काशिका/प्रथमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

अथ प्रथमाध्याये चतुर्थः पादः

आ कडारादेका संझा ।। <1-4-1> ।।
कडाराः कर्मधारये(2-2-38/751) इति वक्ष्यति । आ एतस्मात्सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र एका संज्ञा भवतीति वेदितव्यम् । का पुनरसौ ? या पराऽनवकाशा च । अन्यत्र संज्ञासमावेशान्नियमार्थं वचनमेकैव संज्ञा भवतीति । वक्ष्यति--ह्रस्वं लघु(1-4-10/31), भिदि, छिदि-भेत्ता, छेत्ता । संयोगे गुरु(1-4-11/32), शिक्षा, भिक्षा-संयोगे परस्य ह्रस्वस्य लघुसंज्ञा प्राप्नोति, गुरुसंज्ञा च; `एका संज्ञा इति वचनाद्‌ गुरु संज्ञैव भवति-अततक्षत्, अररक्षत् । सन्वल्लुघुनि(7-4-93/2316) इत्येष विधिर्नं भवति ।।
</1-4-1>
विप्रतिषेधे परं कार्यम् ।। <1-4-2> ।।
(तुल्यबल) विरोधः = विप्रतिषेधः । `यत्र द्वौ प्रसङ्गावन्यार्थावेकस्मिन्युगपत्प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः(म.भा.1.300) । तस्मिन्विप्रतिषेधे परं कार्यं भवति ।
उत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गेषु तुल्यबलता नास्तीति योगस्य विषयः, बलवतैव तत्र भवितव्यम् । अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते । अतो दीर्घो यञि(7-3-101/2170) सुपि च (7-3-102/202) इत्यस्यावकाशः--वृक्षाभ्याम्, प्लक्षाभ्याम् ; बहुवचने झल्येत्(7-3-103/205) इत्यस्यावकाशः-वृक्षेषु, प्लक्षेषु; इहोभयं प्राप्नोति-वृक्षेभ्यः, प्लक्षेभ्यः इति । परं भवति विप्रतिषेधेन ।।
</1-4-2>
यू स्त्र्याख्यौ नदीं ।। <1-4-3>।।
ई च ऊ च = यू । अविभक्तिको निर्देशः । स्त्रियमाचक्षाते स्त्र्याख्यौ । मूलविभुजादिदर्शनात्कप्रत्ययः । ईकारान्तमूकारान्तं च रत्र्याख्यं शब्दरूपं नदीसंज्ञं भवति । ईकारान्तम्--कुमारी, गौरी, लक्ष्मीः, शार्ङ्गरवी । ऊकारान्तम्--ब्रह्मबन्धूः, यवागूः ।
यू इति किम् । मात्रे, दुहित्रे । स्त्र्याख्याविति किम् ? ग्रामणीः, सेनानीः, खलपूः । आख्याग्रहणं किम् ? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्-ग्रामण्ये स्त्रियै, खलप्वे स्त्रियै ।
नदीप्रदेशाः--आण्नद्याः(7-3-112/268) इत्येवमादयः ।।
</1-4-3>
नेयङुवङ्‌स्थानावस्त्री ।। <1-4-4> ।।
पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते । स्थितिः = स्थानम् । इयङुवङोः स्थानमनयोरितीयङुवङ्स्थानौ यौ यू, तौ नदीसंज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा । हे श्रीः । हे भ्रूः ।
अस्त्रीति किम् ? हे स्त्रि ।।
</1-4-4>
वाऽऽमि ।। <1-4-5> ।।
पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रियते । इयङुवङ्--स्थानौ यू आमि परतौ वा नदीसंज्ञौ न भवतः । श्रियाम्, श्रीणाम् । भ्रुवाम्, भ्रूणाम् ।
अस्त्रीत्येव-स्त्रीणाम् ।।
</1-4-5>
ङिति ह्रस्वश्च ।। <1-4-6> ।।
दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति इयङुवङ्स्थानयोश्च प्रतिषिद्धा । तस्मान्ङिति वा विधीयते । ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्राख्यः । स्त्र्याख्यौ इयङुवङस्थानौ च यू वा नदीसंज्ञौ भवतः । कृत्यै, कृतये । धेन्वै धेनवे । श्रियै, श्रिये । भ्रुवै, भ्रुवे ।
अस्त्रीत्येव--स्त्रियै । स्त्र्याख्यावित्येव-अग्नये, वायवे, भानवे ।।
</1-4-6>
शेषो घ्यसखि ।। <1-4-7> ।।
`ह्रस्वः इति वर्तते । शेषोऽत्र घिसंज्ञो भवति, सखिशब्दं वर्जयित्वा । कश्च शेषः ? ह्रस्वमिवर्णोवणान्तं यन्न स्त्र्याख्यम्, स्त्र्याख्यं च यन्न नदीसंज्ञकम्, स शेषः । अग्नये, वायवे, कृतये, धेनवे ।
असखीति किम् ? सख्या । सख्ये । सख्युः । सख्यौ ।
घिप्रदेशाः-द्वन्द्वे घि(2-2-32/903) इत्येवमादयः ।।
</1-4-7>
पतिः समास एव ।। <1-4-8> ।।
पतिशब्दस्य घिसंज्ञायां सिद्धायामयं नियमः क्रियते-पतिशब्दः समास एव घिसंज्ञो भवति । प्रजापतिना । प्रजापतये ।
समास इति किम् ? पत्या । पत्ये ।
एवकार इष्टतोऽवधारणार्थः । दृढमुष्टिना । दृढमुष्टये ।।
</1-4-8>
षष्ठीयुक्तश्छन्दसि वा ।। <1-4-9> ।।
</1-4-9>
`पतिः इति वर्तते । पूर्वेण नियमेनासमासे न प्राप्नोतीति वचनमारभ्यते । षष्ठ्यन्तेन शब्देन युक्तः पतिशब्दः छन्दसि विषये वा घिसंज्ञो भवति । `कुलुञ्चानां पतये नमः(तै.सं<4-5-37>), कुलुञ्चानां पत्ये नमः ।
</4-5-37>
षष्ठीग्रहणं किम् ? `मया पत्या जरदष्टिर्यथासः(ऋ.<10-86-36>) । छन्दसीति किम् ? ग्रामस्य पत्ये ।।
</10-86-36>
ह्रस्वं लघु ।। <1-4-10> ।।
मात्रिकस्य ह्रस्वसंज्ञा कृता, तस्यानेन लघुसंज्ञा विधीयते । ह्रस्वमक्षरं लघुसंज्ञं भवति । भेत्ता, छेत्ता, अचीकरत्, अजीहरत् ।
लघुप्रदेशाः--पुगन्तलघूपधस्य च(7-3-86/2189) इत्येवमादयः ।।
</1-4-10>
संयोगे गुरु ।। <1-4-11> ।।
`ह्रस्वम् इति वर्तते । पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते । संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञं भवति । कुण्डा । हुण्डा । शिक्षा । भिक्षा ।
गुरुप्रदेशाः-गुरोश्च हलः(3-3-103/3280) इत्येवमादयः ।।
</1-4-11>
दीर्घं च ।। <1-4-12> ।।
`संयोगे इति नानुवर्त्तते । सामान्येन संज्ञाविधानम् । दीर्घं चाक्षरं गुरुसंज्ञं भवति । ईहाञ्चक्रे । ईक्षाञ्चक्रे ।।
</1-4-12>
यस्यात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ।। <1-4-13> ।।
यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तदादिशब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति । कर्त्ता, हर्त्ता । करिष्यति, हरिष्यति । अकरिष्यत् । औपगवः, कापटवः । यस्मादिति संज्ञिनिर्देशार्थम्, तदादीतिसंबन्धात् ।
प्रत्ययग्रहणं किम् ? न्यविशत, व्यक्रीणीत । नेर्विशः(1-3-17/2683) इत्युपसर्गाद्विधिरस्ति,
तदादेरङ्गसंज्ञा स्यात् ।
विधिग्रहणं किम् ? प्रत्ययपरत्वमात्रे मा भूत् । स्त्री इयती ।
* तदादिवचनं स्यादिनुमर्थम् *(म.भा.1.316) । करिष्यावः, करिष्यामः । कुण्डानि ।
पुनः प्रत्ययग्रहणं किमर्थम् ? लुप्तप्रत्यये मा भूत् । श्र्यर्थम् । भ्रव्यर्थम् ।
अङ्गप्रदेशाः--अङ्गस्य(6-4-1/200) इत्येवमादयः ।।
</1-4-13>
सुप्तिङन्तं पदम् ।। <1-4-14> ।।
`सुप्तिङ् इति प्रत्याहारग्रहणम् । सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति । ब्राह्मणाः पचन्ति ।
पदसंज्ञायामन्तग्रहणमन्यत्र `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः(म.भा.1.318) प्रतिषेधार्थम् । गौरीब्राह्मणितरा ।
प्रदप्रदेशाः-पदस्य(8-1-16/401),पदात्(8-1-17/402) इत्येवमादयः ।।
</1-4-14>
नः क्ये ।। <1-4-15> ।।
`क्ये इति क्यच्क्यङ्क्यषां सामान्यग्रहणम् । नान्तं शब्दरूपं क्ये परतः पदसंज्ञं भवति । क्यच्- राजीयति । क्यङ्-- राजायते । क्यष्- वर्मायति, वर्मायते ।
`सिद्धे सत्यारम्भो नियमार्थः(का.प.59)- नान्तमेव क्ये परतः पदसंज्ञं भवति, नान्यत् । वाच्यति । स्रुच्यति ।।
</1-4-15>
सिति च ।। <1-4-16> ।।
यचि भम्(1-4-18/231) इति वक्ष्यति, तस्यायं पुरस्तादपवादः । सिति प्रत्यये परः पूर्वं पदसंज्ञं भवति । भवतष्ठक्छसौ(4-2-115/1339)-भवदीयः । ऊर्णाया युस्(5-2-123/1929)-ऊर्णायुः ।ऋतोरण्(5-1-105/1769),छन्दसि घस्(5-1-106/3495)--ऋत्वियः ।।
</1-4-16>
स्वादिष्वसर्वनामस्थाने ।। <1-4-17> ।।
`स्वादिषु इति सुशब्दादेकवचनादारभ्य आ कपः प्रत्यया गृह्यन्ते । स्वादिषु प्रत्ययेषु परतः सर्वनामस्थानवर्जितेषु पूर्वं पदसंज्ञं भवति । राजभ्याम्, राजभिः । राजत्वम्, राजता । राजतरः, राजतमः ।
असर्वनामस्थाने इति किम् ? राजानौ, राजानः ।।
</1-4-17>
यचि भम् ।। <1-4-18> ।।
`स्वादिष्वसर्वनामस्थाने इति वर्तते । पूर्वेण पदसंज्ञायां प्राप्तायां तदपवादो भसंज्ञा विधीयते । यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भसंज्ञं भवति । यकारादौ--गार्ग्यः, वात्स्यः । अजादौ--दाक्षिः, प्लाक्षिः ।।
* नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् *(म.भा.1.320) । नभ इव नभस्वत् । अङ्गिरस्वत् । मनुरिव मनुष्वत् ।
</1-4-18>
* वृषण्वस्वश्वयोः*(म.भा.1य320) । वृषन्नित्येतत् वस्वश्वयोः परतो भसंज्ञं भवति छन्दसि विषये । `वृषण्वसुः(ऋ.<1-111-1>) । `वृषणश्वस्य मेने(मै.<2-5-5>) ।
भप्रदेशाः-भस्य(6-4-129/233) इत्येवमादयः ।।
</1-111-1>
तसौ मत्वर्थे ।। <1-4-19> ।।
`भम् इति वर्त्तते । तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति । उदश्वित्वान् घोषः विद्युत्वान् बलाहकः । सकारान्तम्--पयस्वी, यशस्वी ।
तसाविति किम् ? तक्षवान् ग्रामः ।।
</1-4-19>
अयस्मयादीनिच्छन्दसि ।। <1-4-20> ।।
</1-4-20>
अयस्मयादीनि शब्दरूपाणि छन्दसि विषये साधूनि भवन्ति । भपदसंज्ञाधिकारे विधानात्तेन मुखेन साधुत्वमयस्मयादीनां विधीयते । `अयस्मयं वर्म(पै.<1-37-5>) । `अयस्मयानि पात्त्राणि(कौ.सू.8118) । क्वचिदुभयमपि भवति--स सुष्टुभा सऋक्वता गणेन । पदत्वात्कुत्वं भत्वाज्जश्त्वं न भवति ।
छन्दसीति किम् ? अयोमयं वर्म । आकृतिगणोऽयम् ।।
</1-37-5>
बहुषु बहुवचनम् ।। <1-4-21> ।।
ङ्याप्प्रातिपदिकात्स्वादयः, लस्य तिबादय इति सामान्येन बहुवचनं विहितम्, तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनं भवति । बहुत्वमस्य वाच्यं भवतीति यावत् ।
कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः, तदीये बहुत्वे बहुवचनम्, कर्मादिषु बहुषु बहुवचनमित्यर्थः । ब्राह्मणाः पठन्ति ।
यत्र च संख्या सम्भवति, तत्रायमुपदेशः । अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव ।।
</1-4-21>
द्व्येकयोर्द्विवचनैकवचने ।। <1-4-22> ।।
द्वित्वैकत्वयोरर्थयोर्द्विवचनैकवचने भवतः । एतदपि सामान्यविहितयोर्द्विवचनैकवचनयोरर्थाभिधानम् । द्वित्वे द्विवचनं भवति, एकत्वे एकवचनं भवति । ब्राह्मणौ पचतः । ब्राह्मणः पचति ।।
</1-4-22>
कारके ।। <1-4-23> ।।
`कारके इति विशेषणमपादानादिसंज्ञाविषयमधिक्रियते । `कारके इत्यधिकारो वेदितव्यः-यदित ऊर्ध्वमनुक्रमिष्यामः कारके इत्येवं तद्वेदितव्यम् ।
कारकशब्दश्च निमित्तपर्यायः । कारकम्, हेतुरित्यनर्थान्तरम् । कस्य हेतुः ? क्रियायाः । वक्ष्यति-ध्रुवमपायेऽपादानम्(1-4-24/586), ग्रामादागच्छति । पर्वतादवरोहति ।
कारक इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्‍डः पतति ।
`अकथितं च(1-4-51/539) । अकथितं च कारकं कर्मसंज्ञं भवति । माणवकं पन्थानं पृच्छति ।
कारक इति किम् ? माणवकं पन्थानं पृच्छति ।
कारक इति किम् ? माणवकस्य पितरं पन्थानं पृच्छति ।
कारकसंशब्दनेषु चानेनैव विशेषणेन व्यवहारो विज्ञायते ।।
</1-4-23>
ध्रुवमपायेऽपादानम् ।। <1-4-24> ।।
ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत्कारकमपादानसंज्ञं भवति । ग्रामादागच्छति । पर्वतादवरोहति । सार्थाद्धीनः । रथात्पतितः ।
* जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् *(म.भा.1.326) । अधर्माज्जुगुप्सते । अधर्माद्विरमति । धर्मात्प्रमाद्यति ।
अपादानप्रदेशाः-अपादाने पञ्चमी(2-3-28/587) इत्येवमादयः ।।
</1-4-24>
भीत्रार्थानां भयहेतुः ।। <1-4-25> ।।
बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यस्तत्कारकमपादानसंज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्यर्थानाम्--चौरेभ्यस्त्रायते । चौरेभ्यो रक्षति ।
भयहेतुरिति किम् ? अरण्ये बिभेति । अरण्ये त्रायते ।।
</1-4-25>
पराजेरसोढः ।। <1-4-26> ।।
परापूर्वस्य जयतेः प्रयोगेऽसोढो योऽर्थः-सोढुं न शक्यते, तत्कारकमपादानसंज्ञं भवति । अध्ययनात्पराजयते ।
असोढ इति किम् ? शत्रून्पराजयते ।।
</1-4-26>
वारणार्थानामीप्सितः ।। <1-4-27> ।।
वारणार्थानां धतूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकमपादानसंज्ञं भवति । प्रवृत्तिविघातः = वारणम् । यवेभ्यो गां वारयति । यवेभ्यो गा निवर्त्तयति ।
ईप्सित इति किम् ? यवेभ्यो गां वारयति क्षेत्रे ।।
</1-4-27>
अन्तर्द्धौ येनादर्शनमिच्छति ।। <1-4-28> ।।
व्यवधानम् = अन्तर्द्धिः । अन्तर्द्धिनिमित्तं येनादर्शनमात्मन इच्छति तत्कारकमपादानसंज्ञं भवति । उपाध्यायादन्तर्द्धत्ते । उपाध्यायान्निलीयते । मा मामुपाध्यायो द्राक्षीदिति निलीयते ।
अन्तर्द्धाविति किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ।।
</1-4-28>
आख्यातोपयोगे ।। <1-4-29> ।।
आख्याता = प्रतिपादयिता । उपयोगः = नियमपूर्वकं विद्याग्रहणम् । उपयोगे साध्ये य आख्याता तत्कारकमपादानसंज्ञं भवति । उपाध्यायादधीते । उपाध्यायादागमयति ।
उपयोग इति किम् ? नटस्य गाथां श्रृणोति ।।
</1-4-29>
जनिकर्तुः प्रकृतिः ।। <1-4-30> ।।
जनेः कर्त्ता जनिकर्त्ता । जन्यर्थस्य जन्मनः कर्त्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत् कारकमपादानसंज्ञं भवति । श्रृङ्गाच्छरो जायते । गोमयाद् वृश्चिको जायते ।।
</1-4-30>
भुवः प्रभवः ।। <1-4-31> ।।
`कर्तुः इति वर्तते । भवनं भूः । भवत्यस्मादिति प्रभवः । भूकर्तुः प्रभवो यस्तत्कारकमपादानसंज्ञं भवति । हिमवतो गङ्गा प्रभवति । काश्मीरेभ्यो वितस्ता प्रभवति । प्रथमत उपलभ्यत इत्यर्थः ।।
</1-4-31>
कर्मणा यमभिप्रैति स संप्रदानम् ।। <1-4-32> ।।
कर्मणा करणभूतेन कर्त्ता यमभिप्रैति तत्कारकं सम्प्रदानसंज्ञं भवति । अन्वर्थसंज्ञाविज्ञानाद्ददातिकर्मणेति विज्ञायते । उपाध्यायाय गां ददाति । माणवकाय भिक्षां ददाति ।
* क्रियाग्रहणमपि कर्तव्यम् *(म.भा.1.330) । क्रिययापि यमभिप्रैति स सम्प्रदानम् । श्राद्धाय निगल्हते । युद्धाय सन्नह्यते । पत्ये शेते ।
सम्प्रदानप्रदेशाः-चतुर्थी सम्प्रदाने(2-3-13/570) इत्येवमादयः ।।
* कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा *(म.भा.1.331) । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ।।
</1-4-32>
रुच्यर्थानां प्रीयमाणः ।। <1-4-33> ।।
रुचिना समानार्था रुच्यर्थाः । अन्यकर्तृकोऽभिलाषः = रुचिः । रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदतेऽपूपः । देवदत्तस्थस्याभिलाषस्य मोदकः कर्त्ता ।
प्रीयमाण इति किम् ? देवदत्ताय रोचते मोदकः पथि ।।
</1-4-33>
श्लाघह्‌नुङ्‌स्थाशपां ज्ञीप्स्यमानः ।। <1-4-34> ।।
श्र्लाघ-ह्रुङ्‌-स्था-शप--इत्येतेषां ज्ञीप्स्यमानो योऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । ज्ञीप्स्यमानः - ज्ञपयितुमिष्यमाणः, बोधयितुमभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्र्लाघमानस्तां श्र्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थः । एवं देवदत्ताय ह्नुते । देवदत्ताय तिष्ठते, यज्ञदत्ताय तिष्ठते । देवदत्ताय शपते, यज्ञदत्ताय शपते ।
ज्ञीप्स्यमान इति किम् ? देवदत्तः श्‌लाघते ।।
</1-4-34>
धारेरुत्तमर्णः ।। <1-4-35> ।।
धारयतेः प्रयोगे उत्तमर्णो योऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । उत्तममृणं यस्य स उत्तमर्णः । कस्य चोत्तममृणम् ? यदीयं धनम्। धनस्वामी प्रयोक्ता उत्तमर्णः, स संप्रदासंज्ञो भवति । देवदत्ताय शतं धारयति । यज्ञदत्ताय शतं धारयति ।
उत्तमर्ण इति किम् ? देवदत्ताय शतं धारयति ग्रामे ।।
</1-4-35>
स्पृहेरीप्सितः ।। <1-4-36> ।।
`स्पृह ईप्सायाम्(धा.पा.1872) चुरादावदन्तः पठ्यते । तस्य ईप्सितो योऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । `ईप्सितः इत्यभिप्रेत उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति ।
ईप्सित इति किम् ? पुष्पेभ्यो वने स्पृहयति ।।
</1-4-36>
क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ।। <1-4-37> ।।
अमर्षः = क्रोधः । अपकारः = द्रोहः । अक्षमा = ईर्ष्या । गुणेषु दोषाविष्करणम् = असूया । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपस्तत्कारकं संप्रदानसंज्ञं भवति । क्रोधस्तावत्कोप एव, द्रोहादयोऽपि कोपप्रभावा एव गृह्यन्ते । तस्मात्सामन्येन विशेषणम्-यं प्रति कोप इति । देवदत्ताय क्रुद्ध्यति । देवदत्ताय द्रुह्यति । देवदत्तायेर्ष्यति । देवदत्तायासूयति ।
यं प्रति कोप इति किम् ? भार्यामीर्ष्यति-मैनामन्यो द्राक्षीदिति ।।
</1-4-37>
क्रुधद्रुहोरुपसृष्टयोः कर्मः ।। <1-4-38> ।।
पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं भवति । देवत्तमभिक्रुध्यति। देवदत्तमभिद्रुह्यति ।
उपसृष्टयोरिति किम् ? देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ।।
</1-4-38>
राधीक्ष्योर्यस्य विप्रश्नः ।। <1-4-39> ।।
राधेरीक्षेश्च कारकं संप्रदानसंज्ञं भवति । कीदृशम् ? यस्य विप्रश्नः । विविधः प्रश्नः = विप्रश्नः । स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्तायेक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः ।।
</1-4-39>
प्रत्याङ्‌भ्यां श्रुवः पूर्वस्य कर्त्ता ।। <1-4-40> ।।
प्रति-आङ्‌-इत्येवम्पूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति, कीदृशम् ? पूर्वस्य कर्त्ता । प्रतिपूर्व आङ्‌पूर्वश्च शृणोतिरभ्युपगमे = प्रतिज्ञाने वर्त्तते । स चाभ्युपगमः परेण प्रयुक्तस्य सतो भवति । तत्र प्रयोक्ता पर्वस्याः क्रियायाः कर्त्ता सगंप्रदानसंज्ञो भवति । देवदत्ताय गां प्रतिशृणोति, देवदत्ताय गामाशृणोति । प्रतिजानीत इत्यर्थः ।।
</1-4-40>
अनुप्रतिगृणश्च ।। <1-4-41> ।।
`पूर्वस्य कर्ता इति वर्त्तते । अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायाः कर्तृभूतं संप्रदानसंज्ञं भवति । होत्रेऽनुगृणाति । होता प्रथमं शंसति तमन्यः प्रोत्साहति । अनुगरः, प्रतिगरः इति हि शंसितुः प्रोत्साहने वर्त्ते । होतारं शंसन्तं प्रोत्साहयतीत्यर्थः ।।
</1-4-41>
साधकतमं करणम् ।। <1-4-42> ।।
क्रियासिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसंज्ञं भवति । दात्रेण लुनाति । परशुना छिनत्ति ।
तमब्ग्रहणं किम् ? गङ्गायां घोषः । कूपे गर्गकुलम् ।
करणप्रदेषाः -कर्तृकरणयोस्तृतीया(2-3-18/561) इत्येवमादयः ।।
</1-4-42>
दिवः कर्म च ।। <1-4-43> ।।
पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । दिवः साधकतमं यत्कारकं तत्कर्मसंज्ञं भवति, चकारात्करणसंज्ञं च । अक्षान्दीव्यति, अक्षैर्दीव्यति ।।
</1-4-43>
परिक्रयणे संप्रदानमन्यतरस्याम् ।। <1-4-44> ।।
`साधकतमम् इति वर्तते । पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा पक्षे विधीयते । परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति । परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नात्यन्तिकः क्रय एव । शतेन परिक्रीतोऽनुब्रूहि । शताय परिक्रीतोऽनुब्रूहि । सहस्रेण परिक्रीतोऽनुब्रूहि । सहस्राय परिक्रीतोऽनुब्रूहि ।
</1-4-44>
आधारोऽधिकरणम् ।। <1-4-45> ।।
आध्रियन्तेऽस्मिन् क्रिया इत्याधारः । कर्तृकर्मणोः क्रियाश्रयभूतयोर्धारणक्रियां प्रति य आधारस्तत्कारकमधिकरणसंज्ञं भवति । कटे आस्ते । कटे शेते । स्थाल्यां पचति ।
अधिकरणप्रदेशाः-सप्तम्यधिकरणे च(2-3-36/633) इत्येवमादयः ।।
</1-4-45>
अधिशीङ्‌स्थासां कर्म ।। <1-4-46> ।।
पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । अधिपूर्वाणां शीङ् स्था-आस्-इत्येतेषामाधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममधिशेते । ग्राममधितिष्ठति । पर्वतमध्यास्ते ।।
</1-4-46>
अभिनिविशश्च ।। <1-4-47> ।।
अभि-निपूर्वस्य विशतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममभिनिविशते ।
कथं कल्याणेऽभिनिवेशः, पापेभिनिवेशः, या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशत इति । `अन्यतरस्याम् इति वर्त्तते, परिक्रयणे सम्प्रदानमन्यतरस्याम्(1-4-44/580) इत्यतः । सा च व्यस्थितविभाषा विज्ञायते ।।
</1-4-47>
उपान्वध्याङ्‌वसः ।। <1-4-48> ।।
उप-अनु-अधि-आङ्‌-इत्येवम्पूर्वस्य वसतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममुपवसति सेना, पर्वतमुपवसति । ग्राममनुवसति सेना, ग्राममधिवसति, ग्राममावसति ।।

  • वसेरश्यर्थस्य प्रतिषेधो वक्तव्य *(म.भा.1.332) । ग्रामे उपवसति । भोजननिवृत्तिं करोतीत्यर्थः ।।

</1-4-48>
कर्तुरीप्सिततमं कर्म ।। <1-4-49> ।।
कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसंज्ञं भवति । कटं करोति । ग्रामं गच्छति ।
कर्तुरिति किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न कर्तुः । तमब्ग्रहणं किम् ? पयसौदनं भुङ्‌क्ते ।
कर्मेत्यनुवर्तमाने पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । इतरथा आधारस्यैव हि स्यात्--गेहं प्रविशतीति; ओदनं पचति, सक्तून्पिबतीत्यादिषु न स्यात् । पुनः कर्मग्रहणात् सर्वत्र सिद्धं भवति ।
कर्मप्रदेशाः--कर्मणि द्वितीया(2-3-2/537) इत्येवमादयः ।।
</1-4-49>
तथायुक्तं चानीप्सितम् ।। <1-4-50> ।।
येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते तेनैव चेत्प्रकारेण यदनीप्सितं युक्तं भवति तस्य कर्मसंज्ञा विधीयते ।
ईप्सितादन्यत्सर्वमनीप्सितम्-द्वेष्यम्, इतरच्च । विषं भक्षयति । चौरान्पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ।।
</1-4-50>
अकथितं च ।। <1-4-51> ।।
अकथितं च यत्कारकं तत्कर्मसंज्ञं भवति । केनाकथितम् ? अपादानादिविशेषकथाभिः । परिगणर्न कर्त्तव्यम्--
`दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ ।
ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ।।(म.भा.1.334)
उपयुज्यत इत्युपयोगः = पयः प्रभृति, तस्य निमित्तं गवादि, तस्योपयुज्यमानपयः प्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते । पाणिना कांस्यपात्र्यां गां दोग्धि पयः । पाण्यादिकमप्युपयोगनिमित्तं तस्य कस्मान्न भवति ? नैतदस्ति; विहिता हि तत्र करणादिसंज्ञा, तदर्थमाह--अपूर्वविधाविति ।
ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म धर्मादिकम्, तेन यत्संबध्यते, तदकीर्तितमाचरितं कविना = तदकथितमुक्तं सूत्रकारेण ।
दुहि-गां दोग्धि पयः । याचि-पौरवं गां याचते । रुधि-गामवरुणद्धि व्रजम् । प्रच्छि-माणवकं पन्थानं पृच्छति । भिक्षि-पौरवं गां भिक्षते । चिञ्-वृक्षमवचिनोति फलानि । ब्रुवि - माणवकं धर्मं ब्रूते । शासि-माणवकं धर्ममनुशास्ति ।।
</1-4-51>
गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ ।। <1-4-52> ।।
अर्थशब्दः प्रत्येकमभिसम्बध्यते । गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां च अण्यन्तानां यः कर्त्ता स ण्यन्तानां कर्मसंज्ञो भवति । गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम् । याति माणवको ग्रामम्, यापयति माणवकं ग्रामम् ।
* गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः * (म.भा.1.335)। नयति भारं देवदत्तः । नाययति भारं देवदत्तेन । वहति भारं देवदत्तः, वाहयति भारं देदत्तेन ।।
* वहेरनियन्तृकर्तृकस्येति वक्तव्यम् *(म.भा.1.337) । इह प्रतिषेधो मा भूत्-वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति । बुद्धि--बुध्यते माणवको धर्मम्, बोधयति माणवकं धर्मम् । वेत्ति माणवको धर्मम्, वेदयति माणवको धर्मम् । प्रत्यवसानम् = अभ्यवहारः -भुङ्‌क्ते माणवक ओदनम्, भोजयति माणवकमोदनम् । अश्नाति माणवक ओदनम्, आशयति माणवकमोदनम् ।।
* आदिखाद्योः प्रतिषेधो वक्तव्यः *(म.भा.1.337) । अत्ति माणवक ओदनम्, आदयते माणवकेनौदनम् । खादति माणवकः, खादयति माणवकेन ।
* भिक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः *(म.भा.1.337) । भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेनेति ।
अहिंसार्थस्येति किम् ? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान्सस्यम् ।
शब्दकर्मणाम्--अधीते माणवको वेदम्, अध्यापयति माणवकं वेदम् । पठति माणवको वेदम्, पाठयति माणवकं वेदम् । अकर्मकाणाम्--आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् ।
एतेषामिति किम् ? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेनेति । अण्यन्तानामिति किम् ? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्‌क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।।
</1-4-52>
हृक्रोरन्यतरस्याम् ।। <1-4-53> ।।
`अणि कर्त्ता स णौ इति वर्तते । हरतेः करोतेश्चाण्यन्तयोर्यः कर्त्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति । हरति भारं माणवकः, हारयति भारं माणवकं माणवकेनेति वा । करोति कटं देवदत्तः, कारयति कटं देवदत्तं देवदत्तेनेति वा ।
* अभिवादिदृशेरात्मनेपद उपसंख्यानम् *(म.भा.1.338) । अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तम्, देवदत्तेनेति वा । पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैरिति वा ।
आत्मनेपद इति किम् ? दर्शयति चैत्रं मैत्रमपरः--प्राप्तविकल्पत्वाद् द्वितीयैव । अभिवादयति गुरुं माणवकेन पिता-अप्राप्तविकल्पत्वात्तृतीयैव ।।
</1-4-53>
स्वतन्त्रः कर्ता ।। <1-4-54> ।।
`स्वतन्त्रः इति प्रधानभूत उच्यते । अगुणभूतो यः क्रियासिद्धौ स्वातन्त्र्येण विवक्ष्यते तत्कारकं कर्तृसंज्ञं भवति । देवदत्तः पचति । स्थाली पचति ।
कर्तृप्रदेशाः--कर्तृकरणयोस्तृतीया(2-3-18/561) इत्येवमादयः ।।
</1-4-54>
तत्प्रयोजको हेतुश्च ।। <1-4-55> ।।
तदिति अनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकः = तत्प्रयोजकः निपातनात्समासः । स्वतन्त्रस्य प्रयोजको योऽर्थः तत्कारकं हेतुसंज्ञं भवति, चकारात्कर्तृसंज्ञं च ।
संज्ञासमावेशार्थश्चकारः । कुर्वाणं प्रयुङ्‌क्ते, कारयति । हारयति । हेतुत्वाद् णिचो निमित्तं कर्तृत्वाच्च कर्तृप्रत्ययेनोच्यते ।
हेतुप्रदेशाः-हेतुमति च(3-1-26/2576) इत्येवमादयः ।।
</1-4-55>
प्रागीश्वरान्निपाताः ।। <1-4-56> ।।
अधिरीश्वरे(1-4-97/644) इति वक्ष्यति । प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः, निपातसंज्ञास्ते वेदितव्याः । वक्ष्यति--चादयोऽसत्त्वे(1-4-57/20) च, वा, ह, अह ।
प्राग्वचनं संज्ञासमावेशार्थम् । गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिस्सह निपातसंज्ञा समाविशति । रेफोच्चारणम् ईश्वरे तोसुन्कसुनौ(3-4-13/3440) इत्ययमवधिर्मा विज्ञायीति ।।
`रीश्वराद्वीश्वरान्मा भूत् कृन्मेजन्तः परोऽपि सः ।
समासेष्वव्ययीभावो लौकिकं चातिवर्तते ।।(म.भा.1.340)
</1-4-56>
चादयोऽसत्त्वे ।। <1-4-57> ।।
चादयो निपातसंज्ञा भवन्ति, न चेत्सत्त्वे वर्तन्ते । प्रसज्यप्रतिषेधोऽयम् । `सत्त्वम् इति द्रव्यमुच्यते ।
च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । सूपत् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिम् । नकिम् । माङ्‌ । माङो ङकारो विशेषणार्थः--माङि लुङ्‌(3-3-175/2219) इति, इह न भवति-मा भवतु, मा भविष्यति । नञ् । यावत् । तावत् । त्वा । त्वै । द्वै । रै । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । ओम् । किल । तथा । अथ । सु । स्म । अस्मि । अ । इ । उ । ऋ । लृ । ए । ए । ओ । औ । अम् । तक् । उञ् । उकञ् । वेलायाम् । मात्रायाम् । यथा । यत् । यम् । तत् । किम् । पुरा । अद्धा । धिक् । हाहा । हे । है । प्याट् । पाट् । थाट् । अहो । उताहो । हो । तुम् । तथाहि । खलु । आम् । आहो । अथो । ननु । मन्ये । मिथ्या । असि । ब्रूहि । तु । नु । इति । इव । वत् । चन । बत । इह । आम् । शम् । कम् । अनुकम् । नहिकम् । हिकम् । सुकम् । सत्यम् । ऋतम् । श्रद्धा । इद्धा । मुधा । नोचेत् । नचेत् । नहि । जातु । कथम् । कुतः । कुत्र । अव । अनु । हाहौ । हैहा । ईहा । आहोस्वित् । छम्बट् । खम् । दिष्ट्या । पशु । वट् । सह । आनुषक् । अङ्ग । फट् । ताजक् । अये । अरे । चटु । बाट् । कुम् । खुम् । घुम् । हुम् । आईम् । शीम् । सीम् । वै ।
उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः(ग.सू.16) । उपसर्गप्रतिरूपकाः-
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ।।
अच उपसर्गात्तः(7-4-48/3078) इति तत्वं न भवति । दुर्नीतम् । दुर्नयः । दुर्निर्णयः । उपसर्गात्(8-4-14/2287) इति णत्वं न भवति ।
असत्त्व इति किम् ? पशुर्वै पुरुषः । पशुः पुरोडाशः ।
निपातप्रदेशाः-स्वरादिनिपातमव्ययम्(1.137/447) इत्येवमादयः ।।
</1-4-57>
प्रादयः ।। <1-4-58> ।।
प्रादयोऽसत्त्वे निपातसंज्ञा भवन्ति ।
प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उत् । अभि । प्रति । परि । उप ।
पृथग्योगकरणमुत्तरसंज्ञाविशेषणार्थम् । उपसर्गाः क्रियायोगे(1-4-59/22) इति चादीनामुपसर्गसंज्ञा मा भूत् । असत्त्व इत्येव-परा जयन्ति सेनाः ।।
</1-4-58>
उपसर्गाः क्रियायोगे ।। <1-4-59> ।।
प्रादयः क्रियायोगे उपसर्गसंज्ञा भवन्ति । प्रणयति, परिणयति । प्रणायकः, परिणायकः ।
क्रियायोग इति किम् ? प्रगतो नायकोऽस्माद्देशात् प्रनायको देशः ।
* मरुच्छशब्दस्य चोपसंख्यानं कर्तव्यम् *(म.भा.1.341) । मरुद्भिर्दत्तो मरुत्तः । संज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि अच उपसर्गात्तः(7-4-47/3078) इति तत्त्वं भवति ।

  • श्रच्छब्दस्योपसंख्यानम् * (म.भा.1.341)। आतश्चोपसर्गे(3-3-106/3283) इत्यङ् भवति--श्रद्धा ।

उपसर्गप्रदेशाः--उपसर्गे घोः किः(3-3-93/3270) इत्येवमादयः ।।
</1-4-59>
गतिश्च ।। <1-4-60> ।।
गतिसंज्ञकाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रकृतम् । यत्प्रकरोति ।
योगविभाग उत्तरार्थः । उत्तरत्र गतिसंज्ञैव यथा स्यात्, उपसर्गसंज्ञा मा भूत् । ऊरीस्यादित्यत्र उपसर्गप्रादुर्भ्यामस्तिर्यच्परः(8-3-87/2472) इति षत्वं प्रसज्येत ।
चकारः संज्ञासमावेशार्थः । प्रणीतम् । अभिषिक्तम् । गतिरनन्तरः(6-2-49/3783) इति स्वरः, उपसर्गात्(8-4-14/2287)(8-3-65/2270) इति णत्वषत्वे च भवतः ।
* कारिकाशब्दस्योपसख्यानम् * ()। कारिकाकृत्य । कारिकाकृतम् । यत्कारिकाकरोति ।
</1-4-60>
<K.1.598> * पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् *(म.भा.1.342) । पनरुत्स्यूतं वासो देयम् (मै.<1-7-2>)। गतिर्गतौ(8-1-70/3977) इति निघातो भवति । `चनोहितः(ऋ.<3-11-2>) । गतिरनन्तरः(6-2-49/3783) इति स्वरः ।
गतिप्रदेशाः-कुगतिप्रादयः(2-2-18/761) इत्येवमादयः ।।
</1-7-2>
ऊर्यादिच्विडाचश्च ।। <1-4-61> ।।
ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । च्विडाचोः कृभ्वस्तियोगे विधानम्, तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते ।
<K.1.599> ऊरीउररीशब्दावङ्गीकरणे विस्तारे च । ऊरीकृत्य, ऊरीकृतम्, यदूरीकरोति । उररीकृत्य, उररीकृतम्, यदुररीकरोति ।
पापी । ताली । आताली । वेताली । धूसी । शकला । संशकला । ध्वंसकला । भ्रंशकला । एते शकलादयो हिंसायाम् । शकलाकृत्य । संशकलाकृत्य । ध्वंसकलाकृत्य । भ्रंशकलाकृत्य ।
गुलुगुधा पीडार्थे । गुलुगुधाकृत्य ।
सजूः सहार्थे । सजूःकृत्य ।
फलू, फली, विक्ली, आक्ली - इति विकारे । फलूकृत्य । फलीकृत्य । विक्लीकृत्य । आक्लीकृत्य ।
आलोष्टी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा - एते हिंसायाम् ।
वषट् । वौषट् । श्रौषट् । स्वाहा । स्वधा । बन्धा । प्रादुस् । श्रुत् । आविस् । <K.1.600> च्व्यन्ताः खल्वपि -- शुक्लीकृत्य । शुक्लीकृतम् । यच्छुक्लीकरोति । डाच् -- पटपटाकृत्य । पटपटाकृतम् । यत्पटपटाकरोति ।।
</1-4-61>
अनुकरणं चानितिपरम् ।। <1-4-62> ।।
इतिः परो यस्मादिति बहुव्रीहिः । अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति । खाट्कृत्य । खाट्कृतम् । यत्खाट्‌करोति ।
अनितिपरमिति किम् ? खाडिति कृत्वा निरष्ठीवत् ।।
</1-4-62>
आदरानादरयोः सदसती ।। <1-4-63> ।।
प्रीत्यतिशयः = आदरः । परिभवौदासीन्यम् = अनादरः । <K.1.602> आदरानादरयोर्यथाक्रमं
सदसच्छब्दौ गतिसंज्ञौ भवतः । सत्कृत्य, सत्कृतम्, यत्सत्करोति । असत्कृत्य, असत्कृतम्, यदसत्करोति ।
आदरानादरयोरिति किम् ? सत्कृत्वा काण्डं गतः । असत्कृत्वा काण्डं गतः ।।
</1-4-63>
भूषणेऽलम् ।। <1-4-64> ।।
<K.1.603> `अलम् इति प्रतिषेधे सामर्थ्ये पर्याप्तौ भूषणे चेति विशेषणमुपादीयते । भूषणे योऽलंशब्दः स गतिसंज्ञो भवति । अलंकृत्य, अङ्लकृतम्, यदलङ्करोति ।
भूषण इति किम् ? अलं भुक्त्वा ओदनं गतः ।।
</1-4-64>
अन्तरपरिग्रहे ।। <1-4-65> ।।
अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसंज्ञो भवति । परिग्रहः = स्वीकरणम्, तदभावे गतिसंज्ञा विधीयते । अन्तर्हत्य, अन्तर्हतम्, यदन्तर्हन्ति ।
अपरिग्रह इति किम् ? अन्तर्हत्वा मूषिकां श्येनो गतः । परिगृह्य गत इत्यर्थः ।
* अन्तःशब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञा वक्तव्या *। अन्तर्द्धा । अन्तर्द्धिः । अन्तर्णयति ।।
</1-4-65>
कणेमनसी श्रद्धाप्रतीघाते ।। <1-4-66> ।।
<K.1.604>
कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत्पिबति यावदस्याभिलाषो निवृत्तः । श्रद्धा प्रतिहतेत्यर्थः ।
श्रद्धाप्रतीघात इति किम् ? कणे हत्वा गतः । मनो हत्वा गतः ।।
</1-4-66>
पुरोऽव्ययम् ।। <1-4-67> ।।
असिप्रत्ययान्तः पुरःशब्दोऽव्ययम् । स गतिसंज्ञो भवति । समासस्वरोपचाराः प्रयोजनम् । पुरस्कृत्य, पुरस्कृतम्, यत्पुरस्करोति ।
अव्ययमिति किम् ? पूः पुरौ, पुरः कृत्वा काण्डं गतः ।।
</1-4-67>
<K.1.605>
अस्तं च ।। <1-4-68> ।।
अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्त्तते । स गतिसंज्ञो भवति । अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तं गच्छति । अव्ययमित्येव -- अस्तं काण्डम् । क्षिप्तमित्यर्थः ।।
</1-4-68>
अच्छ गत्यर्थवदेषु ।। <1-4-69> ।।
अच्छशब्दोऽव्ययमभिशब्दस्यार्थे वर्त्तते । स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति । अच्छगत्य, अच्छगतम्, यदच्छगच्छति । वदतौ -- अच्छोद्य, अच्छोदितम्, यदच्छवदति । अव्ययमित्येव -- उदकमच्छं गच्छति ।।
</1-4-69>
<K.1.606>
अदोऽनुपदेशे ।। <1-4-70> ।।
अदःशब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसंज्ञो भवति । उपदेशः = परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सोऽस्य विषयः । अदःकृत्य, अदःकृतम्, यददःकरोति ।
अनुपदेश इति किम् ? अदः कृत्वा काण्डं गत इति परस्य कथयति ।।
</1-4-70>
तिरोऽन्तर्धौ ।। <1-4-71> ।।
अन्तर्धिः = व्यवधानम् । तत्र तिरःशब्दो गतिसंज्ञो भवति । तिरोभूय, तिरोभूतम्, यत्तिरोभवति ।
अन्तर्धाविति किम् ? तिरो भूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ।।
</1-4-71>
विभाषा कृञि ।। <1-4-72> ।।
`अन्तर्धौ इति वर्तते । प्राप्तविभाषेयम् । तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति । तिरःकृत्य, तिरस्कृत्य । तिरस्कृतम् । यत्तिरस्करोति । तिरः कृत्वा, तिरस्कृत्वा । अन्तर्धावित्येव -- तिरः कृत्वा काष्ठं तिष्ठति ।।
</1-4-72>
<K.1.607>
उपाजेऽन्वाजे ।। <1-4-73> ।।
`विभाषा कृञि इति वर्तते । उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते । तौ कृञि विभाषा गतिसंज्ञौ भवतः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ।।
</1-4-73>
साक्षात्प्रभृतीनि च ।। <1-4-74> ।।
`विभाषा कृञि इति वर्त्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति ।
* साक्षात्प्रभृतिषु च्व्यर्थवचनम् * । साक्षात्कृत्य, साक्षात् कृत्वा । मिथ्याकृत्य, मिथ्या क़ृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचना । विभाषा । संपत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंनियोगेन लवणादीनां मकारान्तत्वं निपात्यते । अग्नौ । वशे । विकम्पने । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस् ।।
</1-4-74>
<K.1.608>
अनत्याधान उरसिमनसी ।। <1-4-75> ।।
`विभाषा कृञि इति वर्त्तते । अत्याधानम् = उपश्लेषणम्, तदभावेऽनत्याधाने उरसिमनसी शब्दौ विबाषा कृञि गतिसंज्ञौ भवतः । उरसिकृत्य, उरसि कृत्वा । मनसिकृत्य, मनसि कृत्वा ।
अनत्याधान इति किम् ? उरसि कृत्वा पाणिं शेते ।।
</1-4-75>
<K.1.609>
मध्ये पदे निवचने च ।। <1-4-76> ।।
`विभाषा कृञि इति वर्त्तते । चकाराद् `अनत्याधाने इति च । मध्ये, पदे, निवचने -- इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसंज्ञा भवन्ति । मध्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनम् = वचनाभावः । निवचनेकृत्य, निवचने कृत्वा । वाचं नियम्येत्यर्थः । अनत्याधान इत्येव -- हस्तिनः पदे कृत्वा शिरः शेते ।।
</1-4-76>
नित्यं हस्ते पाणावुपयमने ।। <1-4-77> ।।
`कृञि इति वर्तते । `हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमने । उपयमनम् = दारकर्म। पाणौकृत्य । हस्तेकृत्य । दारकर्म कृत्वेत्यर्थः ।
उपयमने इति किम् ? हस्ते कृत्वा कार्षापणं गतः ।।
</1-4-77>
प्राध्वं बन्धने ।। <1-4-78> ।।
`कृञि इति वर्तते । `प्राध्वम् इति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानुकूल्यं बन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति । प्राध्वंकृत्य ।
<K.1.610> बन्धन इति किम् ? प्राध्वं कृत्वा शकटं गतः ।।
</1-4-78>
जीविकोपनिषदावौपम्ये ।। <1-4-79> ।।
`कृञि इति वर्त्तते । जीविका, उपनिषत् -- इत्येतौ शब्दौ औपम्ये विषये कृञि गतिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य ।
<K.1.611> औपम्य इति किम् ? जीविकां कृत्वा गतः ।।
</1-4-79>
ते प्राग्धातोः ।। <1-4-80> ।।
ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः । तथा चैवोदाहृताः । `ते ग्रहणमुपसर्गार्थम् । गतयो ह्यनन्तराः ।।
</1-4-80>
छन्दसि परेऽपि ।। <1-4-81> ।।
प्राक् प्रयोगे प्राप्ते छन्दसि परेऽभ्यनुज्ञायन्ते । छन्दसि विषये गत्युपसर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च परेषां प्रयुज्यमानानां संज्ञाकार्यं किञ्चिदस्ति । केवलं परप्रयोगेऽपि क्रियायोग एषामस्तीति ज्ञाप्यते । याति नि हस्तिना । नियाति हस्तिना । हन्ति नि मुष्टिना । निहन्ति मुष्टिना ।।
</1-4-81>
व्यवहिताश्च ।। <1-4-82> ।।
</1-4-82>
व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते । आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः (ऋ.<3-45-1>)। आ याहि (ऋ.<6-16-10>)।।
</3-45-1>
कर्मप्रवचनीयाः ।। <1-4-83> ।।
`कर्मप्रवचनीयाः इत्यधिकारो वेदितव्याः । यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः । अधिरीश्वरे(1-4-97/644) इति यावद्वक्ष्यति ।
कर्मप्रवचनीयप्रदेशाः-कर्मप्रवचनीययुक्ते द्वितीया(2-3-8/548) इत्येवमादयः ।।
</1-4-83>
अनुर्लक्षणे ।। <1-4-84> ।।
अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । `शाकल्यस्य संहितामनु प्रावर्षत्(म.भा.1.346) । अनडुद्यज्ञमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चन्प्रजाः ।
किमर्थमिदमुच्यते, यावता लक्षणेत्थम्भूताख्यान(1-4-90/552) इति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा ? हेत्वर्थं तु वचनम्, हेतुतृतीयां बाधित्वा द्वितीयैव यथा स्यात् ।।
</1-4-84>
तृतीयार्थे ।। <1-4-85> ।।
अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । नदीमन्ववसिता सेना । पर्वतमन्ववसिता सेना । पर्वतेन सम्बद्धेत्यर्थः ।।
</1-4-85>
हीने ।। <1-4-86> ।।
`हीनः इति न्यून उच्यते, स चोत्कृष्टापेक्षः । तेनेयं हीनोत्कृष्टसम्बन्धे संज्ञा विज्ञायते । हीने द्योत्येऽयमनुः कर्मप्रवचनीयसंज्ञो भवति । अनुशाकटायनं वैयाकरणाः । अन्वर्जुनं योद्धारः ।।
</1-4-86>
उपोऽधिके च ।। <1-4-87> ।।
उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । उपखार्यां द्रोणः । उपनिष्के कार्षापणम् । हीने--उपशाकटायनं वैयाकरणाः ।।
</1-4-87>
अपपरी वर्जने ।। <1-4-88> ।।
अप-परी--शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः । प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः = वर्जनम् । अप त्रिगर्त्तेभ्यो वृष्टो देवः । परि परि त्रिगर्त्तेभ्यो वृष्टो देवः ।
वर्जन इति किम् ? ओदनं परिषिञ्चति ।।
</1-4-88>
आङ्‌ मर्यादावचने ।। <1-4-89> ।।
`आङ्‌ इत्येष शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति । अवधिः-- मर्यादा । वचनग्रहणादभिविधिरपि गृह्यते । आ पाटलिपुत्राद् वृष्टो देवः । आकुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः ।
मर्यादावचने इति किम् ? ईषदर्थे क्रियायोगे च मा भूत् ।।
</1-4-89>
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ।। <1-4-90> ।।
लक्षणे, इत्थंभूताख्याने, भागे, वीप्सायां च विषयभूतायाम्-प्रति, परि, अनु-इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति । लक्षणे तावत्-वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षमनु । इत्थम्भूताख्याने--साधुर्देवदत्तो मातरं प्रति । मातरं परि । मातरमनु । भागे--यदत्र मां प्रति स्यात् । मां परि स्यात् । मामनु स्यात् । वीप्सायाम्--वृक्षं वृक्षं प्रति सिञ्चति, परि सिञ्चति, अनु सिञ्चति ।
लक्षणादिष्विति किम् ? ओदनं परिषिञ्चति ।
अथ परिशब्दयोगे पञ्चमी कस्मान्न भवति--पञ्चम्यपाङ्‌परिभिः(2-3-10/598) इति ? वर्जनविषये सा विधीयते, अपशब्दसाहचर्यात् ।
</1-4-90>
अभिरभागे ।। <1-4-91> ।।
लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति । वृक्षमभि विद्योतते । साधुर्देवदत्तो मातरमभि । वृक्षमभि सिञ्चति ।
अभागा इति किम् ? भागः स्वीक्रियमाणोंऽशः । यदत्र ममाभिष्यात् तद्दीयताम् । यदत्र मम भवति तद्दीयतामित्यर्थः ।।
</1-4-91>
प्रतिः प्रतिनिधिप्रतिदानयोः ।। <1-4-92> ।।
मुख्यसदृशः = प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनम् = प्रतिदानम् । प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ।।
</1-4-92>
अधिपरी अनर्थकौ ।। <1-4-93> ।।
अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति ।
गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते ।।
</1-4-93>
सुः पूजायाम् ।। <1-4-94> ।।
सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति । सुसिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसंज्ञाश्रयं षत्वं न भवति ।
पूजायामिति किम् ? सुषिक्तं किं तवात्र ।।
</1-4-94>
अतिरतिक्रमणे च ।। <1-4-95> ।।
अतिशब्दः अतिक्रमणे चकारात्पूजायां च कर्मप्रवचनीयसंज्ञो भवति । निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः = अतिक्रमणम् । अति सिक्तमेव भवता, अति स्तुतमेव भवता । पूजायाम्-अति सिक्तं भवता । अति स्तुतं भवता । शोभनं कृतमित्यर्थः ।
</1-4-95>
अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ।। <1-4-96> ।।
पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीयसंज्ञो भवति । पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः । सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा, बिन्दुः; स्तोकमित्यस्यार्थेऽपिशब्दो वर्त्तते । संभावनम् = अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् । अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः = कामचाराभ्यनुज्ञानम्-अपि सिञ्च, अपि स्तुहि । गर्हा = निन्दा-धिग्जाल्मं देवदत्तम्, अपि सिञ्चेत्पलाण्डुम्, अपि स्तुयाद् वृषलम् । समुच्चये--अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उपसर्गसंज्ञाबाधनात् षत्वं न भवति ।।
</1-4-96>
अधिरीश्वरे ।। <1-4-97> ।।
ईश्वरः = स्वामी, स च स्वमपेक्षते । तदयं स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति । तत्र कदाचित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ।।
</1-4-97>
विभाषा कृञि ।। <1-4-98> ।।
अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति । यदत्र मामधिकरिष्यति । कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवति(8-1-71/3978) इति निघातो न भवति ।।
</1-4-98>
लः परस्मैपदम् ।। <1-4-99> ।।
`लः इति षष्ठी आदेशापेक्षा । लादेशाः परस्मैपदसंज्ञा भवन्ति । तिप्, तस्, झि । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च ।
परस्मैपदप्रदेशाः--सिचि वृद्धिः परस्मैपदेषु(7-2-1/2297) इत्येवमादयः ।।
</1-4-99>
तङानावात्मनेपदम् ।। <1-4-100> ।।
`तङ् इति प्रत्याहारो नवानां वचनानाम् । `आन इति शानच्कानचोर्ग्रहणम् । पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते । त, आताम्,झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनः खल्वपि--शानच्कानचौ । `लः इत्येव--कतीह निघ्नानाः ।
आत्मनेपदप्रदेशाः--अनुदात्तङित आत्मनेपदम्(1-3-12/2157) इत्येवमादयः ।।
</1-4-100>
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ।। <1-4-101> ।।
तिङोऽष्टादश प्रत्ययाः-नव परस्मैपदसंज्ञकाः, नवात्मनेपदसंज्ञकाः । तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति । आत्मनेपदेष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति ।
तिप्, तस्, झि--इति प्रथमः । सिप्, थस्, थ--इति मध्यमः । मिप्, वस्, मस्--इत्युत्तमः ।
आत्मनेपदेषु-त, आताम्, झ-इति प्रथमः । थास्, आथाम्, ध्वम्-इति मध्यमः । इट्, वहि, महिङ्--इत्युत्तमः ।
प्रथममध्यमोत्तमप्रदेशाः--शेषे प्रथमः(1-4-108/2165) इत्येवमादयः ।।
</1-4-101>
तान्येकवचनद्विवचनबहुवचनान्येकशः ।। <1-4-102> ।।
तान्येकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति । एकशः = एकैकं पदम् । `तिप् इत्येकवचनम् । `तस् इति द्विवचनम् । `झि इति बहुवचनम् । एवं सर्वत्र ।
एकवचनद्विवचनबहुवचनप्रदेशाः-बहुषु बहुवचन(1-4-21/187)इत्येवमादयः ।।
</1-4-102>
सुपः ।। <1-4-103> ।।
तिडां त्रिकेष्वेकवचनादिसंज्ञा विहिताः, संप्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणि त्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति ।
`सु इत्येकवचनम् । `औ इति द्विवचनम् । `जस्इति बहुवचनम् । एवं सर्वत्र ।।
</1-4-103>
विभक्तिश्च ।। <1-4-104> ।।
`त्रीणि त्रीणि इत्यनुवर्तते । त्रीणि त्रीणि विभक्तिसंज्ञाश्च भवन्ति, सुपस्तिङश्च ।
विभक्तिप्रदेशाः--अष्टन आ विभक्तौ(7-2-84/371) इत्येवमादयः ।।
</1-4-104>
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ।। <1-4-105> ।।
लस्य(3-4-77/2153) इत्यधिकृत्य सामान्येन तिबादयो विहिताः, तेषामयं पुरुषनियमः क्रियते-युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भवति । त्वं पचसि, युवां पचथः, यूयं पचथ । अप्रयुज्यमानेऽपि--पचसि, पचथः, पचथ ।।
</1-4-105>
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ।। <1-4-106> ।।
प्रहासः = परिहासः, क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स चैकवद्भवति । एहि मन्ये ओदनं भोक्ष्यस इति, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते ।
प्रहास इति किम् ? एहि मन्यसे ओदनं भोक्ष्य इति । सुष्ठु मन्यसे, साधु मन्यसे ।।
</1-4-106>
अस्मद्युत्तमः ।। <1-4-107> ।।
उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः । अप्रयुज्यमानेऽपि--पचामि । पचावः पचामः ।।
</1-4-107>
शेषे प्रथमः ।। <1-4-108> ।।
`शेषे इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः, तत्र शेषे
प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ।।
</1-4-108>
परः संनिकर्षः संहिता ।। <1-4-109> ।।
परशब्दोऽतिशये वर्त्तते । संनिकर्षः = प्रत्यासत्तिः । परो यः संनिकर्षः = वर्णानामर्धमात्राकालव्यवधानम्, स संहितासंज्ञो भवति । दध्यत्र । मध्वत्र ।
संहिताप्रदेशाः--संहितायाम्(6-1-72/145) इत्येवमादयः ।।
</1-4-109>
विरामोऽवसानम् ।। <1-4-110> ।।
विरतिः = विरामः, विरम्यतेऽनेनेति वा विरामः । सोऽवसानसंज्ञो भवति । दधिं । मधुँ । वृक्षः । प्लक्षः ।
अवसानप्रदेशाः--खरवसानयोर्विसर्जनीयः(8-3-15/76) इत्येवमादयः ।।
        इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
               प्रथमाध्यायस्य चतुर्थः पादः ।।
</1-4-110>