काशिका/प्रथमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः

अथ प्रथमाध्याये द्वितीयः पादः

गाङ्कुटादिभ्योऽञ्णिन्ङित् ।। <1-2-1> ।।
अतिदेशोऽयम् । `गाङ् इति इङादेशो गृह्यते, न `गाङ् गातौ(धा.पा.950) इति; ङकारस्यानन्यार्थत्वात् । कुटादायोऽपि--`कुट कौटिल्ये(धा.पा.1367)इत्येतदारभ्य यावत् `कुङ् शब्दे(धा.पा.1402) इति । एभ्यो गाङ्कुटादिभ्यः परेऽञ्णितः प्रत्ययाः ङितो भवन्ति । ङिद्वद्भवन्तीत्यर्थः । गाङः--अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । कुटादीभ्यः--कुटिता, कुटितुम्, कुटितव्यम् । उत्पुटिता, उत्पुटितुम्, उत्पुटितव्यम् ।
अञ्णिदिति किम् ? उत्कोटयति, उच्चुकोट, उत्कोटकः, उत्कोटो वर्तते ।
*व्यचेः कुटादित्वमनसीति वक्तव्यम् *। विचिता, विचितुम्, विचितव्यम् । अनसीति किम् ? उरुव्यचाः ।
</1-2-1>
विज इट् ।। <1-2-2> ।।
`ओविजी भयचलनयोः(धा.पा.1290),अस्मात्परः इडादिः प्रत्ययो ङिद्वद्भवति । उद्विजिता, उद्विजितुम्, उद्विजितव्यम् ।
इडिति किम् ? उद्वेजनम्, उद्वेजनीयम् ।
</1-2-2>
विभाषोर्णोः ।। <1-2-3> ।।
`इट् इति वर्तते । `ऊर्णुञ् आच्छादने(धा.पा.1039), अस्मात्पर इडादिः प्रत्ययो विभाषा ङिद्वद्भवति । प्रोर्णुविता, प्रोर्णविता । इडित्येव-प्रोर्णवनम्, प्रोर्णवनीयम् ।
</1-2-3>
सार्वधातुकमपित् ।। <1-2-4> ।।
सार्वधातुकं यदपित् तन्ङिद्वद्भवति । कुरुतः, कुर्वन्ति । चिनुतः, चिन्वन्ति ।
सार्वधातुकमिति किम् ? कर्ता, कर्तुम्, कर्तव्यम् । अपिदिति किम् ? करोति, करोषि, करोमि ।
</1-2-4>
असंयोगाल्लिट् कित् ।। <1-2-5> ।।
`अपित् इति वर्तते । असंयोगान्ताद्धातोः परो लिट् प्रत्ययोऽपित् किद्भवति । बिभिदतुः, बिभिदुः । चिच्छिदतुः, चिच्छिदुः । ईजतुः, ईजुः ।
असंयोगादिति किम् ?सस्रंसे, दध्वंसे । अपिदित्येव--बिभेदिथ।
</1-2-5>
इन्धिभवतिभ्यां च ।। <1-2-6> ।।
</1-2-6>
`इन्धि-भवति इत्येताभ्यां परो लिट्प्रत्ययः किद्भवति । `समीधे दस्युहन्तमम्(ऋ.<6-16-15>), `पुत्र ईधे अथर्वणः(ऋ.<6-16-14>) । भवतेः खल्वपि-बभूव। बभूविथ ।
इन्धेः संयोगार्थं ग्रहणम् । भवतेः पिदर्थम् । अत्रेष्टिः-* श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् * ।। श्रेथतुः, श्रेथुः । ग्रेथतुः, ग्रेथुः । देभतुः, देभुः । परिषस्वजे, परिषस्वजाते ।।
</6-16-15>
मृडमृदगुधकुषक्लिशवदवसः क्त्वा ।। <1-2-7> ।।
मृड,मृद, गुध, कुष, क्लिश, वद, वस्--इत्येतेभ्यः परः क्त्वाप्रत्ययः किद्भवति । नक्त्वा सेट्(1-2-18/3322) इति कित्त्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्तादपकर्षः । गुध-कुष-क्लिशीनां तु रलो व्युपधाद्(1-2-26/2617) इति विकल्पे प्राप्ते नित्यार्थ वचनम् । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा ।।
</1-2-7>
रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ।। <1-2-8>।।
रुद, विद, मुष, ग्रहि, स्वपि, प्रच्छ-- इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः । रुद-विद-मुषीणां रलो व्युपधाद्(1-2-26/2617) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम् । ग्रहेर्विध्यर्थमेव । स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम् । किदेव हि क्त्वा । रुदित्वा, रुरुदिषति । विदित्वा, विविदिषति । मुषित्वा, मुमुषिषति । गृहीत्वा, जिघृक्षति । सुप्त्वा, सुषुप्सति । पृष्ट्वा, पिपृच्छिषति । ग्रहादीनां कित्त्वात्संप्रसारणं भवति । किरश्च पञ्चभ्यः (7-2-75/2611) इति प्रच्छेरिडागमः ।
</1-2-8>
इको झल् ।। <1-2-9> ।।
`सन् इत्यनुवर्तते । `क्त्वा इति निवृत्तम् । इगन्ताद्धातोः परो झलादिः सन् किद्भवति । चिचीषति । तुष्टूषति । चिकीर्षति ।
इक इति किम्? पिपासति । तिष्ठासति । झलिति किम् ? शिशयिषते ।
किमर्थमिदमुच्यते ? गुणो मा भूदिति । अज्झनगमां सनि(6-4-16/2614) इति दीर्घत्वं गुणस्य बाधकं भविष्यति ? यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बाधेत । तस्माद्दीर्घंत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते । चिचीषतीत्यादिषु सावकाशं दीर्घत्वं परत्वाद् णिलोपेन बाध्यते- ज्ञीप्सति ।।
`इकः कित्वं गुणो मा भूद्दीर्घारम्भात्कृते भवेत् ।
अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ।।
सामर्थ्याद्धि पुनर्भाव्यमॄदित्वं दीर्घसंश्रयम् ।
दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम् ।।(म.भा.1.19)
</1-2-9>
हलन्ताच्च ।। <1-2-10> ।।
`इकः सन् झल्कित् इति वर्तते । समीपवचनोऽन्तशब्दः । हल् चासावन्तश्च हलन्तः । इगन्तादिक्समीपाद्धलः परः सन् झलादिः किद्भवति । बिभित्सति । बुभुत्सते । इक इत्येव-- यियक्षते । झलित्येव--विवर्त्तिषते ।
दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् । धिप्सति । धीप्सति ।।
</1-2-10>
लिङ्‌सिचावात्मनेपदेषु ।। <1-2-11> ।।
`हलन्तादिको झल्कित् इति वर्तते । `सन् इति निवृत्तम् । इगन्तादिक्समीपाद्धलः परौ झलादी लिङ्‌सिचौ आत्मनेपदेषु परतः कितौ भवतः । भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपि--अभित्त, अबुद्ध । इक इत्येव--यक्षीष्ट, अयष्ट । संप्रसारणं हि स्यात् ।
आत्मनेपदेष्विति किम् ? अस्राक्षीत्, अद्राक्षीत् । सृजिदृशोझल्यमकिति(6-1-58/2405) इत्यमागमो न स्यात् । हलन्तादित्येव--चेषीष्ट, अचेष्ट । गुणो न स्यात् । झलित्येव--वर्तिषीष्ट, अवर्त्तिष्ट । गुणो न स्यात् ।
लिङ्‌सिचाविति किम् ? द्वेष्टा, द्वेक्ष्यति ।।
</1-2-11>
उश्च ।। <1-2-12> ।।
ऋवर्णान्ताद्धातोः परौ लिङ्‌सिचावात्मनेपदेषु झलादी कितौ भवतः । कृषीष्ट । हृषीष्ट । सिचः खल्वपि--अकृत । अहृत । झलित्येव--वरिषीष्ट । अवरिष्ट । वॄतो वा (7-2-38/2391) । अवरीष्ट ।।
</1-2-12>
वा गमः ।। <1-2-13> ।।
लिङ्‌सिचावात्मनेपदेषु इति वर्तते । गमेर्धातोः परौ लिङ्‌सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः ।
संगंसीष्ट, संगसीष्ट । सिचः खल्वपि-- समगत, समगंस्त । कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तोपदेशवनतितनोत्यादीनाम्(6-4-37/2428) इति ।।
</1-2-13>
हनः सिच् ।। <1-2-14> ।।
हन्तेर्घातोः परः सिच् किद्भवति । आहत । आहसाताम् । आहसत । सिचः कित्त्वादनुनासिकलोपः ।
सिज्ग्रहणं लिङ्‌निवृत्त्यर्थम्, उत्तरत्रानुवृत्तिर्मा भूत् ।
आत्मनेपदग्रहणमुत्तरार्थमनुवर्तते । इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात्कित्त्वस्य प्रयोजनं नास्ति ।।
</1-2-14>
यमो गन्धने ।। <1-2-15> ।।
`सिच्, आत्मनेपदेषु इति वर्तते । यमेर्धातोर्गन्धने वर्तमानात्परः सिच् प्रत्ययः किद्भवति आत्मनेपदेषु परतः । गन्धनम् = सूचनम्, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेकार्थत्वाद्धातूनां यमिस्तत्र वर्तते । उदायत । उदायसाताम् । उदायसत । सूचितवानित्यर्थः । सिचः कित्त्वादनुनासिकलोपः । आङो यमहनः (1-3-28/2695) इत्यात्मनेपदम् ।
गन्धन इति किम् ? उदायंस्त पादम् । उदायंस्त कूपादुदकम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि समुदाङ्‌भ्यो यमोऽग्रन्थे(1-3-75/2742)इत्यात्मनेपदम् ।।
</1-2-15>
विभाषोपयमने ।। <1-2-16> ।।
`यमः सिच्, आत्मनेपदेषु इति वर्तते । यमेर्धातोरुपयमने वर्तमानात् परः सिच्प्रत्ययो विभाषा किद्भवति, आत्मनेपदेषु परतः । उपायत कन्याम्, उपायंस्त कन्याम् । उपायत भार्याम्, उपायंस्त भार्याम् ।
उपयमनम् = स्वीकरणम्, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः । उपाद्यमः स्वकरणे (1-3-56/2729)इत्यात्मनेपदम् ।।
</1-2-16>
स्थाध्वोरिच्च ।। <1-2-17> ।।
`सिच्`आत्मनेपदेषु इति वर्तते । तिष्ठतेर्धातोः घुसंज्ञकानां च इकारश्चान्तादेशः सिच्च किद्भवाति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घुसंज्ञकानाम्- अदित, अधित ।।
`इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः ।
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ।।(म.भा.1.199)
</1-2-17>
न क्त्वा सेट् ।। <1-2-18> ।।
क्त्वाप्रत्ययः सेण्न किद्भवति । देवित्वा, वर्त्तित्वा ।
सेडिति किम् ? कृत्वा, हुत्वा । क्त्वाग्रहणं किम् ? निगृहीतिः । उपस्निहितिः । निकुचितिः ।।
`न सेडिति कृतेऽकित्त्वे निष्ठायामवधारणात् ।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः ।।
इत्त्वं कित्संनियोगेन रेण तुल्यं सुधीवनि ।
वस्वर्थं किदतीदेशान्निगृहीतिः प्रयोजनम् ।।
</1-2-18>
निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ।। <1-2-19>।।
`न सेट् इति वर्तते । शीङ्-स्विदि-मिदि-क्ष्विदि-धृष्--इत्येतेभ्यः परो निष्ठाप्रत्ययः सेण्न किद्भवति । शयितः, शयितवान् । प्रस्वेदितः, प्रस्वेदितवान् । प्रमेदितः, प्रमेदितवान् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । प्रधर्षितः,
प्रधर्षितवान् । सेडित्येव-स्विन्नः, स्विन्नवान् । स्विदादीनाम् आदितश्च(7-2-16/3036) इति निष्ठायामिट् प्रतिषिध्यते । विभाषा भावादि कर्मणोः(7-2-17/3054) इति पक्षेऽभ्यनुज्ञायते, स विषयः कित्त्वप्रतिषेधस्य ।।
</1-2-19>
मृषस्तितिक्षायाम् ।। <1-2-20> ।।
मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेण्न किद्भवति । तितिक्षा ।। क्षमा । मर्षितः, मर्षितवान् ।
तितिक्षायामिति किम् ? अपमृषितं वाक्यमाह ।।
</1-2-20>
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ।। <1-2-21> ।।
`निष्ठा, सेण्न, कित् इति वर्तते । उदुपधाद्धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद्भवति । द्युतितमनेन, द्योतितमनेन । प्रद्योतितः, प्रद्युतितः । मुदितमनेन, मोदितमनेन । प्रमुदितः, प्रमोदितः ।
उदुपधादिति किम् ? लिखितमनेन । भावादिकर्मणोरिति किम् ? रुचितं कार्षापणं ददाति । सेडित्येव--प्रभुक्त ओदनः ।
व्यवस्थितविभाषा चेयम् । तेन शब्विकरणानामेव भवति । `गुध परिवेष्टने(धा.पा.1120), गुधितमित्यत्र न भवति ।।
</1-2-21>
पूङः क्त्वा च ।। <1-2-22> ।।
`अन्यतरस्याम् इति न स्वर्यते; उत्तरसूत्रे पुनर्वावचनात् । `न सेट् इति वर्तते । पूङश्च इड्‌विहितः क्लिशः क्त्वानिष्ठयोः(7-2-50/3049),पूङश्च(7-2-51/3050) इति । पूङ परो निष्ठाप्रत्ययः क्त्वा च सेण्न किद्भवति । पवितः, पवितवान् ।
क्त्वाप्रत्ययस्य नक्त्वा सेट्(1-2-18/3322) इति सिद्ध एव प्रतिषेधः । तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तम्--`नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थम् इति ।(म.भा.1.201)।।
</1-2-22>
नोपधात् थफान्ताद्वा ।। <1-2-23> ।।
निष्ठा इति निवृत्तम् । नकारोपधाद्धातोस्थकारान्तात्फकारान्ताच्च परः क्त्वाप्रत्ययः सेड् वा न किद्भवति । ग्रथित्वा, ग्रन्थित्वा । श्रथित्वा, श्रन्थित्वा । गुफित्वा, गुम्फित्वा ।
नोपधादिति किम् । रेफित्वा । गोफित्वा । थफान्तादिति किम् ? सित्वा । ध्वंसित्वा ।।
</1-2-23>
वञ्चिलुञ्च्यृतश्च ।। <1-2-24> ।।
वञ्चि-लुञ्चि-ऋत्-इत्येतेभ्यः परः क्त्वाप्रत्ययः सेड्‌ वा न किद्भवति । वचित्वा, वञ्चित्वा । लुचित्वा, लुञ्चित्वा । ऋतित्वा, अर्तित्वा । ऋतेरीयङ्(3-1-29/2422) आर्धधातुके विकल्पितः । स यत्र पक्षे नास्ति तत्रेदमुदाहरणम् । सेडित्येव--वक्त्वा ।।
</1-2-24>
तृषिमृषिकृशेः काश्यपस्य ।। <1-2-25> ।।
न क्त्वा सेट्(1-2-18/3322) इति प्रतिषेधे प्राप्ते विकल्प्यते । तृषि,मृषि,कृशि--इत्येतेभ्यः परः क्त्वाप्रत्ययः सेट् काश्यपस्याचार्यस्य मते वा न किद्भवति । तृषित्वा, तर्षित्वा । मृषित्वा, मर्षित्वा । कृशित्वा, कर्शित्वा । काश्यपग्रहणं पूजार्थम्, वेत्येव हि वर्तते ।।
</1-2-25>
रलो व्युपधाद्धलादेः संश्च।। <1-2-26> ।।
`वा इति वर्तते, `सेट् इति च । उश्च इश्च वी,वी उपधे यस्य स व्युपधः । उकारोपधादिकारोपधाच्च
धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ वा कितौ भवतः । द्युतित्वा, द्योतित्वा । दिद्युतिषते, दिद्योतिषते । लिखित्वा, लेखित्वा । लिलिखिषति, लिलेखिषति ।
रल इति किम् ? देवित्वा, दिदेविषति व्युपधादिति किम्? वर्त्तित्वा, विवर्त्तिषते । हलादेरिति किम् ? एषित्वा, एषिषिषति । सेडित्येव--भुक्त्वा, बुभुक्षते ।।
</1-2-26>
ऊकालोऽज्झ्रस्वदीर्घप्लुतः ।। <1-2-27> ।।
`ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः । ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद्भावे पुंल्लिङ्गनिर्देशः । उ ऊ ऊ3-इत्येवंकालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुत--इत्येवंसंज्ञो भवति । उकालो ह्रस्वः--दधि, मधु । ऊकालो दीर्घः--कुमारी, गौरी । ऊ3कालः प्लुतः--देवदत्ता 3 अत्र न्वसि । कालग्रहणं परिमाणार्थम् ; दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत् ।
आलूय, प्रलूय--ह्रस्वस्य पिति कृति तुक्(6-1-71/2858) इति तुङ्‌ न भवति ।
अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्--प्रतक्ष्य, प्ररक्ष्य । ह्रस्वाश्रयस्तुङ् मा भूत्-तितउच्छत्रम् । दीर्घात्(6-1-75/148) पदान्ताद्वा(6-1-76/149)इति वाभाषा तुङ् मा भूत् ।
ह्रस्वदीर्घप्लुतप्रदेशाः-ह्रस्वोनपुंसके प्रातिपदिकस्य(1-2-47/318),अकृत्सार्वधातुकयोर्दीर्घः(7-4-25/2298),वाक्यस्य टेः प्लुत उदात्तः(8-2-82/93) ।।
</1-2-27>
अचश्च ।। <1-2-28>।।
परिभाषेयं स्थानिनियमार्था । ह्रस्वदीर्घप्लुताः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः । वक्ष्यति--ह्रस्वो नपुंसके प्रातिपदिकस्य(1-2-47/318) । रै-अतिरि । नौ-अतिनु । गो-उपगु ।
अच इति किम्? सुवाग् ब्राह्मणकुलम् । अकृत्सार्वधातुकयोर्दीर्घः(7-4-25/2298)--चीयते, श्रूयते । अच इति किम् ? भिद्यते । छिद्यते । वाक्यस्य टेः प्लुत उदात्तः(8-2-82/93) देवदत्ता3, यज्ञदत्ता3 । अच इति किम् ? अग्निची3त्, सोमसू3त्--तकारस्य मा भूत् ।
स्वसंज्ञया विधाने नियमः । अजिति वर्त्तते, तइह मा भूत्-- द्यौः, पन्थाः, सः । द्युभ्याम्, द्युभिः । अत्र नियमो नास्ति ।।
</1-2-28>
उच्चैरुदात्तः ।। <1-2-29> ।।
`अच् इति वर्तते । उदात्तादिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव, त इह तद्‌गुणेऽचि परिभाष्यन्ते । उच्चैरुपलभ्यमानो योऽच् स उदात्तसंज्ञो भवति ।
उच्चैरिति च श्रुतिप्रकर्षो न गृह्यते--उच्चैर्भाषते, उच्चैः पठतीति; किं तर्हि? स्थानकृतमुच्चत्वं संज्ञिनो विशेषणम् । ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते, तत्र यः समाने स्थाने ऊर्ध्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवति । यस्मिन्नुच्चार्यमाणे गात्राणामायामः = निग्रहो भवति, रूक्षता = अस्निग्धता स्वरस्य, संवृतता कण्ठविवरस्य । ये, ते,के ।
उदात्तप्रदेशाः--आद्युदात्तश्च(3-1-3/3708)इत्येवमादयः ।।
</1-2-29>
नीचैरनुदात्तः ।। <1-2-30> ।।
`अच् इति वर्तते । नीचैरुपलभ्यमानो योऽच् सोऽनुदात्तसंज्ञो भवति । समाने स्थाने नीचभागे निष्पन्नोऽच् अनुदात्तः । यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गः = मार्दवम् भवति, स्वरस्य मृदुता = स्निग्धता, कण्ठविवरस्योरुता = महत्ता । त्व-सम-सिम-नेमेत्यनुच्चानि । नमस्ते रुद्र नीलकण्ठ सहस्राक्ष ।
अनुदात्तप्रदेशाः-अनुदात्तौ सुप्पितौ(3-1-4/3709) इत्येवमादयः ।।
</1-2-30>
समाहारः स्वरितः ।। <1-2-31> ।।
`अच् इति वर्तते । उदात्तानुदात्तस्वरसमाहारो योऽच् स स्वरितसंज्ञो भवति । सामर्थ्याच्चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाचौ । तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितःइत्येषा संज्ञा विधीयते । शिक्यम्, कन्या, सामन्यः, क्व ।
स्वरितप्रदेशाः-तित्स्वरितम्(6-1-185/3729)इत्येवमादयः ।।
</1-2-31>
तस्यादित उदात्तमर्धह्वस्वम् ।। <1-2-32> ।।
उदात्तानुदात्तस्वरसमाहारः स्वरितिः इत्युक्तम् । तत्र न ज्ञायते-कस्मिन्नंशे उदात्तः ? कस्मिन्नंशेऽनुदात्तः ? कियान्वा उदात्तः ? कियान्वा अनुदात्तः इति ? तदुभयमनेनाख्यायते । तस्य स्वरितस्य आदावर्धह्रस्वमुदात्तम्, परिशिष्टमनुदात्तम् । अर्धह्रस्वम् इति चार्धमात्रोपलक्ष्यते ।
ह्रस्वग्रहणमतन्त्रम् । सर्वेषामेव ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः । शिक्यमित्यत्रार्द्धमात्रा आदित उदात्ता, अपरार्धमात्रा अनुदात्ता, एकश्रुतिर्वा । कन्या इत्यत्रार्द्धमात्राऽऽदित उदात्ता,अध्यर्धमात्रा अनुदात्ता । माणवका3 माणवकेत्यत्रार्धमात्राऽऽदित उदात्ता, अर्धतृतीयमात्रा अनुदात्ता ।।
</1-2-32>
एकश्रुति दूरात्संबुद्धौ ।। <1-2-33> ।।
त्रैस्वर्ये पदानां प्राप्ते दूरात्संबुद्धावैकश्रुत्यं विधीयते । एका श्रुतिर्यस्य तदिदमेकश्रुति । एकश्रुति वाक्यं भवति । दूरात्संबोधयति येन वाक्येन तत्संबोधनं संबुद्धिः, नैकवचनं संबुद्धिः । स्वराणामुदात्तादीनामविभागो भेदतिरोधानमेकश्रुतिः । आगच्छ भो माणवक देवदत्ता3 ।
दूरादिति किम् ? आगच्छ भो माणवक देवदत्त।।
</1-2-33>
यज्ञकर्मण्यजपन्यूङ्खसामसु ।। <1-2-34> ।।
</1-2-34>
त्रैस्वर्येण वेदे मन्त्राः पठ्यन्त, तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्ते एकश्रुतिर्विधीयते, जपन्यूङ्खसामानि वर्जायित्वा । यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति । अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । `अपां रेतांसि जिन्वतो3म्(ऋ.<8-44-16>) ।
</8-44-16>
यज्ञकर्मणीति किम् ? संपाठे मा भूत् । अजपेष्विति किम् ? `ममाग्ने वर्चो विहवेष्वस्तु(ऋ.<10-128-1>) । जपः = अनुकरणमन्त्रः, उपांशुप्रयोगः ।
अन्यूङ्‌खेति किम् ? न्यूङ्खा ओकाराः षोडश;तेषु केचिदुदात्ताः, केचिदनुदात्ताः ।
असामस्विति किम् ? ए3 विश्वं समत्रिणं दहा3 । सामानि वाक्यविशेषस्था गीतय उच्यन्ते । तत्रैकश्रुतिर्न भवति ।।
</10-128-1>
उच्चैस्तरां वा वषट्‌कारः ।। <1-2-35>।।
`यज्ञकर्मणि इति वर्तते । यज्ञकर्मणि वषट्‌कारः उच्चैस्तरां वा भवति, एकश्रुतिर्वा । `वषट् शब्देनात्र `वौषट् शब्दो लक्ष्यते, `वौषट्-इत्यस्यैवेदं स्वरविधानम् ।
यद्येवम्, वौषड्‌ग्रहणमेव कस्मान्न कृतम् ? वैचित्र्यार्थम् । विचित्रा हि सूत्रस्य कृतिः पाणिनेः ।
</1-2-35>
सोमस्याग्ने वीही3 वौ3षट् । सोमस्याग्ने वीही3 वौ3 षट् ।।(ऐ.ब्रा.<3-5-4>.6)
</3-5-4>
विभाषा छन्दसि ।। <1-2-36> ।।
</1-2-36>
छन्दसि विषये विभाषा एकश्रुतिर्भवति, पक्षान्तरे त्रैस्वर्यमेव भवति । वेति प्रकृते विभाषाग्रहणं `यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम् । तेनायं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्यविधिर्भवति । `इषे त्वोर्जे त्वा । इषे त्वोर्जेत्वा (वा.सं.<1-1-1>)। `अग्न आयाहि वीतये । अग्न आयाहि वीतये(ऋ.<6-16-10>) । `अग्निमीळे पुरोहितम् । अग्निमीळे पुरोहितम्(ऋ.<1-1-1>) । `शन्नो देवीरभिष्टये । शन्नो देवोरभिष्टये(ऋ<10-9-4>) । व्यवस्थितविकल्पोऽयमिति केचित् । व्यवस्था च वेदे मन्त्रदले नित्यं त्रेस्वर्यम्, ब्राह्मणदले नित्यमैकश्रुत्यमिति ।।
इच्छासंहितयोरार्षे छन्दो वेदे च छन्दसि ।
इति नानार्थकोशात् छन्दसि वर्णसंहितायामिति भट्टाचार्यचरणा इति । भाषायामप्येकश्रुतिर्विभाषा भवतीति सिद्धम् ।।
</1-1-1>
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ।। <1-2-37> ।।
सुब्रह्मण्या नाम निगदः, तत्र `यज्ञकर्मणि इति विभाषा छन्दसि(1-2-36/3665) इति च एकश्रुतिः प्राप्ता प्रतिषिध्यते । सुब्रह्मण्यायामेकश्रुतिर्न भवति । यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति ।
</1-2-37>
सुब्रह्मण्यो3 मिन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्(श.ब्रा.<3-3-1>.19)।
अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितः, तस्योदात्तो विधीयते ।
इन्द्र आगच्छेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्णोऽनुदात्तः । उदात्तादनुदात्तस्य स्वरितः(8-4-66/3660) इति स्वरितः प्रसक्तः, तस्यानेनोदात्तः क्रियते; तेन द्वावप्युदात्तौ संपन्नौ । आगच्छेत्याकार उदात्तः । ततः परोऽनुदात्तः स्वरितः, तस्यानेनोदात्तः क्रियते । तदेवमिन्द्र आगच्छेति चत्वार उदात्ताः । पश्चिम एकोऽनुदात्तः ।
हरिव आगच्छेत्यनयैव प्रक्रियया चत्वार उदात्ताः, द्वावनुदात्तौ ।
मेधातिथेरिति षष्ठ्यन्ते परमामन्त्रितमनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे(2-1-2/3656) इति । ततः सकलस्यामन्त्रिताद्युदात्तत्वे कृते द्वितीयमक्षरमनुदात्तम् । तस्य उदात्तादनुदात्तस्य स्वरितः(8-4-66/3660) इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते । तेन द्वावप्युदात्तौ भवतः । शेषमनुदात्तम् ।
`वृषणश्वस्य मेने इति समानं पूर्वेण । गौरावस्कन्दिन्निति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम् । अहल्यायै जारेति सुबन्तस्यामन्त्रितानुप्रवेशात् तद्वदेव स्वरः । द्वावुदात्तौ । शेषमनुदात्तम् ।
कौशिकब्राह्मणेति समस्तमामन्त्रितमाद्युदात्तम् । तत्र पूर्ववद् द्वावुदात्तौ । शेषमनुदात्तम् ।
एवं गौतमब्रुवाणेति द्वावुदात्तौ । शेषमनुदात्तम् ।
श्वः सुत्यामागच्छ मघवन्निति श्वःशब्द उदात्तः, सुत्यामित्यन्तोदात्तः । संज्ञायां समजनिपद(3-3-99/3276) इति क्यपो विधाने `उदात्तः इति वर्तते । आगच्छेति द्वावुदात्तौ । अन्त्योऽनुदात्तः । मघवन्निति पदात्परमामन्त्रितं निहन्यते ।।
</3-3-1>
देवब्रह्मणोरनुदात्तः ।। <1-2-38> ।।
सुब्रह्मण्यायामेव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्योदात्ते प्राप्तेऽनेनानुदात्तो विधीयते । देवब्रह्मणोः स्वरितस्यानुदात्त आदेशो भवति । देवा ब्रह्माण आगच्छत । द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते चोदात्तादनुदात्तस्य स्वरितः कृतः, तस्यानुदात्तो भवति ।।
</1-2-38>
स्वरितात्संहितायामनुदात्तानाम् ।। <1-2-39> ।।
</1-2-39>
`एकश्रुतिः इति वर्तते । संहितायां विषये स्वरितात्परेषामनुदात्तानामेकश्रुतिर्भवति । `इमं मे गङे यमुने सरस्वति शुतिद्रि(ऋ.<10-75-5>) । माणवक जटचिलकाध्यापक क्व गमिष्यसि । इममित्यन्तोदात्तम्, मे इति अनुदात्तम्; विधिकाल एव निघातविधानात् । तत्पुनः उदात्तादनुदात्तस्य स्वरितः(8-4-66/3660) इति स्वरितं संपद्यते । तस्मात्स्वरितात्परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति । सर्व एते आमन्त्रितनिघातेनानुदात्ताः । माणवक जटिलकेति प्रथममामन्त्रितमाद्युदात्तम्, तस्य द्वितीयमक्षरं स्वरितम्, ततः परेषामनुदात्तानामेकश्रुतिर्भवति ।
संहिताग्रहणं किम् ? अवग्रहे मा भूत् । इमं मे गङ्गे यमुने सरस्वति ।।
</10-75-5>
उदात्तस्वरितपरस्य सन्नतरः ।। <1-2-40> ।।
</1-2-40>
अनुदात्तग्रहणमनुवर्तते । उदात्तः परो यस्मात्स उदात्तपरः, स्वरितः परो यस्मात्स स्वरितपरः, उदात्तपरस्य स्वरितपरस्य चानुदात्तस्य सन्नतर आदेशो भवति । अनुदात्ततर इत्यर्थः । `देवा मरुतः पृश्निमातरोऽपः(पै.<3-31-1>) । मातर इत्यनुदात्तः । अप इत्यन्तोदात्तः--ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः(6-1-171>य3717)इति । तत्रानुदात्तयोरेकादेश ओकारोऽनुदात्तः । तस्योदात्ते परभूते सन्नतर आदेशो भवति । इमं मे गङ्गे यमुने सरस्वति शुतिद्रि । इकारोऽनुदात्तः । शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान्न निहन्यते, अनुदात्तं सर्वमपादादौ(8-1-18/403) इति । तस्य प्रथममक्षरमुदात्तम्, तस्मिन्परभूते पूर्वस्य सरस्वतीकारस्य सन्नतर आदेशो भवति । माणवक जटिलकाध्यापक क्व गमिष्यसि । क्व इति स्वरितः, तस्मिन्परभूते क इति अनुदात्तस्तस्य सन्नतर आदेशो भवति ।।
</3-31-1>
अपृक्त एकाल्प्रत्ययः ।। <1-2-41> ।।
`अपृक्त इतीयं संज्ञा भवति, एकाल् यः प्रत्ययस्तस्य । असहायवाची एकशब्दः । स्पृशोऽनुदके क्विन्(3-2-58/432)-घृतस्पृक् । भजो ण्विः(3-2-62/2976)-अर्धभाक्, पादभाक् ।
एकालिति किम् ? दर्विः, जागृविः । प्रत्यय इति किम् ? सुराः ।
अपृक्तप्रदेशाः--वेरपृक्तस्य(6-1-67/375)इत्येवमादयः ।।
</1-2-41>
<K.1.330>
तत्पुरुषः समानाधिकरणः कर्मधारयः ।। <1-2-42> ।।
`तत्पुरुष इति समासविशेषस्य संज्ञां वक्ष्यति । स तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति । अधिकरणशब्दोऽभिधेयवाची <K.1.331> । समानाधिकरणः = समानाभिधेयः । परमराज्यम्, उत्तमराज्यम् । अकर्मधारये राज्यम् इत्युत्तरपदाद्युदात्तं न भवति । पाचकवृन्दारिका । <K.1.332> तत्पुरुष इति किम् ? पाचिकाभार्यः । समानाधिकरण इति किम् ? ब्राह्मणराज्यम् । कर्मधारयप्रदेशाः -- कर्मधारये निष्ठा इत्येवमादयः ।।
</1-2-42>
प्रथमानिर्दिष्टं समास उपसर्जनम् ।। <1-2-43> ।।
<K.1.333>
प्रथमया विभक्त्या यन्निर्द्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति । समासे इति समासविधायि शास्त्रं गृह्यते । वक्ष्यति -- <K.1.334> द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति द्वितीयासमासे द्वितीयेत्येतत्प्रथमानिर्दिष्टम् । तृतीयासमासे तृतीयेति, चतुर्थीसमासे चतुर्थीति, पञ्चमीसमासे पञ्चमीति, षष्ठीसमासे, षष्ठीति, सप्तमीसमासे सप्तमीति । कष्टश्रितः । शङ्‌कुलाखण्डः । यूपदारु । वृकभयम् ।
राजपरुषः । अक्षशौण्डः ।
उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् इत्येवमादयः ।।
</1-2-43>
<K.1.335>
एकविभक्ति चापूर्वनिपाते ।। <1-2-44> ।।
एका विभक्तिर्यस्य तदिदमेकविभक्ति, समासे विधीयमाने यन्नियतविभक्तिकं द्वितीये सम्बन्धिनि बहुभिर्विभक्तभिर्युज्यमानेऽप्येकयैव <K.1.336> विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवति अपूर्वनिपाते । पूर्वनिपातं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा ।
निरादयः क्रान्ताद्यर्थे पञ्चम्या । पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं पञ्चम्यन्तमेव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्क्रान्तं कौशाम्ब्या निष्क्रौशाम्बिम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रान्ताय कौशाग्ब्या निष्कौशाम्बये । निष्क्रान्तात् कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्तस्य कौशाम्ब्याः निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं निर्वाराणसिः ।
एकविभक्तीति किम् ? राजकुमारी । अपूर्वनिपात इति किम् ? न हि भवति कौशाम्बीनिरिति ।।
</1-2-44>
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ।। <1-2-45> ।।
अभिधेयवचनोऽर्थशब्दः । अर्थवच्छब्दरूपं प्रातिपदिकसंज्ञं भवति धातुप्रत्ययौ वर्जयित्वा । डित्थः । कपित्थः । कुण्डम् । पीठम् ।
अर्थवदिति किम् ? वनम्, धनमिति नान्तस्यावधेर्मा भूत् । न-लोपो हि स्यात् । अधातुरिति किम् ? हन्तेर्लङ्, अहन्--नलोपो हि स्यात् । अप्रत्यय इति किम् ? काण्डे, कुड्ये--ह्रस्वो नपुंसके प्रतिपदिकस्य(1-2-47/318) इति ह्रस्वः स्यात् ।
*अनर्थकस्यापि निपातस्य प्रातिपदिकसंज्ञेष्यते * ।।(म.भा.1.220) अध्यागच्छति । प्रलम्बते ।
प्रातिपदिकप्रदेशाः--ह्रस्वो नपुंसके प्रातिपदिकस्य(1-2-47/318) इत्येवमादयः ।।
कृत्तद्धितसमासाश्च ।। 1 2 46 ।।
कृतस्तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति । `अप्रत्ययः इति पूर्वसूत्रे पर्युदासात्कृदन्तस्य तद्धितान्तस्य चानेन प्रातिपदिकसंज्ञा विधीयते । अर्थवत्समुदायानां समासग्रहणं नियमार्थम् । कृत्-कारकः हारकः, कर्त्ता, हर्त्ता । तद्धितः-औपगवः, कापटवः । समासः-राजपुरुषः, ब्राह्मणकम्बलः । समासग्रहणस्य नियमार्थत्वाद्वाक्यस्यार्थवतः संज्ञा न भवति ।।
</1-2-45>
ह्रस्वो नपुंसके प्रातिपदिकस्य ।।<1-2-47> ।।
नपुंसकलिङ्गेऽर्थे यत्प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशोऽलोन्त्यस्याचः । अतिरि कुलम्, अतिनु कुलम् ।
नपुंसक इति किम् ? ग्रामणीः । सेनानीः । प्रातिपदिकस्येति <K.1.347> किम् ? काण्डे तिष्ठतः । कुड्ये तिष्ठतः । प्रातिपदिकग्रहणसामर्थ्यादेकादेशः पूर्वस्यान्तवन्न भवति ।।
</1-2-47>
गोस्त्रियोरुपसर्जनस्य ।। <1-2-48> ।।
`प्रातिपदिकस्य इति वर्तते । `गो इति स्वरूपग्रहणम्, `स्त्री इति प्रत्ययग्रहणम् ; स्वरितत्वात् । उपसर्जनग्रहणं तयोर्विशेषणम् -- गोरुपसर्जनस्य, स्त्रीप्रत्ययान्तस्योपसर्जनस्येति । ताभ्यां प्रातिपदिकस्य तदन्तविधिः । उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च <K.1.348> प्रातिपदिकस्य ह्रस्वो भवति । चित्रगुः । शबलगुः । स्त्रियाः -- निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः ।
उपसर्जनस्येति किम् ? राजकुमारी । स्वरितत्वं किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः ।
<K.1.349> * ईयसो बहुव्रीहेः प्रतिषेधो वक्तव्यः * ।। बहुश्रेयसी । विद्यमानश्रेयसी ।।
</1-2-48>
लुक्तद्धितलुकि ।। <1-2-49> ।।
स्त्रीग्रहणमनुवर्त्तते,उपसर्जनस्य इति च । पूर्वेण ह्रस्वत्वे प्राप्ते लुग्विधीयते । तद्धितलुकि सति स्त्रीप्रत्ययस्य उपसर्जनस्य लुग्भवति । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः । दशेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलिः । आमलक्याः फलमामलकम् । बदरम् । कुवलम् ।
तद्धितग्रहणं किम् ? गार्ग्याः कुलं गार्गीकुलम् । लुकीति किम् ? गार्गीत्वम् । उपसर्जनस्येत्येव-अवन्ती, कुन्ती, कुरूः ।।
</1-2-49>
इद् गोण्याः ।। <1-2-50> ।।
पूर्वेण लुकि प्राप्ते इकारो विधीयते । गोण्यास्तद्धितलुकि सति इकारादेशो भवति । पञ्चभिर्गोणीभिः क्रीतः पटढ पञ्चगोणिः । दशगोणिः ।
इत् इति योगविभागः । पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः । दशसूचिः । स च एवंविषय एव ।।
</1-2-50>
लुपि युक्तवद्व्यक्तिवचने ।। <1-2-51> ।।
`लुपि इति लुप्संज्ञया लुप्तस्य प्रत्ययस्यार्थ उच्यते । तत्र लुपि युक्तवद्व्यक्तिवचने भवतः । युक्तवन् इति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते । स हि प्रत्ययार्थमात्मना युनक्ति, तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते ।
अथ वा-युक्तः प्रकृत्यर्थः प्रत्ययार्थेन संबद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः । सप्तम्यर्थे वतिः । व्यक्तिवचने इति च लिङ्ग संख्ययोः पूर्वाचार्यनिर्द्देशः, तदीयमेवेदं सूत्रम् । तथा चास्य प्रत्याख्यानं भविष्यति--तदशिष्यं संज्ञाप्रमाणत्वात्(1-2-53/1295)इति ।
व्यक्तिः--स्त्रीपुंनपुंसकानि, वचनम्--एकत्व-द्वित्व-बहुत्वानि । पञ्चालाः क्षत्रियाः, पुंलिङ्गाः बहुवचनविषयाः । तेषां निवासो जनपदः । यथा तेषु क्षत्रियेषु व्यक्तिवचने, तद्वज्जनपदे भवतः-पञ्चालाः, मगधाः, मत्स्याः, अङ्गाः, सुह्माः, पुण्ड्राः ।
लुपीति किम् ? लुकि मा भूत् । लवणः सूपः, लवणा यवागूः, लवणं शाकम् । व्यक्तिवचने इति किम् ? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम्--विभाषौषधिवनस्पतिभ्यः(8-4-6/1051)इति णत्वं न भवति ।

  • हरीतक्यादिषु व्याक्तिः*।(म.भा.1.228) हरीतक्याः फलानि हरीतक्यः फलानि । *खलतिकादिषु वचनम् *।(म.भा.1.229) खलतिकस्य पर्वतस्यादूरभवानिवनानि खलतिकं वनानि ।।

</1-2-51>
विशेषणानां चाजातेः ।। <1-2-52> ।।
`लुपि इति वर्तते । लुबर्थस्य यानि विशेषणानि तेषामपि व्यक्तिवचने भवतः,जातिं वर्जयित्वा । पञ्चालाः रमणीयाः, बह्वन्नाः,बहुक्षीरघृताः, बहुमाल्यफलाः । गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ ।
अजातेरिति किम् ?पञ्चलाः जनपदः । गौदौ ग्रामः ।
जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः । तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति--पञ्चालाः जनपदो रमणीयो बह्वन्नः,गोदौ ग्रामो रमणीयो बह्रवन्न इति ।
*मनुष्यलुपि प्रतिषेधो वक्तव्यः* (म.भा.1.229)। चञ्चाभिरूपः । वर्ध्रिकादर्शनीयः ।।
</1-2-52>
तदशिष्यं संज्ञाप्रमाणत्वात् ।। <1-2-53> ।।
तदिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते । तदशिष्यं न वक्तव्यम्, कस्मात् ? संज्ञाप्रमाणत्वात् ।
संज्ञाशब्दा हि नानालिङ्गसंख्याः प्रमाणम् । पञ्चाला वरणा इति च नैते योगशब्दाः, किं तर्हि ? जनपदादीनां संज्ञा एताः ।
तत्र लिङ्गं वचनं च स्वभावसिद्धमेव, न यत्नप्रतिपाद्यम्;यथा--आपः, दाराः, गृहाः, सिकताः, वर्षा इति ।।
</1-2-53>
लुब्योगाप्रख्यानात् ।। <1-2-54> ।।
लुबप्यशिष्यः । योऽयम् जनपदे लुप्(4-2-81/1293), वरणादिभ्यश्च (4-2-82/1301) इति लुबुच्यते, अयं न वक्तव्यः, किं कारणम् ? योगाप्रख्यानात् । न हि पञ्चाला वरणा इति योगः =संबन्धः प्रख्यायते । नैतदुपलभामहे--वृक्षयोगान्नगरे वरणा इति, किं तर्हि ? संज्ञा एताः । तस्मादत्र तस्य निवासः(4-2-69/1281),अदूरभवश्च(4-2-70/1282) इति तद्धितो नैवोत्पद्यते, किं लुपो विधानेन ।।
</1-2-54>
योगप्रमाणे च तदभावेऽदर्शनं स्यात् ।। <1-2-55> ।।
`पञ्चालादयः संज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम् । तच्चावश्यमेवाभ्युपगन्तव्यम्, योगप्रमाणे हि तदभावेऽदर्शनं स्यात् । यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्, ततस्तदभावेऽदर्शनम् =अप्रयोगः स्यात् । दृश्यते च संप्रति विनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दः, ततोऽवसीयते-नायं योगनिमित्तकः, किं तर्हि ? रूढिरूपेणैव तत्र प्रवृत्त इति ।।
</1-2-55>
प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ।। <1-2-56> ।।
`अशिष्यम् इति वर्त्तते । प्रधानं समासे किञ्चित्पदम्, प्रत्ययः तव्यदादिः, ताभ्यामर्थवचनम् = अर्थाभिधानमनेन प्रकारेण भवतीति पूर्वाचार्यैः परिभाषितम् । * प्रधानोपसर्जने च प्रधानार्थं सह ब्रूतः, *प्रकृतिप्रत्ययो सहार्थ ब्रूतः इति । तत्पाणिनिराचार्यः प्रत्याचष्टे--अशिष्यमेतत्, अर्थस्यान्यप्रमाणत्वादिति । अन्य इति शास्त्रापेक्षया लोको व्यपदिश्यते । शब्दैरर्थाभिधानं स्वाभाविकम्, न पारिभाषिकम्; अशक्यत्वात्, लोकत एवार्थावगतेः ।
यैरपि व्याकरणं न श्रुतम्, तेऽपि राजपुरुषमानय इत्युक्ते राजविशिष्टं पुरुषमानयन्ति; न राजानम्, नापि पुरुषमात्रम् । औपगवमानय इत्युक्ते उपगुविशिष्टमपत्यमानयन्ति; नोपगुम्, नाप्यपत्यमात्रम्, नोभौ । यश्च लोकतोऽर्थः सिद्धः, किं तत्र यत्नेन !।।
</1-2-56>
कालोपसर्जने च तुल्यम् ।। <1-2-57> ।।
`अशिष्यम् इति वर्तते । कालोपसर्जने चाशिष्ये । कस्मात् ? अर्थस्यान्यप्रमाणत्वात् । तुल्यशब्दो हेत्वनुकर्षणार्थः । अशिष्यविशेषणं चैतत् । कालोपसर्जने च तुल्यमशिष्ये भवतः ।
इहान्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति । आन्याय्यादुत्थानादान्याय्याच्च संवेशनात्-एषोऽद्यतनः कालः । अपरे पुनराहुः-अहरुभयतोर्द्धरात्रम्-एषोऽद्यतनः काल इति । तथोपसर्जनपरिभाषां कुर्वन्ति-अप्रधानमुपसर्जनमिति ।
तत्पाणिनिराचार्यः प्रत्याचष्टे-लोकतोऽर्थावगतेः । यैरपि व्याकरणं न श्रुतं तेऽप्याहुः-इदमस्माभिरद्य कर्तव्यम्, इदं श्वः कर्तव्यम्, इदम् ह्यः कृतमिति; नैवं व्युत्पाद्यन्ते ! तथोपसर्जनम्-वयमत्र गृहे ग्रामे वा उपसर्जनमप्रधानमिति गम्यते । यश्च लोकतोऽर्थः सिद्धः, किं तत्र यत्नेन !
यद्येवम्, पूर्वसूत्र एव कालोपसर्जनग्रहणं कस्मान्न क्रियते, किमर्थो योगविभागः ? प्रदर्शनार्थः ।
अन्यदप्येवञ्जातीयकमशिष्यमिति । तथा च पूर्वाचार्याः परिभाषन्ते-मत्वर्थे बहुव्रीहिः,पूर्वपदार्थप्रधानोऽव्ययीभावः, उभयपदार्थप्रधानो द्वन्द्वः इत्येवमादि; तदशिष्यमिति ।।
</1-2-57>
<K.1.364>
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ।। <1-2-58>।।
`अशिष्यम् इति निवृत्तम् । जातिर्नामायमेकोऽर्थः, तदभिधाने <K.1.365> एकवचनमेव प्राप्तम्, अत इदमुच्यते । जातेराख्या जात्याख्या, जात्याख्यायामेकस्मिन्नर्थे बहुवचनमन्यतरस्यां भवति । जात्यर्थो बहुवद् भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते । सम्पन्नः यवः, सम्पन्नाः यवाः । सम्पन्नः व्रीहिः, सम्पन्नाः व्रीहयः । पूर्ववयाः ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसः ब्राह्मणाः प्रत्युत्थेयाः ।
जातिग्रहणं किम् ? देवदत्तः, यज्ञदत्तः । आख्यायामिति किम् ? <K.1.366> काश्यपप्रतिकृतिः काश्यपः । भवत्ययं जातिशब्दः, न त्वनेन जातिराख्यायते, किं तर्हि ? प्रतिकृतिः । एकस्मिन्निति किम् ? व्रीहियवौ ।
* संख्याप्रयोगे प्रतिषेधो वक्तव्यः * ।। एको व्रीहिः सम्पन्नः सुभिक्षं करोति ।।
</1-2-58>
<K.1.367>
अस्मदो द्वयोश्च ।। <1-2-59>।।
अस्मदो योऽर्थस्तस्यैकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति । अहं ब्रवीमि, वयं ब्रूमः । आवां ब्रूवः, वयं ब्रूमः ।।
<K.1.368> * सविशेषणस्य प्रतिषेधो वक्तव्यः * । अहं देवदेत्तो ब्रवीमि । अहं गार्ग्यः ब्रवीमि । अहं पटुः ब्रवीमि ।
* युष्मदि गुरावेकेषाम् *। त्वं मे गुरुः, यूयं मे गुरवः ।।
</1-2-59>
फल्गुनीप्रोष्ठपदानां च नक्षत्रे ।। <1-2-60> ।।
चकारः द्वयोः इत्यनुकर्षणार्थः । फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च <K.1.369> द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः ।
नक्षत्र इति किम् ? फल्गुन्यौ माणविके ।।
</1-2-60>
छन्दसि पुनर्वस्वोरेकवचनम् ।। <1-2-61> ।।
</1-2-61>
`अन्यतरस्याम्इत्युनुवर्त्तते । द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि <K.1.370> विषये एकवचनमन्यतरस्यां भवति । `पुनर्वसुर्नक्षत्रमदितिर्देवता(मै.स.<2-13-2>) ।` पुनर्वसू नक्षत्रमदितिर्देवता(तै.सं.<4-4-10>) । नक्षत्र इत्येव-पुनर्वसू माणवकौ ।
छन्दसीति किम् ? पुनर्वसू इति ।।
</2-13-2>
विशाखयोश्च ।। <1-2-62> ।।
</1-2-62>
`छन्दसि इति वर्तते । द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतस्यां भवति । `विशाखं नक्षत्रमिन्द्राग्नी देवता(मै.सं.<2-13-20>) । `विशाखं नक्षत्रमिन्द्राग्नी देवता(तै.सं.<4-4-10>.2) ।
</2-13-20>
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ।। <1-2-63>।। छन्दसि इति निवृत्तम्। तिष्य एकः पुनर्वसू द्वौ तेषां द्वन्द्वो बह्वर्थः । तत्र बहुवचने प्राप्ते द्विवचनं विधीयते । तिष्यपुनर्वस्वोर्नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गे नित्यं द्विवचनं भवति । उदितौ तिष्यपुनर्वसू दृश्यते ।
<K.1.371> तिष्यपुनर्वस्वोरिति किम् ? विशाखानुराधाः ।
नक्षत्रेति किम् ? तिष्यश्च माणवकः पुनर्वसू माणवकौ = तिष्यपुनर्वसवः माणवकाः । ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते ? पर्यायाणामपि यथा स्यात् - तिष्यपुनर्वसू, सिद्ध्यपुनर्वसू ।
द्वन्द्व इति किम् ? यस्तिष्यस्तौ पुनर्वसू येषां त इमे `तिष्यपुनर्वसवः, उन्मुग्धाः । तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणा उच्यन्ते । तेन नक्षत्रसमास एवायम् ।
<K.1.372> बहुवचनस्येति किम् ? एकवचनस्य मा भूत् - तिष्यपुनर्वसु इदमिति ।
`सर्वो द्वन्द्वो विभाषया एकवद्भवति इत्यस्यैतदेव ज्ञापकम् । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् ।।
</1-2-63>
सरूपाणामेकशेष एकविभक्तौ ।। <1-2-64> ।।

समानं रूपमेषामिति सरूपाः । सरूपाणां शब्दानां एवविभक्तौ परत एकशेषो भवति । एकः शिष्यते, इतरे निवर्तन्ते । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः ।

प्रत्यर्थं शब्दनिवेशान्नैकेनानेकस्याभिधानम् । तत्रानेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तम्, तस्मादेकशेषः ।
सरूपाणामिति किम् ? प्लक्षन्यग्रोधाः । रूपग्रहणं किम् ? भिन्नोऽप्यर्थे यथा स्यात्-अक्षाः, पादाः, माषा । एकग्रहणं किम् ? द्विबह्वोः शेषो मा भूत् । शेषग्रहणं किम् ? आदेशो मा भूत् ।
<K.1.379> एकविभक्ताविति किम् ? पयः पयो जरयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ।।
</1-2-64>
वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ।। <1-2-65> ।।
<K.1.380> `शेष इति वर्त्तते । `यूना इति सहयोगे तृतीया । वृद्धो यूना सहवचने शिष्यते, युवा निवर्त्तते । वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य । अपत्यमन्तर्हितं वृद्धमिति । वृद्धयूनोः सहवचने वृद्धः शिष्यते तल्लक्षणश्चेदेव विशेषः । तदिति वृद्धियूनोर्निर्देशः, लक्षणशब्दो निमित्तपर्यायः, चेच्छब्दो यद्यर्थे, एवकारोऽवधारणे, विशेषो वैरूप्यम् । वृद्धयुवनिमित्तकमेव यदि वैरूप्यं भवति ततो वृद्धः शिष्यते, युवा निवर्तते । समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वात्स्यश्च वात्स्यायनश्च वात्स्यौ ।
<K.1.381> वृद्ध इति किम् ? गर्गश्च गार्ग्यायणश्च गर्गगार्ग्यायणौ । यूनेति किम् ? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ । तल्लक्षण इति किम् ? गार्ग्यवात्स्यायनौ । एवकारः किमर्थः ? भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ । कुत्सा सौवीरत्वं च भागवित्तिकस्यापरो विशेषो विद्यते ।।
</1-2-65>
<K.1.382>
स्त्री पुंवच्च ।। <1-2-66> ।।
शेषः इति वर्त्तते, वृद्धो यूना इति च सर्वम् । स्त्री वृद्धा यूना सहवचने शिष्यते तल्लक्षणश्चेदेव विशेषो भवति । पुंस इवास्याः कार्यं भवति । स्त्र्यर्थः पुमर्थवद्भवति । गार्गी च गार्ग्यायणश्च गार्ग्यौ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायणश्च दाक्षी ।।
</1-2-66>
<K.1.383>
पुमान् स्त्रिया ।। <1-2-67> ।।
तल्लक्षणश्चेदेव विशेष इति वर्त्तते । वृद्धो यूना इति निवृत्तम् । स्त्रिया सहवचने पुमान् शिष्यते, स्त्री निवर्त्तते । स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । कुक्कुटश्च कुक्कुटी च कुक्कुटौ । तल्लक्षणश्चेदेव विशेष इत्येव - कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ ।
<K.1.384> एवकारः किमर्थः ? इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ । पुंयोगादाख्यायाम् इत्यपरो विशेषः । पुमानिति किम् ? प्राक्च प्राची च प्राक्प्राच्यौ । `प्राक् इत्यव्ययमलिङ्गम् ।।
</1-2-67>
भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।। <1-2-68> ।।
यथासंख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्याम् । स्वस्रा सहवचने भ्रातृशब्दः शिष्यते - भ्राता च स्वसा च भ्रातरौ । दुहित्रा सहवचने पुत्रशब्दः शिष्यते - पुत्रश्च दुहिता च पुत्रौ ।।
</1-2-68>
नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।। <1-2-69> ।।
`तल्लक्षणश्चेदेव विशेषः इति वर्त्तते । नपुंसकानपुंसकमात्रकृते <K.1.385> विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्चास्य कार्यं भवति अन्यतरस्याम् । शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं तद् इदं शुक्लम्, तानि इमानि शुक्लानि ।
अनपुंसकेनेति किम् ? शुल्कं च शुक्लं च शुक्लं च शुक्लानि । `एकवच्च इति न भवति ।।
</1-2-69>
पिता मात्रा ।। <1-2-70> ।।
<K.1.386> `अन्यतरस्याम् इति वर्त्तते, न `एकवत् इति । मात्रा सहवचने पितृशब्दः शिष्यते अन्यतरस्याम् । माता च पिता च पितरौ । मातापितरौ इति वा ।।
</1-2-70>
श्वशुरः श्वश्र्वा ।। <1-2-71> ।।
`अन्यतरस्याम् इति वर्तते । श्वश्र्वा सहवचने श्वशुरशब्दः शिष्यते अन्यतरस्याम् । श्वशुरश्च श्वश्रूश्च श्वशुरौ । श्वश्रूश्वशुरौ इति वा ।।
</1-2-71>
त्यदादीनि सर्वैर्नित्यम् ।। <1-2-72>।।
त्यदादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च । सर्वग्रहणं साकल्यार्थम् । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् । स च देवदत्तश्च तौ । यश्च देवदत्तश्च यौ ।
<K.1.387> * त्यदादीनां मिथो यद्यत्परं तत्तच्छिष्यते *। स च यश्च यौ । यश्च कश्च कौ ।।
</1-2-72>
ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ।। <1-2-73> ।।
ग्राम्याणां पशूनां संघाः ग्राम्यपशुसंघाः, एतेषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते । अतरुणग्रहणं सामर्थ्यात्पशुविशेषणम् । गावः इमाः । अजाः इमाः ।
<K.1.388> ग्राम्यग्रहणं किम् ? रुरवः इमे । पृषताः इमे । पशुष्विति किम् ? ब्राह्मणाः, क्षत्रियाः । संघेष्विति किम् ? एतौ गावौ चरतः । अतरुणेष्विति किम् ? वत्साः इमे । बर्कराः इमे ।
* अनेकशफेष्विति वक्तव्यम् * । इह मा भूत् - अश्वाः इमे ।।
इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
प्रथमाध्यायस्य द्वितीयः पादः ।।
 </1-2-73>