सामग्री पर जाएँ

काशिका/द्वितीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

                 अथ द्वितीयाध्याये तृतीयः पादः
अनभिहिते ।। <2-3-1> ।।
`अनभिहिते इत्यधिकारोऽयं वेदितव्यः। यदित ऊर्ध्वमनुक्रमिष्यामः, `अनभिहित इत्येवं तद्वेदितव्यम्। अनभिहिते = अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर्भवति। केनानभिहिते। तिङ्कृत्तद्धितसमासैः, परिसंख्यानम्। वक्ष्यति--कर्मणि द्वितीया(2-3-2/537), कटं करोति। ग्रामं गच्छति। अनभिहित इति किम् ? तिङ्-क्रियते कटः। कृत्-कृतः कटः। तद्धित-शत्यः,शतिकः। समास-प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः। परिसंख्यानं किम् ? कटं करोति भीष्ममुदारं दर्शनीयम्।(म.भा.1.440) बहुषु बहुवचनम्‌(म.भा.(1-4-21/187) इत्येवमादिना संख्या वाच्यत्वेन विभक्तीनामुपदिष्टाः, तत्र विशेषणार्थमिदमारभ्यते-अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति।(म.भा.1.440)
</2-3-1>

कर्मणि द्वितीया ।। <2-3-2> ।।
द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु स्मर्यन्ते, तैरेवात्र व्यवहारः। कर्मणि कारके या संख्या तत्र द्वितीया विभक्तिर्भवति। कटं करोति। ग्रामं गच्छति। * उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्त्रापि दृश्यते *।।(म.भा.1.444)उभयतो ग्रमम्। सर्वतो ग्रामम्। धिग्देवदत्तम्। उपर्युपरि। अध्यधि ग्रामम्। अधोऽधो ग्रामम्।। * अभितः-परितः-समया-निकषा-हा-प्रतियोगेषु च दृश्यते *(म.भा.1.443)। अभितो ग्रामम्। परितो ग्रामम्। निकषा ग्रामम्। हा देवदत्तम्। बुभुक्षितं न प्रतिभाति किञ्चित्।।
</2-3-2>
तृतीया च होश्छन्दसि ।। <2-3-3> ।।
`कर्मणि इति वर्त्तते। द्वितीयायां प्राप्तायां तृतीया विधीयते, चशब्दात्सा च भवति। छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति। यवागूमग्निहोत्रं जुहोति।।
</2-3-3>
अन्तरान्तरेण युक्ते ।। <2-3-4> ।।
द्वितीया स्वर्यते, न तृतीया। अन्तराऽन्तरेणशब्दौ निपातौ साहचर्याद् गृह्येते। आभ्यां योगे द्वितीया विभक्तिर्भवति। षष्ठ्यपवादोऽयं योगः। तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे। अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः। अन्तरेण त्वां च मां च कमण्डलुः। अन्तरेण पुरुषकारं न किञ्चिल्लभ्यते। युक्तग्रहणं किम् ? अन्तरा तक्षशिलां च पाटलिपुत्रं स्त्रुघ्नस्य प्राकारः।।
</2-3-4>
कालाध्वनोरत्यन्तसंयोगे ।। <2-3-5> ।।
कालशब्देभ्योऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने। क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः संबन्धः = अत्यन्तसंयोगः। मासमधीते। संवत्सरमधीते। मासं कल्याणी। संवत्सरं कल्याणी। मासं गुडधानाः। अध्वनः खल्वपि-क्रोशमधीते। योजनमधीते। क्रोशं कुटिला नदी। क्रोशं पर्वतः। योजनं पर्वतः। अत्यन्तसंयोग इति किम् ? मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः। योजनस्यैकदेशे पर्वतः।।
</2-3-5>
अपवर्गे तृतीया ।। <2-3-6> ।।
`कालाध्वनोरत्यन्तसंयोगे इति वर्त्तते। अपवर्गः = फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः। अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति। मासेनानुवाकोऽधीतः। संवत्सरेणानुवाकोऽधीतः। अध्वनः--क्रोशेनानुवाकोऽधीतः। योजनेनानुवाकोऽधीतः। अपवर्ग इति किम् ? क्रोशमधीतोऽनुवाकः। मासमधीतः। कर्तव्यावृत्तौ फलसिध्देरभवात्तृतीया न भवति। मासमधीतोऽनुवाको न चानेन गृहीतः।।(म.भा.1.446)
</2-3-6>
सप्तमीपञ्चम्यौ कारकमध्ये ।। <2-3-7> ।।
`कालाध्वनोः इति वर्त्तते। कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः। अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद्वा भोक्ता। त्र्यहे त्रयहाद्वा भोक्ता। कर्तृशक्त्योर्मध्ये कालः। इहस्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति। क्रोशाल्लक्ष्यं विध्यति।(म.भा.1.446) कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर्वा मध्ये क्रोशः। संख्यातानदेशो न भवति; अस्वरितत्वात्।।
</2-3-7>
कर्मप्रवचनीययुक्ते द्वतीया ।। <2-3-8> ।।
कर्मप्रवचनीयैर्युक्ते द्वितीया विभक्तिर्भवति। अनुर्लक्षणे(1-4-84/547)। शाकल्यस्य संहितामनु प्रावर्षत्। आगस्त्यमन्वसिञ्चत्प्रजाः।।
</2-3-8>
यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।। <2-3-9> ।।
`कर्मप्रवचनीययुक्ते इति वर्त्तते। यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति। उपखार्यां द्रोणः। उपनिष्के कार्षापणम्। `यस्य चेश्वरवचनम् इति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति। अधि ब्रह्मदत्तेपाञ्चालाः, अधि पाञ्चालेषु ब्रह्मदत्त इति। द्वितीयापवादो योगः।।
</2-3-9>
पञ्चम्यपाङ्परिभिः ।। <2-3-10> ।।
अप, आङ्, परि-इत्येतैः कर्मप्रवचनीयैर्योगे पञ्चमी विभक्तिर्भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। अपेन साहचर्यात्परेर्वर्जनार्थस्य ग्रहणम्, तेनेह न भवति--वृक्षं परि विद्योतते विद्युत्।।
</2-3-10>
प्रतिनिधिप्रतिदाने च यस्मात् ।। <2-3-11> ।।
मुख्यसदृशः = प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनम् = प्रतिदानम्। यस्मात्प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति। अभिमन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मै तिलेभ्यः प्रतियच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने ? नैष दोषः, सम्बन्धसम्बन्धात्तस्यापि योगोऽस्त्येव।।
</2-3-11>
गत्यर्थक्रमणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ।। <2-3-12> ।।
       गत्यर्थनां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति,ग्रामाय गच्छति। ग्रामं व्रजति,ग्रामाय व्रजति। गत्यर्थग्रहणं किम् ? ओदनं पचति। कर्मणि इति किम् ? अश्वेन व्रजति। चेष्टायामिति किम् ? मनसा पाटलिपुत्रं गच्छति। अनध्वनि इति किम् ? अध्वानं गच्छति। अध्वनीत्यर्थग्रहणम्(म.भा.1.448) पन्थानं गच्छति। मार्गं गच्छति। आस्थितप्रतिषेधश्चायं विज्ञेयः(म.भा.1.448)। आस्थितः सम्प्राप्तः, आक्रान्त उच्यते। यत्र तु उत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या, पथे गच्छति इति(म.भा.1.448)। द्वितीयाग्रहणं किम् ? न चतुर्थ्येव विकल्प्येत, अपवादविषयेऽपि यथा स्यात्। ग्रामं गन्ता। ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति।।
</2-3-12>
चतुर्थी संप्रदाने ।। <2-3-13> ।।
सम्प्रदांने कारके चतिर्थी विभक्तिर्भवति। उपाध्यायाय गां ददाति, माणवकाय भिक्षां ददाति, देवदत्ताय रोचते, पुष्पेभ्यः स्पृहयति इत्यादि।। * चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम् *।(म.भा.1.449) यूपाय दारु। कुण्‍डलाय हिरण्यम्। रन्धनाय स्थाली। अवहननायोलूखलम्। * क्लृपि सम्पद्यमाने चतुर्थी वक्तव्या *(म.भा.1.449)। मूत्राय कल्पते यवागूः। मूत्राय जायते यवागूः। * उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या

  • (म.भा.1.449)।

          `वाताय कपिला विद्युदातपायातिलोहिनी।
           पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्।।(म.भा.1.449)

  • हितयोगे चतुर्थी वक्तव्या *(म.भा.1.450)। गोभ्यो हितम्। अरोचकिने हितम्।।

</2-3-13>
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।। <2-3-14> ।।
क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपदः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्(3-3-10/3175) इत्येष विषयो लक्ष्यते। क्रियार्थोपपदस्य च स्थानिनोऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति। द्वितीयापवादो योगः। एधेभ्यो व्रजति। पुष्पेभ्यो व्रजति। क्तियार्थोपपदस्येति किम् ? प्रविश पिण्डीम्। प्रविश तर्पणम्। भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः। कर्मणीति किम् ? एधेभ्यो व्रजति शकटेन। स्थानिन इति किम् ? एधानाहर्तुं व्रजति।
</2-3-14>
तुमर्थाच्च भाववचनात् ।। <2-3-15> ।।
तुमुना समानार्थस्तुमर्थः। तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच्चतुर्थी विभक्तिर्भवति। भाववचनाश्च(3-3-11/3180) इति वक्ष्यति, तस्येदं ग्रहणम्। पाकाय व्रजति। त्यागाय व्रजति। भूतये व्रजति। सम्पत्तये व्रजति। तुमर्थादिति किम् ? पाकः, त्यागः, रागः। भाववचनादिति किम् ? कारको व्रजति।।
</2-3-15>
नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ।। <2-3-16> ।।
</2-3-16>
नमः, स्वस्ति, स्वाहा, स्वधा, अलम्, वषट्-इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। नमो देवेभ्यः(मै.<1-2-13>)। स्वस्ति प्रजाभ्यः। स्वाहाऽग्नये(तै.<1-8-13>.1) स्वधा पितृभ्यः(मै.<1-2-13>)। अलं मल्लो मल्लाय। अलमिति पर्याप्त्यर्थग्रहणम्। प्रभुर्मल्लो मल्लाय, शक्तो मल्लो मल्लाय। वषडग्नये। वषडिन्द्राय। चकारः पुनरस्यैव समुच्चयार्थः, तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति--स्वस्ति गोभ्यो भूयात्। स्वस्ति ब्राह्मणेभ्यः।।
</1-2-13>
मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ।। <2-3-17> ।।
मन्यतेः कर्मणि = मन्यकर्मणि। मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने। अनादरः = तिरस्कारः। न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये। नत्वा बुसं मन्ये। न त्वा बुसाय मन्ये। मन्यतिग्रहणं किम् ? न त्वा तृणं चिन्तयामि। विकरणनिर्देशः किमर्थः ? न त्वा तृणं मन्वे। अनादर इति किम् ?
              अश्मानं दृषदं मन्ये मन्ये काष्ठमुलूखलम्।
              अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति।।
अप्राणिष्विति किम् ? न त्वा श्रृगालं मन्ये। * यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यम् *(म.भा.1.450)। व्यवस्थितविभाषा च ज्ञेया। न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यम्। नत्वाऽन्नं मन्ये। यावन्न भुक्तं श्राद्धम्। प्राणिषु तूभयम्--न त्वा काकं मन्ये। नत्वा श्रृगालं मन्ये। इह चतुर्थी द्वितीया च भवति। न त्वा श्वानं मन्ये। न त्वा शुने मन्ये। युष्मदः कस्मान्न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म ? व्यवस्थितविभाषाविज्ञानादेव न भवति।।
</2-3-17>
कर्तृकरणयोस्तृतीया ।। <2-3-18> ।।
कर्त्तरि करणे च कारके तृतीया विभक्तिर्भवति। देवदत्तेन कृतम्। यज्ञदत्तेन भुक्तम्। करणे-- दात्रेण लुनाति। परशुना छिनत्ति। * तृतीयाविधाने प्रकृत्यादीनामुपसङ्ख्यानम् *(म.भा1.452)। प्रकृत्याऽभिरूपः। प्रकृत्या दर्शनीयः। प्रायेण याज्ञिकः। प्रायेण वैयाकरणः। गार्ग्योऽस्मि गोत्रेण। समेन धावति। विषमेण धावति। द्विद्रोणेन
धान्यं क्रीणाति। पञ्चकेन पशून् क्रीणाति। साहस्रेणाश्वान् क्रीणाति।।
</2-3-18>
सहयुक्तेऽप्रधाने ।। <2-3-19> ।।
सहार्थेन युक्ते अप्रधाने तृतीया विभक्तिर्भवति। पुत्रेण सहागतः पिता। पुत्रेण सह गोमान्। पितुरत्र क्रियादिसम्वन्धः। शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्। सहार्थेन योगे तृतीयाविधानात्पर्यायप्रयोगेऽपि भवति--पुत्रेण सार्धमिति। विनापि सहशब्देन भवति, वृद्धो यूना(1-2-65/931) इति निपातनात्। अप्रधान इति किम् ? शिष्येण सहोपाध्यायस्य गौः।।
</2-3-19>
येनाङ्गविकारः ।। <2-3-20> ।।
अङ्गशब्दोऽत्राङ्गसमुदाये शरीरे वर्तते, `येन इति च तदवयवो हेतुत्वेन निर्दिश्यते। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया विभक्तिर्भवति। अक्ष्णा काणः। पादेन खञ्जः। पाणिना कुणिः। अवयवधर्मेण समुदायो व्यपदिश्यते। अङ्गविकार इति किम् ? अक्षि काणमस्य।।
</2-3-20>
इत्थम्भूतलक्षणे ।। <2-3-21> ।।
कञ्चित्प्रकारं प्राप्तः = इत्थम्भूतः, तस्य लक्षणमित्थम्भूतलक्षणम्, ततस्तृतीया विभक्तिर्भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत् ?(म.भा.1.453) छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति--कमण्डलुपाणिश्छात्र इति; लक्षणस्य समासेऽन्तर्भूतत्वात्। इत्थम्भूत इति किम् ? वृक्षं प्रति विद्योतनम्।।
</2-3-21>
संज्ञौऽन्यतरस्यां कर्मणि ।। <2-3-22> ।।
सम्पूर्वस्य जानातेः कर्मणि कारके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीया विभक्तिर्भवति। पित्रा सञ्जानीते। पितरं सञ्जानीते। मात्रा सञ्जानीते। मातरं स?ञ्जानीते।।
</2-3-22>
हेतौ ।। <2-3-23> ।।
फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते। तद्वाचिनस्तृतीयाविभक्तिर्भवति। धनेन कुलम्। कन्यया शोकः। विद्यया यशः।।
</2-3-23>
अकर्तर्यृणे पञ्चमी ।। <2-3-24> ।।
`हेतौ इति वर्त्तते। कर्तृवर्जितं यदृणं हेतुस्ततः पञ्चमी विभक्तिर्भवति। तृतीयापवादो योगः। शताद्बद्धः। सहस्राद्बद्धः। अकर्त्तरीति किम् ? शतेन बन्धितः। शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञकम्।।
</2-3-24>
विभाषा गुणेऽस्त्रियाम् ।। <2-3-25> ।।
`हेतौ इति वर्त्तते। गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भवति। जाड्याद्बद्धः, जाड्येन बद्धः। पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः। गुणग्रहणं किम् ? धनेन कुलम्। अस्त्रियामिति किम् ? बुद्ध्या मुक्तः। प्रज्ञया मुक्तः।।
</2-3-25>
षष्ठी हेतुप्रयोगे ।। <2-3-26> ।।
हेतोः प्रयोगः = हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे = हेतौ द्यौत्ये षष्ठी विभक्तिर्भवति। अन्नस्य हेतोर्वसति।।
</2-3-26>
सर्वनाम्नस्तृतीया च ।। <2-3-27> ।।
सर्वनाम्नो हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति षष्ठी च। पूर्वेण षष्ठ्यामेव
प्राप्तायामिदमुच्यते। कस्य हेतोर्वसति। केन हेतुना वसति। यस्य हेतोर्वसति। येन हेतुना वसति। * निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् *(म.भा1.454)।। किं निमित्तं वसति। केन निमित्तेन वसति। कस्मै निमित्ताय वसति। कस्मान्निमित्ताद्वमति। कस्य निमित्तस्य वसति। कस्मिन्नमित्ते वसति। एवं कारणहेत्वोरप्युदाहार्यम्। अर्थग्रहणं चैतत्। पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायीति। तेनेहापि भवति--किं प्रजोजनं वसति। केन प्रयोजनेन वसति। कस्मै प्रयोजनाय वसति। कस्मात्प्रयोजनाद् वसति। कस्य प्रयोजनस्य वसति। कस्मिन् प्रयोजने वसति।।
</2-3-27>
अपादाने पञ्चमी ।। <2-3-28> ।।
अपादाने कारके पञ्चमी विभक्तिर्भवति। ग्रामादागच्छति। पर्वतादवरोहति। वृकेभ्यो बिभेति। अध्ययनात्पराजयते। * पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम् *(म.भा.1.455)। प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते। * अधिकरणे चोपसङ्ख्यानम् *(म.भा.1.455) आसने उपविश्य प्रेक्षते, आसनात्प्रेक्षते। शयनात्प्रेक्षते। * प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या *(म.भा.1.455)। कुतो भवान्, पाटलिपुत्रात्। * यतश्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या *(म.भा.1.455)। गवीधुमतः साङ्काश्यं चत्वारि योजनानि। कार्तिक्या आग्रहायणी मासे। * तद्युक्तात्काले सप्तमी वक्तव्या *(म.भा.1.455) कार्तिक्या आग्रहायणी मासे। * अध्वनः प्रथमा सप्तमी च वक्तव्या *(म.भा.1.455)। गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा।।
</2-3-28>
अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ।। <2-3-29> ।।
अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच् आहि-इत्येतैर्योगे पञ्चमी विभक्तिर्भवति। अन्य इत्यर्थग्रहणम्। तेन पर्यायप्रयोगेऽपि भवति। अन्यो देवदत्तात्। भिन्नो देवदत्तात्। अर्थान्तरं देवदत्तात्। विलक्षणो देवदत्तात्। आराच्छब्दो दूरान्तिकार्थे वर्त्तते। तत्र दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्(2-3-34/611) इति प्राप्ते पञ्चमी विधीयते। आराद्देवदत्तात्। आराद्यज्ञदत्तात्। `इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते। इतरे देवदत्तात्। `ऋते इति अव्ययं वर्जनार्थे। ऋते देवदत्तात्। ऋते यज्ञदत्तात्। दिक्शब्दः - पूर्वो ग्रामात्पर्वतः)। उत्तरो ग्रामात्। पूर्वो ग्रीष्माद्वसन्तः। उत्तरो ग्रीष्मो वसन्तात्। `दिक्शब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनापि दिक्शब्देन योगे यथा स्यात्; इतरथा हि दिग्वृत्तिनैव स्यात्--इयमस्याः पूर्वेति। इहतु न स्यात्--अयमस्मात्पूर्वः काल इति। अञ्चूत्तरपद-प्राग् ग्रामात्। प्रत्यग् ग्रमात्।(म.भा.1.456) ननु चायमपि दिक्शब्द एव ? षष्ठ्यतसर्थप्रत्ययेन(2-3-30/609) इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः। आच्-दक्षिणा ग्रामात्। उत्तरा ग्रामात्। आहि-दक्षिणाहि ग्रामात्। उत्तराहि ग्रामात्।।
</2-3-29>
षष्ठ्यतसर्थप्रत्ययेन ।। <2-3-30> ।।
दक्षिणोत्तराभ्यामतसुच्(5-3-28/1978) इति वक्ष्यति, तस्येदं ग्रहणम्। अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति। दक्षिणतो ग्रामस्य। उत्तरतो ग्रामस्य। पुरस्ताद् ग्रामस्य। उपरि ग्रामस्य। उपरिष्टाद् ग्रामस्य।।
</2-3-30>
एनपा द्वितीया ।। <2-3-31>।।
एनबन्यतरस्यामदूरे पञ्चम्या(5-3-35/1984)इति वक्ष्यति। तेन युक्ते द्वितीया विभक्तिर्भवति। पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम्। दक्षिणेन ग्रामम्। उत्तरेण ग्रामम्। षष्ठ्यपीष्यते--दक्षिणेन ग्रमस्य। उत्तरेण ग्रामस्य। तदर्थं योगविभागः कर्तव्यः।।
</2-3-31>
पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ।। <2-3-32>।।
पञ्चमीग्रहणमनुवर्त्तते। पृथक्, विना, नाना--इत्येतैर्योगे तृतीया विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च । पृथग् देवदत्तेन, पृथग् देवदत्तात्। विना देवदत्तेन, विना देवदत्तात्। नाना देवदत्तेन, नाना देवदत्तात्।
पृथग्विनानानाभिः इति योगविभागो द्वितीयार्थः।।
           विना वातं विना वर्षं विद्युत्प्रपतनं विना।
           विना हस्तिकृतान्दोषान्केनेमौ पातितौ द्रुमौ।।

</2-3-32>
करणे च स्तेकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य ।। <2-3-33> ।।
स्तोक, अल्प, कृच्छ्र, कतिपय--इत्येतेभ्योऽसत्त्ववचनेभ्यः करणे कारकेऽन्यतरस्यां तृतीया भवति। पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करण इत्येव सिध्दा। यदा तु धर्ममात्रं करणतया विवक्ष्यते न द्रव्यम्, तदा स्तोकादीनामसत्त्ववचनता। स्तोकान्मुक्तः, स्तोकेनमुक्तः। अल्पान्मुक्तः, अल्पेन मुक्तः, कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः। कतिपयान्मुक्तः, कतिपयेनमुक्तः। असत्त्ववचनस्येति किम् ? स्तोकेन विषेण हतः। अल्पेन मधुना मत्तः। करण इति किम् ? क्रियाविशेषणे कर्मणि मा भूत्--स्तोकं मुञ्चति।।
</2-3-33>
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ।। <2-3-34> ।।
पञ्चम्यनुवर्त्तते। दूरान्तिकार्थैः शब्दैर्योगे षष्ठी विभक्तिर्भवत्यन्यतरस्यां पञ्चमी च । दूरं ग्रामात्, दूरं ग्रामस्य। विप्रकृष्टं ग्रामात्, विप्रकृष्टं ग्रामस्य। अन्तिकं ग्रामात्, अन्तिकं ग्रामस्य। अभ्याशं ग्रामात्, अभ्याशं ग्रामस्य, अभ्याशं ग्रामस्य। अन्यतरस्याङ्ग्रहणं पञ्चम्यर्थम्, इतरथा हि तृतीया पक्षे स्यात्।।
</2-3-34>
दूरान्तिकार्थेभ्यो द्वितीया च ।। <2-3-35> ।।
पञ्चम्यनुवर्त्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयापि समुच्चीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं चानुवर्त्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति-दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्।।
</2-3-35>
सप्तम्यधिकरणे च ।। <2-3-36> ।।
सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद् दूरान्तिकार्थेभ्यश्च। कटे आस्ते। शकटेआस्ते। स्थाल्यां पचति। दूरान्तिकार्थेभ्यः खल्वपि-दूरे ग्रामस्य, अन्तिके ग्रामस्य, अभ्याशे ग्रामस्य। दूरान्तिकार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीयातृतीयापञ्यमीसप्तम्यः। * सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्यानम् *(म.भा.1.458)। अधीती व्याकरणे। परिगणिती याज्ञिके। आम्नाती छन्दसि। * साध्वसाधुप्रयोगे च सप्तमी वक्तव्या *(म.भा.1.458)। साधुर्देवदत्तो मातरि। असाधुः पतरि। * कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या *(म.भा.1.458)। ऋध्देषु भुञ्जानेषु दरिद्रा आसते। ब्राह्मणेषु तरत्सु वृषला आसते। * अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या *(म.भा.1.458)। दरिद्रेष्वासीनेषु ऋध्दा भुञ्जते। वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति।* तद्विपर्यासे च सप्तमी वक्तव्या *(म.भा.1.458)। ऋध्देष्वासीनेषु दरिद्रा भुञ्जते। ब्राह्मणेष्वासीनेषु वृषलास्तरन्ति। * निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या *(म.भा.1.458)। `चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्। केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः।। (म.भा.1.458)
</2-3-36>
यस्य च भावेन भावलक्षणम् ।। <2-3-37> ।।
`सप्तमी इति वर्तते। भावः = क्रिया। यस्य च भावेन = यस्य च क्रियया क्रियान्तरं लक्ष्यते ततो भाववतः सप्तमीविभक्तिर्भवति। प्रसिद्धा च क्रिया क्रियान्तरं लक्षयति। गोषु दुह्यमानासु गतः। दुग्धास्वागतः। अग्निषु हूयमानेषु गतः। हुतेष्वागतः। भावेनेति किम् ? यो जटाभिः स भुङ्क्ते। पुनर्भावग्रहणं किम् ? यो भुङ्क्ते स देवदत्तः।।
</2-3-37>
षष्ठी चानादरे ।। <2-3-38> ।।
पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्सापि भवति। अनादराधिके भावलक्षणे भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः। रुदतः प्राव्राजीत्, रुदति प्राव्राजीत्। क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत्। क्रोशन्तमनादृत्य प्रव्रजित इत्यर्थः।।
</2-3-38>
स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।। <2-3-39> ।।
षष्ठीसप्तम्यौ वर्तेते। स्वामिन्, ईश्वर, अधिपति, दायाद, साक्षिन्, प्रतिभू, प्रसूत-इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः। गवां स्वामी, गोषु स्वामी। गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायदः, गोषु दायादः। गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः। गवां प्रसूतः, गोषु प्रसूतः। षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम्।।
</2-3-39>
आयुक्तकुशलाभ्यां चासेवायाम् ।। <2-3-40> ।।
षष्ठीसप्तम्यौ वर्तेते। आयुक्तः = व्यापारितः, कुशलः = निपुणः ताभ्यां योगे आसेवायां गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः। आसेवा = तात्पर्यम्। आयुक्तः कटकरणस्य। आयुक्तः कटकरणे। कुशलः कटकरणस्य। कुशलः कटकरणे। आसेवायामिति किम् ? आयुक्तो गौः शकटे। तत्र सप्तम्येवाधिकरणे भवति।।
</2-3-40>
यतश्च निर्धारणम् ।। <2-3-41> ।।
षष्ठीसप्तम्यौ वर्तेते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणम् = निर्धारणम्। यतो निर्धारणं ततः षष्ठीसप्तम्यौ विभक्ती भवतः। मनुष्याणां क्षत्त्रियः शूरतमः। गवां कृष्णा सम्पन्नक्षीरतमा। गोषु कृष्णा सम्पन्नक्षीरतमा। अध्वगानां धावन्तः शीघ्रतमाः। अध्वगेषु धावन्तः शीघ्रतमाः।।
</2-3-41>
पञ्चमी विभक्ते ।। <2-3-42> ।।
`यतश्च निर्धारणम् इति वर्तते। षष्ठीसप्तम्यपवादो योगः। विभागः = विभक्तम्। यस्मिन्निर्धारणाश्रये विभक्तमस्यास्ति ततः पञ्चमी विभक्तिर्भवति। माथुराः पाटलिपुत्‌रकेभ्यः सुकुमारतराः। आढ्यतराः।।
</2-3-42>
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।। <2-3-43> ।।
साधु, निपुण-इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति, न चेत् प्रतिः प्रयुज्यते। मातरि साधुः। पितरि साधुः। मातरि निपुणः। पितरि निपुणः। अर्चायामिति किम् ? साधुर्भृत्यो राज्ञः। तत्त्वकथने न भवति। अप्रतेरिति किम् ? साधुर्देवदत्तो मातरं प्रति। * अप्रत्यादिभिरिति वक्तव्यम् *(म.भा.1.459)। साधुर्देवदत्तो मातरं परि। मातरमनु।।
</2-3-43>
प्रसितोत्सुकाभ्यां तृतीया च ।। <2-3-44> ।।
प्रसित, उत्सुक-इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्तमी च । प्रसितः=प्रसक्तः, यस्तत्र नित्यमेवावबद्धः स प्रसितशब्देनोच्यते। केशैः प्रसितः, केशेषु प्रसितः। केशैरुत्सुकः।।
</2-3-44>
नक्षत्रे च लुपि ।। <2-3-45> ।।
तृतीयासप्तम्यावनुवर्तेते। लुबन्तान्नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भवतः। पुष्येण पायसमश्नीयात्। पुष्ये पायसमश्नीयात्। मघाभिः पललौदनम्। मघासु पललौदनम्। नक्षत्र इति किम् ? पञ्चालेषु वसति। लुपीति किम् ? मघासु ग्रहः। इह कस्मान्न भवति-अद्य पुष्यः, अद्य कृत्तिका ? `अधिकरणे इति वर्तते। वचनं तु पक्षे
तृतीयाविधानार्थम्।।
</2-3-45>
प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।। <2-3-46> ।।
प्रातिपदिकार्थः = सत्ता। लिङ्गम् = स्त्रीलिङ्गपुंल्लिङ्गनपुंसकानि। परिमाणम् - द्रोणः, खारी, आढकम्। वचनम् = एकत्वद्वित्वबहुत्वानि। मात्रशब्दः प्रत्येकमभिसम्बध्यते। प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमा विभक्तिर्भवति। प्रातिपदिकार्थमात्रे--उच्चैः। नीचैः। लिङ्गग्रहणं किम् ? कुमारी, वृक्षः, कुण्डम् इत्यत्रापि यथा स्यात्। परिमाणग्रहणं किम् ? द्रोणः, खारी, आढकम्-इत्यत्रापि यथा स्यात्। वचनग्रहणं किम् ? एकत्वादिषूक्तेष्वपि यथा स्यात्-एकः द्वौ, बहवः। प्रातिपदिकग्रहणं किम् ? निपातस्यानर्थकस्य प्रातिपदिकत्वमुक्तम्, ततोऽपि यथा स्यात्-प्रलम्बते। अध्यागच्छति।।
</2-3-46>
सम्बोधने च ।। <2-3-47> ।।
आभिमुख्यकरणम् = सम्बोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोतीति वचनमारभ्यते। सम्बोधने च प्रथमा विभक्तिर्भवति। हे देवदत्त। हे देवदत्तौ। हे देवदत्ताः।।
</2-3-47>
साऽऽमन्त्रितम् ।। <2-3-48> ।।
सम्बोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति। तथा चैवोदाहृतम्। आमन्त्रितप्रदेशाः-आमन्त्रितं पर्वमविद्यमानवत्(8-1-72/412) इत्येवमादयः।।
</2-3-48>
एकवचनं सम्बुद्धिः ।। <2-3-49> ।।
आमन्त्रितप्रथमाया यदेकवचनं तत्सम्बुद्धिसंज्ञं भवति। हे पटो! हे देवदत्त! सम्बुद्धिप्रदेशाः - एङ्ह्रस्वात्सम्बुद्धेः(6-1-69/193) इत्येवमादयः।।
</2-3-49>
षष्ठी शेषे ।। <2-3-50> ।।
कर्मादिभ्यो योऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसम्बन्धादिः शेषस्तत्र षष्ठीविभक्तिर्भवति। राज्ञः पुरुषस्य गृहम्। पशोः पादः। पितुः पुत्रः।।
</2-3-50>
ज्ञोऽविदर्थस्य करणे ।। <2-3-51> ।।
जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठीविभक्तिर्भवति। सर्पिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तत इत्यर्थः। प्रवृत्तिवचनो जनातिरविदर्थः। अथ वा-मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा। चित्तभ्रान्त्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानमज्ञानमेव। अविदर्थस्येति किम् ? स्वरेण पुत्रं जानाति।।
</2-3-51>
अधीगर्थदयेशां कर्मणि ।। <2-3-52> ।।
`शेषे इति वर्तते। अधीगर्थाः = स्मरणार्थाः, `दय दानगतिरक्षणेषु(धा.पा.481), `ईश ऐश्वर्ये(धा.पा.1021) -- एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठीविभक्तिर्भवति। मातुरध्येति। मातुः स्मरति। सर्पिषो दयते। सर्पिष ईष्टे। मधुन ईष्टे। कर्मणीति किम् ? मातुर्गुणैः स्मरति। शेष इति किम् ? मातरं स्मरति।।
</2-3-52>
कृञः प्रतियत्ने ।। <2-3-53> ।।
सतो गुणान्तराधानम् = प्रतियत्नः। करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति। एधोदकस्योपस्कुरुते। शस्त्रपत्रस्योपस्कुरुते। प्रतियत्न इति किम् ? कटं करोति। कर्मणीति किम्
? एधोदकस्योपस्कुरुते प्रज्ञया। शेषे इत्येव--एधोदकमुपस्कुरुते।।
</2-3-53>
रुजार्थानां भाववचनानामज्वरेः ।। <2-3-54> ।।
रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठीविभक्तिर्भवति। चौरस्य रुजति रोगः। चौरस्यामयत्यामयः। रुजार्थानामिति किम् ?
              एति जीवन्तमानन्दो नरं वर्षशतादपि।
              जीव पुत्रक मामैवं तपः साहसमाचर।।
भाववचनानामिति किम् ? नदी कूलानि रुजति। अज्वरेरिति किम् ? चौरं ज्वरयति ज्वरः। * अज्वरिसन्ताप्योरिति वक्तव्यम् *(म.भा.1.465)। चौरं सन्तापयति तापः। शेष इत्येव--चौरं रुजति रोगः।।
</2-3-54>
आशिषि नाथः ।। <2-3-55> ।।
`नाधृ नाथृ याच्ञोपतापैश्वर्याशीःषु(धा.पा.6,7) पठ्यते, तस्याशीः-क्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठीविभक्तिर्भवति। सर्पिषो नाथते। मधुनो नाथते। आशिषीति किम् ? माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व।।
</2-3-55>
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।। <2-3-56> ।।
जासि, निप्रहण, नाट, क्राथ, पिष्-इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठीविभक्तिर्भवति। `जसु हिंसायाम्(धा.पा.1669) `जसुताडने(धा.पा.1719) इति च चुरादौ पठ्यते तस्येदं ग्रहणम्, न दैवादिकस्य-`जसु मोक्षणे(धा.पा.1212) इत्यस्य। चौरस्योज्जासयति। वृषलस्योज्जासयति। `निप्रहण इति सङ्घातविगृहीतविपर्यस्तस्य ग्रहणम्। चौरस्य निप्रहन्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति। वृषलस्योन्नाटयति। चौरस्योत्क्राथयति। वृषलस्य क्राथयति। निपातनाद् वृद्धिः। अयं हि घटादौ पठ्यते-`श्रथ क्नथ क्रथ क्लथ हिंसार्थाः(धा.पा.799-802) इति, तत्र `घटादयो मितः(धा.पा.763-822) इति मित्संज्ञायाम् मितां ह्रस्वः(6-4-92/2568) इति ह्रस्वत्वं स्यात्। चौरस्य पिनष्टि। वृषलस्य पिनष्टि। हिंसायामिति किम् ? धानाः पिनष्टि। शेष इत्येव-चौरमुज्जासयति। एषामिति किम् ? चौरं हिनस्ति। निप्रहण इति किम् ? चौरं विहन्ति।।
</2-3-56>
व्यवहृपणोः समर्थयोः ।। <2-3-57> ।।
व्यवहृ, पण-इत्येतयोः समर्थयोः = समानार्थयोः कर्मणि कारके षष्ठीविभक्तिर्भवति। द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः। शतस्य व्यवहरति। सहस्रस्य व्यवहरति। शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान्न भवति ? स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते। समर्थयोरिति किम् ? शलाकां व्यवहरति। गणयतीत्यर्थः। ब्राह्मणान् पणायते।स्तौतीत्यर्थः। शेष इत्येव-शतं पणते।
</2-3-57>
दिवस्तदर्थस्य ।। <2-3-58> ।।
व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठीविभक्तिर्भवति। शतस्य दीव्यति। सहस्रस्य दीव्यति। तदर्थस्येति किम् ? ब्राह्मणं दीव्यति। योगविभाग उत्तरार्थः।
</2-3-58>
विभाषोपसर्गे ।। <2-3-59> ।।
`दिवस्तदर्थस्य इति नित्यं षष्ठ्यां प्राप्तायां सोपसर्गस्य विकल्प उच्यते। उपसर्गे सति दिवस्तदर्थस्य कर्मणि कारके विभाषा षष्ठीविभक्तिर्भवति। शतस्य प्रतिदीव्यति। सहस्रस्य प्रतिदीव्यति। शतं प्रतिदीव्यति। सहस्रं प्रतिदीव्यति। उपसर्गस्येति किम् ? शतस्य दीव्यति। तदर्थस्येत्येव-शलाकां प्रतिदीव्यति।
</2-3-59>
द्वितीया ब्राह्मणे ।। <2-3-60> ।।
ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति। गामस्य तदहः सभायां दीव्येयुः(मै.सं.<1-6-11/56)। अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाषायापि सिध्यति।
</2-3-60>
प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।। <2-3-61> ।।
</2-3-61>
`प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्मध्यमपुरुषस्यैकवचनम्, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते। प्रेष्यप्रुवोर्हविषः कर्मणः षष्ठीविभक्तिर्भवति देवतासम्प्रदाने सति। `अग्नये छागस्य हविषो वपाया मेदसः प्रे3ष्य(का.श्रौ.<6-6-26>) `अग्नये छागस्य हविषो वपाया मेदसोऽनुब्रूहि(का.श्रौ.<6-6-20>)। प्रेष्यब्रुवोरिति किम्? `अग्नये छागं हविर्वपां मेदो जुहुधि(का.श्रौ.<6-6-23>)। हविष इति किम् ? `अग्नये गोमयानि प्रेष्य(श.ब्रा.<12-5-2>.3)। देवतासम्प्रदान इति किम् ? माणवकाय पुरोडाशं प्रेष्य।। * हवुषः प्रस्थितस्य प्रतिषेधो वक्तव्यः *(म.भा.1.466) इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य3(का.श्रौ.<6-6-23>)
</6-6-26>
चतुर्थ्थर्थे बहुलं छन्दसि ।। <2-3-62> ।।
छन्दसि विषये चतुर्थ्यर्थे षष्ठीविभक्तिर्भवति बहुलम्। पुरुषमृगश्चन्द्रमसः(वा.सं.24.35)। पुरुषमृगश्चन्द्रमसे। गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्। ते वनस्पतिभ्यः(वा.सं.24.35)। बहुलग्रहणं किम् ? कृष्णो रात्र्यै(का.सं.68.40)। हिमवते हस्ती(वा.सं.24.30)। षष्ठ्यर्थे चतुर्थी वक्तव्या *(म.भा.1.466)। या खर्वेण पिबति तस्यै खर्वो जायते। या दतो धावति तस्यै श्यावदन्। या नखानि कृन्तति तस्यै कुनखः। याऽऽङ्क्ते तस्यै काणः। याऽभ्यङ्क्ते तस्यै दुश्चर्मा। या केशात् प्रलिखते। तस्यै खलतिः। अहल्यायै जारः(3-3-1>.19)।।
</2-3-62>
यजेश्च करणे ।। <2-3-63> ।।
यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठीविभक्तिर्भवति। घृतस्य यजते। घृतेन यजते। सोमस्य यजते। सोमेन यजते।।
</2-3-63>
कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ।। <2-3-64> ।।
`छन्दसि बहुलम् इति निवृत्तम्। कृत्वोऽर्थानां प्रत्ययानां प्रयोगे कालेऽधिकरणे षष्ठीविभक्तिर्भवति। पञ्चकृत्वोऽह्नो भुङ्क्ते। द्विरह्नोऽधीते। कृत्वोऽर्थग्रहणं किम् ? अह्नि शेते। रात्रौ शेते। प्रयोगग्रहणां किम् ? अहनि भुक्तम्। गम्यते हि द्विस्त्रिश्चतुर्वेति, न त्वप्रयुज्यमाने भवति। कालग्रहणं किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते। अधिकरण इति किम्। द्विरह्नो भुङ्क्ते। शेष इत्येव-द्विरहन्यधीते।।
</2-3-64>
कर्तृकर्मणोः कृति ।। <2-3-65> ।।
कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिर्भवति। भवतः शायिका। भवत आसिका। कर्मणि-अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। कर्तृकर्मणोरिति किम् ? शस्त्रेण भेत्ता। कृतीति किम् ? तद्धितप्रयोगे मा भूत्--कृतपूर्वी कटम्। भुक्तपूर्वी ओदनम्। शेष इति निवृत्तम्, पुनः कर्मग्रहणात्; इतरथा हि `कर्तरि च कृति इत्येवं ब्रूयात्।।
</2-3-65>
उभयप्राप्तौ कर्मणि ।। <2-3-66> ।।
पूर्वेण षष्ठी प्राप्ता नियम्यते। `उभयप्राप्तौ इति बहुव्रीहिः उभयोः प्राप्तिर्यस्मिन्कृति सोऽयमुभयप्राप्तिः। तत्र कर्मण्येव षष्ठी विभक्तिर्भवति, न कर्तरि। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते मे ओदनस्य भोजनं
देवदत्तेन। साधु खलु पयसः पानं यज्ञदत्तेन। बहुव्रीहिविज्ञानादिह नियमो न भवति - आश्चर्यमिदमोदनस्य नाम पाको ब्राह्मणानां च प्रादुर्भाव इति।। * अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे नेति वक्तव्यम् *(म.भा.1.468)। भेदिका देवदत्तस्य काष्ठानाम्। चिकीर्षा देवदत्तस्य कटस्य।। * शेषे विभाषा *(म.भा.1.468)। अकाकारयोः स्त्रीप्रत्यययोर्ग्रहणात् तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते। विचित्रा हि सूत्रस्य कृतिः पाणिनेः, पाणिनिना वा।। केचिदविशेषेणैव विभाषामिच्छन्ति - शब्दानामनुशासनमाचार्येण, आचार्यस्येति वा।।
</2-3-66>
क्तस्य च वर्तमाने ।। <2-3-67> ।।
न लोकाव्ययनिष्ठा(2-3-69/627) इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते। क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठीविभक्तिर्भवति। राज्ञां मतः। राज्ञां बुद्धः। राज्ञां पूजितः। क्तस्येति किम् ? ओदनं पचमानः। वर्तमान इति किम् ? ग्रामं गतः। * नपुंसके भाव उपसंख्यानम् *(म.भा.1.468)। छात्रस्य हसितम्। मयूरस्य नृत्तम्। कोकिलस्य व्याहृतम्। * शेषविज्ञानात् सिद्धम् *(म.भा.1.468)। तथा च कर्तृविवक्षायां तृतीयापि भवति--छात्रेण हसितमिति।।
</2-3-67>
अधिकरणवाचिनश्च ।। <2-3-68> ।।
क्तोऽधिकरणे च(3-4-76/3087) इति वक्ष्यति, तस्य प्रयोगे षष्ठीविभक्तिर्भवति। अयमपि प्रतिषेधापवादो योगः। इदमेषामासितम्। इदमेषां शयितम्। इदमहेः सृप्तम्। इदं वनकपेर्यातम्। इदमेषां भुक्तम्। इदमेषामशितम्। द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठीद्वितीयावत्। नेताऽश्वस्य ग्रामस्य चैत्रः। अन्ये प्रधाने कर्मण्याहुः, तदा-नेताश्वस्य ग्रामं चैत्रः।।
</2-3-68>
न लोकाव्ययनिष्ठाखलर्थतृनाम् ।। <2-3-69> ।।
</2-3-69>
कर्तृकर्मणोः कृति(2-3-65/623) इति षष्ठी प्राप्ता प्रतिषिध्यते। ल, उ, उक, अव्यय, निष्ठा,खलर्थ, तृन्-इत्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति। `ल इति शतृशानचौ कानच्क्वसू किकिनौ च गृह्यन्ते-ओदनं पचन्। ओदनं पचमानः। ओदनं पेचानः। ओदनं पेचिवान्। पपिः सोमम्। ददिर्गाः(ऋ.<6-23-4>)। उ-कटं चिकीर्षुः। ओदनं बुभुक्षुः। कन्यामलंकरिष्णुः। इष्णुचोऽपि प्रयोगे निषेधः। उक--आगामुकं वाराणसीं रक्ष आहुः। * उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः *(म.भा.1.469)। दास्याः कामुकः। अव्यय-कटं कृत्वा। ओदनं भुक्त्वा। * अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः *(म.भा.1.469)। व्युष्टायां पुरा सूर्यस्योदेतोराधेयः(3-4-16/3443)(का.स.8.3)। पुरा क्रूरस्य विसृपो विरप्शिन्।(3-1-17/3444)(तै.सं.<1-1-9>.3) निष्ठा-ओदनं भुक्तवान्। देवदत्तेन कृतम्। खलर्थ-ईषत्कारः कटो भवता। ईषत्पानः सोमो भवता। तृन्न्निति प्रत्याहारग्रहणम्, लटः शतृशानचौ(3-2-135/3115) इत्यारभ्य आतृनो नकारात्। तेन शानन्-चानश्-शतृ-तृनामपि प्रतिषेधो भवति। सोमं पवमानः। नडमाघ्नानः। अधीयन् पारायणम्। कर्ता कटान्। वदिता जनापवादान्। * द्विषः शतुर्वा वचनम् *(म.भा.1.470)। चौरं द्विषन्। चौरस्य द्विषन्।।
</6-23-4>
अकेनोर्भविष्यदाधमर्ण्ययोः ।। <2-3-70> ।।
अकस्य भविष्यति काले विहितस्य,इनस्तु भविष्यति चाधमर्ण्ये विहितस्य प्रयोगे षष्ठीविभक्तिर्न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि-ग्रामं गमी(म.भा.1.470)। ग्रामं गामी(3-3-3/3171)। आधमर्ण्यं-शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोरिति किम् ? यवानां लावकः। सक्तूनां पायकः। अवश्यं कारी कटस्य। इह कस्मान्न भवति-वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इति ? भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम्।
</2-3-70>
कृत्यानां कर्तरि वा ।। <2-3-71> ।।
कर्तृकर्मणोः कृति(2-3-65/623) इति नित्यं षष्ठी प्राप्ता कर्त्तरि विकल्प्यते। कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि। भवता कटः कर्तव्यः। भवतः कटः कर्तव्यः। कर्त्तरीति किम् ? गेयो माणवकः साम्नाम्। * उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः *(म.भा.1.470)। क्रष्टव्या ग्रामं शाखा देवदत्तेन। नेतव्या ग्राममजा देवदत्तेन।।
</2-3-71>
तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्यात् ।। <2-3-72> ।।
तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्ठी च, तुलोपमाशब्दौ वर्जयित्वा। शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव भवति। तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य। सदृशो देवदत्तेन, सदृशो देवदत्तस्य। अतुलोपमाभ्यामिति किम् ? तुला देवदत्तस्य नास्ति। उपमा कृष्णस्य न विद्यते। वेति वर्तमानेऽन्यतरास्याङ्ग्रहणमुत्तरसूत्रे तस्य चकारेणानुकर्षणार्थम्; इतरथा हि तृतीयानुकृष्येत।।
</2-3-72>
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।। <2-3-73> ।।
आशिषि गम्यमानायाम् आयुष्य, मद्र, भद्र, कुशल, सुख, अर्थ, हित-इत्येतैर्योगे चतुर्थी विभक्तिर्भवति। चकारो विकल्पानुकर्षणार्थः। शेषे चतुर्थीविधानात्तया मुक्ते षष्ठीविभक्तिर्भवति। * अत्रायुष्यादीनां पर्यायग्रहणं कर्त्तव्यम् *। आयुष्यं देवदत्ताय देवदत्तस्य वा भूयात्। चिरं जीवितं देवदत्ताय देवदत्तस्य वा भूयात्। मद्रं देवदत्ताय देवदत्तस्य वा भूयात्। भद्रं देवदत्ताय। भद्रं देवदतस्य। कुशलं देवदत्ताय। कुशलं देवदत्तस्य। निरामयं देवदत्ताय। निरामयं देवदत्तस्य। सुखं देवदत्ताय। सुखं देवदत्तस्य। शं देवदत्ताय। शं देवदत्तस्य। अर्थो देवदत्ताय। अर्थो देतवत्तस्य। प्रयोजनं देवदत्ताय। प्रयोजनं देवदत्तस्य। हितं देवदत्ताय। हितं देवदत्तस्य। पथ्यं देवदत्ताय। पथ्यं देवदत्तस्य। आशिषीति किम् ? आयुष्यं देवदत्तस्य तपः।।
</2-3-73>
          इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
             द्वितीयाध्यायस्य तृतीयः पादः।।