतुजानः(ऋ.1-3-6)। `मामहानः(तै.सं.4-6-3-2)। `अनड्वान् दाधार(अ.वे.4-11-1)। `स्वधां मीमाय(अ.वे.5-11-3)। दाधार। `स तूताव(ऋ.1-94-2)।
दीर्घश्चैषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततोऽन्यत्र न भवति--तुतोज शबलान् ।।
</6-1-7>
लिटि धातोरनभ्यासस्य ।। <6-1-8> ।।
लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पपाच। पपाठ। प्रोर्णुनाव। `वाच्य ऊर्णोर्णुवद्भावः इति वचनाद् ऊर्णोतेः इजादेः(3-3-39/2337) इत्याम्न भवति।
लिटीति किम्? कर्त्ता। हर्त्ता। धातोरिति किम् ? `ससृवांसो विशृण्विरे(ऋ.4-8-6)। `सोममिन्द्राय सुन्विरे(ऋ.7-32-4)। अनभ्यासस्येति किम् ? `कृष्णो नोनाव वृषभो यदीदम्(ऋ.1-79-2)। नोनूयतेर्नोनाव। `सम्मान्या मरुतः सम्मिमिक्षुः(ऋ.1-165-1)। लिटि उसन्तः।
- द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् *। `यो जागार तमृचः कामयन्ते(ऋ.5-44-14)। `दाति प्रियाणीति(ऋ.4-8-3) ।।
</6-1-8>
सन्यङोः ।। <6-1-9> ।।
`धातोरनभ्यासस्य इति वर्त्तते। `सन्यङोः इति च षष्ठ्यन्तमेतत्। सनन्तस्य यङ्न्तस्य चानभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति।
यङन्तस्य--पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते।
अनभ्यासस्येत्येव--जुगुप्सिषते। लोलूयिषते ।।
</6-1-9>
श्लौ ।। <6-1-10> ।।
श्लौ परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्रेति ।।
</6-1-10>
चङि ।। <6-1-11> ।।
चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्।
पचादीनां ण्यन्तानां चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनम् इत्येषां कार्याणां प्रवृत्तिक्रमः। तथा च-सन्वल्लघुनि चङ्परे(7-4-93/2316) इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यते। यो ह्यनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवति। न चास्मिन् कार्याणां क्रमेणानादिष्टादचः पूर्वोऽभ्यासो भवतीति।
आटिटदिति द्विर्वचनेऽचि(1-1-59/2243) इति स्थानिवद्भावाद् द्वितीयस्यैकाचो द्विर्वचनं भवति ।।
</6-1-11>
दाश्वान् साह्वान् मीढ्वांश्च ।। <6-1-12> ।।
दाश्वान्, साह्वान्, मीढ्वान्--इत्येते शब्दाश्छन्दसि भाषायां चाविशेषेण निपात्यन्ते। दाश्वानिति `दाशृ दाने(धा.पा.883) इत्येतस्य धातोः क्वसावद्विर्वचनमनिट्त्वं च निपात्येते। `दाश्वांसो दाशुषः सुतम्(ऋ.1-3-5) इति।
साह्वानिति `षह मर्षणे(धा.पा.853)--इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनम्, अनिट्त्वं च निपातनात्। साह्वान्बलाहकः।
मीढवानिति `मिह सेचने(धा.पा.993) इत्येतस्याद्वित्वम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनात्। `मीढ्वस्तोकाय तनयाय मृडय(ऋ.2-33-14)। एकवचनमतन्त्रम्।
- कृञादीनां के द्वे भवत इति वक्तव्यम् *(म.भा.3-17)। क्रियतेऽनेनेति चक्रम्। चिक्लिदम्। कृञः क्लिदेश्च `घञर्थेकविदानम्(वा.306) इति कप्रत्ययः।
- चरिचलिपतिवदीनां द्वित्वमच्याक्चाभ्यासस्य *(म.भा.3-17)। चरादीनां धातूनामपि प्रत्यये परतो द्वे भवतः। अभ्यासस्यागागमो भवति, आगागमविधानसामर्थ्याच्च हलादिशेषो न भवति। हलादिशेषे हि सत्यागमस्यादेशस्य च विशेषो नास्ति। चराचरः। चलाचलः। पतापतः। वदावदः।
- वेति वक्तव्यम् *। तेन चरः पुरुषः, चलो रथः, पतं यानम्, वदो मनुष्यः---इत्येवमाद्यपि सिद्धं भवति।
- हन्तेर्घत्वं च *(म.भा.3-17)। हन्तेरचि प्रत्यये परतो द्वे भवतोऽभ्यासस्य च हकारस्य च घत्वमाक् चागमो भवति। परस्य अभ्यासाच्च(7-3-55/2430) इति कुत्वम्। `घनाघनः क्षोभणश्चर्षणीनाम्(ऋ.10-103-1)।
- पाटेर्णिलुक् चोक् च दीर्घश्चाभ्यासस्य *(म.भा.4-17)। पाटेरचि परतो द्वे भवतः, णिलुक्च भवति। अभ्यासस्य चोगागमो दीर्घश्च भवति। पाटूपटः ।।
</6-1-12>
<K.4.464>
ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ।। <6-1-13> ।।
पुत्र, पति - इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः सम्प्रसारणं भवति। यणः स्थाने इग्भवतीत्यर्थः। कारीषगन्धीपुत्रः, कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः, कौमुदगन्धीपतिः। करीषस्येव गन्धोऽस्य, कुमुदस्येव गन्धोऽस्येति बहुव्रीहिः, तत्र उपमानाच्च इति गन्धस्येदन्तादेशः, करीषगन्धेरपत्यमित्यण्, तदन्तात्स्त्रियाम् अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे इति ष्यङ्, ततश्चापि विहिते षष्ठीसमासः, सम्प्रसारणस्य इति दीर्घत्वम्। ष्यङ इति किम्? इभ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योरिति किम् ? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुष इति किम् ? कारीषगन्ध्यापतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः।
<K.4.465> ष्यङ इति स्त्रीप्रत्ययग्रहणम्, `न स्त्रीप्रत्यये चानुपसर्जने इति <K.4.466> प्रत्ययग्रहणपरिभाषया `यस्मात् स विहितस्तदादेः इत्येष नियमो नास्ति; तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति।
उपसर्जने तु ष्यङि न भवति - अतिक्रान्ता कारीषगन्ध्याम् अतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः, अतिकारीषगन्ध्यापतिः।
पुत्रपत्योः केवलयोरुत्तरपदयोरिदं सम्प्रसारणम्, तदादौ तदन्ते च न भवति -- कारीषगन्ध्यापुत्रकुलम्, कारीषगन्ध्यापरमपुत्रः इति।
<K.4.467> ष्यङ्न्ते च यद्यप्यन्ये यणः सन्ति; तथापि ष्यङ एव सम्प्रसारणम्, `निर्दिश्यमानस्यादेशा भवन्ति इति।
सम्प्रसारणमिति चाधिक्रियते विभाषा परेः इति यावत् ।।
</6-1-13>
<K.4.468>
बन्धुनि बहुव्रीहौ ।। <6-1-14> ।।
`ष्यङः सम्प्रसारणम् इत्यनुवर्तते। बन्धुशब्द उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुः इत्यत्र भवति। अतिकारीषगन्ध्याबन्धुः इति च न भवति, तथा कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः इत्यादौ न।
बन्धुनीति नपुंसकलिङ्गनिर्द्देशः शब्दरूपापेक्षया, पुंल्लिङ्गाभिधेयोऽयं बन्धुशब्दः।
- मातच्मातृकमातृषु *। ष्यङः सम्प्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या माताऽस्य - इत्येवं बहुव्रीहौ
कृते एतस्मादेवोपसंख्यानात्। पक्षे मातृशब्दस्य मातजादेशः, तत्र चित्करणसामर्थ्याद्बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। <K.4.469> मातृ मातृकशब्दयोश्च भेदेनोपादानाद् नद्यृतश्च इति कबपि विकल्प्यते -- कारीषगन्धीमातः, कारीषगन्ध्यामातः; कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः; कारीषगन्धीमाता, कारीषगन्ध्यामाता ।।
</6-1-14>
वचिस्वपियजादीनां किति ।। <6-1-15> ।।
`सम्प्रसारणम् इति वर्त्तते। `ष्यङः इति निवृत्तम्। वचि--`वच परिभाषणे(धा.पा.1064), ब्रुवो वचिः(2-4-53/2453) इति च। स्वपि-`ञिष्वप् शये(धा.पा.1069)। यजादयः--`यज देवपूजासङ्गतिकरणदानेषु(धा.पा.1003) इत्यतः प्रभृति आगणान्ताः(धा.पा.1011), तेषां वचिस्वपियजीदीनां किति प्रत्यये परतः सम्प्रसारणं भवति। वचि--उक्तः, उक्तवान्। स्वपि--सुप्तः, सुप्तवान्। यज-इष्टः, इष्टवान्। वप्-उप्तः, उप्तवान्। वह-ऊढः, ऊढवान्। वस-उषितः, उषितवान्। वेञ्-उतः, उतवान्। व्येञ्-संवीतः, संवीतवान्। ह्वेञ्--आहूतः, आहूतवान्। वद-उदितः, उदितवान्। टुओश्वि-शूनः, शूनवान्।
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायते। तेनेह न भवति-वाच्यति, वाचिक इति।।
</6-1-15>
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ।। <6-1-16> ।।
`ग्रह उपादाने(धा.पा.1534), `ज्या वयोहानौ(धा.पा.1500), `वेञो वयिः(2-4-41/2411), `व्यध ताडने(धा.पा.1182), `वश कान्तौ(धा.पा.1081), `व्यच व्याजीकरणे(धा.पा.1294), `ओव्रश्चू छेदने(धा.पा.1293), `प्रच्छ ज्ञीप्सायाम्(धा.पा.1414), `भ्रस्ज पाके(धा.पा.1285)--इत्येतेषां धातूनां ङिति प्रत्यये परतश्चकारात् किति च सम्प्रसारणं भवति। ग्रह-गृहीतः। गृहीतवान्। ङिति-गृह्णाति, जरीगृह्यते। ज्या-जीनः, जीनवान्। ल्वादिभ्यः(8-2-44/3018) इति निष्ठानत्वम्। ङिति-जिनाति, जेजीयते। हलः(6-4-2/2559) इति सम्प्रसारणदीर्घे कृते प्वादीनाम्(7-3-80/2558) इति ह्रस्वः क्रियते।
वयिः--लिटि परतो वेञो वयिरादेशः(2-4-41/2411), तस्य ङिदभावात् किदेवोदाह्रियते-ऊयतुः, ऊयुः। यद्येवम्, वयिग्रहणमनर्थकम्, यजादिषु वेञ् पठ्यते ? नैवं शक्यम्; लिटि तस्य वेञः(6-1-40/2415) इति प्रतिषेधो वक्ष्यते, तत्र यथैव स्थानिवद्भावाद्वयेर्विधिः, एवं प्रतिषेधोऽपि प्राप्नोति ? नैष दोषः; लिटि वयो यः(6-1-38/2413) इति यकारस्य सम्प्रसारणप्रतिषेधाद् वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते ? सत्यमेतत्; एष एवार्थः साक्षान्निर्देशेन वयेः स्पष्टीक्रियते।
व्यध--विद्धः, विद्धवान्। ङिति-विध्यति, वेविध्यते। वश-उशितः, उशितवान्। ङिति-उष्टः, उशन्ति।
व्यच-विचितः। विचितवान्। ङिति-विचति, वेविच्यते। `व्यचेः कुटादित्वमनसि(वा.18) प्रतिपादितम्, तेन सर्वत्राञ्णिति प्रत्यये सम्प्रसारणं भवति--उद्विचिता, उद्विचितुम्, उद्विचितव्यमिति।
व्रश्चेः--वृक्णः, वृक्णवान्। अथ कथमत्र कुत्वम्, व्रश्चभ्रस्ज(8-2-36/294) इति हि षत्वेन भवितव्यम् ? * निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः *। तत्र षत्वं प्रति नत्वस्य सिद्धत्वाद् झलादिर्निष्ठा न भवति। कुत्वे तु कर्त्तव्ये तदसिद्धमेवेति प्रवर्तते कुत्वम्। ङिति--वृश्चति, वरीवृश्च्यते।
प्रच्छ--पृष्टः, पृष्टवान्। ङिति--पृच्छति, परीपृच्छ्यते, प्रशनः। नङि तु प्रश्ने चासन्नकाले(3-2-117/2777) इति निपातनादसम्प्रसारणम्।
भ्रस्ज--भृष्टः, भृष्टवान्। ङिति--भृज्जति, बरीभृज्जयते। सकारस्य झलां जश् झशि(8-4-53/52) इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः(8-4-40/121) इति श्चुत्वेन जकारः ।।
</6-1-16>
लिट्यभ्यासस्योभयेषाम् ।। <6-1-17> ।।
उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति। वचि-उवाच, उवचिथ। स्वप्--सुष्वाप, सुष्वपिथ। यज-इयाज, इयजिथ। टुवप्-उवाप, उवपिथ।
ग्रह्यादीनाम्-तत्र ग्रहेरविशेषः। जग्राह, जग्रहिथ। ज्या-जिज्यौ, जिज्यिथ। वयि-उवाय, उवयिथ। व्यध-विव्याध, विव्यधिथ। वश-उवाश, उवशिथ। व्यच-विव्याच, विव्यचिथ।
वृश्चतेः सत्यसति वा योगे नास्ति विशेषः। योगारम्भे तु सति यदि सम्प्रसारणमकृत्वा हलादिःशेषेण(7-4-60/2179) रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति। अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानीमुरदत्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम्(6-1-37/363) इति प्रतिपेधो भवतीत्यस्ति विशेषः। वव्रश्च, वव्रश्चिथ।
पृच्छतिभृज्जत्योरविशेषः। अकिदर्थं चेदमभ्यासस्य सम्प्रसारणं विधीयते। किति हि परत्वाद्धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद् द्विर्वचनम्--ऊचतुः, ऊचुरिति।
अधिकारादेवोभयेषां ग्रहणे सिद्धे पुनरुभयेषामिति वचनम् हलादिःशेषम्(7-4-60/2179) अपि बाधित्वा सम्प्रसारणमेव यथा स्यादिति-विव्याध ।।
</6-1-17>
स्वापेश्चङि ।। <6-1-18> ।।
स्वापेरिति स्वपेर्ण्यन्तस्य ग्रहणम्, तस्य चङि परतः सम्प्रसारणं भवति। असूषुपत्, असूषूपताम्,असूषुपन्। द्विर्वचनात्पूर्वमत्र सम्प्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधायाः(7-4-1/2314) ह्रस्वत्वम्, ततो द्विर्वचनम्, दीर्घो लघोः(7-4-94/2318) इति दीर्घत्वम्।
चङीति किम् ? स्वाप्यते। स्वापितः।
`कितीति निवृत्तम्, ङितीति केवलमिहानुवर्त्तते-- इत्येतद्दुर्विज्ञानम् ।।
</6-1-18>
स्वपिस्यमिव्येञां यङि ।। <6-1-19> ।।
`ञिष्वप् शये(धा.पा.1069), `स्यमु स्वन् ध्वन शब्दे(धा.पा.827/828/829), `व्येञ् संवरणे(धा.पा.1008)--इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति। सोषुप्यते। सेसिम्यते। वेवीयते।
यङीति किम् ? स्वप्नक् ।।
</6-1-19>
न वशः ।। <6-1-20> ।।
`यङि इति वर्त्तते। वशेर्द्धातोर्यङि परतः सम्प्रसारणं न भवति। वावश्यते, वावश्येते, वावश्यन्ते।
यङीति किम् ? उष्टः। उशन्ति ।।
</6-1-20>
चायः की ।। <6-1-21> ।।
`यङि इति वर्त्तते। `चायृ पूजानिशामनयोः(धा.पा.881) इत्येतस्य धातोर्यङि परतः कीत्ययमादेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते।
दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः।।
</6-1-21>
स्फायः स्फी निष्ठायाम् ।। <6-1-22> ।।
`स्फायी ओप्यायी वृद्धौ(धा.पा.487/488)--इत्यस्य धातोर्निष्ठायां परतः `स्फी इत्ययमादेशो भवति। स्फीतः। स्फीतवान्।
निष्ठायामिति किम् ? स्फातिः। स्फातीभवतीत्येतदपि क्तिन्नन्तस्यैव रूपम्, न निष्ठान्तस्य।
`निष्ठायाम् इत्येतदधिक्रियते लिड्यङोश्च(6-1-29/2327) इति प्रागेतस्मात् सूत्रात् ।।
</6-1-22>
स्त्यः प्रपूर्वस्य ।। <6-1-23> ।।
`निष्ठायाम् इति वर्त्तते, `सम्प्रसारणम् इति च। `स्फी इत्येतन्न स्वर्यते। `स्त्यै ष्ट्यै शब्दसङ्घातयोः(धा.पा.911/912)--द्वयोरप्येतयोर्द्धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। `स्त्या इत्येतस्य प्रपूर्वस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। सम्प्रसारणे कृते यण्वत्त्वं विहतमिति निष्ठानत्वं न भवति। प्रस्त्योऽन्यतरस्याम्(8-2-54/3034) इति तु पक्षे मकारः क्रियते--प्रस्तीमः, प्रस्तीमवान्।
प्रपूर्वस्येति किम् ? संस्त्यानः, संस्त्यानवान्।
`प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणमिहापि यथा स्यात्-प्रसंस्तीतः, प्रसंस्तीतवान्।
तत्कथं प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः ? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वस्तदवयवस्य स्त्यः--इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति ।।
</6-1-23>
द्रवमूर्त्तिस्पर्शयोः श्यः ।। <6-1-24> ।।
द्रवमूर्त्तौ=द्रवकाठिन्ये, स्पर्शे वर्त्तमानस्य `श्यैङ् गतौ(धा.पा.964) इत्यस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। श्योऽस्पर्शे(8-2-47/3021) इति निष्ठानत्वम्।
स्पर्शे च---शीतं वर्त्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या।
द्रवमूर्त्तिस्पर्शयोरिति किम् ? संश्यानो वृश्चिकः ।।
</6-1-24>
प्रतेश्च ।। <6-1-25> ।।
`श्यः इति वर्त्तते। प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः सम्प्रसारणं भवति। प्रतिशीनः, प्रतिशीनवान्।
द्रवमूर्त्तिस्पर्शाभ्यामन्यत्रापि यथा स्यादिति सूत्रारम्भः ।।
</6-1-25>
विभाषाऽभ्यवपूर्वस्य ।। <6-1-26> ।।
`श्यः इति वर्त्तते। अभि, अव-इत्येवम्पूर्वस्य श्यायतेर्निष्ठायां विभाषा सम्प्रसारणं भवति। अभिशीनम्, अभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्त्तिस्पर्शविवक्षायामपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम्, अवश्यानमुदकम्।
सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनम्--समभिश्यानम्, समवश्यानमित्यत्र मा भूदिति केचिद् व्याचक्षते। न किलायमभ्यवपूर्वः समुदाय इति। योऽत्राभ्यवपूर्वः समुदायस्तदाश्रयो विकल्पः कस्मान्न भवति! तस्मादत्र भवितव्यमेव। यदि तु नेष्यते, ततो यत्नान्तरमास्थेयमस्माद्विभाषाविज्ञानात्--व्यवस्थेयम्। पूर्वग्रहणस्य चान्यत् प्रयोजनं वक्तव्यम्।
</6-1-26>
शृतं पाके ।। <6-1-27> ।।
`विभाषा इत्यनुवर्त्तते। `श्रा पाके(धा.पा.811)----इत्येतस्य धातोर्ण्यन्तस्याण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभषा। शृतं क्षीरम्। शृतं हविः।
व्यवस्थितविभाषा चेयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति। अन्यत्र न भवति--श्राणा यवागूः, श्रपिता यवागूरिति।
यदापि बाह्ये प्रयोजके द्वितीयो णिजुत्पद्यते, तदापि नेष्यते,श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति।
श्रातिरयमकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्त्तते, स ण्यन्तोऽपि प्राकृतं पच्यर्थमाह। तदत्र द्वयोरपि शृतमितीष्यते-शृतं क्षीरं स्वयमेव, शृतं क्षीरं देवदत्तेन।
पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव ।।
</6-1-27>
प्यायः पी ।। <6-1-28> ।।
`विभाषा इत्येव। `ओप्यायी वृद्धौ(धा.पा.488)--इत्यस्य धातोर्निष्ठायां विभाषा पीत्ययमादेशो भवति। पीनं मुखम्। पीनौ बाहू। पीनमुरः।
इयमपि व्यवस्थितविभाषैव, तेनानुपसर्गस्य नित्यं भवति। सोपसर्गस्य तु नैव भवति। आप्यानश्चन्द्रमाः।
आङ्पूर्वस्यान्धूधसोर्भवत्येव--आपीनोऽन्धुः। आपीनमूध इति ।।
</6-1-28>
लिड्यङोश्च ।। <6-1-29> ।।
`विभाषा इति निवृत्तम्। `प्यायः पी इत्येतच्चशब्देनानुकृष्यते। लिटि यङि च परतः प्यायः `पी इत्ययमादेशो भवति। आपिप्ये। आपिप्यिरे। परत्वात् पीभावे कृते पुनःप्रसङ्गविज्ञानाद् द्विर्वचनम्, एरनेकाचः(6-4-82/272) इति यणादेशः।
यङि--आपेपीयते। आपेपीयेते। आपेपीयन्ते ।।
</6-1-29>
विभाषा श्वेः ।। <6-1-30> ।।
`लिड्यङोः इति वर्त्तते, `सम्प्रसारणम् इति च। लिटि यङि च श्वयतेर्धातोर्विभाषा सम्प्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यङि--शोशूयते, शेश्वीयते। तदत्र यङि सम्प्रसारणमप्राप्तं विभाषा विधीयते। लिटि तु किति यजादित्वाद् नित्यं प्राप्तम्, तत्र सर्वत्र विकल्पो भवतीत्येषोभयत्र विभाषा।
यदा च धातोर्न भवति, तदा लिट्यभ्यासस्योभयेषाम्(6-1-17/2408) इत्यभ्यासस्यापि न भवति ।।
</6-1-30>
णौ च संश्चङोः ।। <6-1-31> ।।
विभाषा श्वेः (6-1-30/2420)इति वर्त्तते। सन्परे चङ्परे च णौ परतः श्वयतेर्धातोर्विभाषा सम्प्रसारणं भवति। सुशावयिषति। चङि-- अशूशवत्, अशिश्वयत्। `सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवति(सी.दे.प.59) इति वचनादन्तरङ्गमपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते। कृते तु सम्प्रसारणे वृद्धिः, आवादेशश्च। ततः ओः पुयण्ज्यपरे(7-4-80/2577) इत्येतद्वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात् शुशब्दो द्विरुच्यते ।।
</6-1-31>
ह्वः सम्प्रसारणम् ।। <6-1-32> ।।
णौ च संश्चङोः(6-1-31/2579) इति वर्त्तते। सन्परे चङ्परे च णौ परतो ह्वः सम्प्रसारणं भवति। जुहावयिषति, जुहावयिषतः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। सम्प्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युक्(7-3-37/2585) इति प्रागेव युग्न भवति।
`सम्प्रसारणम् इति वर्त्तमाने पुनः सम्प्रसारणमित्युक्तं विभाषेत्यस्य निवृत्त्यर्थम्।
`ह्वः सम्प्रसारणमभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरणमनभ्यस्तनिमित्तप्रत्ययेन व्यवधाने सम्प्रसारणाभावज्ञापनार्थम्। ह्वायकमिच्छति ह्वायकीयति। ह्वायकीयतेः सन्- जिह्वायकीयिषति ।।
</6-1-32>
अभ्यस्तस्य च ।। <6-1-33> ।।
`ह्वः इति वर्त्तते, तद् `अभ्यस्तस्य इत्यनेन व्यधिकरणम्--अभ्यस्तस्य यो ह्वयतिः। कश्चाभ्यस्तस्य ह्वयतिः ? कारणम्। तेनाभ्यस्तकारणस्य ह्वयतेः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति। जुहाव। जुहूयते। जुहूषति ।।
</6-1-33>
बहुलं छन्दसि ।। <6-1-34> ।।
`ह्वः इति वर्त्तते। छन्दसि विषये ह्वयतेर्धातोर्बहुलं सम्प्रसारणं भवति। `इन्द्राग्नी हुवे(ऋ.5-46-3)। देवीं सरस्वतीं हुवे। ह्वेञो लट्यात्मनेपदोत्तमैकवचने `बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च।
न च भवति--ह्वयामि मरुतः शिवान्। `ह्वयामि विश्वान्देवान्(ऋ.7-34-8) ।।
</6-1-34>
चायः की ।। <6-1-35> ।।
`बहुलं छन्दसि इति वर्त्तते। चायतेर्धातोस्छन्दसि विषये बहुलं कीत्ययमादेशो भवति। `विधूना निचिक्युः। नान्यं चिक्युर्न निचिक्युरन्यम्(ऋ.1-164-38)। लिटि उसि रूपम्।
न भवति-`अग्निर्ज्योतिर्निचायः(वा.सं.11-1) ।।
</6-1-35>
आपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः श्रितमाशीराशीर्त्ताः ।। <6-1-36> ।।
`छन्दसि इति वर्त्तते। अपस्पृधेथामिति--`स्पर्ध सङ्घर्षे(धा.पा.3) इत्यस्य लङि आथामि द्विर्वचनं रेफस्य सम्प्रसारणमकारलोपश्च निपातनात्। `इन्द्रश्च विष्णो यदपस्पृधेथाम्(ऋ.6-69-8)। अस्पर्धेथामिति भाषायाम्। अपर आह--स्पर्धेरपपूर्वस्य लङ्याथामि सम्प्रसारणमकारलोपश्च निपातनात्। बहुलं छन्दस्यमाङ्योगेऽपि(6-4-75/3546) इत्यडागमाभावः। अत्र प्रत्युदाहरणमपास्पर्द्धेथामिति भाषायाम्।
आनृचुः, आनृहुरिति। `अर्च पूजायाम्(धा.पा.204), `अर्ह पूजायाम्(धा.पा.740) इत्यनयोर्धात्वोर्लिट्युसि सम्प्रसारणमकारलोपश्च निपातनात्। ततो द्विर्वचनम्, उरदत्वम्, `अत आदेः(7-4-70/2248) इति दीर्घत्वम्। तस्मान्नुड् द्विहलः(7-4-71/2288) इति नुडागमः। `य उर्ग्रा अर्कमानृचुः(ऋ.1-19-4)। `न वसून्यानृहुः(अ.वे.2-35-1)। आनर्चुः, आनर्हुरिति भाषायाम्।
चिच्युषे। `च्युङ् गतौ(धा.पा.956) इत्यस्य धातोर्लिटि सेशब्देऽभ्यासस्य सम्प्रसारणमनिट् च निपातनात्। `चिच्युषे(ऋ.4-30-22)। चुच्युविषे इति भाषायाम् ।।
तित्याज। `त्यज हानौ(धा.पा.987)--इत्यस्य धातोर्लिट्यभ्यासस्य सम्प्रसारणं निपात्यते। `तित्याज(ऋ.10-71-6)। तत्याजेति भाषायाम्।
श्राता इति। `श्रीञ् पाके(धा.पा.1476) इत्येतस्य धातोर्निष्ठायां श्राभावः। `श्रातास्त इन्द्रसोमाः(मै.1-9-1)।
श्रितमिति। तस्यैव श्रीणातेर्ह्रस्वत्वम्। `सोमो गौरी अधिश्रितः(ऋ.9-12-3)। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छन्ति। सोमेषु बहुषु श्राभाव एव। अन्यत्र श्रिभाव इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। `यदि श्रातो जुहोतन(ऋ.10-179-1)। तस्य श्राता इति बहुवचनस्याविवक्षितत्वादुपसंग्रहो द्रष्टव्यः।
आशीः,आशीर्त्त इति। तस्यैव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त्त ऊर्जम्। `क्षीरैर्मध्यत आशीर्त्तः(ऋ.8-2-9) ।।
</6-1-36>
न सम्प्रसारणे सम्प्रसारणम् ।। <6-1-37> ।।
सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न भवति। व्यधः। विद्धः। व्यच-विचितः। व्येञ्-संवीतः।
एकयोगलक्षणमपि सम्प्रसारणमत एव वचनात्प्रथमं परस्य यणः क्रियते। पूर्वस्य च प्रसक्तं प्रतिषिध्यते।
सम्प्रसारणमिति वर्त्तमाने पुनः सम्प्रसारणग्रहणं विदेशस्थस्यापि सम्प्रसारणस्य प्रतिषेधो यथा स्यादिति, श्वयुवमघोनामतद्धिते(6-4-133/362)---यूनः, यूना।
सम्प्रासारणग्रहणसामर्थ्यादेव पूर्वस्य प्रतिषेधे वक्तव्ये सवर्णदीर्घत्वमेकादेशो न स्थानिवद्भवति। सति वा स्थानिवत्वे व्यवधानमेतावदाश्रयिष्यते ।।
- ऋचि त्रेरुत्तरपदादिलोपस्छन्दसि *(म.भा.3-33)। ऋचि परतस्त्रेः सम्प्रसारणं भवति, उत्तरपदादिलोपश्च छन्दसि विषये। तिस्र ऋचो यस्मिन् तत् तृचं सूक्तम्, तृचं साम। ऋक्पूरब्धूःपथामानक्षे(5-4-74/940) इति समासान्तः। छन्दसीति किम्? त्यृचं कर्म ।।
- रयेर्मतौ बहुलम् *(म.भा.3-33)। रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं सम्प्रसारणं भवति। आ रेवानेतु नो विशः। न च भवति--`रयिमान्पुष्टिवर्धनः(वा.सं.3-40) ।।
</6-1-37>
लिटि वयो यः ।। <6-1-38> ।।
`न सम्प्रसारणम् इत्यनुवर्तते। लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति। उवाय। ऊयतुः। ऊयुः।
लिड्ग्रहणमुत्तरार्थम् ।।
</6-1-38>
वश्चास्यान्यतरस्यां किति ।। <6-1-39> ।।
अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवत्यन्यतरस्याम्। ऊवतुः। ऊवुः। ऊयतुः। ऊयुः।
कितीति किम् ? उवाय। उवयिथ ।।
</6-1-39>
वेञः ।। <6-1-40> ।।
`लिटि इत्यनुवर्तते। `वेञ् तन्तुसन्ताने(धा.पा.1007) इत्यस्य धातोर्लिटि परतः सम्प्रसारणं न भवति। ववौ। ववतुः। ववुः। किति यजादित्वाद् धातोः प्राप्तमकित्यपि लिट्यभ्यासस्योभयेषाम्(6-1-17/2408) इत्यभ्यासस्यात उभयं प्रतिषिध्यते ।।
</6-1-40>
ल्यपि च ।। <6-1-41> ।।
`वेञः इत्यनुवर्तते। ल्यपि च परतो व्येञः सम्प्रसारणं न भवति। प्रवाय। उपवाय।
पृथग्योगकरणमुत्तरार्थम् ।।
</6-1-41>
ज्यश्च ।। <6-1-42> ।।
`ल्यपि इत्येव। `ज्या वयोहानौ(धा.पा.1500) इत्यस्य धातोर्ल्यपि परतः सम्प्रसारणं न भवति। प्रज्याय। उपज्याय ।।
</6-1-42>
व्यश्च ।। <6-1-43> ।।
`ल्यपि इत्येव। `व्येञ् संवरणे(धा.पा.1008) इत्येतस्य धातोर्ल्यपि परतः सम्प्रसारणं न भवति। प्रव्याय। उपव्याय। योगविभाग उत्तरार्थः ।।
</6-1-43>
विभाषा परेः ।। <6-1-44> ।।
`ल्यपि च, `व्यश्च इत्यनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा सम्प्रसारणं न भवति। परिवीय यूपम्। परिव्याय। सम्प्रसारणे कृते परपूर्वत्वे च ह्रस्वस्य(6-1-71/2858) इति तुक् प्राप्नोति, स हलः(6-4-2/2569) इति दीर्घत्वेन परत्वाद्बाध्यते ।।
</6-1-44>
आदेच उपदेशेऽशिति ।। <6-1-45> ।।
`धातोः इति वर्तते। एजन्तो यो धातुरुपदेशे तस्याकारादेशो भवति, शिति तु प्रत्यये न भवति। ग्लै-ग्लाता, ग्लातुम्, ग्लातव्यम्। शो-निशाता, निशातुम्, निशातव्यम्।
एच इति किम् ? कर्त्ता, हर्त्ता। उपदेश इति किम् ? चेता, स्तोता। अशितीति किम् ? ग्लायति, म्लायति।
कथं जग्ले, मम्ले ? नैव विज्ञायते-शकार इद्यस्य सोऽयं शिदिति, किं तर्हि ? श एव इत् शित्। तत्र `यस्मिन्विधिस्तदादावल्ग्रहणे(व्या.प.127) इति शिदादौ प्रत्यये प्रतिषेधः। एश् शकारान्तो भवति।
अशितीति प्रसज्यप्रतिषेधोऽयम्, तेनैतदात्त्वमनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवतीति। सुग्लः, सुम्ल इति--आतश्चोपसर्गे(3-1-136/2898) इति कप्रत्ययः। सुग्लानः, सुम्लानः इति--आतो युच्(3-3-128/3309) इत्येवमादि सिद्धं भवतीति।
आकाराधिकारस्त्वयम् नित्यं स्मयतेः(6-1-57/2596) इति यावत् ।।
</6-1-45>
न व्यो लिटि ।। <6-1-46> ।।
`व्येञ् इत्येतस्य धातोर्लिटि परत आकारादेशो न भवति। संविव्याय। संविव्ययिथ। लिट्यभ्यासस्योभयेषाम्(6-1-17/2408) इत्यभ्यासस्य सम्प्रसारणम्। णलि अचो ञ्णिति(7-2-115/254) इति वृद्धिः ।।
</6-1-46>
स्फुरतिस्फुलत्योर्घञि ।। <6-1-47> ।।
`आदेचः इति वर्तते। `स्फुर स्फुल चलने(धा.पा.1390/1391)--इत्येतयोर्धात्वोरेचः स्थाने घञि परत
आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः। स्फुरतिस्फुलत्योर्निर्निविभ्यः(7-3-76/2537) इति वा षत्वम् ।।
</6-1-47>
क्रीङ्जीनां णौ ।। <6-1-48> ।।
`डुक्रीञ् द्रव्यविनिमये(धा.पा.1474), `इङ् अध्ययने(धा.पा.1047), `जि जये(धा.पा.947)--इत्येतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति ।।।
</6-1-48>
सिध्यतेरपारलौकिके ।। <6-1-49> ।।
`णौ इति वर्तते। `षिधु हिंसासंराद्ध्योः(धा.पा.1193) इत्यस्य धातोरपारलौकिकेऽर्थे वर्तमानस्यैचः स्थाने णौ परत आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति।
अपारलौकिक इति किम् ? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति। अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति = ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते। स च ज्ञानविशेष उत्पन्नः परलोके = जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति।
इह कस्मान्न भवति ? अन्नं साधयति ब्राह्मणेभ्यो दास्यामीति। सिध्यतेरत्रार्थो निष्पत्तिः, तस्याः प्रयोजनमन्नम्, तस्य यद्दानं तत्पारलौकिकम्; न पुनः सिद्धिरेवेति न आत्वं पर्युदस्यते। साक्षात्परलोकप्रयोजने च सिध्यर्थे कृतावकाशं वचनमेवं विषयं नावगाहते।
सिध्यतेरिति श्यना निर्देशः `षिधु गत्याम् (धा.पा.47) इत्यस्य भौवादिकस्य निवृत्त्यर्थः ।।
</6-1-49>
मीनातिमिनोतिदीङां ल्यपि च ।। <6-1-50> ।।
`आदेच उपदेशे इति वर्तते। `मीञ् हिंसायाम्(धा.पा.1477), `डुमिञ्प्रक्षेपणे(धा.पा.1251), `दीङ् क्षये(धा.पा.1135)--इत्येतेषां धातूनां ल्यपि विषये चकारादेचश्च विषये उपदेश एव प्राक्प्रत्ययोत्पत्तेरलोऽन्त्यस्य स्थाने आकारादेशो भवति। प्रमाता, प्रमातव्यम्, प्रमातुम्, प्रमाय। निमाता, निमातुम्, निमातव्यम्, निमाय। उपदाता, उपदातव्यम्, उपदातुम्, उपदाय।
उपदेश एवात्त्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति, आकारान्तलक्षणश्च भवति---उपदायो वर्तते। ईषदुपदानमिति घञ्युचौ भवतः ।।
</6-1-50>
विभाषा लीयतेः ।। <6-1-51> ।।
`ल्यपि इति वर्तते, `आदेच उपदेशे इति च। `लीङ् श्लेषणे(धा.पा.1140)--इति दिवादिः, `ली श्लेषणे(धा.पा.1502)--इति क्र्यादिः; तयोरुभयोरपि यका निर्देशः स्मर्यते। लीयतेर्धातोर्ल्यपि च एचश्च विषये उपदेश एवालोऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति। विलाता, विलातुम्, विलाय, विलातव्यम्। विलेता, विलेतुम्, विलेतव्यम्, विलीय।
- निमीमिलियां खलचोः प्रतिषेधो वक्तव्य *(म.भा.3-38)। ईषत्प्रमयः। प्रमयो वर्तते। ईषन्निमयः निमयो वर्तते। ईषद्विलयः विलयो वर्तते। अत्र तु लियो व्यवस्थितविभाषाविज्ञानात्सिद्धम्।
एवं च प्रलम्भनशालीनीकरणयोश्च णौ नित्यमात्वं भवति-कस्त्वामुल्लापयते, श्येनो वर्त्तिकामुल्लापयते ।।
</6-1-51>
खिदेश्छन्दसि ।। <6-1-52> ।।
`विभाषा इति वर्त्तते। `खिद दैन्ये(धा.पा.1171) इत्यस्य धातोरेचः स्थाने छन्दसि विषये विभाषा आकार आदेशो भवति। चित्तं चिखाद। चित्तं चिखेद।
छन्दसीति किम् ? चित्तं खेदयति ।।
</6-1-52>
अपगुरो णमुलि ।। <6-1-53> ।।
`गुरी उद्यमने(धा.पा.1397)--इत्यस्य धातोरपपूर्वस्य णमुलि परत एचः स्थाने विभाषा आकार आदेशो भवति। अपगारमपगारम्। अपगोरमपगोरम्। आभीक्ष्ण्ये णमुल्च(3-4-22/3343) इति णमुल्। अस्यपगारं युध्यन्ते, अस्यपगोरं युध्यन्त इत्यत्र द्वितीयायां च(3-4-56/3374) इति णमुल् ।।
</6-1-53>
चिस्फुरोर्णौ ।। <6-1-54> ।।
`चिञ्(धा.पा.1252) `स्फुर(धा.पा.1390)--इत्येतयोर्द्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो भवति। चापयति, चाययति। स्फारयति, स्फोरयति ।।
</6-1-54>
प्रजने वीयतेः ।। <6-1-55> ।।
`णौ इति वर्तते। `वी गतिप्रजनकान्त्यसनखादनेषु(धा.पा.1049)-इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति। पुरोवातो गाः प्रवापयति। पुरोवातो गाः प्रवाययति। गर्भं ग्राहयतीत्यर्थः।
प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम् ।।
</6-1-55>
बिभेतेर्हेतुभये ।। <6-1-56> ।।
`णौ इति वर्तते, `विभाषा इति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद्भयम्, स यस्य भयस्य साक्षाद्धेतुः, तद्भयं हेतुभयम्। तत्र वर्तमानस्य `ञिभी भये(धा.पा.1084) इत्यस्य धातोर्णौ परतो विभाषा आकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। भीस्म्योर्हेतुभये(7-3-38/2594) इत्यात्मनेपदम्, भियो हेतुभये षुक्(7-3-40/2595)। स चात्त्वपक्षे न भवति। लिभियोरीकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुग्विधीयते।
हेतुभय इति किम् ? कुञ्चिकयैनं भाययति (म.भा.3-39)। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात् ।।
</6-1-56>
नित्यं स्मयतेः ।। <6-1-57> ।।
`णौ इति वर्तते, `हेतुभये इति च। नित्यग्रहणात् `विभाषा इति निवृत्तम्। `स्मिङ् ईषद्धसने(धा.पा.949)--इत्यस्य धातोर्हेतुभयेऽर्थे णौ परतो नित्यमाकारादेशो भवति। मुण्डो विस्मापयते। जटिलो विस्मापयते।
भय इति किम् ? कुञ्चिकयैनं विस्मापयति। भयशब्देन हेत्वर्थसामान्यादिह स्मयतेरर्थोऽभिधीयते। न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति ।।
</6-1-57>
सृजिदृशोर्झल्यमकिति ।। <6-1-58> ।।
`सृज विसर्गे(धा.पा.1415), `दृशिर् प्रेक्षणे(धा.पा.989)--इत्येतयोर्धात्वोर्झलादावकिति प्रत्यये परतोऽमागमो भवति। स्रष्टा, स्रष्टुम्, स्रष्टव्यम्। द्रष्टा, द्रष्टुम्, द्रष्टव्यम्। लघूपधगुणापवादोऽयममागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिरमि कृते भवति, पूर्वं तु बाध्यते।
झलीति किम् ? सर्जनम्। दर्शनम्। अकितीति किम् ? सृष्टः। दृष्टः।
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानादिह न भवति--रज्जुसृड्भ्याम्, देवदृग्भ्यामिति ।।
</6-1-58>
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ।। <6-1-59> ।।
`उपदेशे इति वर्तते, `झल्यमकिति इति च। उपदेशेऽनुदात्तस्य धातोर्ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। `तृप प्रीणने(धा.पा.1196), `दृप हर्षणमोचनयोः(धा.पा.1197)--इत्येतौ रधादी धातू, तयोरिडागमः रधादीभ्यश्च(7-2-45/2515) इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव।
अनुदात्तस्येति किम् ? वर्ढा, वर्ढुम्, वर्ढव्यम्। `वृहू उद्यमने(धा.पा.1348) इत्ययमुदात्तोपदेश ऊदित्वाच्चास्येड् विक्ल्प्यते। ऋदुपधस्येति किम् ? भेत्ता। छेत्ता।
झलीत्येव--तर्पणम्। दर्पणम्।
अकितीत्येव--तृप्तः। दृप्तः ।।
</6-1-59>
शीर्षंश्छन्दसि ।। <6-1-60> ।।
`शीर्षन् इति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयमादेशः शिरःशब्दस्य। सोऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम् ।
छन्दसीति किम् ? शिरः ।।
</6-1-60>
ये च तद्धिते ।। <6-1-61> ।।
`शीर्षन् इति वर्तते। आदेशोऽयमिष्यते, स कथम् ? `तद्धिते इति हि परं निमित्तमुपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति। यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति। शीर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भव इति शरीरावयवाच्च(4-3-55/1430) इति यत्, ये चाभावकर्मणोः(6-4-138/1154) इति प्रकृतिभावः।
तद्धित इति किम् ? शिर इच्छति शिरस्यति ।।
- वा केशेषु *(म.भा.3-41)। शिरसः शीर्षन्नादेशो वक्तव्यः। शीर्षण्याः केशाः। शिरस्याः केशाः ।।
</6-1-61>
अचि शीर्षः ।। <6-1-62> ।।
अजादौ तद्धिते शिरसः शीर्षशब्द आदेशो भवति। हस्तिशिरसोऽपत्यं हास्तिशीर्षिः। बाह्वादिभ्यश्च(4-1-96/1096) इति इञ्। स्थूलशिरस इदं स्थौलशीर्षम्। शीर्षन्भावे हि अन्(6-4-167/1155) इति प्रकृतिभावः स्यात्।
हास्तिशीर्षिशब्दात् स्त्रियामिञः अणिञोरनार्षयोः(4-1-78/1198) ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन
ग्रहणात् शीर्षन्नादेशैः प्राप्नोति, तत्र प्रकृतिभावे सति हास्तिशीर्षण्येत्यनिष्टं रूपं स्यात्, इष्यते तु हास्तिशीर्ष्येति, तत्कथम् ? कर्त्तव्योऽत्र यत्नः। अणिञन्ताद् वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्येतिलोपस्य स्थानिवद्भावाद् व्यवधानम् ।।
</6-1-62>
पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ।। <6-1-63> ।।
पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष, दोष, यकृत्, शकृत्, उदक, आसन--इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद्, दत्, नस्, मास्, हृत्, निश्, असन्, यूषन्, दोषन्, यकन्, शकन्, उदन्, आसन्--इत्येते आदेशा यथासंख्यं भवन्ति। पद्--निपदश्चतुरो जहि। पदा वर्त्तय गोदुहम्। पादस्य पत्(6-4-130/414)। दत्--`या दतो धावति तस्यै श्यावदन्(तै.सं.2-5-1-7)। नस्--`सूकरस्त्वखनन्नसा(अ.वे.2-27-2)। मास्--`मासि(तै.सं.2-5-6-6) त्वा पश्यामि चक्षुषा। हृद्-`हृदा पूतेन मनसा जातवेदसम्(अ.वे.4-39)। निश्-`अमावास्यायां निशि यजेत(खि.2-1-8)। असन्-`आसिक्तोऽस्नावरोहति(मै.सं.3-15-8)। यूषन्-`या पात्राणि यूष्ण आसेचनानि(ऋ.1-162-13)। दोषन्-`यत्ते दोष्णो दौर्भाग्यम्(मै.सं.3-10-3)। यकन्-`यक्नोऽवद्यति। शकन्-`शक्नोऽवद्यति(अ.वे.12-4-4)। उदन्-`उद्नो दिव्यस्य नावाते(तै.सं.2-4-8-2)। आसन्-`आसनि(ऋ.1-75-1) किं लभे मधूनि।
शस्प्रभृतिष्विति किम् ? पादौ ते प्रतिपीड्यौ, नासिके ते कृशे।
केचिदत्र छन्दसीत्यनुवर्त्तयन्ति। अपरे पुनरविशेषेणेच्छन्ति। तथा हि-भाषायामपि पदादयः शब्दाः प्रयुज्यन्ते।
`व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च।
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ।। इत्येवमादयः।
अन्यतरस्यामित्येतदनुवर्तयन्ति, तेन पादादयोऽपि प्रयुज्यन्ते।
शस्प्रभृतिष्विति प्रकारार्थे प्रभृतिशब्द इति `शला दोषणी(काठ.सं.16-21) इत्यत्रापि दोषन्नादेशो भवति।
- पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् *(म.भा.3-41)। मांस, पृतना-सानु-इत्येतेषां स्थाने यथासंख्यं मांस्, पृत्। स्नु-इत्येते आदेशा भवति। `मांस्पचन्या उखायाः(ऋ.1-162-13)। मांसपचन्या इति प्राप्ते। `पृत्सु मर्त्त्यम्(ऋ.1-27-7)। पृतनासु मर्त्त्यमिति प्राप्ते। `न ते दिवो न पृथिव्या अधिस्नुषु(वा.सं.17-14)। अधिसानुष्विति प्राप्ते।
- नस् नासिकाया यत्तस्क्षुद्रेषु *(म.भा.3-42)। नासिकाया नस्भावो वक्तव्यो यत्, तस्, क्षुद्र-इत्येतेषु परतः। नस्यम्। नस्तः। नःक्षुद्रः।
- यति वर्णनगरयोर्नेति वक्तव्यम् *(म.भा.3-42)। नासिक्यो वर्णः। नासिक्यं नगरम् ।।
</6-1-63>
धात्वादेः षः सः ।। <6-1-64> ।।
धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह-सहते। षिच-सिञ्चति।
धातुग्रहणं किम् ? षोडश। षडिकः। षण्डः। आदिरिति किम् ? कषति। लषति। कृषति।
आदेशप्रत्यययोः(8-3-59/212) इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः। के पुनस्ते ? ये तथा पठ्यन्ते। अथ वा, लक्षणं क्रियते--`अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च, सृपिसृजिस्तृस्त्यासेक्सृवर्जम् ।।
- सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः *(म.भा.3-42)। षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। `ष्ठिवु--इत्येतस्य द्वितीयस्थकारष्ठकारश्चेष्यते। तेन तेष्ठीव्यते, टेष्ठीव्यते इति चाभ्यासरूपं द्विधा भवति ।।
</6-1-64>
णो नः ।। <6-1-65> ।।
`धातोरादेः इत्यनुवर्तते। धातोरादेर्णकारस्य नकार आदेशो भवति। णीञ्--नयति। णम्--नमति। णह--नह्यति।
धात्वादेरित्येव--अणति।
सुब्धातोरयमपि नेष्यते--णकारमिच्छति णकारीयति।
उपसर्गादसमासेऽपि णोपदेशस्य(8-4-14/2287) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धातवः केचिदुपदिश्यन्ते। के पुनस्ते ? ये तथा पठ्यन्ते। अथ वा, लक्षणं क्रियते--`सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम् ।।
</6-1-65>
<K.4.520>
लोपो व्योर्वलि ।। <6-1-66> ।।
धातोरिति प्रकृतं यत् तद् धात्वादेरिति पुनर्धातुग्रहणान्निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोर्वलि परतो लोपो भवति। दिव्-दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी-ऊतम्। क्नूयी- क्नूतम्। गोधाया ढ्रक्(4-1-129/1135)-गौधेरः। पचेरन्। यजेरन्। वकारस्य--`जीवेरदानुक्(द.उ.1-163) जीरदानुः। स्रिवेः--- आस्रेमाणम्। उणादयो बहुलम्(3-3-1/3169) इति बहुलवचनात् च्छ्वोः शूडनुनासिके च(6-4-19/2561) इति ऊठ् न भवति।
वलीति किम् ? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम् ?
वेरपृक्तलोपात्पूर्वं वलि लोपो यथा स्यात्।
कण्डूयतेः क्विप्-कण्डूः। लोलूयतेः--लोलूः।
व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। वृश्चति, वव्रश्चेत्यत्रापि हि सम्प्रसारणहलादिःशेषयोर्बहिरङ्गत्वात्प्राप्नोति ।।
</6-1-66>
वेरपृक्तस्य ।। <6-1-67> ।।
`लोपः इति वर्त्तते। `वेः इति क्विबादयो विशेषाननुबन्दानुत्सृज्य सामान्येन गृह्यन्ते। वेरपृक्तस्य लोपो भवति। ब्रह्मभ्रूणवृत्रेषु क्विप्(3-2-87/2998)--ब्रह्महा, भ्रूणहा। स्पृशोऽनुदके क्विन्(3-2-58/432)--घृतस्पृक्, तैलस्पृक्। भजो ण्विः(3-2-62/2976)--अर्धभाक्, पादभाक्, तुरीयभाक् ।
अपृक्तस्येति किम् ? `वृदृभ्यां विन्(उ.502)-दर्विः। `कॄगॄशॄसॄजागृभ्यः क्विः--जागृविः।
</6-1-67>
इल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् ।। <6-1-68> ।।
`लोपः इति वर्तते। तदिह लौकिकेनार्थेनार्थवत् कर्मसाधनं द्रष्टव्यम्--लुप्यते इति लोपः। हलन्ताद्, ङ्यन्तादाबन्ताच्च दीर्घात् परं सु, ति, सि-इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः-राजा, तक्षा, उखास्रत्, पर्णध्वत्। ङ्यन्तात्-कुमारी, गौरी, शार्ड्गरवी। आबन्तात्-खट्वा, बहुराजा, कारीषगन्ध्या।
हलन्तादेव तिलोपः, सिलोपश्च। तत्र तिलोपस्तावत्-अबिभर्भवान्। भृञो लङि तिपि श्लौ, भृञामित्(7-4-76/2496) इत्यभ्यासस्येत्त्वम्। अजागर्भवान्। सिलोपः-अभिनोऽत्र। अच्छिनोऽत्र(म.भा.3-43)। दस्य रेफः।
हल्ङ्याब्भ्य इति किम् ? ग्रामणीः। सेनानीः। दीर्घादिति किम् ? निष्कौशाम्बिः। अतिखट्वः। सुतिसीति किम् ? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात्सिचो ग्रहणं नास्ति। अपृक्तमिति किम् ? भिनत्ति, छिनत्ति।
हलीति किम् ? बिभेद। चिच्छेद।
अथ किमर्थं हलन्तात्सुतिसीनां लोपो विधीयते, संयोगान्तलोपेनैव सिद्धम् ? न सिद्ध्यति; राजा, तक्षेत्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न स्यात्। उखास्रत्, पर्णध्वदित्यत्रापदान्तत्वाद्दत्वं च न स्यात्। अभिनोऽत्रेत्यत्र अतो रोरप्लुतादप्लुते(6-1-113/163) इत्युत्वं न स्यात्। अबिभर्भवानित्यत्र तु रात्सस्य(8-3-24/280) इति नियमाल्लोप एव न स्यात्।
संयोगान्तस्य लोपे हि नलोपादिर्न सिद्ध्यति।
रात्तु ते नैव लोपः स्याद्, हलस्तस्माद्विधीयते ।।
</6-1-68>
एङ्ह्रस्वात्सम्बुद्धेः ।। <6-1-69> ।।
`लोप इति वर्त्तते, `हल् इति च। `अपृक्तम् इति नाधिक्रियते, तथा च पूर्वसूत्रे पुनरपृक्तग्रहणं कृतम्। एङन्तात्प्रातिपदिकाद् ह्रस्वान्ताच्च परो हल्लुप्यते स चेत्सम्बुद्धेर्भवति। एङन्तात्--हे अग्ने, हे वायो। ह्रस्वान्तात्--हे देवदत्त, हे नदि, हे वधु, हे कुण्ड। कुण्डशब्दाद् अतोऽम्(7-1-24/309) इत्यम्, अमि पूर्वः(6-1-107/194) इति पूर्वत्वे कृते हल्मात्रस्य मकारस्य लोपः।
हे कतरदित्यत्र डिदयमद्डादेशः(7-1-25/315), तत्र टिलोपे सति ह्रस्वाभावान्नास्ति सम्बुद्धिलोपः। एङ्ग्रहणं क्रियते सम्बुद्धिगुणबलीयस्त्वात् ।।
</6-1-69>
शेश्छन्दसि बहुलम् ।। <6-1-70> ।।
`शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति। या क्षेत्रा। `या वना(अ.वे.14-2-7)। `यानि क्षेत्राणि(अ.वे.14-2-7)। यानि वनानि ।।
</6-1-70>
ह्रस्वस्य पिति कृति तुक् ।। <6-1-71> ।।
पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य।
ह्रस्वस्येति किम् ? आलूय। ग्रमणीः। पितीति किम् ? कृतम्। हृतम्। कृतीति किम् ? पटुतरः। पटुतमः।
ग्रामणि ब्राह्मणकुलमित्यत्र ह्रस्वस्य बहिरङ्गस्यासिद्धत्वात् तुग्न भवति ।।
</6-1-71>
संहितायाम् ।। <6-1-72> ।।
अधिकारोऽयम् अनुदात्तं पदमेकवर्जम्(6-1-158/3650) इति यावत्। प्रागेतस्मात्सूत्रादित उत्तरं यद्वक्ष्यामः संहितायामित्येवं तद्वेदितव्यम्। वक्ष्यति--इको यणचि(6-1-77/47), दध्यत्र।
संहितायामिति किम् ? दधि अत्र। मधु अत्र ।।
</6-1-72>
छे च ।। <6-1-73> ।।
`ह्रस्वस्य तुक् इति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। गच्छति।
ह्रस्व एवात्रागमी, न त्वदन्तः। तेन चिच्छिदतुः, चिच्छिदुरित्यत्र तुगभ्यासस्य ग्रहणेन न गृह्यत इति हलादिःशेषेण न निवर्त्त्यते। नावयवावयवः समुदायावयवो भवतीति ।।
</6-1-73>
आङ्माङोश्च ।। <6-1-74> ।।
`तुक् इत्यनुवर्तते, `छे इति च। आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्त्तमानस्य माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। पदान्ताद्वा(6-1-76/149) इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे--ईषच्छाया। आच्छाया। क्रियायोगे--आच्छादयति।
मर्यादाभिविध्योः---आच्छायायाः। आच्छायम्। माडः खल्वपि- माच्छैत्सीत्। माच्छिदत्।
ङिद्विशिष्टग्रहणं किम् ? आछाया, आच्छाया। प्रमाछन्दः, प्रमाच्छन्दः ।।
</6-1-74>
दीर्घात् ।। <6-1-75> ।।
`छे तुक् इति वर्त्तते। दीर्घात्परो यश्छकारस्तस्मिन्पूर्वस्य तस्यैव दीर्घस्य तुगागमो भवति। ह्रीच्छति। म्लेच्छति। अपचाच्छायते। विचाच्छायते ।।
</6-1-75>
पदान्ताद्वा ।। <6-1-76> ।।
`दीर्घाच्छे तुक् इति वर्त्तते। पदान्ताद्दीर्घात्परो यश्छकारस्तस्मिन्पूर्वस्य तस्यैव दीर्घस्य पूर्वण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया। कृटीछाया। कुवलीच्छाया। कुवलीछाया।
- विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम् *(म.भा.3-51)। विश्वजनच्छत्रम्। विश्वजनछत्रम्। `नच्छायां कुरवोपरम्(अ.वे.13-3-56)। नछायां कुरवोपरम् ।।
</6-1-76>
इको यणचि ।। <6-1-77> ।।
अचि परत इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। हर्त्रर्थम्। लाकृतिः।
- इकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थं यणादेशो वक्तव्यः *(म.भा.3-51)। भो3 इ इन्द्रम् । भो3 यिन्द्रम्।
अचीति चायमधिकारः सम्प्रसारणाच्च(6-1-108/330) इति यावत् ।।
</6-1-77>
एचोऽयवायावः ।। <6-1-78> ।।
एचः स्थानेऽचि परतोऽय्, अव्, आय्, आव्-इत्येते आदेशा यथासंख्यं भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि ।।
</6-1-78>
वान्तो यि प्रत्यये ।। <6-1-79> ।।
योऽयमेचः स्थाने वान्तादेशः--ओकारस्य अव्, औकारस्याव्, स यकारादौ प्रत्यये परतो भवति। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। नाव्यो ह्रदः।
वान्त इति किम् ? रायमिच्छति रैयति। यीति किम् ? गोभ्याम्, नौभ्याम्। प्रत्यय इति किम् ? गोयानम्, नौयानम्।
- गोर्यूतौ छन्दसि *(म.भा.3-54)। गोशब्दस्य यूतौ परतश्छन्दसि विषये वान्तादेशो वक्तव्यः। `आनो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्(ऋ.3-62-16)।
छन्दसीति किम् ? गोयूतिः।
- अध्वपरिमाणे च *(म.भा.3-54)। गोर्यूतौ परतो वान्तादेशो वक्तव्यः। गव्यूतिमात्रमध्वानं गतः ।।
</6-1-79>
धातोस्तन्निमित्तस्यैव ।। <6-1-80> ।।
`एचः इति वर्त्तते। `वान्तो यि प्रत्यये इति च। धातोर्य एच् तन्निमित्तो यकारादिप्रत्ययनिमित्तस्तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यम्।
धातोरिति किम् ? प्रातिपदिकस्य नियमो मा भूत्। तत्र को दोषः ? ब्राभ्रव्य इत्यत्रैव स्यात्, इह न स्याद्-गव्यम्, नाव्यमिति।
तन्निमित्तस्येति किम् ? अतन्निमित्तस्य मा भूत्-उपोयते। औयत। लौयमानिः। पौयमानिः। अत इञ्(4-1-95/1095)।
एवकारकरणं किम् ? धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूदिति तन्निमित्तस्य हि धातोश्चाधातोश्च भवति-बाभ्रव्यः, अवश्यलाव्यम्, लव्यम् ।।
</6-1-80>
क्षय्यजय्यौ शक्यार्थे ।। <6-1-81> ।।
`क्षि `जि--इत्येतयोर्धात्वोर्यति प्रत्यये परतः शक्यार्थे गम्यमाने एकारस्यायादेशो निपात्यते। शक्यः क्षेतुं क्षय्यः। शक्यो जेतुं जय्यः।
शक्यार्थ इति किम् ? क्षेयं पापम्। जेयो वृषलः ।।
</6-1-81>
क्रय्यस्तदर्थे ।। <6-1-82> ।।
क्रीणातेर्धातोस्तदर्थे क्रयार्थं यत्तस्मिन्नभिधेये यति प्रत्यये परतोऽयादेशो निपात्यते। क्रय्यो गौः। क्रय्यः कम्बलः। क्रयार्थं यः प्रसारितः स उच्यते।
तदर्थ इति किम् ? क्रेयं नो धान्यम्,न चास्ति क्रय्यम् ।।
</6-1-82>
भय्यप्रवय्ये चच्छन्दसि ।। <6-1-83> ।।
बिभेतेर्धातोः प्रपूर्वस्य च `वी इत्येतस्य यति प्रत्यये परतश्छन्दसि विषयेऽयादेशो निपात्यते। भय्यं किलासीत्। वत्सतरी प्रवय्या। भय्येति कृत्यल्युटो बहुलम्(3-3-113/2841) इत्यपादाने यत्प्रत्ययः। बिभेत्यस्मादिति भय्यम्। `प्रवय्या इति स्त्रियामेव निपातनम्। अन्यत्र प्रवेयमित्येव भवति।
छन्दसीति किम् ? भेयम्। प्रवेयम्।
- ह्रदय्या आप उपसंख्यानम् *(म.भा.3-55)। ह्रदय्या आपः। ह्रदे भवा--भवे छन्दसि(4-4-110/3456) इति यत्प्रत्ययः ।।
</6-1-83>
एकः पूर्वपरयोः ।। <6-1-84> ।।
अधिकारोऽयम्। ख्यत्यात्परस्य(6-1-112/255) इति प्रागेतस्मात्सूत्रादित उत्तरं यद्वक्ष्यामस्तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवतीत्येतद् वेदितव्यम्। वक्ष्यति--आद्गुणः(6-1-87/69) इति। तत्राचि पूर्वस्यावर्णाच्च परस्य स्थाने एको गुणो भवति-खट्वेन्द्रः, मालेन्द्रः।
पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्। एकस्यैव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत्प्रकल्पिके भवत इति।
एकग्रहणं पृथगादेशनिवृत्त्यर्थम्, स्थानिभेदाद्धि भिन्नादिषु नत्ववद् द्वावादेशौ स्याताम् ।।
</6-1-84>
अन्तादिवच्च ।। <6-1-85> ।।
`एकः इति वर्त्तते, `पूर्वपरयोः इति च। एकः पूर्वपरयोः(6-1-84/68) इति योऽयमेकादेशो विधीयते स पूर्वस्यान्तवद्भवति, परस्यादिवद्भवति। यथा तस्यान्त आदिर्वा तदन्तर्भूतस्तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन गृह्यते-इत्येषोऽतिदेशस्यार्थः।
ब्रह्मबन्धूरित्यत्र ब्रह्मबन्ध्विति प्रातिपदिकम्, ऊङित्यप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्य एकादेशः स प्रातिपदिकस्यान्तवद् भवति। यथा शक्यते कर्त्तुम्--ङ्याप्प्रातिपदिकात्(4-1-1/182) इति स्वादिविधिः।
वृक्षावित्यत्र सुबौकारः असुबकारः, तयोः सुबसुपोरेकादेशः सुप आदिवद्भवति। यथा शक्यते वक्तुम्-सुबन्तं पदम्(1-4-14/29) इति।
वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते, तथा हि---खट्वाभिरित्यत्रान्तवद्भावाभावाद् अतो भिस ऐस्(7-1-9/206) इति न भवति। ह्वयतेः-जुहावेति सम्प्रसारणपूर्वत्वस्यादिवद्भावाद् आत औ णलः(7-1-34/2371) इति न भवति। अस्यै अश्वः, अस्या अश्व इति वृद्धिरेचि(6-1-88/72) इति वृद्धिः, एङः पदान्तादति(6-1-109/86) इत्यत्र विधावादिवन्न भवति।
पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्त्यते। तत्रावयवयोरानुमानिकं स्थानित्वमिति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्तमित्यन्तादिवद्भावो विधीयते ।।
</6-1-85>
षत्वतुकोरसिद्धः ।। <6-1-86> ।।
षत्वे तुकि च कर्तव्ये एकादेशोऽसिद्धो भवति। सिद्धकार्यं न करोतीत्यर्थः। असिद्धवचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। कोऽसिचद् इत्यत्र एङः पदान्तादति(6-1-109/86) इत्येकादेशस्य परं प्रत्यादिवद्भावादपदादेरिण उत्तरस्यादेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति। कोऽस्य, योऽस्य, कोऽस्मै, योऽस्मै--इत्येकादेशस्यासिद्ध्त्वाद् `इणः(8-3-39/153) इति षत्वं न भवति।
तुग्विधौ---अधीत्य, प्रेत्येति। अत्रैकादेशस्यासिद्धत्वात् ह्रस्वस्य पिति कृति तुक्(6-1-71/2858) इति तुग्भवति।
- सम्प्रसारणङीट्सु प्रतिषेधो वक्तव्यः *(म.भा.3-66)। सम्प्रसारणे--ब्रह्महूषु। परिवीषु। सम्प्रसारणपूर्वत्वस्यासिद्धत्वात्षत्वं न प्राप्नोति। ङौ-वृक्षेच्छत्रम्, वृक्षे छत्रम्। इटि-अपचेच्छत्रम्, अपचे छत्रम्(म.भा.3-66); आद्गुणस्यासिद्धत्वाद् ह्रस्वलक्षणो नित्योऽत्र तुक् प्राप्नोति, दीर्घात्(6-1-75/148), पदान्ताद्वा(6-1-76/149) इति तुग्विकल्प इष्यते ।।
</6-1-86>
आद् गुणः ।। <6-1-87> ।।
`अचि इत्यनुवर्तते। अवर्णात्परो योऽच्, अचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णाचोः स्थाने एको गुण आदेशो भवति। तवेदम्। खट्वेन्द्रः, मालेन्द्रः। तवेहते, खट्वेहते। तवोदकम्, खट्वोदकम्। तवर्श्यः, खट्वर्श्यः। तवल्कारः, खट्वल्कारः। लृकारस्य स्थाने योऽण् तस्य लपरत्वमिष्यते ।।
</6-1-87>
वृद्धिरेचि ।। <6-1-88> ।।
`आत् इति वर्तते। अवर्णात्परो य एच्, एचि च पूर्वो योऽवर्णः, तयोः पूर्वपरयोरवर्णैचोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणस्यापवादः। ब्रह्मैडका, खट्वैडका। ब्रहमैतिकायनः, खट्वैतिकायनः। ब्रह्मौदनः, खट्वौदनः। ब्रह्मौपगवः, खट्वौपगवः ।।
</6-1-88>
एत्येधत्यूठ्सु ।। <6-1-89> ।।
`वृद्धिरेचि इति वर्तते, `आत् इति च। तदेतदेज्ग्रहणमेतेरेव विशेषणम्, न पुनरेधतेः; अव्यभिचाराद्, ऊठश्चासम्भवात्। `इण् गतौ(धा.पा.1046) इत्येतस्मिन् धातावेचि, `एध वृद्धौ(धा.पा.2) इत्येतस्मिन् ऊठि च पूर्वं यदवर्णं ततश्च परो योऽच्, तयोः पूर्वपरयोरवर्णाचोः स्थाने वृद्धिरेकादेशो भवति। उपैति, उपैषि, उपैमि। उपैधते, प्रैधते। प्रष्ठौहः, प्रष्ठौहा, प्रष्ठौहे। ऊठ्याद्गुणापवादो वृद्धिर्विधीयते। एत्येधत्योः--एङिपर रूपापवादः।
ओमाङोश्च(6-1-95/80) इत्येतत्तु पररूपं न बाध्यते; `येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति(व्या.प.49) इति, `पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते(व्या.प.9) इति वा। तेनेह न भवति--उप आ इतः = उपेत इति।
एचीत्येव-उप आ इतः = उपेत इति।
- अक्षादूहिन्यां वृद्धिर्वक्तव्या *(म.भा.3-69)। अक्षौहिणी।
- स्वादीरेरिण्योर्वृद्धिर्वक्तव्या *(म.भा.3-69)। स्वैरम्। स्वैरिणी।
- प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या *(म.भा.3-69)। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः।
- ऋते च तृतीयासमासेऽवर्णाद् वृद्धिर्वक्तव्या *(म.भा.3-69)। सुखेन ऋतः सुखार्तः। दुःखेन ऋतो दुःखार्तः। ऋत इति किम् ? सुखेन इतः सुखेतः। तृतीयेति किम्? परमर्तः। समास इति किम् ? सुखेनर्तः।
- प्रवत्सतरकम्बलवसनानामृणे वृद्धिर्वक्तव्या *(म.भा.3-69)। प्र-प्रार्णम्। वत्सतर-वत्सतरार्णम्। कम्बल-कम्बलार्णम्। वसन-वसनार्णम्।
- ऋणदशाभ्यां वृद्धिर्वक्तव्या *(म.भा.3-69)। ऋणार्णम्। दशार्णम् ।।
</6-1-89>
आटश्च ।। <6-1-90> ।।
`एचि इति निवृत्तम्। `अचि इत्यनुवर्त्तते। आटः परो योऽच्, अचि च पूर्वो य आट्-तयोः पूर्वपरयोराडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोत्। औब्जीत्।
चकारोऽधिकविधानार्थः----उसि(6-1-96/2214) ओमाङोश्च(6-1-95/80) इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊढा ओढा, तामैच्छत् औढीयत् ।।
</6-1-90>
उपसर्गादृति धातौ ।। <6-1-91> ।।
`आत् इत्येव। अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति।
उपसर्गादिति किम् ? खट्वर्च्छति। मालर्च्छति। प्रगता ऋच्छका अस्माद्देशात् प्रर्च्छको देशः। `यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञकाः(जै.प.99) इति।
ऋतीति किम् ? उप इत उपेतः। तपरकरणं किम् ? उप ऋकारीयति उपर्कारीयति। वा सुप्यापिशलेः(6-1-92/77) इति विकल्पः स्यात्।
उपसर्गग्रहणादेव धातुग्रहणे सिद्धे दातुग्रहणं शाकल्यनिवृत्त्यर्थम्। ऋत्यकः(6-1-128/92) इति हि शाकल्यस्य
प्रकृतिभावः प्राप्नोति ।।
</6-1-91>
वा सुप्यापिशलेः ।। <6-1-92> ।।
`आत् इत्येव, `उपसर्गादृति धातौ इति च। सुबन्तावयवे धातावृकारादौ परतोऽवर्णान्तादुपसर्गात् पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति। उपर्षभीयति, उपार्षभीयति। उपल्कारीयति, उपाल्कारीयति। `ऋकारऌकारयोः सावर्ण्यविधिः इति ऋतीति ऌकारोऽपि गृह्यते।
आपिशलिग्रहणं पूजार्थम्, वेति ह्युच्यत एव ।।
</6-1-92>
औतोऽम्शसोः ।। <6-1-93> ।।
ओतोऽमि शसि च परतः पूर्वपरयोराकार आदेशो भवति। गां पश्य, गाः पश्य। द्यां पश्य, द्याः पश्य।
द्योशब्दोऽप्योकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णिदिष्यते, तेन नाप्राप्तायां वृद्धावयमाकारो विधीयमानस्तां बाधते।
अमिति द्वितीयैकवचनं गृह्यते; शसा साहचर्यात्, `सुपि इति चाधिकारात्। तेनाचिनवम्, असुनवमित्यत्र न भवति ।।
</6-1-93>
एङि पररूपम् ।। <6-1-94> ।।
`आत् इत्येव, `उपसर्गाद्धातौ इति च। अवर्णान्तादुपसर्गादेङादौ धातौ पूर्वपरयोः पररूपमेकादेशो भवति। वृद्धिरेचि(6-1-88/72) इत्यस्यापवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति।
केचिद् वा सुप्यापिशलेः(6-1-92/77) इत्यनुवर्त्तयन्ति, तच्च वाक्यभेदेन सुब्धातौ विक्ल्पं करोति-उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति।
- शकन्ध्वादिषु पररूपं वक्तव्यम् *(म.भा.3-75)। शक अन्धुः शकन्धुः। कुल अटा कुलटा।
- सीमन्तः केशेषु *(म.भा.3-75)। सीम्नोऽन्तः सीमन्तः। अन्यत्र सीमान्तः।
- एवे चानियोगे पररूपं वक्तव्यम् *(म.भा.3-75)। इह एव इहेव। अद्य एव अद्येव। अनियोगे इति किम् ? इहैव भव माऽन्यत्र गाः ।।
- ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् *(म.भा.3-76)। स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समास इति किम् ? तिष्ठ देवदत्तौष्ठं पश्य।
- एमन्नादिषु छन्दसि पररूपं वक्तव्यम् *(म.भा.3-76)। अपां त्वा एमन्, `अपां त्वेमन्(मै.सं.2-7-18-1)। अपां त्वा ओद्मन्, `अपां त्वोद्मन्(मै.सं.2-7-18-1) ।।
</6-1-94>
ओमाङोश्च ।। <6-1-95> ।।
`आत् इत्येव। अवर्णान्तादोमि आङि च परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। का ओमित्यवोचत्, कोमित्यवोचत्। योमित्यवोचत्। आङि खल्वपि--आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा, तदोढा। वृद्धिरेचि(6-1-88/72) इत्यस्यापवादः।
इह तु-आ ऋश्यात् अर्श्यात्, अद्य अर्श्यात् अद्यर्श्यादिति अकः सवर्णे दीर्घत्वं(6-1-101/85) बाधते ।।
</6-1-95>
उस्यपदान्तात् ।। <6-1-96> ।।
`आत् इत्येव। अवर्णादपदान्तादुसि पूर्वपरयोराद्गुणापवादः पररूपमेकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उस् अदुः। अया उस् अयुः।
अपदान्तादिति किम् ? का उस्रा कोस्रा। का उषिता कोषिता।
आदित्येव--चक्रुः। अबिभयुः ।।
</6-1-96>
अतो गुणे ।। <6-1-97> ।।
`अपदान्तात् इति वर्त्तते। अकारादपदान्ताद् गुणे परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्णे दीर्घस्य(6-1-101-85) अपवादः।
पचे, यजे--इत्यत्र वृद्धिरेचि(6-1-88/72) इति वृद्धिः प्राप्नोति।
अत इति किम्? यान्ति। वान्ति।
गुण इति किम् ? अपचे। अयजे।
अपदान्तादित्येव--दण्डाग्रम्। यूपाग्रम् ।।
</6-1-97>
अव्यक्तानुकरणस्यात इतौ ।। <6-1-98> ।।
अव्यक्तम्=अपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णमेव केनचित्सादृश्येन तदव्यक्तमनुकरोति तस्य योऽच्छब्दस्तस्मादितौ पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पटत् इति पटिति। घटत् इति घटिति। झटत् इति झटिति। छमित् इति छमिति। अव्यक्तानुकरणस्येति किम् ? जगत् इति जगदिति। अत इति किम् ? मरट् इति मरडिति। इताविति किम्? पटत् अत्र पटदत्र ।।
- अनेकाच इति वक्तव्यम् *(म.भा.3-77)। इह मा भूत्--श्रत् इति श्रदिति।
कथं घटदिति गम्भीरमम्बुदैर्नदितमिति ? दकारान्तमेतदनुकरणं द्रष्टव्यम् ।।
</6-1-98>
नाम्रेडितस्यान्त्यस्य तु वा ।। <6-1-99> ।।
अव्यक्तानुकरणस्याम्रेडितस्य योऽच्छब्द इतौ तस्य पररूपं न भवति, तस्य योऽन्त्यस्तकारस्तस्य वा भवति। पटत्पटदिति, पटत्पटेति करोति। नित्यवीप्सयोः(8-1-4/2140) इति द्विर्वचनम्।
यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्--पटत्पटेति करोति ।।
</6-1-99>
नित्यमाम्रेडिते डाचि ।। <6-1-100> ।।
`अव्यक्तानुकरणस्य, `अतः `अन्त्यस्य इति चानुवर्त्तते। डाच्परं यदाम्रेडितं तस्मिन्पूर्वस्याव्यक्तानुकरणस्याच्छब्दस्य योऽन्त्यस्तकारस्तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपमेकादेशो भवति। पटपटाकरोति। दमदमाकरोति ।
पटदित्यस्माद् `अव्यक्तानुकरणाद् इति डाचि विहिते `डाचि बहुलम्(वा.691) इति द्विर्वचनम्, तच्च टिलोपात् पूर्वमेवेष्यते ।।
</6-1-100>
अकः सवर्णे दीर्घः ।। <6-1-101> ।।
अकः सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतॄश्यः।
अक इति किम् ? अग्नये। सवर्ण इति किम् ? दध्यत्र।
अचीत्येव---कुमारी शेते। नाज्झलौ(1-1-10/13) इत्यत्र यदजिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्यानभिनिर्वृत्तत्वात्सवर्णा न गृह्यन्त इति सवर्णत्वमीकारशकारयोरप्रतिषिद्धम् ।।
- सवर्णदीर्घत्वे ऋति ऋ वा वचनम् *(म.भा.3-77)। ऋति सवर्णे परभूते तत्र ऋ वा भवतीति वक्तव्यम्। होतृ ऋकारः होतृकारः। यदा न ऋ, तदा दीर्घ एव होतॄकारः।
- लृति ऌ वा वचनम् *(म.भा.3-77)। लृति सवर्णे परतो ऌ वा भवतीति वक्तव्यम्। होतृ लृकारः। होतॢकारः। होतॄकारः। ऋकारलृकारयोः सवर्णसंज्ञाविधिरुक्तः। दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्याभावत् ऋकारः क्रियते ।।
</6-1-101>
प्रथमयोः पूर्वसवर्णः ।। <6-1-102> ।।
`अकः इति `दीर्घः इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्यात् द्वितीयापि प्रथमेत्युक्ता। तस्यां प्रथमायां द्वितीयायां च विभक्तावचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्।
अतो गुणे(6-1-97/191) इति यदकारे पररूपं तदकः सवर्णे दीर्घत्वमेव बाधते, न तु पूर्वसवर्णदीर्घत्वम्, `पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्(व्या.प.9) इति।
अचीत्येव वृक्षः। प्लक्षः।
अक इत्येव---नावौ।
पूर्वसवर्णग्रगहणं किम् ? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम् ? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम् ।।
</6-1-102>
तस्माच्छसो नः पुंसि ।। <6-1-103> ।।
तस्मात्पूर्वसवर्णदीर्घादुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति। वृक्षान्। अग्नीन्। वायून्। कर्तॄन्। हर्तॄन्। षण्डकान्। षण्ढकान्। स्थूरान्। अररकान्पश्य। सर्व एते पुंल्लिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति।
इह तु चञ्चेव चञ्चा, लुम्मनुष्ये(5-3-58/2753) इति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचने(1-2-5/1294) इति पुंसोऽपि स्त्रीलिङ्गता, तेन नत्वं न भवति,चञ्चाः पश्य, वध्रिकाः पश्येति। तस्मादिति किम् ? एतांश्चरतो गाः पश्य। शस इति किम् ? वृक्षाः। प्लक्षाः। पुंसीति किम् ? धेनूः। बह्वीः। कुमारीः ।।
</6-1-103>
नादिचि ।। <6-1-104> ।।
अवर्णादिचि पूर्वसवर्णदीर्घो न भवति। वृक्षौ। प्लक्षौ। खट्वे। कुण्डे।
आदिति किम् ? अग्नी। इचीति किम् ? वृक्षाः ।।
</6-1-104>
दीर्घाज्जसि च ।। <6-1-105> ।।
दीर्घाज्जसि इचि च परतः पूर्वसवर्णदीर्घो न भवति। कुमार्यौ। कुमार्यः। ब्रह्मबन्ध्वौ। ब्रह्मबन्ध्वः ।।
</6-1-105>
वा छन्दसि ।। <6-1-106> ।।
दीर्घाच्छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भवति। `मारुतीश्चतस्रः(काठ.सं.11-10)। पिण्डीः। मारुत्यश्चतस्रः पिण्ड्यः। `वाराही(मै.सं.4-4-5)। उपानही। वाराह्यौ। उपानह्यौ ।।
</6-1-106>
अमि पूर्वः ।। <6-1-107> ।।
`अकः इत्येव। अमि परतोऽकः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। वृक्षम्। प्लक्षम्। अग्निम्। वायुम्।
पूर्वग्रहणं किम् ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूदिति, कुमारीमित्यत्र हि त्रिमात्रः स्यात् ।
वा छन्दसीत्येव---`शमीं च(काठ.सं.26-6), शम्यं च। `गौरीं च, गौर्यं च(ऋ.10-126-8) ।।
</6-1-107>
सम्प्रसारणाच्च ।। <6-1-108> ।।
`पूर्वः इत्येव। सम्प्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। यजि--इष्टम्। वपि--उप्तम्। ग्रहि--गृहीतम्। सम्प्रसारणविधानसामर्थ्याद्विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते।
वा छन्दसीत्येव(6-1-106/3515)--`मित्रावरुणौ यज्यमानौ(अ.वे.18-1-39)।
परपूर्वत्वविधाने सत्यर्थवत्सम्प्रसारणविधानमिति इष्ट इत्येवमादिषु पूर्वत्वाभावे यणादेशो भवत्येव।
अन्तरङ्गे चाचि कृतार्थं वचनमिति बाह्यो पश्चात्सन्निपतिते पूर्वत्वं न भवति-शकह्वौ, शकह्वर्थम् ।।
</6-1-108>
एङः पदान्तादति ।। <6-1-109> ।।
एङ् यः पदान्तस्तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। अग्नेऽत्र। वायोऽत्र। अयवादेशयोरयमपवादः।
एङ इति किम्? दध्यत्र। मध्वत्र। पदान्तादिति किम्? चयनम्। लवनम्। अतीति किम्? वायो इति। भानो इति। वायविति। भानविति। तपरकरणं किम् ? वायवायाहि ।।
</6-1-109>
ङसिङसोश्च ।। <6-1-110> ।।
`एङः इति वर्त्तते, `अति इति च। एङ उत्तरयोर्ङसिङसोरति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। अग्नेरागच्छति। अग्नेः स्वम्। वायोरागच्छति। वायोः स्वम्।
अपदान्तार्थ आरम्भः ।।
</6-1-110>
ऋत उत् ।। <6-1-111> ।।
`ङसिङसोः इत्येव। ऋकारान्तादुत्तरयोर्ङसिङसोरति परतः पूर्वपरयोरुकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति उरण् रपरः(1-1-51/70) इति रपरत्वमत्र कृत्वा रात्सस्य(8-2-24/280) इति सलोपः कर्तव्यः ।।
</6-1-111>
ख्यत्यात्परस्य ।। <6-1-112> ।।
`ङसिङ्सोः इति वर्त्तते, `उत् इति च। ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्, ताभ्यां परस्य ङसिङसोरत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्।
खीशब्दस्योदाहरणम्--सह खेन वर्त्तत इति सखस्तमिच्छतीति क्यच्-सखीयत्, सखीयतेः सखीः, तस्य ङसिङसोः--सख्युरिति। तीशब्दस्यापि-लूनामिच्छति लूनीति, लूनीयतेः क्विपि लुप्ते लून्युरागच्छति। लून्युः स्वम्। निष्ठानत्वम्(8-2-44/3018) पूर्वत्रासिद्धम्(8-2-1/12) इत्यसिद्धम्।
विकृतनिर्द्देशादेवेह न भवति--अतिसखेरागच्छति, सेनापतेरागच्छतीति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते, न तदन्तस्य ।।
</6-1-112>
अतो रोरप्लुतादप्लुते ।। <6-1-113> ।।
`अति इति, `उत् इति वर्त्तते। अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारेऽप्लुते परत उकारादेशो भवति। वृक्षोऽत्र। प्लक्षोऽत्र। भोभगोअघोऽपूर्वस्य योऽशि(8-3-17/167) इत्यस्मिन्प्राप्ते उत्वं विधीयते। रुत्वस्याश्रयत्वात् पूर्वत्रासिद्धम्(8-2-1/12) इत्यसिद्धं न भवति।
अत इति किम्? अग्निरत्र। तपरकरणं किम् ? वृक्षा अत्र। सानुबन्धग्रहणं किम् ? स्वरत्र। प्रातरत्र।
अतीत्येव--वृक्ष इह। तस्यापि तपरत्वादत्र न भवति। वृक्ष आश्रितः। अप्लुतादिति किम्? सुस्रोता3 अत्र न्वसि। अप्लुत इति किम्? तिष्ठतु पय अ3श्विन्। अत्र प्लुतस्यासिद्धत्वादुत्त्वं प्राप्नोतीति `अप्लुतादप्लुते इत्युच्यते ।।
</6-1-113>
हशि च ।। <6-1-114> ।।
हशि च परतोऽत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति ।।
</6-1-114>
प्रकृत्याऽन्तःपादमव्यपरे ।। <6-1-115> ।।
एङोऽतीत्येव। `एङः इति यत्पञ्चम्यन्तमनुवर्त्तते तदर्थादिह प्रथमान्तं भवति। प्रकृतिरिति स्वभावः। कारणं वाऽभिधीयते। अन्तरित्यव्ययमधिकरणभूतं मध्यमाचष्टे। पादशब्देन च ऋक्पादस्यैव ग्रहणमिष्यते, न तु श्लोकपादस्य। अवकारयकारपरेऽति परत एङ् प्रकृत्या भवति। स्वभावेनावतिष्ठते कारणात्मना वा भवति न विकारमापद्यते। तौ चेन्निमित्तकार्यिणावन्तः पादमृक्पादमध्ये भवतः। `ते अग्रे अश्वमायुञ्जन्(वा.सं.9-7)। `ते अस्मिन् जवमादधुः(वा.सं.9-7)। `उपप्रयन्तो अध्वरम्(ऋ.1-74-1)। `शिरो अपश्यम्(ऋ.1-163-6)। `सुजाते अश्वसूनृते(ऋ.5-79-1)। `अध्वर्थो अद्रिभिः सुतम्(ऋ.9-51-1)।
अन्तः पादमिति किम् ? `कया मती कृत एतास एतेऽर्चयन्ति(ऋ.1-165-1)। अव्यपर इति किम्? `तेऽवदन्(ऋ.10-109-1)। `तेऽयस्मयम्(वा.सं.12-63)। एङिति किम् ? `अन्वग्निरुषसामग्रमख्यत्(अ.वे.7-82-4)।
केचिदिदं सूत्रम् नान्तःपादमव्यपरे इति पठन्ति, ते संहितायामिह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति ।।
</6-1-115>
अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ।। <6-1-116> ।।
अव्यात्, अवद्यात्, अवक्रमुः, अव्रत, अयम्, अवन्तु, अवस्यु इत्येतेषु यकारवकारपरेऽप्यति परतोऽन्तः पादमेङ् प्रकृत्या भवति। `अग्निः प्रथमो वसुभिर्नो अव्यात्(तै.सं.2-1-12-1)। `मित्रमहो अवद्यात्(ऋ.4-4-15)। `मा शिवासो अवक्रमुः(ऋ.7-32-27)। ते नो अव्रताः। शतधारो अयं मणिः। `ते नो अवन्तु पितरः(ऋ.10-15-1)।
`कुशिकासो अवस्यवः(ऋ.3-42-9) ।।
</6-1-116>
यजुष्युरः ।। <6-1-117> ।।
उरःशब्द एदन्तो यजुषि विषयेऽति प्रकृत्या भवति। `उरो अन्तरिक्षम्(वा.सं.4-7)।
अपरे `यजुष्युरो इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं सम्बुध्यन्तमधीयते। त इदमुदाहरन्ति--उरो अन्तरिक्षं सजूरिति।
यजुषि पादानामभावादनन्तः पादार्थं वचनम्।।
</6-1-117>
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बालेऽम्बिकेपूर्वे ।। <6-1-118> ।।
`यजुषि इत्येव। आपो, जुषाणो, वृष्णो, वर्षिष्ठे-इत्येते शब्दा अम्बे, अम्बाले, इत्येतौ च यावम्बिकेशब्दात्पूर्वौ यजुषि पठितौ ते अति परतः प्रकृत्या भवन्ति। `आपो अस्मान्मातरः शुन्धयन्तु(वा.सं.4-2)। `जुषाणो अप्तुराज्यस्य(वा.सं.5-35)। `वृष्णो अंशुभ्यां गभस्तिभिः(वा.सं.7-1)। `वर्षिष्ठे अधिनाके(तै.सं.1-1-8-1)। `अम्बे अम्बाले अम्बिके(तै.सं.7-4-19-1)--यजुषीदमीदृशमेव पठ्यते। अस्मादेव निपातनाद् अम्बार्थनद्योर्ह्रस्वः(7-6-107/267) इति ह्रस्वत्वं न भवति ।।
</6-1-118>
अङ्ग इत्यादौ च ।। <6-1-119> ।।
अङ्गशब्दे य एङ् तदादौ चाकारे यः पूर्वः स यजुषि विषयेऽति प्रकृत्या भवति। ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यत्। `ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत्(वा.सं.6-20)। ऐन्द्रः प्राणो अङ्गे अङ्गे अरोचिषम् ।।
</6-1-119>
अनुदात्ते च कुधपरे ।। <6-1-120> ।।
`यजुषि इत्येव। अनुदात्ते चाति कवर्गधकारपरे परतो यजुषि विषये एङ् प्रकृत्या भवति। `अयं सो अग्निः(वा.सं.5-37)। अयं सो अध्वरः।
अनुदात्ते इति किम् ? अधोऽग्रे। अग्रशब्द आद्युदात्तो निपात्यते। कुधपरे इति किम् ? `सोऽयमग्निः सहस्रियः(वा.सं.15-52) ।।
</6-1-120>
अवपथासि च ।। <6-1-121> ।।
`यजुषि इत्येव। `अनुदात्ते इति चशब्देनानुकृष्यते। अवपथाः-शब्देऽनुदात्तेऽकारादौ परतो यजुषि विषय एङ् प्रकृत्या भवति। `त्री रुद्रेभ्यो अवपथाः(काठ.सं.30-6-32)। वपेर्लङि थासि तिङ्ङतिङः(8-1-28/3935) इति निघातेनानुदात्तत्वम्।
अनुदात्त इत्येव--यद्रुद्रेभ्योऽवपथाः। निपातैर्यद्यदिहन्त(8-1-30/3937) इति निघातः प्रतिषिध्यते ।।
</6-1-121>
सर्वत्र विभाषा गोः ।। <6-1-122> ।।
सर्वत्र---छन्दसि भाषायां च, अति परतो गोरेङ् प्रकृत्या भवति विभाषा। गोऽग्रम्, गो अग्रम्। छन्दसि--`अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोश्वाः(तै.सं.5-2-9-4) ।।
</6-1-122>
अवङ् स्फोटायनस्य ।। <6-1-123> ।।
`अति इति निवृत्तम् ।। `अचि इत्येतत्पुनरनुवर्त्तत एव। अचि परतो गोः स्फोटायनस्याचार्यस्य मतेनावङादेशो भवति। गवाग्रम्, गोऽग्रम्। गवाजिनम्, गोऽजिनम्। गवौदनम्, गवोदनम्। गवोष्ट्रम्, गवुष्ट्रम्।
आद्युदात्तश्चायमादेशो निपात्यते। स निपातनस्वरो वहुव्रीहौ प्रकृतिस्वरविधाने भवति--गावो अग्रमस्य गवाग्र इति। अन्यत्र तु समासान्तोदात्तत्वेन बाध्यते।
स्फोटायनग्रहणं पूजार्थम्, `विभाषा इत्येव हि वर्त्तते।
व्यवस्थितविभाषेयम्। तेन गवाक्ष इत्यत्र नित्यमवङ् भवति ।।
</6-1-123>
इन्द्रे च नित्यम् ।। <6-1-124> ।।
इन्द्रशब्दस्थेऽचि परतो गोर्नित्यमवङादेशो भवति। गवेन्द्रः। गवेन्द्रयज्ञस्वरः ।।
</6-1-124>
प्लुतप्रगृह्या अचि ।। <6-1-125> ।।
प्लुताश्च प्रगृह्याश्चाचि प्रकृत्या भवन्ति। देवदत्ता3 अत्र न्वसि। यज्ञदत्ता3 इदमानय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः- अग्नी इति। वायू इति। खट्वे इति। माले इति।
अचीत्यनुवर्त्तमाने पुनरज्ग्रहणमादेशनिमित्तस्याचः परिग्रहार्थम्। तेनेह न भवति-जानु उ अस्य रुजति जान्वस्य रुजति। प्रगृह्यादुकारात्परस्याकारस्य सवर्णदीर्घत्वं प्रत्ययनिमित्तत्वादत्र प्रकृतिभावो न भवति।
नित्यग्रहणमिहानुवर्त्तते। प्लुतप्रगृह्याणां नित्यमयमेव प्रकृतिभावो यथा स्याद्, इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च(6-1-127/91) इत्येतन्मा भूदिति ।।
</6-1-125>
आङोऽनुनासिकस्छन्दसि ।। <6-1-126> ।।
आङोऽचि परतः संहितायां छन्दसि विषयेऽनुनासिकादेशो भवति, स च प्रकृत्या भवति। `अभ्रआँ अपः(ऋ.5-48-1)। `गभीरआँ उग्रपुत्रे जिघांसत(ऋ.8-67-11)।
केचिद् आङोऽनुनासिकश्छन्दसि बहुलम् इत्यधीयते। तेनेह न भवति--इन्द्रो बाहुभ्यामातरत्। आ अतरत्।
</6-1-126>
इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ।। <6-1-127> ।।
इकोऽसवर्णेऽचि परतः शाकल्यस्याचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्येकः स्थाने भवति। दधि अत्र, दध्यत्र। मधु अत्र, मध्वत्र। कुमारी अत्र, कुमार्यत्र। किशोरि अत्र, किशोर्यत्र।
इक इति किम्? खट्वेन्द्रः। असवर्ण इति किम् ? कुमारीन्द्रः।
शाकल्यग्रहणं पूजार्थम्, आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः।
- सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः *(म.भा.3-89)। सिति-`अयं ते योनिर्ऋत्वियः(ऋ.3-29-10)। नित्यसमासे--व्याकरणम्। कुमार्यर्थम्।
- ईषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं वक्तव्यम् *(म.भा.3-90)। ईषा अक्षः। `का ईमरे पिशङ्गिला(वा.सं.23-55)। पथा अगमन् ।।
</6-1-127>
ऋत्यकः ।। <6-1-128> ।।
`साकल्यस्य ह्रस्वश्च इत्येतदनुवर्त्तते। ऋकारे परतः शाकल्यस्याचार्यस्य मतेनाकः प्रकृत्या भवन्ति, ह्रस्वश्च तस्याकः स्थाने भवति। खट्व ऋश्यः। कुमारि ऋश्यः। होतृ ऋश्यः।
ऋतीति किम् ? खट्वेन्द्रः। अक इति किम् ? वृक्षावृश्यः।
सवर्णार्थमनिगर्थं च वचनम् ।।
</6-1-128>
अप्लुतवदुपस्थिते ।। <6-1-129> ।।
उपस्थितं नामानार्ष इतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते तस्मिन्परतः प्लुतोऽप्लुतवद्भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोका3 इति, सुश्लोकेति। सुमङ्गला3 इति, सुमङ्गलेति ।
वत्करणं किम् ? अप्लुत इत्युच्यमाने प्लुत एव प्रतिषिध्येत।
तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्--अग्नी3 इति। वायू3 इति ।।
</6-1-129>
ई3 चाक्रवर्मणस्य ।। <6-1-130> ।।
ई3कारः प्लुतोऽचि परतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लुतवद्भवति। अस्तु हीत्यब्रूताम्, अस्तु ही3 इत्यब्रूताम्। चिनु हीदम्, चिनुही3 इदम्।
चाक्रवर्मणग्रहणं विकल्पार्थम्-तदुपस्थिते निवृत्त्यर्थम्, अनुपस्थिते प्राप्त्यर्थमित्युभयत्रविभाषेयम्।
ईकारादन्यत्राप्ययमप्लुतवद्भाव इष्यते। वशा3 इयम्, वशेयम् ।।
</6-1-130>
दिव उत् ।। <6-1-131> ।।
एङः पदान्तादति(6-1-109/86) इत्यतः पदग्रहणमनुवर्तते। `दिवः इति प्रातिपदिकं गृह्यते, न धातुः; सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः।
निरनुबन्धकग्रहणादिह न भवति-अक्षद्यूभ्याम्, अक्षद्यूभिरिति।
तपरकरणमूठो निवृत्त्यर्थम्-द्युभ्याम्, द्युभिरिति। अत्र हि परत्वादूठ् प्राप्नोति।
पदस्येति किम् ? दिवौ। दिवः ।।
</6-1-131>
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।। <6-1-132> ।।
एतत्तदौ यावककारौ नञ्समासे न वर्त्तेते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यस्तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते।
एतत्तदोरिति किम् ? यो ददाति। यो भुङ्क्ते। सुग्रहणं किम् ? एतौ गावौ चरतः। अकोरिति किम् ? एषको ददाति। सको ददाति। `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते(व्या.प.21) इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः।
अनञ्समास इति किम् ? एनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधानत्वात् नञ्समासस्यैतत्तदोरेवात्र सम्बद्धः सुशब्दः।
हलीति किम् ? एषोऽत्र। सोऽत्र ।।
</6-1-132>
स्यश्छन्दसि बहुलम् ।। <6-1-133> ।।
`स्य इत्येतस्य च्छन्दसि हलि परतो बहुलं सोर्लोपो भवति। `उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि(ऋ.4-40-4)। `एष स्य ते मधुमाँ इन्द्र सोमः(ऋ.9-97-46)।
न च भवति--यत्र स्यो निपतेत् ।।
</6-1-133>
सोऽचि लोपे चेत्पादपूरणम् ।। <6-1-134> ।।
`सः इत्येतस्याचि परतः सुलोपो भवति, लोपे सति चेत्पादः पूर्यते। `सेन्द्र राजा क्षयति चर्षणीनाम्(ऋ.1-32-15)। `सौषधीरनुरुध्यसे(ऋ.8-43-9)।
लोपे चेत्पादपूरणमिति किम् ? स इव व्याघ्रो भवेत्।
अचीति विस्पष्टार्थम् ।
पादग्रहणेनात्र श्लोकपादस्यापि ग्रहणं केचिदिच्छन्ति, तेनेदमपि सिद्धं भवति--
सैष दाशरथी रामः, सैष राजा युधिष्ठिरः।
सैष कर्णो महात्यागी, सैष भीमो महाबलः ।।
</6-1-134>
सुट् कात्पूर्वः ।। <6-1-135> ।।
अधिकारोऽयम् पारस्करप्रभृतीनि च संज्ञायाम्(6-1-175/1071) इति यावत्। इत उत्तरं यद्वक्ष्यामस्तत्र `सुंट् इति, `कात्पूर्वः इति चैतदधिकृतं वेदितव्यम्। वक्ष्यति--सम्पर्युपेभ्यः करोतौ भूषणे(6-1-137/2550)। संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम् ।
कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थम्। तथा हि-संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणाविड्गुणौ न भवतः। तिङ्ङतिङः(8-1-18/3935) इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात् ? `स्वरविधौ व्यञ्जनमविद्यमानवत्(व्या.प.37) इति वचनान्नास्ति व्यवधानम्।
सञ्चस्करतुः, सञ्चस्करुः--इति गुणः कथम् ? `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते(व्या.प.21) इति।
संयोगोपधग्रहणं च ऋतश्च संयोगादेर्गुणः(7-4-10/2379) इत्यत्र कर्तव्यम्। टित्करणम्--सुट्स्तुस्वञ्जाम्(8-3-65/2270) इत्यत्र विशेषणार्थम् ।।
</6-1-135>
अडभ्यासव्यवायेऽपि ।। <6-1-136> ।।
अड्व्यवाये, अभ्यासव्यवायेऽपि सुट् कात्पूर्वो भवति। समस्करोत्। समस्कार्षीत्। सञ्चस्कार। परिचस्कार।
किमर्थं पुनरिदमुच्यते, `पूर्वं धातुरुपसर्गेण युज्यते इति तत्र `धातूपसर्गयोः कार्यमन्तरङ्गम् इति पूर्वं सुट् क्रियते, पश्चादडभ्यासौ ? `अभक्तश्च सुट् इत्युक्तम्, ततः सकारादुत्तरावडभ्यासावनिष्टे देशे स्याताम्। एतस्मिंस्तु सत्यत एव वचानात् कृतयोरडभ्यासयोस्तद्व्यवायेऽपि सुट् कात्पूर्वः क्रियत इति सिद्धमिष्टं भवति ।।
</6-1-136>
सम्पर्युपेभ्यः करोतौ भूषणे ।। <6-1-137> ।।
सम्, परि, उप--इत्येतेभ्यो भूषणार्थे करोतौ परतः सुट् कात्पूर्वो भवति। संस्कर्ता, संस्कर्तुम्, संस्कर्तव्यम्--अत्र
`सम्पुंकानां सत्वम्(8-3-34/138.वा.) इति समो मकारस्य सकारः, पूर्वस्य चाकारस्यानुनासिकः। परिष्कर्ता, परिष्कर्तुम्, परिष्कर्तव्यम्--सुट्स्तुस्वञ्जाम् इति षत्वम्। उपस्कर्ता, उपस्कर्तुम्, उपस्कर्तव्यम्।
भूषण इति किम् ? उपकरोति।
सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते--संस्कृतमन्नमिति ।।
</6-1-137>
समवाये च ।। <6-1-138> ।।
समवायः=समुदायः, तस्मिश्चार्थे करोतौ सम्पर्युपेभ्यः कात्पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र नः उपस्कृतम्। समुदितमित्यर्थः ।।
</6-1-138>
उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ।। <6-1-139> ।।
सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा=प्रतियत्नः। विकृतमेव वैकृतम्, प्रज्ञादित्वादण्(5-4-38/2106)। गम्यमानार्थस्य वाक्यस्य स्वरूपेणोपादानं वाक्यस्याध्याहारः। एतेष्वर्थेषु गम्यामानेषु करोतौ धातौ परत उपात् सुट् कात्पूर्वो भवति। प्रतियत्ने तावत्-एधो दकस्योपस्कुरुते। काण्डगुणस्योपस्कुरुते।
वैकृते--उपस्कृतं भुङ्क्ते। उपस्कृतं गच्छति।
वाक्याध्याहारे--उपस्कृतं जल्पति। उपस्कृतमधीते।
एतेष्विति किम् ? उपकरोति ।।
</6-1-139>
किरतौ लवने ।। <6-1-140> ।।
`उपात् इत्येव। उपादुत्तरस्मिन्किरतौ धातौ लवनविषये सुट् कात्पूर्वो भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरा लुनन्ति। विक्षिप्य लुनन्तीत्यर्थः।
- णमुलत्र वक्तव्यः * लवन इति किम् ? उपकिरति देवदत्तः ।।
</6-1-140>
हिंसायां प्रतेश्च ।। <6-1-141> ।।
`किरतौ इत्येव। उपात्प्रतेश्चोत्तरस्मिन्किरतौ विषये सुट् कात्पूर्वो भवति हिंसायां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः।
हिंसायामिति किम् ? प्रतिकीर्णम् ।।
</6-1-141>
अपाच्चतुष्पाच्छकुनिष्वालेखने ।। <6-1-142> ।।
`किरतौ इत्येव। अपादुत्तरस्मिन्किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन् विषये सुट् कात्पूर्वो भवति। अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्ष्यार्थी। अपस्किरते श्वा आश्रयार्थी। आलिख्य विक्षिपतीत्यर्थः।
चतुष्पाच्छकुनिष्विति किम् ? अपकिरति देवदत्तः।
- हर्षजीविकाकुलायकरणेष्विति वक्तव्यम् *(म.भा.3-94)। इह मा भूत्--- अपकिरति श्वा ओदनपिण्डमाशितः।
- हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्योपसंख्यानम् * (म.भा.3-94)।।
</6-1-142>
कुस्तुम्बुरूणि जातिः ।। <6-1-143> ।।
`कुस्तुम्बुरूणि इति सुट् निपात्यते जातिश्चेद्भवति। कुस्तुम्बुरुर्नामौषधिजातिः = धान्यकम्। तत्फलान्यपि कुस्तुम्बुरूणि। सूत्रनिर्द्देशे नपुंसकलिङ्गमविवक्षितम्। <K.4.619> जातिरिति किम् ? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि। तुम्बुरुशब्देनात्र तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा ।।
</6-1-143>
अपरस्पराः क्रियासातत्ये ।। <6-1-144> ।।
`अपरस्परा इति सुट् निपात्यते क्रियासातत्ये गम्यमाने। अपरस्पराः सार्था गच्छन्ति। सन्ततमविच्छेदेन गच्छन्तीत्यर्थः। क्रियासातत्य इति किम् ? अपरपराः सार्थाः गच्छन्ति। अपरे परे च सकृदेव गच्छन्तीत्यर्थः। नात्र गमनस्य सातत्य-प्रबन्धो विवक्षितः। किमिदं सातत्यमिति ? सततस्य भावः सातत्यम्। कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते।
<K.4.620> लुम्पेदवश्यमः कृत्ये तुङ्काममनसोरपि।
समो वा हिततयोर्मांसस्य पचि युड्घञोः ।।
</6-1-144>
गोष्पदं सेवितासेवितप्रमाणेषु ।। <6-1-145> ।।
गोष्पदमिति सुट् निपात्यते, तस्य च षत्वं सेवितेऽसेविते प्रमाणे च विषये। गोष्पदः देशः। गावः पद्यन्ते यस्मिन् देशे स गोभिः <K.4.621> सेवितो देशो गोष्पद इत्युच्ते। असेविते - अगोष्पदानि अरण्यानि। असेविते गोष्पदशब्दो न सम्भवतीत्यगोष्पदशब्दार्थं निपातनम्। यद्येवम्, नार्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविष्यति ? सत्यमेतत्; यत्र तु सेवितप्रसङ्गोऽस्ति तत्रैव स्याद् - गोष्पदमिति। यत्र त्वत्यन्तासम्भव एव, <K.4.622> तत्र न स्याद् - अगोष्पदानि अरण्यानि इति; असेवितग्रहणात्तत्रापि भवति। यानि हि महान्त्यरण्यानि येषु गवामत्यन्तासम्भवः, तान्येवमुच्यन्ते। प्रमाणे - गोष्पदमात्रं क्षेत्रम्, गोष्पदपूरं वृष्टो देवः। नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयते, किं तर्हि ? क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम् ।
सेवितासेवितप्रमाणेष्विति किम् ? गोः पदं गोपदम् ।।
</6-1-145>
आस्पदं प्रतिष्ठायाम् ।। <6-1-146> ।।
आत्मयापनाय स्थानम् = प्रतिष्ठा, तस्यामास्पदमिति सुट् <K.4.623> निपात्यते। आस्पदम् अनेन लब्धम्।
प्रतिष्ठायामिति किम् ? आ पदात् - आपदम् ।।
</6-1-146>
आश्चर्यमनित्ये ।। <6-1-147> ।।
अनित्यतया विषयभूतयाऽद्भुतत्वमिह लक्ष्यते, तस्मिन्नाश्चर्यं निपात्यते। `चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात्सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सोऽधीयीत। चित्रमद्भुतमित्यर्थः।
अनित्य इति किम् ? आचर्यं कर्म शोभनम् ।।
</6-1-147>
वर्चस्केऽवस्करः ।। <6-1-148> ।।
कुत्सितं वर्चो वर्चस्कम् = अन्नमलम्, तस्मिन्नभिधेयेऽवस्कर इति <K.4.624> निपात्यते। अवपूर्वस्य किरतेः
कर्मणि ऋदोरप् इत्यप्, निपातनात्सुट्। अवकीर्यत इति अवस्करः = अन्नमलम्। तत्सम्बन्धाद्देशोऽपि तथोच्यते।
वर्चस्क इति किम् ? अवकरः ।।
</6-1-148>
अपस्करो रथाङ्गम् ।। <6-1-149> ।।
`अपस्कर इति निपात्यते रथाङ्गं चेद्भवति। अपपूर्वात्किरतेः ऋदोरप् इत्यप्, निपातनात् सुट्। अपस्करः रथावयवः ।
रथाङ्गमिति किम् ? अपकरः ।।
</6-1-149>
विष्किरः शकुनिर्विकिरो वा ।। <6-1-150> ।।
`विकिर इति किरतेर्विपूर्वस्य इगुपधज्ञाप्रीकिरः कः इति कप्रत्यये विहिते सुट् निपात्यते, शकुनिश्चेद्भवति, विकिरशब्दाभिधेयो वा शकुनिर्भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। <K.4.625> `विष्किरो वा शकुनौ इति वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह -- तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् ।।
</6-1-150>
ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ।। <6-1-151> ।।
चन्द्रशब्द उत्तरपदे ह्रस्वात्परः सुडागमो भवति मन्त्रविषये। `सुश्चन्द्रो(तै.सं.4-4-4-6) युष्मान्।
ह्रस्वादिति किम् ? `सूर्याचन्द्रमसाविव(ऋ.5-51-15)। मन्त्र इति किम् ? सुचन्द्रा पौर्णमासी।
उत्तरपदं समास एव भवतीति प्रसिद्धम्, तत इह न भवति शुक्रमसि, चन्द्रमसि ।।
</6-1-151>
<K.4.626>
प्रतिष्कशश्च कशेः ।। <6-1-152> ।।
`कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्यैव षत्वम्।
ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः। वार्त्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कश इत्यभिधीयते।
कशेरिति किम् ? प्रतिगतः कशां प्रतिकशः अश्वः। अत्र यद्यपि कशेरेव कशाशब्दः, तथापि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम्। तेन धात्वन्तरोपसर्गान्न भवति ।।
</6-1-152>
प्रस्कण्वहरिश्चन्द्रावृषी ।। <6-1-153> ।।
प्रस्कण्व, हरिश्चन्द्र - इति सुट् निपात्यते, ऋषी चेदभिधेयौ भवतः। प्रस्कण्वः ऋषिः। हरिश्चन्द्रः ऋषिः।
हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम् ? प्रकण्वः देशः। हरिचन्द्रः माणवकः ।।
</6-1-153>
<K.4.627>
मस्करमस्करिणौ वेणुपरिव्राजकयोः ।। <6-1-154> ।।
मस्कर, मस्करिन् - इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते। मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणावभिधेये सुट् निपात्यते, परिव्राजके त्विनिरपि। मस्करः वेणुः। मस्करी परिव्राजकः।
वेणुपरिव्राजकयोरिति किम् ? मकरः ग्राहः, मकरी समुद्रः।
केचित्पुनरत्र माङ्युपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्ति, माङश्च ह्रस्वत्वम्, सुट् च। मा क्रियते येन प्रतिषिध्यते, स मस्करः वेणुः। वेणुग्रहणं च प्रदर्शनार्थम्। अन्यत्रापि भवति - मस्करः दण्ड इति। परिव्राजकेऽपि माङ्युपपदे करोतेस्ताच्छील्य इनिर्निपात्यते, माङो ह्रस्वत्वं सुट् च तथैव। माकरणशीलो मस्करी कर्मापवादित्वात्परिव्राजक उच्यते। स ह्येवमाह -- मा कुरुत कर्माणि, शान्तिर्वः श्रेयसीति ।।
</6-1-154>
<K.4.628>
कास्तीराजस्तुन्दे नगरे ।। <6-1-155> ।।
कास्तीर, अजस्तुन्द -- इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्येति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यमेतयोः। कास्तीरं नाम नगरम्। अजस्तुन्दं नाम नगरम्।
नगर इति किम् ? कातीरम्। अजतुन्दम् ।।
</6-1-155>
कारस्करो वृक्षः ।। <6-1-156> ।।
`कारस्कर इति सुट् निपात्यते, वृक्षश्चेद्भवति। कारं करोतीति दिवाविभानिशाप्रभाभास्कारान्त इति टप्रत्ययः। कास्करः वृक्षः। वृक्ष इति किम् ? कारकरः। केचित्, पारस्करप्रभृतिष्वेव कारस्करः वृक्ष इति पठन्ति ।।
</6-1-156>
पारस्करप्रभृतीनि च संज्ञायाम् ।। <6-1-157> ।।।
<K.4.629>
पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते संज्ञायां विषये। पारस्करः देशः। कारस्करः वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा।
- तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च *। तस्करः चोरः। बृहस्पतिः देवता।
चोरदेवतयोरिति किम् ? तत्करः। बृहत्पतिः। संज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थम्।
- प्रात्तुम्पतौ गवि कर्तरि *। तुम्पतौ धातौ प्रशब्दात्परस्सुट् भवति गवि कर्तरि। प्रस्तुम्पति गौः।
गवीति किम् ? प्रतुम्पति वनस्पतिः। पारस्करप्रभृतिराकृतिगणः।
<K.4.630> अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः। प्रायश्चित्तम्। प्रायश्चित्तिः। यदुक्तम् -- `प्रायस्य चित्तिचित्तयोः सुडस्कारो वा इति, तत्संगृहीतं भवति ।।
</6-1-157>
अनुदात्तं पदमेकवर्जम् ।। <6-1-158> ।।
परिभाषेयं स्वरविधिविषया। यत्रान्यः स्वर उदात्तः स्वरितो वा विधीयते, तत्रानुदात्तं पदमेकं वर्जयित्वा भवतीत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कमनुदात्तम्। कः पुनरेको वर्ज्यते ? यस्यासौ स्वरो विधीयते। वक्ष्यति--धातोः(6-1-162/3671) अन्त उदात्तो भवतीति; गोपायति, धूपायति। धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति। धातुस्वरं श्नास्वरो बाधते-लुनाति, पुनाति। श्नास्वरं तस्स्वरः-- लुनीतः, पुनीतः. तस्स्वरमाम्स्वरः--लुनीतस्तराम्, पुनीतस्तराम् ।।
`आगम्स्य विकारस्य प्रकृतेः प्रत्ययस्य च।
पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः ।।(म.भा.3-97)
आगमस्य--चतुरनडुहोरामुदात्तः(7-1-18/331) चत्वारः, अनड्वाहः। आगमस्वरः प्रकृतिस्वरं बाधते।
विकारस्य-अस्थनि, दधनीत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः--गोपायति, धूपायति। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य-कर्त्तव्यम्, हर्त्तव्यम्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः।
परनित्यान्तरङ्गापवादैः स्वरैर्व्यवस्था, सति शिष्टेन च। यो हि यस्मिन् सति शिष्यते, स तस्य बाधको भवति। तथा हि-गोपायतीत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेनैव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते।
* विभक्तिस्वरान्नञ्स्वरो बलीयान् इति वक्तव्यम् * (म.भा.3-100)
अतिस्त्रिः इत्यत्र तिसृभ्यो जसः(6-1-166/3713) इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते।
- विभक्तिनिमित्तस्वराच्च नञ्स्वरो बलीयान् इति वक्तव्यम् *(3-100) अचत्वारः, अननड्वाहः इति। यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तन्नञ्स्वरेण बाध्यते।
पदग्रहणं किम् ? देवदत्त गामभ्याज शुक्लां दण्डेनेति वाक्ये हि प्रतिपदं स्वरः पृथग् भवति। परिमाणार्थं चेदं पदग्रहणं पदाधिकारस्य निवृत्तिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्वं भवति। तथा च-कुवल्या विकारः कौवलमित्यत्रानुदात्तादिलक्षणोऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्चानुदात्तादिलक्षणस्याञो बाधनार्थं भिक्षादिषु पठ्यते।
कुवलगर्भशब्दावाद्युदातौ ।।
</6-1-158>
कर्षात्वतो घञोऽन्त उदात्तः ।। <6-1-159> ।।
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। कर्षः। पाकः। त्यागः। रागः। दायः। धायः। ञ्नित्यादिर्नित्यम्(6-1-197/3686) इत्यस्यापवादः।
कर्ष इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्ष इत्याद्युदात्त एव भवति ।।
</6-1-159>
उञ्छादीनां च ।। <6-1-160> ।।
`उच्छ इत्येवमादीनामन्त उदात्तो भवति।
उच्छः, म्लेच्छः, जञ्जः, जल्पः--एते घञन्ता इति, ञित्स्वरः प्राप्तः। जपः, व्यधः--इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः। केचित्तु वध इति पठन्ति। युजेर्घञ्न्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते। कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः, अन्यत्र हि योग एव भवति।
- गरो दूष्येऽबन्तः *(ग.सू.162)। गरशब्दोऽबन्तः, स दूष्य एवान्तोदात्तः। गरः=विषम्। अन्यत्राद्युदात्त एव ।।
- वेदवेगवेष्टबन्धाः करणे *(ग.सू.163)। हलश्च(3-3-121/3100) इति धञन्ताः, एते करणेऽन्तोदात्ता भवन्ति। भावे आद्युदात्ता एव।
- स्तुयुद्रुवश्छन्दसि *(ग.सू.164)। उपसमस्तार्थमेतत्। परिष्टुत्। संयुत्। परिद्रुत्।
- वर्तनिः स्तोत्रे *(ग.सू.165)। स्तोत्रम्=साम, तत्स्थो वर्त्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः।
- श्वभ्रे दरः *(ग.सू.166)। श्वभ्रेऽभिधेये दरशब्दोऽन्तोदात्तः। अन्यत्राबन्तत्वादाद्युदात्तः।
- साम्बतापौ भावगर्हायाम् *(ग.सू.167)। अन्तोदात्तौ, अन्यत्राद्युदात्तौ।
- उत्तमशश्वत्तमशब्दौ सर्वत्र *(ग.सू.168)। केचित्तु `भावगर्हायाम् इति अत्राप्यनुवर्तयन्ति।
- भक्षमन्थभोगदेहाः *(ग.सू.169)। एते घञन्ताः। भक्षिर्ण्यन्तोऽपि घञन्त एव; एरच्(3-3-56/3231)अण्यन्तानाम् इति वचनात् ।।
</6-1-160>
अनुदात्तस्य च यत्रोदात्तलोपः ।। <6-1-161> ।।
`उदात्त इति वर्तते। यस्मिन्ननुदात्ते परत उदात्तो लुप्यते, तस्यानुदात्तस्यादिरुदात्तो भवति। कुमार ई कुमारी।
कुमारशब्दोऽन्तोदात्तः, तस्य ङीप्यनुदात्ते उदात्तो लुप्यते। अनुदात्तो ङीब् उदात्तः, भस्य टेर्लोपः(7-1-88/368)। पथः। पथा। पथे। पथिन्-शब्दोऽन्तोदात्तः। कुमुदनडवेतसेभ्यो ड्मतुप्(4-2-87/1306)। कुमुद्वान्। नड्वान्। वेतस्वान्। कुमुदादयोऽन्तोदात्ताः। ड्मतुबनुदात्तः।
अनुदात्तस्येति किम् ? प्रासङ्गं वहति प्रासङ्ग्यः। प्रासङ्गशब्दः थाथादिस्वरेण(6-2-144/3878) अन्तोदात्तः। तस्य यति तित्स्वरितम्(6-1-185/3799) इति स्वरिते उदात्तो लुप्यते ? नैतदस्ति; स्वरिते हि विधीयमाने परिशिष्टमनुदात्तम्, तत् कुत उदात्तलोपः! तदेतदनुदात्तग्रहणमादेरनुदात्तस्योदात्तार्थम्।
`अन्तः इति हि प्रकृतत्वादन्तस्य स्यात्-मा हि धुक्षाताम्, मा हि धुक्षाथाम् ।
यत्रेति किम् ? भार्गवः, भार्गवौ, भृगवः। प्राक् सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक्।
उदात्तग्रहणं किम् ? बैदी। और्वी ।।
</6-1-161>
धातोः ।। <6-1-162> ।।
`अन्तः इत्येव। धातोरन्त उदात्तो भवति। पचति। पठति। ऊर्णोति। गोपायति। याति ।।
</6-1-162>
चितः ।। <6-1-163> ।।
चितोऽन्त उदात्तो भवति। भञ्जभासमिदो घुरच्(3-2-161/3141) भङ्गुरम्। भासुरम्। मेदुरम्। आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्(2-4-70/1152), कुण्डिनाः।
चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्यान्त उदात्त इष्यते। बहुपटवः। उच्चकैः ।।
</6-1-163>
तद्धितस्य ।। <6-1-164> ।।
`चितः इत्येव। चितस्तद्धितस्यान्त उदात्तो भवति। गोत्रेकुञ्जादिभ्यश्च्फञ्(4-1-18/1099), कौञ्जायनाः।
किमर्थमिदम् ? परमपि ञित्स्वरं बाधित्वाऽन्तोदात्तत्वमेव यथा स्यादिति ।।
</6-1-164>
कितः ।। <6-1-165> ।।
`तद्धितस्य इत्येव। तद्धितस्य कितोऽन्त उदात्तो भवति। नडादिभ्यः फक्(4-1-99/1101) नाडायनः। चारायणः। प्राग्वहतेष्ठक्(4-4-1/1548), आक्षिकः। शालाकिकः ।।
</6-1-165>
तिसृभ्यो जसः ।। <6-1-166> ।।
तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति। तिस्रस्तिष्ठन्ति।
उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इत्यस्यापवादः।
शशि उदात्तयणो हल्पूर्वात्(6-1-174/3720) इति सिद्धे, अन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः(6-1-179/3725) इति विधानाज्जसेव लभ्यत इति जस्ग्रहणमुपसमस्तार्थमेक इच्छन्ति, अतितिस्रावित्यत्र स्वरो मा भूदिति ।।
</6-1-166>
चतुरः शसि ।। <6-1-167> ।।
चतुरः शसि परतोऽन्त उदात्तो भवति। चतुरः पश्य।
चतस्रादेशे आद्युदात्तनिपातनाद्यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति-चतस्रः पश्येति ।।
</6-1-167>
सावेकाचस्तृतीयादिर्विभक्तिः ।। <6-1-168> ।।
`सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मात्परा तृतीयादिर्विभक्तिरुदात्ता भवति। वाचा, वाग्भ्याम्, वाग्भिः। वाग्भ्यः। याता, याद्भ्याम्, याद्भिः।
साविति किम् ? राज्ञा। राज्ञे। एकाच इति किम् ? हरिणा। गिरिणा। राजसु। तृतीयादिरिति किम् ? वाचौ। वाचः। विभक्तिरिति किम् ? वाक्तरा। वाक्तमा।
सप्तमीबहुवचनस्य ग्रहणादिह न भवति--त्वया, त्वयीति ।।
</6-1-168>
अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ।। <6-1-169> ।।
`एकाचः इति वर्तते, `तृतीयादिर्विभक्तिः इति च। नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते। नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदमन्तोदात्तमेकाच्च तस्मात्परा तृतीयादिर्विभक्तिरन्यतरस्यामुदात्ता भवति। परमवाचा, परमवाचे। परमवाचे। परमत्वचा, परमत्वचे। यदा विभक्तिरुदात्ता न भवति तदा समासान्तोदात्तत्वमेव।
अन्तोदात्तादिति किम् ? अवाचा। सुवाचा। तत्पुरुषोऽयम्। तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय(6-2-2/3736) इति पूर्वपदप्रकृतिस्वरः।
उत्तरपदग्रहणमेकाच्त्वेनोत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणमेतत्स्यात्। तत्र शुनः ऊर्क्, श्वोर्ज्जा-इत्यत्रैवायं विधिः स्यात्।
अनित्यसमास इति किम् ? अग्निचिता। सोमसुता। उपपदमतिङ्(2-2-19/782) इत्ययं नित्याधिकारे समासो विधीयते, तत्र गतिकारकोपपदात् कृत्(6-2-139/3873) इत्युत्तरपदप्रकृतिस्वरेण चित्-शब्द उदात्तः।
यस्तु विग्रहाभावेन नित्यसमासस्तत्र भवत्येव विकल्पः--अवाचा ब्राह्मणेन, सुवाचा ब्राह्मणेनेति। बहुव्रीहौ नञ्सुभ्याम्(6-2-172/3906) इत्युत्तरपदान्तोदात्तत्वं भवति ।।
</6-1-169>
आञ्चेश्छन्दस्यसर्वनामस्थानम् ।। <6-1-170> ।।
अञ्चेः पराऽसर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये। `इन्द्रो दधीचो अस्थभिः(ऋ.1-84-13)। चौ(6-1-222/3652) इति पूर्वपदान्तोदात्तत्वं प्राप्तम्।
`तृतीयादिः इति वर्तमाने शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इहापि यथा स्यात्-प्रतीचो बाहून्प्रतिभङ्ग्ध्येषामिति ।।
</6-1-170>
ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ।। <6-1-171> ।।
ऊठ्, इदम्, पदादि, अप्, पुम्, रै, दिव्--इत्येतेभ्योऽसर्वनामस्थानविभक्तिरुदात्ता भवति। ऊठ्-प्रष्ठौहः, प्रष्ठौहा।
- ऊठ्युपधाग्रहणं कर्तव्यम् *। इह मा भूत्-अक्षद्युवा। अक्षद्युवे ।
इदम्-आभ्याम्, एभिः। `अन्तोदात्तात् इत्यधिकारादन्वादेशे न भवति-अथो आभ्यां निपुणमधीतमिति।
पदादयः--पद्दन्नोमास्(6-1-63/228) इत्येवमादयो निश्पर्यन्ता इह गृह्यन्ते। `निपदश्चतुरो जहि(खि.2-16-1)। `या दतो धावति(तै.सं.2-5-1-7)। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। `ग्रीवायां बद्धो अपि कक्ष
आसनि(ऋ.4-40-4)। `मत्स्यं न दीन उदनि क्षियन्तम्(ऋ.10-68-8) ।
अप्-अपः पश्य। अद्भिः। अद्भ्यः।
पुम्--पुंसः, पुम्भ्याम्, पुम्भ्यः। पुंसा, पुंसे।
रै--रायः पश्य। राभ्याम्। राभिः।
दिव्--दिवः पश्य। दिवा। दिवे ।।
</6-1-171>
अष्टनो दीर्घात् ।। <6-1-172> ।।
अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठादष्टन्-शब्दोऽन्तोदात्तः, तत्र झल्युपोत्तमम्(6-1-180/3683) इत्येतस्यापवादो विभक्तेरेवोदात्तत्वं विधीयते।
दीर्घादिति किम् ? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत(म.भा.3-107)।
इदमेव दीर्घग्रहणमष्टन आत्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति; अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यत इति किं दीर्घग्रहणेन! ।।
</6-1-172>
शतुरनुमो नद्यजादी ।। <6-1-173> ।।
`अन्तोदात्तात् इति वर्तते। अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिर्विभक्तिरसर्वनामस्थानमुदात्ता भवति। तुदती, नुदती। लुनती, पुनती। तुदता, नुदता। लुनता, पुनता।
अनुम इति किम् ? तुदन्ती, नुदन्ती। अत्राप्यदुपदेशादिति लसार्वधातुकानुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेनोदात्तः(8-2-5/3658) इत्युदात्तत्वम्, तस्य पूर्वत्रासिद्धत्वं(8-2-1/12) नेष्यत इति शत्रन्तमन्तोदात्तं भवति।
नद्यजादी इति किम् ? तुदद्भ्याम्, नुदद्भ्याम्। तुदद्भिः, नुदद्भिः।
अन्तोदात्तादित्येव--ददती। दधतः। अभ्यस्तानामादिः(6-1-189/3673) इत्याद्युदात्तावेतौ।
- बृहन्महतोरुपसंख्यानम् *(म.भा.3-108)। बृहती, महती। बृहता, महता ।।
</6-1-173>
उदात्तयणो हल्पूर्वात् ।। <6-1-174> ।।
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी अजादिर्याऽसर्वनामस्थानविभक्तिरुदात्ता भवति। कर्त्री, हर्त्री, प्रलवित्री, प्रसवित्री। कर्त्रा, हर्त्रा, प्रलवित्रा, प्रसवित्रा। तृजन्ता एतेऽन्तोदात्ताः।
उदात्तग्रहणं किम् ? कर्त्री, हर्त्री। कर्त्रा, हर्त्रा, तृन्नन्तोऽयमाद्युदात्तः। हल्पूर्वादिति किम् ? बहुतितवा ब्राह्मण्या।
- नकारग्रहणं कर्तव्यम् *(म.भा.3-108)। वाक्पत्नीयं कन्या ।।
</6-1-174>
नोङ्धात्वोः ।। <6-1-175> ।।
ऊङो धातोश्च य उदात्तयण् हल्पूर्वः, तस्मात्परा तृतीयादिविभक्तिर्नोदात्ता भवति। ब्रह्मबन्ध्वा, ब्रह्मबन्ध्वे। वीरबन्ध्वा, वीरबन्ध्वे। ऊङ् प्रत्ययस्वरेणोदात्तः। तेन सह य एकादेशः सोऽप्युदात्त इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इति विभक्तिः स्वर्यते।
धातुयणः खल्वपि---सकृल्ल्वा। सकृल्ल्वे। खलप्वे। क्विबन्तस्य कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्य ओः सुपि(6-4-83/281) इति यणादेशः ।।
</6-1-175>
ह्रस्वनुड्भ्यां मतुप् ।। <6-1-176> ।।
`अन्तोदात्ता इत्येव। ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुब् उदात्तो भवति। अग्निमान्। वायुमान्। कर्तृमान्। हर्तृमान्। नुटः खल्वपि--अक्षण्वता। शीर्शण्वता।
`अन्तोदात्तात् इदित्येव--वसुमान्(तै.सं.1-6-6-2)। वसुशब्द आद्युदात्तः, तस्मान्मतुब् अनुदात्त एव भवति।
अत्र च `स्वरविधौ व्यञ्जनमविद्यमानवत्(व्या.प.37) इत्येषा परिभाषा नाश्रीयते; नुड्ग्रहणात्। तेन मरुत्वानित्यत्र न भवति।
- रेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम् *(म.भा.3-108)। आरेवान्।
- त्रेश्च प्रतिषेधो वक्तव्यः *(म.भा.3-108)। `त्रिवतीर्याज्यानुवाक्या भवति(काठ.सं.11-1) इति ।।
</6-1-176>
नामन्यतरस्याम् ।। <6-1-177> ।।
ह्रस्वग्रहणमनुवर्तते, मतुब्ग्रहणं च, तेन मतुपा ह्रस्वो विशेष्यते। मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति। अग्नीनाम्। वायूनाम्। कर्तॄणाम्।
मतुपा ह्रस्वविशेषणं किम् ? भूतपूर्वेऽपि ह्रस्वे यथा स्यात्, अन्यथा हि साम्प्रतिक एव स्यात्-तिसृणाम्, चतसृणामिति। सनुट्कस्य ग्रहणं किम् ? धेन्वाम्। शकट्याम्। उदात्तयणो हल्पूर्वत्(6-1-174/3720) इत्ययमन्तोदात्तः।
ह्रस्वादित्येव--कुमारीणाम्। अन्तोदात्तादित्येव--त्रपूणाम्। वसूनाम् ।।
</6-1-177>
ङ्याश्छन्दसि बहुलम् ।। <6-1-178> ।।
ङ्यन्ताच्छन्दसि विषये नामुदात्तो भवति बहुलम्। `देवसेनानामभिभञ्जतीनाम्(ऋ.10-103-8)। `बह्वीनां पिता(ऋ.6-75-5)। न च भवति-नदीनां पारे। `जयन्तीनां मरुतः(ऋ.10-103-8) ।।
</6-1-178>
षट्त्रिचतुर्भ्यो हलादिः ।। <6-1-179> ।।
`अन्तोदात्तात् इत्येतन्निवृत्तम्। षट्संज्ञकेभ्यः, त्रि, चतुर् इत्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति। षड्भिः, षड्भ्यः, षण्णाम्। `पञ्चानाम्(तै.सं.1-6-1-2)। `सप्तानाम्(ऋ.8-28-5)। त्रि-`त्रिभिः(ऋ.1-34-21), त्रिभ्यः, `त्रयाणाम्(तै.सं.3-4-3-8)। चतुर्-`चतुर्भ्यः(तै.सं.7-2-11-1), `चतुर्णाम्(ऋ.8-74-13)।
हलादिरिति किम् ? `चतस्रः(ऋ.1-62-6) पश्य ।।
</6-1-179>
झल्युपोत्तमम् ।। <6-1-180> ।।
षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपे च यत्तदुपोत्तमम्। `पञ्चभिः(तै.सं.5-2-7-5)तपस्तपति। सप्तभिः परान् जयति। `तिसृभिश्च वहसे त्रिंशता(अ.वे.7-4-1)। `चतुर्भिः(वा.सं.23-13)।
झलीति किम् ? पञ्चानाम्। सप्तानाम्: अपोत्तममिति किम् ? षड्भिः। षड्भ्यः ।।
</6-1-180>
विभाषा भाषायाम् ।। <6-1-181> ।।
षट्त्रिचतुर्भ्यो वा झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवति विभाषा भाषायं विषये। पञ्चभिः। सप्तभिः। तिसृभिः। चतसृभिः ।।
</6-1-181>
न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः ।। <6-1-182> ।।
गो, श्वन्, साववर्णम्=सौ प्रथमैकवचने यदवर्णान्तम्, राड्, अङ्, क्रुङ्, कृद्--इत्येतेभ्यो यदुक्तं तन्न भवति। गवा। गवे। गोभ्यामिति। सावेकाचस्तृतीयादिर्विभक्तिः(6-1-168/3714) इति प्राप्तिः प्रतिषिध्यते। सुगुना। सुगवे। सुगुभ्याम्। अन्तोदात्तादुत्तरपदात्(6-1-169/3715) इति प्राप्तिः।
श्वन्-शुना। शुने। श्वभ्याम्। परमशुना। परमशुने। परमश्वभ्याम्। पूर्ववत्प्राप्तिः।
साववर्णः=सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्--येभ्यः। तेभ्यः। केभ्यः।
राट्--राजतिः क्विबन्तः। राजा। परमराजः।
अङ्-अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्रास्य नलोपो नास्ति तत्र प्रतिषेधो यथा स्यात्। नाञ्चेः पूजायाम्(6-4-60/424) इति प्रतिषिध्यते नलोपः। प्राञ्चा। प्राङ्भ्याम्। नलोपविषये तु भवत्येव विभक्तेरुदातत्वम्। प्राचा। प्राचे। प्राग्भ्याम्।
क्रुङ् क्विन्नन्त एव--क्रुञ्चा। परमक्रुञ्चा।
कृत्--करोतिः कृतिर्वा क्विबन्तः। कृता। परमकृता ।।
</6-1-182>
दिवो झल् ।। <6-1-183> ।।
दिवः परा झलादिर्विभक्तिर्नोदात्ता भवति। द्युभ्याम्। द्युभिः। सावेकाचः(6-1-168/3714) इति ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः(6-1-171/3717) इति वा प्राप्तिः प्रतिषिध्यते।
झलीति किम् ? दिवा ।।
</6-1-183>
नृ चान्यतरस्याम् ।। <6-1-184> ।।
`नृ इत्येतस्मात्परा झलादिर्वभक्तिरन्यतरस्यां नोदात्ता भवति। नृभ्याम्। नृभिः। नृभ्यः। `नृषु(ऋ.1-180-8)।
झलित्येव--न्रा। न्रे ।।
</6-1-184>
तित्स्वरितम् ।। <6-1-185> ।।
तित्स्वरितं भवति। सन्नन्ताद्यत्--चिकीर्ष्यम्, जिहीर्ष्यम्। ऋहलोर्ण्यत्(3-1-124/2872)--कार्यम्, हार्यम्, प्रत्ययाद्युदात्तस्यापवादः ।।
</6-1-185>
तास्यनुदात्तेन्डिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः ।। <6-1-186> ।।
तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच्च शब्दात्परं लसार्वधातुकमनुदात्तं च भवति ह्नुङ्, इङ्-इत्येताभ्यां परं वर्जयित्वा। तासेस्तावत्--कर्ता, कर्तारौ, कर्तारः। प्रत्ययस्वरापवादोऽयम्।
अनुदात्तेतः--आस--आस्ते। वस-वस्ते।
ङित्--षूङ्-सूते। शीङ्-शेते।
अदुपदेशात्--तुदतः। नुदतः। पचतः। पठतः। अनुबन्धस्यानैकान्तिकत्वादकारान्तोपदेश एव शप्। पचमानः। यजमानः। यद्यत्र मुक् अकारमात्रस्य स्यात्, तदा लसार्वधातुकमदुपदेशादनन्तरमिति सिद्धो निघातः। अथाकारान्तस्याङ्गस्य ? तथापि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वादसिद्ध इति सिद्धम्। चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद्बाध्यते।
तास्यादिभ्य इति किम् ? चिनुतः। चिन्वन्ति। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम् ? इह च यथा स्यात्-पचाव, पचाम इति। इह च मा भूत्-हतः, हथ इति। लग्रहमं किम् ? कतीह पचमानाः। सार्वधातुकमिति किम् ? शिश्ये। शिश्याते। शिश्यिरे। अह्न्विङोरिति किम् ? ह्नुते। यदधीते ।।
</6-1-186>
आदिः सिचोऽन्यतरस्याम् ।। <6-1-187> ।।
`उदात्तः इति वर्तते। सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति। मा हि कार्ष्टाम्। मा हि कार्ष्टाम्। एकोऽत्राद्युदात्तः, अपरोऽन्तोदात्तः। मा हि लाविष्टाम्, मा हि लाविष्टाम्। एकोऽत्राद्युदात्तः, अपरो मध्योदात्तः। सिचश्चित्करणादागमानुदात्तत्वं हि बाध्यते।
- सिच आद्युदात्तत्वेऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यम् *(म.भा.3-113)। मा हि कार्षम्। अनिट इति किम् ? मा हि लाविषम्। मध्योदात्त एवाद्युदात्ताभावपक्षे भवति ।।
</6-1-187>
स्वपादिहिंसामच्यनिटि ।। <6-1-188> ।।
लसार्वधातुकग्रहणं यदनुवर्तते, तद् `अच्यनिटि इति सम्बन्धादिह सप्तम्यन्तमुपजायते। स्वपादिरावृत्करणात्। स्वपादीनां हिंसेश्चाजादावनिटि लसार्वधातुके परतोऽन्यतरस्यामादिरुदात्तो भवति। स्वपन्ति। श्वसन्ति। हिंसेः खल्वपि--हिंसन्ति। प्रत्ययस्वरेण पक्षे मध्योदात्तः।
अचीति किम् ? स्वप्यात्। हिंस्यात्। अनिटीति किम् ? स्वपितः। श्वसितः ।।
ङित्यजादावयं विधिरिष्यते। इह न भवति--स्वपानि। हिनसानि ।।
</6-1-188>
अभ्यस्तानामादिः ।। <6-1-189> ।।
अभ्यस्तानामजादावनिटि लसार्वधातुके परत आदिरुदात्तो भवति। ददति, ददतु। दधति, दधतु। जक्षति, जक्षतु,। जाग्रति, जाग्रतु।
अचीत्येव--दद्यात्। अनिटीत्येव--जक्षितः। `आदिः इति वर्तमाने पुनरादिग्रहणं नित्यार्थम् ।।
</6-1-189>
अनुदात्ते च ।। <6-1-190> ।।
अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानामादिरुदात्तो भवति। अनजाद्यर्थ आरम्भः। ददाति। जहाति। दधाति। जिहीते। `मिमीते(तै.सं.6-1-9-6)।
अनुदात्त इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः(म.भा.3-113)। मा हि स्म दधात्। ददात्यत्र ।।
</6-1-190>
सर्वस्य सुपि ।। <6-1-191> ।।
सर्वशब्दस्य सुपि परत आदिरुदात्तो भवति। सर्वः, सर्वौ, सर्वे। सुपीति किम् ? सर्वतरः। सर्वतमः।
`प्रत्ययलक्षणेनाप्ययं स्वर इष्यते सर्वस्तोमः (तै.सं.5-4-12-3)इति।
* सर्वस्वरोऽनच्कस्येति वक्तव्यम् *(म.भा.3-114)। सर्वकः। चित्स्वरेणान्तोदात्तो भवति ।।
</6-1-191>
भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ।। <6-1-192> ।।
भी, ह्री, भृ, हु, मद, जन, धन, दरिद्रा, जागृ-इत्येतेषामभ्यस्तानां लसार्वधातुके पिति प्रत्ययात्पूर्वमुदात्तं भवति। बिभेति। जिह्रेति। `बिभर्ति(तै.आ.3-11-4)। `जुहोति(तै.ब्रा.2-1-8-3)। `ममत्तु नः परिज्मा(तै.सं.2-1-11-1)। मदेः `बहुलं छन्दसि इति विकरणस्य श्लुः। `जजनमिन्द्रम्(तै.आ.3-2-1)। `जन जनने(धा.पा.1106) इत्यस्य पञ्चमे लकारे रूपम्। `धन धान्ये(धा.पा.1105) इत्यस्य पञ्चमे लकारे-`दधनत्(तै.ब्रा.2-8-3-5)। दरिद्राति। जागर्ति।
भ्यादीनामिति किम् ? ददाति। पितीति किम् ? दरिद्रति ।।
</6-1-192>
लिति ।। <6-1-193> ।।
लिति=लकारेत्संज्ञके प्रत्ययात्पूर्वमुदात्तं भवति। चिकीर्षकः। जिहीर्षकः। भौरिकिविधम्। भौलिकिविधम्। ऐषुकारिभक्तम् ।।
</6-1-193>
आदिर्णमुल्यन्यतरस्याम् ।। <6-1-194> ।।
णमुलि परतोऽन्यतरस्यामादिरुदातो भवति। लोलूयं लोलूयम्,लोलूयं लोलूयम्। पोपूयं पोपूयम्,पोपूयं पोपूयम्। आम्रेडितानुदात्तत्वे कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः ।।
</6-1-194>
अचः कर्तृयकि ।। <6-1-195> ।।
`उपदेशे इति वर्तते। अजन्ता ये उपदेशे धातवस्तेषां कर्तृयकि अन्यतरस्यामादिरुदात्तो भवति। लूयते केदारः स्वयमेव। स्तीर्यते केदारः स्वयमेव। यदाऽऽद्युदात्तत्वं न भवति, तदा लसार्वधातुकनिघाते कृते यक एव स्वरो भवति।
जनादीनामुपदेश एवात्वं द्रष्टव्यम्, तत्राप्ययं स्वर इष्यते। जायते स्वयमेव। सायते स्वयमेव। खायते स्वयमेव।
अच इति किम् ? भिद्यते स्वयमेव। कर्तृग्रहणं किम् ? लूयते केदारो देवदत्तेन ।।
</6-1-195>
थलि च सेटीडन्तो वा ।। <6-1-196> ।।
सेटि थलि इट् वा उदात्तो भवति अन्तो वा आदिर्वाऽन्यतरस्याम्। लुलविथ। यदा नैते त्रयः स्वराः, तदा लिति(6-1-193/3676) प्रत्ययात्पूर्वमुदात्तं भवति। तेनैते चत्वारः स्वराः पर्यायेण भवन्ति।
सेटीति किम् ? ययाथ। `लिति प्रत्ययात्पूर्वमुदात्तम्-इत्ययमेवात्र स्वरो भवति।।
</6-1-196>
ञ्नित्यादिर्नित्यम् ।। <6-1-197> ।।
ञिति निति च नित्यमादिरुदात्तो भवति। गर्गादिभ्यो यञ्(4-1-105/1107) गार्ग्यः। वात्स्यः। वासुदेवार्जुनाभ्यां वुन्(4-3-98/1478)--वासुदेवकः, अर्जुनकः। प्रत्ययस्वरापवादोऽयं योगः।
प्रत्ययलक्षणमत्र नेष्यते, तेन गर्गाः, बिदाः, चञ्चाः-इत्यत्र यञि कनि च लुप्ते भवति ।।
</6-1-197>
आमन्त्रितस्य च ।। <6-1-198> ।।
आमन्त्रितस्यादिरुदात्तो भवति। देवदत्त ! देवतत्तौ, देवदत्ताः। अत्र कारकाद्दत्तश्रुतयोरेवाशिषि(6-2-148/3882) इति प्राप्तिर्बाध्यते।
लुमतापि लुप्ते प्रत्ययलक्षणमत्रेष्यते। सर्पिरागच्छ, सप्तागच्छेति ।।
</6-1-198>
पथिमथोः सर्वनामस्थाने ।। <6-1-199> ।।
पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेणान्तोदात्तौ, तयोः सर्वनामस्थाने परत आदिरुदात्तो भवति। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः।
सर्वनामस्थान इति किम् ? पथः पश्य। मथः पश्य। उदात्तनिवृत्तिस्वरेणान्तोदात्तो भवति। प्रत्ययलक्षणमत्रापि नेष्यते।
पथिप्रियः--इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्तः पथिशब्दः ।।
</6-1-199>
अन्तश्च तवै युगवत् ।। <6-1-200> ।।
तवैप्रत्ययान्तस्यान्तः, चशब्दादादिश्च युगपदुदात्तौ भवतः। कर्त्तवै। हर्तवै। प्रत्ययाद्युदात्तत्वापवादः।
युगपद्ग्रहणं पर्यायनिवृत्यर्थम् । `एकवर्जम् इति वचनाद्यौगपद्यं न स्यात् ।।
</6-1-200>
क्षयो निवासे ।। <6-1-201> ।।
क्षयशब्दो निवासेऽभिधेये आद्युदात्तो भवति। क्षियन्ति निवसन्त्यस्मिन्निति क्षयः, पुंसि संज्ञायां घः प्रायेण(3-3-118/3296) इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः। `क्षये(ऋ.10-118-1) जागृहि प्रपश्यन्।
निवास इति किम् ? क्षयो वर्तते दस्यूनाम्। एरच्(3-3-56/3231) इत्ययमजन्तः ।।
</6-1-201>
जयः करणम् ।। <6-1-202> ।।।
जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेनेति जयः। पुंसि संज्ञायां घः प्रायेण(3-3-118/3296) इति घः, तस्य प्रत्ययस्वरः प्राप्तः। जयोऽश्वः।
करणमिति किम् ? जयो वर्तते ब्राह्मणानाम्। अत्रापि एरच्(3-3-56/3231) इत्ययमजन्तः ।।
</6-1-202>
वृषादीनां च ।। <6-1-203> ।।
`वृष इत्येवमादीनामादिरुदात्तो भवति। वृषः। जनः। ज्वरः। ग्रहः। हयः। गयः। सर्वे एते पचाद्यच्प्रत्ययान्ताः। गय इत्यत्र गायतेर्निपातनादेत्वम्।
नयः। तयः। अयः। अंशः। वेदः। अशः। दवः। एतेऽपि तथैवाच्प्रत्ययान्ताः। सूदः-इगुपधात्(3-1-135/2897) इति कप्रत्ययान्तः। गुहा। भिदादिः अङ्प्रत्ययान्तः ।।
- शमरणौ संज्ञायां सम्मतौ भावकर्मणोः *(ग.सू.170)। शमो भावे रणः कर्मणि अजन्तावेतौ निपातनाद् भावकर्मणोर्भवतः---मन्त्रः पचाद्यजन्तः। शान्तिः--इति क्तिजन्तः। कामः, यामः---घञन्तावेतौ।
आरा,धारा, कारा-भिदादयः। वहः--गोचरादिषु घप्रत्ययान्तः। कल्पः--अजन्तः। पादः--घञन्तः। तत्र क्वचित्प्रत्ययस्वरः प्राप्तः, क्वचित् कर्षात्वतो घञोऽन्त उदात्तः(6-1-159/3680) इति। वृषादिराकृतिगणः। अविहितमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम् ।।
</6-1-203>
संज्ञायामुपमानम् ।। <6-1-204> ।।
उपमानशब्दः संज्ञायामाद्यदात्तो भवति। चञ्चा। वर्ध्रिका। खरकुटी। दासी। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र इवे प्रतिकृतौ(5-3-96/2051) इति यः कन् तस्य लुम्मनुष्ये(5-3-98/2053) इति लुप्।
यद्येवम्, किमर्थमिदमुच्यते, प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम् ? एतदेव ज्ञापयति--क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवतीति। तथा च पूर्वत्रोदाहृतम्।
संज्ञायामिति किम् ? अग्निर्माणवकः। उपमानमिति किम् ? देवदत्तः ।।
</6-1-204>
निष्ठा च द्व्यजनात् ।। <6-1-205> ।।
निष्ठान्तं च द्वयच् संज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति। दत्तः। गुप्तः। बुद्धः। प्रत्ययस्वरापवादः।
निष्ठेति किम् ? देवः। भीमः। द्व्यजिति किम् ? चिन्तितः। रक्षितः। अनादिति किम् ? त्रातः। आप्तः। संज्ञायामिति किम् ? कृतम्। हृतम् ।।
</6-1-205>
शुष्कधृष्टौ ।। <6-1-206> ।।
`आदिरुदात्तः इति वर्तते। शुष्क, धृष्ट-इत्येतावाद्युदात्तौ भवतः। शुष्कः। धृष्टः।
असंज्ञार्थ आरम्भः ।।
</6-1-206>
आशितः कर्ता ।। <6-1-207> ।।
आशितशब्दः कर्तृवाची आद्युदात्तो भवति। आशितो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः। तत्र थाथघञ्(6-2-144/3878) इति प्राप्तः स्वरो बाध्यते।
कर्तरीति किम् ? आशितमन्नम्। आशितं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे।।
</6-1-207>
रिक्ते विभाषा ।। <6-1-208> ।।
रिक्तशब्दे विभाषा आदिरुदात्तो भवति। रिक्तः। रिक्तः। संज्ञायाम्(6-1-204/3692) निष्ठा च द्व्यजनात्(6-1-205/3693) इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः ।।
</6-1-208>
जुष्टार्पिते चच्छन्दसि ।। <6-1-209> ।।
जुष्ट, अर्पित--इत्येते शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः। जुष्टः। अर्पितः।
छन्दसीति किम् ? भाषायां प्रत्ययस्वरेणान्तोदात्तावोतौ ।।
</6-1-209>
नित्यं मन्त्रे ।। <6-1-210> ।।
जुष्ट, अर्पित--इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः। जुष्टं देवानाम्। अर्पितं पितॄणाम्। पूर्वेणात्र विकल्पः प्राप्तः।
केचिदत्र `जुष्ट-इत्येतदेवानुवर्तयन्ति। अर्पितशब्दस्य विभाषा मन्त्रेऽपीच्छन्ति। अन्तोदात्तोऽपि ह्ययं मन्त्रे पठ्यते--`तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिता(ऋ.1-164-48) इति ।।
</6-1-210>
युष्मदस्मदोर्डसि ।। <6-1-211> ।।
युष्मदस्मदी मदिक्प्रत्ययान्तेऽन्तोदात्ते, तयोर्ङसि परत आदिरुदात्तो भवति। तव स्वम्। मम स्वम् ।।
</6-1-211>
ङयि च ।। <6-1-212> ।।
`युष्मदस्मदोः इति वर्तते, `आदिरुदत्तः इति च। `ङे इत्येतस्मिंश्च परतो युष्मदस्मदोरादिरुदात्तो भवति। तुभ्यम्। मह्यम्।
पृथग्योगकरणं यथासंख्यशङ्कानिवृत्त्यर्थम् ।।
</6-1-212>
यतोऽनावः ।। <6-1-213> ।।
निष्ठा च द्व्यजनात्(6-1-205/3693) इत्यतो द्व्यज्ग्रहणमनुवर्त्तते। यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति, न चेन्नौशब्दात्परो भवति। अचो यत्(3-1-97/2842)--चेयम्, जेयम्। शरीरावयवाद्यत्(5-1-6/666)--कण्ठ्यम्, ओष्ठ्यम्। तित्स्वरितम्(6-1-185/3729) इत्यस्यापवादः।
अनाव इति किम् ? नाव्यम्।
द्व्यच इत्येव--चिकीर्ष्यम्। ललाट्यम् ।।
</6-1-213>
ईडवन्दवृशंसदुहां ण्यतः ।। <6-1-214> ।।
ईड, वन्द, वृ, शंस, दुह्--इत्येतेषां यो ण्यत् तदन्तस्यादिरुदात्तो भवति। ईड्यम्। वन्द्यम्। वार्यम्। शंस्यम्। दोह्या धेनुः। द्व्यनुबन्धकत्वाद् ण्यतो यद्ग्रहणेन ग्रहणं नास्तीति तित्स्वरितम्(6-1-185/3729) इत्येतत् प्राप्तम्। वार्यमिति--`वृङ् सम्भक्तौ(धा.पा.1510) इत्यस्यायं ण्यत्। क्यब्विधौ हि वृञ एव ग्रहणमिष्यते ।।
</6-1-214>
विभाषा वेण्विन्धानयोः ।। <6-1-215> ।।
वेणु, इन्धान--इत्येतयोर्विभाषा आदिरुदात्तो भवति। वेणुः, वेणुः। इन्धानः, इन्धानः।
वेणुशब्दोऽयम् `आजिवृरीभ्यो नित्(उ.325) इति णुप्रत्ययान्तो नित्त्वान्नित्यमाद्युदात्तः प्राप्तः।
इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वादन्तोदात्तः। अथ शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः। तदेवमिन्धाने सर्वथाऽप्राप्तमाद्युदात्तत्वं पक्षे विधीयते।
वेणुरिव वेणुरित्युपमानं यदा संज्ञा भवति, तदा संज्ञायामुपमानम्(6-1-204/3692) इति नित्यमाद्युदात्तत्वमिष्यते ।।
</6-1-215>
त्यागरागहासकुहश्वठक्रथानाम् ।। <6-1-216> ।।
त्याग, राग, हास, कुह, श्वठ, क्रथ--इत्येतेषां विभाषा आदिरुदात्तो भवति। त्यागः, रागः, हासः--एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञोऽन्त उदात्तः(6-1-159/3680) इत्युदात्तत्वमेव भवति। कुहः, श्वठः, क्रथः--एते पचाद्यजन्ताः ।।
</6-1-216>
उपोत्तमं रिति ।। <6-1-217> ।।
रिदन्तस्योपोत्तममुदात्तं भवति। त्रिप्रभृतीनामन्त्यमुत्तमं तस्य समीपे यत्तदुपोत्तमम्। करणीयम्। हरणीयम्। पटुजातीयः। मृदुजातीयः। प्रत्ययस्वरापवादोऽयम् ।।
</6-1-217>
चङ्यन्यतरस्याम् ।। <6-1-218> ।।
चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति। मा हि चीकरताम्। मा हि चीकरताम्। न माङ्योगे(6-4-74/2228) इत्यटि प्रतिषिद्धे हि च(8-1-34/3941) इति निधातेऽदुपदेशादिति लसार्वधातुकानुदात्तत्वे(6-1-186/3730) कृते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति।
उपोत्तमग्रहणाद् द्वयोर्न भवति--मा हि दधत् ।।
</6-1-218>
मतोः पूर्वमात्संज्ञायां स्त्रियाम् ।। <6-1-219> ।।
मतोः पूर्वः अकार उदात्तो भवति तच्चेन्मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उदुम्बरावती। पुष्करावती। वीरणावती। शरावती। शरादीनां च(6-3-120/1042) इति दीर्घः।
आदिति किम् ? इक्षुमती। द्रुमवती। संज्ञायामिति किम् ? खट्वावती। स्त्रियामिति किम् ? शरावान्। मतोरिति किम् ? गवादिनी ।।
</6-1-219>
अन्तोऽवत्याः ।। <6-1-220> ।।
`संज्ञायाम् इत्येव। अवतीशब्दान्तस्य संज्ञायामन्त उदात्तो भवति। अजिरवती। खदिरवती। हंसवती। कारण्डवती। ङीपः पित्तवादनुदात्तत्वं प्राप्तम्।
`अवत्याः इति किमुच्यते, न वत्या इत्येवमुच्येत ? नैवं शक्यम्; इहापि स्यात्--राजवती। स्वरविधौ नलोपस्यासिद्धत्वान्नायमवतीशब्दः। वत्वं पुनराश्रयात्सिद्धम् ।।
</6-1-220>
ईवत्याः ।। <6-1-221> ।।
ईवतीशब्दान्तस्यान्त उदात्तो भवति स्त्रियां संज्ञायां विषये। अहीवती। कृषीवती। मुनीवती।
</6-1-221>
चौ ।। <6-1-222> ।।
`चौ इत्यञ्चतिर्लुप्तनकारो गृह्यते। तस्मिन्परतः पूर्वस्यान्त उदातो भवति। दधीचः पश्य। दधीचा। दधीचे। मधूचः
पश्य। मधूचा। मधूचे। उदात्तनिवृत्तिस्वरापवादोऽयम् ।
- चावतद्धित इति वक्तव्यम् *(म.भा.3-118)। दाधीचः। माधूचः। प्रत्ययस्वर एवात्र भवति।
</6-1-222>
समासस्य ।। <6-1-223> ।।
समासस्यान्त उदात्तो भवति। राजपुरुषः। ब्राह्मणकम्बलः। कन्यास्वनः। पटहशब्दः। नदीघोषः। राजपृषत्। ब्राह्मणसमित्।
`स्वरविधौ व्यञ्जनमविद्यमानत्(व्या.प.37) इति हलन्तेऽप्यन्तोदात्तत्वं भवति। नानापदस्वरस्यापवादः ।।
इति श्रीवामनविरचितायां काशिकावृत्तौ
षष्ठस्याध्यायस्य प्रथमः पादः
</6-1-223>