काशिका/षष्ठोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

अथ षष्ठाध्याये चतुर्थः पादः
अङ्गस्य ।। <6-4-1> ।।
अधिकारोऽयमासप्तमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामोऽङ्गस्येत्येवं तद्वेदितव्यम् । वक्ष्यति -हलः(6-4-2/2559) हूतः । जीनः । संवीतः । अड्गस्येति किम्? निरुतम् । दुरुतम् । नामि(6-4-3/209) दीर्घः - अग्नीनाम् । वायूनाम् । अङ्गस्येति किम्? क्रिमिणां पश्य । पामनां पश्य । अतो भिस ऐस्(7-1-9/203) - वृक्षैः । प्लक्षैः । अङ्गस्येति किम्? ब्राह्मणभिस्सा । ओदनभिस्सिटा(म.भा.3-179) । अङ्गधिकारः कृतोऽन्यार्थः नामि -दीर्धत्वाद्यपि व्यवस्थापयतीति तदर्थमर्थवद्‌ग्रहणुपरिभाषा नाश्रयितव्या भवति ।
अङ्गस्येति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेष्ववतिष्ठते । अथ वा - प्रातिपदिकार्थमात्रमविवक्षितविभक्त्यर्थमधिक्रियते । तदुत्तरत्र यथायोगं विपरिणम्यते । ततोऽकारान्तादङ्गाद् भिस ऐसित्येवमाद्यपि सम्यक् सम्पन्नं भवति ।।
</6-4-1>
हलः ।। <6-4-2> ।।
अङ्गावयवाद्धलो यदुत्तरं सम्प्रसारणम् तदन्तस्याङ्गस्य दीर्घो भवति । हूतः । जीनः । संवीतः । हल इति किम्? उतः । उतवान् । अङ्गावयवादिति किम्? निरुतम् । तदन्तस्येति किम्? विद्धः । विचितः । अण इत्येव - तृतीयः। तृतीया(2-3-18/561) इति वा निपातनादत्र दीर्घाभावः । अङ्गग्रहणमावर्तयितव्यम् - हल्विशेषणार्थम् , अङ्गकार्यप्रतिपत्त्यर्थं च ।।
</6-4-2>
नामि ।। <6-4-3> ।।
नाम् इत्येतत्षष्ठीबहुवचनमागतनुट्कं गृह्यते । तस्मिन्परतोऽङ्गस्य दीर्घो भवति । अग्नीनाम् । वायूनाम् । कर्तॄणाम् । अणः इत्येतदत्र निवृत्तम् । आगतनुट्‌कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम् , अन्यथा हि नुडेव न स्यात् ।।
`नामिदीर्घ आमि चेत्स्यात् कृते दीर्घे न नुड् भवेत् ।
वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्म्मणाम् ।।(म.भा.3-182)
</6-4-3>
न तिसृचतसृ ।। <6-4-4> ।।
तिसृ , चतसृ - इत्येतयोर्नामि दीर्घो न भवति । तिसृणाम् । चतसृणाम् । इदमेव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकम् - अचिर ऋतः(7-2-100/2541) इत्येतस्मात्पूर्वविप्रतिषेधेन नुडागमो भवतीति ।
</6-4-4>
 छन्दस्युभयथा ।। <6-4-5> ।।
छन्दसि विषये तिसृचतसृ - इत्येतयोर्नामि परत उभयथा दृश्यतेदीर्घश्च, अदीर्घश्च । तिसॄणांग(मै.सं.4-5-9) मध्यदिने, तिसॄणां(ऋ.5-69-2) मध्यदिने । चतसृणां(काठ.सं.27-9) मध्यदिने, चतसॄणां मध्यं दिने ।।
</6-4-5>
नृ च ।। <6-4-6> ।।
नृ इत्येतस्य नामि परे उभयथा भवति । त्वं `नृणाम्(पै.2-10-4) नृपते, त्वं `नॄणाम्(ऋ.143-7) नृपते । केचिदत्र छन्दसि इति नानुवर्तयन्ति, तेन भाषायामपि विकल्पो भवति ।।
</6-4-6>
नोपधायाः ।। <6-4-7> ।।
नान्तस्याङ्गस्योपधाया नामि परतो दीर्घो भवति । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । न इति किम्? चतुर्णाम् । ना इत्येव - चर्मणाम् ।।
</6-4-7>
सर्वनामस्थाने चासम्बुद्धौ ।। <6-4-8> ।।
सर्वनामस्थाने च परतोऽसम्बुद्धौ नोपधाया दीर्घो भवति । राजा, राजानौ, राजानः । राजानम्, राजानौ । सामानि तिष्ठन्ति । सामानि पश्य । सर्वमामस्थान इति किम्? राजनि । सामनि । असम्बुद्धाविति किम्? हे राजन् । हे तक्षन् ।।
</6-4-8>
वा षपूर्वस्य निगमे ।। <6-4-9> ।।
षपूर्वस्याचो नोपधाया निगमविषये सर्वनामस्थाने परतोऽसम्बुद्धौ वा दीर्घो भवति । `स तक्षाणं तिष्ठन्तमब्रवीत्(मै.2-4-1), स तक्षणं तिष्ठन्तमव्रवीत् । ऋभुक्षाणमिन्द्रम् , `ऋभुक्षणमिद्रम्(ऋ.1-111-4) । निगम् इति किम्? तक्षा , तक्षाणौ , तक्षाणः ।।
</6-4-9>
सान्तमहतः संयोगस्य ।। <6-4-10> ।।
सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्योपधाया दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धो । श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसि । पयांसि । यशांसि । महतः खल्वपि - महान् । महान्तौ । महान्तः । असम्बुद्धाविति किम्? हे श्रेयन् । हे महन् ।।
</6-4-10>
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ।। <6-4-11> ।।
अप् - इत्येतस्य तृजन्तस्य, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, प्रशास्तृ - इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसम्बुद्धौ । अप् - आपः । बह्वाम्पि तडागानीति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते ।नित्यमपि च नुममकृत्वा दीर्घत्वमिष्यते । तृन् - कर्त्तारौ कटस्य । वदितारौ जनापवादान् । कर्त्तारः । तृच् - कर्त्तारौ कटस्य । कर्त्तारः । हर्त्तारौ भारस्य, हर्त्तारः । स्वसृ - स्वसा । स्वसारौ । स्वसारः । नप्तृ - नप्ता । नप्तरौ । नप्तारः । नेष्टृ - नेष्टा । नेष्टारौ । नेष्टारः
त्वष्टृ - त्वष्टा । त्वष्टारौ । त्वष्टारः । क्षत्तृ - क्षत्ता । क्षत्तारौ । क्षत्तारः । होतृ - होता । होतारौ । होतारः । पोतृ - पोता । पोतारौ । पोतारः । प्रशास्तृ - प्रशास्ता । प्रशास्तारौ । प्रशास्तारः । नप्त्रादीनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम् । व्युत्पत्तिपक्षे नियमार्थम् - एवम्भूतानामन्येषां संज्ञाशब्दानां दीर्घो मा भूदिति । पितरौ , पितरः । मातरौ, मातरः । असम्बुद्धाविति किम्? हे कर्तः । हे स्वसः ।।
</6-4-11>
इन्हन्पूषार्यम्णां शौ ।। <6-4-12> ।।
इन्, हन्, पूषन्, अर्यमन् - इत्येवमन्तानामङ्गानां शौ परत उपधाया दीर्घो भवति । बहुदण्डीनि । बहुच्छत्रीणि । बहुवृत्रहाणि । बहुभ्रूणहाणि । बहुपूषाणि । बह्वर्यमाणि । सिद्धे सत्यारम्भो नियमार्थः - इन्हन्पूषार्यम्णामुपधायाः शावेव दीर्घो भवति, नान्यत्र(म.भा.3-182)। दण्डिनौ । छत्त्रिणौ । वृत्रहणौ । पूषणौ । अर्यमणौ ।।
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् ।
शौ नियमं पुनरेव विदध्याद् भ्रूणहनीति तथास्य न दुष्येत् ।।
        शास्मि निवर्त्त्य सुटीत्यविशेषे शौ नियमं कुरु वाऽप्यसमीक्ष्य ।
दीर्घविधेरुपधानियमान्मे हन्त ! यि दीर्घविधौ च न दोषः ।।
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे।
यस्य हि शौ नियमः सुटि नेतत्तेन न तत्र भवेद्धिनियम्यम् ।।
हन्तेः अनुनासिकस्य क्विझलोः क्ङिति(2-4-15/2666) इति दीर्घत्वं यत् तदपि नियमेन बाध्यते - वृत्रहणि , भ्रूणहनीति । कथम्? योगविभागः क्रियते - इन्हन्पूषार्यम्णाम् सर्वनामस्थान एव दीर्घो भवति, नान्यत्रेति । ततः शौ इति द्वितीयो नियमः - शावेव सर्वनामस्थाने दीर्घो भवति, नान्यत्रेति । सर्वस्योपधालक्षणस्य दीर्घस्य नियमेन
निवृत्तिः क्रियते । यस्तु न उपधालक्षणः, स भवत्येव - वृत्रहायते, भ्रूणहायते । अथ वा - अनुवर्त्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः । शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्यान्यत् सर्वनामस्थानमस्तीत्यविशेषेण नियमः । तत्र तु नपुंसकस्य इत्येतन्नाश्रीयते । तेनानपुंसकस्यापि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्तीति तत्र नियमः क्रियमाणो नपुंसकस्य स्यात् ।।
</6-4-12>
सौ च।। <6-4-13> ।।
सावसम्बुद्धौ परत इन्हन्पूषार्यम्णामुपधाया दीर्घो भवति । दण्डी । वृत्रहा । पूषा । अर्यमा । असम्बुद्धाविति किम्? हे दण्डिन् । हे वृत्रहन् । हे पूषन् । हे अर्यमन् ।।
</6-4-13>
अत्वसन्तस्य चाधातोः ।। <6-4-14> ।।
अतु, अस् - इत्येवमन्तस्य अधातोरुपधायाः सावसम्बुद्धौ परतो दीर्घो भवति । डवतु - भवान् । क्तवतु - कृतवान् । मतुप् - गोमान् । यवमान् । अत्र कृते दीर्घे नुमागमः कर्त्तव्यः । यदि हि परत्वान्नित्यत्वाच्च नुम् स्यात्, दीर्घस्य निमित्तमतूपधा विहन्येत । असन्तस्य सुपयाः । सुयशाः । सुश्रोताः । अधातोरिति किम्? पिण्डं ग्रसते इति पिण्डग्रः, चर्म वस्ते इति चर्मवः । अनर्थकोऽप्यस्‌शबदो गृह्यते `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति(व्या.प.139) इति । अन्तग्रहणमुपदेशप्रयोगैकदेशस्याप्यत्वन्तस्य परिग्रहार्थम् , अन्यथा मतुपो ग्रहणं न स्याद् - उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्त इति असम्बुद्धावित्येव- हे गोमन् । हे सुपयः ।।
</6-4-14>
अनुनासिकस्य क्विझलोः क्ङिति ।।<6-4-15> ।।
अनुनासिकान्तस्याङ्गस्य उपधाया दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति । प्रशान् । प्रतान् । झलादौ किति - शान्तः । शान्तवान् । शान्ता । शान्तिः । ङिति खल्वपि - शंशान्तः । तन्तान्तः । यङ्‌लुगन्तादयं तस् । अनुनासिकस्येति किम्? ओदनपक् । पक्वः । पक्ववान् । क्विझलोरिति किम्? गम्यते । रम्यते । क्ङितीति किम्? गन्ता । रन्ता ।।
</6-4-15>
अज्झनगमां सनि ।। <6-4-16> ।।
अजन्तानामङ्गानां हनिगम्योश्च सनि झलादौ परे दीर्घो भवति । अजन्तानाम् - विवीषति । तुष्टूषति । चिकीर्षति । जिहोर्षति । हन् - जघांसति । गम् - अधिजिगांसते ।

  • गमेरिङादेशस्येति वक्तव्यम् *(म.भा.3-184)। इह मा भूत्

- संजिगंसते वत्सो मात्रेति । स्वर्गं लोकं समजिगांसदिति छन्दसि यदनिङादेशास्यापि दीर्घत्वं दृश्यते , तद् अन्येषामपि दृश्यते(6-3-137/3539) इत्यनेन भवति । अथ वा - इहाज्ग्रहणं न कर्त्तव्यम् , सनि दीर्घो भवतीत्येतावदेव सूत्रं कर्त्तव्यम् । तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम्? तत्क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम् - अजन्तस्याङ्गस्य दीर्घो भवति, अजादेशस्य गमेरिति । ततो न वक्तव्यमिदम् - गमेरिङादेशस्येति ।।
</6-4-16>
 तनोतेर्विभाषा ।। <6-4-17> ।।
तनोतेरङ्गस्य सनि झलादौ विभाषा दिर्घो भवति । तितांसति । तितंसति । झलीत्येव - तितनिषति । सनीवन्तर्ध इत्यत्र तनोतेरुपसंख्यानादिडागमो भवति विकल्पेन ।।
</6-4-17>
क्रमश्च क्त्वि ।। <6-4-18> ।।
क्रम उपधाया विभाषा दीर्घो भवति क्त्वाप्रत्यये झलादौ परतः । क्रन्त्वा , क्रान्त्वा । झलीत्येव - क्रमित्वा । प्रक्रम्य , उपक्रम्येति बहिरङ्गोऽपि ल्यबादेशः अन्तरङ्गनपि विधीन्बाधते इति पूर्वमेव, दीर्घत्वं न प्रवर्त्तते ।।
</6-4-18>
च्छ्वोः शूडनुनासिके च ।। <6-4-19> ।।
छ इत्येतस्य सतुक्कस्य, वकारस्य च स्थाने यथासंख्यं श्, ऊठ् - इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्यये परतः क्वौ झलादौ च क्ङिति । प्रश्नः । विश्नः । अन्तरङ्त्वात् छे च(6-1-73/146) इति तुकि कृते सतुक्कस्य शादेशः । वकारस्य ऊठ् - स्योनः । सिवेरौणादिके नप्रत्यये लघूपधगुणात् पूर्वमूठ् क्रियते, तत्र कृतेऽन्तरङ्गत्वाद् यणादेशो नानाश्रयत्वाच्च न `वार्णादाङ्गं बलीयो भवति(व्या.प.39) । क्वौ छस्य - शब्दप्राट् । `क्विब्वचि(उ.225) इत्यदिनौणादिकः क्विप्, दीर्घश्च । गोविट् । वकारस्य - अक्षद्यूः । हिरण्यष्ठ्यूः । `असिद्धं बहिरङ्गमन्तरङ्गे(व्या.प.42) इति `नाजानन्तर्ये(व्या.प.46) इति प्रतिषिध्यते । झलादौ छस्य - पृष्टः । पृष्टवान् । पृष्ट्वा । वकारस्य - द्यूतः । द्यूतवान् । द्यूत्वा । क्ङितीत्येव - द्युभ्याम् । द्युभिः । केचिदत्र क्ङिति इति नानुवर्त्तयन्ति । कथं द्युभ्याम् , द्युभिरिति, ऊठि कृते दिव उत्(6-1-131/337) इति तपरत्वान्मात्राकालो भविष्यति । छशां षः(8-2-36/294) इत्यत्र छग्रहणं न कर्त्तव्यम् । अनेनैव हि सर्वत्र शकारो विधीयते । ऊठष्ठित्करणम् एत्येधत्यूठ्सु (6-1-189/73)इति विशेषणार्थम् । वाह ऊठ्(6-4-132/329) इत्ययमपि ठिदेव ।।
</6-4-19>
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।। <6-4-20> ।।
ज्वर, त्वर, स्रिवि, अव, मव - इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थाने ऊडित्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति । जूः, जूरौ, जूरः । जूर्त्तिः । त्वर - तूः, तूरौ, तूरः । तूर्त्तिः । स्रिवि - स्रूः, स्रुवौ , स्रुवः । स्रुतः । स्रुतवान् । स्रुतिः । अव् - ऊः , उवौ, उवः। ऊतिः । मव - मूः, मुवौ, मुवः। मूतः । मूतवान् । मूतिः । ज्वरत्वरोरुपधा वकारात् परा, स्रिव्यवमवां पूर्वा ।।
</6-4-20>
राल्लोपः ।। <6-4-21> ।।
रेफादुत्तरयोश्छ्‌वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः । मुर्छा - मूः, मुरौ, मुरः । मूर्त्तः । मूर्त्तवान् । मूर्त्तिः । न ध्याख्यापॄमूर्छिमदाम्(8-2-58/3040) इति निष्ठानत्वाभावः । हुर्छा - हूः , हुरौ, हुरः। हूर्णः । हूर्णवान् । हूर्तिः । राल्लोपे सतुक्कस्य छस्याभावात् केवलो गृह्यते । वकारस्य - तुर्वी - तूः , तुरौ, तुरः । तूर्णः । तूर्णवान् । तूर्तिः । धुर्वी - धूः । धुरौ । धुरः । धूर्णः । धूर्णवान् । धूर्त्तिः ।।
</6-4-21>
असिद्धवदत्राभात् ।। <6-4-22> ।।
असिद्धवदित्ययमधिकारो यदित ऊर्ध्वमनुक्रमिष्याम आ अध्यायपरिसमाप्तेस्तद् असिद्धवद्भवतीत्येवं वेदितव्यम् । आभादिति विषयनिर्द्देशः । आभसंशब्दनाद् यदुच्यते तत्र कर्तव्ये । अत्रेति समानाश्रयत्वप्रतिपत्त्यर्थम् । तच्चेदत्र यत्र भवति तदाभाद् शास्त्रीयं विधीयते तदाश्रयमेव भवति । व्याश्रयं तु नासिद्धवद्भवतीत्यर्थः । असिद्धवचनमुत्सर्गलक्षणभावार्थम् , आदेशलक्षणप्रतिषेधार्थं च । एधि, शाधीत्यत्र एत्वशाभावयोः कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद्भवति । आगहि, जहीत्यत्रानुनासिकलोपे जभावे च अतो हेः(6-4-105/2202) इति लुक् प्राप्नोति , असिद्धत्वान्न भवति । आ भादिति किम्? अभाजि । रागः । अत उपधायाः(7-2-116/2282) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति । अत्रग्रहणं किम्? पपुषः पश्य । चिच्युषः पश्य । लुलुवुषः पश्य । वसुसम्प्रसारणमाल्लोपे यणादेशे उपङादेशे च कर्तव्ये नासिद्धं भवति । आल्लोपादीनि वसौ, वस्वन्तस्य विभक्तौ सम्प्रसारणमिति समानाश्रयत्वं नास्ति । `असिद्धं बहिरङ्गमन्तरङ्गे(व्या.प.42) इति एतदप्यत्र न भवति, किं कारणम्? एषा हि परिभाषा आ भाच्छास्त्रीया, तस्यां प्रवर्तमानायां वसुसम्प्रसारणादीनामाभाच्छास्त्रीयाणामेवासिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत्समुपस्थानं नास्तीति परिभाषा नप्रवर्तते ।

  • वुग्युटावुवङ्‌यणोः सिद्धौ भवत इति वक्तव्यम् *(म.भा.3-191)।

वुग् उवङादेशे - बभूव, बभूवतुः, बभूवुः । युट् यणादेशे - उपदिदीये , उपदिदीयाते, उपदिदीयिरे । आ भादित्ययमभिविधावाङ्‌ । तेन भाधिकारेऽप्यसिद्धवद्भवति ।।
</6-4-22>
श्नान्नलोपः ।। <6-4-23> ।।
श्नादिति - श्नमयमुत्सृष्टमकारो गृह्यते , तत उत्तरस्य नकारस्य लोपो भवति । अनक्ति । भनक्ति । हिनस्ति । शकारवतो ग्रहणं किम्? यज्ञानाम् , यत्नानाम् - सुपि च(7-3-102/202) इति परत्वात् कृतेऽपि दीर्घत्वे स्थानिवद्भावान्नलोपः स्यादेव । विश्नानाम्, प्रश्नानामित्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव(व्या.प.3) इत्येवं न भवति ।।
</6-4-23>
अनिदितां हल उपधायाः क्ङिति ।। <6-4-24> ।।
अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति क्ङिति प्रत्यये परतः । स्रस्तः , ध्वस्तः । स्रस्यते, ध्वस्यते । सनीस्रस्यते, दनीध्वस्यते । अनिदितामिति किम्? नन्द्यते, नानन्द्यते । हल इति किम्? नीयते, नेनीयते । उपधाया इति किम्? नह्यते, नानह्यते । क्ङितीति किम्? स्रंसिता , ध्वंसिता ।

  • अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसंख्यानं कर्त्तव्यम् *(म.भा.3-194)। विलगितः । विकपितः । उपतापशरीरविकारयोरिति किम्? विलङ्गितः । विकम्पितः ।
  • रञ्जेर्णौ मृगरमण उपसंख्यानं कर्त्तव्यम् *(म.भा.3-194)। रजयति मृगान्। जनीजॄष्क्नसुरञ्चोऽमन्ताश्च(ग.सू.सि.कौ.पृ.732) इति मित्त्वादुपधाह्रस्वत्वम् । मृगरमण इति किम्? रञ्जयति वस्त्राणि ।
  • घिनुणि च रञ्जेरुपसंख्यानं कर्तव्यम् *(म.भा.3-194)। रागी । त्यजरजभज(3-2-142/3122) इति निपातनाद्वा सिद्धम् ।
  • रजक-रजन-रजःसूपसंख्यानं कर्त्तव्यम् *(म.भा.3-195)। रजकः । रजनम् । रजः ।।


</6-4-24>
दंशसञ्जस्वञ्जां शपि ।। <6-4-25> ।।
दंश, सञ्ज, ष्वञ्ज - इत्येतेषामङ्गानां शपि परत उपधाया नकारस्य लोपो भवति । दशति । सजति । परिष्वजते ।।
</6-4-25>
रञ्जेश्च ।। <6-4-26> ।।
रञ्जेश्च शपि परत उपधाया नकारस्य लोपो भवति । रजति, रजतः, रजन्ति । पृथग्योगकरणमुत्तरार्थम् ।।
</6-4-26>
घञि च भावकरणयोः ।। <6-4-27> ।।
भावकरणवाचिनि घञि परतो रञ्जेरुपधाया नकारस्य लोपो भवति । भावे - आश्चर्यो रागः । विचित्रो रागः । करणे-रज्यतेऽनेनेति रागः । भावकारणयोरिति किम्? रजन्ति तस्मिन्निति रङ्गः ।।
</6-4-27>
स्यदो जवे ।। <6-4-28> ।।
जवेऽभिधेये स्यदः इति घञि निपात्यते । स्यन्देर्नलोपो वृद्ध्‌यभावश्च । इक्प्रकरणात् न धातुलोपः(1-1-4/2656) इति प्रतिषधो नास्ति - गोस्यदः , अश्वस्यदः । जव इति किम्? तैलस्यन्दः । घृतस्यन्दः ।।
</6-4-28>
अवोदैधोद्मप्रश्रथहिमश्रथाः ।। <6-4-29> ।।
अवोद, एध, ओद्म, प्रश्रथ, हिमश्रथ - इत्येते निपात्यन्ते । अवोद इति , उन्देरवपूर्वस्य घञि नलोपो निपात्यते । एध इति, इन्धेर्घञि नलोपो गुणश्च निपात्यते न धातुलोप आर्धधातुके(1-1-4/2656) इति हि प्रतिषेधः स्यात् ।
ओद्म इति, उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते । प्रश्रथ इति, प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । हिमश्रथ इति , हिमपूर्वस्य श्रन्थेर्घञ्येव निपातनम् ।
</6-4-29>
नाञ्चेः पूजायाम् ।। <6-4-30> ।।
अञ्चेः पूजायामर्थे नकारस्य लोपो न भवति । अञ्चिता अस्य गुरवः । अञ्चितमेव शिरो वहति । अञेः पूजायाम्(7-2-53/3047) इति इडागमः । पूजायामिति किम्? उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः । यस्य विभाषा(7-2-15/3025) इतीट्प्रतिषेधः ।।
</6-4-30>
क्त्वि स्कन्दिस्यन्दोः ।। <6-4-31> ।।
क्त्वाप्रत्यये परतः स्कन्द, स्यन्द - इत्येतयोर्नकारलोपो न भवति । स्कन्त्वा । स्यन्त्वा । स्यन्देरुदित्वात्(धा.पा.761) पक्षे इडागमः (7-2-44/2279)- स्यन्दित्वा । तत्र यदा इडागमस्तदा न क्त्त्वा सेट्(1-2-18/3322) इति कित्त्वप्रतिषेधादेव नलोपाभावः ।।
</6-4-31>
जान्तनशां विभाषा ।। <6-4-32> ।।
जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति । रङ्‌क्त्वा , रक्त्वा । भङ्‌क्त्वा , भक्त्त्वा । नशः नष्ट्वा, नंष्ट्वा । इट्‌पक्षे - नशित्वा ।।
</6-4-32>
भञ्जेश्च चिणि ।। <6-4-33> ।।
भञ्चेश्च चिणि परतो विभाषा नकारलोपो भवति । अभाजि, अभञ्जि । अप्राप्तोऽयं नलोपः पक्षे विधीयते , ततो नेति नानुवर्त्तते ।।
</6-4-33>
शास इदङ्‌हलोः ।। <6-4-34> ।।
शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति । अन्वशिषत् , अन्वशिषताम् , अन्वशिषन् । हलादौ किति- शिष्टः । शिष्टवान् । ङिति - आवां शिष्वः । वयं शिष्मः । इत्त्वे कृते शासिवसिघसीनां च(8-3-60/2410) इति षत्वम् ।
अङ्‌हलोरिति किम्? शासति । शशासतुः , शशासुः ।

  • क्वौ च शास इत्वं भवतीति वक्तव्यम् *(म.भा.3-195)। आर्यान् शास्तीति आर्यशीः । मित्रशीः । यस्मात् शासेरङ्‌ विहितः `शासु अनुशिष्टौ(धा.पा.1076) इति, तस्यैवेदं ग्रहणमिष्ये । `आङः शासु इच्छायाम्(धा.पा.1023) इत्यस्य न भवति - आशास्ते, आशास्यमानः ।
  • क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम् *(म.भा.3-195)। आशीः, आशिषौ , आशिषः । क्षियाशीः प्रैषेषु तिङाकाङ्क्षम्(8-2-104/3623) इति निपातनाद्वा सिद्धम् ।।

</6-4-34>
शा हौ ।। <6-4-35> ।।
शासो हौ परतः शा इत्ययमादेशो भवति । अनुशाधि । प्रशाधि । उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी(1-1-49/38) भवति । क्ङिति इत्येतदपि निवृत्तम् । तेन यदा वा छन्दसि(3-4-88/3552) इति पित्त्वं हिशब्दस्य, तदाप्यादेशो भवत्येव । शाधीत्याद्युदात्तमपि छन्दसि दृश्यते ।।
</6-4-35>
हन्तेर्जः ।। <6-4-36> ।।
हन्तेर्धातोर्ज तइत्ययमादेशो भवति हौ परतः । जहि शत्रून् ।।
</6-4-36>
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ।। <6-4-37> ।।
अनुदात्तोपदेशानामङ्गानां वनतेस्तनोत्यादीनां चानुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः । यमु-यत्वा । यतः । यतनान् । यतिः । रमु - रत्वा । रतः । रतनान् । रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः । वनति - वतिः । क्तिनो रूपमेतत् । क्तिचि तु न क्तिचि दीर्घश्च(6-4-39/3314) इति भवति । अन्यत्र झलादाविटा भवितव्यम् । तनोत्यादयः - ततः । ततवान् । सनोतेरात्वं वक्ष्यति । क्षणु-क्षतः । क्षतवान् । ऋणु - ऋतः । ऋतवान् । तृणु - तृतः । तृतवान् । घृणु - घृतः । घृतवान् । वनु-वतः । वतवान् । मनु-मतः । मतवान् । ङिति-अतत । अतथाः । अनुदात्तोपदेशवनतितनोत्यादीनामिति किम्? शान्तः । शान्तवान् । तान्तः । तान्तवान् । दान्तः । दान्तवान्। अनुनासिकस्येति किम्? पक्वः । पक्ववान् । झलीति किम्? गम्यते । रम्यते । क्ङितीति किम्? यन्ता । यन्तव्यम् । उपदेशग्रहणं किम्? इह च यथा स्यात् - गतिः । इह च मा भूत् - शान्तः , शान्तवानिति ।।
</6-4-37>
वा ल्यपि ।। <6-4-38> ।।
ल्यपि परतोऽनुदात्तोपदेशावनतितनोत्यादीनामनुनासिकलोपो वा भवति । व्यवस्थितविभाषा चेयम् , तेन मकारन्तानां विकल्पो भवति । अन्यत्र नित्यमेव लोपः । प्रयत्य, प्रयम्य । प्ररत्य, प्ररम्य। प्रणत्य, प्रणम्य। आगत्य, आगम्य। आहत्य। प्रमत्य । प्रवत्य। प्रक्षत्य ।।
</6-4-38>
न क्तिचि दीर्घश्च ।। <6-4-39> ।।
क्तिचि परतोऽनुदात्तोपदेशादीनामनुनासिकलोपो दीर्घश्च न भवति । यन्तिः । वन्तिः । तन्तिः । अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति(6-4-15/2666) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिद्ध्यते ।।
</6-4-39>
गमः क्वौ ।। <6-4-40> ।।
गमः क्वौ परतोऽनुनासिकलोपो भवति । अङ्गगत् । कलिङ्गगत् । अध्वगतो हरयः ।

  • गमादीनामिति वक्तव्यम् *(म.भा.3-196)। इहापि यथा स्यात् - संयत् । परीतत् ।
  • ऊ च गमादीनामिति वक्तवयम् *(म.भा.3-196)। अग्रेगूः । अग्रेभ्रूः ।।

</6-4-40>
विड्‌वनोरनुनासिकस्यात् ।। <6-4-41> ।।
विटि वनि च प्रत्यये परतोऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति । `अब्जा गौजा ऋतजा अद्रिजाः (ऋ.4-40-5)। `गौषा इन्द्रो नृषा असि(ऋ.9-2-10) । कूपखाः । शतखाः । सहस्रखाः । दधिक्राः । अग्रेगा उन्नेतॄणाम् । जनसनखनक्रमगमो विट्(3-2-67/3413) इति विट् प्रत्ययः । सनोतेरनः(8-3-108/3645) इति षत्वम् - `गोषा इन्दो नृषा असि(ऋ.9-2-10)इत्यत्र । वन्- विजावा । अग्रेजावा । अन्यभ्योऽपि दृश्यन्ते(3-2-75/2980) इति वनिप्प्रत्ययः । अनुनासिकस्य इति वर्त्तमाने पुनरनुनासिकग्रहणमनुनासिकमात्रपरिग्रहार्थम् , अन्यथा ह्यनुदात्तोपदेशवनतितनोत्यादीनामेव स्यात् ।।
</6-4-41>
जनसनखनां सञ्झलोः ।। <6-4-42> ।।
झलि, क्ङिति इति चानुवर्त्तते । जन, सन, खन - इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परत आकार आदेशो भवति । जन् - जातः । जातनान् । जातिः । सन्-सनि, सिषासति । सातः । सातनान् । सातिः । खन् - खातः । खातवान् । खातिः । झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्त्यते इह मा भूत् - जिजनिषति ।
सिसनिषति । चिखनिषति । सनोतेः सनीवन्तर्ध(7-2-49/2618) इति पक्ष इडागमः । तदिह सनोत्यर्थमेव सन्ग्रहणम् । अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधाद्‌ आत्त्वमनुनासिकलोपं बाधते । घुमास्थागापाजहातिसां हलि(6-4-66/2462) इति हल्ग्रहणं ज्ञापकम् - अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवतीति ।।
</6-4-42>
ये विभाषा ।। <6-4-43> ।।
यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा । जायते, जन्यते । जाजायते, जञ्जन्यते । सायते, सन्यते । सासायते, संसन्यते । खायते, खन्यते। चाखायते, चङ्खन्यते । जनः श्यनि ज्ञाजनोर्जा(7-3-79/2511) इति नित्यं जादेशो भवति ।।
</6-4-43>
तनोतेर्यकि ।। <6-4-44> ।।
तनोतेर्यकि परतो विभाषा आकार आदेशो भवति । तायते, तन्यते । यकीति किम्? तन्तन्यते ।।
</6-4-44>
सनः क्तिचि लोपश्चास्यान्यतरस्याम् ।। <6-4-45> ।।
सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति लोपश्चास्यान्यतरस्याम् । सातिः, सन्ति। सतिः । अन्यतरस्यांग्रहणं विस्पष्टार्थम् । ये सम्बद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशाङ्क्येत ।।
</6-4-45>
आर्धधातुके ।। <6-4-46> ।।
आर्धधातुके इत्यधिकारः । न ल्यपि(6-4-69/3335) इति प्रागेतस्यमाद्यदित ऊर्ध्वमनुक्रमिष्यामः आर्धधातुके इत्यवं तद्वेदितव्यम् । वक्ष्यति - अतो लोपः(6-4-48/2308) । चिकीर्षिता । जिहीर्षिता । आर्धधातुक इति किम्? भवति । भवतः । अदीप्रभृतिभ्यः शपः(2-4-72/2423) लुग्वचनं प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यादित्येतन्न ज्ञापकं शपो लोपाभावस्य । यस्य हलः(6-4-49/2631) । बेभिदिता । बेभिदितुम् । बेभिदितव्यम् । आर्धधातुक इति किम्? बेभिद्यते । णेरनिटि(6-4-51/2313) । कारणा । हारणा । आर्धधातुक इति किम्? कारयति । हारयति । आतो लोप इटि च(6-4-64/2372) । ययतुः । ययुः । ववतुः । ववुः । आर्धधातुक इति किम्? यान्ति वान्ति । घुमास्थागापाजहातिसां हलि(6-4-66/2452) । दीयते । धीयते । आर्धदातुक इति किम् ? अदाताम् । अधाताम् । वाऽन्यस्य संयोगादेः(6-4-68/2378) । स्नेयात्, स्नायात् । आर्धधातुक इति किम्? स्नायात् । आशीर्लिङोऽन्यत्र न भवति । स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च(6-4-62/2757) । कारिषीष्ट । हारिषीष्ट ।
आर्धधातुक इति किम्? क्रियेत । ह्रियेत । यगन्तस्याजन्तत्वाच्चिण्वद्भावे सति वृद्धिः स्यात् , ततश्च युक् प्रसज्येत ।।
`अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् ।
आल्लोप ईत्वमेत्वं च चिण्वद्भावश्च सीयुटि।।(म.भा.3-198)
</6-4-46>
भ्रस्जो रोपधयो रमन्यतरस्याम् ।। <6-4-47> ।।
भ्रस्जो रेफस्योपधायाश्च रमन्यतरस्यां भवति । रोपधतोः इति स्थानषष्ठीनिर्देशादुपधा, रेफश्च निवर्त्तेते । मित्त्वाच्चायमचोऽन्त्यात्परो भवति । भ्रष्टा, भर्ष्टा । भ्रष्टुम् , भर्ष्टुम् । भ्रष्टव्यम् , भर्ष्टव्यम् । भ्रज्जनम् , भर्ज्जनम् । भृष्टः भृष्टवान् इत्यत्र पूर्वविप्रतिषेधेन(म.भा.3-200) सम्प्रसारणं भवति । उपदेश इत्येव - बरीभृज्यते ।।
</6-4-47>
अतो लोपः । <6-4-48> ।।
अकारान्तस्यार्धधातुके लोपो भवति । चिकीर्षिता । चिकीर्षितुम् । चिकीर्षितव्यम् । धिनुतः । कृणुतः । अत इति
किम्? चेता । स्तोता । तपरकरणं किम्? याता । वाता । आर्धधातुक इति किम्? वृक्षत्वम् । वृक्षता । वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन।(म.भा.3-200) चिकीर्षकः । जिहीर्षकः । चिकीर्ष्यते । जिहीर्ष्यते ।।
</6-4-48>
यस्य हलः ।। <6-4-49> ।।
हल उत्तरस्य यशब्दस्यार्धधातुके लोपो भवति । बेभिदिता । बेभिदितुम् । बेभिदितव्यम् । यस्य इति सङ्घातग्रहणमेतत् । तत्र अलोऽन्त्यस्य(1-1-52/42) इत्येतन्न भवति अतो लोपः(6-4-48/2308) इत्यनेनैव तस्य सिद्धत्वात् । हलः इति वा
पञ्चमीनिर्द्देशः , तत्र आदेः परस्य(1-1-54/44) इति यकारोऽनेन लुप्यते । सङ्घातग्रहणं किम्? इर्ष्यिता । मव्यिता । हल इति किम्? लोलूयिता । पोपूयिता ।।
</6-4-49>
क्यस्य विभाषा ।। <6-4-50> ।।
क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके । समिधिता, समिध्यिता । दृषदिता, दृषद्यिता । समिधमात्मन इच्छति, समिधमिवात्मानमाचरति - इति वा क्यच्क्यङौ यथायोगं कर्त्तव्यौ ।।
</6-4-50>
णेरनिटि ।। <6-4-51> ।।
अनिडादावार्धधातुके णेर्लोपो भवति । इयङ्यण्गुणवृद्धिदीर्घाणामपवादः । अततक्षत् । अररक्षत् । आटिटत् । आशिशत् । कारणा । हारणा । कारकः । हारकः । कार्यते । हार्यते । ज्ञीप्सति । अनिटीति किम्? कारयिता । हारयिता ।
</6-4-51>
निष्ठायां सेटि ।। <6-4-52> ।।
निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणितम् । लक्षितम् । सेटीति किम्? संज्ञपितः पशुः । इड्‌ग्रहणसामर्थ्यादिह पूर्वेणापि न भवति । सनीवन्तर्ध(7-2-49/2628) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा(7-2-15/3025) इति निष्ठायां प्रतिषेधः । अथ पुनः एकाचः इति तत्रानुवर्त्तते , तदा नित्यमत्र भवितव्यमेवेडागमेनेति सेड्‌ग्रहणमनर्थकम्? तत् क्रियते कालावधारणार्थम् - इडागमे कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितमित्यत्र एकाच उपदेशेऽनुदात्तात्(7-2-10/2246) इतीटः प्रतिषेधः प्रसज्येत ।।
</6-4-52>
जनिता मन्त्रे ।। <6-4-53> ।।
जनितेति मन्त्रविषये इडादौ णिलोपो निपात्यते । `यो नः पिता जनिता(ऋ.10-82-3) । मन्त्र इति किम् ? जनयिता ।
</6-4-53>
शमिता यज्ञे ।। <6-4-54> ।।
यज्ञकर्मणि शमितेति इडादौ तृचि णिलोपो निपात्यते । शृतं हविः शमितः । तृचि सम्बुद्ध्यन्तमेतत् । यज्ञे इति किम्? शृतं हविः शमयितः ।।
</6-4-54>
अयामन्ताल्वाय्येत्न्विष्णुषु ।। <6-4-55> ।।
आम् , अन्त, आलु, आय्य, इत्नु , इष्णु - इत्येतेषु परतो णेरयादेशो भवति । कारयाञ्चकार । हारयाञ्चकार । अन्त - गाण्डयन्तः । मण्डयन्तः । आलु - स्पृहयालुः । गृहयालुः । आय्य - `स्पृहयाय्यः(ऋ.6-15-12) । गृहयाय्यः । इत्नु - स्तनयित्नुः । इष्णु - `पोषयिष्णवः(मै.4-2-14) । पारयिष्णवः । न इति वक्तव्ये अयादेशवचनमुत्तरार्थम् ।।
</6-4-55>
ल्यपि लघुपूर्वात् ।। <<6-4-56>> ।।
ल्यपि परतो लघुपूर्वाद्वर्णादुत्तरस्य णेरयादेशो भवति । प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दमय्य गतः । प्रबेभिदय्य गतः । प्रगणय्य गतः । ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवति, असमानाश्रयत्वात् - ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति । लघुपूर्वादिति किम्? प्रपात्य गतः ।।
</6-4-56>
विभाषाऽऽपः ।। <6-4-57> ।।
आप उत्तरस्य णेर्ल्यपि परतो विभाषाऽयादेशो भवति । प्रापय्य गतः । प्राप्य गतः । इङादेशस्य लाक्षणिकत्वान्न भवति - अध्याप्य गतः ।।
</6-4-57>
युप्लुवोर्दीर्घश्छन्दसि ।। <6-4-58> ।।
यु, प्लु - इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति । `दान्त्यनुपूर्वं वियूय(ऋ.10-131-2) । `यत्रा यो दक्षिणा परिप्लूय(काठ.सं.25-3) ।
छन्दसीति किम्? संयुत्य । आप्लुत्य।।
</6-4-58>
 क्षियः ।। <6-4-59> ।।
क्षियश्च दीर्घो भवति ल्यपि परतः । प्रक्षीय ।।
</6-4-59>
निष्ठायामण्यदर्थे ।। <6-4-60> ।।
ण्यतः कृत्यस्यार्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति । आक्षीणः । प्रक्षीणः। परिक्षीणः । अकर्मकत्वात् क्षियः कर्त्तरि क्तः । प्रक्षीणमिदं देवदत्तस्येति क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः(3-4-76/3087) इत्यधिकरणे क्तः । अण्यदर्थ इति किम्? `अक्षितमसि मामेक्षेष्ठाः(तै.सं.1-6-5-1) । क्षितमिति भावे दीर्घाभावात् क्षियो दीर्धात्(8-2-46/3015) इति निष्ठानत्वमपि न भवति ।।
</6-4-60>
वाऽऽक्रोशदैन्ययोः ।। <6-4-61> ।।
आक्रोशे गम्यमाने, दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति । क्षितायुरेधि । क्षीणायुरेधि । दैन्ये - क्षितकः । क्षीणकः । क्षितोऽयं तपस्वी । क्षीणोऽयं तपस्वी ।।
</6-4-61>
स्यसिच्सीयुट्‌तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।। <6-4-62> ।।

स्य, सिच्, सीयुट्, तासि - इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानामड्गानाम्, हन्, ग्रह, दृश् - इत्येतेषां च चिण्वत्कार्यं भवति वा। यदा चिण्वत् तदा इडागमो भवति । कस्य? स्यसिच्सीयुट्तासीनामेवेति वेदितव्यम्। ते हि प्रकृताः । अड्गस्य तु लक्ष्यविरोधान्न क्रियते । कानि पुनरस्य योगस्य प्रयोजनानि?
    चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति ।
    इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती ।।
अजन्तानां तावत् - चायिष्यते, चेष्यते, अचायिष्यत, अचेष्यत । दायिष्यते, दास्यते, अदायिष्यत, अदास्यत । शामिष्यते, शमिष्यते, शमयिष्यते, अशामिष्यत, अशमिष्यत, अशमयिष्यत । हन् - घानिष्यते, हनिष्यते , अघानिष्यत, अहनिष्यत । ग्रह - ग्राहिष्यते, ग्रहीष्यते अग्राहिष्यत, अग्रहीष्यत । ग्रहोऽलिटि दीर्घः(7-2-37/2562) इति प्रकृतस्येटो दीर्घत्वम् । दृश् - दर्शिष्यते , द्रक्ष्यते, अदर्शिष्यत, अद्रक्ष्यत ।
सिच्यजन्तानाम् - अचायिषाताम्, अचेषाताम् । अदायिषाताम्, अदिषाताम्। अशामिषाताम्, अशमिषाताम्, अशमयिषाताम् । हन् - अघानिषाताम् , अवधिषाताम्, अहसाताम्। ग्रह् - अग्राहिषाताम्, अग्रहीषाताम् । दृश् - अदर्शिषाताम् , अदृक्षाताम् ।
सीयुटि अजन्तानाम् - चायिषीष्ट, चेषीष्ट । दायिषीष्ट , दासीष्ट । शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट । हन् - घानिषीष्ट, वधिषीष्ट । ग्रह - ग्राहिषीष्ट, ग्रहीषीष्ट । दृश् - दर्शिषीष्ट, दृक्षीष्ट ।
तासावजन्तानाम् - चायिता, चेता । दायिता , दाता । शामिता, शमिता, शमयिता । हन् - घानिता, हन्ता । ग्रह - ग्राहिता, ग्रहीता । दृश् - दर्शिता, दर्ष्टा, द्रष्टा । स्यसिच्सीयुट्तासिष्विति किम्? चेतव्यम्, दातव्यम् । भावकर्मणोरिति किम्? चेष्यति । दास्यति । उपदेशा इति किम्? कारिष्यते - इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद् भवति । अज्झनग्रहदृशामिति किम्? पठिष्यते । अङ्गाधिकारविहितं कार्यमिहातिदिश्यते, तेन हनिणिङामादेशा न भवन्ति । हनिष्यते , घानिष्यते । एष्यते, आयिष्यते । अद्येष्यते, अध्यायिष्यते । हनो वध लिङि(2-4-42/2433), लुङि च(2-4-43/2434) इणो गा लुङि(2-4-45/2458), विभाषा लुङ्‌लृङोः(2-4-50/2460) इत्येते विधयो न भवन्ति ।।
</6-4-62>
दीङो युडचि क्ङिति ।। <6-4-63> ।।
दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः । उपदिदीये, उपदिदीयाते, उपदिदीयिरे । दीङः इति पञ्चमीनिर्देशादजादेर्युडागमो भवति । विधानसामर्थ्याच्च एरनेकाचः(6-4-82/272) इति यणादेशे कर्त्तव्ये तस्यासिद्धत्वं न भवति । अचीति किम्? उपदेदीयते । क्ङितीति किम् ? उपदानम् ।।
</6-4-63>
आतो लोप इटि च ।। <6-4-64> ।।
इट्यजादावार्धधातुके क्ङिति चाकारान्तस्याङ्गस्य लोपो भवति । इटि - पपिथ । तस्थिथ। किति - पपतुः, पपुः । तस्थतुः, तस्थुः । गोदः । कम्बलदः । ङिति - प्रदा । प्रधा । आर्धधातुके इत्येव - यान्ति । वान्ति । व्यत्यरे । व्यत्यले । रातेर्लातेश्च लङि इटि च रूपम् । अचीत्येव - ग्लायते । दासीय ।।
</6-4-64>
ईद्यति ।। <6-4-65> ।।
ईकार आदेशो भवति आकारान्तस्याङ्गस्य यति परतः । देयम् । धेयम् । हेयम् । स्तेयम् ।।
</6-4-65>
घुमास्थागापाजहातिसां हलि ।। <6-4-66> ।।
घुसंज्ञकानामङ्गानां मा, स्था, गा , पा, जहाति, सा - इत्येतेषां हलादौ क्ङिति प्रत्ये परत ईकारादेशो भवति । दीयते, देदीयते । धीयते, देधीयते। मीयते, मेमीयते। स्थीयते, तेष्ठीयते । गीयते, जेगीयते । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । पीयते, पेपीयते । पातेरिह ग्रहणं नास्ति, लुग्विकरणत्वात् । पायते - इत्येव तस्य भवति । हीयते । जेहीयते । जहातेरिह निर्द्देशाद् जिहातेर्ग्रहणं न भवति । हायते । `षोऽन्तकर्मणि(धा.पा.1148) - अवसीयते , अवसेसीयते । हलीति किम्? ददतुः ददुः । आतो लोपाद्धि परत्वादीत्वं स्यात् । एतदेव हल्ग्रहणं ज्ञापकम् - अस्मिन् प्रकरणे विप्रतिषेधेनासिद्धत्वं भवति । क्ङिति इत्येव - दाता । धाता ।।
</6-4-66>
एर्लिङि ।। <6-4-67> ।।
घुमास्थागापाजहातिसामङ्गानां लिङि परत एकारादेशो भवति । देयात् । मेयात् । धेयात् । स्थेयात् । गेयात् । पेयात् । अवसेयात् । क्ङिति इत्येव - दासीष्ट । धासीष्ट ।।
</6-4-67>
वाऽन्यस्य संयोगादेः ।। <6-4-68> ।।
घ्वादिभ्योऽन्यस्य संयोगादेराकारान्तस्य वा एकारादेशो भवति लिङि परतः । ग्लेयात् , ग्लायात् । म्लेयात्,
म्लायात् । अन्यस्येति किम्? स्थेयात् । संयोगादेरिति किम्? यायात् । क्ङिति इत्येव- ग्लासीष्ट । अङ्गस्य इत्येव - निर्वायात् ।।
</6-4-68>
न ल्यपि ।। <6-4-69> ।।
ल्यपि प्रत्यये परतो घुमास्थागापाजहातिसां यदुक्तं तन्न । प्रदाय । प्रधाय । प्रमाय । प्रस्थाय । प्रगाय । प्रपाय । प्रहाय । अवसाय ।।
</6-4-69>
मयतेरिदन्यतरस्याम् ।। <6-4-70> ।।
मयतेरिकारादेशो वा भवति ल्यपि परतः । अपमित्य, अपमाय ।।
</6-4-70>
लुङ्‌लङ्‌लृङ्‌क्ष्वडुदात्तः ।। <6-4-71> ।।
लुङ्, लङ् , लृङ् - इत्येतेषु परतोऽङ्गस्याडामो भवति , उदात्तश्च स भवति । लुङ्‌ - अकार्षीत् , अहार्षीत् । लङ् - अकरोत् , अहरत् । लृङ्- अकरिष्यत्, अहरिष्यत् ।।
</6-4-71>
आडजादीनाम् ।। <6-4-72> ।।
आडागमो भवत्यजादीनां लुङ्‌लङ्‌लृङ्‌क्षु परतः , उदात्तश्च स भवति । ऐक्षिष्ट । ऐहिष्ट । औब्जीत् । औम्भीत् । लङ्‌ - ऐक्षत । ऐहत । औब्जत् । औम्भत् । लृङ् - ऐक्षिष्यत । ऐहिष्यत । औब्जिष्यत् । औम्भिष्यत् । इह ऐज्यत, औप्यत, औह्यतेति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाल्लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते । शब्दान्तरप्राप्तेरडागमस्यानित्यत्वम्, कृते हि विकारणान्तस्याङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति । ननु
शब्दान्तरादिति विकरणोऽनित्यः? विकरणे कृते सम्प्रसारणमडागमान्नित्यत्वादेव भवति, सम्प्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनाम् इत्याडागमः ।।
</6-4-72>
छन्दस्यपि दृश्यते ।। <6-4-73> ।।
छन्दसि विषये आडागमो दृश्यते । यतो हि विहितस्ततोऽन्यत्रापि दृश्यते । आडजादीनाम्(6-4-72/2254) इत्युक्तम् , अनजादीनामपि दृश्यते - `सुरुचो वेन आवः(वा.सं.13-3) । आनक् । आयुनक् । आवः इति वृञो लुङि मन्त्रे घसह्वर(2-4-80/3402) इति लेर्लुकि कृते च भवति, तथा आनक् इति नशेः । आयुनक् इति युजेर्लङि ।।
</6-4-73>
न माङ्‌योगे ।। <6-4-74> ।।
माङ्योगे लुङ्लङ्‌लृङ्‌क्षु यदुक्तं तन्न भवति । मा भवान् कार्षीत् । मा भवान् हार्षीत् । मा स्म करोत् । मा स्म हरत् । मा भवानीहिष्ट , मा स्म भवानीहत । मा भवानीक्षिष्ट । मा स्म भवानीक्षत ।।
</6-4-74>
बहुलं छन्दस्यमाङ्योगेऽपि ।। <6-4-75> ।।
छन्दसि विषये माङ्योगेऽपि बहुलमडाटौ भवतः । अमाङ्योगेऽपि न भवतः । अमाङ्योगे तावत् - `चनिष्ठा उग्र(ऋ.10-73-1) । `काममूनयीत्(ऋ.1-53-3) । काममर्द्दयीत् । माङ्योगेऽपि भवतः - `मा वः क्षेत्रे परबीजान्यवाप्सुः(आ.ध.2-13-6) । मा अभित्थाः । मा आवः ।।
</6-4-75>
इरयो रे ।। <6-4-76> ।।
इरे - इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति । `गर्भं प्रथमं दघ्र आपः(ऋ.10-82-5) । याऽस्य
परिदघ्रे । धाञो रेभावस्यासिद्धत्वादातो लोपो भवति । न च भवति - परमाया धियोऽग्निकर्माणि चक्रिरे । अत्र रेशब्दस सेटां धातूनामिटि कृते पुना रेभावः क्रियते , तदर्थम् इरयोः इत्ययं द्विवचननिर्द्देशः ।।
</6-4-76>
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।। <6-4-77> ।।
श्नुप्रत्ययान्तस्याङ्गस्य धातोरिवर्णोवर्णान्तस्य भ्रू इत्येतस्य च इयङ् , उवङ् - इत्येतावादेशौ भवतोऽजादौ प्रत्यये, परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति । धातोः - चिक्षियतुः, चिक्षियुः । लुलुवतुः, लुलुवुः । नियौ, नियः । लुवौ, लुवः । भ्रुवौ , भ्रुवझ । अचीति किम्? आप्नुयात् । शक्नुयात् । राध्नुयात् । श्नुधातुभ्रुवामिति किम्? लक्ष्म्यै । वध्वै । य्वोरिति किम्? चक्रतुः । चक्रुः । इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम्, चायकः । लवनम्, लावकः ।

  • इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्त्तव्यम् *(म.भा.3-209)। `तन्वं(अ.वे.5-3-1) पुषेम, `तनुवं(तै.सं.1-5-5-4) पुषेम। विष्वं पुषेम, विषुवं पुषेम `स्वर्गो(तै.1-5-7-1) लोकः , सुवर्गो लोकः । `त्र्यम्बकं यजामहे(तै.1-8-6), त्रियम्बकं यजामहे ।।

</6-4-77>
अभ्यासस्यासवर्णे ।। <6-4-78> ।।
अभ्यासस्येवर्णोवर्णान्तस्यासवर्णेऽचि परत इयङ्, उवङ् - इत्येतावादेशौ भवतः । इयेष । उवोष । इयर्त्ति । असवर्ण इति किम्? ईयतुः ईयुः । ऊवतुः , ऊवुः । अचि इत्येव - इयाज । उवाप ।।
</6-4-78>
स्त्रियाः ।। <6-4-79> ।।
स्त्री - इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति । स्त्री स्त्रियौ, स्त्रियः । स्त्रीणाम् - इत्यत्र परत्वान्नुडागमः । पुथग्योगकरणमुत्तरार्थम् ।।
</6-4-79>
वाऽम्शसोः ।। <6-4-80> ।।
अमि शसि परतः स्त्रियां वा इयङादेशो भवति । स्त्रीं पश्य, स्त्रियं पश्य । स्त्रीः पश्य, स्त्रियः पश्य ।।
</6-4-80>
इणो यण् ।। <6-4-81> ।।
इणोऽङ्गस्य यणादेशो भवति अचि परतः । यन्ति । यन्तु । आयन् । इयङादेशापवादोऽयम् । `मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते(व्या.प.10) इति गुणवृद्धिभ्यां परत्वादयं बाध्यते । अयनम् । आयकः ।।
</6-4-81>
एरनेकाचोऽसंयोगपूर्वस्य ।। <6-4-82> ।।
धातोरिति वर्तते , तेन संयोगो विशेष्यते । धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान्न भवति असावसंयोगपूर्वः, तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति । निन्यतुः, निन्युः । उन्न्यौ, उन्न्यः । ग्रामण्यौ । ग्रामण्यः । एरिति किम्? असंयोगपूर्वग्रहणमिवर्णविशेषणं यथा स्याद्, अङ्गविशेषणं मा भूदिति । लुलुवतुः , लुलुवुः - इत्येतत्तु ओः सुपि(6-4-83/281) इति नियमादपि सिध्यति । अनेकाच इति किम्? नियौ, नियः । असंयोगपूर्वस्येति किम्? यवक्रियौ । यवक्रियः । धातुना संयोगविशेषणं किम्? इहापि न स्याद् - उन्न्यौ, उन्न्य इति । गतिकारकाभ्यामन्यपूर्वस्य नेष्यते । परमनियौ । परमनिय इति ।।
</6-4-82>
ओः सुपि ।। <6-4-83> ।।
धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति । खलप्वौ, खलप्वः । शतस्वौ, शतस्वः । सकृल्ल्वौ, सकृल्ल्वः । सुपीति किम्? लुलुवतुः , लुलुवुः । अनेकाचः इत्येव - लुवौ, लुवः । असंयोगपूर्वस्य इत्येव - कटप्रुवौ, कटप्रुवः । गतिकारकाभ्यामन्यपूर्वस्यनेष्यते इत्येव -
परमलुवौ, परमलुवः ।।
</6-4-83>
वर्षाभ्वश्च ।। <6-4-84> ।।
वर्षाभू - इत्येतस्याजादौ सुपि परतो यणादेशो भवति । वर्षाभ्वौ, वर्षाभ्वः ।

  • पुनर्भ्वश्चेति वक्तव्यम् *(म.भा.3-210)। पुनर्भ्वौ, पुनर्भ्वः ।। कारापूर्वस्यापीष्यते - काराभ्वौ, काराभ्वः ।।

</6-4-84>
न भूसुधितयोः ।। <6-4-85> ।।
भू, सुधी - इत्येतयोर्यणादेशो न भवति । प्रतिभुवौ, प्रतिभुवः । सुधियौ, सुधियः ।।
</6-4-85>
छन्दस्युभयथा ।। <6-4-86> ।।
छन्दसि विषये भू, सुधी - इत्येतयोरुभयथा दृश्यते । `वनेषु चित्रं विभ्वं विशे(ऋ.4-7-1), `विशे विभुवम्(तै.सं.1-5-5) । सुध्यो हव्यमग्ने, सुधियो हव्यमग्ने ।।
</6-4-86>
हुश्नुवोः सार्वधातुके ।। <6-4-87> ।।
हु इत्येतस्याङ्गस्य श्नुप्रत्ययान्तस्यानेकाचोऽसंयोगपूर्वस्याजादौ सार्वधातुके परतो यणादेशो भवति । जुह्वति, जुह्वतु । जुह्वत्। सुन्वन्ति , सुन्वन्तु , असुन्वन् । हुश्नुवोरिति किम्? योयुवति । रोरुवति । इदमेव हुश्नुग्रहणं ज्ञापकम् - भाषायामपि यङ्‌लुगस्तीति । छन्दसि छन्दस्युभयथा(6-4-86/3548) इत्यार्धधातुकत्वादेव यणादेशस्याप्रसङ्गः । न च यङ्‌लुगन्तादन्यत् प्रत्युदाहरणम् उवर्णान्तमनेकाजसंयोगपूर्वं सार्वधातुके विद्यते । सार्वधातुक इति किम्? जुहुवतुः जुहुवुः । असंयोगपूर्वस्य इत्येव - आप्नुवन्ति । राध्नुवन्ति ।।
</6-4-87>
भुवो वुग्लुङ्‌लिटोः ।। <6-4-88> ।।
भुवो वुगागमो भवति लुङि लिटि चाजादौ परतः । अभूवन् । अभूवम् । लिट् - बभूव, बभूवतुः , बभूवुः ।।
</6-4-88>
ऊदुपधाया गोहः ।। <6-4-89> ।।
गोहोऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः । निगूहति । निगूहकः । साधु निगूही । निगूहंनिगूहम् । निगूहन्ति । निगूहो वर्त्तते । उपधाया इति किम्? अलोऽन्त्यस्य मा भूत् । गोहः इति विकृतग्रहणं विषयार्थम्(म.भा.3-211) । यत्रास्यैतद्रूपं तत्रैव यथा स्यात्, इह मा भूत् - निजुगुहतुः , निजुगुहुः । अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति । निगूह्य गत इत्यूत्वस्यासिद्धत्वाद् , ल्यपि लघुपूर्वात् इत्ययादेशः स्यात् । व्याश्रयत्वादेवासिद्धत्वमत्र नास्ति- णावूत्वम्, ण्यन्तस्य च ल्यप्ययादेश इति । अचीत्येव निगोढा । निगोढुम् ।।
</6-4-89>
दोषो णौ ।। <6-4-90> ।।
दोष उपधाया ऊकार आदेशो भवति णौ परतः । दूषयति । दूषयतः । दूषयन्ति । विकृतग्रहणं प्रक्रमाभेदार्थम् । पूर्वत्र हि गोहः इत्युक्तम् । णाविति किम्? दोषो वर्तते ।।
</6-4-90>
वा चित्तविरागे ।। <6-4-91> ।।
चित्तविकारार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः । चित्तं दूषयति, चित्तं दोषयति । प्रज्ञां दूषयति, प्रज्ञां दोषयति ।
</6-4-91>
मितां ह्रस्वः ।। <6-4-92> ।।
मितो धातवः घटादयो मितः इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः । घटयति ।
व्यथयति । जनयति । रजयति । शमयति । ज्ञपयति । केचिदत्र वा इत्यनुवर्त्तयन्ति, सा च व्यवस्थितविभाषा, तेन उत्क्रामयति, संक्रामयतीत्येवमादि सिद्धं भवति ।।
</6-4-92>
चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ।। <6-4-93> ।।
चिण्परे णमुल्परे च णौ परतो मितामङ्गानामुपधाया दीर्घो भवति अन्यतरस्याम् । अशमि, अशामि । अतमि, अतामि । शमंशमम्, शामंशामम् । तमन्तमम्, तामन्तामम् । दीर्घग्रहणं किम्?, न ह्रस्वविकल्प एव विधीयते? नैवं शक्यम्, शमयन्तं प्रयुंक्ते - इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात् । णिलोपस्य स्थानिवद्भावाद् दीर्घविधौ त्वजादेशो न स्थानिवत् । शमयन्तं प्रयुक्तवान् । अशमि, अशामि । शमंशमम्, शामंशामम्। शंशमयतेः - अशंशमि, अशंशामि । शंशमंशमम् । शंशामंशंशामम् (म.भा.3-212)। योऽसौ णौ णिर्लुप्यते, यश्च यङकारः, तयोद्दीर्घविधौ आदेशो न स्थानिवद्भवतीति अस्थानिवद्भावाद्दीर्घः सिद्धो भवति । ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात् । णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव । व्याश्रयत्वादसिद्धत्वमपि नास्ति । णौ हि णियङोर्लोपः , चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ।।
</6-4-93>
खचि ह्रस्वः ।। <6-4-94> ।।
खच्परे णौ परतो ह्रस्वो भवत्यङ्गस्योपधायाः । द्विषन्तपः । परन्तपः । पुरन्दरः ।।
</6-4-94>
ह्लादो निष्ठायाम् ।। <6-4-95> ।।
ह्लादोऽङ्गस्योपधाया ह्रस्वो भवति निष्ठायां परतः । प्रह्लन्नः । प्रह्लन्नवान् । निष्ठायामिति किम्? प्रह्लादयति । ह्लाद इति योगाविभागः क्रियते, क्तिन्यपि यथा स्यात् - प्रह्लत्तिरिति ।।
</6-4-95>
छादेर्घेऽद्व्युपसर्गस्य ।। <6-4-96> ।।
छादेरङ्गस्याद्व्युपसर्गस्य घप्रत्यये परत उपधाया ह्रस्वो भवति । उरश्छदः । प्रच्छदः । दन्तच्छदः । णिलोपस्य चासिद्धत्वं स्थानिवद्भावो वा वचनसामर्थ्यादत्र न भवतीति ह्रस्वभाविन्युपधा भवति । अद्व्युपसर्गस्येति किम्? समुपच्छादः ।

  • अद्विप्रभूत्युपसर्गस्येति वक्तव्यम् *(म.भा.3-213)। समुपातिच्छादः । उत्तरा हि संख्या पूर्वसंख्याकृतं व्यपदेशं निवर्त्तयति, न हि त्रिपुत्रो द्विपुत्र इति व्यपदिश्यते ।।

</6-4-96>
इस्मन्त्रन्क्विषु च ।। <6-4-97> ।।
इस्, मन्, त्रन्, क्वि - इत्येतेषु परतश्छादेरुपधाया ह्रस्वो भवति । छदि - छद्म। छत्त्रम् । धामच्छत् । उपच्छत् ।।
</6-4-97>
गमहनजनखनघसां लोपः क्ङित्यनङि ।। <6-4-98> ।।
गम, हन, जन, खन, घस - इत्येतेषामङ्गानामुपधाया लोपो भवत्यजादौ प्रत्यये क्ङित्यनङि परतः । जग्मतुः, जग्मुः । जघ्नतुः , जघ्नुः । जज्ञे, जज्ञाते, जज्ञिरे। चख्नतुः, चख्नुः । जक्षतुः जक्षुः । `अक्षन्नमीमदन्त पितरः(वा.सं.19-36) । क्ङितीति किम्? गमनम् । हननम् । अनङीति किम्? अगमत् । अघसत् । अचीत्येव - गम्यते, हन्यते ।।
</6-4-98>
तनिपत्योश्छन्दसि ।। <6-4-99> ।।
तनि, पति - इत्येतयोश्छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः । `वितत्निरे कवयः(ऋ.1-164-5) । `शकुना इव पप्तिम(ऋ.1-107-20) । छन्दसीति किम्? वितेनिरे । पेतिम ।।
</6-4-99>
घसिभसोर्हलि च ।। <6-4-100> ।।
घसि, भस - इत्येतयोश्छन्दसि उपघाया लोपो भवति हलादावजादौ च क्ङिति प्रत्यये परतः । `सग्धिश्च मे सपीतिश्च मे(वा.सं.18-9) । `बब्धां ते हरी धानाः(नि.5-12) । सग्धिरिति - अदेः क्तिनि बहुलं छन्दसि(2-4-39/3398) इति घस्लादेशे उपधाया लोपे च कृते झलो झलि(8-2-26/2281) इति सकारलोपः । धत्वं तकारस्य, जश्त्वं घकारस्य । ततः समाना ग्धिः सग्धिरिति समासे कृते समानस्य सभावः । बब्धामिति - भसेर्लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्त्तव्यानि । द्विर्वचनात्परत्वान्नित्यत्वाच्च उपधालोपः प्राप्नोति, छान्दसत्वात् स तथा न क्रियते । अजादौ - बप्सति । क्ङितीत्येव - `अंशून् बभस्ति(काठ.सं.35-14) ।।
</6-4-100>
हुझल्भ्यो हेर्धिः ।। <6-4-101> ।।
हु इत्येतस्माद् झलन्तेभ्यश्चोत्तरस्य हलादेर्हेः स्थाने धिरादेशो भवति । जुहुधि । झलन्तेभ्यः - भिन्धि । छिन्धि । हुझल्भ्य इति किम्? क्रीणीहि । प्रीणीहि । हेरिति किम्? जुहुताम् । हलीत्येव - रुदिहि । स्वपिहि । इह जुहुतात्, भिन्तात् त्वमिति परत्वात् तातङि कृते `सकृद् गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति पुनर्धिभावो न भवति । भिन्धकि, छिन्धकीत्यत्र परत्वाद् धिभावे कृते पुनः प्रसङ्गविज्ञानादकच् क्रियते ।।
</6-4-101>
श्रुशृणुपॄकृवृभ्यश्छन्दसि ।। <6-4-102> ।।
श्रु, शृणु, पॄ, कृ, वृ - इत्येतेभ्य उत्तरस्य हेर्धिरादेशो भवति छन्दसि विषये । `श्रुधी हवमिन्द्र(ऋ.2-11-3) । `शृणुधी गिरः(ऋ.8-13-7) ।
`पूर्द्धि(ऋ.8-78-10) । `उरुणस्कृधि(ऋ.8-57-11) । `अपावृधि(ऋ.1-7-6) । श्रृणुधीत्यत्र धिभावविधानसामर्थ्याद् उतश्च प्रत्ययात्(6-4-106/2334) इति हेर्लुग्न भवति । अन्येषामपि दृश्यते(6-3-137/3539) इति दीर्घत्वम् । अतोऽन्यत्र व्यत्ययो बहुलम्(3-1-85/3433) इति शप् , तस्य बहुलं छन्दसि(2-4-73/3400) इति लुक् ।।
</6-4-102>
अङितश्च ।। <6-4-103> ।।
अङितश्च हेर्धिरादेशो भवति । वा छन्दसि(3-4-88/3552) इति पित्त्वेनास्याङित्त्वम् । `सोमं रारन्धि(ऋ.1-91-13) । `अस्मभ्यं तद्धर्यश्व प्रयन्धि(ऋ.3-36-9) । `युयोध्यस्मज्जुहुराणमेनः(ऋ.1-189-20) । अङित इति किम्? `हव्यं प्रीणीहि(काठ.सं.40-94) । रारन्धीति - रेमर्व्यत्ययेन परस्मैपदम् , शपः श्लुः , अभ्यासदीर्घत्वं छान्दसत्वात् । मलोपाभावस्तु अङित्त्वादेव । प्रयन्धीति - यमेः शपो लुक् । युयोधीति - यौतेः शपः श्लुः ।।

</6-4-103>
चिणो लुक् ।। <6-4-104> ।।
चिण उत्तरस्य प्रत्ययस्य लुग्भवति । अकारि । अहारि । अलावि । अपाचि । अकारितराम्, अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग्भवति। चिणो लुक् इत्येतद्विषयभेदाद्भिद्यते ।।
</6-4-104>
अतो हेः ।। <6-4-105> ।।
अकारान्तादङ्गादुत्तरस्य हेर्लुग्भवति । पच । पठ । गच्छ। धाव । अत इति किम्? युहि । रुहि । तपरकरणं किम्? लुनीहि । पुनीहि । ईत्वस्यासिद्धत्वादाकार एव भवति ।।
</6-4-105>
उतश्च प्रत्ययादसंयोगपूर्वात् ।। <6-4-106> ।।
उकारो योऽसंयोगपूर्वस्तदन्तात्प्रत्ययादुत्तरस्य हेर्लुग्भवति । चिनु । सुनु । कुरु । उत इति किम्? लुनीहि । पुनीहि । प्रत्ययादिति किम्? रुहि । युहि । असंयोगपूर्वादिति किम्? प्राप्नुहि । राध्नुहि । तक्ष्णुहि ।।

  • उतश्च प्रत्ययाच्छन्दोवावचनम् *(म.भा.3-215)। उतश्च प्रत्ययात् इत्यत्र छन्दसि वा इति वक्तव्यम् । आतनुहि यातुधानान् । `धिनुहि यज्ञपतिम्(काठ.सं.1-6) । `तेन मा भागिनं कृणुहि(अ.वे.6-129-1) ।।

</6-4-106>
लोपश्चास्यान्यतरस्यां म्वोः ।। <6-4-107> ।।
योऽयमुकारोऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्यान्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः । सुन्वः , सुनुवः । सुन्मः , सुनुमः । तन्वः , तनुवः । तन्मः, तनुमः । प्रत्ययस्येत्येव - युवः, युमः । असंयोगपूर्वस्येत्येव - शक्नुवः, शक्नुमः । लुगिति वर्त्तमाने, लोपग्रहणमन्त्यलोपार्थम् ।।
</6-4-107>
नित्यं करोतेः ।। <6-4-108> ।।
करोतेरुत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतो नित्यं लोपो भवति । कुर्वः, कुर्मः । उकारलोपस्य दीर्घविधावस्थानिवद्भावाद् हलि च(8-2-77/354) इति दीर्घत्वं प्राप्तम्, न भकुर्छुराम्(8-2-79/1629) इति प्रतिषिध्यते ।।
</6-4-108>
ये च ।। <6-4-109> ।।
यकारादौ च प्रत्यये परतः करोतेरुत्तरस्योकारप्रत्ययस्य नित्यं लोपो भवति । कुर्यात्, कुर्याताम्, कुर्युः ।।
</6-4-109>
अत उत्सार्वधातुके ।। <6-4-110> ।।
उकारप्रत्ययान्तस्य करोतेरकारस्य स्थाने उकार आदेशो भवति सार्वधातुके क्ङिति परतः । कुरुतः । कुर्वन्ति । सार्वधातुकग्रहणं किम्? भूतपूर्वेऽपि सार्वधातुके यथा स्यात् - कुरु। तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम् । क्ङितीत्येव - करोति । करोषि । करोमि ।।
</6-4-110>
श्नसोरल्लोपः ।। <6-4-111> ।।
श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । रुन्धः, रुन्धन्ति । भिन्तः , भिन्दन्ति । अस्तेः - स्तः , सन्ति । क्ङितीत्येव - भिनत्ति । अस्ति । श्नसोः इत्याकारस्य पररुपत्वं शकान्ध्वादिषु द्रष्टव्यम् ।।
</6-4-111>
श्नाभ्यस्तयोरातः ।। <6-4-112> ।।
श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्हिति परतः । लुनते । लुनताम् । अलुनत । अभ्यस्तानाम् - मिमते । मिमताम् । अमिमत । सञ्जिहते । सञ्जिहताम । समजिहत । श्नाभ्यस्तयोरिति किम्? यान्ति। वान्ति । आत इति किम्? बिभ्रति । क्ङितीत्येव - अलुनात् । अजहात् । आद्ग्रहणं स्पष्टार्थम् ।।
</6-4-112>
ई हल्यघोः ।। <6-4-113> ।।
श्नान्तानामड्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः । लुनीतः , पुनीतः । लुनीथः, पुनीथः। लुनीते, पुनीते । अभ्यस्तानाम् - मिमीते । मिमीषे । मिमीध्वे। सञ्जिहीते । सञ्जिहीषे । सञ्जिहीध्वे । हलीति किम्? लुनन्ति । मिमते । अघोरिति किम्? दत्तः । धत्तः । क्ङितीत्येव - लुनाति । जहाति ।।
</6-4-113>
इद्दरिद्रस्य ।। <6-4-114> ।।
दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति । दरिद्रितः । दरिद्रिथः । दरिद्रिवः । दरिद्रिमः । हलीत्येव - दरिद्रति । क्ङितीत्येव - दरिद्राति ।

  • दरिद्रातेरार्धधातुके लोपो वक्तव्यः *(म.भा.3-217)।
  • सिद्धश्च प्रत्ययविधौ भवतीति वक्तव्यम् *(म.भा.3-217)। दरिद्रातीति दरिद्रः । आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति ।

`न दरिद्रायके लोप दरिद्राणे च नेष्यते ।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ।।(म.भा.3-217)

  • अद्यतन्यां वेति वक्तव्यम् *। अदरिद्रीत्, अदरिद्रासीत्। दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम् ।।

</6-4-114>
भियोऽन्यतरस्याम् ।। <6-4-115> ।।
 भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः । बिभितः, बिभीतः । बिभिथः, भिभीथः। बिभिवः , बिभीवः । बिभिमः, बिभीमः । हलादावित्येव - बिभ्यति । क्ङितीत्येव - बिभेति । सार्वधातुक इत्येव - भीयते ।।
</6-4-115>
जहातेश्च ।। <6-4-116> ।।
जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः । जहितः, जहीतः। जहिथः, जहीथः। हलादावित्येव - जहति । क्ङितीत्येव - जहाति । सार्वधातुक इत्येव - हीयते । जेहीयते । पृथग्योगकरणमुत्तरार्थम् ।।
</6-4-116>
आ च हौ ।। <6-4-117> ।।
जहातेराकारश्चान्तादेशो भवति ङकारश्चान्यतरसायां हौ परतः । जहाहि, जहिहि, जहीहि ।।
</6-4-117>
लोपो यि ।। <6-4-118> ।।
लोपो भवति जहातेर्यकारादौ क्ङिति सार्वधातुके परतः । जह्यात् , जह्याताम्। जह्युः ।।
</6-4-118>
घ्वसोरेद्धावभ्यासलोपश्च ।। <<6-4-119>> ।।
घुसंज्ञकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतोऽभ्यासलोपश्च । देहि । धेहि । अस्तेः - श्नसोरल्लोपः(6-4-111/2469) इत्येकारलोपः, एधि । शिदयं लोपः, तेन सर्वस्याभ्यासस्य भवति ।।
</6-4-119>
अत एकहल्मध्येऽनादेशादेर्लिटि ।। <6-4-120> ।।
लिटि परत आदेश आदिर्यस्याङ्गस्य नास्ति तस्य एकहल्मध्ये असहाययोर्हलोर्मध्ये योऽकारस्तस्य एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः। रेणतुः, रेणुः । येमतुः, येमुः । पेचतुः, पेचुः। देमतुः, देमुः। अत इति किम्? दिदिवतुः। दिदिवुः । तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्य इति किम्? ररक्षतुः, ररक्षुः। तत्सरतुः, तत्सरुः। अनादेशादेरिति किम्? चकणतुः, चकणुः। जगणतुः, जगणुः। बभणतुः , बभणुः । लिट आदेशविशेषणं किम्? इहापि यथा स्यात् - नेमतुः, नेमुः । सेहे, सेहाते, सेहिरे । अनैमित्तिके नत्वसत्वे, तदादिर्लिट्यादेशादिर्न भवति । इहाभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर्भवति । तथा च फलिभजोरेत्वं विधीयते । रूपाभेदे चादेशादिर्नाश्रीयत इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्, अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुरित्येवमादीनामपि प्रकृतिजश्चरादीनामेत्वं न स्यात् । क्ङितीत्येव - अहं पपच । अहं पपठ ।

  • दम्भेरेत्वं वक्तव्यम् *(म.भा.3-218)। देभतुः । देभुः । नलोपस्यासिद्धत्वान्न प्राप्नोति ।
  • नशिमन्योरलिट्येत्वं वक्तव्यम् *(म.भा.3-218)। अनेशम् । मेनका । अनेशामिति नशेर्लुङि पुषादित्वाद्ङ् । मेनकेति मनेः आशिषि च(3-1-150य2912)इति वुन् । क्षिपकादिषु प्रक्षेपादित्वं न क्रियते ।
  • छन्दस्यमिपचोरप्यलिटि एत्वं वक्तव्यम् *(म.भा.3-219)। व्येमानम् । अमेर्विपूर्वस्य चानशि मुक् न क्रियते । लिङि - पेचिरन् । पचेरन्नित्येतस्य छान्दसं ह्रस्वत्वम् ।* यजिवप्योश्च *(म.भा.3-219)। आयेजे । आवेपे । येर्वपेश्च लङि इटि छन्दस्यपि दृश्यते(6-4-73/3545) इत्यनजादेरप्याडागमः ।।

</6-4-120>
थलि च सेटि ।। <6-4-121> ।।
थलि च सेटि परतोऽनादेशादेरङ्गस्य एकहल्मध्यगतस्यातः स्थाने एकार आदेशो भवति अभ्यासलोपश्च । पेचिथ । शेकिथ । सेटीति किम्? पपक्थ। थल्ग्रहणं विस्पष्टार्थम् । अक्ङिदर्थमेतद्वचनमित्यन्यस्येटोऽसम्भवात् । अत इत्येव - दिदेविथ। एकहल्मध्यगतस्य इत्येव - ततक्षिथ । ररक्षिथ । अनादेशादेरित्येव - चकणिथ । बभणिथ ।।
</6-4-121>
तॄफलभजत्रपश्च ।। <6-4-122> ।।
तॄ , फल, भज, त्रप - इत्येतेषामङ्गानामत एकारादेशो भवति , अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि । तेरतुः, तेरुः, तेरिथ । फेलतुः, फेलिथ। भेजतुः , भेजुः, भेजिथ । त्रेपे, त्रेपाते, त्रेपिरे । तरतेर्गुणार्थं वचनम् । फलिभजोरादेशाद्यर्थम् । त्रपेरनेकहल्मध्यार्थम् ।

  • श्रन्थेश्चेति वक्तव्यम् *। श्रेथतुः , श्रेथुः ।।

</6-4-122>
राधो हिंसायाम् ।। <6-4-123>।।
राधो हिंसायामर्थेऽवर्णस्य एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि । अपरेधतुः, अपरेधुः, अपरेधिथ। हिंसायामिति किम्? रराधतुः, रराधुः, रराधिथ। अत इत्येततदिहोपस्थितं तपरत्वकृतमपास्य कालविशेषमसम्भवादवर्णमात्रं प्रतिपादयति । अथ वा - श्नाभ्यस्तयोरातः(6-4-112/2483) - इत्यनुवर्त्तते इति व्याख्येयम् । एकहलमध्ये वा यः स स्थानी भवतिष्यति ।।
</6-4-123>
वा जॄभ्रमुत्रसाम् ।। <6-4-124> ।।
जॄ, भ्रमु, त्रस - इत्येतेषामड्गानामतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतस्थलि च सेटि । जेरतुः,जेरुः, जेरिथ। जजरतुः, जजरुः, जजरिथ। भ्रेमतुः, भ्रेमुः, भ्रेमिथ। बभ्रमतुः, बभ्रमुः, बभ्रमिथ । त्रेसतुः, त्रेसुः, त्रेसिथः तत्रसतुः, तत्रसुः, तत्रसिथ ।।
</6-4-124>
फणां च सप्तानाम् ।। <6-4-125> ।।
फणादिनां सप्तानां धातूनामवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः, थलि च सेटि । फेणतुः, फेणुः, । फेणिथ। पफणतुः, पफणुः, पफणिथ। रेजतुः, रेजुः, रेजिथ, रराजतुः, रराजुः, रराजिथ। भ्रेजे, भ्रेजाते, भ्रेजिरेः। बभ्राजे, बभ्राजाते, बभ्राजिरे । भ्रेशे, भ्रेशाते ,भ्रेशिरे, बभ्राशे, बभ्राशाते, बभ्राशिरे। भ्लेशे, भ्लेशाते, भ्लेशिरे। बभ्लाशे, बभ्लाशाते , बभ्लाशिरे । स्येमतुः, स्येमुः, स्येमिथः, सस्यमतुः, सस्यमुः, सस्यमिथ। स्वेनतुः, स्वेनुः, स्वेनिथ,सस्वनतुः, सस्वनुः, सस्वनिथ। सप्तानामिति किम्? दध्वनतुः, दध्वनुः, दध्वनिथः ।।
</6-4-125>
नशसददवादिगुणानाम् ।। <6-4-126> ।।
शस, दद - इत्येतयोर्वकारादीनां च धातूनां गुण इत्येवमभिनिर्वृत्तस्य च योऽकारस्तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च । विशशासतुः, विशशसुः, विशशसिथ। दददे, दददाते, दददिरे । वादीनाम् - ववमतुः, ववमुः, ववमिथ। गुणस्य - विशशरतुः, विशशरुः, विशशरिथ । लुलविथ, पुपविथ।
गुणशब्दाभिनिर्वृत्तस्यार्शब्दस्यौकारस्य चायमकार इति एत्वं प्रतिषिध्यते ।।
</6-4-126>
अर्वणस्त्रसावनञः ।। <6-4-127> ।।
अर्वन्नित्येतस्याङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत्ततः परो न भवति, स च नञ उत्तरो न भवति । अर्वन्तौ, अर्वन्तः। अर्वन्तम्, अर्वन्तौ, अर्वतः। अर्वता, अर्वद्भ्याम्, अर्वद्भिः। अर्वती। आर्वतम् । असाविति किम्? अर्वा । अनञ इति किम्? अनर्वाणौ, अनर्वाणः । `अनर्वाणं वृषभं मन्द्रजिह्वम्(ऋ.1-190-1) ।।
</6-4-127>
मघवा बहुलम् ।। <6-4-128> ।।
मधवन् इत्येतस्याङ्गस्य बहुलम् तृ इत्ययमादेशो भवति । मघवान्, मघवन्तौ, मघवन्तः। मघवन्तम्, मघवन्तौ, मघवतः। मघवता । मघवती। माघवतम् । न च भवति - मघवा, मघवानौ, मघवानः। मघवानम्, मघवानौ, मघोनः । मघोना, मघवभ्याम्, मघवभिः। मघोनी। माघवनम् ।।
</6-4-128>
भस्य ।। <6-4-129> ।।
भस्य इत्ययमधिकार आ अध्यायपिरसमाप्तेः। यदित ऊर्ध्वमनुक्रमिष्यामो भस्येत्येवं तद्वेदितव्यम् । वक्ष्यति - पादः पत्(6-4-130/414) । द्विपदः पश्य। द्विपदा कृतम् । भस्येति किम्? द्विपादौ । द्विपादः ।।
</6-4-129>
पादः पत् ।। <6-4-130> ।।
पादः इति पादशब्दो लुप्ताकारो गृह्यते, तदन्तस्याङ्गस्य भस्य पत् इत्ययमादेशो भवति । स च `निर्द्दिश्यमानस्यादेशा भवन्ति(व्या.प.106) इति पाच्छब्दस्यैव भवति, न तदन्तस्य सर्वस्य । द्विपदः पश्य । द्विपदा । द्विपदे । द्विपदिकां ददाति । त्रिपदिकां ददाति । वैयाघ्रपद्यः।।
</6-4-130>
वसोः सम्प्रसारणाम् ।। <6-4-131> ।।
वस्वन्तस्य भस्य सम्परसारणं भवति । विदुषः पश्य । विदुषा । विदुषे । पेचुषः पश्य । पेचुषा । पेचुषे । पपुषः पश्य । आकारलोपे कर्त्तव्ये वसुसम्प्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति। वसुग्रहणे क्वसोरपि ग्रहणमिष्यते ।
</6-4-131>
वाह ऊठ् ।। <6-4-132> ।।
वाहः इत्येवमन्तस्य भस्य ऊठ् इत्येतत्सम्प्रसारणं भवति । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । दित्यौहः । दित्यौहा । दित्यौहे । एत्येधत्यूठ्‌सु(6-1-89/73) इति वृद्धिः । अथ किमर्थमूठ् क्रियते , सम्प्रसारण एव कृते गुणे च वुद्धिरेचि(6-1-88/72) इति वृद्धौ सत्यां सिद्धं रूपं भवति - प्रष्ठौह इति , अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते ? ज्ञापनार्थम् । एतज्झापयति - भवत्येषा परिभाष `असिद्धं बहिरङ्गमन्तरङे(व्या.प.42) इति । तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्यासिद्धत्वाद् अन्तरङ्गो गुणो न स्यात् ।।
</6-4-132>
श्वयुवमघोनामतद्धिते ।। <6-4-133> ।।
श्वन्, युवन्, मघवन् - इत्येतेषामङ्गानामतद्धिते प्रत्यये परतः सम्प्रसारणं भवति । शुनः, शुना, शुने । यूनः, यूना, यूने । मघोनः, मघोना, मघोने । अतद्धित इति किम्? शौवं मांसम् । यौवनं वर्त्तते । माघवनः स्थालीपाकः । शुनो विकारे प्राणिरजतादिभ्योऽञ्(4-3-154/1532) द्वारादित्वादैजागमः । श्वादीनामेतत्सम्प्रसारणं नकारान्तानामिष्यते । इह न भवति युवतीः पश्य। मघवता, मघवते। तदर्थमुत्तरत्र योगविभागं कुर्वन्ति - अल्लोपः ,अनः, अन इत्युभयोः शेष इति ।।
</6-4-133>
अल्लोपोऽनः ।। <6-4-134> ।।
अन् इत्येवमन्तस्य भस्य अकारलोपो भवति । राज्ञः पश्य। राज्ञा । राज्ञे । तक्ष्णः पश्य । तक्ष्णा । तक्ष्णे ।
अनो नकारान्तस्यायं लोप इष्यते । इह न भवति - राजकीयमिति ।।
</6-4-134>
षपूर्वहन्धृतराज्ञामणि ।। <6-4-135> ।।
षकारपूर्वो योऽन् हनो धृतराज्ञश्च तस्याकारलोपो भवति अणि परतः । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धार्त्तराज्ञः । षपूर्वहन्धृतराज्ञामिति किम्? सामनः । वैमनः । अन् इति प्रकृतिभावेनाल्लोपटिलोपावुभावपि न भवतः । अणीति किम्? ताक्षण्यः ।।
</6-4-135>
विभाषा ङिश्योः ।। <6-4-136> ।।
ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति । राज्ञि, राजनि । साम्नि , सामनि। साम्नी, सामनी।।
</6-4-136>
न संयोगाद्वमन्तात् ।। <6-4-137> ।।
वकारमकारान्तात्संयोगादुत्तरस्यानोऽकारस्य लोपो न भवति । पर्वणा, पर्वणे । अथर्वणा, अथर्वणे । संयोगादिति किम्? प्रतिदीव्ना । प्रतिदीव्ने । साम्ना, साम्ने । वमन्तादिति किम्? तक्ष्णा । तक्ष्णे ।।
</6-4-137>
अचः ।। <<6-4-138>> ।।
अचः इत्ययमञ्चतिर्लुप्तनकारो गृह्यते, तदन्तस्य भस्य अकारस्य लोपो भवति । दधीचः पश्य । दधीचा , दधीचे । मधुचः पश्य । मधूचा , मधूचे ।।
</6-4-138>
उद ईत् ।। <6-4-139> ।।
उद उत्तरस्याच ईकारादेशो भवति । उदीचः । उदीचा । उदीचे ।।
</6-4-139>
आतो घातोः ।। <6-4-140> ।।
आकारान्तस्य धातोर्भस्य लोपो भवति । कीलालपः पश्य । कीलालपा, कीलालपे । शुभंयः पश्य । शुभंया, शुभंये । आत इति किम्? निया, निये । धातोरिति किम्? खट्वाः पश्य । मालाः पश्य । आतः इति योगविभागः, तेन क्त्वो ल्यप्(7-1-37/3332) हलः श्नः शानच्(3-1-83/2557) इत्येवमादि सिद्धं भवति ।।
</6-4-140>
मन्त्रेष्वाङ्यादेरात्मनः ।। <6-4-141> ।।
<K.5.489>
मन्त्रेषु आङि परत आत्मन आदेर्लोपो भवति । त्मना देवेभ्यः । त्मना सोमेषु । मन्त्रेष्विति किम्? आत्मना कृतम् । आङीति किम्? यदा त्मनस्तन्नो वरिष्ठा ।

  • आङोऽन्यत्रापि दृश्यते *। `त्मन्यासञ्जन्(ऋ.10-110-10) ।।

</6-4-141>
ति विंशतेर्डिति ।। <6-4-142> ।।
भस्य विंशतेस्तिशब्दस्य डिति प्रत्यये परतो लोपो भवति । विंशात्या क्रीतः विंशकः । विंशं शतम् । विंशतेः पूरणो विंशः । एकविंशः । <K.5.490> डितीति किम्? विंशत्या ।।
</6-4-142>
टेः ।। <6-4-143> ।।
टिसंज्ञकस्य डिति प्रत्यये परतो लोपो भवति । कुमुद्वान् । नड्‌वान् । वेतस्वान् । उपसरजः । मन्दुरजः । त्रिंशता क्रीतः त्रिंशकः । डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् टिलोपो भवति ।।
</6-4-143>
नस्तद्धिते ।। <6-4-144> ।।
<K.5.491>
नकारान्तस्य भस्य टेर्लोपो भवति तद्धिते परतः । आग्निशर्मिः । औडुलोमिः । बाह्वादित्वाद् इञ्प्रत्ययः । न इति किम्? सात्वतः । तद्धित इति किम्? शर्मणा । शर्मणे ।

  • नान्तस्य टिलोपे सब्रह्मचारिपीठसर्प्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणा- मुपसंख्यानं कर्तव्यम् *। अत्र ये इन्नन्तास्तेषाम् इनण्यनपत्ये इति प्रकृतिभावः प्राप्तः, ये त्वन्नन्तास्तेषाम् अन् इति। सब्रह्मचारिण इमे साब्रह्मचाराः । पीठसर्पिणः - पैठसर्पाः । कलापिना प्रोक्तमधीयते कालापाः । कुथुमिनः - कौथुमाः । तैतिलिजाजलिनावाचार्यौ, तत्कृतो ग्रन्थ उपचारात् तैतिलिजाजलिशब्दाभ्यामभिधीयते, तं ग्रन्थमधीयते तैतिलाः, जाजलाः । शैषिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति । एवं लाङ्गलाः । शैलालाः । शिखण्डिनः - शैखण्डाः । सूकरसद्मनः - सौकरसद्माः । सुपर्वणः सौपर्वाः ।

<K.5.492>

  • अश्मनो विकार उपसंख्यानमम् *। अश्मनो विकार आश्मः । आश्मनः अन्यः ।
  • चर्मणः कोश उपसंख्यानम् *। चार्मः कोशः । चार्मणः अन्यः ।
  • शुनः सङ्कोच उपसंख्यानम् *। शौवः सङ्कोचः । शौवनः अन्यः ।
  • अव्ययानां च सायम्प्रातिकाद्यर्थमुपसंख्यानम् *।

के पुनः सायम्प्रातिकादयः? येषामव्ययानामविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायम्प्रातिकप्रकारा ग्रहीतव्याः । सायम्प्रातर्भवः सायम्प्रातिकः । पौनःपुनिकः । बाह्यः । कौतस्कुतः । कालाट्ठञ् इति ठञ्प्रत्ययः । <K.5.493> ट्युट्युलौ तु नेष्येते । आरातीयः, शाश्वतिकः, शाश्वतः - इत्येवमादिषु न दृश्यते टिलोपः ।।
</6-4-144>
अह्नष्टखोरेव ।। <6-4-145> ।।
अहन् इत्येतस्य टखोरेव परतष्टिलोपो भवति । द्वे अहनी समाहृते द्व्यहः । त्र्यहः । द्वे अहनी अधीष्टो भूतो भूतो भावी वा द्व्यहीनः । त्र्यहीनः । अह्नां समूहः क्रतुः अहीनः । * अह्नः समूहे खो वक्तव्यः *।
सिद्धे सत्यारम्भो नियमार्थः । <K.5.494> इह मा भूत् - अह्ना निर्वृत्तमाह्निकम् । एवकारकरणं विस्पष्टार्थम् । अह्न एव टखोः - इत्येवं नियमो न भविष्यति, आत्माध्वानौ खे इति प्रकृतिभावविधानात् ।।
</6-4-145>
ओर्गुणः ।। <6-4-146> ।।
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डलव्या मृत्तिका । परशव्यम् अयः । औपगवः । कापटवः । ओरोत् इति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा <K.5.495> स्यात्, तेन स्वायम्भुव इति सिद्धं भवति ।।
</6-4-146>
ढे लोपोऽकद्रवाः ।। <6-4-147> ।।
ढे परत उवर्णान्तस्य भस्याकद्र्वा लोपो भवति । कामण्डलेयः । शैतवाहेयः । जाम्बेयः । माद्रबाहेयः । अकद्र्‌वा इति किम्? काद्रवेयो मन्त्रमपश्यत् ।।
</6-4-147>
यस्येति च ।। <6-4-148> ।।
इवर्णान्तस्यावर्णान्तस्य च भस्य इकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे - दाक्षी । प्लाक्षी । सखी । सवर्णदीर्घत्वे हि सत्यतिसखेरागच्छतीत्यत्र एकादेशस्यान्तवत्त्वादसखीति घिसंज्ञायाः प्रतिषेधः स्यात् ।
इवर्णान्तस्य तद्धिते - दुलि, दौलेयः। वलि, वालोयः । अत्त्रि, आत्त्रेयः । अवर्णान्तस्य ईकारे - कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते - दाक्षिः । प्लाक्षिः । चौडिः । बालाकिः । सौमित्रिः ।

  • यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः *(म.बा.3-227)। काण्डे । कुड्ये । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते `यस्येति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः(6-4-149/499) इति च लोपः प्राप्नोति ।
  • इयङुवङ्‌भ्यां लोपो भवति विप्रतिषेधेन *(म.भा.3-227)। वत्सान्प्रीणाति वत्सप्रीः , तस्यापत्यं वात्सप्रेयः । चतुष्पाद्भ्यो ढञ्(4-1-135/1141) इति ढञ् प्रत्ययः । लेखाभ्रूः शुभ्रादिः, तस्या अपत्यं लैखाभ्रेयः ।।

</6-4-148>
सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ।। <6-4-149> ।।
सूर्य, तिष्य, अगस्त्य, मत्स्य - इत्येतेषां यकारस्य उपधाया भस्य लोपो भवति ईति परतस्तद्धिते च । सूर्येणैकदिक् सौरी बलाका । अणि यो यस्येति लोपस्तस्यासिद्धत्वं नास्ति, व्याश्रयत्वात् । ईकारे तु यस्तस्यासिद्धत्वाद् उपधायकारो भस्याणन्तस्य सूर्यसेय सम्बन्धीति लुप्यते । तिष्य - तैषमहः । तैषी रात्रीः । अघस्त्यस्यापत्यं स्त्री, ऋषित्वादणि कृते - आगस्ती । आगस्तीयः । मत्स्य - गौरादित्वान् ङीष् , मत्सी । उपधाया इति किम्? मत्स्यचरी । यग्रहणमुत्तरार्थम् । विषयपरिगणनमत्र वर्त्तव्यम् -

  • मत्स्यस्य ङ्यामिति वक्तव्यम् *(म.भा.3-228)। इह मा भूत् - मत्स्यस्येदं मांसं मात्स्यम् ।
  • सूर्यागस्त्ययोश्छे च ङ्यां च *(म.बा.3-228)। सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत् - सौर्यं चरुं निर्वपेत् । आगस्त्यः ।
  • तिष्यपुष्ययोर्नक्षत्राणि *(म.भा.3-228)। तिष्येण नक्षत्रेण युक्तः कालः तैषः । पौषः ।
  • अन्तिकस्य तसि कादिलोप आद्युदात्तं च *(म.भा.3-228)। अन्तिकशब्दस्य तसिप्रत्यये परतः ककारादेः शब्दस्य लोपो वक्तव्यः, आद्युदात्तं च । अन्तितो न दूराद् ।
  • तमे तादेश्च *(म.भा.3-228)। तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्तव्यः । तत्र तादिलोपे - अन्तमः । कादिलोपे - अन्तितमः ।
  • कादिलोपे बहुलमिति वक्तव्यम् *(म.भा.3-229)। अन्यत्रापि हि दृश्यते - अन्तिके सीदतीति अन्तिषत् । पूर्वपदात्(8-3-106/3643) इति षत्वम् ।
  • ये च *(म.भा.3-229)। अन्तियः ।।

</6-4-149>
हलस्तद्धितस्य ।। <6-4-150> ।।
तद्धिते इति निवृत्तम् । हल उत्तरस्य तद्धितयकारस्य उपधाया ईति परतो लोपो भवति । गार्गी । वात्सी । हल इति किम्? कारिकेयी । तद्धितस्येति किम्? वैद्यस्य भार्या वैद्यी ।।
</6-4-150>
आपत्यस्य च तद्धितेऽनाति ।। <6-4-151> ।।
अपत्ययकारस्य हल उत्तरस्य तद्धिते अनाकारादौ यलोपो भवति । गार्ग्याणां समूहो गार्गकम् । वात्सकम् । आपत्यस्येति किम्? साङ्काश्यकः । काम्पिल्यकः । तद्धितग्रहणमीत्यनापत्यस्यापि लोपार्थम् - सौमी इष्टिः । अनातीति किम्? गार्ग्यायणः । वात्स्यायनः । हल इत्येव - कारिकेयस्यापत्यं कारिकेयिः ।।
</6-4-151>
क्यच्व्योश्च ।। <6-4-152> ।।
क्य, च्वि - इत्येतयोश्च परत आपत्ययकारस्य हल उत्तरस्य लोपो भवति । वात्सीयति । गार्गीयति । वात्सीयते । गार्गीयते । च्वौ - गार्गीभूतः । वात्सीभूतः । आपत्यस्येत्येव - साङ्काश्यायते । साङ्काश्यभूतः । हल इत्येव - कारिकेयीयति । कारिकेयीभूतः ।।
</6-4-152>
बिल्वकादिभ्यश्छस्य लुक् ।। <6-4-153> ।।
नडादिषु बिल्वादयः पठ्यन्ते । नडादीनां कुक्च(4-2-91/1310) इति कृतकुगागमा बिल्वकादयो भवन्ति, तेभ्य उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति । बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः।
वेणुकीयाः , वैणुकाः । वेत्रकीयाः, वैत्रकाः । वेतसकीयाः, वैतसकाः । तृणकीयाः, तार्णकाः । इक्षुकीयाः , ऐक्षुकाः । काष्ठकीयाः, काष्ठकाः । कपोतकीयाः , कापोतकाः । `क्रुञ्चायां ह्रस्वत्वं च(ग.सू.92) । क्रुञ्चकीयाः, क्रौञ्चकाः । छग्रहणं किम्? छमात्रस्य लुग्यथा स्याद्, कुको निवृत्तिर्मा भूदिति, अन्यथा हि `सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यभावः(व्या.प.48) इति कुगपि निवर्त्तेत । लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत् ।।
</6-4-153>
तुरिष्ठेमेयस्सु ।। <6-4-154> ।।
इष्ठन्, इमनिच् , ईयसुन् - इत्येतेषु परतः तृशब्दस्य लोपो भवति । आसुतिं करिष्ठः । विजयिष्ठः । वहिष्ठः । दोहीयसी धेनुः । सर्वस्य तृशब्दस्य लोपार्थं वचनम् । अन्त्यस्य हि टेः(6-4-155/1786)इत्येव सिद्धः । लुगित्येतद्त्र नानुवर्त्तते, तथा हि सति न लुमताङ्गस्य(1-1-63/263) इति प्रतिषेधाद् गुणो न स्यात् । इमनिज्ग्रहणमुत्तरार्थम् । इत्रौ तु तुश्छन्दसि(5-3-59/2007) इति भवतः ।।
</6-4-154>
टेः ।। <6-4-155> ।।
भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु - पटिष्ठः, पटिमा, पटीयान् । लघु - लघिष्ठः, लघिमा, लघीयान्।

  • णाविष्ठवत्प्रातिपदिकस्य कार्यं भवतीति वक्तव्यम् *(म.भा.3-230)। किं प्रयोजनम्? पुंवद्भावरभावटिलोपयणादिपरार्थम् । पुंवद्भावः - एनीमाचष्टे एतयति । श्येतयति । तसिलादिष्वाकृत्वसुचः(6-3-35/836) इति इष्ठे पुंवद्भाव उक्तः । रभावः - पृथुमाचष्टे प्रथयति । म्रदयति । टिलोपः - पटुमाचष्टे पटयति । लघयति । यणादिपरम् - स्थूलमाचष्टे स्थवयति ।

भारद्वाजीयास्तु पठन्ति - `णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थम् इति । स्रग्विणमाचष्टे स्रजयति । वसुमन्तमाचष्टे वसयति । युवानमाचष्टे यवयति । कनयति । एतदुभयमप्युदाहरणमात्रम् , न परिगणनम् । प्रादयोऽपि हीष्यन्ते - प्रियमाचष्टे प्रापयति ।।
</6-4-155>
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।। <6-4-156> ।।
स्थूल, दूर, युव, ह्रस्व, क्षिप्र, क्षुद्र - इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति । स्थूल - स्थविष्ठः, स्थवीयान् । दूर- दविष्ठः, दवीयान् । युवन् - यविष्ठः , यवीयान् । ह्रस्व - ह्रसिष्ठः, ह्रसीयान् , ह्रसिमा । क्षिप्र - क्षेपिष्ठः, क्षेपीयान्, क्षेपिमा । क्षुद्र - क्षोदिष्ठः, क्षोदीयान्, क्षोदिमा । ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते । परग्रहणं किम्? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयान् इत्यत्र पूर्वस्य यणादेर्लोपो मा भूत् । पूर्वग्रहणं विस्पष्टार्थम् ।।
</6-4-156>
प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ।। <6-4-157> ।।
प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक - इत्येतेषां प्र, स्थ, स्फ, वर्, बंहि, गर्, वर्षि, त्रप्, द्राघि, वृन्द - इत्येते यथासंख्यमादेशा भवन्ति इष्ठेमेयस्सु परतः । प्रिय - प्रेष्ठः । प्रेमा । प्रेयान् । स्थिर - स्थेष्ठः । स्थेयान् । स्फिर - स्फेष्ठः । स्फेयान् । उरु - वरिष्ठः । वरिमा । वरीयान् । बहुल - बंहिष्ठः । बंहिमा । बंहीयान् । गुरु - गरिष्ठः । गरिमा । गरीयान् । वृद्ध - वर्षिष्ठः । वर्षीयान् । तृप्र - त्रपिष्ठः । त्रपीयान् । दीर्घ - द्राघिष्ठः । द्राघीयान् । द्राघिमा । वृन्दारक - वृन्दिष्ठः । वृन्दीयान् । प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेनान्येषामिमनिज् न भवतीति नोदाह्रियते ।।
</6-4-157>
बहोर्लोपो भू च बहोः ।। <6-4-158> ।।
बहोरुत्तरेषामिष्ठेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति । भूयान् । भूमा । बहुशब्दः पृथ्वादिषु पठ्यते । बहोः इति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम् , अन्यथा हि प्रत्ययानामेव भूभावः स्यात् ।।
</6-4-158>
इष्ठस्य यिट् च ।। <6-4-159> ।।
बहोरुत्तरस्य इष्ठस्य यिडागमो भवति बहोश्च भूरादेशो भवति । भूयिष्ठः । लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः ।।
</6-4-159>
ज्यादादीयसः ।। <6-4-160> ।।
ज्यादुत्तरस्य ईयस आकार आदेशो भवति । ज्यायान् । लोपस्य यिदा व्यवहितत्वादादित्युच्यते । लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति ।।
</6-4-160>
र ऋतो हलादेर्लघोः ।। <6-4-161> ।।
 रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोरिष्ठेमेयस्सु परतः । प्रथिष्ठः, प्रथिमा, प्रथीयान्। म्रदिष्ठः , म्रदिमा, म्रदीयान् । ऋत इति किम्? पटिष्ठः, पटिमा, पटीयान् । हलादेरिति किम्? ऋजिष्ठः, ऋजिमा, ऋजीयान् । लघोरिति किम्? कृष्णिष्ठः , कृष्णीयान्, कृष्णिमा । परिगणनं कर्त्तव्यम्-
पृथुं मृदुं भृशं चैव कृशं च दृढमेव च ।
परिपूर्वं वृढं चैव षडेतान् रविधौ स्मरेत् ।।
तत इह न भवति - कृतमाचष्टे कृतयति, मातरमाचष्टे मातयति, भ्रातयति ।।
</6-4-161>
विभाषर्जोश्छन्दसि ।। <6-4-162> ।।
ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतश्छन्दसि विषये । `रजिष्ठमेति पन्थानम्(ऋ.1-91-1) । त्वमृजिष्ठः ।।
</6-4-162>
 प्रकृत्यैकाच् ।। <6-4-163> ।।
एकाज् यद्भसंज्ञकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति । स्रग्विन्नित्येतस्य विन्नन्तस्य - स्रजिष्ठः, स्रजीयान्, स्रजयति । स्रुग्वदित्येतस्य मत्वन्तस्य - स्रुचिष्ठः , स्रुचीयान्, स्रुचयति । एकाजिति किम्? वसुमदित्येतस्य वसिष्ठः । वसीयान् ।

  • प्रकृत्याऽके राजन्यमनुष्ययुवानः *(म.भा.3-233)। अके प्रत्यये परतो राजन्य, मनुष्य, युवन् - इत्येते प्रकृत्या भवन्ति । राजन्यानां समूहो राजन्यकम् । मनुष्याणां समूहो मानुष्यकम् । आपत्यस्य च तद्धितेऽनाति(6-4-151/1082) इति यलोपः प्रकृतिभावेन न भवति । यूनो भावः यौवनिका । मनोज्ञादित्वाद् वुञ्, तस्य नस्तद्धिते(6-4-144/679) इति टिलोपो न भवति ।।

</6-4-163>
इनण्यनपत्ये ।। <6-4-164> ।।
इन्नन्तमनपत्यार्थेऽणि परतः प्रकृत्या भवति । सांकूटिनम् । सांराविणम् । सांमार्जिनम् । अभिविधौ भाव इनुण्(3-3-44/3218) , अणिनुणः(5-4-15/3229), इत्यण् । स्रग्विण इदं स्राग्विणम् । अणीति किम्? दण्‍डिनां समूहो दाण्डम् । अनुदात्तादेरञ् इत्यञ्प्रत्ययः । अनपत्य इति किम् ? मेधाविनोऽपत्यं मैधावः ।।
</6-4-164>
गाथिविदिथिकेशिगणिपणिनश्च ।। <6-4-165> ।।
गाथिन् , विदथिन्, केशिन्, गणिन्, पणिन् - इत्येते चाणि प्रकृत्या भवन्ति । गाथिनोऽपत्यं गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । अपत्यार्थोऽयमारम्भः ।।
</6-4-165>
संयोगादिश्च ।। <6-4-166> ।।
संयोगादिश्च इनणि प्रकृत्या भवति । शङ्खिनोऽपत्यं शाङ्खिनः । माद्रिणः । वाज्रिणः ।।
</6-4-166>
अन् ।। <6-4-167> ।।
अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च । सामनः । वैमनः । सैत्वनः । जैत्वनः ।।
</6-4-167>
ये चाभावकर्मणोः ।। <6-4-168> ।।
यकारादौ च तद्धितेऽभावकर्मणोरर्थयोरन् प्रकृत्या भवति । सामसु साधुः सामन्यः । वेमन्यः । अभावकर्मणोरिति किम्? राज्ञो भावः कर्म वा राज्यम् । राजन् इति पुरोहितादिषु पठ्यते, ततोऽयं यक् प्रत्ययः ।।
</6-4-168>
आत्माध्वानौ खे ।। <6-4-169> ।।
आत्मन् अध्वन् - इत्येतौ खे परतः प्रकृत्या भवतः । आत्मने हित आत्मनीनः । अध्वानमलङ्गामी अध्वनीनः । ख इति किम्? प्रत्यात्मम् । प्राध्वम् । प्रत्यात्मम् - इत्यव्ययीभावे अनश्च(5-4-108/678) इति समासान्तष्टच्प्रत्ययः । प्राध्वम् - इति उपसर्गादध्वनः(5-4-85/953) इति अच्प्रत्ययः ।।
</6-4-169>
न मपूर्वोऽपत्येऽवर्मणः ।। <6-4-170> ।।
मपूर्वोऽन् अवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति । सुषाम्णोऽपत्यं सौषामः । चान्द्रसामः । मपूर्व इति किम्? सौत्वनः । अपत्य इति किम्? चर्मणा परिवृतो रथः चार्मणः । अवर्मण इति किम्? चक्रवर्मणोऽपत्यं चाक्रवर्मणः ।

  • मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम् *(म.भा.3-233)। हितनाम्नोऽपत्यं हैतनामः, हैतनामनः ।।

</6-4-170>
ब्राह्मोऽजातौ ।। <6-4-171> ।।
योगविभागोऽत्र क्रियते । ब्राह्मः इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टेर्लोपार्थं निपात्यते । ब्राह्मो गर्भः । ब्राह्ममस्त्रम् । ब्राह्मं हविः । ततः अजातौ। अपत्य इत्येव - अपत्ये जातावणि ब्रह्मणष्टिलोपो न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्य इत्येव - ब्राह्मी ओषधिः ।।
</6-4-171>
कार्मस्ताच्छील्ये ।। <6-4-172> ।।
कार्मः इति ताच्छील्ये टिलोपो निपात्यते । कर्मशीलः कार्मः । शीलम्(4-4-61/1611) छत्त्रादिभ्यो णः(4-4-62/1612) इति णप्रत्ययः । यद्येवम् , किमर्थमिदम्, नस्तद्धिते(6-4-144/679) इत्येव टिलोपः सिद्धः सत्यमेतत्, ज्ञापकार्थं तु। एतज्ज्ञापयति - `ताच्छीलिके णेऽण्कृतानि भवन्तीति । तेन चौरी, तापसीति णान्तादपीकारः सिद्धो भवति । ताच्छील्य इति किम्? कर्मण इदं कार्मणम् ।।
</6-4-172>
औक्षमनपत्ये ।। <6-4-173> ।।
औक्षमित्यनपत्येऽणि टिलोपो निपात्यते । औक्षं पदम् । अनपत्य इति किम्? उक्ष्णोऽपत्यमौक्ष्णः, षपूर्वहन्धृतराज्ञामणि(6-4-135/1160) इत्यलोपः ।।
</6-4-173>
दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।। <6-4-174> ।।
दाण्डिनायन, हास्तिनायन, आथर्वणिक, जैह्माशिनेय, वासिनायनि, भ्रौणहत्य, धैवत्य, सारव, ऐक्ष्वाक, मैत्रेय, हिरण्मय - इत्येतानि निपात्यन्ते । दण्डिन्, हस्तिन् - इत्येतौ नडादिषु पठ्येते , तयोरायने परतः प्रकृतिभावो निपात्यते । केषाञ्चित्तु - हस्तिन्निति नडादिषु न पठ्यते, तेषामत एव निपातनात् फगपि भवति । दण्डिनोऽपत्यं
दाण्डिनायनः । हस्तिनोऽपत्यं हास्तिनायनः ।
अथर्वन् - इति वसन्तादिषु(4-2-63/1273) पठ्यते । अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचाराद् अथर्वन्नित्युच्यते, तमधीते यः स आथर्वणिकः । इके प्रकृतिभावो निपात्यते । जिह्माशिन् - इति शुभ्रादिषु(4-1-123/1126) पठ्यते, तस्य ण्ये परत- प्रकृतिभावो निपात्यते । जिह्माशिनोऽपत्यं जैह्माशिनेयः ।
वासिनोऽपत्यम्, उदीचां वृद्धादगोत्रात्(4-1-157/1181) इति फिञ्, तत्र प्रकृतिभावो निपात्यते - वासिनायनिः ।
भ्रूणहन्, धीवन् - इत्येतयोः ष्यञि परतस्तकारादेशो निपात्यते । भ्रूणघ्नो भावः भ्रौणहत्यम् । धीव्नो भावो धैवत्यम् । हनस्तोऽचिण्णलोः(7-3-32/2574) इति यत्तत्वं तद्धातुप्रत्यय एवेति - भ्रौणघ्नः, वार्त्रघ्न इत्यत्र न भवति, अतो भ्रौणहत्ये तत्वं निपात्यते ।
सारव - इति सरयू इत्येतस्य अणि परतोऽयूशब्दस्य व इत्यादेशो निपात्यते । सरय्वां भवं सारवमुदकम् ।
 ऐक्ष्वाक - इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते । ततोऽयमाद्युदात्तोऽन्तोदात्तश्च निपात्ये । इक्ष्वाकोरपत्यम् , जनपदशब्दात्क्षत्त्रियादञ्(4-1-166/1182) इत्यञ्, तत्र उकारलोपो निपात्यते । ऐक्ष्वाकः । इक्ष्वाकुषु जनपदेषु भवः कोपधादण्(4-2-132/1356) इत्यण् । ऐक्ष्वाकः ।
मैत्रेय - इति, मित्रयुशब्दो गृष्ट्यादिषु(4-1-136/1143) पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते । मित्रयोरपत्यं मैत्रेयः । अथ किमर्थं मित्रयुशब्दो बिदादिष्वेव(4-1-104/1106) न पठ्यते, तत्राञि कृते यादेरिति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्त्तव्यं न भवति यस्कादिषु(2-4-63/1146) च बहुषु लुगर्थः पाठो न कर्त्तव्यो भवति, मित्रयव इत्यञ यञञोश्च(2-4-64/118)इत्येव हि लुकः सिद्धत्वात्? नैतदस्ति, मित्रयूणां सङ्घ इत्यत्र गोत्रचरणाद्(4-3-126/1506) वुञं बाधित्वा मैत्रेयकः सङ्घ इत्यत्र सङ्घाङ्कलक्षणेष्वञ्यञिञामण्(4-3-127/1507) इत्यण् प्राप्नोति ।
हिरण्मयम् - इति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारः हिरण्मयः ।।
</6-4-174>
ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानिच्छन्दसि ।। <6-4-175> ।।
ऋत्व्य, वास्त्व्य, वास्त्व, माध्वी, हिरण्यय - इत्येतानि निपात्यन्ते छन्दसि विषये । ऋतु, वास्तु - इत्येतयोर्यति यणादेशो निपात्यते । ऋतौ भवम् ऋत्व्यम् । वास्तौ भवं वास्त्व्यम् । वस्तुशब्दस्याणि यणादेशो निपात्यते । वस्तुनि भवो वास्त्वः । मघुशब्दस्याणि स्त्रियां यणादेशो निपात्यते - `माघ्वीर्नः सन्त्वोषधीः(ऋ.1-90-6) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । `हिरण्ययम्(ऋ.1-25-13) ।।
            इत्युपाध्यायश्रीवामनकृतायां काशिकावृत्तौ
                षष्ठाध्यायस्य चतुर्थः पादः
</6-4-175>