काशिका/प्रथमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

        अथ काशिकावृत्तिः
             अथ प्रथामाध्याये प्रथमः पादः
वृद्धिरादैच् ।। <1-1-1> ।।
`वृद्धि-शब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानाञ्च । तपरकरणमैजर्थम्--`तादपि परस्तपरःइति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपमन्यवः । शालीयः, मालीयः। वृद्धिप्रदेशाः--सिचि वृद्धिः परस्मैपदेषु(7-2-1/2297) इत्येवमादयः ।।
</1-1-1>
अदेङ्गुणः ।। <1-1-2> ।।
`गुण शब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता । चेता । स्तोता । पचन्ति । जयन्ति । अहं पचे ।
गुणप्रदेशाः--मिदेर्गुणः(7-3-82/2346) इत्येवमादयः ।।
</1-1-2>
इको गुणवृद्धी ।। <1-1-3>।।
परिभाषेयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ ।। वक्ष्यति सार्वधातुकार्धधातुकयोः(7-3-84/2168) अङ्गस्य गुण इति । स इक एव स्थाने वेदितव्यः । तरति । नयति । वृद्धिः खल्वपि--अकार्षीत् । अहार्षीत् । अचैषीत् । अनैषीत् । अलावीत् । अस्तावीत् । *गुणवृद्धी स्वसंज्ञया विधीयेते, तत्र `इकः इति एतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । *(म.भा.1.46) * मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते * (म.भा.1.44)जुसि सार्वधातुकादिगुणेष्विकाङ्गं विशेष्यते । मेद्यते । अबिभयुः ।
इक इति किम् ? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम् । इह मा भूत्--द्यौः । पन्थाः । सः इममिति ।।
</1-1-3>
न धातुलोप आर्धधातुके ।। <1-1-4> ।।
धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्द्धधातुके तदार्धधातुकं धातुलोपं तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः । लोलुवः पोपुवः, मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि (3-1-134/2896) विहिते यङोऽचि च (2-4-74/2650) इति यङो लुकि कृते तमेवाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः ।
धातुग्रहणं किम् ? लूञ्- लविता । रेडसि । पर्णं न वेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति ।
आर्धधातुक इति किम् ? त्रिधा बद्धो वृषभो रोरवीति । सार्वधातुके मा भूत् । इक इत्येव- अभाजि, रागः ।।
बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ।
</1-1-4>
क्ङिति च ।। <1-1-5> ।।
निमित्तसप्तम्येषा । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः । चितः, चितवान् । स्तुतः, स्तुतवान् । भिन्नः, भिन्नवान् । मृष्टः, मृष्टवान् । ङिति खल्वपि--चिनुतः, चिन्वन्ति । मृष्टः,मृजन्ति । गकारोऽप्यत्र चर्त्वभूतो निर्दिश्यते । ग्लाजिस्थश्च ग्स्नुः(3-2-139/3119) जिष्णुः, भूष्णुः । इक इत्येव--कामयते, लैगवायनः ।
* मृजेरजादौ संक्रमेविभाषा वृद्धिरिष्यते * (म.भा.1.48) संक्रमो नाम गुणवृद्धिः प्रतिषेधविषयः । परिमृजन्ति, परिमार्जन्ति;परिमृजन्तु, परिमार्जन्तु । लघूपधगुणस्याप्यत्र प्रतिषेधः । अचिनवम्, असुनवमित्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकम्--`ङिति यत्कार्य तल्लकारे ङिति न भवति इति ।।
</1-1-5>
दीधीवेवीटाम् ।। <1-1-6> ।।
दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः । आदीध्यनम्,आदीध्यकः । आवेव्यनम्, आवेव्यकः । इटः खल्वपि--कणिता श्वः, रणिता श्वः । वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः ।।
</1-1-6>
हलोऽनन्तराः संयोगः ।। <1-1-7>।।
भिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति । समुदायः संज्ञी । जातौ चेदं बहुवचनम्, तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा भवति । अग्निरिति ग-नौ । अश्व इति श-वौ । कर्ण इति र-णौ । इन्द्रश्चन्द्रो मन्द्र इति न-द-राः । उष्ट्रो राष्ट्रं भ्राष्ट्रमिति ष-ट-राः । तिलान्स्त्र्यावपतीति न-स-त-र-याः, न-त-स-त-र-या वा ।
</1-1-7>
हल इति किम् `तितउच्छत्रम्(नि.<4-9-10>) । संयोगान्तस्य लोपः(8-2-23/54) स्यात् । अनन्तरा इति किम् पचति पनसम् । स्कोः संयोगाद्योरन्ते च(8-2-29/380) इति लोपः स्यात् ।
संयोगप्रदेशाः--संयोगान्तस्य लोपः(8-2-23/54) इत्येवमादयः ।।
</4-9-10>
मुखनासिकावचनोऽनुनासिकः ।। <1-1-8>।।
मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सोऽनुनासिकसंज्ञो भवति । आङोनुनासिकश्छन्दसि(6-1-126/3525)अभ्रआँ अपः, गभीरआँ उग्रपुत्रे । चनआँ इन्द्रः ।
मुखग्रहणं किम् ? अनुस्वारस्यैव हि स्यात् । नासिकाग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिकप्रदेशाः-आङोऽनुनासिकश्छन्दसि(6-1-126/3525) इत्येवमादयः ।

</1-1-8>
तुल्यास्यप्रयत्नं सवर्णम् ।। <1-1-9> ।।
`तुल्य शब्दः सदृशपर्यायः, आस्ये भवमास्यं ताल्वादिस्थानम्,प्रयतनं प्रयत्नः-स्पृष्टतादिर्वंर्णगुणः । तुल्य आस्ये प्रयत्नो यस्य वर्णंस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णंसंज्ञो भवति ।
चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते-स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति । ` अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः, प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादशधा भिद्यन्ते । तथेवर्णः, तथोवर्णः, तथा ऋवर्णः । `लृवर्णस्य दीर्घा न सन्ति(आपि.शि.6.4) तं द्वादशप्रभेदमाचक्षते । सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि । अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । रेफोष्मणां सवर्णा न सन्ति ।
`वर्ग्यो वर्ग्येण सवर्णः(आपि.शि.6.11/13) । दण्डाग्रम् । खट्वाग्रम् ।
आस्यग्रहणं किम् कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत् । किं च स्यात् ? तर्प्ता तर्प्तुमित्यत्र झरो झरि सवर्णे(8-4-65/71) इति पकारस्य तकारे लोपः स्यात् ।
प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नप्रयत्नानां मा भूत् । किं च स्यात् ? अरुश्च्योततीत्यत्र झरो झरि सवर्णे(8-4-65/71) इति शकारस्य चकारे लोपः स्यात् ।।
* ऋकारलृकारयोः सवर्णसंज्ञा वक्तव्या *(म.भा.1.62) । होत्लृकारः । होतॄकारः । उभयोर्ऋवर्णस्य चान्तरतमः सवर्णो दीर्घो नास्तीति ऋकार एव दीर्घो भवति ।
सवर्णप्रदेशाः अकः सवर्णे दीर्घः(6-1-101/85) इत्येवमादयः ।।
</1-1-9>
नाज्झलौ ।। <1-1-10> ।।
अच्च हल् च अज्झलौ । तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः ।
अवर्णहकारौ-दण्डहस्तः । इवर्णशकारौ-दधि शीतम्, सवर्णदीर्घत्वं न भवति । वैपाशो मत्स्यः, आनडुहं चर्मेति-यस्येति च(6-4-148/311) इति लोपो न भवति ।
</1-1-10>
ईदूदेद्विवचनं प्रगृह्यम् ।। <1-1-11> ।।
ईद्, ऊद्, एद्, इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति । अग्नी इति । माले इति । पचेते इति । यजेते इति ।
ईदूदेदिति किम् ? वृक्षावत्र । प्लक्षावत्र ।
द्विवचनमिति किम् ? कुमार्यत्र । किशोर्यत्र ।
तपरकरणमसन्देहार्थम् ।
प्रगृह्यप्रदेशाः--प्लुतप्रगृह्या अचि नित्यम्(6-1-125/90) इत्येवमादयः । ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः ।
`मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मममहाभारते (12-172-12>) ।
दम्पतीव, जम्पतीव, रोदसीव ।।
</1-1-11>
अदसो मात् ।। <1-1-12> ।।
अदसः संबन्धी यो मकारस्तस्मात्परे ईदूदेतः प्रगृह्यसंज्ञा भवन्ति । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते ।
एकारस्य नास्त्युदाहरणम् ।
अदस इति किम् ? शम्यत्र । दाडिम्यत्र । मादिति किम् ? अमुकेऽत्र ।।
</1-1-12>
शे ।। <1-1-13> ।।
</1-1-13>
`शे इत्येतत्प्रगृह्यसंज्ञं भवति । किमिदं शे इति ? सुपामादेशश्छन्दसि । `न युष्मे वाजबन्धवः(ऋ.<8-68-19>) । `अस्मे इन्द्राबृहस्पती(ऋ.<4-49-4>) । युष्मे इति । अस्मे इति । `त्वे रायः(तै.सं.<3-2-5>.2) । `मे रायः(वा.सं.4.22) । त्वे इति । मे इति ।
</8-68-19>
छान्दसमेतदेवैकमुदाहरणम्-`अस्मे इन्द्राबृहस्पती(ऋ.<4-49-4>) इति; तत्र तथा पाठात् । इतरत्तु लौकिकमनुकरणम्--युष्मे इति । अस्मे इति । त्वे इति । मे इति ।।
</4-49-4>
निपात एकाजनाङ् ।। <1-1-14> ।।
एकश्चासावच्च एकाच्, निपातो य एकाच् आङ्वर्जितः स प्रगृह्यसंज्ञो भवति । अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं नु मन्यसे । आ एवं किल तत् ।
</1-1-14>
निपात इति किम् ? चकारात्र । एकारात्र । एकाजिति किम् ? `प्राग्नये वाचमीरय(ऋ.<10-187-1>) । अनाङिति किम् ? आ उदकान्तात् ओदकान्तात् ।
*ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।।*
</10-187-1>
ओत् ।। <1-1-15> ।।
`निपातः इति वर्त्तते । तस्यौकारेण तदन्तविधिः । ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । आहो
इति । `उताहो इति(म.भा.1.71) ।।
</1-1-15>
संबुद्धौ शाकल्यस्येतावनार्षे ।। <1-1-16> ।।
`ओत् इति वर्त्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, `इति शब्देऽनार्षे = अवैदिके परतः । वायो इति, वायविति । भानो इति, भानविति ।
संबुद्धाविति किम् ? गवित्ययमाह । अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात् । असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र । अनार्ष इति किम् ? `एता गा ब्रह्मबन्धवित्यब्रवीत्(का.सं.10.6) ।
</1-1-16>
उञः ।। <1-1-17> ।।
`शाकल्यस्येतौ इति वर्तते । उञः प्रगृह्यसंज्ञा भवति, इतौ शाकल्यस्याचार्यस्य मतेन । शाकल्यस्येति विभाषार्थम् । उ इति, विति ।।
</1-1-17>
ऊँ ।। <1-1-18> ।।
`उञ इति वर्त्तते । उञ इतावनार्षे ऊँ इत्ययमादेशो भवति दीर्घोऽनुनासिकः, शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्च । शाकल्यस्य ग्रहणं विभाषार्थमिहाप्यनुवर्तते, तेन त्रीणि रूपाणि भवन्ति - उ इति, विति, ऊँ इति ।।
</1-1-18>
ईदूतौ च सप्तम्यर्थे ।। <1-1-19>।।
</1-1-19>
`शाकल्यस्येतावनार्षे इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्त्तमानं प्रगृह्यसंज्ञं भवति । `अध्यस्यां मामकी तनू(पै.<1-6-8>) । मामक्यां तन्वामिति प्राप्ते । मामक्याम्, मामकी इति । तन्वाम्, तनू इति । `सोमो गौरी अधिश्रितः(ऋ.<9-12-3>) ।
</1-6-8>
ईदूताविति किम् ? `प्रियः सूर्ये प्रियो अग्ना भवाति(ऋ.<5-37-5>) । अग्निशब्दात्परस्याः सप्तम्या डादेशः ।
सप्तमीग्रहणं किम् ? धीती, मती, सुष्टुती । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते ।
अर्थग्रहणं किम् ? वाप्यश्वः, नद्यातिः ।
तपरकरणमसन्देहार्थम् ।
*ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् ।
पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ।। 1 ।।
वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि ।
ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् * ।। 2 ।।(म.भा.1.73)
</5-37-5>
दाधा घ्वदाप् ।। <1-1-20> ।।
दारूपाश्चत्वारो धातवो धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसंज्ञका भवन्ति । `डु दाञ्(धा.पा.1091)-- प्रणिददाति । `दाण् दाने(धा.पा.930)- प्रणिदाता । `दो(धा.पा.1148)-प्रणिद्यते । `देङ्(धा.पा.962)-प्रणिदयते । `डु धाञ्(धा.पा.1092)- प्रणिदधाति । `धेट्(धा.पा.902)-प्रणिधयति वत्सो मातरम् ।
अदाबिति किम् ? `दाप् लवने(धा.पा.1059)-दातं बर्हिः । `दैप् शोधने(धा.पा.924)-अवदातं मुखम् ।
घुप्रदेशाः घुमास्थागापाजहातिसां हलि(6-4-66/2462) इत्येवमादयः ।।
आद्यन्तवदेकस्मिन् ।। 1.1. 21 ।।
असहायस्य आद्यन्तोपदिष्टानि कार्याणि न सिद्ध्यन्तीत्ययमतिदेश आरभ्यते । सप्तम्यर्थे वतिः । आदाविव अन्त इव एकस्मिन्नपि कार्यं भवति । यथा कर्त्तव्यमित्यत्र प्रत्ययाद्युदात्तत्वं भवति,एवमौपगवमित्यत्रापि यथा स्यात् । यथा वृक्षाभ्यामित्यत्रातोऽङ्गस्य दीर्घत्वम्, एवम् `आभ्याम् इत्यत्रापि यथा स्यात् ।
एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः, आकारमाश्रित्य वृद्धसंज्ञा न भवति ।।
</1-1-20>
तरप्तमपौ घः ।। <1-1-22> ।।
`तरप् तमप्- इत्येतौ प्रत्ययौ घसंज्ञौ भवतः । कुमारितरा । कुमारितमा । ब्राह्मणितरा । ब्राह्मणितमा ।
घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः(6-3-43/985) इत्येवमादयः ।।
बहुगणवतुडति संख्या ।। 1.1. 23 ।।
`बहुगणवतुडतिइत्येते संख्यासंज्ञा भवन्ति । बहुकृत्वः । बहुधा । बहुकः । बहुशः । गणकृत्वः । गणधा । गणकः । गणशः । तावत्कृत्वः । तावद्धा । तावत्कः । तावच्छः । कतिकृत्वः । कतिधा । कतिकः । कतिशः ।
बहुगणशब्दयोर्वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव । भूर्यादीनां निवृत्त्यर्थं संख्या-संज्ञा विधीयते ।।
*अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम् * (म.भा.1.82)।। अर्धपञ्चमशूर्पः । अर्धं पञ्चमं येषामिति बहुव्रीहौ कृतेऽर्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थोत्तरपदसमाहारे च(2-1-51/728) इति समासः । तत्र दिक्संख्ये संज्ञायाम्(2-1-50/727) इत्यनुवृत्तेस्ततः संख्यापूर्वस्य द्विगुसंज्ञायां शूर्पादञन्यतरस्याम्(5-1-26/1691) इत्यञ्, ठञ्च । अध्यर्धपूर्वद्विगोः(5-1-28/1693) इति लुक् । अर्धपञ्चमकः ।
संख्याप्रदेशाः-संख्या वंश्येन(2-1-19/673) इत्येवमादयः ।।
</1-1-22>
ष्णान्ता षट् ।। <1-1-24> ।।
स्त्रीलिङ्गनिर्देशात् `संख्या इति सम्बध्यते । षकारान्ता नकारान्ता च या संख्या सा षट्‌संज्ञा भवति । षकारान्तास्तावत्--षट् तिष्ठन्ति, षट् पश्य । नकारान्ताः--पञ्च, सप्त, नव, दश ।
अन्तग्रहणमौपदेशिकार्थम्, तेनेह न भवति--शतानि, सहस्राणि । अष्टानामित्यत्र नुड् भवति।
षट्‌प्रदेशाः-`षड्भ्यो लुक्(7-1-22/261) इत्येवमादयः ।।
</1-1-24>
डति च ।। <1-1-25> ।।
डत्यन्ता च या संख्या सा षट्‌संज्ञा भवति । कति तिष्ठन्ति । कति पश्य ।।
</1-1-25>
क्तक्तवतू निष्ठा ।। <1-1-26> ।।
क्तश्च क्तवतुश्च = क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः । कृतः । कृतवान् । भुक्तः । भुक्तवान् । ककारः कित्कार्यार्थः । उकार उगित्कार्यार्थः ।
निष्ठाप्रदेशाः-श्वीदितो निष्ठायाम्(7-2-14/3039) इत्येवमादयः ।
</1-1-26>
सर्वादीनि सर्वनामानि ।। <1-1-27> ।।
सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति । सर्वः, सर्वौ, सर्वे । सर्वस्मै । सर्वस्मात् । सर्वेषाम् । सर्वस्मिन् । सर्वकः । विश्वः, विश्वौ, विश्वे । विश्वस्मै । विश्वस्मात् । विश्वेषाम् ।
विश्वस्मिन् । विश्वकः ।
उभ । उभय । उभशब्दस्य सर्वनामत्वे प्रयोजनम्--सर्वनाम्नस्तृतीया च(2-3-27/608) इति । उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति। उभये । उभयस्मै । उभयस्मात् । उभयेषाम् । उभयस्मिन् । डतर । डतम । कतर । कतम । कतरस्मै, कतमस्मै । इतर । अन्य । अन्यतर । इतरस्मै । अन्यस्मै । अन्यतरस्मै ।
त्वशब्दोऽन्यवाची, स्वरभेदाद् द्विः पठितः। एक उदात्तः, द्वितीयोऽनुदात्तः । केचित्तकारान्तमेकं पठन्ति । त्व-त्वदिति द्वावपि चानुदात्ताविति स्मरन्ति ।
नेम । नेमस्मै । वक्ष्यमाणेन जसि विभाषा भवति । नेमे, नेमा इति ।
सम। समस्मै । कथं यथासंख्यमनुदेशः समानाम्(1-3-10/128) समे देशे यजेतेति ? समस्य सर्वशब्दपर्यायस्य सर्वनामसंज्ञेष्यते, न सर्वत्र । सिम । सिमस्मै ।
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्(1-1-34/218)(ग.सू.1) । स्वमज्ञातिधनाख्यायाम्(1-1-35>)(ग.सू.2) । अन्तरं बहिर्योगोपसंव्यानयोः(1-1-36/220)(ग.सू.3) । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि,युष्मद्, अस्मद्, भवतु किम् । सर्वादिः ।।
सर्वनामप्रदेशाः--सर्वनाम्नः स्मै(7-1-14/215) इत्येवमादयः ।।
</1-1-27>
विभाषा दिक्समासे बहुव्रीहौ ।। <1-1-27> ।।
न बहुव्रीहौ(1-1-29/222)इति प्रतिषेधं वक्ष्यति । तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभाषेयमारभ्यते । दिशां समासो दिक्समासः, दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति । उत्तरपूर्वस्यै, उत्तरपूर्वायै । दक्षिणपूर्वस्यै, दक्षिणपूर्वायै ।
दिग्ग्रहणं किम् ? न बहुव्रीहौ(1-1-29/222) इति । प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते- क्व विभाषा, क्व प्रतिषेध इति । दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते-दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेध इति ।
समासग्रहणं किम् ? समास एव यो बहुव्रीहिस्तत्र विभाषा यथा स्यात् ; बहुव्रीहिवद्भावेन यो बहुव्रीहिः, तत्र मा भूत् । दक्षिणदक्षिणस्यै देहि ।
बहुव्रीहाविति किम् ? द्वन्द्वे विभाषा मा भूत् । दक्षिणोत्तरपूर्वाणामिति । द्वन्द्वे च(1-1-31/224) इति नित्यं प्रतिषेधो भवति ।।
</1-1-27>
न बहुव्रीहौ ।। <1-1-29> ।।
सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद्बहुव्रीहेरपि सर्वाद्यन्तस्य संज्ञा स्यादिति प्रतिषेध आरभ्यते । बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति - प्रियविश्वाय, प्रियोभयाय, द्व्यन्याय, त्र्यन्याय । इह च त्वत्कपितृकः, मत्कपितृक इत्यकज्न भवति ।
बहुव्रीहाविति वर्त्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात् । `वस्त्रान्तरवसनान्तरा इति(म.भा.1.90) ।।
</1-1-29>
तृतीयासमासे ।। <1-1-30> ।।
तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वाय, संवत्सरपूर्वाय, द्व्यहपूर्वाय, त्र्यहपूर्वाय । `समासे इति वर्त्तमाने पुनः समासग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात् - मासेन पूर्वाय । पूर्वसदृशसमोनार्थ(2-1-31/693) इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम् ; न यस्य कस्यचित्तृतीयासमासस्य-कर्तृकरणे कृता बहुलम्(2-1-32/694) इति । त्वयका कृतम्, मयका कृतम् ।।
</1-1-30>
द्वन्द्वे च ।। <1-1-31> ।।
द्वन्द्वे च समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । पूर्वापराणाम् । कतरकतमानाम् ।
</1-1-31>
विभाषा जसि ।। <1-1-32> ।।
पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषाऽऽरभ्यते । द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । कतरकतमे कतरकतमाः । जसः कार्यं प्रति विभाषाऽकज् हि न भवति-कतरकतमकाः ।।
</1-1-32>
प्रथमचरमतयाल्यार्धकतिपयनेमाश्च ।। <1-1-33> ।।
विभाषा जसि(1-1-32/225) इति वर्त्तते । `द्वन्द्वे इति निवृत्तम् । प्रथम, चरम, तय, अल्प, अर्ध, कतिपय, नेम - इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । अल्पे, अल्पाः । अर्धे, अर्धाः । कतिपये, कतिपयाः । नेमे, नेमाः ।
`तयइति तयप्प्रत्ययः। शिष्टानि प्रातिपदिकानि ।
तत्र `नेम इति सर्वादिषु पठ्यते; तस्य प्राप्ते विभाषा, अन्येषामप्राप्ते । उभयशब्दस्य तयप्प्रत्ययान्तस्य गणे पाठान्नित्या सर्वनामसंज्ञा इहापि जस्कार्यं प्रति विभाषा । काकचोर्यर्थायोगं वृत्तिः ।।
</1-1-33>
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ।। <1-1-34> ।।
पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर-इत्येतेषां गणे पाठात्पूर्वेण नित्यायां प्राप्तायां जसि विभाषाऽऽरभ्यते । पूर्वादीनि विभाषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायामसंज्ञायाम् । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः । परे, पराः । अवरे, अवराः । दक्षिणे, दक्षिणाः । उत्तरे, उत्तराः । अपरे, अपराः । अधरे, अधराः ।
व्यवस्थायामिति किम् ? दक्षिणा इमे गाथकाः । प्रवीणा इत्यर्थः । असंज्ञायामिति किम् ? उत्तराः कुरवः । सत्यामेव व्यवस्थायामियं तेषां संज्ञा ।
</1-1-34>
स्वमज्ञातिधनाख्यायाम् ।। <1-1-35>।।
अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते । स्वमित्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति, न चेज्ज्ञातिधनयोस्संज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः । स्वे गावः, स्वा गावः । आत्मीया इत्यर्थः ।
ज्ञातिप्रतिषेधः इति किम् ?
`धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः ।
</1-1-35>
उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ ।।(महाभारते <5-36-38>)
अधनाख्यायामिति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूताः स्वा न भुज्यन्ते । प्रभूतानि धनानीत्यर्थः ।।
</5-36-38>
अन्तरं बहिर्योगोपसंव्यानयोः ।। <1-1-36> ।।
अत्रापि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते । अन्तरमित्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने । अन्तरे गृहाः, अन्तरा गृहाः । नगरबाह्याश्चण्डालादिगृहा उच्यन्ते । (उपसंव्याने) अन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम् । बहिर्योगोपसंव्यानयोरिति किम् ? अनयोर्ग्रामयोरन्तरे तापसः प्रतिवसति । तस्मिन्नन्तरे शीतान्युदकानि । मध्यप्रदेशवचनोऽन्तरशब्दः । गणसूत्रस्य चेदं प्रत्युदाहरणम् ।।
*अपुरीति च वक्तव्यम् *।।(म.भा.1.93) अन्तरायां पुरि वसति ।
*विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम्*(म.भा.1.93)द्वितीयाय, द्वितीयस्मै । तृतीयाय, तृतीयस्मै ।।
</1-1-36>
स्वरादिनिपातमव्ययम् ।। <1-1-37> ।।
स्वरादीनि शब्दरूपाणि निपाताश्चाव्ययसंज्ञानि भवन्ति । स्वर्, अन्तर्, प्रातर्-एते अन्तोदात्ताः पठ्यन्ते । पुनर् आद्युदात्तः । सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्,ऋते, युगपत्,पृथक्-एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि-एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । वत्, वदन्तमव्ययसंज्ञं भवति-ब्राह्मणवत्, क्षत्रियवत् । सन्, सनात्, सनत्, तिरस्-एते आद्युदात्ताः पठ्यन्ते । अन्तरा-अयमन्तोदात्तः । अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या । क्त्वातोसुन्कसुनः-कृन्मकारान्तः, सन्ध्यक्षरान्तोऽव्ययीभावश्च । पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्द्धम्, समम्, नमस्, हिरुक् । तसिलादिस्तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रशान् । स्वरादिः ।
निपाता वक्ष्यन्ते-प्राग्रीश्वरान्निपाताः(1-4-56/19) इति । च, वा ह,अह,एव, एवमित्यादयः ।
अव्ययप्रदेशाः अव्ययादाप्सुपः(2-4-82/452) इत्येवमादयः । `अव्ययम् इत्यन्वर्थसंज्ञा ।
`सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
</1-1-37>
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ।।(गो.ब्रा.<1-1-26>)
</1-1-26>
तद्धितश्चासर्वविभक्तिः ।। <1-1-38> ।।
तद्धितान्तः शब्दोऽसर्वविभक्तिरव्ययसंज्ञो भवति । यस्मान्न सर्वविभक्तेरुत्पत्तिः, सोऽसर्वविभक्तिः । ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा ।
तद्धित इति किम् ? एकः, द्वौ, बहवः । असर्वविभक्तिरिति किम् ? औपगवः, औपगवौ, औपगवाः ।।
</1-1-38>
कृन्मेजन्तः ।। <1-1-39> ।।
</1-1-39>
कृद्यो मकारान्त एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति । स्वादुङ्कारं भुङ्क्ते, सम्पन्नङ्कारं भुङ्क्ते, लवणङ्कारं भुङ्‌क्ते । एजन्तः-वक्षे रायः । `ता वामेषे रथानाम्(ऋ<5-66-3>) । `क्रत्वे दक्षाय जीवसे(ऋ.<5-57-4>) । `ज्योक्च सूर्यं दृशे(ऋ<10-57-4>) । `वक्षे इति वचेः,तुमर्थेसेसेन्(3-4-9/3436) इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । `एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । `जीवसे इति जीवेरसे प्रत्यये रूपम् । `दृशे इति दृशेः केन्प्रत्ययो निपात्यते--दृशे विख्ये च(3-4-11/3438) इति ।
अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । इह मा भूत्--आधये, चिकीर्षवे, कुम्भकारेभ्य इति ।।
</5-66-3>
क्त्वातोसुन्कसुनः ।। <1-1-40> ।।
</1-1-40>
क्त्वा-तोसुन्-कसुन्-इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति । कृत्वा, हृत्वा । तोसुन्-`पुरा सूर्यस्योदेतोराधेयः(का.सं.8.3), `पुरा वत्सानामपाकर्त्तोः(का.सं.31.15) । भावलक्षणे स्थेण्कृञ्वदि(3-4-16/3443) इति इणः, कृञश्च तोसुन्प्रत्ययः । कसुन्-सृपितृदोः कसुन्(3-4-17/3444) । `पुरा क्रूरस्य विसृपो विरप्शिन्(तै.सं.<1-1-9>.3), `पुरा जर्तुभ्य आतृदः(ऋ.<8-1-12>) ।।
</1-1-9>
अव्ययीभावश्च ।। <1-1-41> ।।
अव्ययीभावसमासोऽव्ययसंज्ञो भवति । किं प्रयोजनम् ? लुङ्मुखस्वरोपचाराः । लुक्--उपाग्नि, प्रत्यग्नि शलभाः पतन्ति । मुखस्वरः--उपाग्निमुखः, प्रत्यग्निमुखः । मुखं स्वाङ्गम्(6-2-167/3901) इत्युत्तरपदान्तोदात्तत्वं प्राप्तम् नाव्ययदिक्छब्द(6-2-168/3902) इति प्रतिषिध्यते । तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति । उपचारः--उपपयःकारः, उपपयःकामः । विसर्जनीयस्थानिकस्य सकारस्य `उपचार इति संज्ञा, तत्राव्ययीभावस्याव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य(8-3-46/160) इति पर्युदासः सिद्धो भवति । सर्वमिदं काण्डं स्वरादावपि पठ्यते ।
पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेनायं कार्यनियमः सिद्धो भवति । इह च--पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसप इति न लोकाव्ययनिष्ठा(2-3-69/627) इति षष्ठीप्रतिषेधो न भवति ।।
</1-1-41>
शि सर्वनामस्थानम् ।। <1-1-42> ।।
`शि इत्येतत्सर्वनामस्थानसंज्ञं भवति । किमिदं शि इति ? जश्शसोः शिः(7-1-20/312)आदेशः । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य । दधीनि, मधूनि । त्रपूणि, जतूनि ।
सर्वनामस्थानप्रदेशाः--सर्वनामस्थाने चासंबुद्धौ(6-4-8/250) इत्येवमादयः ।।
</1-1-42>
सुडनपुंसकस्य ।। <1-1-43>।।
सुट् इति पञ्च वचनानि सर्वनामस्थानसंज्ञानि भवन्ति नपुंसकादन्यत्र । नपुंसके न विधिर्न प्रतिषेधः, तेन जसंशे सर्वनामस्थानसंज्ञा पूर्वेण भवत्येव । राजा, राजानौ, राजानः, राजानम्, राजानौ। सुडिति किम् ? राज्ञः पश्य । अनपुंसकस्येति किम् ? सामनी, वेमनी ।।
</1-1-43>
न-वेति विभाषा ।। <1-1-44> ।।
नेति प्रतिषेधः, वेति विकल्पः, तयोः प्रतिषेधविकल्पयोर्विभाषेति संज्ञा भवति । इतिकरणोऽर्थनिर्देशार्थः । विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते । उभयत्रविभाषाः प्रयोजयन्ति । विभाषा श्वेः(6-1-30/2420)--शुशाव, शिश्वाय; शुशुवतुः, शिश्वियतुः ।
विभाषाप्रदेशाः--विभाषा श्वेः(6-1-30/2420) इत्येवमादयः ।।
</1-1-44>
इग्यणः सम्प्रसारणम् ।। <1-1-45>।।
इग्यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणम् इत्येषा संज्ञा भवति । यज्-इष्टम् । वप्-उप्तम् । ग्रह-गृहीतम् ।
केचिदुभयथा सूत्रमिदं व्याचक्षते-वाक्यार्थः सज्ञी, वर्णश्चेति । इग्यण इति यो वाक्यार्थः स्थान्यादेशसंबन्धलक्षणः स संप्रसारणसंज्ञो भवति; यण्स्थानिक इग्वर्णः स संप्रसारणसंज्ञो भवतीति । तत्र विधौ वाक्यार्थ उपतिष्ठते-ष्यङः संप्रसारणम्(6-1-13/1003),वसोः संप्रसारणम्(6-4-131/435) इति । अनुवादे वर्णः-संप्रसारणाच्च(6-1-108/330) इति । संख्यातानुदेशादिह न भवति- अदुहितरामिति । द्युभ्यामित्यादौ दिव उत्(6-1-131/337) इति तपरकरणात् दीर्घो न भवति।
संप्रसारणप्रदेशाः--वसोः संप्रसारणम्(6-4-131/435) इत्येवमादयः ।।
</1-1-45>
आद्यन्तौ टकितौ ।। <1-1-46>।।
आदिष्टिद्भवति, अन्तः किद्भवति षष्ठीनिर्दिष्टस्य । लविता, मुण्डो भीषयते । टित्प्रदेशाः--आर्धधातुकस्येड्वलादेः(7-2-35/2984) इत्येवमादयः ।
  कित्प्रदेशाः-भियो हेतुभये षुक्(7-3-40/2595) इत्येवमादयः ।।
</1-1-46>
मिदचोऽन्त्यात्परः ।। <1-1-47>।।
`अचः इति निर्धारणे षष्ठी । जातौ चेदमेकवचनम् । अचां संनिविष्टानामन्त्यादचः परो मिद्भवति । स्थानेयोगप्रत्ययपरत्वस्यायमपवादः । विरुणद्धि, मुञ्चति, पयांसि ।
मित्प्रदेशाः-रुधादिभ्यः श्नम्(3-1-78/2543) इत्येवमादयः ।।
* मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् * (म.भा.1.115)।।
मग्नः, मग्नवान् । मङ्क्ता, मङ्क्तुम् ।।
</1-1-47>
एच इग्घ्रस्वादेशे ।। <1-1-48>।।
एचो ह्रस्वादेशे कर्त्तव्य इगेव ह्रस्वो भवति, नान्यः । रै-अतिरि । नौ--अतिनु । गो--उपगु ।
एच इति किम् ? अतिखट्वः, अतिमालः । ह्रस्वादेश इति किम् ? दे3वदत्त । देवद3त्त ।।
</1-1-48>
षष्ठी स्थानेयोगा ।। <1-1-49> ।।
परिभाषेयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते सा स्थानेयोगैव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची, यथा--दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्ग इति गम्यते; एवमिहापि अस्तेः स्थाने= प्रसङ्गे भूर्भवति--भविता, भवितुम्, भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति-वक्ता, वक्तुम्, वक्तव्यम् । प्रसङ्गे संबन्धस्य निमित्तभूते ब्रुवः इति षष्ठी ।
बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः, तत्र यावन्तः शब्दे संभवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते । षष्ठी स्थानेयोगेति-स्थाने योगोऽस्या इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच्च सप्तम्या अलुक् ।।
</1-1-49>
स्थानेऽन्तरतमः ।। <1-1-50> ।।
स्थाने प्राप्यमाणानामन्तरतम आदेशो भवति सदृशतमः । कुतश्च शब्दस्यान्तर्यम् ? स्थानार्थगुणप्रमाणतः ।
स्थानतः--अकः सवर्णे दीर्घः(6-1-101/85) । दण्डाग्रम्, यूपाग्रम्। द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति ।
अर्थतः--वतण्डी चासौ युवतिश्च वातण्ड्ययुवतिः । पुंवद्भावेनान्तरतमः पुंशब्दोऽतिदिश्यते । गुणतः--पाकः, त्याग, रागः । चजोः कुघिण्ण्यतोः(7-3-52/2863) इति चकारस्याल्पप्राणस्याघोषस्य तादृश एव ककारो भवति । जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः ।
प्रमाणतः--अमुष्मै, अमूभ्याम् । अदसोसेर्दादु दो मः(8-2-80/419) इति ह्रसल्वस्य ह्रस्वः, दीर्घस्य दीर्घः ।
`स्थाने इति वर्त्तमाने पुनः स्थानेग्रहणं किम् ? यत्रानेकमान्तर्यं संभवति तत्र स्थानत एवान्तर्य बलीयो यथा स्यात् । चेता, स्तोता । प्रमाणतोऽकारो गुणः प्राप्तस्तत्र स्थानत आन्तर्यादेकारौकारौ भवतः ।
तमब्ग्रहणं किम् ? वाग्घसति, त्रिष्टुब्भसति । झयो होऽन्यतरस्याम्(8-4-62/119) इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्त इति तृतीयाः, तमब्ग्रहणाद्ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः ।।
</1-1-50>
उरण् रपरः ।। <1-1-51>।।
उः स्थानेऽण् प्रसज्यमान एव रपरो वेदितव्यः । कर्त्ता, हर्त्ता । किरति, गिरति । द्वैमातुरः, त्रैमातुरः ।
उरिति किम् ? खेयम्, गेयम् ।
अण्‌ग्रहणं किम् ? सुधातुरकङ् च(4-1-17/1017)--सौधातकिः ।।
</1-1-51>
अलोऽन्त्यस्य ।। <1-1-52>।।
षष्ठीनिर्दिष्टस्य य उच्यते आदेशः सोऽन्त्यस्यालः स्थाने वेदितव्यः । इद्गोण्याः(1-2-50/1703)-- पञ्चगोणिः, दशगोणिः ।।
</1-1-52>
ङिच्च ।। <1-1-53>।।
ङिच्च य आदेशः सोऽनेकालपि अलोऽन्त्यस्य भवति । आनङृतो द्वन्द्वे(6-3-25/921)-होतापोतारौ, मातापितरौ । तातङि ङित्करणस्य सावकाशत्वाद् गुणवृद्धिप्रतिषेधार्थत्वात् सर्वादेशस्तातङ् भवति--जीवताद्भवान् । जीवतात्त्वम् ।।
</1-1-53>
आदेः परस्य ।। <1-1-54> ।।
परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्य शिष्यते ? यत्र पञ्चमीनिर्देशः । तद्यथा--ईदासः(7-2-83/3104)आसीनो यजते । द्व्यन्तरुपसर्गेभ्योऽप ईत्(6-3-77/941), द्वीपम्, तअन्तरीपम्, समीपम् ।।
</1-1-54>
अनेकाल्शित्सर्वस्य ।। <1-1-55> ।।
अनेकाल् य आदेशः शिच्च स सर्वस्य षष्ठीनिर्द्दिष्टस्य स्थाने भवति । अस्तेर्भूः(2-4-52/2470)--भविता, भवितुम्, भवितव्यम् ।
शित्खल्वपि-जश्शसोः शिः(7-1-20/312) । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ।।
</1-1-55>
स्थानिवदादेशोऽनल्विधौ ।। <1-1-56> ।।
स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यमादेशे न प्राप्नोतीत्ययमतिदेश आरभ्यते । स्थानिना तुल्यं वर्त्तत इति स्थानिवत् । स्थानिवदादेशो भवति, स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा । न अल्विधिरनल्विधिरित्यर्थः । किमुदाहरणम् ? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः ।
धात्वादेशो धातुवद्भवति--अस्तेर्भूः(2-4-52/2470), ब्रुवो वचिः(2-4-53/2453), आर्धधातु-के विषये प्रागेवादेशेषु कृतेषु धातोरिति तव्यादयो भवन्ति-भविता, भवितुम्, भवितव्यम्; वक्ता, वक्तुम्, वक्तव्यम् ।
अङ्गादेशोऽङ्गवद्भवति--केन, काभ्याम्, कैः। किमः कादेशे कृतेऽङ्गाश्रया इनदीर्घत्वैस्भावा भवन्ति ।
कृदादेशः कृद्वद्भवति-प्रकृत्य, प्रहृत्य । ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक्(6-1-71/2858) इति तुग्भवति ।
तद्धितादेशस्तद्धितवद्भवति-दाधिकम्, अद्यतनम् । कृत्तद्धितसमासाश्च(1-2-46/179) इति प्रापतिपदिकसंज्ञा भवति ।
अव्ययादेशोऽव्ययवद्भवति--प्रस्तुत्य, प्रहृत्य, उपस्तुत्य । अव्ययात्(2-4-82/452) इति सुब्लुग् भवति ।
सुबादेशः सुब्वद्भवति-वृक्षाय, प्लक्षाय । सुपि च(7-3-102/202) इति दीर्घत्वं भवति ।
तिङादेशस्तिङ्वद्भवति-अकुरुताम्, अकुरुतम् । सुप्तिङन्तं पदम्(1-4-14/29) इति पदसंज्ञा भवति ।
पदादेशः पदवद्भवति--ग्रामो वः स्वम्, जनपदो नः स्वम् । पदस्य(8-1-16/401) इति रुत्वं भवति ।
वत्करणं किम् ? स्थाने आदेशस्य संज्ञा मा विज्ञायीति । स्वाश्रयमपि यथा स्यात् । आङो यमहनः(1-3-28/2695)--आहत, आवधिष्टेति । आत्मनेपदमुभयत्रापि भवति ।
आदेशग्रहणं किम् ? आनुमानिकस्याप्यादेशस्य स्थानिवद्भावो यथा स्यात्--पचतु । एरुः।
अनल्विधाविति किम् ? द्युपथितदादेशा न स्थानिवद्भवन्ति द्यौः पन्थाः, स इति । हल्ङ्याब्(6-1-68/252) इति सुलोपो न भवति ।
</1-1-56>
अचः परस्मिन्पूर्वविधौ ।। <1-1-57>।।
पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः, अल्विध्यर्थमिदमारभ्यते । आदेशः स्थानिवदिति वर्तते । अच इति स्थानिनिर्देशः । परस्मिन्निति निमित्तसप्तमी । पूर्वविधाविति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्थानिवद्भवति । पटयति । अवधीत् । बहुखट्वकः । पटुमाचष्ट इति णिचि टिलोपे कृते तस्य स्थानिवद्भावाद् अत उपधायाः(7-2-116/2282) इति वृद्धिर्न भवति । अवधीत्--अतो लोपस्य स्थानिवद्भावाद् अतो हलादेर्लघोः(7-2-7/2284) इति हलन्तलक्षणा वृद्धिर्न भवति । बहुखट्वक इति--आपोऽन्यतरस्याम्(7-4-15>) इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्तेऽन्त्यात्पूर्वम्(6-2-174/3908) इति स्वरो न भवति । अच इति किम् ? प्रश्नः । आक्राष्टाम् । आगत्य । प्रश्न इति --प्रच्छेर्नङ्प्रत्यये च्छ्वोः शूडनुनासिके च(6-4-19/2561) इति छकारस्य शकारः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद्भवति । आक्राष्टामिति--झलो झलि(8-2-26/2281) इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि(8-2-41/295) इति ककारे कर्तव्ये न स्थानिवद्भवति । आगत्येति--वा ल्यपि(6-4-38/3334) इति अनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद्भवति ।
परस्मिन्निति किम् ? युवजानिः । वधूटीजानिः । वैयाघ्रपद्यः । आदीध्ये । युवजानिरिति--जायाया निङ्(5-4-134/872) न परनिमित्तकः, तेन यलोपे न स्थानिवद्भवति । वैयाघ्रपद्य इति- न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिबध्नाति । आदीध्ये इति-दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर्दीधीवेव्योः(7-4-53/2488) इति लोपो न भवति ।
पूर्वविधाविति किम् ? हे गौः । बाभ्रवीयाः । नैधेयः । हे गौरिति वृद्धिरजादेशः संबुद्धिलोपे कर्त्तव्ये न स्थानिवद्भवति । बाभ्रवीया इति-बाभ्रव्यस्यामी च्छात्रा इति वृद्धाच्छः(4-2-114/1337) इति छः, हलस्तद्धितस्य(6-4-150/472) इति यकारलोपे कर्त्तव्येऽवादेशो न स्थानिवद्भवति । नैधेयः-आतो लोप इटि च (6-4-64/2372) इत्याकारलोपः, इतश्चानिञः(4-1-122/1125) इति द्व्यज्लक्षणे प्रत्यविधौ न स्थानिवद्भवति ।।
</1-1-57>
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ।। <1-1-57> ।।
पूर्वेणातिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते । पदान्तविधिं प्रत्यजादेशो न स्थानिवद्भवति-कौ स्तः, यौ स्तः । तानि सन्ति, यानि सन्ति । श्नसोरल्लोपः(6-4-111/2469) क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्त्तव्ये स्थानिवत् स्यात्, अस्माद्वचनान्न भवति ।
द्विर्वचनविधिं प्रति न स्थानिवद्भवति-दद्ध्यत्र । मद्ध्वत्र । यणादेशः परनिमित्तकस्तस्य स्थानिवद्भावाद् अनचि च(8-4-47/48) इति धकारस्य द्विर्वचनं न स्यादस्माद्वचनाद्भवति ।
वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद्भवति-अप्सु यायावरः प्रवपेत पिण्डान् । यातेर्यङन्ताद् यश्च यङः(3-2-176/3156) इति वरचि कृते अतो लोपः(6-4-48/2308) परनिमित्तकः, तस्य स्थानिवत्त्वाद् आतो लोप इटि च(6-4-64/3156) इत्याकारलोपः स्यादस्माद्वचनान्न भवति ।
यलोप । यलोपविधिं प्रत्यजादेशो न स्थानिवद्भवति-कण्डूतिः । कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर्वलि(6-1-66/873) इति यलोपे स्थानिवत् स्यादस्माद्वचनान्न भवति ।
स्वर । स्वरविधिं प्रति अजादेशो न स्थानिवद्भवति --चिकीर्षकः, जिहीर्षकः । ण्वुलि कृते अतो लोपः(6-4-48/2308) परनिमित्तको लिति(6-1-193/3676) प्रत्ययात्पूर्वमुदात्तमिति स्वरे कर्त्तव्ये न स्थानिवद् भवतीति ।
सवर्ण । सवर्णविधिं प्रति अजादेशो न स्थानिवद् भवति--शिण्ढि, पिण्ढि । शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने, रुधादिभ्यः श्नम्(3-1-78/3676) हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्लोपः(6-4-111/2469) क्ङिति सार्वधातुके परनिमित्तकोऽनुस्वारस्य ययि परसवर्णे कर्त्तव्ये न स्थानिवद् भवति ।
अनुस्वार । अनुस्वारविधिं प्रत्यजादेशो न स्थानिवद् भवति-शिंषन्ति, पिंषन्ति । नश्चापदान्तस्य झलि(8-3-24/123) इति अनुस्वारे कर्त्तव्ये श्नसोरल्लोपो न स्थानिवद् भवति।
दीर्घ । दीर्घविधिं प्रति अजादेशो न स्थानिवद् भवति- प्रतिदीव्ना, प्रतिदीव्ने । प्रतिदिवन्नित्येतस्य भस्य(6-4-129/233)इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च अल्लोपोऽनः(6-4-134/234) इति अकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् हलि च(8-2-77/354) इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्पर इति, अस्माद्वचनाद् भवति ।
जश् । जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति--सग्धिश्च मे,सपीतिश्च मे । बब्धान्ते हरी धानाः । अदेः क्तिनि बहुलं छन्दसि(8-4-39/3398) इति घस्लादेशःघसिभसोर्हलि च(6-4-100/3550) इति उपधालोपः, झलो झलि(8-2-26/2281) इति सलोपः, झषस्तथोर्धोऽधः(8-2-40/2280) इति धत्वम्, उपधालोपस्य स्थानिवत्त्वात् । झलां जश् झशि(8-4-53/52) इति धकारस्य जश्त्वं न स्यादस्माद्वचनाद् भवति । समाना ग्धिः, समानस्य सभावः--सग्धिः । बब्धामिति-भसेर्लोड्‌द्विवचने शपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर्हलि च(6-4-100/3550) इति उपधालोपः, झलो झलि(8-2-26/2281) इति सलोपः, झषस्तथोर्धोऽध(8-2-40/2280) इति धत्वम्, उपधालोपस्य स्थानिवत्त्वात् झलां जश् झशि जश्त्वं न स्यादस्माद्वचनाद् भवति ।
चर् । चर्विधिं प्रत्यजादेशो न स्थानिवद् भवति--जक्षतुः, जक्षुः । `अक्षन्नमीमदन्त पितरः(वा.सं.19.36) । लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः, गमहनजनखनघसाम्(6-4-98/2363) इत्युपधालोपः, द्विर्वचनम्, अभ्यासकार्यम् । तत्रोपधालोपस्य स्थानिवत्त्वात् खरि च(8-4-55/121) इति घकारस्य चर्त्त्वं न स्यादस्माद्वचनाद् भवति । शासिवसिघसीनां च(8-3-60/2410) इति षत्वम् । अक्षन्नित्यदेर्लुङ्बहुवचने घस्लादेशश्च्लेरागतस्य मन्त्रे घसह्वर(2-4-80/3402) इति लुक्, गमहनजनखनघसाम्(6.498/2363) इत्युपधालोपः, तस्य स्थानिवत्त्वात् खरि च(8-4-55/121)इति चर्त्वं न स्यादस्माद्वचनाद् भवति । स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्भवति, अन्यत्र तु स्थानिवदेव । तेन बहुखट्वकः, किर्योः गिर्योः, वाय्वोरिति स्थानिवत्वात् स्वर-दीर्घ-यलोपा न भवन्ति ।।
</1-1-57>
द्विर्वचनेऽचि ।। <1-1-59> ।।
द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद्भवति द्विर्वचन एव कर्त्तव्ये । रूपातिदेशश्चायं नियतकालः, तेन कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते ।
आल्लोपोपधालोपणिलोपयणवायावादेशाः प्रयोजनम् ।
आल्लोपः--पपतुः, पपुः । आतो लोप इटि च(6-4-64/2372) इत्याकारलोपे कृते तस्य स्थानिवद्भावाद् एकाचः(6-1-1/2175) इति द्विर्वचनं भवति ।
उपधालोपः-- जघ्नतुः। जघ्नुः। गमहनजनखनघसां लोपः क्ङित्यनङि(6-4-98/2363)इत्युपधालोपे कृते अनच्कत्वाद् द्विर्वचनं न स्यादस्माद्वचनाद्भवति। णिलोपः-- आटिटत् । अटतेर्णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वाद् अजादेर्द्वितीयस्य(6-1-2/2176) इति टिशब्दस्य द्विर्वचनं भवति ।
यण्--चक्रतुः, चक्रुः । करोतेरतुसि उसि च यणादेशे कृतेऽनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद्भवति ।
अयवायावादेशाः--निनय, निनाय। लुलव, लुलाव । नयतेर्लुनातेश्चोत्तमे णलि गुणे कृते वृद्धौ
चायवायावादेशास्तेषां स्थानिवत्त्वान् नेनैलोलाविति द्विर्वचनं भवति ।
द्विर्वचन इति किम् ? जग्ले । मम्ले । श्रवणमाकारस्य न भवति ।
द्विर्वचननिमित्त इति किम् ? दुद्युषति । ऊठि यणादेशो न स्थानिवद्भवभति ।
अचीति किम् ? जेघ्रीयते, देध्मीयते । ई घ्राध्मोः(7-4-31/2648) यङि च(7-4-30/2633) इति ईकारादेशस्तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात् । अज्ग्रहणान्न भवति ।।
</1-1-59>
अदर्शनं लोपः ।। <1-1-60> ।।
अदर्शनमश्रवणमनुच्चारणमुनपलब्धिरभावो वर्णविनाशः--इत्यनर्थान्तरम् । एतैः शब्दैर्योऽभिधीयते तस्य लोप इतीयं संज्ञा भवति । अर्थस्येयं संज्ञा; न शब्दस्य । प्रसक्तस्यादर्शनं लोपसंज्ञं भवति ।
गोधाया ढ्रक्(4-1-129/1135)-गौधेरः । पचेरन् । जीवेरदानुक्(उणादि.1.163)-जीरदानुः । स्रिवेर्मनिन्-आस्रेमाणम् । यकारवकारयोरदर्शनमिहोदाहरणम् । अपरस्यानुबन्धादेः प्रसक्तस्य ।
लोपप्रदेशाः-लोपो व्योर्वलि(6-1-66/873) इत्येवमादयः ।।
प्रत्ययस्य लुक्श्लुलुपः ।। 1.1. 61 ।।
अदर्शनम् इति वर्त्तते । प्रत्ययादर्शनस्य लुक्-श्लु-लुप्-इत्येताः संज्ञा भवन्ति । अनेकसंज्ञाविधानाच्च तद्भावितग्रहणमिह विज्ञायते । लुक्संज्ञाभावितं प्रत्ययादर्शनं लुक्संज्ञं भवति, श्लुसंज्ञाभावितं श्लुसंज्ञं भवति, लुप्संज्ञाभावितं लुप्संज्ञं भवति । तेन संज्ञानां सङ्करो न भवति । विधिप्रदेशेषु च भाविनी संज्ञा विज्ञायते । अत्ति । जुहोति । वरणाः ।
प्रत्ययग्रहणं किम् ? अगस्तयः । कुण्डिनाः ।
लुक्श्लुलुप्प्रदेशाः--लुक्तद्धितलुकि(1-2-49/1408),जुहोत्यादितभ्यः श्लुः(2-4-75/2489),जनपदे लुप्(4-2-81/1293) इत्येवमादयः ।।
</1-1-60>
प्रत्ययलोपे प्रत्ययलक्षणम् ।। <1-1-62> ।।
प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं तु नाम स्यादिति सूत्रमिदमारभ्यते । प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कार्यं भवति । अग्निचित्, सोमसुत्, अधोगित्यत्र सुप्तिङोर्लुप्तयोः सुप्तिङन्तं पदम्(1-4-14/29) इति पदसंज्ञा भवति । अधोगिति दुहेर्लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम् ।
प्रत्यय इति वर्त्तमाने पुनः प्रत्ययग्रहणं किम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् । इह मा भूत्--आघ्नीय, सङ्ग्मीय । हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य(7-2-79/2211) इति सीयुट्‌सकारलोपः प्रत्ययैकदेशलोपस्तत्र प्रत्ययलक्षणेन झलीत्यनुनासिकलोपो न भवति ।
प्रत्ययलक्षणमिति किम् ? रायः कुलं रैकुलम्, गवे हितं गोहितम्-आयवादेशौ न भवतः वर्णाश्रयत्वात् ।।
</1-1-62>
न लुमताङ्गस्य ।। <1-1-63> ।।
पूर्वेणातिप्रसक्तं प्रत्ययलक्षणमिति विशेषे प्रतिषेध उच्यते । लुमता शब्देन लुप्ते प्रत्यये यदङ्गं तस्य प्रत्ययलक्षणं कार्यं न भवति । गर्गाः । मृष्टः । जुहुतः । यञ्शपोर्लुमता लुप्तयोरङ्गस्य गुणवृद्धी न भवतः ।
लुमतेति किम् ? कार्यते । हार्यते । अङ्गस्येति किम् ? पञ्च । सप्त । पयः । साम।।
</1-1-63>
अचोऽन्त्यादि टि ।। <1-1-64>।।
अचः इति निर्धारणे षष्ठी । जातावेकवचनम् । अचां संनिविष्टानां योऽन्त्योऽच् तदादि शब्दरूपं टिसंज्ञं भवति । अग्निचित्-इच्छब्दः । सोमसुत्-उच्छब्दः । आताम्, आथाम्--आम्शब्द । पचेते, पचेथे ।
टिप्रदेशाः--टित आत्मनेपदानां टेरे(3-4-79/2233) इत्येवमादयः ।
</1-1-64>
अलोऽन्त्यात्पूर्व उपधा ।। <1-1-65>।।
धात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्वो यो वर्णः सोऽलेवोपधासंज्ञो भवति । पच् पठ्--अकारः । भिद्, छिद्-इकारः । बुध्, युध्-उकारः । वृत्, वृध्-ऋकारः ।
अल इति किम् ? शिष्टः, शिष्टवान् । समुदायात्पूर्वस्य मा भूत् ।
उपधाप्रदेशाः-अत उपधायाः(7-2-115/2282) इत्येवमादयः ।।
</1-1-65>
तस्मिन्निति निर्दिष्टे पूर्वस्य ।। <1-1-66> ।।
तस्मिन् इति सप्तम्यर्थनिर्देशे पूर्वस्यैव कार्यं भवति, नोत्तरस्य । इको यणचि(6-1-77/47)--दध्युदकम्, मध्विदम्, पचत्योदनम् । निर्दिष्टग्रहणमानन्तर्यार्थम् । अग्निचिदत्रेति व्यवहितस्य मा भूत् ।।
</1-1-66>
तस्मादित्युत्तरस्य ।। <1-1-67> ।।
निर्दिष्टग्रहणमनुवर्त्तते । `तस्माद् इति पञ्चम्यर्थनिर्देशः । उत्तरस्यैव कार्य भवति, न पूर्वस्य । तिङ्‌ङतिङः(8-1-28/3935)--ओदनं पचति । इह न भवति - पचत्योदनमिति ।
</1-1-67>
स्वं रूपं शब्दस्याशब्दसंज्ञा ।। <1-1-68> ।।
शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसंज्ञं वर्जयित्वा । शब्देनार्थावगतेरर्थे कार्यस्यासम्भवात् तद्वाचिनां शब्दानां संप्रत्ययो मा भूदिति सूत्रमिदमारभ्यते । अग्नेर्ढक्(4-2-33/1236)-`आग्नेयमष्टाकपालं निर्वपेत्(वै.श्रौ.सू.1.19) । अग्निशब्दोऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः पावको धूमकेतुरिति; नातः प्रत्ययो भवति ।
उदश्वितोऽन्यतरस्याम्(4-2-19/1220)-औदश्वित्कम् । औदश्वितम् । तक्रम् = अरिष्टं कालशेपं दण्डाहतं मथितमिति, नातः प्रत्ययो भवति ।
अशब्दसंज्ञेति किम् ? दाधा घ्वदाप्(1-1-20/2373) ,तरप्तमपौ घः(1-1-23/2003)-घुग्रहणेषु घग्रहणेषु च संज्ञिनां ग्रहणम्, न संज्ञायाः ।।
* सित्तद्विशेषाणां वृक्षाद्यर्थम् * (म.भा.1.176)।। सिन्निर्देशः कर्तव्यः । ततो वक्तव्यम्-तद्विशेषाणां ग्रहणं भवतीति । किं प्रयोजनम् ? वृक्षाद्यर्थम् । विभाषा वृक्षमृगतृण(2-4-12/916) इति--प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः ।
*पित्पर्यायवचनस्य च स्वाद्यर्थम् * ।।(म.भा.1.177) पिन्निर्देशः कर्त्तव्यः । ततो वक्तव्यम्-पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां चेति । किं प्रयोजनम् ? स्वाद्यर्थम् । स्वे पुषः(3-4-40/3361)-स्वपोषं पुष्टः । रैपोषम् । धनपोषम् । अश्वपोषम् । गोपोषम् ।
* जित्पर्यायवचनस्यैव राजाद्यर्थम् * ।।(म.भा.1.177) जिन्निर्देशः कर्त्तव्यः । ततो वक्त्व्यम्-पर्यायवचनस्यैव ग्रहणं भवतीति, न स्वरूपस्य, नापि तद्विशेषाणाम् । किं प्रयोजनम् ? राजाद्यर्थम् । सभाराजाऽमनुष्यपूर्वा(2-4-23/826)-इनसभम्; ईश्वरसभम् । तस्यैव न भवति-राजसभा । तद्विशेषाणां च न भवति-पुष्यमित्रसभा, चन्द्रगुप्तसभा ।
*झित्तद्विशेषाणां च मत्स्याद्यर्थम् * ।।(म.भा.1.177) झिन्निर्देशः कर्त्तव्यः । ततो वक्तव्यम्--तस्य च ग्रहणं भवति तद्विशेषाणां चेति । किं प्रयोजनम् मत्स्याद्यर्थम् ।पक्षिमत्स्यमृगान् हन्ति(4-4-35>./1585) इति ठक् । पाक्षिकः, मात्स्यिकः । तद्विशेषाणाम्-शाकुनिकः । पर्यायाणां न भवति-अजिह्मान् हन्ति, अनिमिषान् हन्तीति । *अथैकस्येष्यते-मीनान् हन्तीति मैनिकः ।
</1-1-68>
अणुदित्सवर्णस्य चाप्रत्ययः ।। <1-1-69> ।।
परेण णकारेण प्रत्याहारग्रहणम् । अण् गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य; प्रत्ययं वर्जयित्वा । आद् गुणः(6-1-87/69), अस्य च्वौ(7-4-32/2118),यस्येति च(6-4-148/34)। स्वरानुनासिक्यकालभिन्नस्य ग्रहणं भवति । उदित्खल्वपि-चुटू(1-3-7/189),लशक्वतद्धिते(1-3-8/195) । चवर्गटवर्गयोः कवर्गस्य च ग्रहणं भवति ।
अप्रत्यय इति किम् ? सनाशंसभिक्ष उः(3-2-168/3148) , अ सांप्रतिके(4-3-9/1379)-दीर्घो न भवति ।।
</1-1-69>
तपरस्तत्कालस्य ।। <1-1-70> ।।
तः परो यस्मात्सोऽयं तपरः,तादपि परस्तपरः, तपरो वर्णस्तत्कालस्यात्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य । विध्यर्थमिदम् । अण् इति नानुवर्त्तने । अणामन्येषां च तपराणाम् इदमेव ग्रहणकशास्त्रम् । अतो भिस ऐस्(7-1-9/203) इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्त्तत एव । अतपरा अणस्तस्यावकाशः ।
किमुदाहरणम् ?अतो भिस ऐस्(7-1-9/203)--वृक्षैः, प्लक्षैः । विड्वनोरनुनासिकस्यात्(6-4-41/2982)--अब्जाः, गोजाः ।
तत्कालस्येति किम् ? खट्वाभिः, मालाभिः ।।
</1-1-70>
आदिरन्त्येन सहेता ।। <1-1-71>।।
आदिरन्त्यनेत्संज्ञकेन सह गृह्यमाणस्तन्मध्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य । अण् । अक् । अच् । हल् । सुप् । तिङ् ।
अन्त्येनेति किम् ? सुडिति तृतीयैकवचनेन टा इत्यनेन ग्रहणं मा भूत् ।।
</1-1-71>
येन विधिस्तदन्तस्य ।। <1-1-72> ।।
येन विशेषणेन विधिर्विधीयते स तदन्तस्यात्मान्तस्य समुदायस्य ग्राहको भवति, स्वस्य च रूपस्य । एरच्(3-3-56/3231)--इवर्णान्तादच्प्रत्ययो भवति--चयः,जयः, अयः । ओरावश्यके(3-1-125/2886) उवर्णान्ताद् ण्यद्भवति--अवश्यलाव्यम्, अवश्यपाव्यम् ।।
*समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः *।।(म.भा.1.184) द्वितीयान्तं श्रितादिभिः सह समस्यते--कष्टश्रितः । इह मा भूत्-कष्टं परमश्रित इति । प्रत्ययविधौ-नडादिभ्यः फक्(4-1-99/1101), नडस्यापत्यं नाडायनः । इह मा भूत्--सूत्रनडस्यापत्यं सौत्रनाडिः ।
किमविशेषेण ? नेत्याह ।।
* उगिद्विर्णग्रहणवर्जमित वाच्यम् *।।(म.भा.1.185) उगितश्च(4-1-6/455) इति ङीप्प्रत्ययस्तदन्तादपि भवति । भवती, अतिभवती । वर्णग्रहणम्-अत इञ्(4-1-95/1095) । दाक्षिः, प्लाक्षिः।।
*यस्मिन्विधिस्तदादावल्ग्रहणे*।।(म.भा.1.188) अल्ग्रहणेषु यस्मिंन्विधिस्तदादाविति वक्तव्यम् । अचि श्नुधातुभ्रवां य्वोरियङुवङौ(6-4-77/271) इति--श्रियः, भ्रुवः ।।
</1-1-72>
वृद्धिर्यस्याचामादिस्तद् वृद्धम् ।।<1-1-73>।।
यस्येति समुदाय उच्यते । अचां मध्ये यस्य वृद्धिसंज्ञक आदिभूतस्तच्छब्दरूपं वृद्धसंज्ञं भवति । अचाम् इति जातौ बहुवचनम् । शालीयः, मालीयः, औपगवीयः, कापटवीयः।
आदिरिति किम् ? सभासन्नयने भवः साभासन्नयनः ।
*वा नामधेयस्य वृद्धसंज्ञा वक्तव्या*। (म.भा.1.189)देवदत्तीयाः, दैवदत्ताः ।
*गोत्रान्तादसमस्तवत् प्रत्ययो भवतीति वक्तव्यम् *।(म.भा.1.190) घृतप्रधानो रौढिः = घृतरौढिः, तस्य छात्रा घृतरौढीयाः । ओदनप्रधानः पाणिनिः = ओदनपाणिनिः, तस्य छात्रा ओदनपाणिनीयाः, वृद्धाम्भीयाः, वृद्धकाश्यपीयाः ।

  • जिह्वाकात्यहरितकात्यवर्जम्*।(म.भा.1.190) जैह्वाकाताः, हारितकाताः ।।

</1-1-73>
त्यदादीनि च ।। <1-1-74>।।
यस्याचामादिग्रहणमुत्तरार्थमनुवर्तते । इह तु न सम्बध्यते । त्यदादीनि शब्दरूपाणि वृद्धसंज्ञानि भवन्ति । त्यदीयम्, तदीयम्, एतदीयम्, इदमीयम्, अदसीयम्; त्वदीयम्, त्वादायनिः, मदीयम्, मादायनिः, भवदीयम्, किमीयम् ।।
</1-1-74>
एङ् प्राचां देशे ।। <1-1-75>।।
यस्याचामादिग्रहणमनुवर्त्तते । एङ् यस्याचामादिस्तत्प्राचां देशाभिधाने वृद्धसंज्ञं भवति । एणीपचनीयः, भोजकटीयः, गोनर्दीयः ।
एङिति किम् ? आहिच्छत्रः, कान्यकुब्जः । प्राचामिति किम् ? देवदत्तो नाम वाहीकेषु ग्रामः, तत्र भवो दैवदत्तः ।
देश इति किम् ? गोमत्यां भवा मत्स्या गौमताः ।
प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा ।
विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ।।
          इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
             प्रथमाध्यायस्य प्रथमः पादः
</1-1-75>