काशिका/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

<K.2.237>
                अथ द्वितीयाध्याये चतुर्थः पादः

द्विगुरेकवचनम् ।। <2-4-1> ।।
         द्विगुः समासः एकवचनं भवति। एकस्य वचनम् = एकवचनम्। एकस्यार्थस्य वाचको भवतीत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्यैकवद्भावो विधीयते, द्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणम्, नान्यस्य। पञ्चपूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्यैकत्वादनुप्रयोगेऽप्येकवचनं भवति -- पञ्चपूली इयं शोभनेति।।
</2-4-1>
द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।। <2-4-2> ।।
<K.2.240>
       `एकवचनम् इति वर्त्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि संपद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां च । प्राण्यङ्गानां तावत् -- पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम् -- मार्दङ्गिकपाणविकम्। वीणावादकपरिवादकम्। सेनाङ्गानाम् - रथिकाश्वारोहम्। रथिकपादातम्। <K.2.241> हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषयैकवद् भवति। इतरेतरयोगे समाहारे च द्वन्द्वो विहितः, तत्र समाहारस्यैकत्वात्सिद्धमेवैकवचनम्? इदं तु प्रकरणं विषयविभागार्थम् - प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधिपयआदीनामितरेतरयोग एव, वृक्षमृगादीनामुभयत्रेति।।
</2-4-2>
<K.2.242>
 अनुवादे चरणानाम् ।। <2-4-3> ।।
        चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते। चरणानां द्वन्द्व एकवद्भवति, अनुवादे गम्यमाने। प्रमाणान्तरावगतस्यार्थस्य शब्देन संकीर्त्तनम् = अनुवादः। उदगात्कठकालापम्। प्रत्यष्ठात्कठकौथुमम्। <K.2.243> कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरावगते यदा पुनः शब्देनानूद्येते तदैवमुदाहरणम्। यदा तु प्रथमत एवोपदेशस्तदा प्रत्युदाहरणम्। अनुवादे इति किम्? उदगुः कठकालापाः। प्रत्यष्ठुः कठकौथुमाः।। * स्थेणोरद्यतन्यां चेति वक्तव्यम् *। स्थेणोरिति किम् ? अनन्दिषुः कठकालापाः। अद्यतन्यामिति किम्? उद्यन्ति कठकालापाः।।
</2-4-3>
<K.2.244>
अध्वर्युक्रतुरनपुंसकम् ।। <2-4-4> ।।
        अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्व एकद्भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्व इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। <K.2.245> अध्वर्युक्रतुरिति किम्? इषुवज्रौ। उद्भिद्वलभिदौ। अनपुंसकमिति किम्? राजसूयवाजपेये। इह कस्मान्न भवति - दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः।।
</2-4-4>
अध्ययनतोऽविप्रकृष्टाख्यानाम् ।। <2-4-5> ।।
       अध्ययनेन निमित्तेन येषामविप्रकृष्टा = प्रत्यासन्ना आख्या तेषां <K.2.246> द्वन्द्व एकवद्भवति। पदकक्रमकम्। क्रमकवार्तिकम्। सम्पाठः = पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनत इति किम्? पितापुत्रौ। अविप्रकृष्टाख्यानामिति किम्? याज्ञिकवैयाकरणौ।।
</2-4-5>
जातिरप्राणिनाम् ।। <2-4-6> ।।
<K.2.247>
       जातिवाचिनां शब्दानां द्वन्द्व एकवद्भवति, प्राणिनो वर्जयित्वा। आराशस्त्रि। धानाशष्कुलि। जातिरिति किम्? नन्दकपाञ्चजन्यौ। अप्राणिनामिति किम् ? ब्राह्मणक्षत्रियविट्शूद्राः। `नञिवयुक्तन्यायेन द्रव्यजातीना- मयमेकवद्भावः, न गुणक्रियाजातीनाम्। रूपरसगन्धस्पर्शाः। गमनाकुञ्चनप्रसारणानि। जातिपरत्वे च जातिशब्दानामयमेकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् -- इह कुण्डे बदरामलकानि तिष्ठन्तीति।।
</2-4-6>
<K.2.248>
विशिष्टलिङ्गो नदी देशोऽग्रामाः ।। <2-4-7> ।।
        विशिष्टलिङ्गानाम् = भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवाचिनां च ग्रामवर्जितानां द्वन्द्व एकवद्भवति। नद्यवयवो द्वन्द्वो नदीत्युच्यते। देशावयवश्च देशः। नदी देश इत्यसमासनिर्देश एवायम्। उद्ध्यश्च इरावती च उद्ध्येरावति। गङ्गाशोणम्। देशः खल्वपि कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम्। कुरुकुरुजाङ्गलम्। <K.2.249> विशिष्टलिङ्ग इति किम्? गङ्गायमुने। मद्रकेकयाः। नदी देश इति किम् ? कुक्कुटमयूर्यौ। अग्रामा इति किम् ? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ। नदीग्रहणमदेशत्वात्। जनपदो हि देशः, तथा च पर्वतानां ग्रहणं न भवति - कैलासश्च गन्धमादनं च कैलासगन्धमादने। * अग्रामा इत्यत्र नगराणां प्रतिषेधो वक्तव्यः *। इह मा भूत् -- मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम्। <K.2.250> * उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः *। सौर्यं च नगरम्, केतवतं च ग्रामः = सौर्यकेतवते।।
</2-4-7>
क्षुद्रजन्तवः ।। <2-4-8> ।।
        अपचितपरिमाणः क्षुद्रः। क्षुद्रजन्तुवाचिनां द्वन्द्व एकवद्भवति। दंशमशकम्। यूकालिक्षम्। क्षुद्रजन्तव इति किम् ? ब्राह्मणक्षत्रियौ।।
             क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः।
             शतं वा प्रसृतौ येषां केचिदानकुलादपि।।
<K.2.251>
`आनकुलादपि इतीयमेव स्मृतिः प्रमाणम्; इतरासां तद्विरोधात्।।
</2-4-8>
येषां च विरोधः शाश्वतिकः ।। <2-4-9> ।।
<K.2.252>
        विरोधः = वैरम्। शाश्वतिकः = नित्यः। येषां शाश्वतिको विरोधस्तद्वाचिनां शब्दानां द्वन्द्व एकवद्भवति। मार्जारमूषकम्। अहिनकुलम्। शाश्वतिक इति किम् ? गौपालिशालङ्कायनाः कलहायन्ते। चकारः पुनरस्यैव समुच्चयार्थः। तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति - अश्वमहिषम्, श्वशृगालम्, काकोलूकम्।।
</2-4-9>
शूद्राणामनिरवसितानाम् ।। <2-4-10> ।।
<K.2.253>
        निरवसानम् = बहिष्करणम्। कुतो बहिष्करणम् ? पात्रात्। यैर्भुक्ते पात्रं संस्कारेणापि न शुध्यति ते निरवसिताः, न निरवसिताः अनिरवसिताः। अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद्भवति। तक्षायस्कारम्। रजकतन्तुवायम्। अनिरवसितानामिति किम्? चण्डालमृतपाः।।
</2-4-10>
गवाश्वप्रभृतीनि च ।। <2-4-11> ।।
गवाश्वप्रभृतीनि कृतैकवद्भावानि द्वन्द्वरूपाणि साधूनि भवन्ति। गवाश्वम्, गवाविकम्,गवैडकम्, अजाविकम्,
अजैडकम्। कुब्जवामनम्, कुब्जकैरातकम्, पुत्रपौत्रम्, श्वचण्डालम्। स्त्रीकुमारम्, दासीमाणवकम्। शाटीपिच्छकम्। उष्ट्रखरम्, उष्ट्रशशम्। मूत्रशकृत्, <K.2.254> मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्। दर्भशरम्, दर्भपूतीकम्, अर्जुनशिरीषम्, तृणोलपम्। दासीदासम्, कुटीकुटम्, भागवतीभागवतम्। गवाश्वप्रभृतिषु यथोच्चरितं द्वन्द्ववृत्तम्। रूपान्तरे तु नायं विधिर्भवति - गोऽश्वम्, गोऽश्वौ। पशुद्वन्द्वविभाषैव भवति।।
</2-4-11>
विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ।। <2-4-12>।।
<K.2.255>
       वृक्ष, मृग, तृण, धान्य, व्यञ्जन, पशु, शकुनि, अश्ववडव, पूर्वापर, अधरोत्तर - इत्येतेषां द्वन्द्वो विभाषैकवद्भवति। प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। रुरुपृषतम्, रुरुपृषताः। कुशकाशम्, कुशकाशाः। व्रीहियवम्, व्रीहियवाः। दधिघृतम्, दधिघृते। गोमहिषम्, गोमहिषाः। तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः। अश्ववडवम्, अश्ववडवौ। पूर्वापरम्, पूर्वापरे। अधरोत्तरम्, अधरोत्तरे। <K.2.257> * बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यकतृणानाम् *। एषां बहुप्रकृतिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः। बदरामलके। रथिकाश्वारोहौ। प्लक्षन्यग्रोधौ। रुरुपृषतौ। हंसचक्रवाकौ। यूकालिक्षे। व्रीहियवौ। कुशकाशौ।।
</2-4-12>
विप्रतिषिध्दं चानधिकरणवाचि ।। <2-4-13> ।।
        परस्परविरुध्दम् = ?Bविप्रतिषिध्दम्। विप्रतिषिध्दार्थानां <K.2.258> शब्दानामनधिकरणवाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति। विभाषानुकर्षणार्थश्चकारः। शीतोष्णम्, शीतोष्णे। सुखदुःखम्, सुखदुःखे। जीवितमरणम्, जीवितमरणे। विप्रतिषिद्धमिति किम् ? कामक्रोधौ। अनधिकरणवाचीति किम् ? शीतोष्णे उदके।।
</2-4-13>
न दधिपयआदीनि ।। <2-4-14> ।।
        यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते। दधिपयआदीनि शब्दरूपाणि नैकवद्भवन्ति। दधिपयसी। सर्पिर्मधुनी। मधुसर्पिषी। <K.2.259> ब्रह्मप्रजापती। शिववैश्रवणौ। स्कन्दविशाखौ। परिव्राट्कौशिकौ। प्रवर्ग्योपसदौ। शुक्लकृष्णौ। इध्माबर्हिषी। निपातनाद्दीर्घः। दीक्षातपसी। श्रध्दातपसी। मेधातपसी। अध्ययनतपसी। उलूखलमुसले। आद्यावसाने। श्रद्धामेधे। ऋक्सामे। वाङ्मनसे।।
</2-4-14>
अधिकरणैतावत्त्वे च ।। <2-4-15> ।।
       `न इति वर्त्तते। अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः, तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद्भवति। यथायथमेकवद्भावः प्राप्तः प्रतिषिध्यते। दश दन्तोष्ठाः। दश मार्दङ्गिकपाणविकाः।।
</2-4-15>
<K.2.260>
विभाषा समीपे ।। <2-4-16> ।।
        अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद्भवति। उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः। उपदशं मार्दङ्गिकपाणविकम्, उपदशाः मार्दङ्गिकपाणविकाः। <K.2.261> अव्ययस्य सङ्ख्ययाऽव्ययीभावोऽपि विहितः, बहुव्रीहिरपि। तत्रैकवद्‌भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः।।
</2-4-16>
स नपुंसकम् ।। <2-4-17> ।।
<K.2.262>
        यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि -- पाणिपादम्। शिरोग्रीवम्। परलिङ्गतापवादो योगः। * अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते*।
पञ्चपूली। दशरथी। * वाऽऽबन्तः स्त्रियामिष्टः *। पञ्चखट्वम्, पञ्चखट्वी। * अनो नलोपश्च वा च द्विगुः स्त्रियाम् *। पञ्चतक्षम्, पञ्चतक्षी। <K.2.263> * पात्रादिभ्यः प्रतिषेधो वक्तव्यः *। पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्।।
</2-4-17>
अव्ययीभावश्च ।। <2-4-18> ।।
        अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति। अधिस्त्रि। उपकुमारि। उन्मत्तगङ्गम्। लोहितगङ्गम्। पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, अन्यपदार्थप्रधानस्याभिधेयलिङ्गता,अत इदमुच्यते। अनुक्तसमुच्चयार्थश्चकारः। * पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते *। पुण्याहम्। सुदिनाहम्। * पथः संख्याव्ययादेः क्लीबतेष्यते *। त्रिपथम्। चतुष्यथम्। विपथम्। सुपथम्। <K.2.264> क्रियाविशेषणानां च क्लीबतेष्यते *। मुदु पचति। शोभनं पचति।।
</2-4-18>
तत्पुरुषोऽनञ्कर्मधारयः ।। <2-4-19> ।।
        अधिकारोऽयमुत्तरसूत्रेषूपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वाऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति - विभाषा सेनासुरा इति। ब्राह्मणसेनम्। ब्राह्मणसेना। तत्पुरुष इति किम् ? दृढसेनः राजा। अनञिति किम्? असेना। अकर्मधारय इति किम्? परमसेना।।
</2-4-19>
<K.2.265>
संज्ञायां कन्थोशीनरेषु ।। <2-4-20> ।।
        संज्ञायां विषये कन्थान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् कन्था उशीनरेषु भवति। सौशमिकन्थम्। आह्वरकन्थम्।। संज्ञायामिति किम् ? वीरणकन्था। उशीनरेष्विति किम् ? दाक्षिकन्था। परवल्लिङ्गतापवाद इदं प्रकरणम्।।
</2-4-20>
उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ।। <2-4-21> ।।
        उपज्ञायते इत्युपज्ञा, उपक्रम्यते इत्युपक्रमः। उपज्ञा च उपक्रमश्च उपज्ञोपक्रमम्। तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम् = तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम्। <K.2.266> आख्यातुमिच्छा = आचिख्यासा, यद्युपज्ञेयस्योपक्रम्यस्य चार्थस्यादिराख्यातुमिष्यते तत एतद्भवति। पाणिन्युपज्ञम् अकालकं व्याकरणम्। पाणिनेरुपज्ञानेन प्रथमतः प्रणीतमकालकं व्याकरणम्। व्याड्युपज्ञं दशहुष्करणम्। आद्योपक्रमं प्रासादः। नन्दोपक्रमाणि मानानि। दर्शनीयोपक्रमं सुकुमारम्। उपज्ञोपक्रममिति किम् ? वाल्मीकिश्लोकाः। तदाद्याचिख्यासायामिति किम् ? देवदत्तोपज्ञः रथः। यज्ञदत्तोपक्रमः रथः।।
</2-4-21>
छाया बाहुल्ये ।। <2-4-22> ।।
<K.2.267>
        विभषा सेनासुराच्छाया इति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्। छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मः = बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बाहुल्य इति किम् ? कुड्यच्छाया।।
</2-4-22>
सभा राजाऽमनुष्यपूर्वा ।। <2-4-23> ।।
       सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति सा चेत्सभा?राजपूर्वा, अमनुष्यपूर्वा च भवति। इनसभम्। ईश्वरसभम्। इह कस्मान्न भवति -- राजसभा ? पर्यायवचनस्यैवेष्येते। तदुक्तम् -- `जितपर्यायस्यैव राजाद्यर्थम्
इति। अमनुष्यपूर्वा -- रक्षःसभम्। पिशाचसभम्। <K.2.268> इह कस्मान्न भवति -- काष्ठसभा ? अमनुष्यशब्दो रूढिरूपेण रक्षःपिशाचादिष्वेव वर्त्तते। राजाऽमनुष्यपूर्वेति किम् ? देवदत्तसभा।।
</2-4-23>
अशाला च ।। <2-4-24> ।।
</2-4-24>
         अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति। सङ्घातवचनोऽत्र सभाश्ब्दो गृह्यते। स्त्रीसभम्। दासीसभम्। दासीसङ्घात इत्यर्थः। <K.2.269> अशालेति किम् ? अनाथसभा। अनाथकुटीत्यर्थः।। <विभाषा सेनासुराच्छायाशालानिशानाम् ।। <2-4-25> ।।
          सेना, सुरा, छाया, शाला, निशा - इत्येवमन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा। ब्राह्मणसेनम्, ब्राह्मणसेना। यवसुरम्, यवसुरा। कुड्यच्छायम्, कुड्यच्छाया। गोशालम्, गोशाला। श्वनिशम्, श्वनिशा।।
</2-4-25>
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।। <2-4-26> ।।
         समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वाद् इतरेतरयोगद्वन्द्वस्येदं ग्रहणम्। परस्य यल्लिङ्गं तद्भवति द्वन्द्वस्य तत्पुरुषस्य च । <K.2.271> उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते। कुक्कुटमयूर्यौ इमे, मयूरीकुक्कुटौ इमौ। तत्पुरुषस्य - अर्धं पिप्पल्याः अर्धपिप्पली। अर्धकोशातकी। अर्धनखरञ्जनी। <K.2.272> * द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः *। द्विगुः - पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकाम् आपन्नजीविकः। अलं जीविकायै अलञ्जीविकः। गतिसमासः - निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः।।
</2-4-26>
<K.2.273>
पूर्ववदश्ववडवौ ।। <2-4-27> ।।
         अश्ववडवयोर्विभाषैकवद्भाव उक्तः, तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा च अश्ववडवौ। अर्थातिदेशश्चायम्, न निपातनम्। तत्र द्विवचनमतन्त्रम्। वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति - अश्ववडवान्, अश्ववडवैः इति।।
</2-4-27>
हेमन्तशिशिरावहोरात्रे च च्छन्दसि ।। <2-4-28> ।।
</2-4-28>
        `पूर्ववत् इति वर्तते। हेमन्तशिशिरौ, अहोरात्रे-इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि(तै.सं.<1-6-2>.3)। अहोरात्रे इदं ब्रूमः(अ.वे.116.5)। परवल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायं न निपातनम्, तेन द्विवचनमतन्त्रम्। वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः, अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः(तै.ब्रा.<3-11-4>.1)। छन्दसीति किम् ? दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तः, तस्यैवायं प्रपञ्चः।।
</1-6-2>
रात्राह्नाहाः पुंसि ।। <2-4-29> ।।
</2-4-29>
          कृतसमासान्तानां निर्देशः। रात्र, अह्न, अह -- इत्येते पुंसि भाष्यन्ते। परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। <K.2.275> द्विरात्रः। त्रिरात्रः। चतूरात्रः। पूर्वाह्णः। अपराह्णः। मध्याह्नः। द्व्यहः। त्र्यहः। * अनुवाकादयः पुंसीति वक्तव्यम् *। अनुवाकः। शंयुवाकः । सूक्तवाकः।।
</2-4-29>
अपथं नपुंसकम् ।। <2-4-30> ।।
अपथशब्दो नपुंसकलिङ्गो भवति। अपथम् इदम्। अपथानि गाहते मूढः। <K.2.276> इह कस्मान्न भवति -- अपथः देशः, अपथा नगरी ? तत्पुरुष इति वर्त्तते।।
</2-4-30>
अर्धर्चाः पुंसि च ।। <2-4-31> ।।
</2-4-31>
        अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते। अर्धर्चः, अर्धर्चम्। गोमयः, गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता क्वचिदर्थभेदेनापि व्यवतिष्ठते, यथा - पद्मशङ्खशब्दौ निधिवचनौ पुंल्लिङ्गौ, जलजे उभयलिङ्गौ। भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दो लवणे उभयलिङ्गः, यौगिकस्याभिधेयवल्लिङ्गम्। सारश्ब्द <K.2.277> उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकम् - नैतत्सारमिति। धर्म इत्यपूर्वे पुंल्लिङ्गः, तत्साधने नपुंसकम् - `तानि धर्माणि प्रथमान्यासन्। अर्धर्च। गोमय। कषाय। कार्षापण। कुतप। कपाट। शङ्ख। चक्र। गूथ। यूथ। ध्वज। कबन्ध। पद्म। गृह। सरक। कंस। दिवस। यूष। अन्धकार। दण्ड। कमण्डलु। मण्ड। भूत। द्वीप। द्यूत। चक्र। धर्म। कर्मन्। मोदक। शतमान। यान। नख। नखर। चरण। पुच्छ। दाडिम। हिम। रजत। सक्तु। पिधान। सार। पात्र। घृत। सैन्धव। औषध। आढक। चषक। द्रोण। खलीन। पात्रीव। षष्टिक। वार। बाण। प्रोथ। कपित्थ। शुष्क। शील। शुल्ब। सीधु। कवच। रेणु। कपट। सीकर। मुसल। सुवर्ण। यूप। चमस। वर्ण। क्षीर। कर्ष। आकाश। अष्टापद। मङ्गल। निधन। निर्यास। जृम्भ। वृत्त। पुस्त। क्ष्वेडित। शृङ्ग। शृङ्खल। मधु। मूल। मूलक। शराव। शाल। वप्र। विमान। <K.2.278> मुख। प्रग्रीव। शूल। वज्र। कर्पट। शिखर। कल्क। नाट। मस्तक। वलय। कुसुम। तृण। पङ्क। कुण्डल। किरीट। अर्बुद। अङ्कुश। तिमिर। आश्रम। भूषण। इल्कस। मुकुल। वसन्त। तडाग। पिटक। विटङ्क। माष। कोश। फलक। दिन। दैवत। पिनाक। समर। स्थाणु। अनीक। उपवास। शाक। कर्पास। चषाल। खण्ड। दर। विटप। रण। बल। मल। मृणाल। हस्त। सूत्र। ताण्डव। गाण्डीव। मण्डप। पटह। सौध। पार्श्व। शरीर। फल। छल। पुर। राष्ट्र। विश्व। अम्बर। कुट्टिम। मण्डल। ककुद। तोमर। तोरण। मञ्चक। पुङ्ख। मध्य। बाल। वल्मीक। वर्ष। वस्त्र। देह। उद्यान। उद्योग। स्नेह। स्वर। सङ्गम। निष्क। क्षेम। शूक। छत्त्र। पवित्र। यौवन। पानक। मूषिक। वल्कल। कुञ्ज। विहार। लोहित। विषाण। भवन। अरण्य। पुलिन। दृढ। आसन। ऐरावत। शूर्प। तीर्थ। लोमश। तमाल। लोह। दण्डक। शपथ। प्रतिसर। दारु। धनुष्। मान। तङ्क। वितङ्क। मव। सहस्र। ओदन। प्रवाल। शकट। अपराह्ण। नीड। शकल। इति अर्धर्चादिः।।
</2-4-31>
इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।। <2-4-32> ।।
         आदेशः = कथनम्, अन्वादेशः = अनुकथनम्। इदमोऽन्वादेशविषयस्याशादेशो भवत्यनुदात्तस्तृतीयादौ विभक्तौ परतः। आभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। अस्मै छात्राय कम्बलं देहि, अथो अस्मै शाटकमपि देहि। अस्य छात्रस्य शोभनं शीलम्, अथो अस्य प्रभूतं स्वम्। अशादेशवचनं साकच्कार्थम्। इमकाभ्यां छात्त्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम्। नेह पश्चादुच्चारणमात्रमन्वादेशः, किं तर्हि ? एकस्यैवाभिधेयस्य पूर्वशब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः। तेनेह न भवति- देवदत्तं भोजय, इमं च यज्ञदत्तमिति।।
</2-4-32>
एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ।। <2-4-33> ।।
        `अन्वदेशे`अनुदात्तः इति वर्तते। एतदोऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तस्त्रतसोः परतः। तौ चापि त्रतसावनुदात्तौ भवतः। एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे। एतस्माच्छात्राच्छन्दोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व। सर्वानुदात्तं पदं भवति। `एतदोऽश् इत्यशादेशे लब्धे पुनर्वचनमनुदात्तार्थम्।
</2-4-33>
द्वतीयाटौस्स्वेनः ।। <2-4-34> ।।
        `अन्वादेशे, `अनुदात्तः इति वर्त्तते। द्वितीया, टा, ओस् इत्येतेषु परत इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवति अनुदात्तः। इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः। इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो अनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि-एतं-छात्रं छन्दो।?ध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्।* एनदिति नपुंसकैकवचने वक्तव्यम् *(म.भा.1.482)। प्रक्षालयैनत्। परिवर्त्तयैनत्। इह कस्मान्न भवति--अयं दण्डो हरानेन, एतमातं ङितं विद्यादिति ? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वा एकमेव विधानम्।।
</2-4-34>
आर्धधातुके ।। <2-4-35> ।।
         आर्धधातुके इत्यधिकारोऽयम्, ण्यक्षत्त्रियार्षञितः(2-4-58/1276) इति यावत्। यदित ऊर्ध्वमनुक्रमिष्यामस्तदार्धधातुके वेदितव्यम्। वक्ष्यति हनो वध लिङि(2-4-42/2433), वध्यात्। आर्धधातुक इति किम् ? हन्यात्। विषयसप्तमी चेयं न परसप्तमी। तेनार्धधातुकविवक्षायामादेशेषु कृतेषु पश्चाद्यथाप्राप्तं प्रत्यया भवन्ति--भव्यम्, प्रवेयम्, आख्येयम्।।
</2-4-35>
अदो जग्धिर्ल्यप्ति किति ।। <2-4-36> ।।
         अदो जग्धिरादेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये। प्रजग्ध्य। विजग्ध्य। जग्धः। जग्धवान्। इकार उच्चारणार्थः, नानुबन्धः, तेन नुम्न भवति। एवं वच्यादीनामपि। इह कस्मान्न भवति-अन्नम् ? अन्नाण्णः(4-4-85/1637) इति निपातनात्।
          `जग्धौ सिद्धेऽन्तरङ्गत्वागत्ति कितीति ल्यबुच्यते।
           ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्।।(म.भा.1.484)
तीति किम् ? अद्यते। कितीति किम् ? अत्तव्यम्।।
</2-4-36>
लुङ्सनोर्घस्लृ।। <2-4-37> ।।
लुङि सनि च परतोऽदो घस्लृ आदेशो भवति। लृदित्करणमङर्थम्। लुङि-अघसत्। अघसताम्। अघसन्। सनि-जिघत्सति। जिघत्सतः। जिघत्सन्ति। * घस्लृभावेऽच्युपसंख्यानम् *(म.भा.1.484) प्रात्तीति प्रघसः।।
</2-4-37>
घञपोश्च ।। <2-4-38> ।।
          घञि अपि च परतोऽदो घस्लृ आदेशो भवति। घासः। प्रघसः। उपसर्गेऽदः(3-3-59/3235) इत्यप्।।
</2-4-38>
बहुलं छन्दसि ।। <2-4-39> ।।
         छन्दसि विषये बहुलमदो घस्लृ आदेशो भवति। घस्तां नूनम्(वा.सं.21.43)। सग्धिश्च मे(वा.सं.18.9)। न च भवति-- आत्तामद्य मध्यतो मेद उद्भृतम्(वा.सं.21.43)। अन्यतरस्याङ्ग्रहणमेव कस्मान्न क्रियते, तदेवोत्तरार्थमपि भविष्यति ? कार्यान्तरार्थं बहुलग्रहणम्। घस्तामित्यत्रोपधालोपो न भवति।।
</2-4-39>
लिट्यन्यतरस्याम् ।। <2-4-40> ।।
        लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति। जघास, जक्षतुः,जक्षुः। आद, आदतु, आदुः।।
</2-4-40>
वेञो वयिः ।। <2-4-41> ।।
        `लिट्यन्यतरस्याम् इति वर्त्तते। वेञो वयिरादेशो भवति अन्यतरस्यां लिटि परतः। इकार उञ्चारणार्थः। उवाय, ऊयतु। ऊयुः। पक्षे-ऊवतुः, ऊवुः। लिटि वयो यः(6-1-38/2413) इति यकारस्य सम्प्रसारणं प्रतिषिध्यते। वश्चास्यान्यतरस्यां किति(6-1-39/2414) इति वकारो विधीयते। ववौ, ववतुः, ववुः। वेञः(6-1-40/2415) इति सम्प्रसारणं न भवति।।
</2-4-41>
हनो वध लिङि ।। <2-4-42> ।।
         हन्तेर्धातोर्वध इत्ययमादेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्चायमादेशः, तत्राकारस्य लोपो भवति। तस्य स्थानिवद्भावात् अवधीदिति हलन्तलक्षणा वृद्धिर्न भवति।।
</2-4-42>
लुङि च ।। <2-4-43> ।।
        लुङि च परतः हनो वध इत्ययमादेशो भवति। अवधीत्, अवधिष्टाम्, अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत्।।
</2-4-43>
आत्मनेपदेष्वन्यतरस्याम् ।। <2-4-44> ।।
        पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट। आवधिषाताम्। आवधिषत। न च भवति-- आहत। आहसाताम्। आहसत।।
</2-4-44>
इणो गा लुङि ।। <2-4-45> ।।
        इणः `गा इत्ययमादेशो भवति लुङि परतः। अगात्, अगाताम्, अगु। `लुङि इति वर्त्तमाने पुनर्लुङ्ग्रहणम् आत्मनेपदेष्वन्यतरस्याम्(2-4-44/2696) इत्येतन्मा भूत्। इह त्वविशेषेण नित्यं च भवति। अगात्। अगायि भवता। * इण्वदिक इति वक्तव्तम् *(म.भा.1.485)। अध्यगात्। अध्यगाताम्। अध्यगुः।।
</2-4-45>
णौ गमिरबोधने ।। <2-4-46> ।।
        णौ परत इणोऽबोधनार्थस्य गमिरादेशो भवति। इकार उच्चारणार्थः। गमयति, गमयतः, गमयन्ति। अबोधने इति किम् ? प्रत्याययति। इण्वदिक इत्येव-- अधिगमयति।।
</2-4-46>
सनि च ।। <2-4-47>।।
        सनि परत इणोऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधन इत्येव- अर्थान्प्रतीषिषति। इण्वदिक इत्येव- अधिजिगमिषति। योगविभाग उत्तरार्थः- इङश्च(2-4-48/2616) इति सन्येव यथा स्यात्।।
</2-4-47>
इङश्च ।। <2-4-48> ।।
        इङश्च सनि परतो गमिरादेशो भवति। अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते।।
</2-4-48>
गाङ् लिटि ।। <2-4-49> ।।
        गाङादेशो भवतीङो लिटि परतः। अधिजगे, अधिजगाते, अधिजगिरे। गाङोऽनुबन्धकरणं विशेषणार्थम्, गाङ्कुटादिभ्यः(1-2-1/2461) इत्यत्रास्य ग्रहणं यथा स्यात्। न हि स्थानिवद्भावेन `गाङ् इति रूपं लभ्यते।।
</2-4-49>
विभाषा लुङ्लृङोः ।। <2-4-50> ।।
         लुङि लृङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे गाङ्‌कुटादिभ्यः(1-2-1/2461) इति ङित्वम्, घुमास्थागापाजहातिसां हलि(6-4-66/2462) इतीत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति अध्यैष्ट, अध्यैषाताम्, अध्यैषत। लृङि खल्वपि--अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति-अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त।।
</2-4-50>
णौ च संश्चङोः ।। <2-4-51> ।।
        `इङो गाङ् विभाषा इति वर्त्तते। `णौ इतीङपेक्षया परसप्तमी, `संश्चङोः इति च ण्यपेक्षया। णौ सन्परे चङ्परे च परत इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति- अध्यापिपयिषति। चङि खल्वपि-- अध्यजीगपत्, अध्यापिपत्।।
</2-4-51>
अस्तेर्भूः ।। <2-4-52> ।।
        अस्तेर्धातोर्भू इत्ययमादेशो भवति आर्धधातुके। भविता। भवितम्। भवितव्यम्। इह कस्मान्न भवति-ईहामास, ईहामासतुः, ईहामासुः ? कृञ्चानुप्रयुज्यते लिटि(3-1-40/2239) इति प्रत्याहारग्रहणेनास्तेर्ग्रहणसामर्थ्यत्। तथा चोच्यते- `अनुप्रयोगे तु भुवाऽस्त्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः।। इति।
</2-4-52>
ब्रुवो वचिः ।। <2-4-53> ।।
        ब्रुवो वचिरादेशो भवति आर्धधातुकविषये। इकार उच्चारणार्थः। वक्ता। वक्तुम्। वक्तव्यम्। स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति। ऊचे। वक्ष्यति।।
</2-4-53>
चक्षिङः ख्याञ् ।। <2-4-54> ।।
        चक्षिङः ख्याञादेशो भवत्यार्धधातुके। आख्याता। आख्यातुम्। आख्यातव्तम्। स्थानिवद्भावेन नित्यमात्मनेपदं न भवति; ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते। * क्शादिरप्ययमादेश इष्यते *। आक्शाता। आक्शातुम्। आक्शातव्यम्। * वर्जने प्रतिषेधो वक्तव्याः *(म.भा.1.487)। दुर्जनाः संचक्ष्याः। वर्जनीया इत्यर्थः। * असनयोश्च प्रतिषेधो वक्तव्यः *(म.भा.1.487) नृचक्षा राक्षसाः। हिंसार्थोऽत्र धातुः। अने खल्वपि-विचक्षणः पण्डितः। * बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यम् *(म.भा.1.488)।* अन्नवधकगात्रविचक्षणाजिराद्यर्थम्*(म.भा.1.488)।।
</2-4-54>
वा लिटि ।। <2-4-55> ।।
          पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। लिटि परतश्चक्षिङः ख्याञादेशो वा भवति। आचख्यौ, आचख्यतुः, आचख्युः। न च भवति-आचचक्षे, आचचक्षाते, आचचक्षिरे।
</2-4-55>
अजेर्व्यघञपोः ।। <2-4-56> ।।
         अजेर्धातेः `वी इत्ययमादेशो भवत्यार्धधात्के परतो घञपौ वर्जयित्वा। प्रवयणीयः। प्रवायकः। अघञपोरिति किम् ? समाजः। उदाजः। अपि तु-समजः। उदजः। समुदोरजःपशुषु(3-3-69/3246) इत्यप्। दीर्घोच्चारणं किम् ? प्रवीताः।। * घञपोः प्रतिषेधे क्यप उपसङ्ख्यानं कर्तव्यम् *(म.भा.1.488)। समज्या।। * वलादावार्धधातुके विकल्प इष्यते *(म.भा.1.488)। प्रवेता, प्राजिता। प्रवेतुम्, प्राजितुम्।।
</2-4-56>
वायौ ।। <2-4-57> ।।
          पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। `यु इति ल्युटो ग्रहणम्। यौ परभूते अजेर्वा `वी इत्ययमादेशो भवति। प्रवयणो दण्डः, प्राजनो दण्डः। प्रवयणमानय, प्राजनमानय।।
</2-4-57>
ण्यक्षित्त्रियार्षञितो यूनि लुगणिञोः ।। <2-4-58> ।।
          ण्यादयो गोत्रप्रत्ययाः। ण्यन्तात् क्षत्त्रियगोत्राद् आर्षाद् ञितश्च परयोरणिञोर्यूनि लुग्भवति। ण्यन्तात्तावत्--कुर्वादिभ्यो ण्यः(4-1-151/1175), तस्माद्यूनि इञ्, तस्य लुक्। कौरव्यः पिता। कौरव्यः पुत्रः। ननु च कौरव्यशब्दस्तिकादिषु पठ्यते, ततः फिञा भवितव्यम्-कौरव्यायणिरिति ? क्षत्त्रियगोत्रस्य तत्र ग्रहणम्, कुरुनादिभ्यो ण्यः(4-1-1172/1190) इत्यनेन विहितस्य; इदं तु ब्राह्मणगोत्रम्, कुर्वादिदभ्यो ण्यः(4-1-151/1175) इति ण्यः। क्षत्त्रिय-ऋष्यन्धकवृष्णिकुरुभ्यश्च(4-1-114/1117) इत्यण्, तस्माद्यूनि इञ्, तस्य लुक्। श्वाफल्कः पिता। श्वाफल्कः पुत्रः। आर्ष-ऋष्यम्, तस्माद्यूनि इञ्, तस्य लुक्। वासिष्ठः पिता। वासिष्ठः पुत्रः। ञित्--अनृष्यानन्तर्ये बिदादिभ्योऽञ्(4-1-104/1190), तस्माद्यूनि इञ्, तस्य लुक्। बैदः पिता। बैदः पुत्रः। अणः खल्वपि--तिकादिभ्यः फिञ्(4-1-154/1178), तस्माद्यूनि प्राग्दीव्यतोऽण्(4-1-83/1073) तस्य लुक्। तैकायनिः पिता। तैकायनिः पुत्रः। एतेभ्यः पुत्रः। एतेभ्य इति किम् ? शिवादिभ्योऽण्(4-1-112/1115) तस्माद् यूनि अत इञ्(4-1-95/1095), तस्य न लुग्भवति। कौह॰ः पिता। कौहडिः पुत्रः। यूनीति किम् ? वामरथ्यस्य छात्राः वामरथाः। कुर्वादिभ्यो ण्यः(4-1-151/1175) इति ण्यः, तस्मात् कण्वादिभ्यो गोत्रे(4-2-111/1332) इति शैषिकोऽण्, तस्य लुग्न भवति। अणिञोरिति किम् ? दाक्षेरपत्यं युवा दाक्षायणः। * अब्राह्मणगोत्राद्युवप्रत्ययस्योपसंख्यानम् *(म.भा.1.489)। बौधिः पिता। बौधिः पुत्रः। जाबालिः पिता। जाबालिः पुत्रः। औदुम्बरिः पिता। औदुम्बरिः पुत्रः। भाण्डीजङ्घिः पिता। भाण्डीजङ्घिः पुत्रः। साल्वावयवलक्षण इञ्, तस्मात्फक्, तस्य लुक्। पैलादिदर्शनात् सिद्धम्।।
</2-4-58>
पैलादिभ्यश्च ।। <2-4-59> ।।
`फैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग्भवति। पीलाया वा(4-1-118/1121) इत्यण्। तस्माद् अणो द्व्यचः(4-1-156/1180) इति फिञ्, तस्य लुक्। पैलः पिता। पैलः पुत्रः। अन्ये पैलादय इञन्ताः, तेभ्यः इञः प्रचाम् इति लुकि सिध्देऽप्रागर्थः पाठः। पैल। शालङ्कि। सात्यकि। सात्यकामि। दैवि। औदमज्जि। औदव्रजि। औदमेघि। औदबुद्धि। दैवस्थानि। पैङ्गलायनि। राणायनि। रौहक्षति। भौलिङ्गि। औद्गाहमानि। औज्जिहानि।। तद्राजाच्चाणः(ग.सू.21)। आकृतिगणोऽयम्।।
</2-4-59>
इञः प्राचाम् ।। <2-4-60> ।।
गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुग्भवति। गोत्रविशेषणं प्राग्ग्रहणम्, न विकल्पार्थम्। पान्नागारेरपत्यं युवा। यञिञोश्च(4-1-101/1103) इति फक्, तस्य लुक्। पान्नागारिः पिता। पान्नागारिः पुत्रः। मान्थरैषणिः पिता। मान्थरैषणिः पुत्रः। प्राचामिति किम् ? दाक्षिः पिता। दाक्षायणः पुत्रः।।
</2-4-60>
न तौल्वलिभ्यः ।। <2-4-61> ।।
          अनन्तरेण प्राप्तौ लुक् प्रतिषिध्यते। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग्भवति। तौल्वलिः पिता। तौल्वलायनः पुत्रः। तौल्वलि। धारणि। रावणि। पारणि। दैलीपि। दैवलि। दैवमति। दैवयज्ञि। प्रावाहणि। मान्धातकि। आनुहारति। श्वाफल्कि। आनुमति। आहिंसि। आसुरि। आयुधि। नैमिषि। आसिबन्धकि। बैकि। आन्तरहाति। पौष्करसादि। वैरकि। वैलकि। वैहति। वैकर्णि। कारेणुपालि। कामालि।।
</2-4-61>
तद्राजस्य बहुषु तेनैवास्त्रियाम् ।। <2-4-62> ।।
ते तद्राजाः(4-1-172/1192) ञ्यादयस्तद्राजाः(5-3-119/2072) इति वक्ष्यति, तस्य तद्राजसंज्ञस्य प्रत्ययस्य बहुषु वर्त्तमानस्यास्त्रीलिङ्गस्य लुग्भवति, तेनैव चेत्तद्राजेन कृतं बहुत्वं भवति। अङ्गाः। वङ्गाः। पुण्डाः। सुह्माः। मगधाः। लोहध्वजाः। व्रीहिमन्तः। तद्राजस्येति किम् ? औपगवाः। बहुष्विति किम् ? आङ्गः। `तेनैव ग्रहणं किम् ? प्रियो वाङ्गो येषां त इमे प्रियवाङ्गाः। अस्त्रियामिति किम् ? आङ्ग्यः स्त्रियः।।
</2-4-62>
यस्कादिभ्यो गोत्रे ।। <2-4-63> ।।
       `बहुषु तेनैवास्त्रियाम् इति सर्वमनुवर्तते। `यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्त्तमानस्यास्त्रीलिङ्गस्य लुग्भवति, तेनैव चेद् गोत्रप्रत्ययेन कृतं बहुत्वं भवति। प्रत्ययविधेश्चान्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग्भवत्येव-यस्काः। लभ्याः। बहुष्वित्येव-यास्कः। तेनैवेत्येव--प्रिययास्काः। अस्त्रियामित्येव-यास्क्यः स्त्रियः। गोत्रे इति किम् ? यास्काश्छात्राः। यस्क। लभ्य। दुह्य। अयःस्थूण। तृणकर्ण। एते पञ्च शिवादिषु पठ्यन्ते। ततः परेभ्यः षड्भ्य इञ्। सदामत्त। कम्बलभार। बहिर्योग। कर्णाटक। पिण्डीजङ्घ। बकसक्थ। ततः परेभ्यश्चतुर्भ्यः गृष्ट्यादिभ्यश्च(4-1-136/1143) इति ढञ्। बस्ति। कुद्रि। अजबस्ति। मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख। जङ्घारथ। उत्कास। कटुकमन्थक। पुष्करसत्। विषपुट। उपरिमेखल। क्रोष्टुमान। क्रोष्टुपाद। क्रोष्टुमाय। शीर्षमाय। पुष्करसच्छब्दाद् बाह्वादिपाठादिञ्। खरपशब्दो नडादिषु पठ्यते, ततः फक्। पदक, वर्मक-एताभ्याम् अत इञ्(4-1-95/1095)। भलन्दनशब्दात् शिवादिभ्योऽण्(4-1-112/1115) भडिल। भडित। भण्डित-एतेभ्यश्चतुर्भ्यः अश्वादिभ्यः फञ्(4-1-110/1113)।।
</2-4-63>
यञञोश्च ।। <2-4-64> ।।
             बहुषु तेनैवास्त्रियाम्(2-4-63/1193) `गोत्रे इति चानुवर्तते। यञोऽञश्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग्भवति। गर्गादिभ्यो यञ्(4-1-105/1107), गर्गाः। वत्साः। अञः खल्वपि-अनृष्यानन्तर्ये बिदादिभ्योऽञ्(4-1-104/1106)। बिदाः, उर्वाः। बहुष्वित्येव-गार्ग्यः। बैदः। तेनैवेत्येव-प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियामित्येव-गार्ग्यः स्त्रियः। बैद्यः स्त्रियः। गोत्र इत्येव-द्वीपादनुसमुद्रं यञ्(4-3-10/1380), द्वैप्याः। उत्सादिभ्योऽञ्(4-1-86/1078) औत्साश्छात्राः। * यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम् *। गार्ग्यस्यकुलं गार्ग्यकुलम्, गर्गकुलं वा। गार्ग्ययोः कुलं गार्ग्यकुलम्, गर्गकुलं वा। एवं बैदस्य कुलं बैदकुलम्, बिदकुलं वा। बैदयोः कुलं बैदकुलं बिदकुलं वा। यञादीनामिति किम् ? आङ्गकुलम्। एकद्वयोरिति किम् ? गर्गाणां कुलं गर्गकुलम्। तत्पुरुष इति किम् ? गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठ्या इति किम् ? परमगार्ग्यः।।
</2-4-64>
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।। <2-4-65> ।।
             अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति। अत्रिशब्दात् इतश्चानिञः(4-1-122/1125) इति ढक्। इतरेभ्य ऋष्यण्। अत्त्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। बहुष्वित्येव--आत्रेयः, भार्गवः। तेनैवेत्येव--प्रियात्त्रेयाः। प्रियभार्गवाः। अस्त्रियामिति किम् ? आत्त्रेय्यः स्त्रियः।।
</2-4-65>
बह्वच इञः प्राच्यभरतेषु ।। <2-4-66> ।।
            बह्वचः प्रातिपदिकात् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग्भवति। पन्नागाराः। मन्थरैषणाः। भरतेषु खल्वपि-युधिष्ठिराः। अर्जुनाः। बह्वच इति किम् ? बैकयः। पौष्पयः। प्राच्यभरतेष्विति किम् ? बालाकयः। हास्तिदासयः। भरताः प्राच्या एव, तेषां पुनर्ग्रहणं ज्ञापनार्थम्-अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति, तेनइञः प्राचाम्(2-4-60/1085) इति भरतानां युवप्रत्ययस्य लुग्न भवति। आर्जुनिः
पिता। आर्जुनायनः पुत्रः।।
</2-4-66>
न गोपवनादिभ्यः ।। <2-4-67> ।।
गोपवनादिभ्यः परस्य लुग्न भवति। बिदाद्यन्तर्गणोऽयम्। ततोऽञो गोत्रप्रत्ययस्य यञञोश्च(2-4-64/1108) इति लुक् प्राप्तः प्रतिषिध्यते। गौपवनाः। शैग्रवाः। गौपवन। शिग्रु। बिन्दु। भाजन। अश्व। अवतान। श्यामाक। श्वापर्ण। एतावन्त एवाष्टौ गोपवनादयः। परिशिष्टानां हरितादीनां प्रमादपाठः। ते हि चतुर्थे बिदादिषु पठ्यन्ते। तेभ्यश्च बहुषु लुग्भवत्येव-हरिताः, किंदासा इति।।
</2-4-67>
तिककितवादिभ्यो द्वन्द्वे ।। <2-4-68> ।।
         तिकादिभ्यः कितावादिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग्भवति। तैकायनयश्च कैतवायनयश्च - तिकादिभ्यः फिञ्(4-1-154/1178), तस्य लुक्, तिककितवाः। वाङ्खरयश्च भाण्डीरथयश्च--अत इञ्(4-1-95/1095), तस्य लुक्, वङ्खरभण्डीरथाः। औपकायनाश्च लामकायनाश्च-नडादिभ्यः फक्(4-1-99/1101), तस्य लुक्, उपकलमकाः। पाफकयश्च नारकयश्च--अत इञ्(4-1-95/1095), तस्य लुक्, पफकनरकाः। बाकनखयश्च श्वागुदपरिणद्धयश्च अत इञ्(4-1-95/1095), तस्य लुक्, बकनखश्वगुदपरिणद्धाः। उब्जशब्दादत इञ्, ककुभशब्दात्शिवाद्यण्(4-1-112/1115), तयोर्लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः। लाङ्कयश्च शान्तमुखयश्च-अत इञ्(4-1-95/1095), तस्य लुक्, लङ्कशान्तमुखाः। उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्,लङ्टशब्दादिञ्, तयोर्लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः। भ्राष्टकयश्च कापिष्ठलयश्च--अत इञ्(4-1-95/1095), तस्य लुक्, भ्रष्टककपिष्ठ्लाः। कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च--अत इञ्(4-1-95/1095) तस्य लुक्, कृष्णाजिनकृष्णसुन्दराः। आग्निवेश्यश्च दासेरकयश्च--अग्निवेशशब्दाद् गर्गादिभ्यो यञ्(4-1-105/1107),दासेरकशब्दाद्अत इञ्(4-1-95/1095), तयोर्लुक्, अग्निवेशदासेरकाः।।
</2-4-68>
उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ।। <2-4-69> ।।
        `उपक इत्यैवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति, अन्यतरस्यां द्वन्द्वेचाद्वन्द्वे च । अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्। एतेषां च मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते--उपकलमकाः, भ्रष्टककपिष्ठलाः, कृष्णाजिनकृष्णसुन्दरा इति। तेषां पूर्वेणैव नित्यमेव लुग्भवति। अद्वन्द्वेत्वनेन विकल्पः--उपकाः, औपकायनाः। लमकाः, लामकायनाः। कृष्णसुन्दराः, कार्ष्णसुन्दरय इति। परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्प इति। पण्डारक। अण्डारक। गडुक। सुपर्यक। सुपिष्ठ। मयूरकर्ण। खारीजङ्घ। शलावल। पतञ्जल। कठेरणि। कुषीतक। काशकृत्स्न। निदाघ। कलशीकण्ठ। दामकण्ठ। कृष्णपिङ्गल। कर्णक। पर्णक। जटिलक। वधिरक। जन्तुक। अनुलोम। अर्धपिङ्गलक। प्रतिलोम। प्रतान। अनभिहित।।
</2-4-69>
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ।। <2-4-70> ।।
           आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोरणो यञश्च बहुषु लुग्भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यमगस्ति, कुण्डिनच्-इत्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारः स्वरार्थः। मध्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्, कुण्डिनशब्दाद् गर्गादित्वाद्यञ्, तयोः गोत्रेऽलुगचि(4-1-89/1081)इति लुकि प्रतिषिद्धे आगस्तीयाश्छात्त्रा इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यम्-कण्वादिभ्यो गोत्रे(4-2-111/1332) इति, तत्र विशेषो नास्ति--कौण्डिनाश्छात्त्राः।।
</2-4-70>
<K.2.316>
सुपो धातुप्रातिपदिकयोः ।। <2-4-71> ।।
          सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग्भवति। तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते। धातोस्तावत् -- पुत्रीयति। घटीयति। प्रातिपदिकस्य - कष्टश्रितः। राजपुरुषः। धातुप्रातिपदिकयोरिति किम् ? वृक्षः। प्लक्षः।।
</2-4-71>
अदिप्रभृतिभ्यः शपः ।। <2-4-72> ।।
          अदिप्रभृतिभ्य उत्तरस्य शपो लुग्भवति। अत्ति। हन्ति। द्वेष्टि।।
</2-4-72>
बहुलं छन्दसि ।। <2-4-73> ।।
</2-4-73>
          छन्दसि विषये शपो बहुलं लुग्भवति। अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि-`वृत्रं हनति(ऋ.<8-89-3>), `अहिः शयसे(ऋ.<1-32-5>)। अन्येभ्यश्च भवति-`त्राध्वं नो देवाः(ऋ.<2-29-6>)।।
</8-89-3>
यङोऽचि च ।। <2-4-74> ।।
          यङो लुग्भवति अचि प्रत्यये परतः। चकारेण बहुलग्रहणमनुकृष्यते, न तु छन्दसीति, तेन छन्दसि भषायां च यङो लुग्भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वसः। बहुलग्रहणादनच्यपि भवति- शाकुनिको लालपीति। दुन्दुभिर्वावदीति।।
</2-4-74>
जुहोत्यादिभ्यः श्लुः ।। <2-4-75> ।।
          शबनुवर्तते, न यङ्। जुहोत्यादिभ्य उत्तरस्य शपः श्लुर्भवति। लुकि प्रकृते श्लुविधानं द्विर्वचनार्थम्। जुहोति। बिभर्ति। नेनेक्ति।।
</2-4-75>
बहुलं छन्दसि ।। <2-4-76> ।।
</2-4-76>
          छन्दसि विषये बहुलं शपः श्लुर्भवति। यत्रोक्तं तत्र न भवति, अन्यत्रापि भवति। जुहोत्यादिभ्यस्तावन्न भवति-`दाति प्रियाणि(ऋ.<4-8-3>), `धाति देवम्(ऋ.<7-90-3>)। अन्येभ्यश्च भवति-`पूर्णां विवष्टि(ऋ.<7-16-11>)। `जनिमा विवक्ति(ऋ.<9-97-7>)।।
</4-8-3>
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ।। <2-4-77> ।।
          लुगनुवर्त्तते, न श्लुः। गाति, स्था, घु, पा, भू-इत्येतेभ्यः परस्य सिचो लुग्भवति परस्मैपदेषु परतः। अगात्। अस्थात्। घु-अदात्, अधात्, अपात्। अभूत्।। * गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम् *(म.भा.1.495)। गायतेः पातेश्च न भवति अगासीन्नटः। अपासीन्नृपः। परस्मैपदेष्विति किम् ? अगासातां ग्रामौ देवकदत्तेन।।
</2-4-77>
विभाषा घ्राधेट्शाच्छासः ।। <2-4-78> ।।
          घ्रा, धेट्, शा, छा, सा-इत्येतेभ्य उत्तरस्य सिचः परस्मैपदेषु विभाषा लुग्भवति। धेटः पूर्वेण प्राप्ते विभाषार्थं वचनम्, परिशिष्टानामप्राप्ते। अघ्रात्, अघ्रासीत्। अधात्। अधासीत्। अशात्, अशासीत्। अच्छात्, अच्छासीत्‌। असात्। असासीत्। परस्मैपदेष्वित्येव-अघ्रासातां सुमनसौ देवदत्तेन।।
</2-4-78>
तनादिभ्यस्तथासोः ।। <2-4-79> ।।
          तनादिभ्य उत्तरस्य सिचस्तथासोः परतो विभाषा लुग्भवति। अतत, अतथाः। अतनिष्ट, अतनिष्ठाः। असात, असाथाः। असनिष्ट, असनिष्ठाः। जनसनखनाम्(6-4-42/2504) इत्यात्वम्। थासा
साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहणम्, परस्मैपदे न भवति-अतनिष्ट यूयम्।।
मन्त्रे घसह्वरणशवृदहाद्‌वृच्‌कृगमिजनिभ्यो लेः ।।
</2-4-79>
          मन्त्रविषये घस, ह्वर, णश, वृ, दह, आत्, वृच्, कृ, गमि, जनि-इत्येतेभ्य उत्तरस्य लेर्लुग्भवति। घस-`अक्षन्नमीमदन्त पितरः(तै.सं.<1-8-5>.3)। ह्वरेति `ह्‌वृकौटिल्ये(धा.पा.931)-`मा ह्वार्मित्रस्य त्वा(तै.सं.<1-1-4>.1)। णश-`धूर्तिः प्राणड्मर्त्यस्य(ऋ.<1-18-3>)। `वृ इति वृङ्वृञोः(धा.पा.1510/1255) सामान्येन ग्रहणम्--`सुरुचो वेन आवः(वा.सं.13.3)। दह-`मान आधक्‌(ऋ.<6-61-14>)। आदिति आकारान्तग्रहणम्-`प्रा पूरणे(धा.पा.1061)। `आप्राद् द्यावापृथिवी अन्तरिक्षम्(ऋ.<1-115-1>)। वृच्-`मा नो अस्मिन्महाधने परावर्ग् भारभृद्यथा(ऋ.<8-75-12>)। कृ-`अक्रन् कर्म कर्मकृतः(तै.सं.<1-8-3>.3)। कमि-`अग्मन्(ऋ.<1-132-7>)। जनि-`अज्ञत वा अस्य दन्ताः(ऐ.ब्रा.<7-14-2>)। ब्राह्मणे प्रयोगोऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्।।
</1-8-5>
आमः ।। <2-4-81> ।।
          आमः परस्य लेर्लुग् भवति। ईहाञ्चक्रे। ऊहाञ्चक्रे। ईक्षाञ्चक्रे।।
</2-4-81>
अव्ययादाप्सुपः ।। <2-4-82> ।।
          अव्ययादुत्तरस्यापः सुपश्च लुग्भवति। तत्र शालायाम्। यत्र शालायाम्। सुपः खल्वपि-कृत्वा। हृत्वा।।
</2-4-82>
<K.2.325>
नाव्ययीभावादतोऽम्त्वपञ्चम्याः ।। <2-4-83> ।।
          पूर्वेण लुक् प्राप्तः प्रतिषिध्यते। अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग्भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः। <K.2.326> एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति। उपकुम्भं तिष्ठति। उपकुम्भं पश्य। उपमणिकं तिष्ठति। उपमणिकं पश्य। अत इति किम् ? अधिस्त्रि। अधिकुमारि। अपञ्चम्या इति किम् ? उपकुम्भाद् आनय।।
</2-4-83>
तृतीयासप्तम्योर्बहुलम् ।। <2-4-84> ।।
          पूर्वेण नित्यमम्भावे प्राप्ते वचनमिदम्। तृतीयासप्तम्योर्विभक्त्योर्बहुलमम्भावो भवति, अव्ययीभावे। उपकुम्भेन कृतम्, उपकुम्भं कृतम्। उपकुम्भे निधेहि, उपकुम्भं निधेहि। <K.2.327> * सप्तम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यमिति वक्तव्यम् *। सुमद्रम्‌। सुमगधम्। उन्मत्तगङ्गम्। लोहितगङ्गम्। एकविंशतिभारद्वाजम्। बहुलवचनात्सिद्धम्।।
</2-4-84>
लुटः प्रथमस्य डारौरसः ।। <2-4-85> ।।
लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डा, रौ, रस्-इत्येते आदेशा भवन्ति। कर्त्ता। कर्त्तारौ। कर्त्तारः। आत्मनेपदस्य-अध्येता। अध्येतारौ। अध्येतारः। प्रथमस्येति किम् ? श्वः कर्त्तासि, श्वोऽध्येतासे।।

             इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
                द्वितीयाध्यायस्य चतुर्थः पादः।।
</2-4-85>