काशिका/पञ्चमोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः


         अथ पञ्चमाध्याये चतुर्थः पादः

पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ।। <5-4-1> ।।
पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति। तत्सन्नियोगेन चान्तस्य लोपो भवति।
यस्येति(6-4-148/311) लोपेनैव सिद्धे पुनर्वचनमनैमित्तिकार्थम्। यस्येतिलोपः परनिमित्तकः, तस्य स्थानिवद्भावात् पादः पत्(6-4-130) इति पद्भावो न स्यात्। अस्य त्वनैमित्तिकत्वान्न स्थानिवत्त्वम्।
द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति। द्वे द्वे शते ददाति, द्विशतिकां ददाति। तद्धितार्थ(2-1-51/728) इति समासः, ततः प्रत्ययः।
स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते।
पादशतस्येति किम्? द्वौ द्वौ माषौ ददाति। संख्यादेरिति किम् ? पादं पादं ददाति। वीप्सायामिति किम् ? द्वौ पादौ ददाति। द्वे शते ददाति।
पादशतग्रहणमनर्थकम्; अन्यत्रापि दर्शतनात्। द्विमोदकिकां ददाति, त्रिमोदकिकां ददाति ।।
</5-4-1>
दण्डव्यवसर्गयोश्च ।। <5-4-2> ।।
दमनम्=दण्डः, दानम्=व्यवसर्गः। दण्डव्यवसर्गयोर्गम्यमानयोः पादशतान्तस्य प्रातिपदिकस्य संख्यादेर्वुन् प्रत्ययो भवति, अन्तलोपश्च। अवीप्सार्थोऽयमारम्भः। द्वौ पादौ दण्डितः द्विपदिकां दण्डितः। द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति। द्विशतिकां दण्डितः। त्रिशतिकाम्। द्विशतिकां व्यवसृजति। त्रिशतिकाम् ।।

</5-4-2>
स्थूलादिभ्यः प्रकारवचने कन् ।। <5-4-3> ।।
स्थूलादिभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति। जातीयरः(5-3-69/2024) अपवादः। प्रकारः=विशेषः। स्थूलप्रकारः स्थूलकः। अणुकः।

  • कन्प्रकरणे चञ्चद्-बृहतोरुपसंख्यानम् *(म.भा.2-430)। चञ्चत्प्रकारः चञ्चत्कः। बृहत्कः।

`चञ्चबृहयोः इति केचित्पठन्ति, तेषाम्-चञ्चकः, बृहक इति उदाहरणं द्रष्टव्यम्।
स्थूल। अणु। माष। इषु। * कृष्ण तिलेषु *(ग.सू.137)। `यव व्रीहिषु(ग.सू.138)। * पाद्यकालावदाताः सुरायाम् *(ग.सू.139)। * गोमूत्र आच्छादने *(ग.सू.140)। *सुराया अहौ *(ग.सू.141)। * जीर्ण शालिषु *(ग.सू.142)। * पत्त्रमूले समस्तव्यस्ते *(ग.सू.143)। कुमारीपुत्र। कुमार। श्वशुर। मणि। स्थूलादिः ।।

</5-4-3>
अनत्यन्तगतौ क्तात् ।। <5-4-4> ।।
अत्यन्तगतिः=अशेषसम्बन्धः, तदभावोऽनत्यन्तगतिः। अनत्यन्तगतौ गम्यमानायां क्तान्तात्कन्प्रत्ययो भवति। भिन्नकः। छिन्नकः।
अनत्यन्तगताविति किम् ? भिन्नम्। छिन्नम् ।।

</5-4-4>
न सामिवचने ।। <5-4-5> ।।
सामिवचने उपपदे क्तान्तात्कन्प्रत्ययो न भवति। सामिकृतम्। सामिभुक्तम्।
वचनग्रहणं पर्यायार्थम्। अर्धकृतम्। नेमकृतम्।
सामिवचने प्रतिषेधानर्थक्यम्; प्रकृत्याभिहितत्वात् ? एवं तर्हि नैवायमनत्यन्तगतौ विहितस्य कनः प्रतिषेधः, किं तर्हि? स्वार्थिकस्य।
केन पुनः स्वार्थिकः कन्विहितः ? एतदेव ज्ञापकमनुमास्यते भवति स्वार्थे कन्निति। तत्र यदेतदुच्यते-`एवं हि सूत्रमभिन्नतरकं भवति, `एतैर्हि बहुतरकं व्याप्यते इत्येवमादि, तदुपपन्नं भवति ।।

</5-4-5>
बृहत्या आच्छादने ।। <5-4-6> ।।
कन्ननुवर्त्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्त्तमानात् स्वार्थे कन्प्रत्ययो भवति। बृहतिका।
आच्छादने इति किम्? बृहती छन्दः ।।

</5-4-6>
अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः ।। <5-4-7> ।।
अषडक्ष, आशितङ्गु, अलङ्कर्म, अलम्पुरुष-इत्यतेभ्योऽध्युत्तरपदाच्च स्वार्थे खः प्रत्ययो भवति। अविद्यमानानि षडक्षीण्यस्येति बहुव्रीहिः, बहुव्रीहौ सक्थ्यक्ष्णोः(5-4-113/852) इति षच्, ततः खप्रत्ययः। अषडक्षीणो मन्त्रः। यो द्वाभ्यामेव क्रियते न बहुभिः। आशिता गावोऽस्मिन्नरण्ये आशितङ्गवीनमरण्यम्। निपातनात्पूर्वपदस्य मुमागमः।
अलङ्कर्मन्, अलम्पुरुष इति `पर्यादयो ग्लानाद्यर्थे चतुर्थ्या(वा.93) इति समासः। अलङ्कर्मणे अलङ्कर्मीणः। अलम्पुरुषाय अलम्पुरुषीणः।
अध्युत्तरपदस्तत्पुरुषः। अधिशब्दः शौण्डादिषु पठ्यते। राजाधीनः। नित्यश्चायं प्रत्ययः; उत्तरत्र विभाषाग्रहणात्।
अन्येऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते-तमबादयः(5-3-55/2001) प्राक्कनः(5-3-64/2019), ञ्यादयः(5-3-112/2066) प्राग्वुनः(5-4-1/2073), आमादयः(5-4-11/2004) प्राङ् मयटः(5-4-21/2089), बृहतीजात्यन्ताः(5-4-6/2078)(5-4-9/2081) समासान्ताश्चेति ।।

</5-4-7>
विभाषाञ्चेरदिक्स्त्रियाम् ।। <5-4-8> ।।
अञ्चत्यन्तात्प्रातिपदिकाददिक्स्त्रियां वर्त्तमानात्स्वार्थे विभाषा खः प्रत्ययो भवति। प्राक्, प्राचीनम्। अर्वाक्, अर्वाचीनम्।
अधिक्स्त्रियामिति किम्? प्राची दिक्। प्रतीची दिक्। दिग्ग्रहणं किम्? प्राचीना ब्राह्मणी। अवाचीना शिखा। स्त्रीग्रहणं किम् ? प्राचीनं दिग्रमणीयम्। उदीचीनं दिग्रमणीयम् ।।

</5-4-8>
जात्यन्ताच्छ बन्धुनि ।। <5-4-9> ।।
जात्यन्तात्प्रातिपदिकाद् बन्धुनि वर्त्तमानात्स्वार्थे छः प्रत्ययो भवति। बध्यतेऽस्मिञ्जातिरिति बन्धुशब्देन द्रव्यमुच्यते। येन ब्राह्मणत्वादिजातिर्व्यज्यते तद् बन्धु=द्रव्यमुच्यते। ब्राह्मणजातीयः, क्षत्त्रियजातीयः, वैश्यजतीयः, इति ब्राह्मणादिरेवोच्यते।
बन्धुनीति किम् ? ब्राह्मणजातिः शोभना ।।

</5-4-9>
स्थानान्ताद्विभाषा सस्थानेनेति चेत् ।। <5-4-10> ।।
स्थानान्तात्प्रातिपदिकाद्विभाषा छः प्रत्ययो भवति सस्थानेन चेत् स्थानान्तमर्थवद्भवति। सस्थान इति तुल्य उच्यते, समानं स्थानमस्येति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः।
राजस्थानीयः, राजस्थानः।
सस्थानेनेति किम् ? गोस्थानम्। अश्वस्थानम्।
इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दोऽर्थमुपस्थापयति, न तत्पुरुषः।
चेच्छब्दः सम्बन्धार्थः। द्वयोर्विभाषयोर्मध्ये नित्यविधय इति पूर्वत्र नित्यविधयः ।।

</5-4-10>
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।। <5-4-11> ।।
किम एकारान्तात्तिङ्न्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङ्व्ययघः, तदन्तात्प्रातिपदिकादद्रव्यप्रकर्षे आमु प्रत्ययो भवति। यद्यपि द्रव्यस्य स्वतः प्रकर्षो नास्ति, तथापि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदाऽयं प्रतिषेधः। क्रियागुणयोरेवायं प्रकर्षे प्रत्ययः। किंतराम्। किंतमाम्। पूर्वाह्णेतराम्। पूर्वाह्णेतमाम्। पचतितराम्। पचतितमाम्। उच्चैस्तराम्। उच्चैस्तमाम्।
अद्रव्यप्रकर्ष इति किम्? उच्चैस्तरः पर्वतः। उच्चैस्तमः ।।

</5-4-11>
अमु चच्छन्दसि ।। <5-4-12> ।।
किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चकारादामु च। `प्रतरं न आयुः(ऋ.4-12-6)। `प्रतरां नय(वा.सं.17-51)। स्वरादिषु अम्, आम्, इति पठ्यते, तस्मात्तदन्तस्याव्ययत्वम् ।।

</5-4-12>
अनुगादिनष्ठक् ।। <5-4-13> ।।
अनुगदतीत्यनुगादी। अनुगादिन्शब्दात्स्वार्थे ठक् प्रत्ययो भवति। आनुगादिकः ।।

</5-4-13>
अचः स्त्रियामञ् ।। <5-4-14> ।।
कर्मव्यतिहारे णच् स्त्रियाम्(3-3-43/3215) इति णज्विहितः, तदन्तात्स्वार्थेऽञ् प्रत्ययो भवति स्त्रियां विषये। व्यावक्रोशी। व्यावहासी वर्त्तते।
स्त्रीग्रहणं किमर्थम्, यावता णच् स्त्रियामेव विहितः, ततः स्वार्थिकस्तत्रैव भविष्ति? एवं तर्ह्येतज् ज्ञापयति--स्वार्थिकाः प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्त्तन्तेऽपीति(म.भा.2-432)। तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवतेत्येवमादि उपपन्नं भवति।

</5-4-14>
अणिनुणः ।। <5-4-15> ।।
अभिविधौ भाव इनुण्(3-3-44/3218) विहितः, तदन्तास्त्वार्थेऽण् प्रत्ययो भवति। सांराविणं वर्त्तते। सांकूटिनम् ।।

</5-4-15>
विसारिणो मत्स्ये ।। <5-4-16> ।।
विसरतीति विसारी। विसारिन्-शब्दात्स्वार्थेऽण् प्रत्ययो भवति मत्स्येऽभिधेये। वैसारिणो मत्स्यः।
मत्स्य इति किम् ? विसारी देवदत्तः ।।

</5-4-16>
संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ।। <5-4-17> ।।
संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्त्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययो भवति। पौनःपुन्यम्=अभ्यावृत्तिः। एककर्तृकाणां तुल्यजातीयानां क्रियाणां जन्मसंख्यानं क्रियाभ्यावृत्तिगणनं तत्र प्रत्ययः। पञ्चवारान् भुङ्क्ते पञ्चकृत्वः। सप्तकृत्वः।
संख्याया इति किम् ? भूरीन्वारान् भुङ्क्ते।
क्रियाग्रहणं किमर्थम्, यावताभ्यावृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोः? उत्तरार्थं क्रियाग्रहणम्।
एकस्य सकृच्च(5-4-19/2089) इत्यत्रापि क्रियैव गण्यते, नाभ्यावृत्तिः; असम्भवात्।
अभ्यावृत्तिग्रहणं किम् ? क्रियामात्रगणने मा भूत्---पञ्चपाकाः, दशपाकाः।
गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव संख्या ? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्--शतवारान्भुङ्क्ते शतकृत्व इति। इह न स्यात्---शतं वाराणां भुङ्क्त इति, न ह्यत्राभ्यावृत्तौ शतशब्दः; संख्यानमात्रवृत्तित्वात्। गणनग्रहणात्तु सर्वत्र सिद्धं भवति।

</5-4-17>
द्वित्रिचतुर्भ्यः सुच् ।। <5-4-18> ।।
द्वि, त्रि, चतुर्--इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचोऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुक्तम्। चकारः स्वरार्थः।।

</5-4-18>
एकस्य सकृच्च ।। <5-4-19> ।।
एकशब्दस्य सकृदित्ययमादेशो भवति सुच्च प्रत्ययः क्रियागणने। कृत्वसुचोऽपवादः। अभ्यावृत्तिस्त्विह सम्भवति। सकृद् भुङ्क्ते। सकृदधीते ।
एकः पाकः--इत्यत्र न भवति; अनभिधानात् ।।

</5-4-19>
विभाषा बहोर्धाऽविप्रकृष्टकाले ।। <5-4-20> ।।
बहुशब्दात् क्रियाभ्यावृत्तिगणने वर्त्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचोऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते। बहुकृ-त्वो दिवसस्य भुङ्क्ते।
अविप्रकृष्टकाल इति किम्? बहुकृत्वो मासस्य भुङ्क्ते ।।

</5-4-20>
तत्प्रकृतवचने मयट् ।। <5-4-21> ।।
`तत् इति प्रथमा समर्थविभक्तिः, प्राचुर्येण प्रस्तुतम्=प्रकृतम्। प्रथमासमर्थात् प्रकृतोपाधिकेऽर्थे वर्तमानात्स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम् अन्नमयम्। अपूपमयम्।
अपरे तु पुनरेवं सूत्रार्थमाहुः---प्रकृतमित्युच्यतेऽस्मिन्नति प्रकृतवचनम्। तदिति प्रथमासमर्थात् प्रकृतवचनेऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतमस्मिन्नन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा।
द्वयमपि प्रमाणम्; उभयथा सूत्रप्रणयनात् ।।

</5-4-21>
समूहवच्च बहषु ।। <5-4-22> ।।
`तत्प्रकृतवचने इत्येव। बहुषु प्रकृतेषूच्यमानेषु समूहवत्प्रत्यया भवन्ति। चकारान्मयट् च। मोदकाः प्रकृताः=प्राचुर्येण प्रस्तुताः मौदकिकम्(4-2-47/1256), मोदकमयम्। शाष्कुलिकम्, शष्कुलीमयम्।
अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि।
द्वितीये सूत्रार्थे--मोदकाः प्रकृता अस्मिन्यज्ञे मौदकिको यज्ञः, मोदकमयः। शाष्कुलिकः, शष्कुलीमयः ।।

</5-4-22>
अनन्तावसथेतिहभेषजाञ् ञ्यः ।। <5-4-23> ।।
अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति। अनन्त एव आनन्त्यम्। आवसथ एवावसथ्यम्। इति ह ऐतिह्यम्। निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते। भेषजमेव भैषज्यम्।
महाविभाषया विकल्पते प्रत्ययः ।।

</5-4-23>
देवतान्तात्तादर्थ्ये यत् ।। <5-4-24> ।।
देवताशब्दान्तात् प्रातिपदिकाच्चतुर्थीसमर्थात् तादर्थ्ये यत् प्रत्ययो भवति। तदर्थ एव तादर्थ्यम्। चातुर्वर्ण्यादित्वात्ष्यञ्। तदिति प्रकृत्यर्थो निर्दिश्यते। अग्निदेवतायै इदम् अग्निदेवत्यम्। पितृदेवत्यम्। वायुदेवत्यम् ।।

</5-4-24>
पादार्घाभ्यां च ।। <5-4-25> ।।
`तादर्थ्ये इत्येव। पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्येऽभिधेये यत्प्रत्ययो भवति। पादार्थमुदकं पाद्यम्। अर्घ्यम्। अनुक्तसमुच्चयार्थश्चकारः। यथादर्शनमन्यत्रापि प्रत्ययो भवति--`एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिः(तै.सं.1-6-11-4)।
वसु, अयस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ--इत्येतेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो भवति। `अग्निरीशे वसव्यस्य(ऋ.4-58-8)। `अपस्यो वसानाः(मै.सं.2-6-8)। द्वितीयाबहुवचनस्यालुक्। अयो वसाना इत्यर्थः। `स्व ओक्ये(ऋ.1-91-13)। `कव्योऽसि(मै.सं.1-3-12)। `क्षेम्यमध्यवस्यति(तै.सं.5-2-1-7)। वायुर्वर्चस्यः। `निष्केवल्यं शंसति(का.सं.28-10)। उक्थ्यं शंसति। जन्यं ताभिः। `पूर्व्या विशः(अ.19-34-6)। `स्तोमैर्जनयामि नव्यम्(ऋ.1-109-2)। `सूर्यः(ऋ.1-23-17)। `मर्त्यः(ऋ.1-19-2)। `यविष्ठ्यः(ऋ.1-36-6) ।।

  • आमुष्यायणामुष्यपुत्रिकेत्युपसंख्यानम् *।
  • समशब्दादावतुप्रत्ययो वक्तव्यः *। `समावद्धसति(मै.सं.2-2-7-7)।
  • नवस्य नू आदेशः, त्नप्तनप्खाश्च प्रत्ययाः *। नूत्नम्। नूतनम्। नवीनम्।
  • नश्च पुराणे प्रात् *। पुराणे वर्त्तमानात् प्रशब्दान्न प्रत्ययो भवति। चकारात् त्नप्तनप्खाश्च। प्रणम्। `प्रत्नम्(ऋ.1-36-4)। प्रतनम्। प्रीणम्।
  • भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः *। भागधेयम्। रूपधेयम्। नामधेयम्।
  • मित्त्राच्छन्दसि *। `मित्त्रधेयं यतस्व(तै.सं.4-1-7-2)।
  • आग्नीध्रसाधारणादञ् *। `आग्नीध्रम्(तै.सं.3-1-6-1)। `साधारणम्(तै.सं.2-6-1-6)। स्त्रियां ङीप्---आग्नीध्री, `साधारणी(ऋ.1-160-4)।

वाप्रकरणाच्च विकल्पन्ते एतान्युपसंख्यानानि, तेन यथाप्राप्तमपि भवति---आग्नीध्रा शाला, साधारणा भूरिति।

  • अयवसमरुद्भ्यां छन्दस्यञ्वक्तव्यः *। `आयवसे रमन्ते(तै.सं.5-2-8-3)। `मारुतं शर्धः(ऋ.1-106-1) ।।


</5-4-25>
अतिथेर्ञ्यः ।। <5-4-26> ।।
`तादर्थ्ये इत्येव। अतिथिशब्दाच्चतुर्थीसमर्थात् तादर्थ्येऽभिधेये ञ्यः प्रत्ययो भवति। अतिथये इदम् आतिथ्यम् ।।

</5-4-26>
देवात्तल् ।। <5-4-27> ।।
`तादर्थ्ये इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता।।
</5-4-27>
अवेः कः ।। <5-4-28> ।
अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेवाविकः ।।

</5-4-28>
यावादिभ्यः कन् ।। <5-4-29> ।।
`याव--इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। याव एव यावकः। मणिकः।
याव। मणि। अस्थि। चण्ड। पीत। स्तम्ब। * ऋतावुष्णशीते *(ग.सू.144)। * पशौ लूनवियाते *(ग.सू.145)। * अणु निपुणे *(ग.सू.146)। * पुत्र कृत्रिमे *(ग.सू.147)। * स्नात वेदसमाप्तौ *(ग.सू.148)। * शून्य रिक्ते *(ग.सू.149)। * दान कुत्सिते *(ग.सू.150)। * तनु सूत्रे *(ग.सू.151)। * ईयसश्च *(ग.सू.152)। श्रेयस्कः। ज्ञात। * कुमारीक्रीडनकानि च *(ग.सू.153)। यावादिः ।।

</5-4-29>
लोहितान्मणौ ।। <5-4-30> ।।
लोहितशब्दान्मणौ वर्त्तमानात्स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिः लोहितकः।।
मणौ इति किम्? लोहितः।।
</5-4-30>
वर्णे चानित्ये ।। <5-4-31> ।।
अनित्ये वर्णे वर्त्तमानाल्लोहितशब्दात्स्वार्थे कन्प्रत्ययो भवति। लोहितकः कोपेन। लोहितकः पीडनेन।
अनित्य इति किम् ? लोहितो गौः। लोहितं रुधिरम्।

  • लोहिताल्लिड्गबाधनं वा वक्तव्यम् *(म.भा.2-433)। लोहितिका कोपेन। लोहिनिका कोपेन ।।


</5-4-31>
रक्ते ।। <5-4-32> ।
लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः।
लिङ्गबाधनं वेत्येव---लोहितिका, लोहिनिका शाटी ।।

</5-4-32>
कालाच्च ।। <5-4-33> ।।
वर्णे चानित्ये(5-4-31/2099), रक्ते(5-4-32/2100) इति द्वयमप्यनुवर्तते। कालशब्दादनित्ये वर्त्तमानाद्रक्ते च कन् प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते--कालकः पटः। कालिका शाटी ।।

</5-4-33>
विनयादिभ्यष्ठक् ।। <5-4-34> ।।
`विनय--इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। विनय एव वैनयिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः।
विनय। समय। * उपायाद् ह्रस्वत्वं च *(ग.सू.154)। सङ्गति। कथञ्चित्। अकस्माद्। समयाचार। उपचार। समाचार। व्यवहार। सम्प्रदान। समुत्कर्ष। समूह। विशेष। अत्यय। विनयादिः ।।

</5-4-34>
वाचो व्याहृतार्थायाम् ।। <5-4-35> ।।
व्याहृतः=प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्त्तमानाद्वाच्शब्दात्स्वार्थे ठक् प्रत्ययो भवति। पूर्वमन्येनोक्तार्थत्वात् सन्देशवाग्=व्याहृतार्थेत्युच्यते। वाचिकं कथयति। वाचिकं श्रद्दधे।
व्याहृतार्थायामिति किम्? मधुरा वाक् देवदत्तस्य ।।

</5-4-35>
तद्युक्तात्कर्मणोऽण् ।। <5-4-36> ।।
व्याहृतार्थया वाचा यत्कर्मयुक्तं तदभिधायिनः कर्मशब्दात् स्वार्थेऽण् प्रत्ययो भवति। कर्मैव कार्मणम्। वाचिकं श्रुत्वा तथैव यत्कर्म क्रियते तत्कार्मणमित्युच्यते।

  • अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्त्रामित्रेभ्यश्छन्दस्पुपसंख्यानम् *(म.भा.2-435)। कुलाल एव कौलालः। वारुडः। नैषादः। कार्मारः। चाण्डालः। मैत्त्रः। आमित्रः।
  • सान्नाय्यानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः *। एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते।


</5-4-36>
ओषधेरजातौ ।। <5-4-37> ।।
ओषधिशब्दादजातौ वर्तमानात्स्वार्थेऽण् प्रत्ययो भवति। औषधं पिबति। औषधं ददाति।
अजाताविति किम्? ओषधयः क्षेत्रे रूढा भवन्ति ।।

</5-4-37>
प्रज्ञादिभ्यश्च ।। <5-4-38> ।।
प्रजानातीति प्रज्ञः। `प्रज्ञ-इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽण् प्रत्ययो भवति। प्रज्ञ एव प्राज्ञः। स्त्री-प्राज्ञी। यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति। प्रज्ञाश्रद्धार्चावृत्तिभ्योऽणः(5-2-101/1908) इति।
विदन्नित्यत्र पठ्यते, विदेः शत्रन्तस्य ग्रहणम्, विदेः शतुर्वसुः(7-1-36/3105) इत्यत एव ज्ञापकात् पाक्षिको वस्वादेशः।
अन्यतरस्यांग्रहणं वा तत्रानुवर्तते--तुह्योस्तातङाशिष्यन्यतरस्याम्(7-1-35/2197) इति।
प्रज्ञ। वणिक्। उशिक्। उष्णिक्। प्रत्यक्ष। विद्वस्। विदन्। षोडन्। षोडश। विद्या। मनस्। * श्रोत्र शीरीरे *(ग.सू.155)। श्रौत्रम्। * जुह्वत् कृष्णमृगे *(ग.सू.156)। चिकीर्षत्। चोर। शत्रु। योध। वक्षस्। धूर्त्त। वस्। एत्। मरुत्। क्रुङ्। राजा। सत्वन्तु। दशार्ह। वयस्। आतुर। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु। प्रज्ञादिः ।।

</5-4-38>
मृदस्तिकन् ।। <5-4-39> ।।
मृच्छब्दात्स्वार्थे तिकन् प्रत्ययो भवति। विकल्पः सर्वत्रानुवर्तते। मृदेव मृत्तिका ।।

</5-4-39>
सस्नौ प्रशंसायाम् ।। <5-4-40> ।।
प्रशंसोपाधिकेऽर्थे वर्त्मानाद् मृच्छब्दात् स, स्न-इत्येतौ प्रत्ययौ भवतः। रूपपोऽपवादः। प्रशस्ता मृद् मृत्सा। मृत्स्ना।
नित्यश्चायं प्रत्ययः; उत्तरसूत्रेऽन्यतरस्यांग्रहणात् ।।

</5-4-40>
वृकज्येष्ठाभ्यां तिल्तातिलौ चच्छन्दसि ।। <5-4-41> ।।
`प्रशंसायाम् इत्येव। वृकज्येष्ठाभ्यां प्रसंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासंख्यं तिल्-तालिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोऽपवादः। `वृकतिः(ऋ.4-31-4)। `ज्येष्ठतातिः(ऋ.5-44-1) ।।

</5-4-41>
बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।। <5-4-42> ।।
बह्वर्थादल्पार्थाच्च कारकाभिधायिनः शब्दात् शस् प्रत्ययो भवति अन्यतरस्याम्। विशेषानभिधानाच्च सर्वं कर्मादिकारकं गृह्यते। बहूनि ददाति, बहुशो ददाति। अल्पं ददाति, अल्पशो ददाति।
बहुभिर्द्ददाति, बहुशो ददाति। अल्पेन, अल्पशः। बहुभ्यः, बहुशः। अल्पाय, अल्पशः। इत्येवमाद्युदाहार्यम्।
बह्वल्पार्थादिति किम् ? गां ददाति। अश्वं ददाति। कारकादिति किम् ? बहूनां स्वामी। अल्पानां स्वामी।
अर्थग्रहणात् पर्यायेभ्योऽपि भवति---भूरिशो ददाति। स्तोकशो ददाति।

  • बह्वल्पार्थान्मड्गलामङ्गलवचनम् *(म.भा.2-436)। यत्र मङ्गलं गम्यते तत्रायं प्रत्यय इष्यते। बहुशो ददातीत्याभ्युदयिकेषु कर्मसु। अल्पशो ददातीत्यनिष्टेषु कर्मसु ।।


</5-4-42>
संख्यैकवचनाच्च वीप्सायाम् ।। <5-4-43> ।।
संख्यावाचिभ्यः प्रातिपदिकेभ्य एकवचनाच्च वीप्सायां द्योत्यायां शस् प्रत्ययो भवति अन्यतरस्याम्। द्वौ द्वौ मोदकौ ददाति द्विशः। त्रिशः। एकवचनात्खल्वपि-कार्षापणं कार्षापणं ददाति कार्षापणशः। माषशः। पादशो ददाति।
एकोऽर्थ उच्यते येन तदेकवचनम्। कार्षापणादयश्च परिमाणशब्दा वृत्तावेकार्था एव भवन्ति ।
संख्यैकवचनादिति किम् ? घटं घटं ददाति। वीप्सायामिति किम् ? द्वौ ददाति। कार्षापणं ददाति।
`कारकात् इत्येव--द्वयोर्द्वयोः स्वामी। कार्षापणस्य कार्षापणस्य स्वामी ।।

</5-4-43>
प्रतियोगे पञ्चम्यास्तसिः ।। <5-4-44> ।।
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः प्रत्ययो भवति। प्रद्युम्नो वासुदेवतः प्रति। अभिमन्युरर्जुनतः प्रति।
वाग्रहणानुवृत्तेर्विकल्पेन भवति--वासुदेवात्, अर्जुनादित्यपि भवति।

  • तसिप्रकरणे आद्यादिभ्य उपसंख्यानम् *। आदौ आदितः। मध्यतः। पार्श्वतः। पृष्ठतः। आकृतिगणश्चायम् ।।


</5-4-44>
अपादाने चाहीयरुहोः ।। <5-4-45> ।।
अपादाने या पञ्चमी तस्याः पञ्चम्या वा तसिः प्रत्ययो भवति। तच्चेदपादानं हीयरुहोः सम्बन्धि न भवति। ग्रामत आगच्छति, ग्रामात्। चोरतो बिभेति, चोरात्। अध्ययनतः पराजयते, अध्ययनात्।
अहीयरुहोरिति किम् ? सार्थाद्धीयते। पर्वतादवरोहति।
हीयते इति विकारनिर्द्देशो जहातेः प्रतिपत्त्यर्थः, जिहीतेर्मा भूत्---भूमित उज्जिहीते, भूमेरुज्जिहीते।
कथम् `मन्त्रो हीनः स्वरतो वर्णतो वा(पा.शि.52) इति ? नैषा पञ्चमी; किं तर्हि, तृतीया। स्वरेण वर्णेन हीन इत्यर्थः ।।

</5-4-45>
अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ।। <5-4-46> ।।
अतिक्रम्य ग्रहः=अतिग्रहः। अचलनम्=अव्यथनम्। क्षेपः=निन्दा। अतिग्रहादिविषये या तृतीया तदन्ताद्वा तसिः प्रत्ययो भवति, सा चेत् कर्तरि न भवति। वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते। चारित्रेणातिगृह्यते चारित्रतोऽतिगृह्यते। सुष्ठु वृतवानन्यानतिक्रम्य वृत्तेन गृह्यत इत्यर्थः।
अव्यथने--वृत्तेन न व्यथते वृत्ततो न व्यथते। चारित्रेण न व्यथते चारित्रतो न व्यथते। वृत्तेन न चलतीत्यर्थः।
क्षेपे---वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः। वृत्तेन निन्दित इत्यर्थः।
अकर्तरीति किम्? देवदत्तेन क्षिप्तः ।।

</5-4-46>
हीयमानपापयोगाच्च ।। <5-4-47> ।।
अकर्तरि तृतीययाः(5-4-46/2113) इत्येव। हीयमानेन पापेन च योगो यस्य तद्वाचिनः शब्दात्परा या तृतीया विभक्तिरकर्तरि तदन्ताद्वा तसिः प्रत्ययो भवति। वृत्तेन हीयते वृत्ततो हीयते। चारित्रेण हीयते चारित्रतो हीयते। पापयोगात्---वृत्तेन पापः वृत्ततः पापः। चारित्रेण पापः चारित्रतः पापः।
क्षेपस्य चाविवक्षायां तत्त्वाख्यायामिदमुदाहरणम्। क्षेपे हि पूर्वेणैव सिद्धम्।
अकर्तरीत्येव--देवदत्तेन हीयते ।।

</5-4-47>
षष्ठ्या व्याश्रये ।। <5-4-48> ।।
नानापक्षसमाश्रयः=व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्। षष्ठी चात्र पक्षापेक्षैव। अर्दजुनस्य पक्षे, कर्णस्य पक्ष इत्यर्थः।
व्याश्रय इति किम् ? वृक्षस्य शाखा ।।

</5-4-48>
रोगाच्चापनयने ।। <5-4-49> ।।
रोगः=व्याधिः। तद्वाचिनः शब्दाद्या षष्ठीविभक्तिः तदन्ताद्वा तसिः प्रत्ययो भवति अपनयने गम्यमाने। अपनयनम्=प्रतीकारः, चिकित्सेत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुर्वित्यर्थः।
अपनयन इति किम् ? प्रवाहिकायाः प्रकोपनं कुरु।

</5-4-49>
अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ।। <5-4-50> ।।
कारणस्य विकाररूपेणाभूतस्य तदात्मना भावः=अभूततद्भावः। सम्पद्यतेः कर्त्ता सम्पद्यकर्ता। सम्पद्यकर्तरि वर्तमानात् प्रातिपदिकादभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति। अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति। मलिनं शुक्लीकरोति। शुक्लीभवति। शुक्लीस्यात्। घटीकरोति मृदम्। धटीभवति। घटीस्यात् ।
अभूततद्भाव इति किम्? शुक्लं करोति। नात्र प्रकृतिर्विवक्षिता। कृभ्वस्तियोग इति किम्? अशुक्लः शुक्लो जायते।
सम्पद्यकर्तरीति किम्, यावता अभूततद्भावसामर्थ्याल्लब्धमेव सम्पद्यकर्तृत्वम् ? कारकान्तरसम्पत्तौ मा भूत्-अदेवगृहे देवगृहे सम्पद्यते। देवगृहस्याधेयविशेषसम्बन्धेन अभूततद्भावः सत्त्वाधिकरणस्य, न कर्तुरिति ।।

</5-4-50>
अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ।। <5-4-51> ।।
अरुःप्रभृतीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः। अत्र सर्वविशेषणसम्बन्धात्पूर्वेणैव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः। अनरुररुः सम्पद्यते, तं करोति अरूकरोति। अरूभवति। अरूस्यात्। मनस्-उन्मनीकरोति। उन्मनीभवति। उन्मनीस्यात्। चक्षुषु--उच्चक्षूकरोति। उच्चक्षूभवति। उच्चक्षूस्यात्। चेतस्--विचेतीकरोति। विचेतीभवति। विचेतीस्यात्। रहस्-विरहीकरोति। विरहीभवति। विरहीस्यात्। रजस्-विरजीकरोति। विरजीभवति। विरजीस्यात्।

</5-4-51>
विभाषा साति कार्त्स्न्ये ।।<5-4-52> ।।
`अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वमनुवर्तते। अस्मिन्विषये विभाषा सातिः प्रत्ययो भवति कार्त्स्न्ये गम्यमाने। यदि प्रकृतिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः। अग्निसाद्भवति शस्त्रम्। अग्नीभवति शस्त्रम्। उदकसाद्भवति लवणम्। उदकीभवति लवणम्।
कार्त्स्न्ये इति किम्? एकदेशेन पटः शुक्लीभवति। विभाषाग्रहणं च्वेः प्रापकम्। प्रत्ययविकल्पस्तु महाविभाषयैव सिद्धः ।।

</5-4-52>
अभिविधौ सम्पदा च ।। <5-4-53> ।।
अभिविधिः=अभिव्याप्तिः। अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात् कृभ्वस्तिभिश्च।
विभाषाग्रहणानुवृत्तेश्च्विरप्यभ्यनुज्ञायते। स तु कृभ्वस्तियोग एव भवति, न सम्पदा। अग्निसात्सम्पद्यते। अग्निसाद्भवति। उदकसात्सम्पद्यते। उदकसाद्भवति लवणम्। अग्नीभवति। उदकीभवति।
अथाभिविधेः कार्त्स्न्यस्य च को विशेषः ? यत्रैकदेशेनापि सर्वाप्रकृतिर्विकारमापद्यते सोऽभिविधिः। यथा--अस्यां सेनायामुत्पातेन सर्वं शस्त्रमग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यत इति। कार्त्स्न्ये तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति।

</5-4-53>
तदधीनवचने ।। <5-4-54> ।।
`अभूततद्भावे इति निवृत्तम्; अर्थान्तरोपादानात्। `कृभ्वस्तियोगे, `सम्पदा च इति वर्तते। तदधीनम्=तदायत्तम्, तत्स्वामिकमित्यर्थः। स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीनशब्देन निर्द्दिश्यते। स्वामिविशेषवाचिनः
प्रातिपदिकादीशितव्येऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः सम्पदा च योगे। राजाधीनं करोति राजसात्करोति। राजसाद्भवति। राजसात्स्यात्। राजसात्सम्पद्यते। ब्राह्मणसात्करोति। ब्राह्मणसाद्भवति। ब्राह्मणसात्स्यात्। ब्राह्मणसात्सम्पद्यते।

</5-4-54>
देये त्रा च ।। <5-4-55> ।।
`तदधीनवचने इत्यनुवर्तते, तस्य विशेषणं देयग्रहणम्। दातव्यम्=देयम्, तदधीने देये त्रा प्रत्ययो भवति, चकारात्सातिश्च कृभ्वस्तिभिः सम्पदा च योगे। ब्राह्मणेभ्यो देयमिति यद्विज्ञातम्, तद्यदा तेषां समर्पणेन तदधीनं क्रियते तदा `त्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति। ब्राह्मणत्राकरोति। ब्राह्मणत्राभवति। ब्राह्मणत्रास्यात्। ब्रह्मणत्रासम्पद्यते।
देये इति किम् ? राजसाद्भवति राष्ट्रम् ।।

</5-4-55>
देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ।। <5-4-56> ।।
`सातिः निवृत्तः, त्राप्रत्ययोऽनुवर्तते। देवादिभ्यः प्रातिपदिकेभ्यो द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम्। `कृभ्वस्तिभिः इति नात्र सम्बध्यते। सामान्येन विधानम्। देवान् गच्छति देवत्रागच्छति। देवेषु वसति देवत्रावसति। मनुष्यान् गच्छति मनुष्यत्रागच्छति। मनुष्येषु वसति मनुष्यत्रावसति। एवमन्येऽप्युदाहार्याः---पुरुषान्गच्छति पुरुषत्रागच्छति। पुरुषेषु वसति पुरुषत्रावसति। पुरून्गच्छति पुरुत्रागच्छति। पुरुषु वसति पुरुत्रावसति। मर्त्यान् गच्छति मर्त्यत्रा गच्छति। मर्त्येषु वसति मर्त्यत्रावसति।
बहुलवचनादन्यत्रापि भवति---`बहुत्रा जीवतो मनः(पै.सं.19-34-4) इति ।।

</5-4-56>
अव्यक्तानुकरणाद् द्व्यजवरार्द्धादनितौ डाच् ।। <5-4-57> ।।
यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सोऽव्यक्तः। तस्यानुकरणमव्यक्तानुकरणम्। द्व्यच् अवरार्द्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दोऽपकर्षे। यस्यापकर्षे क्रियमाणे सुष्ठु न्यूनमर्द्धद्व्यच्कं सम्पद्यते, तस्मादव्यक्तानुकरणादनितिपराड्डाच्प्रत्ययो भवति। `कृभ्वस्तियोगे इत्यनुवर्तते। तस्य च द्विर्वचने कृते द्व्यजवरार्धम्, ततः प्रत्ययः।
`डाचि बहुलं द्वे भवतः(6-1-99/82 वा.) इति विषयसप्तमी। डाचि विवक्षिते द्विर्वचनमेव पूर्वं क्रियते, पश्चात्प्रत्ययः। पटपटाकरोति। पटपटाभवति। पटपटास्यात्। दमदमाकरोति। दमदमाभवति। दमदमास्यात्। अव्यक्तानुकरणादिति किम् ? दृषत्करोति। द्व्यजवरार्द्धादिति किम् ? श्रत्करोति। अवरग्रहणं किम् ? खरटखरटाकरोति। त्रपटत्रपटाकरोति। अनिताविति किम् ? पटिति करोति।
चकारः स्वरार्थः, स्वरितबाधनार्थः। पटपटासि--अत्र स्वरितो वानुदात्तेऽपदादौ(8-2-6/3659) इति स्वरितो न भवति।
केचित्-`द्व्यजवरार्ध्यात् इति यकारं पठन्ति, स स्वार्थिको विज्ञेयः ।।

</5-4-57>
कृञो द्वितीयतृतीयशम्बबीजात्कृषौ ।। <5-4-58> ।।
द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, नान्यत्र। पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोतीत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थः। बीजाकरोति। सह बीजेन विलेखनं करोतित्यर्थः।
कृषाविति किम् ? द्वितीयं करोति पदम् ।।

</5-4-58>
संख्यायाश्च गुणान्तायाः ।। <5-4-59> ।।
`कृञः इत्यनुवर्तते, `कृषौ इति च। संख्यावाचिनः शब्दस्य गुणशब्दोऽन्ते=समीपे यत्र सम्भवति सा संख्या गुणान्तेत्युच्यते। तादृशात्प्रातिपदिकात्कृषावभिधेयायां डाच्प्रत्ययो भवति कृञो योगे। द्विगुणं विलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम्। त्रिगुणाकरोति।
कृषाविति किम् ? द्विगुणां करोति रज्जुम् ।।

</5-4-59>
समयाच्च यापनायाम् ।। <5-4-60> ।।
`कृञः इत्येव। `कृषौ इति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः=समयः, तस्यातिक्रमणम्=यापना। समयशब्दाद्यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोतीत्यर्थः।
यापनायामिति किम् ? समयं करोति ।।

</5-4-60>
सपत्त्रनिष्पत्त्रादतिव्यथने ।। <5-4-61> ।।
`कृञः इत्येव। सपत्त्रनिष्पत्त्रशब्दाभ्यामतिव्यथने डाच् प्रत्ययो भवति कृञो योगे सति। अतिव्यथनम्=अतिपीडनम्। सपत्त्राकरोति मृगं व्याधः। सपत्त्रं शरमस्य शरीरे प्रवेशयतीत्यर्थः। निष्पत्त्राकरोति। शरीराच्छरमपरपार्श्वे निष्कामयतीत्यर्थः ।
अतिव्यथन इति किम्? सपत्त्रं वृक्षं करोति जलसेचकः। निष्पत्त्रं वृक्षतलं करोति भूमिशोधकः ।।

</5-4-61>
निष्कुलान्निष्कोषणे ।। <5-4-62> ।।
`कृञः इत्येव। निष्कुलशब्दान्निष्कोषणे वर्तमानात्कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणम्=अन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णातीत्यर्थः।

निष्कोषण इति किम् ? निष्कुलान् करोति शत्रून् ।।

</5-4-62>
सुखप्रियादानुलोम्ये ।। <5-4-63> ।।
सुख-प्रिय-शब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यम्=अनुकूलता, आराध्यचित्तानुवर्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेश्चित्तमाराधयतीत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते।
आनुलोम्य इति किम् ? सुखं करोति, प्रियं करोत्यौषधपानम् ।।

</5-4-63>
दुःखात्प्रातिलोम्ये ।। <5-4-64> ।।
`कृञः इत्येव। दुःखशब्दात्प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे।
प्रातिलोम्यम्=प्रतिकूलता, स्वाम्यादेश्चित्तपीडनम्। दुःखाकरोति भृत्यः।
प्रातिलोम्य इति किम् ? दुःखं करोति कदन्नम् ।।

</5-4-64>
शूलात्पाके ।। <5-4-65> ।।
`कृञः इत्येव। शूलशब्दात्पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति शूलाकरोति मांसम्।
पाक इति किम्? शूलं करोति कदन्नम् ।।

</5-4-65>
सत्यादशपथे ।। <5-4-66> ।।
`कृञः इत्येव। सत्यशब्दादशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दोऽनृतप्रतिपक्षवचनः। क्वचित्तु शपथे च वर्तते--सत्येन शापयेद्विप्रमिति, तस्यायं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम् । `मयैतत्क्रेतव्यम्--इति तथ्यं करोति।
अशपथ इति किम्? सत्यं करोति ब्राह्मणः ।।

</5-4-66>
मद्रात्परिवापणे ।। <5-4-67> ।।
<K.4.376>
`कृञः इत्येव। मद्रशब्दात्परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणम्=मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मुण्डनं करोति, मद्राकरोति।

  • भद्राच्चेति वक्तव्यम् *(म.भा.2-437)। भद्राकरोति नापितः कुमारम्।

परिवापण इति किम्? भद्रं करोति ।।

</5-4-67>
समासान्ताः ।। <5-4-68> ।।
अधिकारोऽयम्। आ पादपरिसमाप्तेर्ये प्रत्यया विहितास्ते समासस्यान्तावयवा एकदेशा भवन्ति = तद्ग्रहणेन गृह्यन्त इति वेदितव्यम्। प्रयोजनम् - अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। अधिराजम्, उपराजम्। नाव्ययीभावद् इत्येष विधिर्भवति, अनश्च इति टच्। द्विपुरी, त्रिपुरी इति। द्विगोः इति ङीब्भवति। कटकवलयिनी। शङ्खनूपुरिणी। कोशनिषदिनी। स्रक्त्वचिनी। द्वन्द्वोपतापगर्ह्यात् इतीनिर्भवति। <K.4.378>
विधुरः। प्रधुरः। तत्पुरुषे तुल्यार्थ इत्येष स्वरो भवति। उच्चैर्धुरः। नीचैर्धुरः। बहुव्रीहौ प्रकृत्या पूर्वपदम् इत्येतद्भवति ।।

</5-4-68>
न पूजनात् ।। <5-4-69> ।।
यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहःसखिभ्यष्टच् इत्येवमादीन्, यदा ते पूजनात् = पूजनवचनात्परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः। <K.4.379> * पूजायां स्वतिग्रहणं कर्तव्यम् *। इह मा भूत् -- परमराजः, परमगवः इति। * प्राग्बहुव्रीहिग्रहणं च कर्तव्यम् *। बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवमादौ प्रतिषेधो न भवति -- सुसक्थः, अतिसक्थः, स्वक्षः, अत्यक्षः ।।

</5-4-69>
किमः क्षेपे ।। <5-4-70> ।।
क्षेपे यः किंशब्दस्ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा योऽभिद्रुह्यति। किंगौः यो न वहति। किंक्षेपे इति समासः। क्षेप इति किम्? कस्य राजा किंराजः। किंसखः। किंगवः ।।

</5-4-70>
नञस्तत्पुरुपात् ।। <5-4-71> ।।
नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा। असखा। अगौः। <K.4.380> तत्पुरुषादिति किम्? अनृचः माणवकः। अधुरं शकटम् ।।

</5-4-71>
पथो विभाषा ।। <5-4-72> ।।
नञस्तत्पुरुषात् इति वर्तते। नञः परो यः पथिन् - शब्दस्तदन्तात्तत्पुरुषात् समासान्तो विभाषा न भवति। पूर्वेण नित्यः प्रतिषेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः।।

</5-4-72>
बहुव्रीहौ संख्येये डजबहुगणात् ।। <5-4-73> ।।
संख्येये यो बहुव्रीहिर्वर्तते तस्मादबहुगणान्ताड्डच् प्रत्ययो भवति। संख्ययाव्ययासन्न इति यो बहुव्रीहिस्तस्येदं ग्रहणम्। उपदशाः। उपविंशाः। उपत्रिंशाः। आसन्नदशाः। अदूरदशाः। अधिकदशाः। द्वित्राः। पञ्चषाः। पञ्चदशाः। <K.4.381> संख्येय इति किम्? चित्रगुः। शबलगुः। अबहुगणादिति किम्? उपबहवः। उपगणाः। अत्र स्वरे विशेषः। * डच्प्रकरणे संख्यायास्तत्पुरुषस्योपसंख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम् *। निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य। <K.4.382> निश्चत्वारिंशानि यज्ञदत्तस्य। निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः ।।

</5-4-73>
ऋक्पूरब्धूःपथामानक्षे ।। <5-4-74> ।।
`बहुव्रीहौ इति न स्वर्य्यते, सामान्येन विधानम्। ऋक्। पुर्, अप्, धुर्, पथिन् -- इत्येवमन्तानां समासानामकारः प्रत्ययो भवति समासान्तोऽक्षे न। सामर्थ्याद्धुर एतद्विशेषणम्, ऋगादीनां न भवति। <K.4.383> अक्षसम्बन्धिनी या धूस्तदन्तस्य न भवति। अनृचः। बह्वृचः। अर्धर्चः। पुर् --- ललाटपुरम्। नान्दीपुरम्। अप् -- द्वीपम्। अन्तरीपम्। समीपम्। धुर् -- राजधुरा। महाधुरः। पथिन् -- स्थलपथः। जलपथः। अनक्षे इति किम्? अक्षस्य धूः अक्षधूः। दृढधूः अक्षः। <K.4.384> अनृचो माणवको ज्ञेयो, बह्वृचश्चरणाख्यायाम्। अनृचः माणवकः। बह्वृचः ब्राह्मणः। अनृक्कं साम, बह्वृक्कं सूक्तम् इत्यत्र न भवति।।

</5-4-74>
अच् प्रत्यन्ववपूर्वात्सामलोम्नः ।। <5-4-75> ।।
प्रति, अनु, अव -- इत्येवम्पूर्वात्सामान्ताल्लोमान्ताच्च समासादच् प्रत्ययो भवति। प्रतिसामम्, अनुसामम्, अवसामम्। प्रतिलोमम्, अनुलोमम्, अवलोमम्।
कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।
गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि ।।
<K.4.385> कृष्णभूमः। पाण्डुभूमः। उदग्भूमः। पञ्चनदम्। पञ्चगोदावरम्। नदीभिश्च इत्यव्ययीभावः। भूमेरपि संख्यापूर्वाया अच् प्रत्यय इष्यते --- द्विभूमः प्रासादः, त्रिभूमः। दशभूमकं सूत्रम्। अन्यत्रापि च दृश्यते।
पद्मनाभः। ऊर्णनाभः। दीर्घरात्रः। समरात्रः। अरात्रः। तदेतत्सर्वमिह `अच् इति योगविभागं कृत्वा साधयन्ति।

</5-4-75>
अक्ष्णोऽदर्शनात् ।। <5-4-76> ।।
`अच् इत्यनुवर्तते। दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादच् प्रत्ययो भवति। लवणाक्षम्। पुष्कराक्षम्। उपमितं व्याघ्रादिभिः इति समासः। अदर्शनादिति किम् ? ब्राह्मणाक्षि। कथं कबराक्षम्, गवाक्षम् इति; अश्वादीनां मुखप्रच्छादनार्थं <K.4.386> बहुच्छिद्रं कबराक्षम्, तेनापि हि दृश्यते, गवाक्षेण च? नैष दोषः; चक्षुः पर्यायवचनो दर्शनशब्दः, प्राण्यङ्गवचन इहाश्रीयते ।।

</5-4-76>
अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तन्दिवरात्रिन्दिवाहर्दिवसरजसनिश्श्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ।। <5-4-77> ।।
अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते। समासे व्यवस्थाऽपि निपातनादेव प्रतिपत्तव्या। आद्यास्त्रयो बहुव्रीहयः। अदृश्यान्यविद्यमानानि वा चत्वारि यस्य सः अचतुरः। विगतानि चत्वारि यस्य स विचतुरः। शोभनानि चत्वारि यस्य स सुचतुरः।
<K.4.387>
ततः परे एकादश द्वन्द्वाः। स्त्री च पुमांश्च स्त्रीपुंसौ। इह न भवति - स्त्रियाः पुमान् स्त्रीपुमान् इति। धेनुश्च अनड्वांश्च धेन्वनडुहौ। ऋक्च साम च ऋक्सामे। वाक्च मनश्च वाङ्मनसे। अक्षि च भ्रुवौ च अक्षिभ्रुवम्। दाराश्च गावश्च दारगवम्। ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्। टिलोपो निपात्यते। पादौ च अष्ठीवन्तौ च पदष्ठीवम्। पादस्य पद्भावो निपात्यते। नक्तं च दिवा च नक्तन्दिवम्। सप्तम्यर्थवृत्तयोरव्यययोः समासोऽपि निपातनादेव। रात्रौ च दिवा च रात्रिन्दिवम्। पूर्वपदस्य मान्तत्वं निपात्यते। अहनि च दिवा च अहर्दिवम्। ननु च पर्यायावेतौ, कथमनयोर्द्वन्द्वः? वीप्सायां द्वन्द्वो निपात्यते। अहन्यहनीत्यर्थः। एकोऽव्ययीभावः।
साकल्ये --- सरजसम् अभ्यवहरति। बहुव्रीहौ न भवति -- सह रजसा सरजः = पङ्कजमिति, ततस्तत्पुरुषः।
<K.4.388>
निश्चितं श्रेयो निःश्रेयसम्। निःश्रेयस्कः पुरुष इत्यत्र न भवति। ततः षष्ठीसमासः।
पुरुषस्यायुः पुरुषायुषम्। द्वन्द्वे न भवति --- पुरुषश्च आयुश्च पुरुषायुषी। ततो द्विगू - द्वे आयुषी समाहृते द्व्यायुषम्। त्र्यायुषम्। इह न भवति - द्वयोरायुः द्व्यायुः, त्र्यायुरिति। ततो द्वन्द्वः।
ऋक्च यजुश्च ऋग्यजुषम्। इह न भवति - ऋग्यजुरस्योन्मुग्धस्य ऋग्यजुः उन्मुग्धः।
जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः। जातोक्षः। महोक्षः। वृद्धोक्षः। बहुव्रीहौ न भवति -- जातोक्षा ब्राह्मणः। महोक्षा, वृद्धोक्षेति। ततोऽव्ययीभावः। शुनः समीपमुपशुनम्। टिलोपाभावः, सम्प्रसारणं च निपातनादेव। ततः सप्तमीसमासः। गोष्ठे श्वा गोष्ठश्वः। * चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यातम् *। त्रिचतुराः। उपचतुराः ।।

</5-4-77>
<K.4.389>
ब्रह्महस्तिभ्यां वर्चसः ।। <5-4-78> ।।
ब्रह्महस्तिभ्यां परो यो वर्चःशब्दः तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्।

  • पल्यराजभ्यां चेति वक्तव्यम् *। पल्यवर्चसम्। राजवर्चसम् ।।


</5-4-78>
अवसमन्धेभ्यस्तमसः ।। <5-4-79> ।।
अव, सम्, अन्ध - इत्येतेभ्यो यः परस्तमःशब्दस्तदन्तात्समासाद् अच् प्रत्ययो भवति। अवतमसम्। सन्तमसम्। अन्धतमसम् ।।

</5-4-79>
श्वसो वसीयःश्रेयसः ।। <5-4-80> ।।
श्वसः परौ यौ वसीयस् - श्रेयःशब्दौ तदन्तात्समासादच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात्समासः। स्वभावाच्चेह श्वःशब्द उत्तरपदार्थस्य प्रशंसामाशीर्विषयमाचष्टे। <K.4.390> श्वःश्रेयसं ते भूयात्। शोभनं श्रेयस्ते भूयादित्यर्थः। श्वोवसीयसम् इत्यस्यैवायं पर्यायः ।।

</5-4-80>
अन्ववतप्ताद्रहसः ।। <5-4-81> ।।
अनु, अव, तप्त - इत्येतेभ्यः परो यो रहश्शब्दस्तदन्तात् समासाद् अच्प्रत्ययो भवति। अनुरहसम्। अवरहसम्। तप्तरहसम् ।।

</5-4-81>
प्रतेरुरसः सप्तमीस्थात् ।। <5-4-82> ।।
प्रतेः परो य उरःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति, स चेदुरःशब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्त्तत इत्यर्थः। उरसि वर्त्तते। विभक्त्यर्थे अव्ययम् इति समासः। प्रत्युरसम्। सप्तमीस्थादिति किम्? प्रतिगतमुरः प्रत्युरः ।।

</5-4-82>
<K.4.391>
अनुगवमायामे ।। <5-4-83> ।।
`अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयामेऽभिधेये। अनुगवं यानम्। यस्य चायामः इति समासः।
आयाम इति किम्? गवां पश्चाद् अनुगु ।।

</5-4-83>
द्विस्तावा त्रिस्तावा वेदिः ।। <5-4-84> ।।
`द्विस्तावा, `त्रिस्तावा इति निपात्यते वेदिश्चेद् अभिधेया भवति। अच्प्रत्ययः, टिलोपः, समासश्च निपात्यते। यावती प्रकृतौ वेदिस्ततो द्विगुणा वा त्रिगुणा वा कस्याञ्चिद्विकृतौ तत्रेदं निपातनम्। द्विस्तावा वेदिः। त्रिस्तावा वेदिः। <K.4.392> वेदिरिति किम्? द्विस्तावती, त्रिस्तावती रज्जुः ।।

</5-4-84>
उपसर्गादध्वनः ।। <5-4-85> ।।
उपसर्गात्परो योऽध्वन् - शब्दस्तदन्तात् समासाद् अच् प्रत्ययो भवति। प्रगतोऽध्वानं प्राध्वः रथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गादिति किम्? परमाध्वा। उत्तमाध्वा ।।

</5-4-85>
तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः ।। <5-4-86> ।।
अङ्गुलिशब्दान्तस्य तत्पुरुषस्य संख्यादेरव्ययादेश्चाच् प्रत्ययो भवति। द्वे अङ्गुली प्रमाणमस्य द्व्यङ्गुलम्।
त्र्यङ्गुलम्। तद्धितार्थ इति समासः। `प्रमाणे लो द्विगोर्नित्यम् इति मात्रचो लोपः। अव्ययादेः --- निर्गतमङ्गुलिभ्यो निरङ्गुलम्। अत्यङ्गुलम्। तत्पुरुषस्येति किम्? पञ्चाङ्गुलिः। अत्यङ्गुलिः पुरुषः।
तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्तात् इति यावत् ।।

</5-4-86>
<K.4.393>
अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ।। <5-4-87> ।।
अहरादिभ्यः परो यो रात्रिशब्दस्तदन्तस्य तत्पुरुषस्याच् प्रत्ययो भवति, चकारात्संख्यादेरव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे -- पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। पूर्वपरावर इति समासः। सङ्ख्याता रात्रिः सङ्ख्यातरात्रः। विशेषणं विशेष्येण इति समासः। एवं पुण्या रात्रिः पुण्यरात्रः। संख्याव्ययादेः खल्वपि -- द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः ।।

</5-4-87>
अह्नोऽह्न एतेभ्यः ।। <5-4-88> ।।
<K.4.394>
राजाहः सखिभ्यष्टच् इति वक्ष्यति, तस्मिन् परभूते अहन्नित्येतस्य `अह्न इत्ययमादेशो भवति एतेभ्य उत्तरस्य। संख्याव्ययादयः प्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न ह्यहः शब्दात् परोऽहःशब्दः सम्भवति। संख्यायास्तावत् - द्वयोरह्नोर्भवः द्व्यह्नः। त्र्यह्नः। अव्ययात् - अहरतिक्रान्तः अत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वाह्णः। अपराह्णः। संख्याताह्नः।
पुण्यशब्दात्प्रतिषेधं वक्ष्यति ।।

</5-4-88>
<K.4.395>
न संख्यादेः समाहारे ।। <5-4-89> ।।
संख्यादेस्तत्पुरुषस्य समाहारे वर्त्तमानस्याहःशब्दस्याह्नादेशो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। द्वे अहनी समाहृते द्व्यहः। त्र्यहः। समाहार इति किम्? द्वयोरह्नोर्भवो द्व्यह्नः। त्र्यह्नः। तद्धितार्थ इति समासे कृतेऽणः आगतस्य द्विगोर्लुगनपत्ये इति लुक् ।।

</5-4-89>
उत्तमैकाभ्यां च ।। <5-4-90> ।।
उत्तमैकशब्दाभ्यां च परस्याह्न इत्ययमादेशो न भवति। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दमाचष्टे; पुण्यग्रहणमेव न कृतं वैचित्र्यार्थम् । पुण्याहः। एकाहः। केचित्तु उपोत्तमस्यापि प्रतिपत्त्यर्थं वर्णयन्ति। तेन संख्यातशब्दादपि परस्य न भवति -- संख्याताहः इति ।।

</5-4-90>
<K.4.396>
राजाहस्सखिभ्यष्टच् ।। <5-4-91> ।।
राजन्, अहन्, सखि -- इत्येवमन्तात्प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्मान्न भवति - मद्राणां राज्ञी मद्रराज्ञी, लिङ्गविशिष्टपरिभाषया प्राप्नोति ? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजन् - शब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति --
यस्याकारेण सवर्णदीर्घत्वं सम्भवति तस्येदं ग्रहणमिति ।।

</5-4-91>
गोरतद्धितलुकि ।। <5-4-92> ।।
गोशब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति स चेत्तत्पुरुषस्तद्धितलुग्विषयो न भवति। परमगवः। उत्तमगवः। पञ्चगवम्। दशगवम्। अतद्धितलुकीति किम्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः। तेन क्रीतम् इत्यागतस्यार्हीयस्य ठकः अध्यर्द्धपूर्वद्विगोः इति लुक्। <K.4.397> तद्धितग्रहणं किम्? सुब्लुकि प्रतिषेधो मा भूत् -- राजगवमिच्छति राजगवीयति। लुग्ग्रहणं किम्? तद्धित एव मा भूत्पञ्चभ्यो गोभ्य आगतं पञ्चगवरूप्यम्, पञ्चगवमयम्। दशगवरूप्यम्, दशगवमयम् ।।

</5-4-92>
अग्राख्यायामुरसः ।। <5-4-93> ।।
उरःशब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति, स चेदुरःशब्दोऽग्राख्यायां भवति। अग्रम् = प्रधानमुच्यते। यथा शरीरावयवानामुच्यते उरः प्रधानम्, एवमन्योऽपि प्रधानभूत उरःशब्देनोच्यते। अश्वानामुरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायामिति किम्? देवदत्तस्योरः देवदत्तोरः ।।

</5-4-93>
अनोऽश्मायस्सरसां जातिसंज्ञयोः ।। <5-4-94> ।।
अनस्, अश्मन्, अयस्, सरस् - इत्येवमन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति जातौ संज्ञायां च विषये। उपानसम् इति जातिः। महानसम् इति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। <K.4.398> कालायसम् इति जातिः। लोहितायसम् इति संज्ञा। मण्डूकसरसम् इति जातिः। जलसरसम् इति संज्ञा। `जातिसंज्ञयोः इति किम्? सदनः। सदश्मा। सत्सरः ।।

</5-4-94>
ग्रामकौटाभ्यां च तक्ष्णः ।। <5-4-95> ।।
`जातिसंज्ञयोः इति नानुवर्त्तते। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति। ग्रामस्य तक्षा ग्रामतक्षः। बहूनां साधारण इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्यचित्प्रतिबद्ध इत्यर्थः। ग्रामकौटाभ्यामिति किम्? राज्ञस्तक्षा राजतक्षा ।।

</5-4-95>
अतेः शुनः ।। <5-4-96> ।।
अतिशब्दात्परो यः श्वन् - शब्दः तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति। अतिक्रान्तः श्वानम् अतिश्वः वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्त इत्यर्थः. अतिश्वी सेवा। अतिनीचेत्यर्थः ।।

</5-4-96>
उपमानादप्राणिषु ।। <5-4-97> ।।
उपमानवाची यः श्वन् - शब्दोऽप्राणिषु वर्त्तते तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। उपमितं व्याघ्रादिभिः इति समासः। <K.4.399> उपमानादिति किम्? न श्वा अश्वा लोष्टः। अप्राणिष्विति किम्? वानरः श्वेव वानरश्वा ।।

</5-4-97>
उत्तरमृगपूर्वाच्च सक्थ्नः ।। <5-4-98> ।।
उत्तर, मृग, पूर्व - इत्येतेभ्यः परो यः सक्थिशब्दश्चकारादुपमानं च, तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वसक्थम्। उपमानात्खल्वपि - फलकमिव सक्थि फलकसक्थम् ।।

</5-4-98>
नावो द्विगोः ।। <5-4-99> ।।
नौशब्दान्ताद् द्विगोष्टच्प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोरिति किम्? राजनौः।
अतद्धितलुकीत्येव -- पञ्चभिर्नौभिः क्रीतः पञ्चनौः। दशनौः ।।

</5-4-99>
अर्धाच्च ।। <5-4-100> ।।
<K.4.400>
अर्द्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति। अर्द्धं नावः अर्धनावम्। अर्द्धं नपुंसकम् इति समासः। परवल्लिङ्गं न भवति; लोकाश्रयत्वाल्लिङ्गस्य ।।

</5-4-100>
खार्याः प्राचाम् ।। <5-4-101> ।।
`द्विगोः, `अर्द्धाच्च इति द्वयमप्यनुवर्त्तते। खारीशब्दान्ताद् द्विगोरर्द्धाच्च परो यः खारीशब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन। द्वे खार्यौ समाहृते द्विखारम्, द्विखारि। त्रिखारम्, त्रिखारि। अर्द्धं खार्या अर्ध खारम्, अर्धखारी ।।

</5-4-101>
द्वित्रिभ्यामञ्जलेः ।। <5-4-102> ।।
द्वित्रिभ्यां परो योऽञ्जलिशब्दः तदन्तात्पुरुषाट्टच्प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्।
द्विगोरित्येव -- द्वयोरञ्जलिः द्व्यञ्जलिः। अतद्धितलुकीत्येव - द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचामित्येव --- द्व्यञ्जलिप्रियः ।।

</5-4-102>
<K.4.401>
अनसन्तान्नपुंसकाच्छन्दसि ।। <5-4-103> ।।
अन्नन्ताद्, असन्ताच्च नपुंसकलिङ्गात्तत्पुरुषाट्टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। `ऋषभचर्मेऽभिषिञ्चति(काठ.सं.37-3)। असन्तात्--`देवच्छन्दसानि(मै.सं.3-2-9)। `मनुष्यच्छन्दसानि(तै.सं.5-4-8-6)। अनसन्तादिति किम्? बिल्वदारु जुहोति। नपुंसकादिति किम्? `सुत्रामाणं पृथिवीं द्यामनेहसम्(ऋ.10-63-10)। * अनसन्तान्नपुंसकाच्छन्दसि वावचनम् *(म.भा.2-441)। `ब्रह्मसाम(तां.ब्रा.4-3-1)। `देवच्छन्दः(शां.ब्रा.1-5)। `ब्रह्मसामम्(तै.सं.1-8-18-1)। `देवच्छन्दसम्(तै.सं.5-4-8-5) ।।

</5-4-103>
ब्रह्णो जानपदाख्यायायाम् ।। <5-4-104> ।।
ब्रह्मन् - शब्दान्तात्तत्पुरुषाट्टच्प्रत्ययो भवति समासेन चेद्ब्रह्मणो जानपदत्वमाख्यायते। जनपदेषु भवो जानपदः। यस्य तत्पुरुषस्य <K.4.402> जनपदशब्दः पूर्वपदं तस्मादेतत्प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रह्मः। अवन्तिब्रह्मः। योगविभागात्सप्तमीसमासः। जानपदाख्यायामिति किम्? देवब्रह्मा नारदः ।।

</5-4-104>
कुमहद्भ्यामन्यतरस्याम् ।। <5-4-105> ।।
कुमहद्भ्यां परो यो ब्रह्मा तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवत्यन्यतरस्याम्। कुब्रह्मः, कुब्रह्मा। महाब्रह्मः, महाब्रह्मा। ब्राह्मणपर्यायो ब्रह्मन्शब्दः ।।

</5-4-105>
द्वन्द्वाच्चुदषहान्तात्समाहारे ।। <5-4-106> ।।
तत्पुरुषाधिकारो निवृत्तः। द्वन्दाच्चवर्गान्ताद्, दकारान्तात्, षकारान्तात्, हकारान्ताच्च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्त्तते, नेतरेतरयोगे। वाक्च त्वक्च वाक्त्वचम्। स्रक्च त्वक्च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्।
<K.4.403>
द्वन्द्वादिति किम्? तत्पुरुषान्मा भूत् - पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तादिति किम्? वाक्समित्। समाहार इति किम्? प्रावृट्शरदौ ।।

</5-4-106>
अव्ययीभावे शरत्प्रभृतिभ्यः ।। <5-4-107> ।।
`शरद् इत्येवमादिभ्यः प्रातिपदिकेभ्यष्टच् प्रत्ययो भवत्यव्ययीभावे। शरदः समीपम् उपशरदम्। प्रतिशरदम्। उपविपाशम्। प्रतिविपाशम्। अव्ययीभाव इति किम्? परमशरत्। येऽत्र झयन्ताः पठ्यन्ते, तेषां नित्यार्थं ग्रहणम्। स्वर्यते चेदमव्ययीभावग्रहणं प्राग्बहुव्रीहेः। शरत्। विपाश्। अनस्। मनस्। उपानह्। दिव्। हिमवत्। अनडुह्। दिश्। दृश्। चतुर्। यद्। तद्। * जराया जरश्च *। सदृश्। * प्रतिपरसमनुभ्योऽक्ष्णः *। पथिन्। प्रत्यक्षम् । परोक्षम्। <K.4.404> समक्षम्। अन्वक्षम्। प्रतिपथम्। सम्पथम्। अनुपथम्। शरदादिः ।।

</5-4-107>
अनश्च ।। <5-4-108> ।।
अन्नन्तादव्ययीभावाट्टच् प्रत्ययो भवति समासान्तः। उपराजम्। प्रतिराजम्। अध्यात्मम्। प्रत्यात्मम् ।।

</5-4-108>
नपुंसकादन्यतरस्याम् । <5-4-109> ।।
`अनः इत्येव। नपुंसकग्रहणमुत्तरपदविशेषणम्। अन्नन्तं यन्नपुंसकं तदन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति समासान्तः। पूर्वेण नित्ये प्राप्ते विकल्प्यते। प्रतिचर्मम्, प्रतिचर्म। उपचर्मम्, उपचर्म ।।

</5-4-109>
नदीपौर्णमास्याग्रहायणीभ्यः ।। <5-4-110> ।।
नदी, पौर्णमासी, आग्रहायणी - इत्येवमन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। नद्याः समीपम् उपनदम्, उपनदि। उपपौर्णमासम्, उपपौर्णमासि। उपाग्रहायणम्, उपाग्रहायणि ।।

</5-4-110>
<K.4.405>
झयः ।। <5-4-111> ।।
`झयः इति प्रत्याहारग्रहणम्। झयन्तादव्ययीभावादन्यतरस्यां टच् प्रत्ययो भवति। उपसमिधम्, उपसमित्। उपदृषदम्, उपदृषत् ।।

</5-4-111>
गिरेश्च सेनकस्य ।। <5-4-112> ।।
गिरिशब्दान्तादव्ययीभावाट्टच् प्रत्ययो भवति सेनकस्याचार्यस्य मतेन। अन्तर्गिरम्, अन्तर्गिरि। उपगिरम्, उपगिरि। सेनकग्रहणं पूजार्थम्, विकल्पोऽनुवर्तत एव ।

</5-4-112>
बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् । <5-4-113> ।।
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्ताद् बहुव्रीहेः षच् प्रत्ययो भवति समासान्तः। अयमर्थोऽभिप्रेतः। सूत्रे तु दुःश्लिष्टविभक्तीनि <K.4.406> पदानि। दीर्घं सक्थि यस्य दीर्घसक्थः। कल्याणाक्षः। लोहिताक्षः। विशालाक्षः।
बहुव्रीहाविति किम्? परमसक्थिः। परमाक्षिः। सक्थ्यक्ष्णोरिति किम्? दीर्घजानुः। सुबाहुः। स्वाङ्गादिति किम् ? दीर्घसक्थि शकटम्। स्थूलाक्षिः इक्षुः। टचि प्रकृते षज्ग्रहणं स्वरार्थम् -- चक्रसक्थी स्त्री, दीर्घसक्थी <K.4.407> स्त्री। सक्थं चाक्रान्तात् इति विभाषयोत्तरपदस्यान्तोदात्तता विधीयते। तत्र यस्मिन्पक्षे नास्त्युदात्तत्वं तत्र ङीपि सत्युदात्तनिवृत्तिस्वरस्याभावादनुदात्तः श्रूयेत। ङीषि तु सर्वत्रोदात्तः सिद्धो भवति।
बहुव्रीहिग्रहणमापादपरिसमाप्तेरनुवर्तते ।।

</5-4-113>
अङ्गुलेर्दारुणि ।। <5-4-114> ।।
अङ्गुलिशब्दान्ताद्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तो दारुणि समासार्थे। द्व्यङ्गुलं दारु। त्र्यङ्गुलं दारु। पञ्चाङ्गुलम्। अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठमुच्यते। <K.4.408> यस्य तु द्वे अङ्गुली प्रमाणं दारुणस्तत्र तद्धितार्थ इति समासे कृते तत्पुरुषस्याङ्गुलेः इत्यचा भवितव्यम्। दारुणीति किम्? पञ्चाङ्गुलिर्हस्तः ।।

</5-4-114>
द्वित्रिभ्यां ष मूर्द्ध्नः ।। <5-4-115> ।।
द्वित्रिभ्यां परो यो मूर्द्धन् - शब्दस्तदन्ताद्बहुव्रीहेः षः प्रत्ययो भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः।
<K.4.409>
द्वित्रिभ्यामिति किम्? उच्चैर्मूर्धा ।।

</5-4-115>
अप्पूरणीप्रमाण्योः ।। <5-4-116> ।।
पूरणप्रत्ययान्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते। `प्रमाणी इति स्वरूपग्रहणम्। पूरण्यन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप् प्रत्ययो भवति समासान्तः। कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः।
कल्याणीदशमाः रात्रयः। स्त्री प्रमाणी एषां स्त्रीप्रमाणाः कुटुम्बिनः। भार्याप्रधाना इत्यर्थः।

  • अपि प्रधानपूरणीग्रहणं कर्त्तव्यम् *। यत्रान्यपदार्थे पूरण्यनुप्रविशति न केवलं वर्त्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यम् । <K.4.410> पुंवद्भावप्रतिषेधेऽपि प्रधानपूरण्येव गृह्यते। इह न भवति -- कल्याणी पञ्चमी अस्‌मिन्पक्षे कल्याणपञ्चमीकः पक्ष इति ।। * नेतुर्नक्षत्र उपसंख्यानम् *। मृगो नेता आसां रात्रीणां मृगनेत्राः रात्रयः। पुष्यनेत्राः। नक्षत्र इति किम्? देवदत्तनेतृकाः ।। * छन्दसि च नेतुरुपसंख्यानम् *। बृहस्पतिनेत्राः देवाः । सोमनेत्राः। * मासाद् भृतिप्रत्ययपूर्वपदाट्ठज्विधिः *। पञ्चको मासोऽस्य <K.4.411> पञ्चकमासिकः कर्मकरः। दशकमासिकः। सोऽस्यांशवस्नभृतयः इति संख्याया अतिशदन्तायाः कन्।।


</5-4-116>
अन्तर्बहिर्भ्यां च लोम्नः ।। <5-4-117> ।।
अन्तर्, बहिस् - हत्येताभ्यां परो यो लोमन्शब्दः तदन्ताद्बहुव्रीहेरप्प्रत्ययो भवति। अन्तर्गतानि लोमान्यस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पटः ।।

</5-4-117>
अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ।। <5-4-118> ।।
नासिकान्ताद्बहुव्रीहेरच्प्रत्ययो भवति नासिकाशब्दश्च नसमादेशमापद्यते। `अस्थूलात् इति नासिकाविशेषणम् -- न चेत्स्थूलशब्दात्परा नासिका भवतीति। `संज्ञायाम् इति समुदायोपाधिः। द्रुरिव नासिकाऽस्य द्रुणसः। वाध्रीणसः। पूर्वपदात्संज्ञायामगः इति णत्वम्। गोनसः।
<K.4.412> संज्ञायामिति किम्? तुङ्गनासिकः। अस्थूलादिति किम्? स्थूलनासिकः वराहः। * खुरखराभ्यां नस् वक्तव्यः *। खुरणाः। खरणाः। पक्षेऽच्प्रत्ययोऽपीष्यते। खुरणसः। खरणसः ।। शितिनाः, अहिनाः, अर्चनाः - इति निगम इष्यते ।।

</5-4-118>
उपसर्गाच्च ।। <5-4-119> ।।
उपसर्गात्परो यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् प्रत्ययो भवति नासिकाशब्दश्च नसमापद्यते। असंज्ञार्थं वचनम्। उन्नता नासिकाऽस्य उन्नसः। प्रणसः। उपसर्गाद्बहुलम् इति णत्वम्। * वेर्ग्रो वक्तव्यः *। विगता नासिकाऽस्य विग्रः ।।

</5-4-119>
<K.4.413>
सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ।। <5-4-120> ।।
सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः। शोभनं दिवाऽस्य `सुदिवः। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्य एणीपदः। अजस्येव पादावस्य अजपदः। प्रोष्ठः = गौः, तस्येव पादावस्य प्रोष्ठपदः ।।

</5-4-120>
नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ।। <5-4-121> ।।
नञ्, दुस्, सु - इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्ताद्बहुव्रीहेरन्यतरस्यामच् प्रत्ययो भवति समासान्तः। अविद्यमाना हलिरस्य <K.4.414> अहलः, अहलिः। दुर्हलः, दुर्हलिः। सुहलः, सुहलिः। अविद्यमानं सक्थ्यस्य
असक्थः, असक्थिः। दुःसक्थः, दुःसक्थिः। सुसक्थः, सुसक्थिः। `हलिशक्त्योः इति केचित्पठन्ति। अविद्यमाना शक्तिरस्य अशक्तः, अशक्तिः। विरूपा शक्तिरस्य दुःशक्तः, दुःशक्तिः। शोभना शक्तिरस्य सुशक्तः। सुशक्तिः ।।

</5-4-121>
नित्यमसिच् प्रजामेधयोः ।। <5-4-122> ।।
`नञ्दुस्सुभ्यः इत्येव। नञ्, दुस्, सु - इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्ताद्बहुव्रीहेर्नित्यमसिच् प्रत्ययो भवति समासान्तः। अविद्यमाना प्रजाऽस्य अप्रजाः। दुष्प्रजाः। सुप्रजाः। अविद्यमाना मेधाऽस्य अमेधाः। दुर्मेधाः। सुमेधाः।
नित्यग्रहणं किम्; यावता पूर्वसूत्रेऽन्यतरस्यांग्रहणं नैव स्वर्यते ? एवं तर्हि नित्यग्रहणेनान्यत्रापि भवतीति सूच्यते।
श्रोत्रियस्येव ते राजन्मन्दकस्याल्पमेधसः।
अनुवाकहता बुद्धिर्नैषा तत्त्वार्थदर्शिनी ।।

</5-4-122>
बपहुप्रजाश्छन्दसि ।। <5-4-123> ।।
<K.4.415>
`बहुप्रजाः इति छन्दसि निपात्यते। `बहुप्रजा निर्ऋतिमाविवेश(ऋ.1-164-32)।
छन्दसीति किम्? बहुप्रजो ब्राह्मणः ।।

</5-4-123>
धर्मादनिच् केवलात् ।। <5-4-124> ।।
केवलाद् यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरनिच्प्रत्ययो भवति समासान्तः। कल्याणो धर्मोऽस्य कल्याणधर्मा। प्रियधर्मा।
केवलादिति किम् ? परमः स्वो धर्मोऽस्य परमस्वधर्मः। यद्येवम्, त्रिपदे बहुव्रीहौ प्राप्नोति - परमः स्वो धर्मोऽस्येति? एवं तर्हि केवलादिति पूर्वपदं निर्दिश्यते - केवलात्पदाद्यो धर्मशब्दः, न पदसमुदायात्। तदन्ताद्बहुव्रीहेः प्रत्ययः ।।

</5-4-124>
जम्भा सुहरिततृणसोमेभ्यः ।। <5-4-125> ।।
बहुव्रीहौ समासे स्वादिभ्यः परं `जम्भा इति कृतसमासान्तमुत्तरपदं <K.4.416> निपात्यते। जम्भशब्दोऽभ्यवहार्यवाची, दन्तविशेषवाची च। शोभनो जम्भोऽस्य सुजम्भा देवदत्तः। शोभनाभ्यवहार्यः, शोभनदन्तो वा। एवं हरितजम्भा। तृणजम्भा। सोमजम्भा। दन्तवचने -- तृणमिव जम्भोऽस्य, सोम इव जम्भोऽस्येति विग्रहीतव्यम्।
सुहरिततृणसोमेभ्य इति किम्? पतितजम्भः ।।

</5-4-125>
दक्षिणेर्मा लुब्धयोगे ।। <5-4-126> ।।
`दक्षिणेर्मा इति कृतसमासान्तो निपात्यते बहुव्रीहौ समासे लुब्धयोगे। लुब्धः = व्याधः. दक्षिणमीर्ममस्य दक्षिणेर्मा मृगः। ईर्मम् = व्रणमुच्यते। दक्षिणमङ्गं व्रणितमस्य व्याधेनेत्यर्थः।
लुब्धयोग इति किम्? दक्षिणेर्म शकटम् ।।

</5-4-126>
इच् कर्मव्यतिहारे ।। <5-4-127> ।।
कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् प्रत्ययो भवति। तत्र तेनेदमिति सरूपे इत्ययं बहुव्रीहिर्गृह्यते। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मुसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु अयमिच्प्रत्ययः पठ्यते ।।

</5-4-127>
<K.4.417>
द्विदण्ड्यादिभ्यश्च ।। <5-4-128> ।।
द्विदण्ड्यादयः शब्दा इच्प्रत्ययान्ताः साधवो भवन्ति। `द्विदण्ड्यादिभ्यः इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी। द्विदण्ड्याद्यर्थमिच् प्रत्ययो भवति। तथा भवति यथा द्विदण्ड्यादयः सिध्यन्तीत्यर्थः। समुदायनिपातनाच्चार्थविशेषेऽवरुध्यन्ते। द्विदण्डि प्रहरति। द्विमुसलि प्रहरति। इह न भवति -- द्विदण्डा शालेति।
बहुव्रीह्यधिकारेऽपि तत्पुरुषात् क्वचिद्विधानमिच्छन्ति। निकुच्य <K.4.418> कर्णौ धावति निकुच्यकर्णि धावति। प्रोह्य पादौ हस्तिनं वाहयति प्रोह्यपादि हस्तिनं वाहयति। मयूव्यंसकादित्वात्समासः। द्विदण्डि। द्विमुसलि। उभाञ्जलि। उभयाञ्जलि। उभाकर्णि। उभयाकर्णि। उभादन्ति। उभयादन्ति। उभाहस्ति। उभयाहस्ति। उभापाणि। उभयापाणि। उभाबाहु। उभयाबाहु। एकपदि। प्रोह्यपदि। आढ्यपदि। सपदि। निकुच्यकर्णि। संहतपुच्छि। उभाबाहु उभयाबाहु इति निपातनादिच्प्रत्ययलोपः। प्रत्ययलक्षणेनाव्ययीभावसंज्ञा। द्विदण्ड्यादिः ।।

</5-4-128>
प्रसम्भ्यां जानुनोर्ज्ञुः ।। <5-4-129> ।।
प्र, सम् - इत्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी अस्य प्रज्ञुः। संज्ञुः ।।

</5-4-129>
<K.4.419>
ऊर्ध्वाद्विभाषा ।। <5-4-130> ।।
ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा `ज्ञुः इत्ययमादेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः। ऊर्ध्वज्ञुः ।।

</5-4-130>
ऊधसोऽनङ् ।। <5-4-131> ।।
ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव ऊधोऽस्याः सा कुण्डोध्नी। घटोध्नी।

  • ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम् *। इह मा भूत् -- महोधाः पर्जन्यः। घटोधः धैनुकम् ।।


</5-4-131>
धनुषश्च ।। <5-4-132> ।।
धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति। शार्ङ्गं धनुरस्य शार्ड्गधन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा ।।

</5-4-132>
वा संज्ञायाम् ।। <5-4-133> ।।
धनुःशब्दान्ताद्बहुब्रीहेरनङादेशो वा भवति संज्ञायां विषये। <K.4.420> पूर्वेण नित्यः प्राप्तो विकल्प्यते।
शतधनुः, शतधन्वा। दृढधनुः, दृढधन्वा ।।

</5-4-133>
जायाया निङ् ।। <5-4-134> ।।
जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति। युवतिर्जाया यस्य युवजानिः। वृद्धजानिः ।।

</5-4-134>
गन्धस्येदुत्पूतिसुसुरभिभ्यः ।। <5-4-135>।।
उत्, पूति, सु, सुरभि - इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। तकार उच्चारणार्थः। उद्गतो गन्धोऽस्य उद्गन्धिः। पूतिगन्धिः. सुगन्धिः। सुरभिगन्धिः।
एतेभ्य इति किम्? तीव्रगन्धः वातः।

  • गन्धस्येत्त्वे तदेकान्तग्रहणम् *। तेन शोभनो गन्धोऽस्य सुगन्धः आपणिकः ।।


</5-4-135>
<K.4.421>
अल्पाख्यायाम् ।। <5-4-136> ।।
अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। सूपोऽल्पोऽस्मिन् सूपगन्धि भोजनम्। अल्पमस्मिन् भोजने घृतम् घृतगन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः ।।

</5-4-136>
उपमानाच्च ।। <5-4-137> ।।
उपमानात्परो यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे। पद्मस्येव गन्धोऽस्य पद्मगन्धिः। उत्पलगन्धिः। करीषगन्धिः ।।

</5-4-137>
पादस्य लोपोऽहस्त्यादिभ्यः ।। <5-4-138> ।।
<K.4.422>
`उपमानात् इत्येव। उपमानाद्धस्त्यादिवर्जितात्परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे। स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते। व्याघ्रस्येव पादावस्य व्याघ्रपात्। सिंहपात्।
अहस्त्यादिभ्य इति किम्? हस्तिपादः। कटोलपादः। हस्तिन्। कटोल। गण्डोल। गण्डोलक। महिला। दासी। गणिका। कुसूल। हस्त्यादिः ।।

</5-4-138>
कुम्भपदीषु च ।। <5-4-139> ।।
कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते, तत्रैवं सूत्रं ज्ञेयम्। पादस्य लोपो भवति कुम्भपद्यादिविषये यथा, कुम्भपद्यादयः <K.4.423> सिद्ध्यन्ति। समुदायपाठस्य च प्रयोजनं विषयनियमः -- स्त्रियामेव, तत्र ङीष्प्रत्यये एव, नान्यदा। कुम्भपदी। शतपदी। यच्चेहोपमानपूर्वम्, संख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम्। पादोऽन्यतरस्याम् इति विकल्पो न भवति। कुम्भपदी। शतपदी। अष्टापदी। जालपदी। एकपदी। मालापदी। मुनिपदी। गोधापदी। गोपदी। कलशीपदी। घृतपदी। दासीपदी। निष्पदी। आर्द्रपदी। कुणपदी। कृष्णपदी। द्रोणपदी। द्रुपदी। शकृत्पदी। सूपपदी। पञ्चपदी। अर्वपदी। स्तनपदी। कुम्भपद्यादिः ।।

</5-4-139>
संख्यासुपूर्वस्य ।। <5-4-140> ।।
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः। द्वौ पादावस्य द्विपात्। त्रिपात्। शोभनौ पादावस्य सुपात् ।।

</5-4-140>
<K.4.424>
वयसि दन्तस्य दतृ ।। <5-4-141> ।।
संख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दस्तस्य दतृ इत्ययमादेशो भवति समासान्तो वयसि गम्यमाने। ऋकार उगित्कार्यार्थः। द्वौ दन्तावस्य द्विदन्। त्रिदन्। चतुर्दन्। शोभना दन्ता अस्य समस्ता जाताः सुदन् कुमारः।
वयसीति किम्? द्विदन्तः कुञ्जरः। सुदन्तः दक्षिणात्यः ।।

</5-4-141>
छन्दसि च ।। <5-4-142> ।।
छन्दसि च दन्तशब्दस्य `दतृ इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे। पत्त्रदतमालभेत। `उभयादत(ऋ.10-90-10) आलभते ।।

</5-4-142>
स्त्रियां संज्ञायाम् ।। <5-4-143> ।।
स्त्रियामन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य `दतृ इत्ययमादेशो भवति। अयोदती। फालदती।
संज्ञायामिति किम्? समदन्ती। स्निग्धदन्ती ।

</5-4-143>
विभाषा श्यावारोकाभ्याम् ।। <5-4-144> ।।
श्याव, अरोक - इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययमादेशो <K.4.425> भवति विभाषा समासान्तो बहुव्रीहौ। श्यावदन्, श्यावदन्तः। अरोकदन्, अरोकदन्तः। अरोकः = निर्दीप्तिः।
संज्ञायामित्येव, श्यावदन्तः। अरोकदन्तः।।
</5-4-144>
अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।। <5-4-145> ।।
`विभाषा इत्येव। अग्रान्ताच्छब्दात्, शुद्ध, शुभ्र, वृष, वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा `दतृ इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे। कुड्मलाग्रदन्, कुड्मलाग्रदन्तः। शुद्धदन्, शुद्धदन्तः। शुभ्रदन्, शुभ्रदन्तः। वृषदन्, वृषदन्तः। वराहदन्, वराहदन्तः। अनुक्तसमुच्चयार्थश्चकारः। अहिदन्, अहिदन्तः। मूषिकदन्, मूषिकदन्तः। गर्दभदन्, गर्दभदन्तः। शिखरदन्, शिखरदन्तः ।।

</5-4-145>
ककुदस्यावस्थायां लोपः ।। <5-4-146> ।।
ककुदशब्दान्तस्य बहुव्रीहेर्लेपो भवति समासान्तोऽवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयः = अवस्था इत्युच्यते। असञ्जातं ककुदमस्य असञ्जातककुत्। बाल इत्यर्थः। पूर्णककुत्। मध्यमवया इत्यर्थः। उन्नतककुत्। वृद्धवया इत्यर्थः। स्थूलककुत्। बलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृश इत्यर्थः।
अवस्थायामिति किम्? श्वेतककुदः ।।

</5-4-146>
<K.4.426>
त्रिककुत्पर्वते ।। <5-4-147> ।।
त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वतेऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गम् = ककुदमित्युच्यते। न च सर्वस्त्रिशिखरः पर्वतस्त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वत इति किम्? त्रिककुदः अन्यः ।।

</5-4-147>
उद्विभ्यां काकुदस्य ।। <5-4-148> ।।
उत्, वि -- इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदमस्य उत्काकुत्। विकाकुत्। तालु = काकुदमुच्यते।।

</5-4-148>
पूर्णाद्विभाषा ।। <5-4-149> ।।
<K.4.427>
पूर्णात्परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे। पूर्णं काकुदमस्य पुर्णकाकुत्, पुर्णकाकुदः ।।

</5-4-149>
सुहृद्दुर्हृदौ मित्त्रामित्रयोः ।। <5-4-150> ।।
सुहृत्, दुर्हृत् - इति निपात्यते यथासंख्यं मित्त्रामित्रयोरभिधेययोः। सुशब्दात्परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात्परस्य। शोभनं हृदयमस्य सुहृत् मित्त्रम्। दुष्टं हृदयमस्य दुर्हृत् अमित्रम्।
मित्त्रामित्रयोरिति किम्? सुहृदयः कारुणिकः। दुर्हृदयः चोरः ।।

</5-4-150>
उरःप्रभृतिभ्यः कप् ।। <5-4-151> ।।
उरःप्रभृत्यन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति। व्यूढमुरोऽस्य व्युढोरस्कः। प्रियसर्पिष्कः। अवमुक्तोपानत्कः।
पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि। तत्रेदं प्रयोजनम् -- एकवचनान्तानामेव ग्रहणमिह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूदिति। तत्र शेषाद्विभाषा इति विकल्प एव भवतीति। द्विपुमान्, द्विपुंस्कः। बहुपुमान्, बहुपुंस्कः। उरस्। सर्पिस्। उपानह्। पुमान्। अनड्वान्। नौः। पयः। <K.4.428> लक्ष्मीः। दधि। मधु। शालिः। *अर्थान्नञः *। अनर्थकः । उरःप्रभृति ।।

</5-4-151>
इनः स्त्रियाम् ।। <5-4-152> ।।
इन्नन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये। बहवो दण्डिनोऽस्यां शालायां बहुदण्डिका शाला। बहुच्छत्रिका। बहुस्वामिका नगरी। बहुवाग्ग्मिका सभा। स्त्रियामिति किम्? बहुदण्डी राजा। बहुदण्डिकः। शेषाद्विभाषा इत्येतद्भवति।

</5-4-152>
नद्यृतश्च ।। <5-4-153> ।।
नद्यन्ताद्बहुव्रीहेर्ऋकारान्ताच्च कप् प्रत्ययो भवति। बह्व्यः कुमार्योऽस्मिन्देशे बहुकुमारिकः देशः। बहुब्रह्मबन्धूकः। ऋतः खल्वपि -- बहुकर्तृकः। तकारः मुखसुखोच्चारणार्थः ।।

</5-4-153>
शेषाद्विभाषा ।। <5-4-154> ।।
<K.4.429>
यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेषः, तस्माद्विभाषा कप्प्रत्ययो भवति। बह्व्यः खट्वा अस्मिन् बहुखट्वकः, बहुमालकः, बहुवीणकः। बहुखट्वाकः, बहुमालाकः, बहुवीणाकः। बहुखट्वः, बहुमालः, बहुवीणः।
कथम् अनृक्कं साम, बह्वृक्कं सूक्तमिति, यावता विहितोऽत्र सामान्येन समासान्तः ऋक्पूः इति? नैतदस्ति; विशेषे स इष्यते -- `अनृचो माणवको ज्ञेयो बह्वृचश्चरणाख्याम् इति। शेषादिति किम्? प्रियपथः। प्रियधुरः ।।

</5-4-154>
<K.4.430>
न संज्ञायाम् ।। <5-4-155> ।।
संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिद्ध्यते। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः ।।

</5-4-155>
ईयसश्य ।। <5-4-156> ।।
ईयसन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति। सर्वा प्राप्तिः प्रतिषिध्यते। बहवः श्रेयांसोऽस्य बहुश्रेयान्। शेषाद्विभाषा इत्यस्य प्रतिषेधः। ह्रस्वत्वमपि न भवति; `ईयसो बहुव्रीहौ पुंवत् इति वचनात्।

</5-4-156>
<K.4.431>
वन्दिते भ्रातुः ।। <5-4-157> ।।
वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति। वन्दितः = स्तुतः, पूजित इत्युच्यते। शोभनो भ्राताऽस्य सुभ्राता।
वन्दित इति किम्? मूर्खभ्रातृकः। दुष्टभ्रातृकः ।।

</5-4-157>
ऋतश्छन्दसि ।। <5-4-158> ।।
ऋवर्णान्ताद् बहुव्रीहेश्छन्दसि विषये कप् प्रत्ययो न भवति। हता माताऽस्य `हतमाता(अ.वे.2-32-4)। हतपिता। `हतस्वसा(अ.वे.2-67-3)। `सुहोता(ऋ.7-67-3) ।।

</5-4-158>
नाडीतन्त्र्योः स्वाङ्गे ।। <5-4-159> ।।
स्वाङ्गे यौ नाडी - तन्त्रीशब्दौ तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति। बह्व्यो नाड्योऽस्य बहुनाडिः कायः। बहुतन्त्रीर्ग्रीवा। धमनीवचनस्तन्त्रीशब्दः। <K.4.432> स्वाङ्गे इति किम् ? बहुनाडीकः स्तम्भः। बहुतन्त्रीका वीणा ।।

</5-4-159>
निष्प्रवाणिश्च ।। <5-4-160> ।।
`निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयतेऽस्यामिति प्रवाणी। प्रवयन्ति तयेति वा प्रवाणी। करणसाधनोऽयं ल्युट्। तन्तुवायशलाका भण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः = अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवक उच्यते ।।

इति श्रीवामनविरचितायां काशिकावृत्तौ
पञ्चमाध्यायस्य चतुर्थः पादः
</5-4-160>