काशिका/षष्ठोऽध्यायः/तृतीयः पादः
<K.5.190>
अथ षष्ठाध्याये तृतीयः पादः
अलुगुत्तरपदे ।। <6-3-1> ।।
अलुक् इति च उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनुक्रमिष्यामोऽलुगुत्तरपद इत्येव तद्वेतितव्यम् । वक्ष्यति - पञ्चम्याः स्तोकादिभ्यः। स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपद इति किम् ? निष्क्रान्तः स्तोकाद् निःस्तोकः । <K.5.191> अन्यार्थमिदमुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थं लक्षणप्रतिपदोक्त - परिभाषा नाश्रयितव्या। अलुगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात् ।।
</6-3-1>
<K.5.192>
पञ्चम्याः स्तोकादिभ्यः ।। <6-3-2> ।।
स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्या उत्तरपदेऽलुग्भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । समासे कृते प्रातिपदिकत्वात्सुपो लुकि प्राप्ते प्रतिषेधः क्रियते । <K.5.194> द्विवचनबहुवचनान्तानां तु स्तोकादीनामनभिधानात्समास एव न <K.5.195> भवति - स्तोकाभ्यां मुक्तः, स्तोकेभ्यः मुक्तः इति । तेनात्र न कदाचिदप्यैकपद्यम् , ऐकस्वर्यं च भवति । * ब्राह्माणाच्छंसिन उपसंख्यानं कर्तव्यम् *। ब्राह्मणादादाय शंसतीति <K.5.196> ब्राह्मणाच्छंसी इति । ऋत्विग्विशेषस्य रुढिरियम् । तस्य व्युत्पत्तिरसता सता वाऽवयवार्थेन क्रियते ।।
</6-3-2>
ओजः सहोम्भस्तमसस्तृतीयायाः ।। <6-3-3> ।।
<K.5.197>
ओजस्, सहस् , अम्भस् , तमस् - इत्यतेभ्य उत्तरस्यास्तृतीयाया अलुग्भवति उत्तरपदे । ओजसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् ।
- अञ्जस उपसंख्यानं कर्तव्यम् *। अञ्जसाकृतम् ।
- पुंसानुजो जनुषान्ध इति वक्तव्यम् *। पुंसानुजः ।।
</6-3-3>
मनसः संज्ञायाम् ।। <6-3-4> ।।
मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग्भवति । मनसादत्ता । मनसागुप्ता। मनसासङ्गता । संज्ञायामिति किम्? मनोदात्ता । मनोगुप्ता ।।
</6-3-4>
आज्ञायिनि च ।। <6-3-5> ।।
आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग्भवति । मनसाऽऽज्ञातुं शीलमस्य मनसाज्ञायी ।।
</6-3-5>
<K.5.198>
आत्मनश्च पूरणे ।। <6-3-6> ।।
आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्त उत्तरपदेऽलुग्भवति । आत्मनापञ्चमः । आत्मनाषष्ठः । `तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम् इति तृतीया । तृतीया इति योगविभागात्समासः । आत्मना वा कृतः पञ्चम आत्मनापञ्चमः । <K.5.199> कथं जनार्दनस्तु आत्मचतुर्थः एव इति? बहुव्रीहिरयम् - आत्मा चतुर्थोऽस्यासौ आत्मचतुर्थः ।।
</6-3-6>
वैयाकरणाख्यायां चतुर्थ्याः ।। <6-3-7> ।।
वैयाकरणानामाख्या वैयाकरणाख्या । आख्या - संज्ञा । यया संज्ञया वैयाकरणा एव व्यवहरन्ति तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मनेपदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थी इति योगविभागात्समासः ।।
</6-3-7>
<K.5.200>
परस्य च ।। <6-3-8> ।।
परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् । परस्मैभाषा ।।
</6-3-8>
हलदन्तात्सप्तम्याः संज्ञायाम् ।। <6-3-9> ।।
हलन्ताददन्ताच्चोत्तरस्याः सम्तम्याः संज्ञायामलुग्भवति । युधिष्ठिरः । त्वचिसारः । गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः इत्यत एव वचनादलुक् । अदन्तात् - अरण्येतिलकाः । अरण्येमाषकाः । वनेकिंशुकाः । वनेहरिद्रकाः । वनेबल्बजकाः । पूर्वाह्णेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका । भूम्यां पाशाः भूमिपाशाः। संज्ञायामिति किम्? अक्षशौण्डः ।
<K.5.201> * हृद्द्युभ्यां ङेः * हृद्, दिव् - इत्येताभ्यामुत्तरस्य ङेरलुक् भवति । हृदिस्पृक् । दिविस्पृक् ।।
</6-3-9>
कारनाम्नि च प्राचां हलादौ ।। <6-3-10> ।।
प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हदन्तादुत्तरस्याः सप्तम्या अलुग्भवति । कूपेशाणन् । दृषदिमाषकः । हलेद्विपदिका । हलेत्रिपदिका । <K.5.202> कारविशेषस्य संज्ञा एताः , तत्र पूर्वेणैव सिद्धे नियमार्थमिदम् । एते च त्रयो नियमविकल्पा अत्रेष्यन्ते - कारनाम्न्येव, प्रचामेव, हलादावेवेति । कारनाम्नीति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः । कारादन्यस्यैतद्देयस्य नाम । प्राचामिति किम्? यूथे पशुः यूथपशुः । हलादाविति किम्? अविकटे उरणः अविकटोरणः । हलदन्तादित्येव - नद्यां दोहनी नदीदोहनी ।।
</6-3-10>
<K.5.203>
मध्याद् गुरौ ।। <6-3-11> ।।
मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदेऽलुग्भवति । मध्येगुरुः ।
- अन्ताच्चेति वक्तव्यम् *। अन्तेगुरुः । सप्तमी इति योगविभागात् समासः ।।
</6-3-11>
अमूर्द्धमस्तकात् स्वाङ्गादकामे ।। <6-3-12> ।।
मूर्द्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्या अकाम उत्तरपदेऽलुग्भवति । कण्ठे कालोऽस्य कण्ठेकालः । उरसिलोमा । उदरेमणिः । अमूर्द्धमस्तकादिति किम्? मूर्धशिखः । मस्तकशिखः । अकाम इति किम्? मुखे कामोऽस्य मुखकामः । स्वाङ्गादिति किम्? अक्षशौण्डः । हलदन्तादित्येव - अङ्गुलित्राणः । जङ्घावलिः ।।
</6-3-12>
बन्धे च विभाषा ।। <6-3-13> ।।
बन्धे इति घञन्तो गृह्यते, तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः <K.5.204> सप्तम्या विभाषाऽलुग्भवति । हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः , चक्रबन्धः । उभयत्रविभाषेयम् । स्वाङ्गाद्धि बहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वाङ्गाच्च नेन्त्सिद्धबध्नातिषु च इति प्रतिषेधः प्राप्नोति । हलदन्तादित्येव - गुप्तिबन्धः ।।
</6-3-13>
तत्पुरुषे कृति बहुलम् ।। <6-3-14> ।।
तत्पुरुषे समासे कृदन्त उत्तरपदे सप्तम्या बहुलमलुग्भवति । स्तम्बेरमः । कर्णेजपः । <K.5.205> न च भवति
- कुरुचरः, मद्रचरः ।।
</6-3-14>
प्रावृट्शरत्कालदिवां जे ।। <6-3-15> ।।
प्रावृट्, शरत् , काल, दिव् - इत्येतेषां जे उत्तरपदे सप्तम्या बहुलमलुग्भवति । प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यैवायं प्रवञ्चः ।।
</6-3-15>
विभाषा वर्षक्षरशरवरात् ।। <6-3-16> ।।
वर्ष, क्षर, शर, वर - इत्येतेभ्यः उत्तरस्याः सप्तम्या ज उत्तरपदे विभाषाऽलुग्भवति । वर्षेजः , वर्षजः । क्षरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः ।।
</6-3-16>
घकालतनेषु कालनाम्नः ।। <6-3-17> ।।
<K.5.206>
घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः सप्तम्या विभाषाऽलुग्भवति । घ - पूर्वाह्णेतरे, पूर्वाह्णतरे । पूर्वाह्णेतमे, पूर्वाह्णतमे । काल - पूर्वाह्णेकाले, पूर्वाह्णकाले । तन- पूर्वाह्णेतने , पूर्वाह्णतने । कालनाम्न इति किम्? शुक्लतरे, शुक्लतमे । हलदन्तादित्येव - रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे <K.5.207> तदान्तविधिर्नेष्यते, हृदयस्य हृल्लेख इति लेखग्रहणाल्लिङ्गात् । तेन घतनग्रहणे तदन्तग्रहणं न भवति। काल इति न स्वरूपग्रहणम् ।।
</6-3-17>
शयवासवासिष्वकालात् ।। <6-3-18> ।।
शय, वास, वासिन् - इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्या सप्तम्या विभाषाऽलुगभवति । खेशयः ,खशयः । ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी । अकालादिति किम्? पूर्वाह्णशयः । हलन्तादित्येव - भूमिशयः ।
- अपो योनियन्मतुषु सप्तम्या अलुग्वक्तव्यः *। अप्सुयोनिः । <K.5.208> अप्सव्यः । अप्सुमन्तौ । अप्सु भव इति दिगादित्वाद्यत्प्रत्ययः । सर्वत्र सप्तमी इति योगविभागात्समासः ।।
</6-3-18>
नेन्त्सिद्धबध्नातिषु च ।। <6-3-19> ।।
इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्या अलुग्न भवति । स्थण्डिलवर्ती । सिद्ध - साङ्काश्यसिद्धः । काम्पिल्यसिद्धः । <K.5.209> बध्नाति - चक्रबद्धः । चारबद्धः । सप्तमी इति योगविभागात् समासः । चक्रबन्धः इति केचिदुदाहरन्ति, तत्पचाद्यजन्तं द्रष्टव्यम् । घञन्ते हि बन्धे च विभाषा इत्युक्तम् ।।
</6-3-19>
स्थे च भाषायाम् ।। <6-3-20> ।।
स्थे चोत्तरपदे भाषायां सप्तम्या अलुग्न भवति । समस्थः । विषमस्थः । कूटस्थः । पर्वतस्थः । भाषायामिति किम्? कृष्णः अस्य आखरेष्ठः। `पूर्वपदात् इति षत्वम् ।।
</6-3-20>
षष्ठ्या आक्रोशे ।। <6-3-21> ।।
आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग्भवति । चौरस्यकुलम् । वृषलस्यकुलम् । <K.5.210> आक्रोशे इति किम्? ब्राह्मणकुलम् ।
- षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासंख्यमलुग् वक्तव्यः *। वाचोयुक्तिः । दिशोदण्डः। । पश्यतोहरः ।
- आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति चालुग्वक्तव्यः *। अमुष्यापत्यम् आमुष्यायणः । नडादित्वात् फक् । अमुष्य पुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । तथा - आमुष्यकुलिका इति ।
- देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग्वक्तव्यः * देवानांप्रियः।
- शेपपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग्वक्तव्यः *। शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ।
- दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः *। दिवोदासाय गायति ।
</6-3-21>
पुत्रेऽन्यतरस्याम् ।। <6-3-22> ।।
पुत्रशब्द उत्तरपदे आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्या अलुग् <K.5.211> भवति । दास्याःपुत्रः, दासीपुत्रः । वृषल्याःपुत्रः, वृषलीपुत्रः, आक्रोश इत्येव - ब्राह्मणीपुत्रः ।।
</6-3-22>
ऋतो विद्यायोनिसम्बन्धेभ्यः ।। <6-3-23> ।।
ऋकारान्तेभ्यो विद्यासम्बन्धवाचिभ्यो योनिसम्बन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग्भवति । होतुरन्तेवासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋत इति किम्? आचार्यपुत्रः । मातुलपुत्रः । विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसम्बन्धवाचिन्येवोत्तरपदे यथा स्याद्, अन्यत्र मा भूत् - होतृधनम् । पितृधनम् । होतृगृहम् । पितृगृहम् ।।
</6-3-23>
<K.5.212>
विभाषा स्वसृपत्योः ।। <6-3-24> ।
स्वसृ, पति - इत्येतयोरुत्तरपदयोः ऋकारान्तेभ्यो विद्यायोनिसम्बन्धवाचिभ्यो विभाषाऽलुग्भवति । मातुःष्वसा। मातृस्वसा। मातृष्वसा । पितुःष्वसा । पितुःस्वसा । पितृष्वसा । यदा लुक् तदा मातुपितृभ्यां स्वसा इति नित्यं षत्वम् । यदा त्वलुक् तदा मातृपितृभ्यामन्यतरस्याम् इति विकल्पेन षत्वम् । दुहितुःपतिः । दुहितृपतिः । ननान्दुःपतिः । ननान्दृपतिः ।।
</6-3-24>
आनङ् ऋतो द्वन्द्वे ।। <6-3-25> ।।
ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति । हेतापोतारौ । नेष्टोद्गातारौ । प्रशास्ताप्रतिहर्तारौ । योनिसम्बन्धेभ्यः - मतापितरौ । याताननान्दरौ । <K.5.213> नकारोच्चारणं परत्वनिवृत्त्यर्थम् । ऋत इति किम्? पितृपितामहौ । पुत्रे इत्यत्रानुवर्त्तते ऋतः इति च । तेन पुत्रशब्देऽप्युत्तरपदे ऋकारान्तस्यानङादेशो भवति । पितापुत्रौ । मातापुत्रौ ।।
</6-3-25>
<K.5.214>
देवताद्वन्द्वे च ।। <6-3-26> ।।
देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशे भवति । इन्द्रावरुणौ। इन्द्रासोमौ । इन्द्राबृहस्पती।
द्वन्द्वे इति वर्त्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्याः, वेदे च ये सहवापनिर्द्दिष्टास्तेषामिह ग्रहणं भवति । तेन ब्रह्मप्रजापती, शिववैश्रवणौ इत्येवमादौ न भवति ।
<K.5.215> * उभयत्र वायोः प्रतिषेधो वक्तव्यः *। अग्निवायू। वाय्वग्नी ।।
</6-3-26>
ईदग्नेः सोमवरुणयोः ।। <6-3-27> ।।
सोम, वरुण - इत्येतयोर्देवताद्वन्द्वेऽग्नेरीकारादेशो भवति । अग्नीषोमौ। अग्नीवरुणौ । अग्नेः स्तुत्स्तोमसोमाः इति षत्वम् ।।
</6-3-27>
इद् वृद्धौ ।। <6-3-28> ।।
कृतवृद्धावुत्तरपदे देवताद्वन्द्वेऽग्नेरिकारादेशो भवति । आग्निवारुणीम् अनड्वाहीमालभेत। आग्निमारुत्तं कर्म क्रियते । अग्नीवरुणौ देवते अस्य, अग्नीमरुतौ देवते अस्येति तद्धितः । तत्र देवताद्वन्द्वे च इत्युभयपदवृद्धौ कृतायामानङ् ईत्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् ? आग्नेन्द्रः । नेन्द्रस्य परस्य इत्युत्तरपदवृद्धिः प्रतिषिध्यते ।
<K.5.216> * इद् वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः *। आग्नावैष्णवं चरुं निर्वपेत्।।
</6-3-28>
दिवो द्यावा ।। <6-3-29> ।।
दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा। द्यावाभूमी।।
</6-3-29>
दिवसश्च पृथिव्याम् ।। <6-3-30> ।।
पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवः दिवस् - इत्ययमादेशो भवति, चकाराद् द्यावा च । दिवस्पृथिव्यौ। द्यावावृथिवयौ । अकोरोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । <K.5.217> कथम् द्यावा चिदस्मै पृथिवी नमेते इति? कर्तव्योऽत्र यत्नः ।।
</6-3-30>
उषासोषसः ।। <6-3-31> ।।
उषसः उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषसासूर्यम् । उषासानक्ता।।
</6-3-31>
मातरपितरावुदीचाम् ।। <6-3-32> ।।
मातरपितरौ इत्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते । मातरपितरौ । उदीचामिति किम्? मातापितरौ ।।
</6-3-32>
पितरामातरा च च्छन्दसि ।। <6-3-33>।।
पितरामातरा इति छन्दसि निपात्यते । `आ मा गन्तां पितरामातरा च(वा.सं.9-19) । पूर्वपदस्य अराङादेशो निपात्यते । उत्तरपदे तु सुपां <K.5.218> सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः(7-1-39/3561) इति आकारादेशः , तत्र ऋतो ङिसर्वनामस्थानयोः(7-3-110/275) गुणः । छन्दसीति किम्? मातापितरौ ।।
</6-3-33>
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।। <6-3-34> ।।
<K.5.221> भाषितः पुमान्येन समानायामाकृतावेकस्मिन्प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः । तदेतदेवं कथं भवति भाषितः पुमान् <K.5.223> यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भाषितपुंस्कः । ऊङोऽभावः अनूङ्, भाषितपुंस्कादनूङ् <K.5.224>यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनुङ् स्रीशब्दः । बहुव्रीहिरयम् , अलुग् निपातनात् पञ्चम्याः । तस्य भाषितपुंस्कादनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते। दर्शनीयभार्यः । श्लक्ष्णचूडः । दीर्घजङ्घः ।
<K.5.225> स्त्रिया इति किम्? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कादिति किम्? खट्वाभार्यः । समानायामाकृताविति किम्? द्रोणीभार्यः । कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति? कर्तव्योऽत्र यत्नः । <K.5.226> अनूङ् इति किम्? ब्रह्मबन्धूभार्यः । समानाधिकरण इति किम्? कल्याण्या माता कल्याणीमाता । स्त्रियामिति किम्? कल्याणी प्रधानमेषां कल्याणीप्रधानाः इमे । अपूरणीति किम्? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमाः रात्रयः । कल्याणीदशमाः। प्रधानपूरणीग्रहणं कर्तव्यम् , इह मा भूत् - कल्याणपञ्चमीकः पक्ष <K.5.227> इति । अप्पूरणीप्रमाण्योः इत्यत्रापि प्रधानपूरणीग्रहणमेवेत्यप्प्रत्ययो न भवति । अप्रियादिष्विति किम्? कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा ।
अम्बा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । प्रियादिः । दृढभक्तिः इत्येवमादिषु स्रीपूर्वपदस्याविवक्षितत्वात् सिद्धमिति समाधेयम् ।।
</6-3-34>
<K.5.228>
तसिलादिष्वाकृत्वसुचः ।। <6-3-35> ।।
पञ्चम्यास्तसिल् इत्यतः प्रभृति सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्नसुच् इति प्रागेतस्माद् ये प्रत्ययास्तेषु भाषितपुंस्कादनूङ्स्रियाः पुंवद्भवति । तस्याः शालायाः ततः । तस्यां तत्र । यस्याः यतः । यस्यां यत्र ।
तसिलादिषु परिगणनं कर्तव्यम् - त्रतसौ। तरप्तमपौ। चरट्जातीयरौ।। <K.5.229> कल्पब्देश्यदेशीयरः । रुपप्पाशपौ। थम्थालौ। दार्हिलौ। तिल्तातिलौ।
- शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः * बह्वीभ्यो देहि । अल्पाभ्यो देहि । बहुशः देहि । अल्पशः देहि ।
- त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः *। पट्व्या भावः पटुत्वम् । पटुता । गुणवचनस्येति किम्? कठ्या भावः कठीत्वम्, कठीता ।
<K.5.230> * भस्याढे तद्धिते पुंवद्भावो वक्तव्यः *। हस्तिनीनां समूहो हास्तिकम् । अढ इति किम्? श्यैनेयः । रौहिणेयः । कथमाग्नायी देवताऽस्य आग्नेयः स्थालीपाक इति? कर्तव्योऽत्र यत्नः । <K.5.231>
- ठक्छसोश्च पुंवद्भावो वक्तव्यः *। भवत्याश्छात्त्रा भावत्काः । भवदीयाः ।।
</6-3-35>
क्यङ्मानिनोश्च ।। <6-3-36> ।।
क्यङि परतो मानिनि च स्त्रिया भाषितपुंस्कादनूङ् पुंवद्भवति। <K.5.232> एनी - एतायते । श्येनी - श्येतायते । मानिनि - दर्शनीयमानी अयमस्याः । दर्शनीयमानिनी इयमस्याः ।। मानिनोग्रहणमस्त्र्यर्थम् , असमानाधिकरणार्थं च । इह तु दर्शनीयमात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेणैव सिद्धम् ।।
</6-3-36>
न कोपधायाः ।। <6-3-37> ।।
कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः । मद्रिकाभार्यः । वृजिकाभार्यः । मद्रिकाकल्पा । वृजिकाकल्पा । मद्रिकायते । वृजिकायते । मद्रिकामानिनी । वृजिकामानिनी । विलेपिकाया धर्म्यं वैलेपिकम् । <K.5.233>
- कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम् *। इह मा भूत् - पाकभार्यः , भेकभार्यः इति ।।
</6-3-37>
संज्ञापूरण्योश्च ।। <6-3-38> ।।
<K.5.234>
संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति । दत्ताभार्यः । गुप्ताभार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्तामानिनी । पूरण्याः - पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमीपाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ।।
</6-3-38>
वृद्धिनित्तस्य च तद्धितस्यारक्तविकारे ।। <6-3-39> ।।
न इति वर्तते । वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः, स यदि रक्तेऽर्थे विकारे च न विहितः , तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति । स्रौघ्नीभार्यः । माथुरीभार्यः । स्रौघ्नीपाशा । माथुरीपाशा । स्रौघ्नीयते । <K.5.235> माथुरीयते । स्रौघ्नीमानिनी । माथुरीमानिनी । वृद्धिनिमित्तस्येति किम्? मध्यमभार्यः । तद्धितस्येति किम्? काण्डलावभार्यः । बहुव्रीहिपरिग्रहः किमर्थः ? तावद्भार्यः । यावद्भार्यः । अरक्तविकार इति किम्? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईषा यस्य
रथस्य स लौहेषः। खादिरेषः ।।
</6-3-39>
<K.5.236>
स्वाङ्गाच्चेतोऽमानिनि ।। <6-3-40> ।।
स्वाङ्गादुत्तरो य ईकारस्तदन्तायाः स्त्रिया न पुंवद्भवति अमानिनि परतः । दीर्घकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते । श्लक्ष्णकेशीयते । स्वाङ्गादिति किम्? पटुभार्यः । ईत इति किम्? अकेशभार्यः । अमानिनीति किम्? दीर्घकेशमानिनी ।।
</6-3-40>
जातेश्च ।। <6-3-41> ।।
जातेश्च स्त्रिया न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृचीभार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनीत्येव - कठमानिनी । बह्वृचमानिनी । अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य नेष्यते । हस्तिनीनां समूहो हास्तिकम् ।।
</6-3-41>
पुंवत्कर्मधारयजातीयदेशीयेषु ।। <6-3-42> ।।
<K.5.237>
कर्मधारये समासे जातीय, देशीय - इत्येतयोश्च प्रत्यययोर्भाषितपुंस्कादनूङ् स्त्रियाः पुंवद्भवति । प्रतिषेधार्थोऽयमारम्भः । न कोपधायाः इत्युक्तम्, तत्रापि भवति । पाचकवृन्दारिका । पाचकजातीया पाचकदेशीया । संज्ञापूरण्योश्च इत्युक्तम्, तत्रापि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः - पञ्चमवृवन्दारिका । पञ्चमजातीया । पञ्चमदेशीया। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे इत्युक्तम् , तत्रापि भवति । स्रौघ्नजातीया । स्रौघ्नदेशीया । स्वाङ्गाच्छेतोऽमानिनि इत्युक्तम्, तत्रापि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजातीया । श्लक्ष्णमुखदेशीया । जातेश्च इत्युक्तम्, तत्रापि भवति । कठवृन्दारिका । कठजातीया। कठदेशीया । भाषितपुंस्कादित्येव - खट्वावृन्दारिका । अनूङित्येव - ब्रह्मबन्धूवृन्दारिका ।।
<K.5.238>
- कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः *। कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृग्याः क्षीरं मृगक्षीरम् । काक्याः शावः काकशावः । न वाऽस्रीपूर्वपदस्य विवक्षितत्वात्। स्रीत्वेन विना पूर्वपदार्थोऽत्र जातिः सामान्येन विवक्षितः । <K.5.239> पुंवद्भावाद् ह्रस्वत्वं खिद्घादिषु भवति विप्रतिषेधेन । खित् - कालिम्मन्या । हरिणिम्मन्या । घादि - पट्वितरा । पट्वितमा । पट्विरूपा । पट्विकल्पा । क- पट्विका । मृद्विका । इहेडबिड् , दरद् , पृथु, उशिजित्येते जनपदशब्दाः क्षत्त्रियवचनाः । तत्र तद्राजप्रत्ययस्च स्रियाम् अतश्च इति लुकि कृते इडबिट्वृन्दारिका <K.5.240> इति विगृह्य समासः क्रियते । ततः पुंवद्भावेन ऐडबिडादयः पुंशब्दाः क्रियन्ते । ऐडबिडवृन्दारिका । औशिजवृन्दारिका । दारदवृन्दारिका । पार्थवृन्दारिका ।
</6-3-42>
घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ।। <6-3-43> ।।
घ, रूप, कल्प, चेलट्, ब्रुव, गोत्र, मत, हत - इत्येतेषु परतो भाषितपुंस्कात् परो यो ङीप्रत्ययस्तंदन्तस्यानेकाचो ह्रस्वो भवति । घ - ब्राह्मणितरा, ब्राह्मणितमा । रूप - ब्राह्मणिरूपा । कल्प - ब्राह्मणिकल्पा । चेलट् - ब्राह्मणिचेली । ब्रुव - ब्राह्मणिब्रुवा । गोत्र - ब्राह्मणिगोत्रा । मत - ब्राह्मणिमता । हत - ब्राह्मणिहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि । ब्रुव इति - ब्रवीतीति ब्रुवः पचाद्यचि , वच्यादेशे गुणश्च निपातनान्न भवति । <K.5.241> ङ्य इति किम् दत्तातरा । गुप्तातरा । अनेकाच इति किम्? नद्याः शेषस्यान्यतरस्याम् इति वक्ष्यति । भाषितपुंस्कादित्येव - आमलकीतरा । कुवलीतरा ।।
</6-3-43>
नद्याः शेषस्यान्यतरस्याम् ।। <6-3-44> ।।
नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश्च शेषः? अङी च या नदी ङ्यन्तं च यदेकाच् । ब्रह्मबन्धूतरा, ब्रह्मबन्धुतरा । <K.5.242> वीरबन्धूतरा, वीरबन्धुतरा । स्त्रितरा, स्त्रीतरा । स्त्रितमा । स्त्रीतमा ।
- कृन्नद्याः प्रतिषेधो वक्तव्यः *। लक्ष्मीतरा । तन्त्रीतरा ।।
</6-3-44>
उगितश्च ।।<6-3-45> ।।
उगितश्च परस्या नद्या घादिषु अन्यतरस्यां ह्रस्वो भवति । श्रेयसितरा , श्रेयसीतरा, श्रेयस्तरा । विदुषितरा, विदुषीतरा विद्वत्तरा । <K.5.243> पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः । प्रकर्षयोगात्प्राक् स्त्रीत्वस्याविवक्षितत्वाद्वा सिद्धम् ।।
</6-3-45>
आन्महतः समानाधिकरणजातीययोः ।। <6-3-46> ।।
समानाधिकरण उत्तरपदे जातीये च प्रत्यये परतो महत आकारादेशो भवति । महादेवः । महाब्राह्मणः । महाबाहुः । महाबलः । जातीये - महाजातीयः । समानाधिकरणजातीययोरिति किम्? महतः पुत्रो महत्पुत्रः। लक्षणोक्तत्वादेवात्र न भविष्यतीति चेद् बहुव्रीहावपि न स्याद् महाबाहुः इति । <K.5.244> तदर्थं समानाधिकरणग्रहणं वक्तव्यम् । अमहान् महान् सम्पन्नो महद्भूतः चन्द्रमाः - इत्यत्र गौणत्वान्महदर्थस्य न भवत्यात्त्वम् ।
<K.5.247> * महदात्त्वे घासकरविशिष्टेषूपसंख्यानं पुंवद्वचनं चासमानाधिकरणार्थम् *। <K.5.248> महत्या घासः महाघासः । महत्याः करः महाकरः । महत्या विशिष्टः महाविशिष्टः ।
- अष्टनः कपाले हविष्युपसंख्यानम् *। अष्टाकपालं चरुं निर्वपेत् । हविषीति किम्? अष्टकपालं ब्राह्मणस्य ।
- गवि च युक्तेऽष्टन उपसंख्यानं कर्त्तव्यम् *। अष्टागवेन शकटेन । युक्त इति किम्? अष्टगवं ब्राह्मणस्य । <K.5.249> तपरकरणं विस्पष्टार्थम् ।।
</6-3-46>
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।। <6-3-47> ।।
द्वि, अष्टन् - इत्येतयोराकारादेशो भवति संख्यायामुत्तरपदे अबहुव्रीह्यशीत्योः । द्वादश । द्वाविंशतिः । द्वात्रिंशत् । अष्टादशः। अष्टाविंशतिः । अष्टात्रिंशत् । द्व्यष्टन इति किम्? पञ्चदश । संख्यायामिति किम्? द्वैमातुरः । आष्टमातुरः । अबहुव्रीह्यशीत्योरिति किम्? द्वित्राः । द्विदशाः । द्व्यशीतिः ।।
<K.5.250> * प्राक् शतादिति वक्तव्यम् *। इह मा भूत् - द्विशतम् । द्विसहस्रम् । अष्टशतम् । अष्टसहस्रम् ।।
</6-3-47>
त्रेस्त्रयः ।। <6-3-48> ।।
त्रि इत्येतस्य त्रयस् इत्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । संख्यायाम् इत्येव - त्रैमातुरः । अबहुव्रीह्यशीत्योः इत्येव - त्रिदशाः । त्र्यशीतिः । प्राक् शतात् इत्येव - त्रिशतम् । त्रिसहस्रम् ।।
</6-3-48>
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।। <6-3-49> ।।
चत्वारिंशत्प्रभृतौ सङ्ख्यायामुत्तरपदेऽबहुव्रीह्यशीत्योः सर्वेषां <K.5.251> द्व्यष्टन् , त्रि - इत्येतेषां यदुक्तं तद्विभाषा भवति । द्विचत्वारिंशत् , द्वाचत्वारिंशत् । त्रिपञ्चाशत् , त्रयः पञ्चाशत् । अष्टपञ्चाशत् , अष्टापञ्चाशत् । सर्वेषाम् - ग्रहणं त्रयाणामपि यथा स्यात् । प्राक् शतादित्येव - द्विशतम् । अष्टशतम् ।
त्रिशतम् ।।
</6-3-49>
हृदयस्य हृल्लेखयदण्लासेषु ।। <6-3-50> ।।
हृदयस्य हृत् इत्ययमादेशो भवति लेख, यत् , अण् , लास - इत्येतेषु परतः । हृदयं लिखतीति हृल्लेखः । यत् - हृदयस्य प्रियं हृद्यम् । अण् - हृदयस्येदं हार्दम् । लास - हृदयस्य लासो हृल्लासः । लेख इत्यणन्तस्य ग्रहणमिष्ये । घञि तु - हृदयस्य लेखो हृदयलेखः । <K.5.252> एतदेव लेखग्रहणं ज्ञापकम् - उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्ताग्रहणस्य ।।
</6-3-50>
वा शोकष्यञ्रोगेषु ।। <6-3-51> ।।
शोक, ष्यञ् , रोग - इत्येतेषु परतो हृदयस्य वा हृत् इत्ययमादेशो भवति । हृच्छोकः हृदयशोकः । ष्यञ् - सौहार्द्यम् , सौहृदय्यम् । ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च इत्युभयपदवृद्धिः । रोगे - हृद्रोगः , हृदयरोगः । हृदयशब्देन समानार्थो हृत् - शब्दः प्रकृत्यन्तरमस्ति, तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम् ।।
</6-3-51>
पादस्य पदाज्यातिगोपहतेषु ।। <6-3-52> ।।
पादस्य पद इत्ययमादेशो भवति आजि, आति, ग, उपहत - इत्येतेषूत्तरपदेषु पादाभ्यामजतीति पदाजिः । पादाभ्यामततीति पदातिः । `अज्यतिभ्यां, पादे च इत्यौणादिक इण्प्रत्ययः । तत्राजेर्वीभावो न <K.5.253> भवति, अत एव निपातनात् । पादाभ्यां गच्छतीति पदगः । पादेनोपहतः पदोपहतः । पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेश उपदेश एवान्तोदात्तो निपात्यते । तेन पदोपहत इति तृतीया कर्मणि इति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तत्वं भवति । पदाजिः, पदातिः, पदगः - इत्येतेषु कृत्स्वरेण समासस्यैवान्तोदात्तत्वम् ।।
</6-3-52>
<K.5.254>
पद्यत्यतदर्थे ।। <6-3-53> ।।
यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे । पादौ विध्यन्ति पद्याः शर्कराः । पद्याः कण्टकाः । अतदर्थ इति किम्? पादार्थमुदकं पाद्यम् ।
- पद्भावे इके चरतावुपसङ्ख्यानम् *। पादाभ्यां चरति पदिकः । पर्पादिभ्यः ष्ठन् इति पादशब्दात् ष्ठन्प्रत्ययः । शरीरावयववचनस्य पादशब्दस्य ग्रहणमिहेष्यते, तेन पणपादमाषशताद्यद् इत्यत्र पदादेशो न भवति । द्विपाद्यम् । त्रिपाद्यम् ।।
</6-3-53>
<K.5.255>
हिमकाषिहतिषु च ।। <6-3-54> ।।
हिम, काषिन्, हति - इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति । हिम - पद्धिमम् । काषिन् - अथ पत्काषिणः यान्ति । हति - पद्धतिः ।।
</6-3-54>
ऋचः शे ।। <6-3-55> ।।
ऋवसम्बन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति । पच्छः गायत्रीं शंसति । पादंपादं शंसतीति संख्यैकवचनाच्च वीप्सायाम् इति शस्प्रत्ययः । ऋच इति किम्? पादशः कार्षापणं ददाति इति ।।
</6-3-55>
<K.5.256>
वा घोषमिश्रशब्देषु ।। <6-3-56> ।।
घोष, मिश्र, शब्द - इत्येतेषु चोत्तरपदेषु पादस्य वा पद् इत्ययमादेशो भवति । पद्घोषः , पादघोषः । पन्मिश्रः , पादमिश्रः । पच्छब्दः, पादशब्दः ।
- निष्के चेति वक्तव्यम् *। पन्निष्कः , पादनिष्कः ।।
</6-3-56>
उदकस्योदः संज्ञायाम् ।। <6-3-57> ।।
उदकशब्दस्य संज्ञायां विषये उद - इत्ययमादेशो भवति उत्तरपदे परतः । उदमेघः नाम यस्य औदमेघिः पुत्रः । उदवाहः नाम यस्य औदवाहिः पुत्रः । संज्ञायामिति किम्? उदकगिरिः । <K.5.257> * संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम् *। लोहितोदः । नीलोदः । क्षीरोदः ।।
</6-3-57>
पेषंवासवाहनधिषु च ।। <6-3-58> ।।
पेषं, वास, वाहन, धि, - इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति । उदपेषं पिनष्टि । स्नेहने पिषः इति णमुल् । वास - उदकस्य वास उदवासः । वाहन - उदकस्य वाहन उदवाहनः । धि - उदकं धीयतेऽस्मिन्निति उदधिः ।।
</6-3-58>
एकहलादौ पूरयितव्येऽन्यतरस्याम् ।। <6-3-59> ।।
<K.5.258>
उदकस्योदः इति वर्त्तते । एकः - असहायः तुल्यजातीयेनानन्तरेण हलादिना । हल् आदिर्यस्योत्तरपदस्य तदेकहलादिः, तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति । उदकुम्भः , उदककुम्भः । उदपात्रम् । उदकपात्रम् । एकहलादाविति किम्? उदकस्थालम् । पूरयितव्य इति किम् ? उदकपर्वतः ।।
</6-3-59>
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।। <6-3-60> ।।
<K.5.259>
मन्थ, ओदन, सक्तु, बिन्दु, वज्र, भार, हार, वीवध, गाह - इत्येतेषूत्तरपदेषूदकस्य उद इत्ययमादेशो भवति अन्यतरस्याम् । उदकेन मन्थ उदमन्थः , उदकमन्थः । ओदन - उदकेनौदनः उदौदनः , उदकौदनः । सक्तु -- उदकेन सक्तुः उदसक्तुः, उदकसक्तुः । बिन्दु - उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र - उदकस्य वज्रः उदवज्रः, उदकवज्रः । भार - उदकं बिभर्तीति उदभारः, उदकभारः । हार - उदकं हरतीति उदहारः , उदकहारः । वीवध - उदकस्य वीवधः, उदवीवधः, उदकवीवधः। गाह - उदकं गाहत इति उदगाहः, उदकगाहः ।।
</6-3-60>
इको ह्रस्वोऽङ्यो गालवस्य ।।<6-3-61> ।।
इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतरस्याम् । ग्रामणिपुत्रः, ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः, ब्रह्मबन्धूपुत्रः। इक इति किम्? खट्वापादः। मालापादः। अङ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः।
<K.5.260> गालवग्रहणं पूजार्थम्, अन्यतरस्याम् इति हि वर्तते । व्यवस्थितविभाषा चेयम् । तेनेह न भवति - कारीषगन्धीपुत्रः इति । इयङुवङ्भाविनामव्ययानां च न भवति - श्रीकुलम् , भ्रूकुलम् । काण्डीभूतम्, वृषलीभूतम् । भ्रुकुंसादीनां तु भवत्येव - भ्रुकुंसः, भ्रुकुटिः। अपर आह -
*भ्रुकुंसादीनामकारो भवतीति वक्तव्यम् *। भ्रकुंसः । भ्रकुटिः ।।
</6-3-61>
<K.5.261>
एक तद्धिते च ।। <6-3-62> ।।
एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतम् एकरूप्यम् । एकमयम् । एकस्या भाव एकत्वम् । एकता । उत्तरपदे- एकस्याः क्षीरम् एकक्षीरम् । एकदुग्धम् । लिङ्गविशिष्टस्य ग्रहणमेकशब्दह्रस्वत्वं प्रयोजयति । अचा हि <K.5.262> गृह्यमाणमत्र विशेष्यते , न पुनरच् गृह्यमाणेनेति ।।
</6-3-62>
ङ्यापोः संज्ञाछन्दसोर्बहुलम् ।। <6-3-63> ।।
ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति । ङ्यन्तस्य संज्ञायाम् - रेवतिपुत्रः, रोहिणिपुत्रः, भरणिपुत्रः। न च भवति - नान्दीकरः, नान्दीघोषः, नान्दीविशालः। ङ्यन्तस्य छन्दसि - कुमारिदा प्रफर्विदा । न च भवति - फाल्गुनीपौर्णमासी, जगतीच्छन्दः। <K.5.263> आबन्तस्य संज्ञायाम् - शिलवहम्, शिलप्रस्थम् । न च भवति - लोमकागृहम् । लोमकाषण्डम् । आबन्तस्य छन्दसि - अजक्षीरेण जुहोति, ऊर्णमृदा पृथिवी दक्षिणावत। न च भवति - ऊर्णासूत्रेण कवयो वयन्ति ।।
</6-3-63>
त्वे च ।। <6-3-64> ।।
त्वप्रत्यये परतो ङ्यावोर्बहुलं ह्रस्वो भवति । तदजाया भावः अजत्वम् । आजात्वम् । तद्रोहिण्या भावो रोहिणित्वम् । रोहिणीत्वम् । संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति ।।
</6-3-64>
इष्टकेषीकामालानां चिततूलभारिषु ।। <6-3-65> ।।
इष्टकेषीकामालानां चित, तूल, भारिन् - इत्येतेषूत्तरपदेषु यथा संख्यं ह्रस्वो भवति । इष्टकचितम् । इषीकतूलम् । मालभारिणी कन्या । <K.5.264> इष्टकादिभ्यस्तदन्तस्यापि ग्रहणं भवति । पक्वेष्टकचितम् । मुञ्जेषीकतूलम् । उत्पलमालभारिणी कन्या ।।
</6-3-65>
खित्यनव्ययस्य ।। <6-3-66> ।।
खिदन्त उत्तरपदेऽनव्ययस्य ह्रस्वो भवति । कालिम्मन्या । हरिणिम्मन्या । मुमा ह्रस्वो न बाध्यते अन्यथा हि ह्रस्वशासनमनर्थकं स्यात् । अनव्ययस्येति किम्? दोषामन्यमहः । दिवामन्या रात्रिः। अनव्ययस्य इत्येतदेव ज्ञापकमिह खिदन्तग्रहणस्य ।।
</6-3-66>
अरुर्द्विषदजन्तस्य मुम् ।। <6-3-67> ।।
अरुस्, द्विषत् - इत्येतयोरजन्तानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य । अरुन्तुदः । द्विषन्तपः । अजन्तानाम् - कालिम्मन्या। अरुर्द्विषदजन्तस्येति किम्? विद्वन्मन्यः । अनव्ययस्येत्येव - दोषामन्यमहः । दिवामन्या रात्रिः । अन्तग्रहणं किम्? कृताजन्तकार्यप्रतिपत्त्यर्थम् । अतो ह्रस्वे कृते मुम्भवति ।।
</6-3-67>
इच एकाचोऽम्प्रतत्ययवच्च ।। <6-3-68> ।।
इजन्तस्य एकाचः खिदन्ते उत्तरपदेऽमागमो भवति, अम्प्रत्ययवच्च द्वितीयैकवचनवच्च स भवति । अमिति हि द्विरावर्तते । गाम्मन्यः । स्त्रीम्मन्यः , स्त्रियम्मन्यः । नरम्मन्यः । श्रियम्मन्यः । भ्रुवम्मन्यः । अम्प्रत्ययवच्च - इत्यतिदेशादात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति । इच इति किम्? त्वङ्मन्यः । एकाच इति किम्? लेखाभ्रुम्मन्यः । अथेह कथं भवितव्यम् - श्रियमात्मानं ब्राह्मणकुलं मन्यत इत्युपक्रम्य श्रिमन्यमिति भवितव्यम् इति भाष्ये स्थितम् । तत्रेदं भाष्यकारस्य दर्शनम् - अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा - प्रष्ठादयः स्त्रियाम् । तत्र स्वमोर्नपुंसकात्(7-1-26/319) इत्यमो लुग्भवति ।।
</6-3-68>
<K.5.270>
वाचंयमपुरन्दरौ च ।। <6-3-69> ।।
वाचंयम, पुरन्दर - इत्येतौ निपात्येते । वाचंयम आस्ते । पुरं दारयतीति पुरन्दरः ।।
</6-3-69>
कारे सत्यागदस्य ।। <6-3-70> ।।
कारशब्द उत्तरपदे सत्य, अगद - इत्येतयोर्मुमागमो भवति । सत्यं करोतीति, सत्यस्य वा कारः सत्यङ्कारः । एवम् - अगदङ्कारः ।
- अस्तुसत्यागदस्य कार इति वक्तव्यम् *। अस्तुङ्कारः ।
- भक्षस्य छन्दसि कारे मुम् वक्तव्यः *। भक्षं करोतीति, भक्षस्य वा कारः भक्षङ्कारः । छन्दसीति किम्? भक्षकारः ।
- धेनोर्भव्यायां मुम्वक्तव्यः *। धेनुम्भव्या ।
<K.5.271> * लोकस्य पृणे मुम्वक्तव्यः *लोकम्पृणः।
- इत्येऽनभ्याशस्य मुम्वक्तव्यः *। अनभ्याशमित्यः ।
- भ्राष्ट्राग्न्योरिन्धे मुम्वक्तव्यः *। भ्राष्ट्रमिन्धः । अग्निमिन्धः ।
- गिलेऽगिलस्य मुम्वक्तव्यः *। तिमिङ्गिलः । अगिलस्येति किम्? गिलगिलः ।
- गिलगिले चेति वक्तव्यम् *। तिमिङ्गिलगिलः ।
- उष्णभद्रयोः करणे मुम्वक्तव्यः *। उष्णङ्करणम् । भद्रङ्करणम् ।
<K.5.272> * सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः *। सूतपुत्री । सूतदुहिता । उग्रपुत्री । उग्रदुहिता । राजपुत्री । राजदुहिता । भोजपुत्री । भोजदुहिता । मेरुपुत्री । मेरुदुहिता । केचित्तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति , तस्य पुत्रीति भवति । अन्यत्रापि हि दृश्यते - शैलपुत्री इति ।।
</6-3-70>
श्येनतिलस्य पाते ञे ।। <6-3-71> ।।
श्येन, तिल - इत्येतयोः पातशब्द उत्तरपदे ञप्रत्यये परे मुमागमो भवति । श्येनपातोऽस्यां क्रीडायाम् श्यैनम्पाता मृगया । तैलम्पाता । ञ इति किम् ? श्येनपातः ।।
</6-3-71>
<K.5.273>
रात्रेः कृति विभाषा ।। <6-3-72> ।।
रात्रेः कृदन्ते उत्तरपदे विभाषा मुमागमो भवति । रात्रिञ्चरः , रात्रिचरः । रात्रिमटः, रात्र्यटः। अप्राप्तविभाषेयम् । खिति हि नित्यं मुम् भवति - रात्रिम्मन्यः ।।
</6-3-72>
<K.5.274>
नलोपो नञः ।। <6-3-73> ।।
नञो नकारस्य लोपो भवत्युत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः । असोमपः ।
- नञो नलोपेऽवक्षेपे तिङ्युपसंख्यानं कर्तव्यम् *। अ पचसि त्वं जाल्म । अ करोषि त्वं जाल्म ।।
</6-3-73>
<K.5.275>
तस्मान्नुडचि ।। <6-3-74> ।।
तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादावुत्तरपदे । अनजः । अनश्वः । तस्मादिति किम्? नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वादचि ङमुण्नित्यम् इति ङमुट् प्राप्नोति ।।
</6-3-74>
<K.5.276>
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ।। <6-3-75> ।।
नभ्राट्, नपात्, नवेदाः, नासत्याः, नमुचि, नकुल, नख, नपुंसक, नक्षत्र, नक्र, नाक - इत्येतेषु नञ् प्रकृत्या भवति । न भ्राजत इति नभ्राट् - भ्राजतेः क्विबन्तस्य नञ्समासः । नपातीति नपात् - पातिः शत्रन्तः । न वेत्तीति नवेदाः - वेत्तिरसुन्प्रत्ययान्तः । नासत्याः - सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्याः नासत्याः । न मुञ्चतीति नमुचिः - मुचेरौणादिकः किप्रत्ययः । नास्य कुलमस्ति <K.5.277> नकुलः । नख - नास्य खमस्तीति नखम् । नपुंसक - न स्त्री न पुमान् नपुंसकम् - स्त्रीपुंसयोः पुंसकभावो निपात्यते । नक्षत्र - न क्षरते क्षीयत इति वा नक्षत्रम् - क्षियः, क्षरतेर्वा क्षत्रमिति निपात्यते । नक्र - न क्रामतीति नक्रः - क्रमेर्डप्रत्ययो निपातनात् । नाक - नास्मिन्नकमस्ति नाकम् ।
</6-3-75>
एकादिश्चैकस्य चादुक् ।। <6-3-76> ।।
एकादिश्च नञ्प्रकृत्या भवति एकशब्दस्य चादुगागमो भवति । एकेन न विंशतिः एकान्नविंशतिः । एकान्नत्रिंशत् । `तृतीया इति योगविभागात्समासः । <K.5.278> पूर्वान्तोऽयमदुक् क्रियते । पदान्तलक्षणोऽत्रानुनासिको विकल्पेन यथा स्याद् इति ।।
</6-3-76>
नगोऽप्राणिष्वन्यतरस्याम् ।। <6-3-77> ।।
नञ्प्रकृत्या भवत्यन्यतरस्याम् । नगाः वृक्षाः, अगाः वृक्षाः । नगाः पर्वताः, अगाः पर्वताः । न गच्छन्तीति नगाः । गमेर्डप्रत्ययः । <K.5.279> अप्रणिष्विति किम्? अगः वृषलः शीतेन ।।
</6-3-77>
सहस्य सः संज्ञायाम् ।। <6-3-78>।।
सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये । साश्वत्थम् । सपलाशम् । सशिंशपम् । संज्ञायामिति किम्? सहयुध्वा । सहकृत्वा । सादेश उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात् । स च निपातस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र, तत्र उपयुज्यते । अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव - सेष्टि, सपशुबन्धम् इति ।।
</6-3-78>
<K.5.280>
ग्रन्थान्ताधिके च ।। <6-3-79> ।।
ग्रन्थान्ते , अधिके च वर्त्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति । सकलं ज्यौतिषमधीते । समुहूर्तम् । ससंग्रहं व्याकरणमधीयते । कलान्तम् , मुहूर्त्तान्तम् , संग्रहान्तमिति अन्तवचने - अव्ययीभावः समासः । तत्र अव्ययीभावे चाकले इति कालवाचिन्युत्तरपदे सभावो न प्रप्नोतीत्ययमारम्भः । <K.5.281> अधिके - सद्रोणा खारी । समाषः कार्षापणः । सकाकिणीकः माषः ।।
</6-3-79>
द्वितीये चानुपाख्ये ।। <6-3-80> ।।
द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः । उपाख्यायते - प्रत्यक्षत उपलभ्यते यः स उपाख्यः, उपाख्यादन्योऽनुपाख्यः - अनुमेयस्तस्मिन् द्वितीयेऽनुपाख्ये सहस्य स इत्ययमादेशो भवति । साग्निः कपोतः ।
सपिशाचा वात्या । सराक्षसीका शाला । अग्न्यादयः साक्षादनुपलभ्यमामाः कपोतादिभिरनुमीयमानास्तदुपाख्या भवन्ति ।।
</6-3-80>
<K.5.282>
अव्ययीभावे चाकाले ।। <6-3-81> ।।
अव्ययीभावे च समासेऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति । सचक्रं धेहि । सधुरं प्राज। अकाल
इति किम्? सहपूर्वाह्णम् ।।
</6-3-81>
वोपसर्जनस्य ।। <6-3-82> ।।
<K.5.283>
उपसर्जनसर्वावयवः समास उपसर्जनम्, यस्य सर्वेऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते । तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति । सपुत्रः । सहपुत्रः । सच्छात्रः । सहच्छात्रः । उपसर्जनस्येति किम्? सहयुध्वा । सहकृत्वा । सहकृत्वप्रियः, प्रियसहकृत्वा इति, इह बहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवतीति सभावो न भवति ।।
</6-3-82>
<K.5.284>
प्रकृत्याशिष्यगोवत्सहलेषु ।। <6-3-83> ।।
प्रकृत्या सहशब्दो भवति आशिषि विषयेऽगोवत्सहलेषु । स्वस्ति देवदत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेष्विति किम्? स्वस्ति भवते सहगवे, सगवे । सहवत्साय, सवत्साय। सहहलाय, सहलाय। वोपसर्जनस्य इति पक्षे भवत्येव सभावः ।।
</6-3-83>
समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु ।। <6-3-84> ।।
सः इति वर्तते । समानस्य स इत्ययमादेशो भवति छन्दसि विषये मूर्द्धन् , प्रभृति, उदर्क - इत्येतान्युत्तरपदानि वर्ज्जयित्वा । अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः। यो नः सनुत्यः। समानो गर्भः सगर्भः तत्र भवः सगर्भ्यः। सगर्भसयूथसनुताद्युत् इति यत्प्रत्ययः । अमूर्धप्रभृत्युदर्केष्विति किम्? समानमूर्धा समानप्रभृतयः । समानोदर्काः । `समानस्य इति योगविभाग इष्टप्रसिध्यर्थः क्रियते । तेन सपक्षः, <K.5.285> साधर्म्यम्, सजातीयः - इत्येवमादयः सिद्धा भवन्ति ।।
</6-3-84>
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ।। <6-3-85>।।
ज्योतिस्, जनपद, रात्रि, नाभि, नामन्, गोत्र, रूप, स्थान, वर्ण, वयस्, वचन, बन्धु - इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति । सज्योतिः । सजनपदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः । सवर्णः । सवयाः । सवचनः । सबन्धुः ।।
</6-3-85>
चरणे ब्रह्मचारिणि ।। <6-3-86> ।।
चरणे गम्यमाने ब्रह्मचारिण्युत्तरपदे समानस्य स इत्ययमादेशो <K.5.286> भवति । समानो ब्रह्मचारी सब्रह्मचारी । ब्रह्म - वेदः , तदध्ययनार्थं यद् व्रतं तदपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानः, तस्यैव ब्रह्मणः समानत्वादित्ययमर्थो भवति । समाने ब्रह्मणि व्रतचारी - सब्रह्मचारी इति ।।
</6-3-86>
तीर्थे ये ।। <6-3-87> ।।
<K.5.287>
तीर्थशब्दे उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययमादेशो भवति । सतीर्थ्यः । समानतीर्थे वासी इति यत्प्रत्ययः ।।
</6-3-87>
विभाषोदरे ।। <6-3-88> ।।
उदरशब्द उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति । सोदर्यः, समानोदर्यः । समानोदरे शयित ओ चोदात्तः इति यत् ।।
</6-3-88>
दृग्दृशवतुषु ।। <6-3-89> ।।
दृक् , दृश, वतु - इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । सदृक् , सदृशः । त्यदादिषु दृशोऽनालोचने कञ्च इत्यत्र `समानान्ययोश्चेति वक्तव्यम् इति कञ्क्विनौ प्रत्ययौ क्रियेते ।
- दृक्षे चेति वक्तव्यम् *। सदृक्षः ।।
<K.5.288> * दृशेः क्सप्रत्ययोऽपि तत्रैव वक्तव्यः *। वतुग्रहणमुत्तरार्थम् ।।
</6-3-89>
इदं किमोरीश्की ।। <6-3-90> ।।
इदम्, किम् - इत्येतयोरीश् , की - इत्येतौ यथासङ्ख्यमादेशौ भवतो दृग्दृशवतुषु । ईदृक्, ईदृशः, इयान्। कीदृक् , कीदृशः , कियान् । किमिदम्भ्यां वो घः इति वतुप् ।
- दृक्षे चेति वक्तव्यम् *। ईदृक्षः । कीदृक्षः ।।
</6-3-90>
आ सर्वनाम्नाः ।। <6-3-91> ।।
सर्वनाम्न आकारादेशो भवति दृग्दृशवतुषु । तादृक्, तादृशः, तावान् । यादृक् , यादृशः, यावान् ।
- द?क्षे चेति वक्तव्यम् *। तादृक्षः । यादृक्षः ।।
</6-3-91>
विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये ।। <6-3-92> ।।
विष्वक् , देव - इत्येतयोः सर्वनाम्नश्च टेः अद्रीत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्त उत्तरपदे । विष्वगञ्चतीति `विष्वद्र्यङ्(ऋ.7-25-1) । देवद्र्यङ् । सर्वनाम्नः - `तद्र्यङ्(तै.सं.5-5-1-2) । `यद्र्यङ्(तै.सं.5-5-1-2) । अद्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । तत्र यणादेशे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य(8-2-4/3657) इत्येष स्वरो भवति । विष्वग्देवयोरिति किम्? अश्वाची । अञ्चताविति किम्? विष्वग्युक् । वप्रत्यय इति किम्? विष्वगञ्चनम् । वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम् । तेनायस्कृतम् , अयस्कार इत्यत्र `अतः कृकमिकंसकुम्भपात्र(8-3-46/160) इति सत्वं भवति ।
- छन्दसि स्त्रियां बहुलमिति वक्तव्यम् *(म.भा.3-172)। `विश्वाची च घृताची च(ऋ.7-43-3,ऋ.1-167-3)इत्यत्र न भवति । `कद्रीची(ऋ.1-164-17)इत्यत्र तु भवत्येव ।।
</6-3-92>
समः समि ।। <6-3-93> ।।
समित्येतस्य समि - इत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे । सम्यक् , सम्यञ्चौ, सम्यञ्चः ।।
</6-3-93>
तिरसस्तिर्यलोपे ।। <6-3-94> ।।
तिरस् इत्येतस्य तिरि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तरपदेऽलोपे - यदाऽस्य लोपो न भवति । तिर्यङ् , तिर्यञ्चौ , तिर्यञ्चः । अलोप इति किम्? तिरश्चा । तिरश्चे । अचः इत्यकारलोपः ।।
</6-3-94>
सहस्य सध्रिः ।। <6-3-95> ।।
सहेत्यस्य सध्रि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्ते उत्तरपदे। सध्र्यङ्, सध्र्यञ्चौ , सध्र्यञ्चः । सध्रीचः । सध्रीचा ।।
</6-3-95>
सध मादस्थयोश्छन्दसि ।। <6-3-96> ।।
छन्दसि विषये माद, स्थ - इत्येतयोरुत्तरपदयोः सहस्य सध - इत्ययमादेशो भवति । `सधमादो द्युम्न्य एकास्ताः(वा.सं.10-7) । `सधस्थाः(तै.सं.5-7-7-1) ।।
</6-3-96>
<K.5.292>
द्व्यन्तरुपसर्गेभ्योऽप ईत् ।। <6-3-97> ।।
द्वि, अन्तर् - इत्येताभ्यामुपसर्गाच्चोत्तरस्याबित्येतस्य ईकारादेशो भवति । द्वीपम् । अन्तरीपम् । उपसर्गात् - समीपम् । वीपम् । नीपम् ।
- समाप ईत्वे प्रतिषेधो वक्तव्यः *(म.भा.3-173)। समापं नाम देवयजनम् । अपर आह -
- ईत्वमनवर्णादिति वक्तव्यम् *(म.भा.3-173)। इह मा भूत् प्रापम् , परापम् । अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपरक्षणार्थम् ।
</6-3-97>
<K.5.293>
ऊदनोर्देशे ।। <6-3-98> ।।
अनोरुत्तरस्याप ऊकारादेशो भवति देशाभिधाने । अनूपो देशः। देश इति किम्? अन्वीपम् । दीर्घोच्चारणमवग्रहार्थम् । अनु ऊपोऽनूप इति ।।
</6-3-98>
अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ।। <6-3-99> ।।
अषष्ठीस्थस्य अतृतीयास्थस्य चान्यशब्दस्य दुगागमो भवति आशिस् , आशा, आस्था , आस्थित, उत्सुक, ऊति , कारक, राग, छ - इत्येतेषु परतः । अन्या आशीः अन्यदाशीः । अन्या आशा अन्यदाशा । <K.5.294> अन्या आस्था अन्यदास्था । अन्य आस्थितः अन्यदास्थितः । अन्य उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यदूतिः । अन्यः कारकः अन्यत्कारकः । अन्यो रागः अन्यद्रागः । अन्यस्मिन् भवः अन्यदीयः । गहादिष्वन्यशब्दो द्रष्टव्यः । अषष्ठ्यतृतीयास्थस्येति किम्? अन्यस्य आशीः अन्याशीः । अन्येन आस्थितः अन्यास्थितः ।।
दुगागमोऽविशेषेण वक्तव्यः कारकच्छयोः ।
षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु ।।
अन्यस्य कारकम् अन्यत्कारकम् । अन्यस्येदम् अन्यदीयम् । अस्य च द्विर्नञ्ग्रहणं लिङ्गम् ।।
</6-3-99>
अर्थे विभाषा ।। <6-3-100> ।।
अर्थशब्दे उत्तरपदे अन्यस्य विभाषा दुगागमो भवति । अन्यदर्थः, अन्यार्थः ।।
</6-3-100>
<K.5.295>
कोः कत्तत्पुरुषेऽचि ।। <6-3-101> ।।
कु इत्येतस्य कदित्ययमादेशो भवति तत्पुरुषे समासेऽजादावुत्तरपदे । कदजः । कदश्वः । कदुष्ट्रः । कदन्नम् । तत्पुरुष इति किम्? कूष्ट्रः राजा । अचीति किम्? कुब्राह्मणः । कुपुरुषः ।
- कद्भावे त्रावुपसंख्यानम् *। कुत्सितास्त्रयः कत्त्रयः ।।
</6-3-101>
रथवदयोश्च ।। <<6-3-102>> ।।
रथ , वद - इत्येतयोश्चोत्तरपदयोः कोः कत् इत्ययमादेशो भवति कद्रथः । कद्वदः ।।
</6-3-102>
तृणे च जातौ ।। <6-3-103> ।।
तृणशब्दे उत्तरपदे जातावभिधेयायां कोः कदादेशो भवति । कत्तृणा नाम जातिः । जाताविति किम्? कुत्सितानि तृणानि कुतृणानि।।
</6-3-103>
का पथ्यक्षयोः ।।<6-3-104> ।।
<K.5.296>
पथिन्, अक्ष - इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति कापथः । काक्षः ।।
</6-3-104>
ईषदर्थे च ।। <6-3-105> ।।
ईषदर्थे वर्त्तमानस्य कोः का इत्ययमादेशो भवति । कामधुरम् । कालवणम् । अजादावपि परत्वात् कादेश एव भवति । काम्लम् । कोष्णम् ।।
</6-3-105>
विभाषा पुरुषे ।। <6-3-106> ।।
पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति । कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति । ईषत्पुरुषः कापुरुषः ।।
</6-3-106>
<K.5.297>
कवञ्चोष्णे ।। <6-3-107> ।।
उष्णशब्द उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा । कवोष्णम् । कोष्णम् । कदुष्णम् ।।
</6-3-107>
पथि चच्छन्दसि ।। <6-3-108> ।।
पथिशब्द उत्तपदे छन्दसि विषये कोः कव, का - इत्येतावादेशौ भवतो विभाषा । कवपथः । कापथः । कुपथः ।।
</6-3-108>
पृषोदरादीनि यथोपदिष्टम् ।। <<6-3-109>> ।।
पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्णविकाराः शास्त्रेण न विहिताः, दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति । यानि यथोपदिष्टानि - शिष्टैरुच्चारितानि, प्रयुक्तानि, तानि तथैवानुगन्तव्यानि । <K.5.298> पृषदुदरं यस्य पृषोदरम् । पृषद् उद्वानं यस्य पृषोद्वानम् । अत्र तकारलोपो भवति । वारिवाहको वलाहकः । पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम् । जीवनस्य मूतः जीमूतः । वनशब्दस्य लोपः । शवानां शयनं श्मशानम् । शवशब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्द आदेशः । ऊर्ध्वं खमस्येति उलूखलम् । ऊर्ध्वंखशब्दयोरुलू - खल - इत्येतावादेशौ भवतः । पिशिताशः पिशाचः । पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ । ब्रुवन्तोऽस्यां सीदन्तीति बृसी। सदेरधिकरणे डट् प्रत्ययः। ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति । मह्यां रौतीति मयूरः । रौतेरचि टिलोपः । महीशब्दस्य <K.5.299> मयूभावः । एवमन्येऽपि अश्वत्थकपित्थप्रभृतयो यथायोगमनुगन्तव्याः ।
- दिक्शब्दस्य उत्तरस्य तीरस्य तारभावो वा भवति *। दक्षिणतीरम् , दक्षिणतारम् । उत्तरतीरम् , उत्तरतारम् ।
- वाचो वादे डत्वं च लभावश्चोत्तरपदस्येञि प्रत्यये भवति *। वाचं वदतीति वाग्वादः । तस्यापत्यं वाड्वालिः ।
- षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति *। षड् दन्ता अस्य षोडन् । षट् च दश च षोडश ।
- धासु वा षष उत्वं भवति उत्तरपदादेश्च ष्टुत्वम् *। षोढा, षड्धा <K.5.300> कुरु । बहुवचननिर्द्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः । इह मा भूत् - षट् दधाति धयति वा ष॰्धा इति ।।
- दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् *। कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः । दूणाशः । दूडभः । दम्भेः खल्वनुनासिकलोपो निपातनात् । दुष्टं ध्यायतीति दूढ्यः । दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे इति कप्रत्ययः ।
- स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम् *। `जाय एहि स्वोरौहाव।
- पीवोपवसनादीनां च लोपो वक्तव्यः *। पीवोपवसनानाम् पयोपवसनानाम् ।।
<K.5.301> वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।
</6-3-109>
संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ ।। <6-3-110> ।।
संख्या , वि, साय इत्येवम्पूर्वस्याह्नशब्दस्य स्थाने अहनित्ययमादेशो भवत्यन्यतरस्यां ङौ परतः । द्वयोरह्नोर्भवः द्व्यह्नः । त्र्यह्नः । द्व्यह्नि, द्व्यहनि, त्र्यह्नि, त्र्यहनि । द्व्यह्ने । त्र्यह्ने । व्यपगतमहो व्यह्नः । व्यह्नि , व्यहनि । व्यह्ने । सायमह्नः सायाह्नः । सायाह्नि , सायाहनि । सायाह्ने । एकदेशिसमासः पूर्वादिभ्योऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम् । तेन मध्यमह्नो मध्याह्न इत्यपि भवति । संख्याविसायपूर्वस्येति किम्? पूर्वाह्णे । अपराह्णे ।।
</6-3-110>
ढ्रलोपे पूर्वस्य दीर्घोऽणः ।।<6-3-111>।।
ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोपः, तत्र पूर्वस्याणो दीर्घो भवति । लीढम् । मीढम् । उपगूढम् । मूढः । रलोपे - नीरक्तम् । अग्नीरथः । इन्दूरथः । पुनारक्तं वासः । प्राताराजक्रयः । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । अण इति किम्? आतृढम् , आवृढम् ।।
</6-3-111>
सहिवहोरोदवर्णस्य ।। <6-3-112> ।।
सहि, वहि - इत्येतयोरवर्णस्योकार आदेशो भवति ढ्रलोपे । सोढा, सोढुम् , सोढव्यम् । वोढा, वाढुम्, वोढव्यम् । अवर्णस्येति किम्? ऊढः । ऊढवान् । वर्णग्रहणं किम्? कृतायामपि वृद्धौ यथा स्यात् - उदवोढाम् । उदवोढम् । तादपि परस्तपरः , तपरत्वादाकारस्य ग्रहणं न स्यात् ।।
</6-3-112>
<K.5.306>
साढ्यै साढ्वा साढेति निगमे ।। <6-3-113> ।।
साढ्यै, साढ्वा, साढा - इति निगमे निपात्यन्ते । `साढ्यै समन्तात्(मै.सं.1-6-31) । `साढ्वा शत्रून्(मै.सं.3-8-5) । सहेः क्त्वाप्रत्यये ओत्वाभावः । पक्षे क्त्वाप्रत्ययश्च ध्यैभावः । साढा - इदि तृचि रूपमेतत् । निगम इति किम्? सोढ्वा, सोढेति भाषायाम् ।।
</6-3-113>
संहितायाम् ।। <6-3-114> ।।
संहितायाम् इत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः संहितायामित्येवं तद्वेदितव्यम् । वक्ष्यति - द्व्यचोऽतस्तिङः इति । `विद्मा हि त्वा सत्पतिं शूर गोनाम्। संहितायामिति किम्? विद्म, हि, त्वा, सत्पतिं, शूर, गोनाम् ।।
</6-3-114>
<K.5.307>
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ।। <6-3-115> ।।
कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट, अष्टन्, पञ्चन् , मणि, भिन्न, छिन्न , छिद्र, स्रुव, स्वस्तिक - इत्येतान्वर्जयित्वा । दात्राकर्णः । द्विगुणाकर्णः । त्रिगुणाकर्णः । द्व्यङ्गुलाकर्णः । अङ्गुलाकर्णः । यत्पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते । <K.5.308> लक्षणस्येति किम्? शोभनकर्णः । अविष्टादीनामिति किम्? विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ।।
</6-3-115>
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।। <6-3-116> ।।
नहि, वृति, वृषि, व्यधि, रुचि, सहि, तनि - इत्येतेषु क्विप्रत्ययान्तेषूत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये । नहि - उपानत् , परीणत् । वृति - नीवृत् , उपावृत् । वृषि - प्रावृट् , उपावृट् । व्यधि - मर्मावित् , हृदयावित्, श्वावित् । रुचि - नीरुक् , अभीरुक् । सहि - ऋतीषट् । तनि - तरीतत् । गमः क्वौ इति गमादीनामिष्यते । ततस्तनोतेरप्यनुनासिकलोपः । क्वाविति किम्? परिणहनम् ।।
</6-3-116>
<K.5.309>
वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम् ।। <6-3-117> ।।
वन, गिरि - इत्येतयोरुत्तरपदयोर्यथासंख्यं कोटरादीनां किंशुलुकादीनां च दीर्घो भवति संज्ञायां विषये । वने कोटरादीनाम् - कोटरावणम् , मिश्रकावणम् , सिध्रकावणम् , सारिकावणम् । गिरौ किंशुलुकादीनाम् - किंशुलुकागिरिः । अञ्जनागिरिः । कोटरकिंशुलुकादीनामिति किम्? असिपत्रवनम् । कृष्णगिरिः । कोटर । मिश्रक । पुरक । सिध्रक । सारिक । कोटरादिः । किंशुलक । शाल्वक । अञ्जन । भञ्जन । लोहित । कुक्कुट । किंशुलुकादिः ।।
</6-3-117>
वले ।। <6-3-118> ।।
वले परतः पूर्वस्य दीर्घो भवति । आसुतीवलः । कृषीवलः । दन्तावलः । रजः कृष्यासुतिपरिषदो वलच् इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम् । अनुत्साहभ्रातृपितॄणामित्येव । उत्साहवलः । भ्रातृवलः ।। पितृवलः ।।
</6-3-118>
<K.5.310>
मतौ बह्वचोऽनजिरादीनाम् ।। <6-3-119> ।।
मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये । उदुम्बरावती । मशकावती । वीरणावती । पुष्करावती । अमरावती । नद्यां मतुप् इति मतुप्प्रत्ययः । संज्ञायाम् इति मतोर्वत्वम् । बह्वच इति किम्? व्रीहिमती । अनजिरादीनामिति किम्? अजिरवती । खदिरवती । पुलिनवती । हंसकारण्डवती । चक्रवाकवती । संज्ञायाम् इत्येव - वलयवती ।।
</6-3-119>
शरादीनां च ।। <6-3-120> ।।
शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये । शरावती । वंशावती । शर। वंश । धूम । अहि । कपि । मणि । मुनि । शुचि । हनु । शरादिः । संज्ञायाम् इति मतोर्वत्वम् । यवादित्वाद् व्रीह्यादिभ्यो न भवति ।।
</6-3-120>
इको वहेऽपीलोः ।। <6-3-121> ।।
<K.5.311>
इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वह उत्तरपदे दीर्घो भवति । ऋषीवहम् । कपीवहम् । मुनीवहम् । इक इति किम्? पिण्डवहम् । अपीलोरिति किम्? पीलुवहम् ।
- अपील्वादीनामित वक्तव्यम् *। इह मा भूत् - दारुवहम्।
</6-3-121>
उपसर्गस्य घञ्यमनुष्ये बहुलम् ।। <6-3-122> ।।
उपसर्गस्य घञन्ते उत्तरपदेऽमनुष्येऽभिधेये बहुलं दीर्घो भवति । वीक्लेदः । वीमार्गः । अपामार्गः । न च भवति - प्रसेवः , प्रसारः ।।
- सादकारयोः कृत्रिमे दीर्घो भवति *। प्रासादः । प्राकारः । कृत्रिम इति किम्? प्रसादः । प्रकारः ।
- वेशादिषु विभाषा दिर्घो भवति *। प्रतिवेशः , प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । अमनुष्य इति किम्? निषादः मनुष्यः ।।
</6-3-122>
<K.5.312>
इकः काशे ।। <6-3-123> ।।
इगन्तस्योपसर्गस्य काशशब्द उत्तरपदे दीर्घो भवति । नीकाशः । वीकाशः । अनूकाशः । पचाद्यजन्तोऽयं काशशब्दः , न तु घञन्तः । इक इति किम्? प्रकाशः ।।
</6-3-123>
दस्ति ।। <6-3-124> ।।
दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परत इगन्तस्योपसर्गस्य दीर्घो भवति । नीत्तम् । वीत्तम् । परीत्तम् । अच उपसर्गात्तः(7-4-47/3078) इत्यन्तस्य <K.5.313> यद्यपि तकारः क्रियते, तथापि चर्त्वस्याश्रयात्सिद्धत्वमिति तकारादिर्भवति । इक इत्येव - प्रत्तम् , अवत्तम् । द इति किम्? वितीर्णम् । नितीर्णम् । तीति किम्? सुदत्तम् ।।
</6-3-124>
अष्टनः संज्ञायाम् ।। <6-3-125> ।।
अष्टन् - इत्येतस्योत्तरपदे संज्ञायां दीर्घो भवति । अष्टावक्रः । अष्टाबन्धुरः । अष्टापदम् । संज्ञायामिति किम्? अष्टपुत्रः । अष्टभार्यः ।।
</6-3-125>
छन्दसि च ।। <6-3-126> ।।
छन्दसि विषयेऽष्टन उत्तरपदे दीर्घो भवति । `आग्नेयमष्टाकपालं <K.5.314> निर्वपेत्(मै.सं.1-2-7) । <K.5.314> अष्टाहिरण्या दिक्षिणा । अष्टापदी देवता सुमती । अष्टौ पादावस्या इति बहुव्रीहौ पादस्य लौपे कृते पादोऽन्यतरस्याम्(4-1-8/457) इति ङीप् ।
- गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्तव्यम् *(म.भा.3-177)। अष्टागवं शकटम् ।।
</6-3-126>
चितेः कपि ।। <6-3-127> ।।
चितिशब्दस्य कपि परतो दीर्घो भवति । एकचितीकः । द्विचितीकः । त्रिचितीकः ।।
</6-3-127>
विश्वस्य वसुराटोः ।। <6-3-128> ।।
विश्वशब्दस्य वसु, राट् - इत्येतयोरुत्तरपदयोर्दीर्घ आदेशो भवति । विश्वावसुः । विश्वाराट् । राडिति विकारनिर्देशः - यत्रास्यैतद्रूपं तत्रैव यथा स्यात् । इह न भवति - विश्वराजौ । विश्वराजः ।।
</6-3-128>
<K.5.315>
नरे संज्ञायाम् ।। <6-3-129> ।।
नरशब्द उत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति । विश्वानरः नाम यस्य वैश्वानरिः पुत्रः । संज्ञायामिति किम्? विश्वे नरा यस्य स विश्वनरः ।।
</6-3-129>
मित्रे चर्षौ ।। <6-3-130> ।।
मित्रे चोत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति । विश्वामित्रः नाम ऋषिः । ऋषाविति किम्? विश्वमित्रो माणवकः ।।
</6-3-130>
मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ।। <6-3-131> ।।
मन्त्रविषये सोम, अश्व, इन्द्रिय, विश्वदेव्य - इत्येतेषां मतुप्प्रत्यये परतो दीर्घो भवति । `सोमावती(ऋ.10-97-7) । `अश्वावती(ऋ.10-97-7) । `इन्द्रियावती(तै.सं.2-4-2-1) । `विश्वदेव्यावती(तै.सं.4-1-6-1) ।।
</6-3-131>
ओषधेश्च विभक्तावप्रथमायाम् ।। <6-3-132> ।।
मन्त्रे इति वर्तते । ओषधिशब्दस्य विभक्तावप्रथमायां परतो दीर्घो भवति । ओषधीभिरपीतत् । `नमः पृथिव्यै नम ओषधीभ्यः(तै.आ.2-12-1) । विभक्ताविति किम्? ओषधिपते । अप्रथमायामिति किम्? स्थिरेयमस्त्वोषधिः ।।
</6-3-132>
ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ।। <6-3-133> ।।
ऋचि विषये तु, नु, घ, मक्षु, तङ् , कुत्र, उरुष्य - इत्येषां दीर्घो भवति । `आ तू न इन्द्र वृत्रहन्(वा.सं.3-65) । नु - नू करणे । घ- `उत वा घा स्यालात्(ऋ.1-109-2) । मक्षु - `मक्षू गोमन्तमीमहे(ऋ.8-33-3) तङ् -`भरता जातवेदसम्(ऋ10-176-2) । तङिति थादेशस्य ङित्त्वपक्षे ग्रहणम् , तेनेह न भवति - `श्रृणोत ग्रावाणः(तै.सं.1-3-13-3) । कृ - कूमनः। त्र - अत्रा गौः । उरुष्य - `उरुष्या णोऽग्नेः(ऋ.1-91-15) ।।
</6-3-133>
इकः सुञि ।। <6-3-134> ।।
सुञ् निपातो गृह्यते । इगन्तस्य सुञि परतो गन्त्रविषये दीर्घो भवति । `अभी षु णः सखीनाम्(ऋ.4-31-3) । `उर्ध्व ऊ षु ण ऊतये(ऋ.1-36-13) । सुञः(8-3-107/3644) इति षत्वम् , नश्च धातुस्थोरुषुभ्यः(8-4-27/3649) इति णत्वम् ।।
</6-3-134>
द्व्यचोऽतस्तिङः ।। <6-3-135> ।।
ऋचि इति वर्तते । द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति । `विद्मा हि त्वा सत्पतिं शूर गोनाम्(ऋ.10-47-1) । `विद्मा स तस्य पितरम्(अ.वे.1-2-1) । द्व्यच इति किम्? `अश्वा भरत वाजिनः(वा.सं.9-6) । अत इति किम्? `आ देवान्वक्षि यक्षि च(ऋ.5-26-1) ।।
</6-3-135>
निपातस्य च ।। <6-3-136> ।।
ऋचि इत्येव । निपातस्य च ऋग्विषये दीर्घ आदेशो भवति । `एवा ते(ऋ.10-20-10) । `अच्छा ते(ऋ.1-2-2) ।।
</6-3-136>
अन्येषामपि दृश्यते ।। <6-3-137> ।।
अन्येषामपि दीर्घो दृश्यते स शिष्टप्रयोगादनुगन्तव्यः । यस्य दीर्घत्वं न विहितम् , दृश्यते च प्रयोगे , तदनेन कर्तव्यम् । केशाकेशि । कचाकचि । जलाषाट् । नारकः पूरुषः ।।
- शूनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु *। श्वादन्तः । श्वादंष्ट्रः । श्वाकर्णः। श्वाकुन्दः । श्वावराहः । श्वापुच्छः । श्वापदः ।।
</6-3-137>
चौ ।। <6-3-138> ।।
चौ परतः पूर्वपदस्य दीर्घो भवति । चौ इत्यञ्चतिर्लुप्तनकाराकारो गृह्यते । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य। <K.5.319> मधूचा । मधूचे । अन्तरङ्गोऽपि हि यणादेशो दीर्घविधानसामर्थ्यान्न प्रवर्तते ।।
</6-3-138>
सम्प्रसारणस्य ।। <6-3-139> ।।
उत्तरपदे इति वर्तते । सम्प्रसारणान्तस्य पूर्वपदस्योत्तरपदे दीर्घो भवति । कारीषगन्धीपुत्रः । कारीषगन्धीपतिः । कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । करीषस्येव गन्धोऽस्य, कुमुदस्येव गन्धोऽस्य -
अल्पाख्यायाम्(5-4-136/875) , उपमानाच्च(5-4-137/876) इति इकारः समासान्तः । करीषगन्धेरपत्यं <K.5.320> कारीषगन्ध्या, कुमुदगन्धेरपत्यं कौमुदगन्ध्या, तस्याः पुत्रः कौमुदगन्धीपुत्रः , कौमुदगन्धीपतिः । इको ह्रस्वोङ्यो गालवस्य(6-3-61/999) इत्येतन्न भवति व्यवस्थितविभाषा हि सा । अकृत एव दीर्घत्वे ह्रस्वाभावपक्षे कृतार्थेनापि दीर्घेण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते । पुनः प्रसङ्गविज्ञानं च न भवति , `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितम् एव(व्या.प.40)इति ।।
इति श्रीवामनविरचितायां काशिकावृत्तौ
षष्ठस्याध्यायस्य तृतीयः पादः ।
</6-3-139>