काशिका/प्रथमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

अथ प्रथमाध्याये तृतीयः पादः

भूवादयो धातवः ।। <1-3-1> ।।
भू इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञा भवन्ति । भू(धा.पा.1)-भवति । एध(धा.पा.2)-एधते । स्पर्द्ध(धा.पा.3)-स्पर्द्धते । धातु शब्दः पूर्वाचार्य संज्ञा । ते क्रियावचनानां संज्ञां कृतवन्तः । तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते ।।
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते ।
भुवो वार्थं वदन्तीति भ्वर्था वा वादयः स्मृताः ।।
धातुप्रदेशाः-धातोः(3-1-91/2829) इत्येवमादयः ।।
</1-3-1>
उपदेशेऽजनुनासिक इत् ।। <1-3-2> ।।
उपदिश्यतेऽनेनेत्युपदेशः = शास्त्रवाक्यानि ; सूत्रपाठः, खिलपाठश्च । तत्र योऽनुनासिकः स इत्संज्ञो भवति । एध । स्पर्द्ध । प्रतिज्ञानुनासिक्याः पाणिनीयाः(व्या.प.121) ।
</1-3-2>
उपदेश इति किम् ? अभ्र आँ अपः(ऋ.<5-48-1>) । अजिति किम् ? आतो मनिन्क्वनिब्वनिपश्च(3-2-74/3418) । अनुनासिक इति किम् ? सर्वस्याचो मा भूत् ।
इत्प्रदेशाः-आदितश्च(7-2-16/3036) इत्येवमादयः ।।
</5-48-1>
हलन्त्यम् ।। <1-3-3> ।।
उपदेशे इति वर्त्तते । अन्ते भवमन्त्यम् । धात्वादेः समुदायस्य यदन्त्यं हल् तदित्संज्ञं भवति । अ इ उ ण्-णकारः । ऋ लृ क् - ककारः । ए ओ ङ्-ङकारः । ऐ औ च् - चकारः ।
उपदेश इत्येव--अग्निचित् । सोमसुत् । हस्य ल् हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेणोपात्तं द्रष्टव्यम्, तेन प्रत्याहारपाठे हल् इत्यत्र लकारस्य इत्संज्ञा क्रियते । तथा च सति, हलन्त्यम् इत्यत्र प्रत्याहारे नेतरेतराश्रयदोषो भवति ।।
</1-3-3>
न विभक्तौ तुस्माः ।। <1-3-4> ।।
पूर्वेण प्राप्तायामित्संज्ञायां विभक्तौ वर्तमानानां तवर्गसकारमकाराणां प्रतिषेध उच्यते । तवर्गः, टाङसिङसामिनात्स्याः(7-1-12/201)-वृक्षात्, प्लक्षात् । सकारः, जस्-ब्राह्मणाः । तस्, थस्-पचतः पचथः । मकारः-अपचताम्, अपचतम् ।
विभक्ताविति किम् ? अचो यत्(3-1-97/2842),ऊर्णाया युस्(5-2-123/1929), रुधादिभ्यः श्नम्(3-1-78/2543) । किमोऽत्(5-3-12/1959), इटोऽत्(3-4-106/2257) इत्यत्र प्रतिषेधो न भवति; अनित्यत्वादस्य प्रतिषेधस्य । इदमस्थमुः(5-3-24/1972) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते ।।
</1-3-4>
आदिर्ञिटुडवः ।। <1-3-5> ।।
इत् इति वर्तते । आदिशब्दः प्रत्येकमभिसंबध्यते । ञि, टु, डु इत्येतेषां समुदायानामादितो वर्तमानानामित्संज्ञा भवति । ञिमिदा(धा.पा.743)-मिन्नः । ञिधृषा(धा.पा.1270)-धृष्टः । ञिक्ष्विदा(धा.पा.740)-क्ष्विण्णः । ञि इन्धी(धा.पा.1449)-इद्धः । टुवेवृ(धा.पा.367)-वेपथुः । टुओश्वि(धा.पा.1010)-श्वयथुः । डुपचष्(धा.पा.996)- पक्त्रिमम् । डुवप्(धा.पा.1003)-उप्त्रिमम् । डुकृञ्(धा.पा.1473)-कृत्रिमम् ।
आदिरिति किम् ? पटूयति, कण्डूयति । उपदेशे इत्येव-ञिकारीयति ।।
</1-3-5>
षः प्रत्ययस्य ।। <1-3-6> ।।
षकारः प्रत्ययस्यादिरित्संज्ञो भवति । शिल्पिनि ष्वुन्(3-1-145/2907)--नर्त्तकी, रजकी ।
प्रत्ययस्येति किम् ? षोडः । षण्डः । षडिकः । आदिरित्येव-अविमह्योष्टिषच्(उणादि.1.45)-अविषः, महिषः ।।
</1-3-6>
चुटू ।। <1-3-7> ।।
चवर्गटवर्गौ प्रत्ययस्यादी इत्संज्ञौ भवतः । गोत्रे कुञ्जादिभ्यश्च्फञ्(4-1-98/1099)-कौञ्चायन्यः । छस्य ईयादेशं वक्ष्यति । जस्-ब्राह्मणाः । झस्यान्तादेशं वक्ष्यति । शण्ङिकादिभ्यो ञ्यः(4-3-92/1472)-शाण्डिक्यः । टवर्गः,चरेष्टः(3-2-16/2930)-कुरुचरी, मद्रचरी । ठस्य इकादेशं वक्ष्यति । सप्तम्यां जनेर्डः(3-2-97/3007)- उपसरजः, मन्दुरजः । ढस्यैयादेशं वक्ष्यति । अन्नाण्णः(4-4-85/1637)-आन्नः ।
पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम् । तेन वित्तश्चुञ्चुप्चणपौ(5-2-26/1827)-केशचुञ्चुः, केशचणः । अवात्कुटारच्च(5-2-30/1831) । नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः(5-2-31/1832)-अवटीटः । आदिरित्येव-कर्मणि घटोऽठच्(5-2-35/1836)-कर्मठः ।।
</1-3-7>
लशक्वतद्धिते ।। <1-3-8> ।।
तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति । लकारः, ल्युट् च(3-3-115>.3290)-चयनम्, जयनम् । शकारः-कर्त्तरि शप्(3-1-68/2167)-भवति, पचति । कवर्गः, क्तक्तवतू निष्ठा(1-1-26/3012)-भुक्तः, भुक्तवान् ।प्रियवशे वदः खच्(3-2-38/2953)-प्रियंवदः, वशंवदः । ग्लाजिस्थश्चग्स्नुः(3-2-139/3119)-ग्लास्नुः । जिष्णुः । भूष्णुः । भञ्जभासमिदो घुरच्(3-2-161/3141)-भङ्गुरम् ।टाडसिङसामिनात्स्याः(7-1-12/201)- वृक्षात् । वृक्षस्य ।
अतद्धित इति किम् ? चूडालः । लोमशः । कर्णिका ।।
</1-3-8>
तस्य लोपः ।। <1-3-9> ।।
तस्येत्संज्ञकस्य लोपो भवति । तथा चैवोदाहृतम् । तस्य ग्रहणं सर्वलोपार्थम् । अलोऽन्त्यस्य मा भूत्-आदिर्ञिटुडवः (1-3-5/2289) इति ।।
</1-3-9>
यथासंख्यमनुदेशः समानाम् ।। <1-3-10> ।।
संख्याशब्देनात्र क्रमो लक्ष्यते । यथासंख्यं यथाक्रममनुदेशो भवति । अनुदिश्यत इत्यनुदेशः । पश्चादुच्चार्यत इत्यर्थः । समानाम् = समसंख्यानां समं परिपठितानामुद्देशिनामनुदेशिनां च यथाक्रममुद्देशिभिरनुदेशिनः संबध्यन्ते । तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः(4-3-94/1474) । प्रथमात् प्रथमः, द्वितीयाद् द्वितीय इत्यादि । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ।
समानामिति किम् ? लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः(1-4-90/552) । लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः;सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा भवति ।
इह कस्मान्न भवति-वेशोयशआदेर्भगाद्यल् ख च(4-4-131/3477) इति ? स्वरितेन लिङ्गेन यथासंख्यम् । यत्र नेष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते । स्वरितेनाधिकारः(1-3-11/46) इति स्वरितग्रहणं पूर्वेणापि संबध्यते ।
</1-3-10>
स्वरितेनाधिकारः ।। <1-3-11> ।।
स्वरितेन इति इत्थम्भूतलक्षणे तृतीया । स्वरितो नाम स्वरविशेषो वर्णधर्मः, तेन चिह्नेनाधिकारो वेदितव्यः । अधिकारः = विनियोगः । स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते ।
प्रतिज्ञास्वरिताः पाणिनीयाः-प्रत्ययः(3-1-1/180),धातोः(3-1-91/2829), ङ्याप्प्रातिपदिकात्(4-1-1/182),अङ्गस्य(6-4-1/200), भस्य,पदस्य ।।
</1-3-11>
अनुदात्तङित आत्मनेपदम् ।। <1-3-12> ।।
अविशेषेण धातोरात्मनेपदं परस्मैपदं च विधास्यते, तत्रायं नियमः क्रियते-अनुदात्तेतो ये धातवो ङितश्च तेभ्य एव आत्मनेपदं भवति, नान्येभ्यः । अनुदात्तेद्भ्यः-आस(धा.पा.1922), आस्ते । वस(धा.पा.1024), वस्ते । ङिद्भ्यः खल्वपि-षूङ्(धा.पा.1032), सूते । शीङ्(धा.पा.1033), शेते ।।
</1-3-12>
भावकर्मणोः ।। <1-3-13> ।।
लः कर्मणि च भावे चाकर्मकेभ्यः(3-4-69/2152)इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते, तत्रेदमुच्यते-भावे कर्मणि चात्मनेपदं भवति । भावे- ग्लायते भवता, सुप्यते भवता, आस्यते भवता । कर्मणि- क्रियते कटः, ह्रियते भारः । कर्मकर्त्तरि- लूयते केदारः स्वयमेवेति, परस्मैपदं न भवति । तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्त्ता तत्र परस्मैपदं भवति ।।
</1-3-13>
कर्त्तरि कर्मव्यतिहारे ।। <1-3-14> ।।
कर्मशब्दः क्रियावाची, व्यतिहारो विनिमयः । यत्रान्यसंबन्धिनीं क्रियामन्यः करोति इतरसंबन्धिनीं चेतरः, स कर्मव्यतिहारः । तद्‌विशिष्टक्रियावचनाद्धातोरात्मनेपदं भवति । व्यतिलुनते, व्यतिपुनते ।
कर्मव्यतिहारे इति किम्? लुनन्ति ।
कर्तृग्रहणमुत्तरार्थम्-शेषात्कर्त्तरि परस्मैपदम्(1-3-78/2159) इति ।
</1-3-14>
न गतिहिंसार्थेभ्यः ।। <1-3-15> ।।
पूर्वेणात्मनेपदं प्राप्तं प्रतिषिध्यते । गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्मव्यतिहारे आत्मनेपदं न भवति । व्यतिगच्छन्ति, व्यतिसर्पन्ति । हिंसार्थेभ्यः- व्यतिहिंसन्ति, व्यतिघ्नन्ति ।

  • प्रतिषेधे हसादीनाममुपसंख्यानम् *(म.भा.त1.278) व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति ।
  • हरतेरप्रतिषेधः * । (म.भा.1.279) सम्प्रहरन्ते राजानः ।

</1-3-15>
इतरेतरान्योऽन्योपपदाच्च ।। <1-3-16> ।।
इतरेतरः, अन्योऽन्यः- इत्येवमुपपदाद्धातोः कर्मव्यतिहारे आत्मनेपदं न भवति । इतरेतरस्य व्यतिलुनन्ति, अन्योऽन्यस्य व्यतिलुनन्ति ।

  • परस्परोपपदाच्चेति वक्तव्यम् * (म.भा.1.279)। परस्परस्य व्यलुनन्ति ।।

</1-3-16>
नेर्विशः ।। <1-3-17> ।।
शेषात्कर्तरि इति परस्मैपदे प्राप्ते, निपूर्वाद्विश आत्मनेपदं विधीयते । नेः परस्माद्विश आत्मनेपदं भवति । निविशते, निविशन्ते ।
नेरिति किम् ? प्रविशति । यदागमास्तद्‌ग्रहणेन गृह्यन्ते(प.11), तेनाटा नास्ति व्यवधानम् । न्यविशत । नेरुपसर्गस्य ग्रहणम्- अर्थवद्ग्रहणे नानर्थकस्य (व्या.प.1) इति, तस्मादिह न भवति- मधुनि विशन्ति भ्रमराः ।।
</1-3-17>
परिव्यवेभ्यः क्रियः ।। <1-3-18> ।।
डुक्रीञ् द्रव्यविनिमये(धा.पा.1474) ञित्त्वात्कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति । परिक्रीणीते, विक्रीणीते, अवक्रीणीते ।
पर्यादय उपसर्गा गृह्यन्ते, तेनेह न भवति- बहुविक्रीणाति वनम् ।।
</1-3-18>
विपराभ्यां जेः ।। <1-3-19> ।।
शेषात्कर्त्तरि परस्मैपदम् (1-3-78/2159) इत्यस्यापवादः । विपरापूर्वाज्जयतेर्धातोरात्मनेपदं भवति । विजयते, पराजयते । विपराशब्दावुपसर्गौ गृह्येते; साहचर्यात् । तेनेह न भवति- बहुवि जयति वनम् । परा जयति सेनेति ।।
</1-3-19>
आङो दोऽनास्यविहरणे ।। <1-3-20> ।।
अकर्त्रभिप्रायार्थोऽयमारम्भः । आङ्पूर्वाद्ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति । विद्यामादत्ते ।
अनास्यविहरण इति किम् ? आस्यं व्याददाति ।।
* आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः * (म.भा.1.279)। विपादिकां व्याददाति । कूलं व्याददाति ।

  • स्वाङ्गकर्मकाच्चेति * (म.भा.1.279)। इह मा भूत्- व्याददते पिपीलिकाः पतङ्गस्य मुखम् ।।

</1-3-20>
क्रीडोऽनुसंपरिभ्यश्च ।। <1-3-21>।।
क्रीडृ विहारे (धा.पा.350)- एतस्माद् अनु, सम्, परि- इत्येवंपूर्वाद् आङ्‌पूर्वाच्च आत्मनेपदं भवति । अनुक्रीडते, संक्रीडते, परिक्रीडते । आङः खल्वपि- आक्रीडते ।
समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेनेह कर्मप्रवचनीयप्रयोगे न भवति- माणवकमनुक्रीडति ।

  • समोऽकूजने इति वक्तव्यम् *(म.भा.1.280) । संक्रीडन्ति शकटानि ।
  • आगमेः क्षमायामात्मनेपदं वक्तव्यम् *(म.भा.1.280) । क्षमा = उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावन्माणवकम् ।
  • शिक्षेर्जिज्ञासायाम् * (म.भा.1.280)। विद्यासु शिक्षते ।
  • आशिषि नाथः * (म.भा.1.280)। सर्पिषो नाथते । मधुनो नाथते । आशिषीति किम् ? माणवकमनुनाथति ।
  • हरतेर्गतिताच्छील्ये *(म.भा.1.280) । पैतृकमश्वा अनुहरन्ते, मातृकं गावोऽनुहरन्ते । गतिताच्छील्य इति किम् ? मातुरनुहरति, पितुरनुहरति ।
  • किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम् * (म.भा.1.280)। अपस्किरते वृषभो हृष्टः । जीविकायाम्- अपस्किरते कुक्कुटो भक्षार्थी । कुलायकरणे- अपस्किरते श्वाऽऽश्रयार्थी । हर्षादिष्विति किम् ? अपकिरति कुसुमम् ।
  • आङि नुप्रच्छ्योरुपसंख्यानम् * (म.भा.1.280)। आनुते श्रृगालः, आपृच्छते गुरुम् ।
  • शप उपलम्भन इति वक्तव्यम् * (म.भा.1.280)। वाचा शरीरस्पर्शनम् = उपलम्भनम् । देवदत्ताय शपते, यज्ञदत्ताय शपते । उपलम्भन इति किम् ? शपति ।।

</1-3-21>
समवप्रविभ्यः स्थः ।। <1-3-22> ।।
सम्,अव, प्र,वि- इत्येवं पूर्वात् तिष्ठतेरात्मनेपदं भवति । संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते ।।

  • आङः स्थः प्रतिज्ञाने इति वक्तव्यम् * (म.भा.1.280)। अस्तिं सकारमात्रमातिष्ठते । आगमौ गुणवृद्धी आतिष्ठते

।।
</1-3-22>
प्रकाशनस्थेयाख्ययोश्च।। <1-3-23> ।।
स्वाभिप्रायकथनं प्रकाशनम् । स्थेयस्याख्या स्थेयाख्या । तिष्ठन्त्यस्मिन्निति स्थेयः, विवादपदनिर्णेता लोके स्थेय इति प्रसिद्धः, तस्य प्रतिपत्त्यर्थमाख्याग्रहणम् । प्रकाशने स्थेयाख्यायां च तिष्ठतेरात्मनेपदं भवति । प्रकाशने तावत्-- तिष्ठते कन्या छात्रेभ्यः । तिष्ठते वृषली ग्रामपुत्रेभ्यः । प्रकाशयत्यात्मानमित्यर्थः । स्थेयाख्यायाम्- त्वयि तिष्ठते, मयि तिष्ठते, संशय्य कर्णादिषु तिष्ठते यः(कि.3.14) ।।
</1-3-23>
उदोऽनूर्ध्वकर्मणि ।। <1-3-24> ।।
उत्पूर्वात्तिष्ठतेरनूर्ध्वकर्मणि वर्त्तमानादात्मनेपदं भवति । कर्मशब्दः क्रियावाची । अनूर्ध्वकर्मविशिष्टात्क्रियावचनात्तिष्ठतेरात्मनेपदं भवति । गेहे उत्तिष्ठते। कुटुम्बे उत्तिष्ठते। तदर्थं यतत इत्यर्थः ।

  • उद ईहायामिति वक्तव्यम् *(म.भा.1.281) । इह मा भूत्- अस्माद् ग्रामात् शतमुत्तिष्ठति । शतमुत्पद्यते इत्यर्थः । ईहाग्रहणमनूर्ध्वकर्मण एव विशेषणम् , नापवादः ।

अनूर्ध्वकर्मणीति किम् ? आसनादुत्तिष्ठति ।।
</1-3-24>
उपान्मन्त्रकरणे ।। <1-3-25>।।
उपपूर्वात्तिष्ठतेर्मन्त्रकरणेऽर्थे वर्त्तमानादात्मनेपदं भवति । ऐन्द्र्या गार्हपत्यमुपतिष्ठते । आग्नेय्या आग्नीर्घ्रमुपतिष्ठते ।
मन्त्रकरण इति किम् ? भर्तारमुपतिष्ठति यौवनेन ।

  • उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम् *(म.भा.1.281) । देवपूजायाम्-- आदित्यमुपतिष्ठते । सङ्गतिकरणे- रथिकानुपतिष्ठते । मित्रकरणे- महामात्रानुपतिष्ठते । मित्रकरणसंगतिकरणयोः को विशेषः ? संगतिकरणमुपश्लेषः, तद्यथा- गङ्गा यमुनामुपतिष्ठते; मित्रकरणं तु--विनाप्युपश्लेषेण मैत्रीसंबन्धः । पथि- अयं पन्थाः स्रुघ्नमुपतिष्ठते ।
  • वा लिप्सायामिति वक्तव्यम् * (म.भा.1.281)। भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा ।

</1-3-25>
अकर्मकाच्च ।। <1-3-26> ।।
उपात् इति वर्तते । उपपूर्वात् तिष्ठतेरकर्मकक्रियावचनादात्मनेपदं भवति । यावद्भुक्तमुपतिष्ठते । भुक्तमिति इति भोजने भोजने सन्निधीयत इत्यर्थः । भावे क्तप्रत्ययः ।
अकर्मकादिति किम् ? राजानमुपतिष्ठति ।।
</1-3-26>
उद्विभ्यां तपः ।। <1-3-27> ।।
अकर्मकात् इति वर्त्तते । उत्, वि- इत्येवम्पूर्वात् तपतेरकर्मकक्रियावचनादात्मनेपदं भवति । उत्तपते, वितपते । दीप्यत इत्यर्थः । अकर्मकादित्येव- उत्तपति सुवर्णं सुवर्णकारः । वितपति पृष्ठं सविता ।

  • स्वाङ्गकर्मकाच्चेति वक्तव्यम्* (म.भा.1.281) । उत्तपते पाणिम्, उत्तपते पृष्ठम्; वितपते पाणिम्, वितपते पृष्ठम् । स्वाङ्गं चेह न पारिभाषिकं गृह्यते- अद्रवं मूर्त्तिमत् स्वाङ्गम् इति, किं तर्हि ? स्वमङ्गं स्वाङ्गम् । तेनेह न भवति-- देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति ।

उद्विभ्यामिति किम् ? निष्टपति ।।
</1-3-27>
आङो यमहनः ।। <1-3-28> ।।
अकर्मकात् इति वर्तते । यम उपरमे (धा.पा.984), हन हिंसागत्योः(धा.पा.1092) इति परस्मैपदिनौ
। ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति । आयच्छते, आयच्छेते, आयच्छन्ते । हनः खल्वपि- आहते, आघ्नाते, आघ्नते । अकर्मकादित्येव- आयच्छति कूपाद्रज्जुम्, आहन्ति वृषलं पादेन (म.भा.1.282)।

  • स्वाङ्गकर्मकाच्चेति वक्तव्यम् *(म.भा.1.282) । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं चेह न पारिभाषिकं गृह्यते, किं तर्हि ? स्वमङ्गं स्वाङ्गम्, तेनेह न भवति-- आहन्ति शिरः परकीयमिति ।।

</1-3-28>
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ।। <1-3-29> ।।
अकर्मकात् इति वर्त्तते । शेषात् कर्त्तरि परस्मैपदे प्राप्ते, संपूर्वेभ्यो गमि - ऋच्छि- प्रच्छि- स्वरति- अर्ति- श्रु- विदि-इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । संगच्छते । संपृच्छते । संस्वरते । संकल्पा अस्य समरन्त ।
अर्तेर्लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्च(3-1-56/2382) इत्यङादेशः । तत्र परस्मैपदेषु इत्येतन्नाश्रीयते, बहुलं छन्दस्यमाङ्योगेऽपि(6-4-75/3546) इत्याट् प्रतिषिध्यते । ऋदृशोऽङि गुणः(7-4-16/3406) इति गुणः । समरन्त । संश्रृणुते । संवित्ते ।
ऋच्छेरनादेशस्य ग्रहणम्- समृच्छिष्यते । अर्त्यादेशस्य त्वर्तीत्येव सिद्धमात्मनेपदम् । अर्तिरुभयत्र पठ्यते- ऋ गतिप्रापणयो(धा.पा.936) इति भ्वादौ,ऋ सृ गतौ(धा.पा.1098/1099) इति जुहोत्यादौ; विशेषाभावाद् द्वयोरपि ग्रहणम् ।
विदेर्ज्ञानार्थस्य ग्रहणम्, परस्मैपदिभिर्गमादिभिः साहचर्यान्न लाभार्थस्य । स्वरितेत्त्वादुभयतो भाषस्य ।

  • दृशेश्चेति वक्तव्यम् *(म.भा.1.282) । संपश्यते । अकर्मकादित्येव- ग्रामं संपश्यति ।

</1-3-29>
निसमुपविभ्यो ह्वः ।। <1-3-30> ।।
अकर्मकात् इति निवृत्तम् । अतः परं सामान्येनात्मनेपदविधानं प्रतिपत्तव्यम् । नि, सम्, उप, वि- इत्येवम्पूर्वाद् ह्वयतेर्द्धातोरात्मनेपदं भवति । निह्वयते, संह्वयते, उपह्वयते, विह्वयते । अकर्त्रभिप्रायार्थोऽयमारम्भः । अन्यत्र हि ञित्वात्सिद्धमेवात्मनेपदम् ।।

  • उपसर्गादस्यत्यूह्योर्वा वचनम्* (म.भा.1.282)। निरस्यति, निरस्यते । समूहति, समूहते ।।

</1-3-30>
स्पर्धायामाङः ।। <1-3-31> ।।
अकर्त्रभिप्रायार्थोऽयमारम्भः । स्पर्धायां विषये आङ्‌पूर्वाद् ह्वयतेरात्मनेपदं भवति । स्पर्धा = संघर्षः, पराभिभवेच्छा, स विषयो धात्वर्थस्य । धातुस्तु शब्दक्रिय एव । मल्लो मल्लमाह्वयते, छात्रश्छात्रमाह्वयते । स्पर्धमानस्तस्याह्वानं करोतीत्यर्थः ।
स्पर्धायामिति किम् ? गामाह्वयति गोपालः ।।
</1-3-31>
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः ।। <1-3-32> ।।
कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । गन्धनादिष्वर्थेषु वर्त्तमानात्करोतेरात्मनेपदं भवति । गन्धनम् = अपकारप्रयुक्तं हिंसात्मकं सूचनम् । तथा हि-वस्त गन्ध अर्दने(धा.पा.1684/1685),अर्द हिसायाम्(धा.पा.1829), इति चुरादौ पठ्यते । अवक्षेपणम् = भर्त्सनम् । सेवनम् = अनुवृत्तिः । साहसिक्यम् = साहसिकं कर्म । प्रतियत्नः = सतो गुणान्तराधानम् । प्रकथनम् = प्रकर्षेण कथनम् । उपयोगः = धर्मादिप्रयोजनो विनियोगः ।
गन्धने तावत्--उत्कुरुते । उदाकुरुते । सूचयतीत्यर्थः । अवक्षेपणे- श्येनो वर्त्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । सेवने- गणकानुपकुरुते, महामात्रानुपकुरुते । सेवत इत्यर्थः । साहसिक्ये- परदारान्प्रकुरुते । तेषु सहसा प्रवर्तत इत्यर्थः । प्रतियत्ने- एधो दकस्योपस्कुरुते । काण्‍डं गुडस्योपस्कुरुते । तस्य सतो गुणान्तराधानं करोतीत्यर्थः ।

  • षष्ठीसुटौ करोतिः प्रतियत्न एव विधीयते * (2-3-53/614)। प्रकथने- गाथाः प्रकुरुते । जनापवादान्प्रकुरुते । प्रकर्षेण कथयतीत्यर्थः । उपयोगे- शतं प्रकुरुते, सहस्रं प्रकुरुते । धर्मार्थं शतं विनियुङ्क्त इत्यर्थः ।

एतेष्विति किम् ? कटं करोति ।
</1-3-32>
अधेः प्रसहने ।। <1-3-33> ।।
         अकर्त्रभिप्रायार्थोऽयमारम्भः। अधिपूर्वात् करोतेः प्रसहने वर्तमानात् आत्मनेपदं भवति। प्रसहनमभिभवः अपराजयो वा। तमधिचक्रे। तमभिबभूव, न तेन पराजित इति वा। प्रसहने इति किम् ? अर्थमधिकरोति। पृथग्योगकरणमुपसर्गविशेषणार्थम्।।
</1-3-33>
वेः शब्दकर्मणः ।। <1-3-34> ।।
      कृञः इत्यनुवर्तते । विपूर्वात्करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति । कर्मशब्द इह कारकाभिधायी, न क्रियावचनः । क्रोष्टा विकुरुते स्वरान् । ध्वाङ्क्षो विकुरुते स्वरान् ।
शब्दकर्मण इति किम् ? विकरोति पयः ।।
</1-3-34>
अकर्मकाच्च ।। <1-3-35> ।।
वेः कृञः इत्यनुवर्त्तते । विपूर्वात्करोतेरकर्मकक्रियावचनादात्मनेपदं भवति । विकुर्वन्ते सैन्धवाः । साधु दान्ताः शोभनं वल्गन्तीत्यर्थः । ओदनस्य पूर्णाश्छात्रा विकुर्वते । निष्फलं चेष्टन्त इत्यर्थः ।।
</1-3-35>
सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ।। <1-3-36> ।।
णीञ् प्रापणे- अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । णीञ् प्रापणे- इत्येतस्माद्धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु ।
सम्माननम् = पूजनम् । नयते चार्वी लोकायते । चार्वी = बुद्धिः, तत्सम्बन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति ।
उत्सञ्जनम् = उत्क्षेपणम् । माणवकमुपनयते । उत्क्षिपतीत्यर्थः ।
आचार्यकरणम् = आचार्यक्रिया । माणवकमीदृशेन विधिनाऽऽत्मसमीपं प्रापयति,यथा स उपनेता स्वयमाचार्यः संपद्यते माणवकमुपनयते । आत्मानमाचार्यीकुर्वन्माणवकमात्मसमीपं प्रापयतीत्यर्थः ।
ज्ञानम् = प्रमेयनिश्चयः । नयते चार्वी लोकायते । तत्र प्रमेयं निश्चिनोतीत्यर्थः ।
भृतिः = वेतनम् । कर्मकरानुपनयते । भृतिदानेन समीपं करोतीत्यर्थः ।
विगणनम् = ऋणादेर्निर्यातनम् । मद्राः करं विनयन्ते । निर्यातयन्तीत्यर्थः ।
व्ययः = धर्मादिषु विनियोगः । शतं विनयते, सहस्रं विनयते । धर्माद्यर्थं शतं विनियुङ्क्त इत्यर्थः ।
एतेष्विति किम् ? अजां नयति ग्रामम् ।।
</1-3-36>
कर्तृस्थे चाशरीरे कर्मणि ।। <1-3-37> ।।
नयतेः कर्त्ता देवदत्तादिर्लकारवाच्यः । कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मने पदं भवति । शरीरम् = प्राणिकायः, तदेकदेशोऽपि शरीरम् । क्रोधं विनयते, मन्युं विनयते ।
कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयति । अशरीर इति किम् ? गडुं विनयति । घाटां विनयति । कर्मणीति किम् ? बुद्ध्या विनयति । प्रज्ञया विनयति ।।
</1-3-37>
वृत्तिसर्गतायनेषु क्रमः ।। <1-3-38> ।।
शेषात्कर्त्तरि परस्मैपदे(1-2-78/2159) प्राप्ते वृत्त्यादिष्वर्थेषु क्रमेर्धातोरात्मनेपदं भवति । वृत्तिः = अप्रतिबन्धः । सर्गः = उत्साहः । तायनम् = स्फीतता । वृत्तौ तावत्- ऋक्ष्वस्य क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । यजुःष्वस्य क्रमते बुद्धिः । सर्गे- व्याकरणाध्ययनाय क्रमते । उत्सहत इत्यर्थः । तायने- अस्मिन् शास्त्राणि क्रमन्ते । स्फीतीभवन्तीत्यर्थः ।
एतेष्विति किम् ? अपक्रामति ।।
</1-3-38>
उपपराभ्याम् ।। <1-3-39> ।।
वृत्तिसर्गतायेनेषु इति वर्त्तते । उपपरापूर्वात्क्रमतेर्वृत्त्यादिष्वर्थेषु वर्त्तमानादात्मनेपदं भवति । किमर्थं तर्हीदमुच्यते ? उपसर्गनियमार्थम् - सोपसर्गादुपपरापूर्वादेव, नान्यपूर्वादिति । उपक्रमते, पराक्रमते ।
उपपराभ्यामिति किम् ? संक्रामति । वृत्त्यादिष्वित्येव-- उपक्रामति, पराक्रामति ।।
</1-3-39>
आङ उद्गमने ।। <1-3-40> ।।
आङ्पूर्वात् क्रमतेरुद्‌गमने वर्त्तमानादात्मनेपदं भवति । आक्रमते आदित्यः । आक्रमते चन्द्रमाः । आक्रमन्ते ज्योतींषि ।
उद्‌गमन इति किम् ? आक्रामति माणवकः कुतुपम् ।

  • ज्योतिरुद्‌गमन इति वक्तव्यम् *(म.भा.1.282) । इह मा भूत्- आक्रामति धूमो हर्म्यतलात् ।।

</1-3-40>
वेः पादविहरणे ।। <1-3-41> ।।
विपूर्वात्क्रमतेः पादविहरणेऽर्थे वर्त्तमानादात्मनेपदं भवति । विहरणम् = विक्षेपः । सुष्ठु विक्रमते, साधु विक्रमते । अश्वादीनां गतिविशेषो विक्रमणमुच्यते । यद्यपि क्रमिः पादविहरण एव पठ्यते--क्रमु पादविक्षेपे (धा.पा.473) इति, तथाप्यनेकार्थत्वाद्धातूनामेवमुक्तम् ।
पादविहरण इति किम् ? विक्रामत्यजिनसन्धिः ।।
</1-3-41>
प्रोपाभ्यां समर्थाभ्याम् ।। <1-3-42> ।।
प्र उप इत्येताभ्यामुपसर्गाभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता ? आदिकर्मणि । प्रक्रमते भोक्तुम्, उपक्रमते भोक्तुम् ।
समर्थाभ्यामिति किम् ? पूर्वेद्युः प्रक्रामति । गच्छतीत्यर्थः । अपरेद्युरुपक्रामति । आगच्छतीत्यर्थः । अथ उपपराभ्याम्(1-3-39/2712) इत्यनेनात्मनेपदमत्र कस्मान्न भवति ? वृत्त्यादिग्रहणं तत्रानुवर्त्तते, ततोऽन्यत्रेदं प्रत्युदाहरणम् ।।
</1-3-42>
अनुपसर्गाद्वा ।। <1-3-43> ।।
क्रम इति वर्त्तते । अप्राप्तविभाषेयम् । उपसर्गवियुक्तात्क्रमतेरात्मनेपदं वा भवति । क्रमते । क्रमति ।
अनुपसर्गादिति किम् ? संक्रामति ।।
</1-3-43>
अपह्नवे ज्ञः ।। <1-3-44> ।।
शेषात्कर्त्तरि परस्मैपदे प्राप्ते जानातेरपह्नवे वर्त्तमानाद् आत्मनेपदं भवति । अपह्नवः = अपह्नुतिः अपलापः । सोपसर्गश्चायमपह्नवे वर्त्तते, न केवलः । शतमपजानीते, सहस्रमपजानीते । अपलपतीत्यर्थः ।
अपह्नव इति किम् ? न त्वं किञ्चिदपि जानासि ।।
</1-3-44>
अकर्मकाच्च ।। <1-3-45> ।।
अकर्त्रभिप्रायार्थमिदम्, कर्त्रभिप्राये हि अनुपसर्गाज्ज्ञः(1-3-76/2743) वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति । सर्पिषो जानीते, मधुनो जानीते । कथं चायमकर्मकः ? नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्, किं तर्हि ? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन । तथा च -ज्ञोऽविदर्थस्य करणे(2-3-51/612) इति षष्ठी विधीयते । सर्पिषो जानीते, मधुनो जानीते । सर्पिषा उपायेन प्रवर्त्तत इत्यर्थः ।
अकर्मकादिति किम् ? स्वरेण पुत्रं जानाति ।।
</1-3-45>
संप्रतिभ्यामनाध्याने ।। <1-3-46>।।
ज्ञः इति वर्त्तते । सकर्मकार्थमिदम् । सं प्रति इत्येवं पूर्वात् जानातेरनाध्याने वर्त्तमानादात्मनेपदं भवति । आध्यानम् = उत्कण्ठास्मरणम् । शतं सञ्जानीते । सहस्रं सञ्जानीते । शतं प्रतिजानीते, सहस्रं प्रतिजानीते ।
अनाध्याने इति किम् ? मातुः सञ्जानाति, पितुः संजानाति । उत्कण्ठते इत्यर्थः।
</1-3-46>
भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ।। <1-3-47>।।
शेषात्कर्त्तरि परस्मैपदे(1-3-78/2159) प्राप्ते भासनादिषु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति । भासनम् = दीप्तिः । वदते चार्वी लोकायते । भासमानो दीप्यमानस्तत्र पदार्थान् व्यक्तीकरोतीत्यर्थः । उपसंभाषा = उपसान्त्वनम् । कर्मकरानुपवदते । उपसान्त्वयतीत्यर्थः । ज्ञानम् = सम्यगवबोधः । वदते चार्वी लोकायते । जानाति वदितुमित्यर्थः । यत्नः = उत्साहः । क्षेत्रे वदते, गेहे वदते । तद्विषयमुत्साहमाविष्करोतीत्यर्थः । विमतिः = नानामतिः । क्षेत्रे विवदन्ते, गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्त इत्यर्थ । उपमन्त्रणम् = रहस्युपच्छन्दनम् । कुलभार्यामुपवदते । परदारानुपवदते । उपच्छन्दयतीत्यर्थः ।
एतेष्विति किम् ? यत्किञ्चिद्वदति ।।
</1-3-47>
व्यक्तवाचां समुच्चारणे ।। <1-3-48> ।।
वदः इति वर्त्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणम्, तत्र वर्त्तमानाद्वदतेरात्मनेपदं भवति । ननु वद व्यक्तायां वाचि(धा.पा.1009) इत्येव पठ्यते, तत्र किं व्यक्तवाचामिति विशेषणेन ? प्रसिद्ध्युपसङ्ग्रहार्थमेतत् । व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः, तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः ।
व्यक्तवाचामिति किम् ? संप्रवदन्ति कुक्कुटाः(म.भा.1.283) । समुच्चारण इति किम् ? ब्राह्मणो वदति । क्षत्रियो वदति ।।
</1-3-48>
अनोरकर्मकात् ।। <1-3-49> ।।
वदः इति व्यक्तवाचाम् इति च वर्त्तते । अनुपूर्वाद्वदतेरकर्मकाद्व्यक्तवाग्विषयादात्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मौद्‌गः पैप्पलादस्य । अनुः सादृश्ये । यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः ।
अकर्मकादिति किम् ? पूर्वमेव यजुरुदितमनुवदति । व्यक्तवाचामित्येव- अनुवदति वीणा ।।
</1-3-49>
विभाषा विप्रलापे ।। <1-3-50> ।।
वद इति वर्त्तते,व्यक्तवाचां समुच्चारणे इति च । विप्रलापात्मके व्यक्तवाचां समुच्चारणे वर्त्तमानाद्वदतेरात्मनेपदं भवति विभाषा । प्राप्तविभाषेयम् । विप्रवदन्ते सांवत्सराः, विप्रवदन्ति सांवत्सराः । विप्रवदन्ते मौहूर्त्ताः, विप्रवदन्ति मौहूर्त्ताः । युगपत्परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः ।
विप्रलाप इति किम् ? संप्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव- विप्रवदन्ति शकुनयः । समुच्चारण इत्येव- क्रमेण मौहूर्त्ता मौहूर्त्तेन सह विप्रवदन्ति ।।
</1-3-50>
अवाद्‌ ग्रः ।। <1-3-51> ।।
गॄ निगरणे(धा.पा.1410) इति तुदादौ पठ्यते, तस्येदं ग्रहणम्; न तु गॄ शब्दे(धा.पा.1498) इति क्र्यादिपठितस्य । तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति । शेषात्(1-3-78/2159) इति परस्मैपदे प्राप्ते; अवपूर्वाद्‌गिरतेरात्मनेपदं भवति । अवगिरते, अवगिरेते, अवगिरन्ते ।
अवादिति किम् ? गिरति ।।
</1-3-51>
समः प्रतिज्ञाने ।। <1-3-52> ।।
ग्रः इति वर्त्तते । संपूर्वाद् गिरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं भवति । प्रतिज्ञानम् = अभ्युपगमः । शतं संगिरते, नित्यं शब्दं संगिरते ।
प्रतिज्ञान इति किम् ? संगिरति ग्रासम् ।।
</1-3-52>
उदश्चः सकर्मकात् ।। <1-3-53> ।।
         शेषात्कर्तरि(1-3-78>य2159)इति परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मकक्रियावचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छति इत्यर्थः। सकर्मकात् इति किम् ? बाष्पमुच्चरति।
</1-3-53>
समस्तृतीयायुक्तात्।। <1-3-53> ।।
सम्पूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति । तृतीया इति तृतीयाविभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः । अश्वेन संचरते ।
तृतीयायुक्तादिति किम् ? उभौ लोकौ संचरसि इमं चामुं च देवल (म.भा.1.283)। यद्यप्यत्र तदर्थयोगः संभवति, तृतीया तु न श्रूयत इति प्रत्युदाहरणं भवति ।।
</1-3-53>
दाणश्च सा चेच्चतुर्थ्यर्थे ।। <1-3-55> ।।
दाण् दाने (धा.पा.930) परस्मैपदी । ततः संपूर्वात्तृतीयायुक्तादात्मनेपदं भवति, सा चेत्तृतीया चतुर्थ्यर्थे भवति ।
कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात् ? वक्तव्यमेवैतत्-* अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम् * (म.भा.1.284)। दास्या मालां संप्रयच्छते । कामुकः सन् दास्यै ददातीत्यर्थः ।
चतुर्थ्यर्थे इति किम् ? पाणिना संप्रयच्छति । समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति ? समः इति विशेषणे षष्ठी, न पञ्चमी ।।
</1-3-55>
उपाद्यमः स्वकरणे ।। <1-3-56> ।।
शेषात्कर्त्तरि परस्मैपदे(1-2-78/2159) प्राप्ते उपपूर्वाद् यमः स्वकरणे वर्तमानादात्मनेपदं भवति । पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते, न स्वकरणमात्रम् । भार्यामुपयच्छते ।
स्वकरण इति किम् ? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति ।।
</1-3-56>
ज्ञाश्रुस्मृदृशां सनः ।। <1-3-57> ।।
ज्ञा, श्रु, स्मृ, दृश्-इत्येतेषां सन्नन्तानामात्मनेपदं भवति । तत्र जानातेःअपह्नवे ज्ञः(1-3-44/2717) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि(1-3-29/2699) इत्यत्र विहितम्; तस्मिन्विषये पूर्ववत्सनः(1-3-62/2734) इत्येव सिद्धमात्मनेपदम्। ततोऽन्यत्रानेन विधीयते । स्मरतेः पुनरप्राप्त एव
विधानम् । धर्मं जिज्ञासते । गुरुं शुश्रूषते । नष्टं सुस्मूर्षते । नृपं दिदृक्षते ।
सन इति किम् ? जानाति, श्रृणोति, स्मरति, पश्यति ।
</1-3-57>
नानोर्ज्ञः ।। <1-3-58> ।।
पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते । अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न भवति । तथा च सति सकर्मकस्यैवायं प्रतिषेधः सम्पद्यते । पुत्रमनुजिज्ञासति ।
अनोरिति किम् ? धर्मं जिज्ञासते ।।
</1-3-58>
प्रत्याङ्‌भ्यां श्रुवः ।। <1-3-59> ।।
प्रति, आङ् इत्येवम्पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्गग्रहणं चेदम्, तस्मादिह प्रतिषेधो न भवति- देवदत्तं प्रति शुश्रूषते ।।
</1-3-59>
शदेः शितः ।। <1-3-60> ।।
शद्‌लृ शातने(धा.पा.1855) परस्मैपदी, तस्मादात्मनेपदं विधीयते । शदिर्यः शित्, शिद्भावी शितो वा सम्बन्धी तस्मादात्मनेपदं भवति । शीयते, शीयेते, शीयन्ते ।
शित इति किम् ? अशत्स्यत् । शत्स्यति । शिशत्सति ।।
</1-3-60>
म्रियतेर्लुङ्‌लिङोश्च ।। <1-3-61> ।।
मृङ्‌ प्राणत्यागे(धा.पा.1404), ङित्त्वादात्मनेपदमत्र सिद्धमेवेति नियमार्थमिदं वचनम्-म्रियतेर्लुङ्‌लिङोः शितश्चात्मनेपदं भवति, अन्यत्र न भवति । अमृत । मृषीष्ट । शितः खल्वपि-म्रियते, म्रियेते, म्रियन्ते ।
नियमः किमर्थः ? मरिष्यति । अमरिष्यत् ।।
</1-3-61>
पूर्ववत्सनः ।। <1-3-62> ।।
सनः पूर्वा यो धातुः आत्मनेपदी तद्वत्सन्नन्तादात्मनेपदं भवति । येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेनैव सनन्तादपि भवति । अनुदात्तङित आत्मनेपदम्(1-3-12/2157)- आस्ते, शेते । सनन्तादपि तदेव निमित्तम्-- आसिसिषते, शिषयिषते । नेर्विशः(1-3-17/2683)- निविशते, निविविक्षते । आङ उद्‌गमने (1-3-40/2713)--आक्रमते, आचिक्रंसते ।
इह न भवति- शिसत्सति । मुमूर्षति । न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम्, किं तर्हि ? शिदाद्यपि, तच्चेह नास्ति ।
यस्य च पूर्वत्रैव निमित्तभावः प्रतिषिध्यते, तत्सन्नन्तेऽप्यनिमित्तम्- अनुचिकीर्षति । पराचिकीर्षति ।
इह जुगुप्सते, मीमांसते इति ? अनुदात्त ङित(1-3-12/2157) इत्येव सिद्धमात्मनेपदम्। अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति(म.भा.1.289)इति ।।
</1-3-62>
आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ।। <1-3-63> ।।
अकर्त्रभिप्रायार्थोऽयमारम्भः । आम् प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययः । आम्प्रत्ययस्यैव धातोः कृञोऽनुप्रयोगस्यात्मनेपदं भवति । ईक्षाञ्चक्रे, ईहाञ्चक्रे । यदि विध्यर्थमेतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकारेति कर्त्रभिप्राये क्रियाफले आत्मनेपदं प्राप्नोति ? नैष दोषः, उभयमनेन क्रियते-विधिः, नियमश्च । कथम् ? पूर्ववदिति वर्तते । स द्वितीयो यत्नो नियमार्थो भविष्यति ।
कृञ इति किम् ? ईक्षामास, ईक्षाम्बभूव । कथं पुनरस्यानुप्रयोगः, यावताकृञ्चानुप्रयुज्यते लिटि(3-1-40/2239) इत्युच्यते ? कृञ् इति प्रत्याहारग्रहणं तत्र विज्ञायते । क्व संनिविष्टानां प्रत्याहारः ?
अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि च्विः(5-4-50/2129)इति कृशब्दादारभ्य यावत् कृञो द्वितीयतृतीयशम्बबीजात्कृषौ(5-4-58/2129) इति ञकारम् ।।
</1-3-63>
प्रोपाभ्यां युजेरयज्ञपात्रेषु ।। <1-3-64> ।।
युजिर्‌ योगे स्वरितेत् । तस्य कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रायर्थोऽयमारम्भः । प्र, उप-इत्येवम्पूर्वाद् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति । प्रयुङ्‌क्ते ।
</1-3-64>
अयज्ञपात्रेष्विति किम् ? द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति (आप.गृ.<1-1-16>)।
* स्वराद्यन्तोपसृष्टादिति वक्तव्यम् *(म.भा.1.290) । उद्युङ्क्ते, नियुङ्‌क्ते ।
स्वराद्यन्तोपसृष्टादिति किम् ? संयुनक्ति ।।
</1-1-16>
समः क्ष्णुवः ।। <1-3-65> ।।
क्ष्णु तेजने(धा.पा.1037) परस्मैपदी । ततः सम्पूर्वादात्मनेपदं भवति । समो गम्यृच्छि (1-3-29/2699) इत्यत्रैव कस्मान्न पठितः ? अकर्मकादिति तत्र वर्तते । संक्ष्णुते शस्त्रम्, संक्ष्णवाते, संक्ष्णुवते ।
</1-3-65>
भुजोऽनवने ।। <1-3-66> ।।
भुज पालनाभ्यवहारयोः(धा.पा.1455) इति रुधादौ पठ्यते । तस्मादनवने = अपालने वर्त्तमानादात्मनेपदं भवति । भुङ्‌क्ते, भुञ्जाते ।
अनवन इति किम् ? भुनक्त्येनमग्निराहितः । अनवनप्रतिषेधेन रौधादिकस्यैव ग्रहणं विज्ञायते, न तौदादिकस्य-भुजो कौटिल्ये(धा.पा.1418) इत्यस्य । तेनेह न भवति--विभुजति पाणिम् ।।
</1-3-66>
णेरणौ यत्कर्म णौ चेत्स कर्त्तानाध्याने ।। <1-3-67> ।।
णिचश्च(1-3-74/2564) इति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । ण्यन्तादात्मनेपदं भवति, कथम् ? अणौ यत्कर्मणौ चेत्तदेव कर्म, स एव कर्त्ता भवति, अनाध्याने = आध्यानं वर्जयित्वा । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयते हस्ती स्वयमेव । उपसिञ्चन्ति हस्तिनं हस्तिपकाः । उपसेचयते हस्ती स्वयमेव । पश्यन्ति भृत्या राजानम् । दर्शयते राजा स्वयमेव ।
णेरिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति ।
अणाविति किम् ? गणयति गणं गोपालकः, गणयति गणः स्वयमेव । कर्मग्रहणं किम् ? लुनाति दात्रेण, लावयति दात्रं स्वयमेव ।
णौ चेद् ग्रहणं समानक्रियार्थम् । आरोहन्ति हस्तिनं हस्तिपकः, आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेण ।
यत्सग्रहणमनन्यकर्मार्थम् । आरोहन्ति हस्तिनं हस्तिपकाः । आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् ।
कर्त्तरि किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयति महामात्रः । अनाध्यान इति किम् ? स्मरति वनगुल्मस्य कोकिलः, स्मरयत्येनं वनगुल्मः स्वयमेव ।
ननु चात्र कर्मकर्त्तरि मूलोदाहरणानि, तत्र कर्मवद्भावेनैव सिद्धमात्मनेपदम्, किमर्थमिदमुच्यते ? कर्मस्थभावकानां कर्मस्थक्रियाणां च क्रमवदतिदेशो विज्ञायते । कर्तृस्थार्थोऽयमारम्भः ।
तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावक उदाहृतः ।
</1-3-67>
भीस्म्योर्हेतुभये ।। <1-3-68> ।।
णेः इति वर्त्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । बिभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये । हेतुः प्रयोजकः कर्त्ता लकारवाच्यः, ततश्चेद्भयं भवति । भयग्रहणमुपलक्षणार्थम्, विस्मयोऽपि तत एव । जटिलो भीषयते । मुण्डो भीषयते । जटिलो विस्मापयते ।
हेतुभय इति किम् ? कुञ्चिकयैनं भाययति । रूपेण विस्माययति । अत्र कुञ्चिका भयस्य करणम्, न हेतुः ।।
</1-3-68>
गृधिवञ्च्योः प्रलम्भने ।। <1-3-69> ।।
णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । गृधु अभिकाङ्‌क्षायाम्(धा.पा.1247) वञ्चु गतौ(धा.पा.181) इत्येतयोर्ण्यन्तयोः प्रलम्भने वर्त्तमानयोरात्मनेपदं भवति । प्रलम्भनम् = विसंवादनम्, मिथ्याफलाख्यानम् । माणवकं गर्धयते । माणवकं वञ्चयते ।
प्रलम्भन इति किम् ? श्वानं गर्धयति । गर्धनमस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । परिहरतीत्यर्थः।
</1-3-69>
लियः सम्माननशालीनीकरणयोश्च ।। <1-3-70> ।।
णे इति वर्त्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । लीङ्‌ श्लेषणे(धा.पा.1139) इति दिवादौ पठ्यते, ली श्लेषणे(धा.पा.1501) इति च क्र्यादौ; विशेषाभावाद् द्वयोरपि ग्रहणम् । लियो ण्यन्तात्सम्मानने शालीनीकरणे च वर्त्तमानादात्मनेपदं भवति, च शब्दात् प्रलम्भने च । संमाननम् = पूजनम् । शालीनीकरणम् = न्यग्भावनम् । जटाभिरालापयते । पूजां समधिगच्छतीत्यर्थः । श्येनो वर्त्तिकामुल्लापयते । न्यक्करोतीत्यर्थः । प्रलम्भने- कस्त्वामुल्लापयते । विसंवादयतीत्यर्थः । विभाषा लीयतेः(6-1-51/2509) इति वाऽऽत्वं विधीयते । तदस्मिन्विषये नित्यमन्यत्र विकल्पः । व्यवस्थितविभाषा हि सा ।
सम्माननादिष्विति किम् ? बालकमुल्लापयति ।
</1-3-70>
मिथ्योपपदात्कृञोऽभ्यासे ।। <1-3-71> ।।
णेः इति वर्त्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । ण्यन्तात्करोतेर्मिथ्योपदादात्मनेपदं भवति अभ्यासे । अभ्यासः = पुनः पुनः करणम् , आवृत्तिः । पदं मिथ्या कारयते । सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः ।
मिथ्योपपदादिति किम् ? पदं सुष्ठु कारयति । कृञ इति किम् ? पदं मिथ्या वाचयति । अभ्यास इति किम् ? पदं मिथ्या कारयति । सकृदुच्चारयति ।।
</1-3-71>
स्वरितञितः कर्त्रभिप्राये क्रियाफले ।। <1-3-72> ।।
णेः इति निवृत्तम् । शेषात्कर्त्तरि परस्मैपदे(1-3-78/2159) प्राप्ते स्वरितेतो ये धातवो ञितश्च तेभ्य आत्मनेपदं भवति, कर्त्तारं चेत्क्रियाफलमभिप्रैति । क्रियायाः फलं क्रियाफलं प्रधानभूतं यदर्थमसौ क्रिया आरभ्यते तच्चेत् कर्तुर्लकारवाच्यस्य भवति । यजते । पचते । ञितः खल्वपि--सुनुते । कुरुते । स्वर्गादि प्रधानफलमिह कर्त्तारमभिप्रैति ।
कर्त्रभिप्राये इति किम् ? यजन्ति याजकाः । पचन्ति पाचकाः । कुर्वन्ति कर्मकराः । यद्यपि दक्षिणा भृतिश्च कर्तुः फलमिहास्ति, तथापि न तदर्थः क्रियारम्भः ।।
</1-3-72>
अपाद्वदः ।। <1-3-73> ।।
कर्त्रभिप्राये इति वर्त्तते । अपपूर्वाद्वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । धनकामो न्यायमपवदते । न्यायापवादेन धनमर्जयिष्यामि इति मन्यते ।
कर्त्रभिप्राये क्रियाफले इत्येव- अपवदति ।।
</1-3-73>
णिचश्च ।। <1-3-74>।।
कर्त्रभिप्राये क्रियाफले इति वर्त्तते । णिजन्तादात्मनेपदं भवति, कर्त्रभिप्राये क्रियाफले । कटं कारयते । ओदनं पाचयते ।
कर्त्रभिप्राय इत्येव-कटं कारयति परस्य ।।
</1-3-74>
समुदाङ्‌भ्यो यमोऽग्रन्थे ।। <1-3-75> ।।
कर्त्रभिप्राये इति वर्त्तते । सम्, उद्, आङ्-इत्येवम्पूर्वाद्यमेः कर्त्रभिप्रये क्रियाफले आत्मनेपदं भवति, ग्रन्थविषयश्चेत्प्रयोगो न भवति। व्रीहीन् संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । आङ्‌पूर्वादकर्मकाद् आङो यमहनः(1-3-28/2695) इति सिद्धमेवात्मनेपदम्। सकर्मकार्थमिदं पुनर्ग्रहणम् ।
अग्रन्थ इति किम् ? उद्यच्छति चिकित्सां वैद्यः ।
कर्त्रभिप्राय इत्येव- संयच्छति, उद्यच्छति, आयच्छति ।।
</1-3-75>
अनुपसर्गाज्ज्ञः ।। <1-3-76> ।।
कर्त्रभिप्राय इति वर्त्तते । अनुपसर्गाज्जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । गां जानीते, अश्वं जानीते ।
अनुपसर्गादिति किम् ? स्वर्गं लोकं न प्रजानाति मूढः ।
कर्त्रभिप्रायः इत्येव- देवदत्तस्य गां जानाति ।।
</1-3-76>
विभाषोपपदेन प्रतीयमाने ।। <1-3-77> ।।
स्वरितञितः(1-3-72/2358) इति पञ्चभिः सूत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितम्, तदुपपदेन द्योतिते न प्राप्नोतीति वचनमारभ्यते । समीपे श्रूयमाणं शब्दान्तरम् = उपपदम्, तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाषाऽऽत्मनेपदं भवति । स्वं यज्ञं यजति, स्वं यज्ञं यजते । स्वं कटं करोति, स्वं कटं कुरुते । स्वं पुत्रमपवदति, स्वं पुत्रमपवदते । एवं पञ्चसूत्र्यामुदाहार्यम् ।।
</1-3-77>
शेषात्कर्तरि परस्मैपदम् ।। <1-3-78> ।।
पूर्वेण प्रकरणेनात्मनेपदनियमः कृतः, न परस्मैपदनियमः, तत्सर्वतः प्राप्नोति, तदर्थमिदमुच्यते । येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदमुक्तं ततो यदन्यत्स शेषः । शेषात्कर्तरि परस्मैपदं भवति शेषादेव नान्यस्मात् । अनुदात्तङित आत्मनेपदम्(1-3-12/2157) उक्तम्-आस्ते, शेते । ततोऽन्यत्र परस्मैपदं भवति-याति, वाति । नेर्विशः(1-3-17/2683) आत्मनेपदमुक्तम्-निविशते । ततोऽन्यत्र परस्मैपदम्-आविशति, प्रविशति ।
कर्तरीति किम् ? पच्यते, गम्यते ।
कर्मकर्तरि कस्मात्परस्मैपदं न भवति-पच्यते ओदनः स्वयमेव ? कर्त्तरि कर्मव्यतिहारे(1-3-14/2680) इति द्वितीयं कर्तृग्रहणमुनवर्त्तते; तेन कर्त्तैव यः कर्त्ता, तत्र परस्मैपदं कर्मकर्त्तरि न भवति ।।
</1-3-78>
अनुपरभ्यां कृञः ।। <1-3-79> ।।
कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम्, तदपवादः परस्मैपदं विधीयते । अनु, परा-इत्येवम्पूर्वात्करोतेः परस्मैपदं भवति । अनुकरोति, पराकरोति ।।
</1-3-79>
अभिप्रत्यतिभ्यः क्षिपः ।। <1-3-80> ।।
क्षिप प्रेरणे(धा.पा.1286) स्वरितेत्, ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । अभि, प्रति,- इत्येवम्पूर्वात् क्षिपः परस्मैपदं भवति । अभिक्षिपति, प्रतिक्षिपति, अतिक्षिपति ।
अभिप्रत्यतिभ्य इति किम् ? आक्षिपते ।
द्वितीयमपि कर्तृग्रहणमनुवर्त्तते, तेनेह न भवति--अभिक्षिप्यते स्वयमेव ।।
</1-3-80>
प्राद्वहः ।। <1-3-81> ।।
वह प्रापणे(धा.पा.1004) स्वरितेत्, तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । प्रवूर्वाद्वहतेः परस्मैपदं भवति । प्रवहति, प्रवहतः, प्रवहन्ति ।
प्रादिति किम् ? आवहते ।।
</1-3-81>
परेर्मृषः ।। <1-3-82> ।।
मृष तितिक्षायाम्(धा.पा.1165)स्वरितेत्, ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयते । परिपूर्वाद् मृष्यतेः परस्मैपदं भवति । परिमृष्यति, परिमृष्यतः,परिमृष्यन्ति ।
परेरिति किम् ? आमृष्यते ।
वहतिमपि केचिदत्रानुवर्त्तयन्ति- परिवहति ।।
</1-3-82>
व्याङ्‌परिभ्यो रमः ।। <1-3-83> ।।
रमु क्रीडायाम्(धा.पा.854), अनुदात्तेत्त्वादात्मनेपदे प्राप्ते परस्मैपदं विधीयते । वि, आङ्‌, परि-- इत्येवम्पूर्वाद्रमतेः परस्मैपदं भवति । विरमति,आरमति, परिरमति ।
एतेभ्य इति किम् ? अभिरमते ।।
</1-3-83>
उपाच्च ।। <1-3-84> ।।
रमः इत्येव। उपपूर्वाद्रमतेः परस्मैपदं भवति। देवदत्तमुपरमति । यज्ञदत्तमुपरमति । उपरमयतीति यावत् । अन्तर्भावितण्यर्थोऽत्र रमिः ।
पृथग्योगकरणमुत्तरार्थम् । अकर्मकाद्विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात् ।।
</1-3-84>
विभाषाऽकर्मकात् ।। <1-3-85> ।।
रमउपात् इति च वर्त्तते । पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते । उपपूर्वाद्रमतेरकर्मकाद्विभाषा परस्मैपदं भवति । यावद्भुक्तमुपरमति, यावद्भुक्तमुपरमते । निवर्तत इत्यर्थः ।।
</1-3-85>
बुधयुधनशजनेङ्‌प्रुद्रुस्रुभ्यो णेः ।। <1-3-86> ।।
णिचश्च(1-3-74/2564)इति कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । बुध, युध, नश, जन, इङ्, प्रु,द्रु,स्रु-- इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । बोधयति । योधयति । नाशयति । जनयति । अध्यापयति । प्रावयति । द्रावयति । स्रावयति ।
येऽत्राकर्मकास्तेषाम् अणावकर्मकाच्चित्तवत्कर्तृकात्(1-3-88/2754) इत्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम् । बोधयति पद्मम् । योधयन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् ।
येऽत्र चलनार्था अपि तेषां निगरणचलनार्थेभ्यश्च(1-3-87/2753) इति सिद्धे यदा न चलनार्थास्तदर्थं वचनम्- प्रवते । प्राप्नोतीति गम्यते । अयो द्रवति । विलीयत इत्यर्थः । कुण्डिका स्रवति । स्यन्दत इत्यर्थः । तद्विषयाण्युदाहरणानि ।।
</1-3-86>
निगरणचलनार्थेभ्यश्च ।। <1-3-87> ।।
णेः इति वर्त्तते । कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते । निगरणम् =
अभ्यवहारः । चलनम् = कम्पनम् । निगरणार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । निगारयति । आशयति । भोजयति । चलनार्थेभ्यः- चलयति, चोपयति, कम्पयति ।
अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च ।
*अदेः प्रतिषेधो वक्तव्यः * । अत्ति देवदत्तः । आदयते देवदत्तेन ।।
</1-3-87>
अणावकर्मकाच्चित्तवत्कर्तृकात् ।। <1-3-88> ।।
णेः इति वर्तते । कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते । अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद् ण्यन्तात्परस्मैपदं भवति । आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः शाययति देवदत्तम् ।
अणाविति किम् ? चेतयमानं प्रयोजयति चेतयते इति केचित्प्रत्युदाहरन्ति, तदयुक्तम्; हेतुमण्णिचो विधिः, प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः । तस्मादिह चेतयतीति परस्मैपदेनैव भवितव्यम् । इदं तु प्रत्युदाहरणम्- आरोहयमाणं प्रयुङ्‌क्ते, आरोहयते ।
अकर्मकादिति किम् ? कटं कुर्वाणं प्रयोजयति, कारयते । चित्तवत्कर्तृकादिति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः ।
</1-3-88>
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ।। <1-3-89> ।।
पूर्वेण योगद्वयेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विहितम्, तस्य प्रतिषेधोऽयमुच्यते । यत्कर्त्रभिप्रायविषयमात्मनेपदं तदवस्थितमेव न प्रतिषिध्यते । पा, दमि, आङ्यम्, आङ्यस, परिमुह, रुचि, नृति, वद, वस-इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति । णिचश्च(1-3-74/2564) इत्यात्मनेपदं भवति । तत्र पिबतिर्निगरणार्थः । दमिप्रभृतयश्चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । एषां परस्मैपदं न भवति । पा-पाययते । दमि-दमयते । आङ्यम-आयामयते । यमोऽपरिवेषणे(ग.सू.193) इति मित्संज्ञा प्रतिषिध्यते । आङ्यस-आयासयते । परिमुह-परिमोहयते । रुचि-रोचयते । नृति-नर्त्तयते । वद-वादयते । वस-वासयते ।
</1-3-89>

  • पादिषु धेट उपसंख्यानम् * (म.भा.1.295)। धापयेते शिशुमेकं समीची(ऋ.<1-196-5>) ।।

</1-196-5>
वा क्यषः ।। <1-3-90> ।।
लोहितादिडाज्भ्यः क्यष्(3-1-13/2668) इति वक्ष्यति, तदन्ताद्धातोर्वा परस्मैपदं भवति । लोहितायति, लोहितायते । पटपटायति, पटपटायते ।
अथात्र परस्मैपदेन मुक्ते कथमात्मनेपदं लभ्यते, यावता अनुदात्तङितः(1-3-12/2157) इत्येवमादिना प्रकरणेन तन्नियतम् ? एवं तर्हि आत्मनेपदमेवात्र विकल्पितं विधीयते,तच्चानन्तरं परस्मैपदप्रतिषेधेन सन्निधापितमिह संबध्यते । तेन मुक्ते शेषात्कर्त्तरि परस्मैपदं भवति ।।
</1-3-90>
द्युद्भ्यो लुङि ।। <1-3-91> ।।
वेत्येव । द्युत दीप्तौ(धा.पा.741),तत्साहचर्याद् लुठादयोऽपि कृपू(धा.पा.762)पर्यन्तास्तथैव व्यपदिश्यन्ते । बहुवचननिर्देशादाद्यर्थो भवति । अनुदात्तेत्त्वान्नित्यमेवात्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति ।
व्यद्युतत्, व्यद्योतिष्ट । अलुठत्, अलोठिष्ट ।
लुङीति किम् ? द्योतते ।।
</1-3-91>
वृद्भ्यः स्यसनोः ।। <1-3-92> ।।
द्युतादिष्वेव वृतादयः पठ्यन्ते । वृतु वर्तते(धा.पा.758), वृधु वृद्धौ()धा.पा.759),श्रृधु शब्दकुत्सायाम्(धा.पा.760),स्यन्दू प्रस्रवणे(धा.पा.761), कृपू सामर्थ्ये(धा.पा.762)-- एतेभ्यो धातुभ्यः स्ये, सनि च परतो वा परस्मैपदं भवति । वृत्--वर्त्स्यति, अवर्त्स्यत्, विवृत्सति; वर्तिष्यते, अवर्तिष्यत, विवर्तिषते । वृध्--वर्त्स्यति, अवर्त्स्यत्, विवृत्सति; वर्द्धिष्यते,अवर्धिष्यत, विवर्धिषते ।
स्यसनोरिति किम् ? वर्तते ।।
</1-3-92>
लुटि च क्लृपः ।। <1-3-93> ।।
वृतादित्वादेव स्यनोर्विकल्पः सिद्धः, लुटि विधीयते । चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः । एवं तर्हीयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच्चकारः स्यसनोरनुकर्षणार्थः क्रियते । लुटि च स्यसनोश्च कृपेः परस्मैपदं वा भवति । कल्प्ता, कल्प्तारौ, कल्प्तारः । कल्प्स्यति, अकल्प्स्यत्, चिक्लृप्सति । कल्पिता, कल्पिष्यते, अकल्पिष्यत, चिकल्पिषते ।।
इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
  प्रथमस्याध्यायस्य तृतीयः पादः ।।
</1-3-93>