काशिका/पञ्चमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

            ।। पञ्चमाध्याये प्रथमः पादः।।
प्राक् क्रीताच्छः ।। <5-1-1> ।।
तेन क्रीतम्(5-1-37/1702) इति वक्ष्यति, प्रागेतस्मात्क्रीतसंशब्दनाद्यानिति ऊर्ध्वमनुक्रमिष्यामश्छप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-तस्मै हितम्(5-1-5/1665) इति। वत्सेभ्यो हितो वत्सीयो गोधुक्। करभीय उष्ट्रः। अकरभीयः। अवत्सीयः।
     अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः। तेन `प्राक् ठञश्छः इति नोक्तम्।।

</5-1-1>
उगवादिभ्यो यत् ।। <5-1-2> ।।
`प्राक् क्रीतात् इत्येव। उवर्णान्तात्प्रातिपदिकाद् गवादिभ्यश्च यत्प्रत्ययो भवति, प्राक्क्रीतीयेष्वर्थेषु। छस्यापवादः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। गवादिभ्यः खल्वपि-गव्यम्। हविष्यम्। सनङ्गुर्नाम चर्मविकारः, ततः परत्वात् चर्मणोऽञ्(5-1-15/1677) इत्येष विधिः प्राप्नोति; तथा चरुर्नाम हविः; सक्तुः=अन्नविकारः, अपूपादिषु `अन्नविकारेभ्यश्च(ग.सू.109) इति पठ्यते, ततः विभाषा हविरपूपादिभ्यः(5-1-4/1664) इत्येष विधिः प्राप्नोति; तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यते--सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धाना इति।
     गवादिषु `नाभि नभं च इति पठ्यते, तस्यायमर्थः---`नाभिशब्दो यत्प्रत्ययमुत्पादयति नभं चादेशमापद्यते इति। नाभये हितो नभ्योऽक्षः। नभ्यमञ्जनम्। यस्तु शरीरावयवो नाभिशब्दः, ततः शरीरावयवाद्यत्(5-1-6/1666) इति यति कृते नाभये हितं नाभ्यं तैलमिति भवितव्यम्। गवादिषु यता सन्नियुक्तो नभभावोऽत्र न भवति।
     गो। हविस्। बर्हिष्। खट। अष्टका। युग। मेधा। स्रक्। * नाभि नभं च *(ग.सू.106)। * शुनः सम्प्रसारणं वा दीर्घत्वं च तत्सन्नियोगेन चान्तोदात्तत्वम् *(ग.सू.107)। शुन्यम्, शून्यम्। चकारस्यानुक्तसमुच्चयार्थत्वात् नस्तद्धिते(6-4-144/679) इति लोपो न स्यात्। * ऊधसोऽनङ् च *। ऊधन्यः कूपः। उदर। खर। स्खद। अक्षर। विष। गवादिः ।।

</5-1-2>
कम्बलाच्च संज्ञायाम् ।। <5-1-3> ।।
कम्बलात्प्राक्क्रीतीयेष्वर्थेषु यत्प्रत्ययो भवति संज्ञायां विषये। छस्यापवादः। कम्बल्यमूर्णापलशतम्। संज्ञायामिति किम्? कम्बलीया ऊर्णाः।

</5-1-3>
विभाषा हविरपूपादिभ्यः ।। <5-1-4> ।।
हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्राक्क्रीतीयेष्वर्थेषु विभाषा यत् प्रत्ययो भवति। आमिक्ष्यं दधि, आमिक्षीयं दधि। पुरोडाश्यास्तण्डुलाः, पुरोडाशीयाः। हविश्शब्दात्तु गवादिपाठान्नित्यमेव भवति। अपूपादिभ्यः--अपूप्यम्, अपूपीयम्। तण्डुल्यम्, तण्डुलीयम्।
     अपूप। तण्डुल। अभ्यूष। अभ्योष। पृथुक। अभ्येष। अर्गल। मुसल। सूप। कटक। कर्णवेष्टक। किण्व। *अन्नविकारेभ्यश्च*(ग.सू.109)। पूप। स्थूणा। पीप। अश्व। पत्त्र। अपूपादिः ।।

</5-1-4>
तस्मै हितम् ।। <5-1-5> ।।
`तस्मै इति चतुर्थीसमर्थाद् `हितम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः।
अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।।

</5-1-5>
शीरीरावयवाद्यत् ।। <5-1-6> ।।
शरीरम्=प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकाद्यत् प्रत्ययो भवति `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्।

</5-1-6>
खलयवमाषतिलवृषब्रह्मणश्च ।। <5-1-7> ।।
खलादिभ्यो यत्प्रत्ययो भवति `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। खलाय हितं खल्यम्। यव्यम्। माष्यम्। तिल्यम्। वृष्यम्। ब्रह्मण्यम्।
     वृष्णे हितम्, ब्राह्मणेभ्यो हितमिति वाक्यमेव भवति। छप्रत्ययोऽपि न भवति, अनभिधानात्।
     चकारोऽनुक्तसमुच्चयार्थः-रथाय हिता रथ्या।।

</5-1-7>
अजाविभ्यां थ्यन् ।। <5-1-8> ।।
अज, अवि-इत्येताभ्यां थ्यन् प्रत्ययो भवति `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। अजथ्या यूथिः। अविथ्या।।

</5-1-8>
आत्मन्विश्वजनभोगोत्तरपदात् खः ।। <5-1-9> ।।
आत्मन्, विश्वजन-इत्येताभ्यां भोगोत्तरपदाच्च प्रातिपदिकात्खः प्रत्ययो भवति `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। आत्मन् इति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेनोत्तरपदग्रहणं भोगशब्देनैव सम्बध्यते, न तु प्रत्येकम्। आत्मने हितम् आत्मनीनम्(पै.5-14-8)। आत्माध्वानौ खे(6-4-169/1671) इति प्रकृतिभावः। विश्वजनेभ्यो हितं विश्वजनीनम्। कर्मधारयादेवेष्यते। षष्ठीसमासाद्बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितं विश्वजनीयम्।
     * पञ्चजनादुपसंख्यानम् *(म.भा.2-340)। पञ्चजनाच्च खः। अत्रापि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र-पञ्चजनीयम्। * सर्वजनाट्ठञ् खश्च *(म.भा.2-340)। सार्वजनिकम्, सर्वजनीनम्,। अत्रापि कर्मधारयादेव। सर्वजनीयम्-अन्यत्।
     * महाजनान्नित्यं ठञ्वक्तव्यः *(म.भा.2-340)। महाजनाय हितं माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस्तु छ एव भवति-महाजनीयम्।
     भोगोत्तरपदात्खल्वपि-मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची केवलेभ्यो मात्रादिभ्यश्छ एव भवति। मात्रीयम्। पित्रीयम्।
     * महाजनान्नित्यं ठञ्वक्तव्यः *(म.भा.2-340)। महाजनाय हितं महाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस्तु छ एव भवति-महाजनीयम्।
     भोगोत्तरपदात्कल्वपि-मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची केवलेभ्यो मात्रआदिभ्यश्छ एव भवति। मात्रीयम्। पित्रीयम्।
     * राजाचार्याभ्यां तु नित्यम् *(म.भा.2-340)। भोगोत्तरपदाभ्यामेव प्रत्यय इष्यते, न केवलाभ्याम्। राजभोगीनः।
     * आचार्यादणत्वं च *(म.भा.2-340)। आचार्यभोगीनः। केवलाभ्यां वाक्यमेव भवति-राज्ञे हितम्, आचार्याय हितमिति ।।

</5-1-9>
सर्वपुरुषाभ्यां णढञौ ।। <5-1-10> ।।
सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः, `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। सर्वस्मै हितं सार्वम्। पौरुषेयम्।
     * सर्वाण्णस्य वा वचनम् *(म.भा.2-341)। सर्वीयम्।
     * पुरुषाद्वधविकारसमहतेनकृतेष्विति वक्तव्यम् *(म.भा.2-341)। पौरुषेयो वधः, विकारः, समूहो वा, तेनकृतः पौरुषेयो ग्रन्थः ।।

</5-1-10>
माणवचरकाभ्यां खञ् ।। <5-1-11> ।।
माणवचरकशब्दाभ्यां खञ् प्रत्ययो भवति, `तस्मै हितम् इत्येतस्मिन्विषये। छस्यापवादः। माणवाय हितं माणवीनम्। चारकीणम्।।

</5-1-11>
तदर्थं विकृतेः प्रकृतौ ।। <5-1-12> ।।
प्रकृतिः=उपादानकारणम्, तस्यैव उत्तरमवस्थान्तरम्=विकृतिः। विकृतिवाचिनः प्रातिपदिकात्प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति। `तदर्थम् इति प्रत्ययार्थविशेषणम्। तदिति सर्वनाम्ना विकृतिः परामृश्यते, विकृत्यर्थायां प्रकृतौ प्रत्ययः। तदर्थग्रहणेन प्रकृतेरनन्यार्थताऽऽख्यायते, न प्रकृतिविकारसंभवमात्रे प्रत्ययः, किं तर्हि? प्रकृतेरनन्यार्थत्वे विवक्षिते। प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल्लभ्या चतुर्थी समर्थविभक्तिः। केचित्तु तस्मै हितम्(5-1-5/1665) इत्यनुवर्त्तयन्ति। अङ्गारेभ्यो हितानि एतानि काष्ठानि अङ्गारीयाणि काष्ठानि। प्राकारीया इष्टकाः। पङ्कव्यं दारु। पिचव्यः कार्पासः।
तदर्थमिति किम्? यवानां धानाः। धानानां सक्तवः। प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता, न तादर्थ्यम्। धानानां सक्तवो न लाजानामिति।
विकृतेरिति किम्? उदकार्थः कूपः। वलिकृतिग्रहणेऽक्रियमाणे या काचित्प्रकृतिर्गृह्यते, नोपादानकारणमेव। भवति च कूप उदकस्य प्रकृतिः; तत्रोत्पादनात्। न तु उदकं तस्य विकृतिः; अत्यन्तभेदात्।
प्रकृताविति किम्? अस्यर्था कोशी। असिरयसो विकृतिर्भवति, न तु कोशी तस्य प्रकृतिर्भवति। द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते ।।

</5-1-12>
छदिरुपधिबलेर्ढञ् ।। <5-1-13> ।।
छदिरादिभ्यः शब्देभ्यो ढञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ(5-1-12/1674) इत्येतस्मिन्विषये। छस्यापवादः। छादिषेयाणि तृणानि। औपधेयं दारु। बालेयास्तण्डुलाः।
उपधिशब्दात्स्वार्थे प्रत्ययः। उपधीयत इत्युपधिः=रथाङ्गम्। औपधेयमपि तदेव दारु।।

</5-1-13>
ऋषभोपानहोर्ञ्यः ।। <5-1-14> ।।
ऋषभ, उपानह-इत्येताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ(5-1-12/1674) इत्येतस्मिन्विषये। छस्यापवादः। आर्षभ्यो वत्सः। औपानह्यो मुञ्जः।
चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयमेवेष्यते---औपानह्यं चर्म।

</5-1-14>
चर्मणोऽञ् ।। <5-1-15> ।।
`चर्मणः इति षष्ठी। चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकादञ् प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ(5-1-12/1674) इत्येतस्मिन्विषये। छस्यापवादः। वार्धं चर्म। वारत्रं चर्म ।।

</5-1-15>
तदस्य तदस्मिन्स्यादिति ।। <5-1-16> ।।
`तत् इति प्रथमा समर्थविभक्तिः, `अस्य इति प्रत्ययार्थः, `स्यात् इति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। एवं द्वितीयेऽपि वाक्ये। सप्तम्यर्थे तु प्रत्यय इत्येतावान्विशेषः। प्रथमासमर्थात् षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं स्याच्चेत्तद्भवति। इतिकरणस्ततश्चेद्विवक्षा। प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः। प्रासादीयं दारु। सप्तम्यर्थे खल्वपि-प्राकारोऽस्मिन्देशे स्यात् प्राकारीयो देशः। प्रासादीया भूमिः।
स्यादिति संभावनायां लिङ् संभावनेऽलमिति चेत्(3-3-154/2811) इत्यादिना, इष्टकानां बहुत्वेन तत्संभाव्यते। प्राकार आसामिष्टकानां स्यादिति देशस्य च गुणेन संभाव्यते-प्रासादोऽस्मिन्देशे स्यादिति।
प्रकृतिविकारभावस्तादर्थ्यं चेह न विवक्षितम्, किं तर्हि? योग्यतामात्रम्; तेन पूर्वस्यायमविषयः। द्विस्तद्ग्रहणं न्यायप्रदर्शनार्थम्। अनेकस्मिन्प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति।
अथेह कस्मान्न भवति--प्रासादो देवदत्तस्य स्यादिति? गुणवानयं सम्भाव्यते, प्रासादलाभोऽस्येति। `इतिकरणो विवक्षार्थः इत्युक्तम्।।

</5-1-16>
परिखाया ढञ् ।। <5-1-17> ।।
परिखाशब्दाद् ढञ् प्रत्ययो भवति तदस्य तदस्मिन्स्यादिति(5-1-16/1678) एतस्मिन्नर्ते। छस्यापवादः। पारिखेयी भूमिः।
छयतोः पूर्णोऽवधिः। इतः परमन्यः प्रत्ययो विधीयते।।

</5-1-17>
प्राग्वतेष्ठञ् ।। <5-1-18> ।।
तेन तुल्यं क्रिया चेद्वतिः(5-1-115/1778) इति वक्ष्यति। प्रागेतस्माद्वतिसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः ठञ् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति-पारायणतुरायणचान्द्रायणं वर्त्तयति(5-1-72/1736)। पारायणिकः। तौरायणिकः। चान्द्रायणिकः।।

</5-1-18>
आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ।। <5-1-19> ।।
तदर्हति(5-1-63/1728) इति वक्षयति। आ एतस्मादर्हसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः ठक् प्रत्ययस्तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन्वर्जयित्वा। अभिविधौ वायमाकारः, तेनार्हत्यर्थोऽपि ठग्भवत्येव। ठञधिकारमध्ये तदपवादः ठग्विधीयते। वक्ष्यति-तेन क्रीतम्(5-1-37/1702) नैष्किकम्। पाणिकम्।
अगोपुच्छसंख्यापरिमाणादिति किम्? गोपुच्छेन क्रीतं गौपुच्छिकम्।
संख्या-षाष्टिकम्। परिमाण-प्रास्थिकम्। कौडविकम्। ठञ् प्रत्युदाह्रियते।
संख्यापरिमाणयोः को विशेषः? भेदगणनम्=संख्या, एकत्वादिः। गुरुत्वमानम्=उन्मानं पलादिः।
आयाममानम्=प्रमाणं वितस्त्यादिः। आरोहपरिणाहमानम्=परिमाणं प्रस्थादि।।
`ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः।
आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः।।(म.भा.2-343)

</5-1-19>
असमासे निष्कादिभ्यः ।। <5-1-20> ।।
आर्हात्(5-1-19/1681) इत्येव। निष्कादिभ्यः शब्देभ्योऽसमासे ठक्प्रत्ययो भवति आर्हियेष्वर्थेषु। ठञोऽपवादः। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्।
असमास इति किम्? परमनैष्किकम्। उत्तमनैष्किकम्। ठञेव भवति, परिमाणान्तस्य(7-3-17/1683) इत्युत्तरपदवृद्धिः।
अथ किमर्थमसमास इत्युच्यते, यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते? निष्कादिष्वसमासग्रहणं ज्ञापकम्-पूर्वत्र तदन्ताप्रतिषेधस्य। उगवादिभ्यो यत्(5-1-2/1662)-गव्यम्, सुगव्यम्, अतिसुगव्यम्। विभाषा हविरपूपादिभ्यः(5-1-4/1664)--अपूप्यम्, अपूपीयम्। यवापूप्यम्, यवापूपीयम्। शरीरावयवाद्यत्(5-1-6/1666)--दन्त्यम्, राजदन्त्यम् इत्येवमादि सिद्धं भवति।
इत उत्तरं च संख्यापूर्वपदानां तदन्तविधिरिष्यते। पारायणतुरायणचान्द्रयणं वर्तयति(5-1-72/1736) द्वैपारायणिकः, त्रैपारायणिकः। लुगान्तायास्तु प्रकृतेर्नेष्यते। द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्। त्रिशूर्पम्। द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात् शूर्पादञन्यतरस्याम्(5-1-26/1691) इत्यञ् न भवति, सामान्यविहितष्ठञेव भवति। द्विशौर्पिकम्।
ठञो द्विगुं प्रत्यनिमित्तत्वाल्लुगभावः। तथा चोक्तम्--`प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि(म.भा.2-346) इति।
निष्क। पण। पाद। माष। वाह। द्रोण। षष्टि। निष्कादिः।।

</5-1-20>
शताच्च ठन्यतावशते ।। <5-1-21> ।।
`आर्हाद् इत्येव। शतशब्दात् ठन्यतौ प्रत्ययौ भवतः अशतेऽभिधेये, आर्हीयेष्वर्थेषु। कनोऽपवादः। शतेन क्रीतं शतिकम्। शत्यम्।
अशते इति किम्? शतं परिमाणमस्य शतकं निदानम्। प्रत्ययार्थोऽत्र सङ्घः। शतमेव वस्तुतः प्रकृत्यर्थान्न भिद्यते। इह तु न भवतिशतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतमिति। वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या। तथा चोक्तम्--`शतप्रतिषेधेऽन्यशतत्वेऽप्रतिषेधः(म.भा.2-346) इति।
चकारोऽसमास इत्यनुकर्षणार्थः। द्वौ च शतं च द्विशतम्, द्विशतेन क्रीतं द्विशतकम्। त्रिशतकम्।
`प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि(म.भा.2-346) इत्यनया इष्ट्या समासादपि प्राप्नोति।।

</5-1-21>
संख्याया अतिशदन्तायाः कन् ।। <5-1-22> ।।
भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। पञ्चभिः क्रीतः पञ्चकः पटः। बहुकः। गणकः।
अतिशदन्ताया इति किम्? साप्ततिकः। चात्वारिंशत्कः।
अर्थवतस्तिशब्दस्य ग्रहणाड्डतेः पर्युदासो न भवति-कतिकः।।

</5-1-22>
वतोरिड् वा ।। <5-1-23> ।।
वत्वन्तस्य संख्यात्वात् कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते। वतोः परस्य कनो वा इडागमो भवति आर्हीयेष्वर्थेषु। तावतिकः, तावत्कः। यावतिकः, यावत्कः ।।

</5-1-23>
विंशतित्रिंशद्भ्यां ड्वुनसंज्ञायाम् ।। <5-1-24> ।।
विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति, असंज्ञायां विषये, आर्हीयेष्वर्थेषु। विंशकः। त्रिंशकः। ति विंशतेर्डिति(6-4-142/844) इति तिलोपः।
असंज्ञायामिति किम्? विशतिकः। त्रिंशत्कः।
कथं पुनरत्र कन्, यावता `अतिशदन्तायाः इति पर्युदासेन भवितव्यम्?(म.भा.2-347) योगविभागः करिष्यते--विंशतित्रिंशद्भ्याम् कन् प्रत्ययो भवति, ततः ड्वुनसंज्ञायाम्(म.भा.2-347) इति।।

</5-1-24>
कंसाट्टिठन् ।। <5-1-25> ।।
कंसाट्टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। टकारो ङीबर्थः। इकार उच्चारणार्थः। नकारः स्वरार्थः। कंसिकः। कंसिकी।

  • अर्द्धाच्चेति वक्तव्यम् *(म.भा.2-347)। अर्द्धिकः। अर्द्धिकी।
  • कार्षापणाट्टिठन्वक्तव्यः *। कार्षापणिकः। कार्षापणिकी ।।
  • प्रतिशब्दश्चास्यादेशो वा वक्तव्यः *। प्रतिकः। प्रतिकी ।।


</5-1-25>
शूर्पादञन्यतरस्याम् ।। <5-1-26> ।।
शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठञोऽपवादः। पक्षे सोऽपि भवति। शूर्पेण क्रीतं शौर्पम्, शौर्पिकम् ।।

</5-1-26>
शतमानविंशतिकसहस्रवसनादण् ।। <5-1-27> ।।
शतमानादिभ्यः शब्देभ्योऽण् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठक्ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैशतिकम्। साहस्रम्। वासनम्।।

</5-1-27>
अर्ध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ।। <5-1-28> ।।
`आर्हात् इत्येव। अध्यर्धशब्दः पूर्वो यस्मिंस्तस्मादध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च परस्य आर्हीयस्य लुग् भवति, असंज्ञायां विषये। आध्यर्धकंसम्। द्विकंसम्। त्रिकंसम्। अध्यर्धशूर्पम्। द्विशूर्पम्। त्रिशूर्पम्।
असंज्ञायामिति किम्? पाञ्चलौहितिकम्। पाञ्चकलापिकम्। लोहिनीशब्दस्य `भस्याऽढे तद्धिते(6-3-35/836) इति पुंवद्भावः।
प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणम्-न चेत्प्रत्ययान्तं संज्ञेति।
अद्ध्यर्धशब्दः संख्यैव, किमर्थं भेदेनोपादीयते? ज्ञापकार्थम् क्कचिदस्य संख्याकार्यं न भवति, संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्(5-4-17/2085) इति।।

</5-1-28>
विभाषा कार्षापणसहस्राभ्याम् ।। <5-1-29> ।।
अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तादुत्तरस्यार्हीयप्रत्ययस्य विभाषा लुग्भवति। पूर्वेण लुकि नित्ये प्राप्ते विकल्प्यते। अध्यर्धकार्षापणम्, अध्यर्धकार्षापणिकम्। द्विकार्षापणम्, द्विकार्षापणिकम्। औपसंख्यानिकस्य टिठनो लुक्। अलुक्पक्षे च प्रतिरादेशो विकल्पितः। अध्यर्धप्रतिकम्। द्विप्रतिकम्। त्रिप्रतिकम्। सहस्रात्--अध्यर्धसहस्रम्, अध्यर्धसाहस्रम्। द्विसहस्रम्, द्विसाहस्रम्। अलुक्पक्षे संख्यायाः संवत्सरसंख्यस्य च(7-3-15) इत्युत्तरपदवृद्धिः।

  • सुवर्णशतमानयोरुपसंख्यानम् *(म.भा.2-349)। अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम्। द्विसुवर्णम्, द्विसौवर्णिकम्। अध्यर्धशतमानम्, अध्यर्धशातमानम्। द्विशतमानम्, द्विशातमानम्। परिमाणान्तस्य(7-3-17/1683) इत्युत्तरपदवृद्धिः ।।


</5-1-29>
द्वित्रिपूर्वान्निष्कात् ।। <5-1-30> ।।
`द्विगोः इत्येव। द्वित्रिपूर्वाद्द्विगोर्निष्कान्तातार्हीयप्रत्ययस्य विभाषा लुग्भवति। द्विनिष्कम्। द्विनैष्किकम्। त्रिनिष्कम्। त्रिनैष्किकम्।

  • बहुपूर्वाच्चेति वक्तव्यम् *(2-349)। बहुनिष्कम्, बहुनैष्किकम्। परिमाणान्तस्य(7-3-17/1683) इत्युत्तरपदवृद्धिः।।


</5-1-30>
बिस्ताच्च ।। <5-1-31> ।।
`द्वित्रिपूर्वात् इति चकारेणानुकृष्यते। द्वित्रिपूर्वाद्बिस्तान्ताद् द्विगोः परस्यार्हीयप्रत्ययस्य विभाषा लुग्भवति। द्विबिस्तम्, द्विबैस्तिकम्। त्रिबिस्तम्, त्रिबैस्तिकम्। बहुबिस्तम्, बहुबैस्तिकम्।।

</5-1-31>
विंशतिकात्खः ।। <5-1-32> ।।
अध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तादार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशतिकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यादस्य लुग्न भवति ।।

</5-1-32>
खार्या ईकन् । <5-1-33> ।।
`अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च कारीशब्दान्तादार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति। अध्यर्धखारीकम्। द्विखारीकम्।

  • केवलायाश्चेति वक्तव्यम् *(म.भा.2-349)। खारीकम्।
  • काकिण्याश्चोपसंख्यानम् *(म.भा.2-350)। अध्यर्धकाकिणीकम्। द्विकाकिणीकम्। त्रिकाकिणीकम् ।।
  • केवलायाश्च *(म.भा.2-350)। काकिणीकम् ।।


</5-1-33>
पणपादमाषशताद्यत् ।। <5-1-34> ।।
`अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तादार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अध्यर्धपण्यम्, द्विपण्यम्, त्रिपण्यम्। पाद-अध्यर्धपाद्यम्, द्विपाद्यम्, त्रिपाद्यम्। पद्भावो न भवति-पद्यत्यतदर्थे(6-3-53/991) इति; प्राण्यङ्गस्य(6-3-52/990) स इष्यते, इदं तु परिमाणम्। माष-अध्यर्धमाष्यम्, द्विमाष्यम्, त्रिमाष्यम्। शत-अध्यर्धशत्यम्, द्विशत्यम्, त्रिशत्यम् ।।

</5-1-34>
शाणाद्वा ।। <5-1-35> ।।
`अध्यर्धपूर्वाद् द्विगोः इत्येव। शाणशब्दादध्यर्धपूर्वाद् द्विगोरार्हीयेष्वर्थेषु वा यत् प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति, तस्य च लुक्। अध्यर्धशाण्यम्। अध्यर्धशाणम्। द्विशाण्यम्। द्विशाणम्। त्रिशाण्यम्। त्रिशाणम्।

  • शताच्चेति वक्तव्यम् * । अध्यर्धशत्यम्, अध्यर्धशतम्। दिशत्यम्, द्विशतम्। त्रिशत्यम्, त्रिशतम् ।।


</5-1-35>
द्वित्रिपूर्वादण्च ।। <5-1-36> ।।
शाणाद्वा(5-1-35/1700) इत्येव। द्वित्रिपूर्वाच्छाणान्तात्प्रातिपदिकादार्हीयेष्वर्थेषु अण् प्रत्ययो भवति, चकगाराद्यच्च वा। तेन त्रैरूप्यं सम्पद्यते-द्वैशाणम्, द्विशाणम्, द्विशाण्यम्। त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम्। परिमाणान्तस्यासंज्ञाशाणयोः(7-3-17/1683) इति पर्युदासादादिवृद्धिरेव भवति।।

</5-1-36>
तेन क्रीतम् ।। <5-1-37> ।।
ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः, तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते। `तेन इति तृतीयासमर्थात् `क्रीतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सप्तत्या क्रीतं साप्ततिकम्। आशीतिकम्। नैष्किकम्। पाणिकम्। पादिकम्। माषिकम्। शत्यम्। शतिकम्। द्विकम्। त्रिकम्।

`तेन इति मूल्यात्करणे तृतीया समर्थविभक्तिः। अन्यत्रानभिधानान्न भवति--देवदत्तेन क्रीतम्, पाणिना क्रीतमिति।
द्विवचनबहुवचनान्तात्प्रत्ययो न भविति--प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतमिति; अनभिधानादेव।
अत्र तु प्रकृत्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति, तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति--द्वाभ्यां क्रीतं द्विकम्, त्रिकम्, पञ्चकम्। तथा--मुदगैः क्रीतं मौद्गिकम्, माषिकम्; न ह्येकेन मुद्गेन क्रयः संभवति (म.भा.2-350)।।

</5-1-37>
तस्य निमिचं संयोगोत्पातौ ।। <5-1-38> ।।
`तस्य इति षष्ठीसमर्थात् `निमित्तम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तन्निमित्तं संयोगश्चेत्स भवति उत्पातो वा। संयोग=सम्बन्धः प्राणिनां शुभाशुभसूचकः। महाभूतपरिणामः=उत्पातः। शतस्य निमित्तं धनपतिना संयोगः शत्यः शतिकः। साहस्रः। उत्पातः खल्वपि--शतस्य निमित्तमुत्पातो दक्षिणाक्षिस्पन्दनम् शत्यम्, शतिकम्। साहस्रम्।

  • तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् *(म.भा.2-351)। वातस्य शमनं कोपनं वा वातिकम्। पैत्तिकम्। श्लैष्मिकम्।
  • सन्निपाताच्चेति वक्तव्यम् *(म.भा.2-351)। सान्निपातिकम् ।


</5-1-38>
गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ।। <5-1-39> ।।
गोशब्दाद् द्व्यचश्च प्रातिपदिकात्संख्यापरिमाणाश्वादिविवर्जिताद्यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातौ(5-1-38/1704) इत्येतस्मिन्नर्थे। ठञादीनामपवादः। गोर्निमित्तं संयोग उत्पातो वा गव्यः। द्व्यचः खल्वपि--धन्यम्। स्वर्ग्यम्। यशस्यम्। आयुष्यम्।
असंख्यापरिमाणाश्वादेरिति किम्? पञ्चानां निमित्तं पञ्चकम्। सप्तकम्। अष्टकम्। परिमाण---प्रास्थिकम्। खारीकम्। अश्वादि---आश्विकः।

  • ब्रह्मवर्चसादुपसंख्यानम् *(म.भा.2-351)। ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यम्।

अश्व। अश्मन्। गण। ऊर्णा। उमा। वसु। वर्ष। भङ्ग। अश्वादिः।।

</5-1-39>
पुत्राच्छ च ।। <5-1-40> ।।
पुत्रशब्दाच्छः प्रत्ययो भवति चकाराद्यच्च तस्य निमित्तं संयोगोत्पातौ(5-1-38/1704) इत्येतस्मिन्विषये। द्व्यचः(5-1-39/1705) इति नित्ये यति प्राप्ते वचनम्। पुत्रस्य निमित्तं संयोग उत्पातो वा पुत्रीयम्। पुत्र्यम् ।।

</5-1-40>
सर्वभूमिपृथिवीभ्यामणञौ ।। <5-1-41> ।।
सर्वभूमि-पृथिवी-शब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातौ(5-1-38/1704) इत्येतस्मिन्‌विषये। ठकोऽपवादौ। सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः। पार्थिवः। सर्वभूमेरनुशतिकादि(7-3-20/1438)पाठादुभयपदवृद्धिः ।।

</5-1-41>
तस्येश्वरः ।। <5-1-42> ।।
`तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमि-पृथिवी-शब्दाभ्यामणञौ प्रत्ययौ भवतः `ईश्वरः इत्येतस्मिन्विषये। सर्वभूमेरीश्वरः सार्वभौमः। पार्थिवः।
षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये; अन्यथा संयोगोत्पाताविव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं सम्भाव्येत ।।

</5-1-42>
तत्र विदित इति च ।। <5-1-43> ।।
`तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमि-पृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः `विदितः इत्येतस्मिन्नर्थे। विदितः=ज्ञातः, प्रकाशित इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः ।।

</5-1-43>
लोकसर्वलोकाट्ठञ् ।। <5-1-44> ।।
लोक-सर्वलोक-शब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां `विदितः इत्येतस्मिन्विषये ठञ् प्रत्ययो भवति। लोके विदितः लौकिकः। सार्वलौकिकः। अनुशतिकादित्वात्(7-3-20/1438) उभयपदवृद्धिः ।।

</5-1-44>
तस्य वापः ।। <5-1-45> ।।
`तस्य इति सप्तमीसमर्थाद् `वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। उप्यतेऽस्मिन्वापः, क्षेत्रमुच्यते। प्रस्थस्य वापः क्षेत्रं प्रास्थिकम्। द्रौणिकम्। खारीकम् ।।

</5-1-45>
पात्रात्ष्ठन् ।। <5-1-46> ।।
पात्रशब्दात्ष्ठन् प्रत्ययो भवति `तस्य वापः इत्येतस्मिन्विषये। ठञोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पात्रशब्दः परिमाणवाची। पात्रस्य वापः पात्रिकं क्षेत्रम्। पात्रिकी क्षेत्रभक्तिः ।।

</5-1-46>
तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ।। <5-1-47> ।।
`तत् इति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं वृद्ध्यादि चेत्तद्दीयते। `दीयते इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकमभिसम्बध्यते। तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः। ग्रामादिषु स्वामिग्राह्यो भागः=आयः। पटादीनामुपादानमूलादतिरिक्तं द्रव्यं=लाभः। रक्षानिर्वेशो राजभागः=शुल्कः। उत्कोचः=उपदा। पञ्चास्मिन्वृद्धिर्वा आयो वा लाभो वा शुल्लो वा उपदा वा दीयते पञ्चकः। सप्तकः। शत्यः। शतिकः। साहस्रः।
चतुर्थ्यर्थ उपसंख्यानम्*(म.भा.2-351)।। पञ्चास्मै वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चको देवदत्तः।
सिद्धं त्वधिकरणत्वेन विवक्षितत्वात्। सममब्राह्मणे दानमिति यथा।।

</5-1-47>
पूरणार्धाट्ठन् ।। <5-1-48> ।।
पूरणवाचिनः शब्दादर्धशब्दाच्च ठन् प्रत्ययो भवति, तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते(5-1-47/1713) इत्येतस्मिन्नर्थे। यथायथं ठक्टिठनोरपवादः। द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः। तृतीयिकः। पञ्चमिकः। सप्तमिकः। अर्धशब्दो रूपकार्धस्य रूढिः।।

</5-1-48>
भागाद्यच्च ।। <5-1-49> ।।
भागशब्दाद्यत् प्रत्ययो भवति, चकाराट्ठँश्च, तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते(5-1-47/1713) इत्येतस्मिन्नर्थे। ठञोऽपवादः। भागो वृद्ध्यादिरस्मिन्दीयते भाग्यम्, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दोऽपि रुपकार्धस्य वाचकः।।

</5-1-49>
तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ।। <5-1-50> ।।
`तत् इति द्वितीयासमर्थाद्धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। प्रकृतिविशेषणम्--`भाराद्वंशादिभ्यः इति, वंशादिभ्यः परो यो भारशब्दस्तदन्तात्प्रातिपदिकादिति। वंशभारं हरति वहत्यावहति वा वंशभारिकः। कौटजभारिकः। बाल्वजभारिकः।
भारादिति किम्? वंशं हरति। वंशादिभ्य हति किम्? व्रीहिभारं हरति।
अपरा वृत्तिः---भाराद्वंशादिभ्य इति, भारभूतेभ्यो वंशादिभ्य इत्यर्थः। भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम्। भारभूतान्वंशान् हरति वांशिकः। कौटजिकः। बाल्वजिकः। भारादिति किम्? वंशं हरति। वंशादिभ्य इति किम्? भारभूतान् व्रीहीन् वहति।
सूत्रार्थद्वयमपि चैतदाचार्येण शिष्याः प्रतिपादिताः, तदुभयमपि ग्राह्यम्। हरति देशान्तरं प्रापयति चोरयति वा। वहत्युत्क्षिप्य धारयतीत्यर्थः। आवहति उत्पादयतीत्यर्थः।
वंश। कुटज। बल्वज। मूल। अक्ष। स्थूणा। अश्मन्। अश्व। इक्षु । खट्वा। वंशादिः।।

</5-1-50>
वस्नद्रव्याभ्यां ठन्कनौ ।। <5-1-51> ।।
वस्न-द्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासंख्यं ठन्, कन्--इत्येतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु। वस्नं हरति वहति वा वस्निकः। द्रव्यकः ।।

</5-1-51>
संभवत्यवहरति पचति ।। <5-1-52> ।।
`तत् इति द्वितीया समर्थविभक्तिरनुवर्तते। तदिति द्वितीयासमर्थात्सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। तत्राधेयस्य प्रमाणानतिरेकः=सम्भवः। उपसंहरणम्=अवहारः। विक्लेदनम्=पाकः। प्रस्थं संभवति अवहरति पचति वा प्रास्थिकः। कौडविकः। खारीकः।
ननु च पाके च सम्भवोऽस्ति? नास्त्यत्र नियोगः---प्रस्थं पचति ब्राह्मणी प्रास्थिकी।

  • तत्पचतीति द्रोणादण्च *(म.भा.2-352)। द्रोणं पचति द्रौणी। द्रौणिकी ।।


</5-1-52>
आढकाचितपात्रात्खोऽन्यतरस्याम् ।। <5-1-53> ।।
आढकाचितपात्रशब्देभ्यो द्वितीयासमर्थेभ्योऽन्यतरस्यां संभवादिष्दर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। पक्षे सोऽपि भवति। आढकं संभवत्यवहरति पचति वा आढकीना, आढकिकी। आचितीना, आचितिकी। पात्रीणा, पात्रिकी।।

</5-1-53>
द्विगोष्ष्ठँस्च ।। <5-1-54> ।।
`आढकाचितपात्रात् इत्येव। आढकाचितपात्रान्ताद् द्विगोः संभवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति चकारात्खः, अन्यतरस्याम्। विधानसामर्थ्यादनयोर्लुग्न भवति। ठञ्स्तु पक्षेऽनुज्ञातस्य अध्यर्धपूर्वद्विगोः(5-1-28/1693) इति लुग्भवत्येव। नकारः स्वरार्थः। षकारो ङीषर्थः। द्व्याढकिकी, द्व्याढकीना, द्व्याढकी। द्व्याचिकिकी, द्व्याचितीना, द्व्याचिता। अपरिमाणबिस्ताचित(4-1-22/480) इति ङीषः प्रतिषेधः। द्विपात्रिकी, द्विपात्रीणा, द्विपात्री।।

</5-1-54>
कुलिजाल्लुक्खौ च ।। <5-1-55> ।।
`द्विगोः इत्येव। कुलिजशब्दान्ताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः। चकारात्ष्ठँश्च। `अन्यतरस्याम् ग्रहणानुवृत्त्या लुगपि विकल्प्यते, ठञः पक्षे श्रवणं भवति। तेन चातूरूप्यं संपद्यते--द्वेकुलिजे संभवत्यवहरति पचति वा द्विकुलिजिकी, द्विकुलिजीना, द्विकुलिजा, द्वैकुलिजिकी।।
परिमाणान्तस्यासंज्ञाशाणयोः(7-3-17/1683) इत्यत्र कुलिजग्रहणमपीष्यते, तेनोत्तरपदवृद्धिरपि न भवति।।

</5-1-55>
सोऽस्यांशवस्नभृतयः ।। <5-1-56> ।।
`स इति प्रथमासमर्थात् `अस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत् प्रथमासमर्थमंशवस्नभृतयश्येत्ता भवन्ति। अंशः=भागः। वस्नम्=मूल्यम्। भृतिः=वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः ।।

</5-1-56>
तदस्य परिमाणम् ।। <5-1-57> ।।
`तत् इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं परिमाणं चेत्तद्भवति। प्रस्थः परिमाणमस्य प्रास्थिको राशिः। खारशतिकः। शत्यः, शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य वार्षशतिकः। वार्षसहस्रिकः। षष्टिर्जीवितपरिमाणमस्येति षाष्टिकः। साप्ततिकः।

समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेवानुवर्त्तिष्यते, किमर्थं पुनरनयोरुपादानम् ? पुनर्विधानार्थम्। द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः। द्विसाप्ततिकः। पुनर्विधानसामर्थ्याद् अध्यर्धपूर्वद्विगोर्लुक्(5-1-28/1693) न भवति।।

</5-1-57>
संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु ।। <5-1-58> ।।
तदस्य परिमाणम्(5-1-57/1723) इति वर्त्तते। संख्यावाचिनः प्रातिपदिकात् परिमाणोपाधिकात्प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। `संज्ञासङ्घसूत्राध्ययनेषु इति प्रत्ययार्थविशेषणम्।
तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः-पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः।
सङ्घ---पञ्च परिमाणमस्य, पञ्चकः सङ्घः। अष्टकः।
सूत्र-अष्टावध्यायाः परिममाणमस्य सूत्रस्य अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु चाध्यायसमूहः सूत्रसङ्घ एव भवति? नैददस्ति; प्राणिसमूहे सङ्घशब्दो रूढः।
अध्ययन--पञ्चकोऽधीतः। सप्तकोऽधीतः। अष्टकः। नवकः।
अधीतिः=अध्ययनम्, तस्य संख्यापरिमाणं पञ्चावृत्तयः=पञ्च वाराः, पञ्चरूपाण्यस्याध्ययनस्य पञ्चकमध्ययनम्।

  • स्तोमे डविधिः पञ्चदशाद्यर्थः *(म.भा.2-354)। पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः। सप्तदशः। एकविंशः।
  • शन्शतोर्डिनिश्छनदसि *(म.भा.2-354)। `पञ्चदशिनोऽर्द्धमासाः(तै.सं.7-5-201)। `त्रिंशिनो मासाः(तै.सं.7-5-201)।
  • विंशतेश्चेति वक्तव्यम् *। विंशिनोऽङ्गिरसः ।।


</5-1-58>
पंक्तिविशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ।। <5-1-59> ।।
तदस्य परिमाणम्(5-1-47/1723) इति वर्त्तते। पंक्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात्सिद्धम्। पञ्चानां टिलोपः, तिः प्रत्ययः। पञ्च परिमाणमस्य पंक्तिश्छन्दः। द्वयोर्द्दशतोर्विन्भावः शतिश्च प्रत्ययः-द्वौ दशतौ परिमाणमस्य सङ्घस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शच्च प्रत्ययः---त्रयो दशतः परिमाणमस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शच्च प्रत्ययः---चत्वारो दशतः परिमाणमस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शच्च प्रत्ययः---पञ्च दशतः परिमाणमस्य पञ्चाशत्। षण्णां दशतां षड्भावः, तिः प्रत्ययः, अपदत्वं च--षड् दशतः परिमाणमस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च-सप्तदशतः परिमाणमस्य सप्ततिः। अष्टानां दशतामशीभावस्तिः प्रत्ययश्च--अष्टौ दशतः परिमाणमस्य अशीतिः। नवानां दशतां नवभावस्तिः प्रत्ययश्च--तवदशतः परिमाणमस्य नवतिः। दशानां शभावः तश्च प्रत्ययः---दश दशतः परिमाणमस्य सङ्घस्य शतम्।
विंशत्यादयो गुणशब्दाः, ते यथाकथञ्चिद्व्युत्पाद्याः। नात्रावयवार्थेऽभिनिवेष्टव्यम्। तथा हि- पङ्तिः इति क्रमसंनिवेशेऽपि वर्तते, ब्राह्मणपङ्तिः,पिपीलिकापङ्तिरिति। न चात्रावयवार्थः कश्चिदस्ति। या चैषां विषयभेदेन
गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसंख्यानुविधानं च, एतदपि सर्वं स्वाभाविकमेव।
सहस्रादयोऽप्येवञ्जातीयकास्तद्वदेव द्रष्टव्याः। उदाहरणमात्रमेतदिति ।।

</5-1-59>
पञ्चद्दशतौ वर्गे वा ।। <5-1-60> ।।
`पञ्चत्, `दशत्-इत्येतौ वा निपात्येते `तदस्य परिमाणम् इत्येतस्मिन्विषये वर्गेऽभिधेये। संख्यायाः(5-1-58/1724) इति कनि प्राप्ते डतिर्निपात्यते। वावचनात्पक्षे सोऽपि भवति। पञ्च परिमाणमस्य पञ्चद् वर्गः, दशद्वर्गः। पञ्चको वर्गः, दशको वर्गः ।।

</5-1-60>
सप्तनोऽञ् छन्दसि ।। <5-1-61> ।।
`वर्गे इत्येव। `तदस्य परिमाणम् इति च। सप्तन्-शब्दाच्छन्दसि विषयेऽञ् प्रत्ययो भवति वर्गेऽभिधेये। `सप्त साप्तान्यसृजन्(तै.सं.5-4-7-5) ।।

</5-1-61>
त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ।। <5-1-62> ।।
`तदस्य परिमाणम् इत्येव। `वर्गे इति निवृत्तम्। त्रिंशच्चत्वारिंशच्छब्दाभ्यां संज्ञायां विषये डण्प्रत्ययो भवति `तदस्य परिमाणम् इत्येतस्मिन्विषये ब्राह्मणेऽऽभिधेये। अभिधेयसप्तम्येषा, न विषयसप्तमी। तेन मन्त्रभाषयोरपि भवति। त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां त्रैंशानि ब्राह्मणानि। चात्वारिंशानि ब्राह्मणानि। कानिचिदेव ब्राह्मणान्युच्यन्ते ।।

</5-1-62>
तदर्हति ।। <5-1-63> ।।
`तत इति द्वितीयासमर्थात् `अर्हति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः। वास्त्रयुग्मिकः(5-1-18/1681)। शत्यः। शतिकः(5-1-21/1686)। साहस्रः(5-1-27/1692) ।।

</5-1-63>
छेदादिभ्यो नित्यम् ।। <5-1-64> ।।
नित्यग्रहणं प्रत्ययार्थविशेषणम्। छेदादिभ्यो द्वितीयासर्म्थेभ्यो `नित्यमर्हति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यमर्हति छैदिकः। भैदिकः।
छेद। भेद। द्रोह। दोह। वर्त्त। कर्ष। सम्प्रयोग। विप्रयोग। प्रेषण। सम्प्रश्न। विप्रकर्ष। * विराग विरङ्गं च *(ग.सू.110) (वैरङ्गिकः।) छेदादिः ।।

</5-1-64>
शीर्षच्छेदाद्यच्च ।। <5-1-65> ।।
शीर्षच्छेदशब्दाद् द्वितीयासमर्थात् `नित्यमर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति, चकाराद्यथाविहितञ्च। शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसन्नियोंगेन शिरसः शीर्षभावो निपात्यते ।।

</5-1-65>
दण्डादिभ्यो यः ।। <5-1-66> ।।
`नित्यम् इति निवृत्तम्। दण्डादिभ्यो द्वितीयासमर्थेभ्यः `अर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति। ठकोऽपवादः। दण्डमर्हति दण्ड्यः। मुसल्यः।
दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेघा। मेघ। युग। उदक। वध। गुहा। भागा। इभ। दण्डादिः ।।

</5-1-66>
छन्दसि च ।। <5-1-67> ।।
प्रातिपदिकमात्राच्छन्दसि विषये `तदर्हति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति। ठञादीनामपवादः। उदक्या वृत्तयः। यूप्यः पलाशः। गर्त्यो देशः ।।

</5-1-67>
पात्राद् घँश्च ।। <5-1-68> ।।
पात्रशब्दाद् घन् प्रत्ययो भवति, चकाराद्यच्च, `तदर्हति इत्येतस्मिन्नर्थे। ठक्ठञोरपवादः। पात्रं परिमाणमप्यस्ति। पात्रमर्हति पात्रियः। पात्र्यः ।।

</5-1-68>
कडङ्गरदक्षिणाच्छ च ।। <5-1-69> ।।
कडङ्गर-दक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद्यच्च `तदर्हति इत्येतस्मिन्विषये। ठकोऽपवादः। कडङ्गरमर्हति कडङ्गरीयो गौः। कडङ्गर्यः। दक्षिणामर्हति दक्षिणीयो भिक्षुः। दक्षिण्यो ब्राह्मणः।
दक्षिणशब्दस्य अल्पाच्तरस्य पूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासंख्याभावं सूचयति ।।

</5-1-69>
स्थालीबिलात् ।। <5-1-70> ।।
छयतावनुवर्त्तेते। स्थालीबिलशब्दाच्छयतौ प्रत्ययौ भवतः `तदर्हति इत्येतस्भिन्नर्थे। ठकोऽपवादौ। स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः। स्थालीबिल्याः। पाकयोग्या इत्यर्थः ।।

</5-1-70>
यज्ञर्त्विग्भ्यां घखञौ ।। <5-1-71> ।।
यज्ञशब्दाद्, ऋत्विक्शब्दाच्च यथासंख्यं घखञौ प्रत्ययौ भवतः
`तदर्हिति इत्येतस्मिन्विषये। ठकोऽपवादः। यज्ञियो ब्राह्मणः। आर्त्विजीनो ब्राह्मणः।

  • यज्ञर्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् *(म.भा.2-357)। यज्ञकर्मार्हति यज्ञियो देशः। ऋत्विक्कर्मार्हति आर्त्विजीनं ब्राम्हणकुलम्।

आर्हीयाणां ठगदीनां पूर्णोऽवधिः। अतः परं प्राग्वतीयष्ठञेव भवति ।।

</5-1-71>
पारायणतुरायणचान्द्रायणं वर्तयति ।। <5-1-72> ।।
समर्थविभक्तिरनुवर्त्तते। `अर्हति इति निवृत्तम्। पारायणादिभ्यो द्वितीयासमर्थेभ्यः `वर्त्तयति इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति। पारायणं वर्त्तयत्यधीते पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी ।।

</5-1-72>
संशयमापन्नः ।। <5-1-73> ।।
संशयशब्दाद् द्विदीयासमर्थाद् `आपन्नः इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः ।।

</5-1-73>
योजनं गच्छति ।। <5-1-74> ।।
योजनशब्दाद् द्वितीयासमर्थाद् `गच्छति इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति यौजनिकः।।

  • क्रोशशत-योजनशतयोरुपसंख्यानम् *(म.भा.2-358)। क्रोशशतं गच्छति क्रौशशतिकः। यौजनशतिकः।

ततोऽभिगमनमर्हतीति च क्रोशशत-योजनशतयोरुपसंख्यानम् *(म.भा.2-358)
क्रोशशतादभिगमनमर्हिति क्रौशशतिको भिक्षुः। यौजनशतिक आचार्यः ।।

</5-1-74>
पथः ष्कन् ।। <5-1-75> ।।
पथिन्शब्दाद् द्वितीयासमर्थाद् `गच्छति इत्येतस्मिन्नर्थे ष्कन्प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी।।

</5-1-75>
पन्थो ण नित्यम् ।। <5-1-76> ।।
नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति भवति, णश्च प्रत्ययः, `नित्यं गच्छति इत्येतस्मिन्विषये। पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते।
नित्यमिति किम्? पथिकः ।।

</5-1-76>
उत्तरपथेनाहृतं च ।। <5-1-77> ।।
निर्देशादेव समर्थविभक्तिः उत्तरपथशब्दात्तृतीयासमर्थाद् `आहृतम् इत्येतस्मिन्विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसमुच्चये, गच्छतीति च। अत्रापि तृतीयैव समर्थविभक्तिः। उत्तरपथेनाहृतम् औत्तरपथिकम्। उत्तरपथेन गच्छति औत्तरपथिकः।

  • आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसंख्यानम् *(?Bम.भा.2-358)।

वारिपथेनाहृतं वारिपथिकम्। वारिपथेन गच्छति वारिपथिकः।
जङ्गलपथेनाहृतं जाङ्गलपथिकम्। जङ्लपथेन गच्छति जाङ्गलपथिकः। स्थलपथेनाहतं स्थालपथिकम्। स्थलपथेन गच्छति स्थालपथिकः। कान्तारपथेनाहृतं कान्तारपथिकम्। कान्तारपथेन गच्छति कान्तारपथिकः।

  • अजपथशंकुपथाभ्यां चोपसंख्यानम् *(म.भा.2-359)। अजपथेनाहृतं गच्छति वा आजपथिकः। शंकुपथेनाहृतं गच्छति वा शांकुपथिकः।
  • मधुकमरिचयोरण् स्थलात् *(म.भा.2-359)। स्थलपथेनाहृतं स्थालपथं मधुकम्। स्थालपथं मरिचम् ।।


</5-1-77>
कालात् ।। <5-1-78> ।।
`कालात् इत्यधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं वक्ष्यति--तेन निर्वृत्तम्(5-1-79/1743)। मासेन निर्वृत्तं मासिकम्। सांवत्सरिकम्।
`कालात् इत्यधिकारः व्युष्टादिभ्योऽण्(5-1-97/1761) इति यावत्।।

</5-1-78>
तेन निर्वृत्तम् ।। <5-1-79> ।।
`तेन इति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात् `निर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना निर्वृत्तम् आह्निकम्। आर्द्धमासिकम्। सांवत्सरिकम् ।।

</5-1-79>
तमधीष्ठो भृतो भूतो भावी ।। <5-1-80> ।।
`तम् इति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकात् `अधीष्टो भृतो भूतो वा भावी इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अधीष्टः=सत्कृत्य व्यापारितः। भृतः=वेतनेन क्रीतः। भूतः=स्वसत्तया व्याप्तकालः। भावी=तादृश एवानागतः। कालाध्वनोरत्यन्तसंयोगे(2-3-5/558) इति द्वितीया। मासमधीष्टो मासिकोऽध्यापकः। मासं भृतो मासिकः कर्मकरः। मासं भूतो मासिको व्याधिः। मासं भावी मासिक उत्सवः।
ननु चाध्येषणं भरणं च मूहूर्तं क्रियते, तेन कथं मासो व्याप्यते? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस्ताभ्यामेव व्याप्त इत्युच्यते ।।

</5-1-80>
मासाद्वयसि यत्खञौ ।। <5-1-81> ।।
मासशब्दाद्वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः। ठञोऽपवादः। अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद् `भूतः इत्येवाभिसम्बध्यते। मासं भूतो मास्यः , मासीनः।
वयसीति किम्? मासिकम् ।।

</5-1-81>
द्विगोर्यप् ।। <5-1-82> ।।
`मासाद्वयसि इति वर्तते। मासान्ताद् द्विगोर्यप् प्रत्ययो भवति वयस्यभिधेये। द्वौ मासौ भूतः द्विमास्यः। त्रिमास्यः ।।

</5-1-82>
षण्मासाण्ण्यच्च ।। <5-1-83> ।।
`वयसि इत्येव। षण्मासशब्दाद्वयस्यभिधेये ण्यत्प्रत्ययो भवति, यप् च। औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः। स्वरितत्वाच्चानन्तरोऽनुवर्त्तिष्यते। तेन त्रैरूप्यं भवति-षाण्मास्यः, षण्मास्यः, षाण्मासिकः ।।

</5-1-83>
अवयसि ठँश्च ।। <5-1-84> ।।
षण्मासशब्दादवयस्यभिधेये ठन् प्रत्ययो भवति। चकारेणानन्तरस्य ण्यस्य समुच्चयः क्रियते। षण्मासिको रोगः। षाण्मास्यः ।।

</5-1-84>
समायाः खः ।। <5-1-85> ।
अधीष्टादयश्चत्वारोऽर्था अनुवर्तन्ते। समाशब्दाद् द्वितीयासमर्थाद् अधीष्टादिष्वर्थेषु खः प्रत्ययो भवति। ठञोऽपवादः। समामधीष्टो भृतो भूतो भावी वा समीनः।
केचित्तु तेन निर्वृत्तम्(5-1-79/1743) इति सर्वत्रानुवर्तयन्ति। समया निर्वृत्तः समीनः ।।

</5-1-85>
द्विगोर्वा ।। <5-1-86> ।।
समायाः खः(5-1-85/1749) इत्येव। समाशब्दान्ताद् द्विगोर्निवृत्तादिष्वर्थेषु पञ्चसु वा खः प्रत्ययो भवति। पूर्वेण नित्यः प्राप्तो विकल्प्यते। `प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि(7-3-17/1683) इति प्राप्तिरस्त्येव। खेन मुक्ते पक्षे ठञपि भवति। द्विसमीनः, द्वैसमिकः। त्रिसमीनः, त्रैसमिकः ।।

</5-1-86>
रात्र्यहस्संवत्सराच्च ।। <5-1-87> ।।
`द्विगोः इत्येव। रात्रि, अहः, संवत्सर-इत्येवमन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। खेन मुक्ते पक्षे ठञपि भवति। द्विरात्रीणः , द्वैरात्रिकः। त्रिरात्रोणः, त्रैरात्रिकः। द्व्यहीनः, द्वैयह्निकः। त्र्यहीणः, त्रैयह्निकः। द्विसंवत्सरीणः, द्विसांवत्सरिकः। त्रिसंवत्सरीणः, त्रिसांवत्सरिकः। `संख्यायाः संवत्सरसंख्यस्य च(7-3-15/1752) इत्युत्तरपदवृद्धिः ।।

</5-1-87>
वर्षाल्लुक् च ।। <5-1-88>।।
`द्विगोः इत्येव। वर्षान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। पक्षे ठञ्। तयोश्च वा लुग्भवति। एवं त्रीणि रूपाणि भवन्ति-द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः। त्रिवर्षीणः, त्रिवार्षिकः; त्रिवर्षः। वर्षस्याभविष्यति(7-3-16/1754) इत्युत्तरपदवृद्धिः। भाविनि तु त्रैवर्षिकः ।।

</5-1-88>
चित्तवति नित्यम् ।। <5-1-89> ।।
चित्तवति प्रत्ययार्थेऽभिधेये वर्षशब्दान्तांद् द्विगोर्निर्वृत्तादिष्वर्थेषूत्पन्नस्य प्रत्ययस्य नित्यं लुग्भवति। पूर्वेण विकल्पे प्राप्ते वचनम्। द्विवर्षो दारकः।
चित्तवतीति किम्? द्विवर्षिणो व्याधिः ।।

</5-1-89>
षष्टिकाः षष्टिरात्रेण पच्यन्ते ।। <5-1-90> ।।
षष्टिकशब्दो निपात्यते। बहुवचनमतन्त्रम्। षष्टिरात्रशब्दात्तृतीयासमर्थात्कन् प्रत्ययो निपात्यते `पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञैषा धान्यविशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति ।।

</5-1-90>
वत्सरान्ताच्छश्छन्दसि ।। <5-1-91> ।।
वत्सरान्तात्प्रातिपदिकान्निर्वृत्तादिष्वर्थेषु छन्दसि विषये छःप्रत्ययो भवति। ठञोऽपवादः। इद्वत्सरीयः, `इदावत्सरीयः(काठ.सं.13-15-71) ।।

</5-1-91>
संपरिपूर्वात्ख च ।। <5-1-92> ।।
संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः प्रत्ययो भवति, चकाराच्छश्च।
`संवत्सरीणः(तै.सं.4-3-13-4), `परिवत्सरीणः(ऋ.7-103-8)। `संवत्सरीयः(काठ.सं.13-15-71)। `परिवत्सरीयः(काठ.सं.13-15-71) ।।

</5-1-92>
तेन परिजय्यलभ्यकार्यसुकरम् ।। <5-1-93> ।।
`तेन इति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात् `परिजय्य, लभ्य, कार्य, सुकर
 इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति। मासेन परिजय्यः, शक्यते जेतुं मासिको व्याधिः। सांवत्सरिकः। मासेन लभ्यो मासिकः पटः। मासेन कार्यं मासिकं चान्द्रायणम्। मासेन सुकरो मासिकः प्रासादः ।।

</5-1-93>
तदस्य ब्रह्मचर्यम् ।। <5-1-94> ।।
`तत् इति द्वितीया समर्थविभक्तिः, सा चात्यन्तसंयोगे। अस्येति प्रत्ययार्थः। `ब्रह्मचर्यम् इति द्वाभ्यामपि सम्बध्यते। कालस्य व्यापकम्, प्रत्ययार्थस्य च स्वमिति। तदिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकात् `अस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, ब्रह्मचर्यं चेद् गम्यते। मासं ब्रह्मचर्यमस्य मासिको ब्रह्मचारी। आर्द्धमासिकः। सांवत्सरिकः।
अपरा वृत्तिः---
तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत्तदस्येति निर्द्दिष्टं ब्रह्मचर्यं चेत्तद्भवति। मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम्। आर्धमासिकम्। सांवत्सरिकम्।
पूर्वत्र ब्रह्मचारी प्रत्ययार्तः, उत्तरत्र ब्रह्मचर्यमेव। उभयमपि प्रमाणमुभयथा सूत्रप्रणयनात्।

  • महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसंख्यानम् *(म.भा.2-360)। माहानामिकम्। गौदानिकम्। आदित्यव्रतिकम्।
  • तत्चरतीति च *(म.भा.2-360)। महानाम्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देनोच्यते। महानाम्नीश्चरति माहानामिकः। आदित्यव्रतिकः, गौदानिकः। `भस्याढे(6-3-35/836 वा.) इति पुंवद्भावेन ङीपि निवृत्ते नस्तद्धिते(6-1-144/679) इति टिलोपः।


  • अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः *(म.भा.2-360)। अवान्तरदीक्षां चरति आवान्तरदीक्षी। तिलव्रती।
  • अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः *(म.भा.2-360)। अष्टाचत्वारिंशद्वर्षाणि व्रतं चरति, अष्टाचत्वारिंशकः। अष्टाचत्वारिंशी।
  • चातुर्मास्यानां यलोपश्च ड्वुँश्च डिनिश्च वक्तव्यः *(म.भा.2-360)। चातुर्मास्यानि चरति चातुर्मासकः। चातुर्मासी ।।
  • चतुर्मासाण्ण्यो यज्ञे तत्र भवे *(म.भा.2-360)। चतुर्षु मासेषु भवानि चातुर्मास्यानि ।।
  • संज्ञायामण्वक्तव्यः * (म.भा.2-360)। चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी। आषाढी। कार्तिकी। फाल्गुनी ।।


</5-1-94>
तस्य च दक्षिणा यज्ञाख्येभ्यः ।। <5-1-95> ।।
`तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यः `दक्षिणा इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी। वाजपेयिकी। राजसूयिकी।
आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति; इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन्। `प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकि(7-3-17/1683 वा.) इति कालाधिकरेऽपि द्वादशाहादिष्वस्ति प्राप्तिः ।।

</5-1-95>
तत्र च दीयते कार्यं भववत् ।। <5-1-96> ।।
`तत्र इति सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद् दीयते, कार्यम्--इत्येतयोरर्थयोर्भववत्प्रत्ययो भवति। यथा--मासे भवं मासिकम्। सांवत्सरिकम्। प्रावृषेण्यम्। वासन्तिकम्, वासन्तम्। हैमनम्। हेमन्तम्। हैमन्तिकम्। शरदम्। वतिः सर्वसादृश्यार्थः।
योगविभागश्चात्र कर्त्तव्यः---`तत्र च दीयते, `यज्ञाख्येभ्यः इति। आग्निष्टोमिकं भक्तम्। राजसूयिकम्। वाजपेयिकम्।
कालाधिकारस्य पूर्णोऽवधिः। अतः परं सामान्येन प्रत्ययविधानम्।

</5-1-96>
व्युष्टादिभ्योऽण् ।। <5-1-97> ।।
`तत्र इति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते, कार्यम्--इत्येतयोरण् प्रत्ययो भवति। व्युष्टे दीयते कार्यं वा वैयुष्टम्। नैत्यम् ।।

  • अण्प्रकरणे अग्निपदादिभ्य उपसंख्यानम् *(म.भा.2-362) आग्निपदम्। पैलुमूलम्। किं वक्तव्यम्? वक्तव्यम्; अत्रैव ते पठितव्याः।

व्युष्ट। नित्य। निष्क्रमण। प्रवेशन। तीर्थ। सम्भ्रम। आस्तरण। संग्राम। संघात। अग्निपद। पीलूमूल। प्रवास। उपसंक्रमण। व्युष्टादिः ।।

</5-1-97>
तेन यथाकथाचहस्ताभ्यां णयतौ ।। <5-1-98> ।।
`दीयते, कार्यम् इति वर्त्तते। तेनेति तृतीयासमर्थाभ्यां यथाकथाच-हस्तशब्दाभ्यां यथासंख्यं णयतौ प्रत्ययौ भवतः। दीयते, कार्यमित्येतयोरर्थयोः प्रत्येकमभिसम्बन्धः, यथासंख्यं नेष्यते। यथाकथाचशब्दोऽव्ययसमुदायोऽनादरेवर्त्तते। तृतीयार्थमात्रं चात्र सम्भवति, न तु तृतीया समर्थविभक्तिः। यथाकथाच दीयते कार्यं वा याथाकथाचम्। हस्तेन दीयते कार्यं वा हस्त्यम् ।।

</5-1-98>
सम्पादिनि ।। <5-1-99> ।।
`तेन इत्येव। तृतीयासमर्थात्सम्पादिन्यभिधेये ठञ् प्रत्ययो भवति। गुणोत्कर्षः=सम्पत्तिः। आवश्यके णिनिः(3-3-170/3311)। कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम्। वास्त्रयुगिकं शरीरम्। वस्त्रयुगेण विशेषतः शोभते इत्यर्थः ।।

</5-1-99>
कर्मवेषाद्यत् ।। <5-1-100> ।।
कर्मन्, वेष-शब्दाभ्यां तृतीयासमर्थाभ्यां यत्प्रत्ययो भवति `सम्पादिनि इत्येतस्मिन्विषये। ठञोऽपवादः। कर्मणा सम्पद्यते कर्मण्यं शरीरम्। वेषेण संपद्यते वेष्यो नटः ।।

</5-1-100>
तस्मै प्रभवति सन्तापादिभ्यः ।। <5-1-101> ।।
`तस्मै इति चतुर्थीसमर्थेभ्यः `सन्तापादिभ्यः प्रभवति इत्यस्मिन्विषये ठञ् प्रत्ययो भवति। समर्थः, शक्तः=प्रभवतीत्युच्यते। अलमर्थे चतुर्थी। सन्तापाय प्रभवति सान्तापिकः। सान्नाहिकः।
सन्ताप। संनाह। संग्राम। संयोग। संपराय। संपेष। निष्पेष। निसर्ग। असर्ग। विसर्ग। उपसर्ग। उपवास। प्रवास। संघात। संमोदन। सक्तुमांसौदनाद्विगृहीतादपि ।।

</5-1-101>
योगाद्यच्च ।। <5-1-102> ।।
योगशब्दाद्यत्प्रत्ययो भवति, चकाराद् ठञ् `तस्मै प्रभवति इत्येतस्मिन्विषये। योगाय प्रभवति योग्यः, यौगिकः ।।

</5-1-102>
कर्मण उकञ् ।। <5-1-103> ।।
कर्मन्शब्दादुकञ् प्रत्ययो भवति `तस्मै प्रभवति इत्येतस्मिन्नर्थे। ठञोऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः।
धनुषोऽन्यत्र न भवति, अनभिधानात् ।।

</5-1-103>
समयस्तदस्य प्राप्तम् ।। <5-1-104> ।।
समयशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्राप्तं चेत्तद्भवति। समयः प्राप्तोऽस्य सामयिकं कार्यम्। उपनतकालमित्यर्थः।

</5-1-104>
ऋतोर्ण् ।। <5-1-105> ।।
`तदस्य प्राप्तम् इत्यनुवर्त्तते। ऋतुशब्दात्तदिति प्रथमासमर्थाद् `अस्य इति षष्ठ्यर्थेऽण् प्रत्ययो भवति `तदस्य प्राप्तम् इत्येतस्मिन् विषये। ऋतुः प्राप्तोऽस्य आर्त्तवं पुष्पम्।

  • तदस्य प्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् *। उपवस्ता प्राप्तोऽस्य औपवस्त्रम्। प्राशिता प्राप्तोऽस्य प्राशित्रम् ।।


</5-1-105>
छन्दसि घस् ।। <5-1-106> ।।
ऋतुशब्दाच्छन्दसि विषये घस् प्रत्ययो भवति `तदस्य प्राप्तम् इत्येतस्मिन्विषये। अणोऽपवादः। `अयं ते योनिर्ऋत्वियः(ऋ.3.29.10) ।।

</5-1-106>
कालाद्यत् ।। <5-1-107> ।।
कालशब्दाद्यत्प्रत्ययो भवति `तदस्य प्राप्तम् इत्यस्मिन्विषये। कालः प्राप्तोऽस्य काल्यस्तापः। काल्यं शीतम् ।।

</5-1-107>
प्रकृष्टे ठञ् ।। <5-1-108> ।।
`कालात् इत्येव, `तदस्य इति च। प्राप्तम् इति निवृत्तम्। प्रकर्षेण कालो विशेष्यते। प्रकर्षे वर्तमानात्कालात्प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति। प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम्। कालिकं वैरम्।
ठत्र्ग्रहणं विस्पष्टार्थम् ।।

</5-1-108>
प्रयोजनम् ।। <5-1-109> ।।
`तदस्य इत्येव। तदिति प्रथमासमर्थाद् `अस्य इति षष्ठ्यर्थे ठञ् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्रयोजनं चेत्तद्भवति। इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम्। गाङ्गामहिकम् ।।

</5-1-109>
विशाखाषाढादण्मन्थदण्डयोः ।। <5-1-110> ।।
विशाखाषाढाशब्दाभ्यामण् प्रत्ययो भवति `तदस्य प्रयोजनम् इत्येतस्मिन्विषये यथासंख्यं मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः।

  • चूडादिभ्य उपसंख्यानम् * चूडा प्रयोजनमस्य चौडम्। श्रद्धा प्रयोजनमस्य श्राद्धम् ।।


</5-1-110>
अनुप्रवचनादिभ्यश्छः ।। <5-1-111> ।।
अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति `तदस्य प्रयोजनम् इत्येतस्मिन्विषये। ठञोऽपवादः। अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम्। उत्थापनीयम् ।।

  • विशिपूरिपतिरुहि प्रकृतेरनात्सपूर्वपदादुपसंख्यानम् *(म.भा.2-362) गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतनीयम्। प्रासादारोहणीयम्।
  • स्वर्गादिभ्यो यद्वक्तयः *(म.भा.2-362)। स्वर्गः प्रयोजनमस्य स्वर्ग्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम्।
  • पुण्याहवाचनादिभ्यो लुग्वक्तव्यः *(म.भा.2-362) पुण्याहवाचनं प्रयोजनमस्य पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवाचनम्।

अनुप्रवचन। उत्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेशन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररोहण। अन्वारोहण। अनुप्रवचनादिः ।।

</5-1-111>
समापनात्सपूर्वपदात् ।। <5-1-112> ।।
समापनशब्दात् सपूर्वपदाद् विद्यमानपूर्वपदाच्छः प्रत्ययो भवति `तदस्य प्रयोजनम् इत्येतस्मिन्विषये। ठञोऽपवादः। छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्।
पदग्रहणं बहुच्पूर्वनिरासार्थम् ।।

</5-1-112>
ऐकागारिकट् चौरे ।। <5-1-113> ।।
`ऐकागारिकट् इति निपात्यते चौरेऽभिधेये। एकागारं प्रयोजनमस्य ऐकागारिकः चौरः। ऐकागारिकी।
किमर्थमिदं निपात्यते, यावता `प्रयोजनम् इत्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम्। इह मा भूत्--एकागारं प्रयोजनमस्य भिक्षोरिति।
टकारः कार्यावधारणार्थः--ङीबेव भवति, न ञित्स्वर इति।
अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति ।।

</5-1-113>
आकालिकडाद्यन्तवचने ।। <5-1-114> ।।
`आकालिकट् इति निपात्यते आद्यन्तवचने। समानकालशब्दस्याकालशब्द आदेशः। आद्यन्तयोस्चैतद्विशेषणम्।
इकट् प्रत्ययश्च निपात्यते। समानकालावाद्यन्तावस्य आकालिकः स्तनयित्ुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पादानन्तरं विनाशिनीत्यर्थः।

  • आकालाट् ठँश्च *। चात् ठञ्च। आकालिका विद्युत्। ठञः पूर्णोऽवधिः ।।


</5-1-114>
तेन तुल्यं क्रिया चेद्वतिः ।। <5-1-115> ।।
तेनेति तृतीयासमर्थात्तुल्यमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति यत्तुल्यंक्रिया चेत्सा भवति। ब्राह्मणेन तुल्यं वर्त्तते ब्राह्मणवत्। राजवत्।
क्रियाग्रहणं किम् ? गुणतुल्ये मा भूत्। पुत्रेण तुल्यः स्थूलः। पुत्रेण तुल्यो गोमान् ।।

</5-1-115>
तत्र तस्येव ।। <5-1-116> ।।
तत्रेति सप्तमीसमर्थात् `तस्य इति षष्ठीसमर्थाच्च इवार्थे वतिः प्रत्ययो भवति। मथुरायामिव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत्साकेते परिखा। षष्ठीसमर्थात्--देवदत्तस्येव देवदत्तवद् यज्ञदत्तस्य गावः। यज्ञदत्तस्येव देवदत्तस्य दन्ताः यज्ञदत्तवत् ।।

</5-1-116>
तदर्हम् ।। <5-1-117> ।।
तदिति द्वितीयासमर्थात् `अर्हम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानमर्हति राजवत्पालनम्। ब्राह्मणवत्। ऋषिवत्। क्षत्त्रियवत् ।।

</5-1-117>
उपसर्गाच्छन्दसि धात्वर्थे ।। <5-1-118> ।।
उपसर्गात्ससाधने धात्वर्थे वर्त्तमानात्स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये। `यदुद्वतो निवतो यासि वप्सद्(ऋ.10-142-4), `उद्गतानि निगतानि च(म.भा.2-365) ।।

</5-1-118>
तस्य भावस्त्वतलौ ।। <5-1-119> ।।
तस्येति षष्ठीसमर्थाद् `भावः इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः। भवतोऽस्मादभिधानप्रत्ययाविति भावः। शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनोच्यते। अश्वस्य भावः अश्वत्वम्, अश्वता। गोत्वम्, गोता ।।

</5-1-119>
आ च त्वात् ।। <5-1-120> ।।
ब्रह्मणस्त्वः(5-1-136/1801) इति वक्ष्यति। आ एतस्मात्त्वसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामस्तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ। वक्ष्यति--पृथ्वादिभ्य इमनिज्वा(5-1-122/1784) इति। प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता। म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता।
अपवादैः सह समावेशार्थं वचनम्। कर्मणि च विधानार्थम् गुणवचनब्राह्मणादिभ्यः कर्मणि च(5-1-124/1788) इति। चकारो नञ्स्नञ्भ्यामपि समावेशार्थः। स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता। पुंसो भावः पुंस्त्वम्, पुंस्ता, पौस्नम् ।।

</5-1-120>
न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः ।। <5-1-121> ।।
इत उत्तरे ये भावप्रत्ययास्ते नञ्पूर्वात्तत्पुरुषान्न भवन्ति चतुरादीन्वर्जयित्वा। वक्ष्यति--पत्यन्तपुरोहितादिभ्यो यक्(5-1-128/1793) इति।
अपतित्वम्, अपतिता। अपटुत्वम्, अपटुता। अरमणीयत्वम्, अरमणीयता।
नञ्पूर्वादिति किम् ? बार्हस्पत्यम्। प्राजाप्रत्यम्। तत्पुरुषादिति किम् ? नास्य पटवः सन्तीत्यपटुः, तस्य भाव आपटवम्। आलघवम्। अचतुरादिभ्य इति किम् ? आचतुर्यम्। आसङ्गत्यम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आकत्यम्। आरस्यम्। आलस्यम् ।।

</5-1-121>
पृथ्वादिभ्य इमनिज्वा ।। <5-1-122> ।।
`पृथु-इत्येवमादिभ्यः प्रातिपदिकेभ्य इमनिच्प्रत्ययो भवति वा `तस्य भावः इत्येतस्मिन्नर्थे। वावचनमणादेः समावेशार्थम्। पृथोर्भावः प्रथिमा, पार्थवम्। म्रदिमा, मार्दवम्। तुरिष्ठेमेयस्सु(6-4-154/2008) टेः(6-4-155/1786) इति टिलोपः। र ऋतो हलादेर्लघोः(6-4-161/1785) इति रेफादेशः। त्वतलौ सर्वत्र भवत एव---पृथुत्वम्, पृथुता। मृदुत्वम्, मृदुता।

पृथु। मृदु। महत्। पटु। तनु। लघु। बहु। साधु। वेणु। आसु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिञ्चन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुप्र। क्षुद्र। पृथ्वादिः ।।

</5-1-122>
वर्णदृढादिभ्यः ष्यञ् च ।। <5-1-123> ।।
वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढदिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच्च, `तस्य भावः इत्येतस्मिन्विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता। कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः---दार्ढ्यम्, दृढिमा, दृढत्वम्, दृढता।
षकारो ङीषर्थः---औचिती, याथाकामी।
दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक।* वेर्यातलाभमतिमनःशारदानाम् *(ग.सू.111)। `समो मतिमनसोर्जवने(ग.सू.112)। दृढादिः ।।

</5-1-123>
गुणवचनब्राह्मणादिभ्यः कर्मणि च ।। <5-1-124> ।।
गुणमुक्तवन्तो गुणवचनाः। गुणवचनेभ्यो ब्राह्मणादिभ्यश्च तस्येति षष्ठीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ्प्रत्ययो भवति। चकाराद् भावे च। कर्मन्शब्दः क्रियावचनः। जडस्य भावः कर्म वा जाड्यम्। ब्राह्मणादिभ्यः खल्वपि-ब्राह्मण्यम्। माणव्यम्। आ पादपरिसमाप्तेर्भावकर्माधिकारः। ब्राहमणादिराकृतिगणः। आदिशब्दः प्रकारवचनः।

  • चातुर्वर्ण्यादीनां स्वार्थ उपसंख्यानम् *(म.भा.2-370)। चत्वार एव वर्णाश्चातुर्वर्ण्यम्। चातुराश्रम्यम्। त्रैलोक्यम्। त्रैस्वर्यम्। षाडगुण्यम्। सैन्यम्। सान्निध्यम्। सामीप्यम्। औपम्यम्। सौख्यम्।

ब्राह्मण। वाडव। माणव। चोर। मूक। आराधय। विराधय। अपराधय। उपराधय। एकभाव। द्विभाव। त्रिभाव। अन्यभाव। समस्थ। विषमस्थ। परमस्थ। मध्यमस्थ। अनीश्वर।
कुशल। कपि। चपल। अक्षेत्रज्ञ। निपुण। * अर्हतो नुम् च *(ग.सू.113) आर्हन्त्यम् । संवादिन्। संवेशिन्।
बहुभाषिन्। बालिश। दुष्पुरुष। कापुरुष। दायाद। विशसि। धूर्त्त। राजन्। सम्भाषिन्। शीर्शपातिन्। अधिपति। अलस। पिशाच। पिशुन। विशाल। गणपति। धनपति। नरपति। गडुल। निव। निधान। विष। * सर्ववेदादिभ्यः स्वार्थे *(ग.सू.114)। * चतुर्वेदस्योभयपदवृद्धिश्च *(ग.सू.115)। चातुर्वैद्यम् । ब्राह्मणादिः ।।

</5-1-124>
स्तेनाद्यन्नलोपश्च ।। <5-1-125> ।।
स्तेनशब्दात्षष्ठीसमर्थाद्भावकर्मणोर्यत्प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तेनस्य भावः कर्म वा स्तेयम्।
`स्तेनात् इति केचिद् योगविभागं कुर्वन्ति। स्तेनात्ष्यञ् भवति-स्तैन्यम्। ततः `यन्नलोपश्च स्तेनादित्येव--स्तेयम् ।।

</5-1-125>
सख्युर्यः ।। <5-1-126> ।।
सखिशब्दाद् यः प्रत्ययो वति भावकर्मणोरर्थयोः। सख्युर्भावः कर्म वा सख्यम्।

  • दूतवणिग्भ्यां चेति वक्तव्यम् *। दूत्यम्। वणिज्यम्। कथं वाणिज्यम् ? ब्राह्मणादित्वात् ।।

</5-1-126>
कपिज्ञात्योर्ढक् ।। <5-1-127> ।।
कपि, ज्ञाति-शब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः। कपेर्भावः कर्म वा कापेयम्। ज्ञातेयम् ।
यथासंख्यमर्थयोः सर्वत्रैवात्र प्रकरणे नेष्यते ।।

</5-1-127>
पत्यन्तपुरोहितादिभ्यो यक् ।। <5-1-128> ।।
पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्मणोरर्थयोः। सेनापतेर्भावः कर्म वा सैनापत्यम्। गार्हपत्यम्। प्राजापत्यम्। पौरोहित्यम्। राज्यम्।
पुरोहित। राजन्। संग्रामिक। एषिक। वर्मित। खण्डिक। दण्डिक। छत्त्रिक। मिलिक। पिण्डिक। बाल। मन्द। स्तनिक। चूडितिक। कृषिक। पूतिक। पत्त्रिक। प्रतिक। अजानिक। सलनिक। सूचिक। शाक्वर। सूचक। पक्षिक। सारथिक। जलिक। सूतिक। अञ्जलिक। *राजासे*(ग.सू.116)। पुरोहितादिः ।।

</5-1-128>
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ।। <5-1-129> ।।
प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ् प्रत्ययो भवति भावकर्मणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः--कौमारम्। कैशोरम्। उद्गात्रादिभ्यः--औद्गात्रम्। औन्नेत्रम्।
उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। * सुभगा मन्त्रे *(ग.सू.117)। उद्गात्रादिः ।।

</5-1-129>
हायनान्तयुवादिभ्योऽण् ।। <5-1-130> ।।
हायनान्तेभ्यः प्रातिपदिकेभ्यो युवादिभ्यश्चाण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म वा द्वैहायनम्। त्रैहायनम्। युवादिभ्यः---यौवनम्। स्थाविरम्।

  • श्रोत्रियस्य यलोपश्च वाच्यः *(म.भा.2-371)। श्रोत्रियस्य भावः कर्म वा श्रौत्रम् ।

युवन्। स्थविर। होतृ। यजमान। कमण्डलु। * पुरुषासे *(ग.सू.118)। सुहृत्। यात्। श्रवण । कुस्त्री।
सुस्त्री। सुहृदय। सुभ्रातृ। वृषल।
 दुर्भ्रातृ। * हृदयासे *(ग.सू.119)। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः ।।

</5-1-130>
इगन्ताच्च लघुपूर्वात् ।। <5-1-131> ।।
लघुपूर्वग्रहणेन स एव विशेष्यते, पश्चात्तेन प्रातिपदिकस्य तदन्तविधिरिति। अस्मिन्व्याख्याने-अन्तग्रहणमतिरिच्यते। `लघुपूर्वादिकः इत्येतावदेव वाच्यं स्यात्। शुचेर्भावः कर्म वा शौचम्। मौनम्। नागरम्। हारीतकम्। पाटवम्। लाघवम्।
इगन्तादिति किम्? घटत्वम्। पटत्वम्। लघुपूर्वादिति किम्? कण्डूत्वम्। पाण्डुत्वम्।
कथं काव्यमिति ? ब्राह्मणादिषु कविशब्दो द्रष्टव्यः।

</5-1-131>
योपधाद् गुरुपोत्तमाद् वुञ् । <5-1-132> ।।
त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम्। गुरुरुपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधाद् गुरूपोत्तमाद्वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्।
योपधादिति किम् ? विमानत्वम्। गुरूपोत्तमादिति किम् ? क्षत्त्रियत्वम्।

  • सहायाद्वेति वक्तव्यम् *(म.भा.2-372)। साहायकम्। साहाय्यम् ।।


</5-1-132>
द्वन्द्वमनोज्ञादिभ्यश्च ।। <5-1-133> ।।
द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञादिभ्यः---मानोज्ञकम्, काल्याणकम्।
मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्त्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपुत्र। कुशल। मनोज्ञादिः ।।

</5-1-133>
गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु ।। <5-1-134> ।।
गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु, तत्र श्लाघा=विकत्थनम्। अत्याकारः=पराधिक्षेपः, तदवेतः=तत्प्राप्तः, तज्ज्ञो वा। तदिति गोत्रचरणयोर्भावकर्मणी निर्दिश्येते। तत्प्राप्तस्तदवगतवान् `तदवेतः इत्युच्यते। श्लाघायां तावत्--गार्गिकया श्लाघते काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थत इत्यर्थः। अत्याकारे-गार्गिकयात्याकुरुते। काठिकयात्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपतीत्यर्थः। तदवेतः--गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः। तद्वाऽवगतवानित्यर्थः।
श्लाघादिष्विति किम् ? गार्ग्यत्वम्। कठत्वम् ।।

</5-1-134>
होत्राभ्यश्छः ।। <5-1-135> ।।
होत्राशब्द ऋत्विग्विशेषवचनः। ऋत्विग्विशेषवाचिभ्यश्छः प्रत्ययो भवति भावकर्मणोः। अच्छावाकस्य भावः कर्म वा
अच्छावाकीयम्। मित्त्रावरुणीयम्। ब्राह्मणाच्छंसीयम्। आग्नीध्रीयम्। प्रतिप्रस्थात्रीयम्। त्वष्ट्रीयम्। पोत्रीयम्।
बहुवचनं स्वरूपविधिनिरासार्थम् ।।

</5-1-135>
ब्रह्मणस्त्वः ।। <5-1-136> ।।
`होत्राभ्यः इत्यनुवर्त्तते। ब्रह्मन्शब्दाद्धोत्रवाचिनस्त्वः प्रत्ययो भवति भावकर्मणोः। छस्यापवादः। ब्रह्मणो भावः कर्म वा ब्रह्मत्वम्।
`न इति वक्तव्ये त्ववचनं तलो बाधनार्थम्। यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्शब्दः, ततस्त्वतलौ भवत एव-ब्रह्मत्वम्, ब्रह्मता।
भवनावधिकयोर्नञ्स्नञोरधिकारः समाप्तः ।।
इति काशिकावृतौ
              पञ्चमस्याध्यायस्य प्रथमः पादः
</5-1-136>