काशिका/तृतीयोऽध्यायः /प्रथमः पादः
अथ तृतीयाध्याये प्रथमः पादः
प्रत्ययः ।। <3-1-1> ।।
अधिकारोऽयम्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते। आ पञ्चमाध्यायपरिसमाप्तेर्यानितऊर्ध्वमनुक्रमिष्यामः प्रत्ययसंज्ञास्ते वेदितव्याः, प्रकृत्युपपदोपाधिविकार
ागमान्वर्जयित्वा। वक्ष्यति-तव्यत्तव्यानीयरः(3-1-96/2834) कर्त्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः-प्रत्यलोपे प्रत्ययलक्षणम्(1-1-62/262) इत्येवमादयः।।
</3-1-1>
परश्च ।। <3-1-2> ।।
अयमप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा। परश्च स भवति धातोर्वा प्रातिपदिकाद्वा यः प्रत्ययसंज्ञः। कर्तव्यम्। तैत्तिरीयम्। चकारः पनरस्यैव समुच्चयार्थः, तेनोणादिषु परत्वं न विकल्प्यते।।
</3-1-2>
आद्युदात्तश्च ।। <3-1-3> ।।
अयमप्यधिकारः,परिभाषा वा। आद्युदात्तश्च स भवति यः प्रत्ययसंज्ञः। अनियतस्वरप्रत्ययप्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्यानियमे सति वचनमिदमादेरुदात्तार्थम्। कर्तव्यम्। तैत्तिरीयम्।
</3-1-3>
अनुदात्तौ सुप्पितौ ।। <3-1-4> ।।
पूर्वस्यायमपवादः। सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति। दृषदौ, दृषदः। पितः खल्वपि-पचति, पठति।।
</3-1-4>
गुप्तिज्किद्भ्यः सन् ।। <3-1-5> ।।
`गुप गोपने(धा.पा.971), `तिज निशाने(धा.पा.972), `कित निवासे(धा.पा.994)-एतेभ्यो धातुभ्यः सन्प्रत्ययो भवति। प्रत्ययसंज्ञा चाधिकृतैव। जुगुप्सते। तितिक्षते। चिकत्सति। * निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते, अन्यत्र यथाप्राप्तं प्रत्यया भवन्ति *। गोपयति। तेजयति। सङ्केतयति। गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्।।(म.भा.2.10)
</3-1-5>
मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।। <3-1-6> ।।
`मान पूजायाम्(धा.पा.973), `बध बन्धने(धा.पा.974), `दान अवखण्डने(धा.पा.995), `शान अवतेजने(धा.पा.996)-इत्येतेभ्यो धातुभ्यः सन्प्रत्यो भवति, अभ्यासस्य चेकारस्य दीर्घादेशो भवति। मीमांसते। बीभत्सते। दीदांसते। शीशांसते। उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन्न भवत्यपि। मानयति। बाधयति। दानयति। निशानयति। * अत्रापि सन्नर्थविशेष इष्यते *। मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने।
</3-1-6>
धातोः कर्मणः समानकर्तृकादिच्छायां वा ।। <3-1-7> ।।
इषिकर्म यो धातुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन्प्रत्ययो भवति। कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम्। कर्तुमिच्छति चिकीर्षति। जिहीर्षति। धातुग्रहणं किम् ? सोपसर्गादुत्पत्तिर्मा भूत्- प्रकर्तुमैच्छत् प्राचिकीर्षत्। कर्मण इति किम्? करणान्मा भूत्- गमनेनेच्छति। समानकर्तृकादिति किम् ? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः। इच्छायामिति किम् ? कर्तुं जानाति। वावचनाद्वाक्यमपि भवति। `धातोः इति विधानादत्र सन आर्धधातुकसंज्ञा भवति, न पूर्वत्र। * आशङ्कायामुपसङ्ख्यानम् *(म.भा.2.14)। आशङ्के पतिष्यति कूलम्। पिपतिषति नदीकूलम्। श्वा मुमूर्षति। * इच्छासन्नन्तात्प्रतिषेधो वक्तव्यः *। चिकीर्षितुमिच्छति। विशेषणं किम् ? जुगुप्सिषते। मीमांसिषते।।
`शैषिकान्मतुबर्थोयाच्छैषिको मतुबर्थिकः।
सरूपः प्रत्ययो नेष्टः सनन्तान्न सनिष्यते।।(म.भा.2.15)
</3-1-7>
सुप आत्मनः क्यच् ।। <3-1-8> ।।
`कर्मणः `इच्छायां वा इत्यनुवर्त्तते। इषिकर्मण एषितुरात्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा क्यच्प्रत्ययो भवति। आत्मनः पुत्रमिच्छति पुत्रीयति। सुब्ग्रहणं किम् ? वाक्यान्मा भूत्- महान्तं पुत्रमिच्छति। आत्मन इति किम् ? राज्ञः पुत्रमिच्छति। ककारः नः क्ये (1-4-15/2659) इति सामान्यग्रहणार्थः। चकारस्तदविघातार्थः। * क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः *(म.भा.2.19)। इदमिच्छति। उच्चैरिच्छति। नीचैरिच्छति। * छन्दसि परेच्छायामिति वक्तव्यम् *(म.भा.2.16)। `मा त्वा वृका अघायवो विदन्।(वा.स.4.34)।
</3-1-8>
काम्यच्च ।। <3-1-9> ।।
सुबन्तात्कर्मण आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रमिच्छति पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचोऽनुवृत्यर्थः। ककारस्येत्संज्ञा प्रयोजनाभावान्न भवति। चकारादित्वाद्वा काम्यचः- उपयट्काम्यति।।(म.भा.2.20)
</3-1-9>
उपमानादाचारे ।। <3-1-10> ।।
क्यजनुवर्त्तते, न काम्यच्। उपमानात्कर्मणः सुबन्तादाचारेऽर्थे वा क्यच्प्रत्ययो भवति। आचारक्रियायाः प्रत्ययार्थत्वात्तदपेक्षयैवोपमानस्य कर्मता। पुत्रमिवाचरति पुत्रीयति छात्रम्। प्रावारीयति कम्बलम्। * अधिकरणाच्चेति वक्तव्यम् *(म.भा.2.20)। प्रासादीयति कुड्ये। पर्यङ्कीयति मञ्चके।।
</3-1-10>
कर्त्तुः क्यङ् सलोपश्च ।। <3-1-11> ।।
`आचारे इत्यनुवर्त्तते। उपमानात्कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ् प्रत्ययो भवति, सकारस्य च लोपो भवति। अन्वाचयशिष्टः सलोपः, तदभावेऽपि क्यङ् भवत्येव। श्येन इवाचरति काकः श्येनायते। कुमुदं पुष्करायते। सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति। ओजायतेष। अप्सरायते। पयायते। पयस्यते। ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया।
</3-1-11>
(सकारस्येष्यते लोपः शब्दशास्त्रविचक्षणैः)(जै.सू.2-1-91)
सलोपविधौ च `कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्रालोऽन्त्यनियमे सति, `हंसायते `सारसायते इति सलोपो न भवति। * आचारेऽवगल्भक्वीबहोडेभ्यः क्विब्वा वक्तव्यः *(म.भा.2.21)। अवगल्भते, अवगल्भायते। क्लीबते, क्लीबायते। होडते, होडायते। * सर्वप्रातिपदिकेभ्य इत्येके *(म.भा.2.21)। अश्व इवाचरति अश्वायते। गर्दभायते। अश्वति। गर्दभति।।
</2-12-11>
भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ।। <3-1-12> ।।
`भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ् प्रत्यययो भवति, हलन्तानां च लोपः। `अच्वेः इति प्रत्येकमभिसम्बध्यते। किमर्थं पुनरिदमुच्यते, यावता भवतियोगे च्विर्विधीयते तेनोक्तार्थत्वाच्च्व्यन्तेभ्यो न क्यङ् भविष्यति ? तत्सदृशप्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते। अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ्प्रत्ययः। अभृशो भृशो भवति भृशायते। शीघ्रायते। भृश। शीघ्र। मन्द। चपल। पण्डित। उत्सुक। उन्मनस्। अभिमनस्। सुमनस्। दुर्मनस्। रहस्। रेहस्। शश्वत्। बृहत्। वेहत्। नृषत्। शुधि। अधर। ओजस्। वर्चस्। भृशादिः।
अच्वेरिति किम् ? भृशीभवति।।
</3-1-12>
लोहितादिडाज्भ्यः क्यष् ।। <3-1-13> ।।
लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष् प्रत्ययो भवति। लोहितायति, लोहितायते। डाजन्तेभ्यः--पटपटायति, पटपटायते। * लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि *(म.भा.2.24) यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति। वर्मायति, वर्मायते। निद्रायति, विद्रायते। करुणायति। करुणायते। कृपायति, कृपायते। आकृतिगणोऽयम्। तथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते-नः क्ये(1-4-15/2659) इति। न हि पठितानां मध्ये नकारान्तः शब्दोऽस्ति। कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव वचनं ज्ञापकम्। `अच्वेः इत्यनुवृत्तेरभूततद्भावे क्यष् विज्ञायते। लोहित। नील। हरित। पीत। मद्र। फेन। मन्द। लोहितादिः।।
</3-1-13>
कष्टाय क्रमणे ।। <3-1-14> ।।
क्यङनुवर्त्तते न क्यष्। कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽर्थेऽनार्जवे क्यङ् प्रत्यतो भवति। कष्टाय क्रमणे क्रामति कष्टयते। अत्यल्पमिदमुच्यते। * सत्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षामिति वक्तव्यम् *(म.भा.2.25)। कण्वचिकीर्षा = पापचिकीर्षा, तस्यामेतेभ्यः क्यङ् प्रत्ययो भवति। सत्त्रायते। कष्टायते। कक्षायते। कृच्छ्रायते। गहनायते। कण्वचिकीर्षायामिति किम् ? अजः कष्टं क्रामति।।
</3-1-14>
कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः ।। <3-1-15> ।।
रोमन्थशब्दात्तपःशब्दाच्च कर्मणो यथाक्रमं वर्त्तिचरोरर्थयोः क्यङ् प्रत्ययो भवति। रोमन्थं वर्त्तयति रोमन्थायते गौः। * हनुचलन इति वक्तव्यम् *(म.भा.2.25)। इह मा भत्- कीटो रोमन्थं वर्त्तयति। * तपसः परस्मैपदं च *(म.भा.2.25)। तपश्चरति तपस्यति।।
</3-1-15>
बाष्पोष्मभ्यामुद्वमने ।। <3-1-16> ।।
`कर्मणः इति वर्त्तते। बाष्पशब्दादूष्मशब्दाच्च कर्मण उद्वमनेऽर्थे क्यङ् प्रत्ययो भवति। बाष्पमुद्वमति बाष्पायते। ऊष्मायते। * फेनाच्चेति वक्तव्यम् *(म.भा.2.25)। फेनमुद्वमति फेनायते।।
</3-1-16>
शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ।। <3-1-17> ।।
शब्द, वैर, कलह, अभ्र, कण्व, मेघ-इत्येतेभ्यः करणे करोत्यर्थे क्यङ् प्रत्ययो भवति। शब्दं करोति शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते। * सुदिनदुर्दिननीहारेभ्यश्चेति वक्तव्यम् *(म.भा.2.26)। सुदिनायते। दुर्दिनायते। नीहारायते। अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्त्तव्यम् *(म.भा.2.26)। अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते।
</3-1-17>
सुखादिभ्यः कर्तृवेदनायाम् ।। <3-1-18> ।।
कर्मग्रहणमनुवर्त्तते। `सुख-इत्येवमादिभ्यः कर्मभ्यो वेदनायामर्थेऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत्कर्तुः सम्बन्धीनि सुखादीनि भवन्ति। सुखं वेदयते सुखायते। दुःखायते। कर्तृग्रहणं किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य। सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्त्र। अलीक। प्रतीप। करुण। कृफण। सोढ। सुखादिः।।
</3-1-18>
नमोवरिवश्चित्रङः क्यच् ।। <3-1-19> ।।
`करणे इति वर्त्तते। नमस्, वरिवस्, चित्रङ्-इत्येतेभ्यो वा क्यच्प्रत्ययो भवति, करणविशेषे पूजादौ। `नमसः पूजायाम् नमस्यति देवान्। `वरिवसः परिचर्यायाम्-वरिवस्यति गूरून्। `चित्रङ आश्चर्ये-चित्रीयते।
ङकार आत्मनेपदार्थः।।
</3-1-19>
पुच्छभाण्डचीवराण्णिङ् ।। <3-1-20> ।।
`करणे इति वर्तते। पुच्छ, भाण्ड, चीवर-इत्येतेभ्यो णिङ् प्रत्ययो भवति, करणविशेषे। * पुच्छादुदसने पर्यसने वा *(म.भा.2.27)। उत्पुच्छयते। परिपुच्छयते। * भाण्डात्समाचयने *(म.भा.2.27)। सम्भाण्डयते। * चीवरादर्जने परिधाने वा *(म.भा.2.27)। सञ्चीवरयते भिक्षुः। ङकार आत्मनेपदार्थः। णकारः सामान्यग्रहणार्थः- णेरनिटि(6-4-51/2313) इति।।
</3-1-20>
मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ।। <3-1-21> ।।
मुण्ड, मिश्र, श्लक्ष्ण, लवण, व्रत, वस्त्र, हल,कल, कृत, तूस्त इत्येतेभ्यः करणे णिच् प्रत्ययो भवति। मुण्डं करोति मुण्डयति। मिश्रयति। श्लक्ष्णयति। लवणयति। व्रताद्भोजने तन्निवृत्तौ च पयो व्रतयति। वृषलान्नं व्रतयति। वस्त्रात्समाच्छादने--संवस्त्रयति। हलिं गृह्णाति हलयति। कलिं गृह्णाति कलयति। हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थम्- अजहलत्, अचकलत्। कृतं गृह्णाति कृतयति। तूस्तानि विहन्ति वितूस्तयति केशान्। विशदीकरोतीत्यर्थः।।
</3-1-21>
धातोरोकाचो हलादेः क्रियासमभिहारे यङ् ।। <3-1-22> ।।
एकाज् यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा = क्रियासमभिहारः। पुनः पुनः पचति पापच्यते। यायज्यते। भृशं ज्वलति जाज्वल्यते। देदीप्यते। धातोरिति किम् ? सोपसर्गादुत्पत्तिर्मा भूत्-भृशं प्राटति। एकाच इति किम् ? भृशं जागर्ति। हलादेरिति किम् ? भृशमीक्षते। * सूचिसूत्रिमूर्त्यत्यर्त्यट्यर्त्यशूर्णोतीनां ग्रहणं यङ्विधावनेकाजहलाद्यर्थम् *(म.भा.2.29)। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते; अनभिधानात्।।
</3-1-22>
नित्यं कौटिल्ये गतौ ।। <3-1-23> ।।
गतिवचनाद्धातोः कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति। कुटिलं क्रामति चङ्क्रम्यते। दन्द्रम्यते। नित्यग्रहणं विषयनियमार्थम्-गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे। भृशं क्रामति।।
</3-1-23>
लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायम् ।। <3-1-24> ।।
लुप, सद, चर, जप, जभ, दह, दश, गॄ,- इत्येतेभ्यो भावगर्हायाम् = धात्वर्थगर्हायां यङ्प्रत्ययो भवति। गर्हितं लुम्पति लोलुप्यते। एवम्-- सासद्यते। चञ्चूर्यते। जञ्जप्यते। जञ्जभ्यते। दन्दह्यते। दन्दश्यते। निजेगिल्यते। भावर्हायामिति किम् ? साधु जपति। भावग्रहणं किम् ? साधनगर्हायां मा भूत्- मन्त्रं जपति वृषलः। नित्यग्रहणं विषयनियमार्थमनुवर्त्तते-- एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे। भृशं लुम्पति।।
</3-1-24>
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ।। <3-1-25> ।।
सत्यादिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच् प्रत्ययो भवति। सत्यमाचष्टे सत्यापयति। * अर्थवेदसत्यानामापुग्वक्तव्यः *(म.भा.2.30)। अर्थमाचष्टे अर्थापयति। वेदापयति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। पाशाद्विमोचने-विपाशयति। रूपाद्दर्शने-रूपयति। वीणयोपगायति उपवीणयति। तूलेनानुकुष्णाति, अनुतूलयति। श्लोकैरुपस्तौति उपश्लोकयति। सेनयाऽभियाति अभषेणयति। लोमान्यनुमार्ष्टि अनुलोमयति। त्वचं गृह्णाति त्वचयति। अकारान्तस्त्वचशब्दः। वर्मणा संनह्यति संवर्मयति। वर्णं गृह्णाति वर्णयति। चूर्णैरवध्वंसयति अवचूर्णयति। चुरादिभ्यः स्वार्थे-चोरयति। चिन्तयति। स्वाभाविकत्वादर्थाभिधानस्य यथास्वम् = यथायथं प्रत्ययार्था निर्दिश्यन्ते।।
</3-1-25>
हेतुमति च ।। <3-1-26> ।।
हेतुः स्वतन्त्रस्य (कर्तुः) प्रयोजकः, तदीयो व्यापारः प्रेषणादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोर्णिच् प्रत्ययो भवति। कटं कारयति। ओदनं पाचयति। * तत्करोतीत्युपसङ्ख्यानं सूत्रयतीत्याद्यर्थम् *(म.भा.2.34)। सूत्रं करोति सूत्रयति। * आख्यानात्कृतस्तदाचष्टे इति णिच् कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् *(म.भा.2.34)। आख्यानात्कृदन्ताण्णिज्वक्तव्यः, तदाचष्टे इत्येस्मिन्नर्थे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति। कंसवधमाचष्टे कंसं घातयति। बलिबन्धमाचष्टे बलिं बन्धयति। राजागमनमाचष्टे राजानमागमयति। * आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् *(म.भा.2.35)। आरात्रिविवासमाचष्टे रात्रिं विवासयति। * चित्रीकरणे प्रापि *(म.भा.2.35)। उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यमुद्गमयति। *नक्षत्रेयोगे ज्ञि *(म.भा.2.35)। पुष्ययोगं जानाति पुष्येण योजयति। मघाभिर्योजयति।।
</3-1-26>
कण्ड्वादिभ्यो यक् ।। <3-1-27> ।।
`कण्डूञ् इत्येवमादिभ्यो यक् प्रत्ययो भवति। द्विविधाः कण्ड्वादयः- धातवः, प्रातिपदिकानि च। तत्र धात्वधिकाराद्धातुभ्य एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च- गुणप्रतिषेधार्थः ककारोऽनुबध्यते।
`धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि।
आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः।।(म.भा.2.38)
कण्डूञ्-कण्डूयति, कण्डूयते। ञित्त्वात् कर्त्रभिप्राये क्रियाफले(1-3-72/2158) इत्यात्मनेपदम्। कण्डूञ्। मन्तु। हृणीङ्। वल्गु। अस्मनस्। महीङ्। लेट्। लङ्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। भुरण। चुरण। तुरण। भुरण। गद्गद। एला। केला। खेला। लिट्। लोट्।
</3-1-27>
गुपूधूपविच्छिपणिपनिभ्यः आयः ।। <3-1-28> ।।
`गुपू रक्षणे(धा.पा.395), `धूप सेतापे(धा.पा.396), `विच्छ गतौ(धा.पा.1424), `पण व्यवहारे स्तुतौ च(धा.पा.439), `पन च(धा.पा.440)-इत्यतेभ्यो धातुभ्य आयप्रत्यो भवति। गोपायति। दूपायति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात्तदर्थः पणिः प्रत्ययमुत्पादयति, न व्यवहारार्थः। शतस्य पणते। सहस्रस्य पणते। अनुबन्धश्च केवले चरितार्थः, तेनायप्रत्ययान्तान्नात्मनेपदं भवति।।
</3-1-28>
ऋतेरीयङ् ।। <3-1-29> ।।
ऋतिः सौत्रो धातुर्घृणायां वर्त्तते, तत ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतीयन्ते। `ऋतेश्छङ् इति सिद्धे ईयङ्वचनं ज्ञापनार्थम्-धातुविहितानां प्रत्ययानामायन्नादयो न भवन्तीति।।
</3-1-29>
कमेर्णिङ् ।। <3-1-30> ।।
कमेर्धातोर्णिङ् प्रत्ययो भवति। णकारो वृद्ध्यर्थः। ङकार आत्मनेपदार्थः। कामयते, कामयेते, कामयन्ते।।
</3-1-30>
आयादय आर्धधातुके वा ।। <3-1-31> ।।
आर्धधातुकविषये = आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति। गोप्ता, गोपायिता। अर्तिता, ऋतीयिता। कमिता, कामयिता। नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्ध्दधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति-गुप्तिः। गोपाया।।
</3-1-31>
सनाद्यन्ता धातवः ।। <3-1-32> ।।
सन् आदिर्येषां ते सनादयः, सनादयोऽन्ते येषां ते सनाद्यन्ताः। सनाद्यन्ताः समुदाया धातुसंज्ञा भवन्ति। प्रत्ययग्रहणपरिभाषैव पदसंज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिहान्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति।।
</3-1-32>
स्यतासी लृलुटोः ।। <3-1-33> ।।
लृरूपमुत्सृष्टानुबन्धं सामान्यमेकमेव, तस्मिन् लुटि च परतो धातोर्यथासङ्ख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणमनुनासिकलोपप्रतिबन्धार्थम्। मन्ता। सङ्गन्ता।।
</3-1-33>
सिब्बहुलं लेटि ।। <3-1-34> ।।
</3-1-34>
धातोः सिप् प्रत्ययो भवति बहुलं लेटि परतः। `जोषिषत्(ऋ.<1-35-1>)। `तारिषत्(ऋ.<1-25-12>)। मन्दिषत्। न च भवति-`पदाति विद्युत्(ऋ.<7-25-1>)। `उदधिं च्यावयाति।।(तै.सं.<3-5-5>.5)
</1-35-1>
कास्प्रत्ययादाममन्त्रे लिटि ।। <3-1-35> ।।
</3-1-35>
`कासृ शब्दकुत्सायाम्(धा.पा.623) ततः प्रत्ययान्तेभ्यश्च धातुभ्य आम् प्रत्ययो भवति लिटि परतोऽमन्त्रविष्ये। कासाञ्चक्रे। प्रत्ययान्तेभ्यः - लोलूयाञ्चक्रे। अमन्त्र इति किम् ? `कृष्णो नोनाव(ऋ.<1-79-2>)।। * कास्यनेकाच इति वक्तव्यम् चुलुम्पाद्यर्थम् *(म.भा.2.44) । चकासाञ्चकार। चुलुम्पाञ्चकार। दरिद्राञ्चकार।।
आमोऽमित्त्वमदन्तत्वादगुणत्वं विदेस्तथा।
आस्कासोरां विधानाच्च पररूपं कतन्तवत्।।
</1-79-2>
इजादेश्च गुरुमतोऽनृच्छः ।। <3-1-36> ।।
इजादिर्यो धातुर्गुरुमान् ऋच्छतिवर्जितस्तस्माच्च लिटि परत आम्प्रत्ययो भवति। `ईह चेष्टायाम्(धा.पा.632), `ऊह वितर्के(धा.पा.648)। ईहाञ्चक्रे, ऊहाञ्चक्रे। इजादेरिति किम् ? ततक्ष, ररक्ष। गुरुमत इति किम् ? इयज, उवप। अनृच्छ इति किम् ? आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। * ऊर्णोतेश्च प्रतिषेधो वक्तव्यः *(म.भा.2.46)। प्रोर्णुनाव। अथ वा
*वाच्य ऊर्णोर्नुवद्भावो यङ्प्रसिद्धिः प्रयोजनम्।
आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात्।।*(म.भा.2.46)
</3-1-36>
दयायासश्च ।। <3-1-37> ।।
`दय दानगतिरक्षणेषु(धा.पा.481), `अय गतौ(धा.पा.474), `आम उपवेशने(धा.पा.1022)-इत्येतेभ्यश्च लिटि परत आम्प्रत्ययो भवति। दयाञ्चक्रे। पलायाञ्चके। आसाञ्चक्रे।
</3-1-37>
उषविदजागृभ्योऽन्यतरस्याम् ।। <3-1-38> ।।
`उष दाहे(धा.पा.696), `विद ज्ञाने(धा.पा.1065), `जागृ निद्राक्षये(धा.पा.1073)-एतेभ्यो लिटि परतोऽन्यतरस्यामाम् प्रत्ययो भवति। ओषाञ्चकार, उवोष। विदाञ्चकार, विवेद। जागराञ्चकार, जजागार। विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति।।
</3-1-38>
भीह्रीभृहुवां श्लुवच्च ।। <3-1-39> ।।
`ञिभी भये(धा.पा.1085), `ह्री लज्जायाम्(धा.पा.1086), `डुभृञ् धारणपोषणयोः(धा.पा.1088), `हु दानादनयोः(धा.पा.1084)-इत्येतेभ्यो लिटि परत आम्प्रत्ययो भवत्यन्यतरस्याम्, श्लाविव चास्मिन्कार्यं भवति। किं पुनस्तद् ? द्वित्वमित्त्वं च । बिभयाञ्चकार, बिभाय। जिह्रयाञ्चकार, जिह्राय। बिभराञ्चकार, बभार। जुहवाञ्चकार, जुहाव।।
</3-1-39>
कृञ्चानुप्रयुज्यते लिटि ।। <3-1-40> ।।
आम्प्रत्ययस्य पश्चात्कृञनुप्रयुज्यते लिटि परतः। `कृञ् इति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावो न भवति। पाचयाञ्चकार। पाचयाम्बभूव। पाचयामास।।
</3-1-40>
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ।। <3-1-41> ।।
`विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते ? विदेर्लोट्याम्प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट् परस्यानुप्रयोगः। अत्र भवन्तो विदांकुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः। न केवलं प्रथमपुरुषबहुवचनम्, किं तर्हि ? सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते-विदाङ्करोतु, विदाङ्कुरुतात्, विदाङ्कुरुताम्, विदाङ्कुरु, विदाङ्कुरुतमित्यादि।।
</3-1-41>
अभ्युत्सादयाम्प्रजनयाञ्चिकयांरमयामकःपावयाङ्क्रियाद्विदामक्रन्नितिच्छन्दसि ।। <3-1-42> ।।
</3-1-42>
`अभ्युत्सादयाम् इत्येवमादयश्छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते। सदिजनिरमीणां ण्यन्तानां लुङ्याम्प्रत्ययो निपात्यते। चिनोतेरपि तत्रैवाम्प्रत्ययो द्विर्वचनं कुत्वं च। अकरिति चतुर्भिरपि प्रत्येकमनुप्रयोगः सम्बध्यते। पावयाङ्क्रियादिति-पवतेः पुनातेर्वा ण्यन्तस्य लिङ्याम् निपात्यते, क्रियादिति चास्यानुप्रयोगः। विदामक्रन्निति-विदेर्लुङ्याम् निपात्यते, गाणाभावश्च, अक्रन्निति चास्यानुप्रयोगः। `अभ्युत्सादयामकः(मै.<1-6-5>)। अभ्युदसीषददिति भाषायाम्। `प्रजनयामकः(मै.<1-6-10>)। प्रजीजनदिति भाषायाम्। `चिकयामकः। अचैषीदिति भाषायाम्। `रमयामकः(काठकसं.7.7)। अरीरमदिति भाषायाम्। पावयाङ्क्रियात्(मै.<2-1-3>)। पाव्यादिति भाषायाम्। `विदामक्रन्(मै.<1-4-7>,तै.ब्रा.<1-3-10>.3) अवेदिषुरिति भाषायाम्। इतिकरणः प्रयोगदर्शनार्थः।।
</1-6-5>
च्लि लुङि ।। <3-1-43> ।।
धातोश्च्लिः प्रत्ययो भवति लुङि परतः। इकार उच्चारणार्थः, चकारः स्वरार्थः। अस्य सिजादीनादेशान्वक्ष्यति, तत्रैवोदाहरिष्यामः।।
</3-1-43>
च्लेः सिच् ।। <3-1-44> ।।
च्लेः सिजादेशो भवति। इकार उच्चारणार्थः, चकारः स्वरार्थः। अकार्षीत्। अहार्षीत्। आगमानुदात्तत्वं हि प्रत्ययस्वरमिव चित्स्वरमपि बाधेतेति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्द्यते। * स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः *। अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत्। अम्रक्षीत्, अमार्क्षीत्, अमृक्षत्। अक्राक्षीत्, अकार्क्षीत्,अकृक्षत्। अत्राप्सीत्, अतार्प्सीत्, अतृपत्। अद्राप्सीत्, अदार्प्सीत्, अदृपत्।।
</3-1-44>
शल इगुपधादनिटः क्सः ।। <3-1-45> ।।
शलन्तो यो धातुरिगुपधस्तस्मात्परस्य च्लेरनिटः क्स आदेशो भवति। दुह--अधुक्षत्। लिह--अलिक्षत्। शल इति किम् ? अभैत्सीत्। अच्छैत्सीति। इगुपधादिति किम् ? अधाक्षीत्। अनिटइति किम् ? अकोषीत्। अमोषीत्।।
</3-1-45>
श्लिष आलिङ्गने ।। <3-1-46> ।।
श्लिषेर्धातोरालिङ्गनक्रियावचनात्परस्य च्लेः क्स आदेशो भवति। आलिङ्गनम् = उपगूहनम्परिष्वङ्गः। अत्र नियमार्थमेतत्। आश्लिक्षत्कन्यां देवदत्तः। आलिङ्गन इति किम् ? समाश्लिषज्जतु काष्ठम्(म.भा.2.54)।।
</3-1-46>
न दृशः ।। <3-1-47> ।।
पूर्वेण क्सः प्राप्तः प्रतिषिध्यते। दृशेर्धातोः परस्य च्लेः क्सादेशो न भवति। अस्मिन्प्रतिषिद्धे इरितो वा(3-1-57/2269) इत्यङ्सिचौ भवतः। अदर्शत्, अद्राक्षीत्।।
</3-1-47>
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।। <3-1-48> ।।
सिजपवादश्चङ् विधीयते। ण्यन्तेभ्यो धातुभ्यः, श्रि, द्रु, स्रु-इत्येतेभ्यश्च परस्य च्लेश्चङादेशो भवति कर्तृवाचिनि लुङि परतः। ङकारो गुणवृद्धिप्रतिषेदार्थः, चकारः`चङि इति विशेषणार्थः। अचीकरत्। अजीहरत्। अशिश्रयत्। अदुद्रुवत्। असुस्रुवत्। कर्तरीति किम् ? अकारयिषातां कटौ देवदत्तेन। * कमेरुपसङ्ख्यानम् *। आयादय आर्धधातुके वा(3-1-31/2305) इति यदा णिङ् नास्ति तदैतदुपसङ्ख्यानम्। अचकमत। णिङ्पक्षे सन्वद्भावः अचीकमत।
`नाकमिष्टं सुखं यान्ति सुयुक्तैर्वडवारथैः।
अथ पत्काषिणो यान्ति येऽचीकमतभाषिणः।।(म.भा.2.55)
</3-1-48>
विभाषा धेट्श्व्योः ।। <3-1-49> ।।
`धेट् पाने(धा.पा.903), `टुओश्वि गतिवृद्ध्योः(धा.पा.1011)--एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति। धेटस्तावत्-अदधत्। सिच्पक्षे विभाषा घ्राघेट्(2-4-78/2376) इति लुक्। अधात्, अधासीत्। श्वयतेः खल्वपि-अशिश्वियत्। अङप्यत्र विकल्प्यते--अश्वत्, अश्वयीत्। कर्तरीत्येव अधिषातां गावौ वत्सेन।।
</3-1-49>
गुपेश्छन्सि ।। <3-1-50> ।।
</3-1-50>
गुपेः परस्य च्लेश्छन्दसि विषये विभाषा चङादेशो भवति। यत्र आयप्रत्ययो नास्ति तत्रायं विधिः। `इमान्नो मित्रावरुणौ गृहानजुगुपतम् युवम्(मै.<1-5-14>);अगोप्तम्, अगोपिष्टम्, अगोपायिष्टमिति वा। भाषायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति।।
</1-5-14>
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ।। <3-1-51> ।।
</3-1-51>
`ऊन परिहाणे(धा.पा.1889), `ध्वन शब्दे(धा.पा.817), `इल प्रेरणे(धा.पा.1358), `अर्द गतौ याचने च(धा.पा.55)-इत्येतेभ्यो धातुभ्यो ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति। `काममूनयीः(ऋ.<1-53-3>)। औनिनः इति भाषायाम्। `मा त्वाग्निर्ध्वनयीत्(ऋ.<1-161-15>)। अदिध्वनदिति भाषायाम्। काममैलयीत्। ऐलिलदिति भाषायाम्। मैनमर्दयीदिति भाषायाम्।।
</1-53-3>
अस्यतिवक्तिख्यातिभ्योऽङ् ।। <3-1-52> ।।
`असु क्षेपणे(धा.पा.1210), `वच परिभाषणे(धा.पा.1064),ब्रूञादेशो वा; `ख्या प्रकथने(धा.पा.1061), चक्षिङादेशो वा-इत्येभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुङि परतः। अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त। वक्ति--अवोचत्, अवोचताम्, अवोचन्। ख्याति--आख्यत्। आख्यताम्, आख्यन्। कर्त्तरीति किम् ? पर्यासिषातां गावौ वत्सेन।।
</3-1-52>
लिपिसिचिह्वश्च ।। <3-1-53> ।।
`लिप उपदेहे(धा.पा.1434), `षिच क्षरणे(धा.पा.1435), `ह्वेञ् स्पर्ध्दायाम्(धा.पा.1009)--इत्येतेभ्यश्च परस्य च्लेरङादेशो भवति। अलिपत्। असिचत्। आह्वत्। पृथग्योग उत्तरार्थः।।
</3-1-53>
आत्मनेपदेष्वन्यतरस्याम् ।। <3-1-54> ।।
पूर्वेण प्राप्ते विभाषा आरभ्यते। लिपि-सिचि-ह्व आत्मनेपदेषु परतश्च्लेरङादेशो भवति अन्यतरस्याम्। स्वरितञितः(1-3-72/2158) इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त। अह्वत,अह्वास्त।।
</3-1-54>
पुषादिद्युताद्य्लृदितः परस्मैपदेषु ।। <3-1-55> ।।
पुषादिभ्यः, द्युतादिभ्यः, लृदिद्भ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतोऽङादेशो भवति। पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणो वा। पुष-अपुषत्। द्युतादि-अद्युतत्, अश्वितत्। लृदिद्भ्यः-गम्लृ-अगमत्। शक्लृ-अशकत्। परस्मैपदेष्विति किम् ? व्यद्योतिष्ट। अलोटिष्ट।।
</3-1-55>
सर्त्तिशास्त्यर्तिभ्यश्च ।। <3-1-56> ।।
`सृ गतौ(धा.पा.936), `शासु अनुशिष्टौ(धा.पा.1076), `ऋ गतौ(धा.पा.937)-इत्येतेभ्यः परस्य च्लेरङादेशो भवति। सर्त्ति-असरत्। शास्ति-अशिषत्। अर्त्ति आरत्। पृथग्योगकरणमात्मनेपदार्थम्। समरन्। चकारः परस्मैपदेष्वित्यनुकर्षणार्थः। तच्चोत्तरत्रोपयोगं यास्यति।।
</3-1-56>
इरितो वा ।। <3-1-57> ।।
इरितो धातोः परस्य च्लेरङादेशो वा भवति। भिदिर्-अभिदत्, अभैत्सीत्। छिदिर्-अच्छदत् अच्छैत्सीत्। परस्मैपदेष्वित्येव- अभित्त। अच्छित्त।।
</3-1-57>
जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।। <3-1-58> ।।
`वा इति वर्त्तते। `जॄष् वयोहानौ(धा.पा.1131), `स्तम्भुः सौत्रो धातुः, `म्रुचु म्लुचु गत्यर्थौ(धा.पा.195/196) `ग्रुचु ग्लुचु स्तेयकरणे(धा.पा.197/198), `म्लुञ्चु षस्ज गतौ(धा.पा.201/202), `टुओश्वि गतिवृध्द्योः(धा.पा.1011)-इत्येतेभ्यो धातुभ्यः परस्य च्लेर्वाऽङादेशो भवति। अजरत्, अजारीत्। अस्तभत्, अस्तम्भीत्। अम्रुचत्, अम्रोचीत्। अम्लुचत्, अम्लोचीत्। अग्रुचत्, अग्रोचीत्। अग्लुचत्, अग्लोचीत्। अग्लुञ्चत्। अग्लुञ्चीत्। अश्वत्, अश्वयीत्, अशिश्वियत्। ग्लुचुग्लुञ्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यति, अर्थभेदात्तु द्वयोरुपादानं कृतम्। केचितु वर्णयन्ति--द्वयोरुपादानसामर्थ्याद् ग्लुञ्चेरनुनासिकलोपो न भवति-अग्लुञ्चदिति।।
</3-1-58>
कृमृदृरुहिभ्यश्छन्दसि ।। <3-1-59> ।।
</3-1-59>
कृ,मृ,दृ,रुहि-इत्येतेभ्यः परस्य च्लेश्छन्दसि विषयेऽङादेशो भवति। शकलाङ्गुष्ठकोऽकरत्। अथोऽमरत्। अदरदर्थान्। पर्वतमारुहत्। `अन्तरिक्षाद्दिवमारुहम्(अ.<4-14-3>)। छन्दसीति किम् ?अकार्षीत्। अमृत।
अदारीत्। अरुक्षत्।।
</4-14-3>
चिण् ते पदः ।। <3-1-60> ।।
`पद गतौ(धा.पा.1170)-अस्माद्धातोः परस्य च्लेश्चिणादेशो भवति तशब्दे परतः। सामर्थ्यादात्मनेपदैकवचनं गृह्यते--उदपादि सस्यम्। समपादि भैक्षम्। ते इति किम् ? उदपत्साताम्। उदपत्सत।।
</3-1-60>
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ।। <3-1-61> ।।
`चिण् ते इति वर्तते। `दीपी दीप्तौ(धा.पा.1151), `जनी प्रादुर्भावे(धा.पा.1150) `बुध अवगमने(धा.पा.1173), `पूरी आप्यायने(धा.पा.1152), `तायृ संतानपालनयोः(धा.पा.489), `ओप्यायी वृद्धौ(धा.पा.488) इत्येतेभ्यः परस्य च्लेस्तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट।।
</3-1-61>
अचः कर्मकर्त्तरि ।। <3-1-62> ।।
अजन्ताद्धातोः परस्य च्लेः कर्मकर्तरि तशब्दे परतश्चिणादेशो भवति। प्राप्तविभाषेयम्। अकारि कटः स्वयमेव, अकृत कटः स्वयमेव। अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव। अच इति किम् ? अभेदि काष्ठं स्वयमेव। कर्मकर्त्तरि किम् ? अकारि कटो देवदत्तेन।।
</3-1-62>
दुहश्च ।। <3-1-63> ।।
`दुह प्रपूरणे(धा.पा.1015) अस्मात्परस्य च्लेश्चिणादेशो भवत्यन्यतरस्याम्। अदोहि गौः स्वयमेव, अदुग्ध गौः स्वयमेव। कर्मकर्त्तरीत्येव - अदोहि गौर्गोपालकेन।।
</3-1-63>
न रुधः ।। <3-1-64> ।।
`रुधिर् आवरणे(धा.पा.1439) अस्मात्परस्य च्लेः कर्मकर्त्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयमेव। कर्मकर्त्तरीत्येव-- अन्ववारोधि गौर्गोपालकेन।।
</3-1-64>
तपोऽनुतापे च ।। <3-1-65> ।।
`न इति वर्त्तते। `तप संतापे(धा.पा.986)-अस्मात्परस्य च्लेश्चिणादेशो न भवति कर्म कर्त्तर्यनुतापे च। अनुतापः = पश्चात्तापः, तस्य ग्रहणमकर्मकर्त्रर्थम्, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा।।
</3-1-65>
चिण् भावकर्मणोः ।। <3-1-66> ।।
धातोः परस्य च्लेश्चिणादेशो भवति भावे कर्मणि तशब्दे परतः। भावे तावत्-- अशायि भवता। कर्मणि खल्वपि-- अकारि कटो देवदत्तेन। अहारि भारो यज्ञदत्तेन। चिण्ग्रहणं विस्पष्टार्थम्।।
</3-1-66>
सार्वधातुके यक् ।। <3-1-67> ।।
भावकर्मवाचिनि सार्वधातुके परतो धातोर्यक् प्रत्ययो भवति। आस्यते भवता। शय्यते भवता। कर्मणि- - क्रियते कटः। गम्यते ग्रामः। ककारो गुणवृद्धिप्रतिषेधार्थः। यग्विधाने कर्मकर्त्तर्युपसङ्ख्यानम्। विप्रतिषेधाद्धि यकः शपो बलीयस्त्वम्। क्रियते कटः स्वयमेव। पच्यते ओदनः स्वयमेव।।
</3-1-67>
कर्त्तरि शप् ।। <3-1-68> ।।
कर्त्तवाचिनि सार्वधातुके परतो धातोः शप्प्रत्ययो भवति। पकारः स्वरार्थः, शकारः सार्वधातुकसंज्ञार्थः। भवति। पचति।।
</3-1-68>
दिवादिभ्यः श्यन् ।। <3-1-69> ।।
`दिव्-इत्येवमादिभ्यो धातुभ्यः श्यन्प्रत्ययो भवति। शपोऽपवादः। नकारः स्वरार्थः, शकारः सार्वधातुकार्थः। दीव्यति। सीव्यति।।
</3-1-69>
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।। <3-1-70> ।।
उभयत्रविभाषेयम्। `टुभ्राश्रृ टुभ्लाश्रृ दीप्तौ(धा.पा.825/826); `भ्रामु अनवस्थाने(धा.पा.1206), `भ्रमु चलने(धा.पा.851)-द्वयोरपि ग्रहणम्, `क्रमु पादविक्षेपे(धा.पा.473), `क्लमु ग्लानौ(धा.पा.1208), `त्रसी उद्वेगे(धा.पा.1118), `त्रुटी छेदने(धा.पा.1376), `लष कान्तौ(धा.पा.889)-इत्येतेभ्यो वा श्यन् प्रत्ययो भवति। भ्राशते, भ्राश्यते। भ्लाशते, भ्लाश्यते। भ्रमति, भ्राम्यति। क्रामति, क्राम्यति। क्लामति, क्लाम्यति। त्रसति,त्रस्यति। त्रुटति, त्रुट्यति। लषति, लष्यति।।
</3-1-70>
यसोऽनुपसर्गात् ।। <3-1-71> ।।
`यसु प्रयत्ने(धा.पा.1211) दैवादिकः, तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद्विकल्प उच्यते। यसोऽनुपसर्गाद्वा श्यन्प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गादिति किम् ? आयस्यति। प्रयस्यति।।
</3-1-71>
संयसश्च ।। <3-1-72> ।।
सोपसर्गार्थ आरम्भः। सम्पूर्वाच्च यसेर्वा श्यन्प्रत्ययो भवति। संयस्यति, संयसति।।
</3-1-72>
स्वादिभ्यः श्नुः ।। <3-1-73> ।।
`षुञ् अभिषवे(धा.पा.1248) इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति। शपोऽपवादः। सुनोति। सिनोति।।
</3-1-73>
श्रुवः शृ च ।। <3-1-74> ।।
श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः `शृ इत्ययमादेशो भवति। शृणोति,शृण्वन्ति।।
</3-1-74>
अक्षोऽन्यतरस्याम् ।। <3-1-75> ।।
`अक्षू व्याप्तौ(धा.पा.654) भौवादिकः, अस्मादन्यतरस्यां श्नुप्रत्ययो भवति। अक्ष्णोति, अक्षति।।
</3-1-75>
तनूकरणे तक्षः ।। <3-1-76> ।।
`तक्षू त्वक्षू तनूकरणे(धा.पा.655/656)--अस्मात्तनूकरणे वर्तमानादन्यतरस्यां श्नुप्रत्ययो भवति। अनेकार्थत्वाद्धातूनां विशेषेणोपादानम्। तक्षति काष्ठम्, तक्ष्णोति काष्ठम्। तनूकरण इति किम् ? सन्तक्षति वाग्भिः।।
</3-1-76>
तुदादिभ्यः शः ।। <3-1-77> ।।
`तुद व्यथने(धा.पा.1282)-इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति।।
</3-1-77>
रुधादिभ्यः श्नम् ।। <3-1-78> ।।
`रुधिर् आवरणे(धा.पा.1439)-इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति। शपोऽपवादः। मकारो देशविध्यर्थः। शकारः श्नान्नलोपः(6-4-23/2544) इति विशेषणार्थः। रुणद्धि। भिनत्ति।।
</3-1-78>
तनादिकृञ्भ्य उः ।। <3-1-79> ।।
`तनु विस्तारे(धा.पा.1464) --इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपोऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि - करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत्तनादिकार्यं मा भूदिति। तनादिभ्यस्तथासोः(2-4-79/2547) इति विभाषा सिचो लुग् न भवति-अकृत, अकृथाः।।
</3-1-79>
धिन्विकृण्व्योर च ।। <3-1-80> ।।
`हिवि धिवि जिवि प्रीणनार्थाः(धा.पा.591/593/594), `कृवि हिंसाकरणयोः(धा.पा.598)-इत्येतयोर्धात्वोरुप्रत्ययो भवत्यकारश्चान्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावाद् गुणो न भवति।।
</3-1-80>
क्र्यादिभ्यः श्ना ।। <3-1-81> ।।
`डुक्रीञ् द्रव्यविनिमये(धा.पा.1474)-इत्येवमादिभ्यो धातुभ्यः श्नाप्रत्ययो भवति। शपोऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। क्रीणाति। प्रीणाति।।
</3-1-81>
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ।। <3-1-82> ।।
आद्याश्चत्वारो धातवः सौत्राः `स्कुञ् आप्रवणे(धा.पा.1479)--इत्येतेभ्यः श्नाप्रत्ययो भवति श्नुश्च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात्सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, नैतद्विकरणविषयत्वमेव।।
</3-1-82>
हलः श्नः शानज्झौ ।। <3-1-83> ।।
हल उत्तरस्य श्नाप्रत्ययस्य शानजादेशो भवति हौ परतः। मुषाण। पुषाण। हल इति किम् ? क्रीणीहि। हौ इति किम् ? मुष्णाति। `श्नः इति स्थानिनिर्देश आदेशसम्प्रत्ययार्थः। इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत।।
</3-1-83>
छन्दसि शायजपि ।। <3-1-84> ।।
</3-1-84>
छन्दसि विषये श्नः शायजादेशो भवति, शानजपि। `गृभाय जिह्वया मधु(ऋ.<8-17-5>)। शानचः खल्वपि-`बधान देव सवितः(शु.य.1.25)।।
</8-17-5>
व्यत्ययो बहुलम् ।। <3-1-85> ।।
</3-1-85>
यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति। व्यतिगमनं व्यत्ययः = व्यतिहारः, विषयान्तरे विधानम्-क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च। `आण्डा शुष्मस्य भेदति(ऋ.<8-40-11>)। भिनत्तीति प्राप्ते। `ताश्चिन्नु न मरन्ति(ऋ.<1-191-12>)। न म्रियत इति प्राप्ते।
द्विकरणता-इन्द्रो वस्तेन नेषतु। नयत्विति प्राप्ते। त्रिविकरणता--`इन्द्रेण युजा तरुषेम वृत्रम्(ऋ.<7-48-2>)। तीर्यास्म इति प्राप्ते। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्।
`सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च।
व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन।।(म.भा.2.65)
</8-40-11>
लिङ्याशिष्यङ् ।। <3-1-86> ।।
</3-1-86>
आशिषि विषये यो लिङ् तस्मिन्परतश्छन्दमि विषयेऽङ्प्रत्ययो भवति। शपोऽपवादः। छन्दस्युभयथा(3-4-117/3435) इति लिङः सार्वधातुकसंज्ञाप्यस्ति। स्थागागमिवचिवदिशकिरुहयः प्रयोजनम्। स्था--`उपस्थेयं वृषभं तुग्रियाणाम्(म.भा.2.65)। गा-`सत्यमुपगेषम्(तै.सं.<1-2-10>.2)। गमि-ग`गमेम जानतो गृहान्(ऋ.<10-40-11>)। वचि-`मन्त्रं वोचेमाग्नये(ऋ.<1-74-1>)। विद-`विदेयमेनां मनसि प्रविष्टाम्(अ.<19-4-2>)। शकि-`व्रतं चरष्यामि तच्छकेयम्(आ.श्रौ.<8-14-1>)। रुहि-स्वर्गं लोकमारुहेयम्। * दृशेरग्वक्तव्यः *(म.भा.2.65)। `पितरं च दृशेयं मातरं च(ऋ.<1-24-1>) ।।
</1-2-10>
कर्मवत्कर्मणा तुल्यक्रियः ।। <3-1-87> ।।
कर्मणि क्रिया = कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्त्ता कर्मवद्भवति। यस्मिन्कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते, यथा कर्मणि, स कर्ता कर्मवद्भवति = कर्माश्रयाणि कार्याणि प्रतिपद्यते। कर्तरि शप्(3-1-68/2167) इति कर्तृग्रहणमिहानुवृत्तं प्रथमया विपरिणम्यते। यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम्। भिद्यते काष्ठं स्वयमेव। अभेदि काष्ठं स्वयमेव। कारिष्यते कटः स्वयमेव। वत्करणं स्वाश्रयमपि यथा स्यात्- भिद्यते कुसूलेनेति। अकर्मकाणां भावे लः सिद्धो भवति। लिङ्याशिष्यङ्(3-1-86/3434) इति द्विलकारको निर्देशः, तत्र लानुवृत्तेर्लान्तस्य कर्त्ता कर्मवद्भवतीति कुसूलाद् द्विताया न भवति। कर्मणेति किम् ? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत् साध्वसिश्छिनत्ति। साधु स्थाली पचति। धात्वधिकारात्समाने धातौ कर्मवद्भावः (म.भा.2.66)। इह न भवति-- पचत्योदनं देवदत्तः, राध्यत्योदनं स्वयमेवेति। कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थभावकानाम्, न वा कर्तृस्थक्रियाणाम्।
`कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया।
मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया।।
</3-1-87>
तपस्तपःकर्मकस्यैव ।। <3-1-88> ।।
`तप संतापे(धा.पा.986)- अस्य कर्ता कर्मवद्भवति, स च तपःकर्मकस्यैव, नान्यकर्मकस्य। क्रियाभेदाद्विध्यर्थमेतत्। उपवासादीनि तपांसि तापसं तपन्ति। दुःखयन्तीत्यर्थः। स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते। अर्जयतीत्यर्थः। पूर्वेणाप्राप्तः कर्मवद्भावो विधीयते तप्यते तपस्तापसः। अतप्त तपस्तापसः। तपःकर्मकस्यैवेति किम् ? उत्तपति सुवर्णं सुवर्णकारः।।
</3-1-88>
न दुहस्नुनमां यक्चिणौ ।। <3-1-89> ।।
`दुह`स्नु `नम्--इत्येषां कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते, चिण् तु दुहश्च(3-1-63/2769) इति पूर्वमेव विभाषितः। दुग्धे गौः स्वयमेव। अदुग्ध गौः स्वयमेव, अदोहि गौः स्वयमेव। प्रस्नुते गौः स्वयमेव। प्रास्नोष्ट गौः स्वयमेव। नमते दण्डः स्वयमेव। अनंस्त दण्डः स्वयमेव। * यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसङ्ख्यानम् *(म.भा.2.70)। कारयति कटं देवदत्तः। कारयते कटः स्वयमेव। अचीकरत्कटं देवदत्तः। अचीकरत कटः स्वयमेव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव। उदपुपुच्छत गौः स्वयमेव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयमेव। अश्रन्थिष्ट ग्रन्थः
स्वयमेव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकः स्वयमेव। अग्रन्थिष्ट श्लोकः स्वयमेव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयमेव। अवोचच्छ्लोकं देवदत्तः। अवोचत श्लोकः स्वयमेव। आत्मनेपदाकर्मकाणाम् - आहन्ति माणवकं देवदत्तः। आहते माणवकः स्वयमेव। आवधिष्ट माणवकः स्वयमेव। आहतेति वा। विकुर्वते सैन्धवाः स्वयमेव। व्यकृषत सैन्धवाः स्वयमेव।
</3-1-89>
कुषिरजोः प्राचां श्यन्परस्मैपदञ्च ।। <3-1-90> ।।
`कुष निष्कर्षे(धा.पा.1519), `रञ्ज रागे(धा.पा.1168)--अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन्प्रत्ययो भवति, परस्मैपदं च । यगात्मनेपदयोरपवादौ। कुष्यति पादः स्वयमेव। रज्यति वस्त्रं स्वयमेव। प्राचाङ्ग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। व्यवस्थितविभाषा चेयम्। तेन लिट्लिङोः स्यादिविषये च न भवतः। चुकुषे पादः स्वयमेव। ररञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव। रङ्क्षीष्ट वस्त्रं स्वयमेव। कोषिष्यते पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अकोषि पादः स्वयमेव। अरञ्जि वस्त्रं स्वयमेव।।
</3-1-90>
धातोः ।। <3-1-91> ।।
`धातोः इत्ययमधिकारो वेदितव्यः। आतृतीयाध्यायपरिसमाप्तेर्यदित ऊर्ध्वमनुक्रमिष्यामो धातोरित्येवं तद्वेदितव्यम्। वक्ष्यति तव्यत्तव्यानीयरः(3-1-96/2834) इति। कर्त्तव्यम्, करणीयम्। धातुग्रहणमनर्थकम्, यङ्विधौ `धातोः इत्यधिकारात् ? कृदुपपदसंज्ञार्थं तर्हि-अस्मिन्धात्वधिकारे ते यथा स्याताम्, पूर्वत्र मा भूतामिति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्--धातोरित्येवं विहितस्य यथा स्यात्; इह मा भूत्-लूभ्याम्, लूभिरिति।।
</3-1-91>
<K.2.485>
तत्रोपपदं सप्तमीस्थम् ।। <3-1-92> ।।
तत्रैतस्मिन् धात्वधिकारे तृतीये यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। वक्ष्यति -- कर्मण्यण्, कुम्भकारः। स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम्; इतरथा हि सप्तमी <K.2.486> श्रूयते यत्र, तत्रैव स्यात् - स्तम्बेरमः, कर्णेजपः इति। यत्र वा सप्तमीश्रुतिरस्ति सप्तम्यां जनेर्डः इति - उपसरजः, मन्दुरजः इति। स्थग्रहणात्तु सर्वत्र भवति। गुरुसंज्ञाकरणमन्वर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम् - पश्य कुम्भं करोति कटम् इति प्रत्ययो न भवति। <K.2.488> उपपदप्रदेशाः - उपपदमतिङ् इत्येवमादयः।।
</3-1-92>
कृदतिङ् ।। <3-1-93> ।।
अस्मिन्धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्संज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङिति किम् ? चीयात्। स्तूयात्। कृत्प्रदेशाः--कृत्तद्धितसमासाश्च(1-2-46/179) इत्येवमादयः।
</3-1-93>
वाऽसरूपोऽस्त्रियाम् ।। <3-1-94> ।।
अस्मिन्धात्वधिकारेऽसमानरूपोऽपवादप्रत्ययो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा। ण्वुल्तृचौ(3-1-133/2895) इत्युत्सर्गौ, इगुपधज्ञाप्रीकिरः कः(3-1-135/2897) इत्यपवादः, तद्विषये ण्वुल्तृचावपि भवतः। विक्षेपकः, विक्षेप्ता, विक्षिपः। असरूप इति किम् ? कर्मण्यण्(3-2-1/2913) इत्युत्सर्गः, आतोऽनुपसर्गे कः(3-2-3/2915) इत्यपवादः, स नित्यं बाधको भवति। गोदः। कम्बलदः। `नानुबन्धकृतमसारूप्यम्(व्या.प.15)। अस्त्रियामिति किम् ? स्त्रियां क्तिन्(3-3-94/3272) इत्युत्सर्गः, अप्रत्यात्(3-3-102/3279) इत्यपवादः, स बाधक एव भवति। चिकीर्षा। जिहीर्षा।।
</3-1-94>
कृत्याः प्राङ् ण्वुलः ।। <3-1-95> ।।
ण्वुल्तृचौ(3-1-135/2895) इति वक्ष्यति, प्रागेतस्माण्ण्वुल्संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः कृत्यसंज्ञकास्ते वेदितव्याः। तत्रैवोदाहरिष्यामः। कृत्यप्रदेशाः-कृत्यैरधिकार्थवचने(2-1-33/695) कृत्यानां कर्तरि वा(2-3-71/629) इत्येवमादयः।।
</3-1-95>
तव्यत्तव्यानीयरः ।। <3-1-96> ।।
धातोः(3-1-91/2829) इति वर्त्तते। धातोस्तव्यत्, तव्य, अनीयर्-इत्येते प्रत्यया भवन्ति। तकाररेफौ स्वरार्थौ। कर्तव्यम्। कर्तव्यम्। करणीयम्। * वसेस्तव्यत् कर्तरि णिच्च *(म.भा.2.81)। वास्तव्यः। * केलिमर उपसङ्ख्यानाम् *(म.भा.2.81)। पचेलिमा माषाः। भिदेलिमानि काष्ठानि। कर्मकर्तरि चायमिष्यते।
</3-1-96>
अचो चत् ।। <3-1-97> ।।
अजन्ताद्धातोर्यत्प्रत्ययो भवति। तकारः यतोऽनावः(6-1-213/3701) इति स्वरार्थः। गेयम्। पेयम्। चेयम्। जेयम्। अज्ग्रहणं किम्, यावता हलन्ताण्णयतं वक्ष्यति ? अजन्तभूतपूर्वाददपि यथा स्यात्--दित्स्यम्, धित्स्यम्। * तकिशसिचतियतिजनीनामुपसङ्ख्यानम् *(म.भा.2.82)। तकि--तक्यम्। शसि--शस्यम्। चति--चत्यम्। यति--यत्यम्। जनि--जन्यम्। *हनो वा वध च *(म.भा.2.82)। वध्यम्। घात्यम्।।
</3-1-97>
पोरदुपधात् ।। <3-1-98> ।।
पवर्गान्ताद्धातोरकारोपधाद्यत्प्रत्ययो भवति। ण्यतोऽपवादः। पोरिति किम् ? पाक्यम्। वाक्यम्। अदुपधादिति किम् ? किम् ? कोप्यम्। गोप्यम्। तपरकरणं तत्कालार्थम्। आप्यम्।।
</3-1-98>
शकिसहोश्च ।। <3-1-99> >
`शुक्लृ शक्तौ(धा.पा.1262), `षह सर्षणे(धा.पा.853)-अनयोर्धात्वोर्यत्प्रत्ययो भवति शक्यम्। सह्यम्।।
</3-1-99>
गदमदचरयमश्चानुपसर्गे ।। <3-1-100> ।।
`गद व्यक्तायां वाचि(धा.पा.52), `मदी हर्षे(धा.पा.1209), `चर गतिभक्षणयोः(धा.पा.559), `यम उपरमे(धा.पा.985)-इत्येतेभ्यश्चानुपसर्गेभ्यो यत्प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्ग इति किम् ? प्रगाद्यम्। प्रमाद्यम्। यमेः पूर्वेणैव सिद्धेऽनुपसर्गनियमार्थं वचनम्। * चरेराङिचागुरौ *(म.भा.2.83)। आचर्यो देशः। अगुराविति किम् ? आचार्य उपनेता।।
</3-1-100>
अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ।। <3-1-101> ।।
अवद्य, पण्य, वर्या-इत्येते शब्दा निपात्यन्ते; गर्ह्य। पणितव्य, अनिरोध-इत्येतेष्वर्थेषु यथासङ्ख्यम्। अवद्यमिति निपात्यते, गर्ह्यं चेत्तद्भवति। अवद्यं पापम्। अनुद्यमन्यत्। वदः सुपि क्यप् च(3-1-106/2854) । पण्यमिति निपात्यते, पणितव्यं चेत्तद्भवति। पण्यः कम्बलः। पण्या गौः। पाण्यमन्यत्। वर्येति स्त्रियां निपात्यते, अनिरोधश्चेत्तद्भवति। अनिरोधः = अप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्याऽन्या। स्त्रीलिङ्गनिर्देशः किमर्थः ? वार्या ऋत्विजः।।
</3-1-101>
वह्यं करणम् ।। <3-1-102> ।।
वहेर्धातोः करणे यत्प्रत्ययो निपात्यते। वहत्यनेनेति वह्यं शकटम्। करण इति किम् ? वाह्यमन्यत्।।
</3-1-102>
अर्यः स्वामिवैश्ययोः ।। <3-1-103> ।।
`ऋ गतौ(धा.पा.1099)-अस्माण्ण्यति प्राप्ते स्वामिवैश्ययोरभिधेययोर्यत् प्रत्ययो निपात्यते। अर्य स्वामी।
अर्यो वैश्यः। यतोऽनावः(6-1-213/3701) इत्याद्युदात्तत्वे प्राप्ते--*स्वामिन्यन्तोदात्तत्वं च वक्तव्यम् *(म.भा.2.83)। स्वामिवैश्ययोरिति किम् ? आर्यो ब्राह्मणः।।
</3-1-103>
उपसर्या काल्या प्रजने ।। <3-1-104> ।।
`उपसर्या इति निपात्यते, काल्या चेत्प्रजने भवति। उपपूर्वात्सर्तेर्यत्प्रत्ययः। प्राप्तकाला = काल्या। प्रजनः = प्रजननम्, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्राप्तकाला-उपसर्या गौः, उपसर्या वडवा। काल्या प्रजन इति किम् ? उपसार्या शरदि मधुरा।।
</3-1-104>
अजर्यं सङ्गतम् ।। <3-1-105> ।।
अजर्यमिति निपात्यते, सङ्गतं चेद्भवति। जीर्यतेर्नञ्पूर्वात्सङ्गते = सङ्गमने कर्तरि यत्प्रत्ययो निपात्यते। न जीर्यतीत्यजर्यम्। अजर्यमार्यसङ्गतम्। अजर्यं नोऽस्तु सङ्गतम्। सङ्गतमिति किम् ? अजरिता कम्बलः।।
</3-1-105>
वदः सुपि क्यप् च ।। <3-1-106> ।।
`अनुपसर्गे इति वर्तते। वदेर्धातोः सुबन्ते उपपदे अनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद्यच्च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपीति किम् ? वाद्यम्। अनुपसर्ग इत्येव-प्रवाद्यम्।।
</3-1-106>
भुवो भावे ।। <3-1-107> ।।
`सुपि `अनुपसर्गे इत्यनुवर्त्तेते। भवतेर्धातेः सुबन्त उपपदेऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत्तु नानुवर्त्तते। ब्रह्मभूयं गतः, ब्रह्मत्वं गतः। देवभूयं गतः, देवत्वं गतः। भावग्रहणमुत्तरार्थम्। सुपीत्येव-भव्यम्। अनुपसर्ग इत्येव - प्रभव्यम्।।
</3-1-107>
हनस्त च ।। <3-1-108> ।।
`सुपि `अनुसपर्गे इति वर्तते, `भावे इति च । हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप्, प्रत्ययो भवति, तकारश्चान्तादेशः। ब्रह्महत्या। अश्वहत्या। सुपीत्येव-घातः। ण्यत्तु भावे न भवति; अनभिधानात्। अनुपसर्ग इत्येव-प्रघातो वर्त्तते।।
</3-1-108>
एतिस्तुशास्वृदृजुषः क्यप् ।। <3-1-109> ।।
`सुपि `अनुपसर्गे `भावे इति निवृत्तम्। सामान्येन विधानमेतत्। एति, स्तु, शास्, वृ, दृ, जुष्-इत्येतेभ्यः क्यप् प्रत्ययो भवति। इत्यः। स्तुत्यः। शिष्यः। वृत्त्यः आदृत्यः। जुष्यः। क्यबिति वर्त्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम्। ओरावश्यके(3-1-125/2886) इति ण्यतं बाधित्वा क्यबेव भवति। अवश्यस्तुत्यः। वृग्रहणे वृञो ग्रहणमिष्यते, न वृडः। वार्या ऋत्विजः। * शंसिदुहिगुहिभ्यो वेति वक्तव्यम् *। शस्यम्, शंस्यम्। दुह्यम्, दोह्यम्। गुह्यम्, गोह्यम्। * आङ्पूर्वादञ्जेः संज्ञायामुपसङ्ख्यानम् *(म.भा.2.85)। आज्यं घृतम्। कथमुपेयम् ? एरेतद्रूपम् न इणः।।
</3-1-109>
ऋदुपधाच्चाक्लृपिचृतेः ।। <3-1-110> ।।
ऋकारोपधाच्च धातोः क्यप्प्रत्ययो भवति कृपिचृती वर्जयित्वा। वृतु-वृत्यम्। वृधु-वृद्ध्यम्। अक्लृपिचृतेरिति किम् ? कल्प्यम्। चर्त्यम्। तपरकरणं किम् ? `कॄत संशब्दने(धा.पा.1654) ण्यदेव भवति-कीर्त्यम्। * पाणौ सृजेर्ण्यद्वक्तव्यः *। पाणिसर्ग्या रज्युः। * समवपूर्वाञ्च *। समवसर्ग्या।।
</3-1-110>
ई च खनः ।। <3-1-111> ।।
खनेर्धातोः क्यप् प्रत्ययो भवति ईकारश्चान्तादेशः। खेयम्। दीर्घनिर्देशः प्रश्लेषार्थः। तत्र द्वितीय इकारः ये विभाषा(6-4-43/2319) इत्यात्वबाधनार्थः।।
</3-1-111>
भृञोऽसंज्ञायाम् ।। <3-1-112> ।।
भृञो धातोरसंज्ञायां विषये क्यप् प्रत्ययो भवति। भृत्याः कर्मकराः। भर्तव्या इत्यर्थः। असंज्ञायामिति किम् ? भार्यो नाम क्षत्रियः। * सम्पूर्वाद् विभाषा *(म.भा.2.85)सम्भृत्याः,सम्भार्याः।
`संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिद्ध्यति
स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यति।।(म.भा.2.86)
</3-1-112>
मृजेर्विभाषा ।। <3-1-113> ।।
मृजेर्धातोर्विभाषा क्यप् प्रत्ययो भवति। ऋदुपधत्वात् प्राप्तविभाषेयम्। परिमृज्यः, परिमार्ग्यः।।
</3-1-113>
राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ।। <3-1-114> ।।
राजसूय, सूर्य, मृषोद्य, रुच्य, कुप्य, कृष्टपच्य, अव्यथ्य-इत्येते शब्दाः क्यपि निपात्यन्ते। राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः। सूसर्त्तिभ्यां क्यप्, सर्त्तेरुत्वम्, सुवतेर्वा रुडागमः। सरति सुवति वा सूर्यः। मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब् निपात्यते। मृषोद्यम्। रोचतेऽसौ रुच्यः। कर्त्तरि क्यप्। गुपेरादेः कत्वं च संज्ञायाम्। कुप्यम्। गोप्यमन्यत्। कृष्टे पच्यन्ते कृष्टपच्याः। कर्मकर्त्तरि निपातनम्। न व्यथते अव्यथ्यः।।
</3-1-114>
भिद्योद्ध्यौ नदे ।। <3-1-115> ।।
भिदेरुज्झेश्च क्यब् निपात्यते नदेऽभिधेये। उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः। उज्झत्युदकम् उद्ध्यः। नद इति किम् ? भेत्ता। उज्झिता।।
</3-1-115>
पुष्यसिद्ध्यौ नक्षत्रे ।। <3-1-116> ।।
पुषेः सिधेश्चाधिकरणे क्यब् निपात्यते नक्षत्रेऽभिधेये। पुष्यन्त्त्यस्मिन्नर्था इति पुष्यः। सिद्ध्यन्त्यस्मिन्निति सिद्ध्यः। नक्षत्र इति किम् ? पोषणम्, सेधनम्।।
</3-1-116>
विपूयविनीयजित्या मुञ्जकल्कहलिषु ।। <3-1-117> ।।
विपूय, विनीय, जित्य-इत्येते शब्दा निपात्यन्ते यथासङ्ख्यं मुञ्ज, कल्क, हलि-इत्येतेष्वर्थेषु बोध्येषु। विपूर्वात्पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब्निपात्यते। विपूयो मुञ्जः, विपाव्यमन्यत्। विनीयः कल्कः, विनेयमन्यत्, जित्यो हलिः, जेयमन्यत्।।
</3-1-117>
प्रत्यपिभ्यां ग्रहेश्छन्दसि ।। <3-1-118> ।।
प्रति, अपि-इत्येवम्पूर्वाद् ग्रहेः क्यप् प्रत्ययो भवति छन्दसि विषये। `मत्तस्य न प्रतिगृह्यम्(का.सं.14.5)। `तस्मान्नापि गृह्यम्(का.सं.27.3)। छन्दसीति किम्ग ? प्रतिग्राह्यम्। अपिग्राह्यम्।
</3-1-118>
पदास्वैरिबाह्यापक्ष्येषु च ।। <3-1-119> ।।
पदेऽस्वैरिणि बाह्यायां पक्ष्ये चार्थे ग्रहेर्धातोः क्यप् प्रत्ययो भवति। पदे तावत्-प्रगृह्यं पदम्, यस्य प्रगृह्यसंज्ञा विहिता। अवगृह्यं पदम्, यस्यावग्रहः क्रियते। अस्वैरी = परतन्त्रः। गृह्यका इमे। गृहीतका इत्यर्थः। बाह्यायाम्-ग्रामगृह्या सेना। नगरगृह्या सेना। ग्रामनगराभ्यां बहिर्भूतेत्यर्थः। स्त्रीलिङ्गनिर्देशादन्यत्र न भवति। पक्षे
भवः पक्ष्यः। वासुदेवगृह्याः। अर्जुनगृह्याः। तत्पक्षाश्रिता इत्यर्थः।।
</3-1-119>
विभाषा कृवृषोः ।। <3-1-120> ।।
कञो वृषेश्च विभाषा क्यप् प्रत्ययो भवति। करोतेर्ण्यति प्राप्ते वर्षतेर्ऋदुपधत्वान्नित्ये क्यपि प्राप्ते विभाषाऽऽरभ्यते। कृत्यम्, कार्यम्। वृष्यम्, वर्ष्यम्।।
</3-1-120>
युग्यं च पत्त्रे ।। <3-1-121> ।।
`युग्यम् इति निपात्यते, पत्त्रं चेत्तद्भवति। पतत्यनेनेति पत्त्रम्, वाहनमुच्यते। युग्यो गौः। युग्योऽश्वः। युग्यो हस्ती। युजेः क्यप् कुत्वं च निपात्यते। पत्त्र इति किम् ? योगमन्यत्।।
</3-1-121>
अमावस्यदन्यतरस्याम् ।। <3-1-122> ।।
अमाशब्दः सहार्थे वर्त्तते। तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत्प्रत्ययो भवति, तत्रान्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतेऽस्मिन्काले सूर्याचन्द्रमसाविति अमावस्या, अमावास्या। एकदेशविकृतस्यानन्यत्वाद् अमावास्याया वा(4-3-30/1403) इत्यत्रामावस्याशब्दस्यापि ग्रहणं भवति।
`अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम्।
तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।।(म.भा.2.87)
</3-1-122>
छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ।। <3-1-123> ।।
</3-1-123>
निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते। यदिह लक्षणेनानुपपन्नं तत्सर्वं निपातनात्सिद्धम्। निष्टर्क्य इति - `कृती छेदने(धा.पा.1436) इत्यस्मान्निस्पूर्वात्क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते। `निष्टक्र्यं चिन्वीत पशुकामः(ऐ.आ.<5-1-3>)। देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घः, तुगभावश्च-`देवहूयः(श.ब्रा.<2-1-3>.2)। प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप्-`प्रणीयः(श.ब्रा.<3-1-3>.1), `उन्नीयः(श.ब्रा.<3-5-16>.12)। उत्पूर्वाच्छिषेः क्यप्-`उच्छष्यः(मै.सं.<3-9-2>)। `मृङ् प्राणत्यागे(धा.पा.1404), `स्तृञ् आच्छादने(धा.पा.1253)- आभ्यां यत्प्रत्ययः। मर्यः(तै.आ.<1-3-2>)। स्तर्या(श.ब्रा,.<2-1-2>.10)। स्त्रियामेव निपातनम्। `ध्वृ हूर्छने(धा.पा.940) ध्वर्यः। खनेर्यत्-खन्या(तै.सं.<7-4-13>.1)। एस्मादेव ण्यत्--खान्यः। देवश्ब उपपदे यजेर्यत्-देवयज्या(ऋ.<10-30-21>)। स्त्रीलिङ्गनिपातनम्। आङ्पूर्वात्पृच्छेः क्यप्-आपृच्छ्यः(ऋ.<1-60-2>)। प्रतिपूर्वासीव्यतेः। क्यप् षत्वं च-प्रतिषीव्यः(मा.श्रौ.<2-2-2>.35)। ब्रह्मण्युपपदे वदेर्णग्यद्-ब्रह्मवाद्यम्(तै.सं.<2-5-8>.3)। भवतेः स्तौतेश्च ण्यत् आवादेशश्च भवति--भाव्यम्(अ.वे.<13-1-54>)। स्ताव्यः(म.भा.2.88)। उपपूर्वस्य चिनोतेर्ण्यदायादेशौ--उपचाय्यपृडम्(हिरण्यदक्षिणा)(का.सं.11.1)। पृडे चोत्तरपदे निपातनमेतत्। * हिरण्य इति वक्तव्यम् *(म.भा.2.88)। हिरण्याद्न्यत्र उपचेयपृडमेव।
` निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात्। ण्यदायादेश इत्येतावुपचाय्ये निपातितौ।।
ण्यदेकस्माच्चतुर्भ्यः क्यप् चतुर्भ्यश्च यतो विधिः।
ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः।।(म.भा.2.89)
</5-1-3>
ऋहलोर्णत् ।। <3-1-124> ।।
पञ्चम्यर्थे षष्ठी, ऋवर्णान्ताद्धातोर्हलन्ताच्च ण्यप्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम्। वाक्यम्। पाक्यम्।।
</3-1-124>
ओरावश्यके ।। <3-1-125> ।।
अवश्यम्भावः = आवश्यकम्। उवर्णान्ताद्धातोर्ण्यत् प्रत्ययो भवत्यावश्यके द्योत्ये। यतोऽपवादः। लाव्यम्। पाव्यम्। आवश्यके इति किम् ? लव्यम्। आवश्यके द्योत्ये इति चेत्स्वरसमासानुपपत्तिः-अवश्यलाव्यम्, अवश्यपाव्यमिति ? नैष दोषः, मयूरव्यंसकादित्वात्समासः, उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते।।
</3-1-125>
आसुयुवपिरपिलपित्रपिचमश्च ।। <3-1-126> ।।
आङ्पूर्वात्सुनोतेः यु, वपि, रपि, लपि, त्रपि, चम्-इत्येतेभ्यश्च ण्यत् प्रत्ययो भवति। यतोऽपवादः। आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। त्राप्यम्। आचाम्यम्। अनुक्तसमुच्चयार्थश्चकारः। दभि-दाभ्यम्।।
</3-1-126>
आनाय्योऽनित्ये ।। <3-1-127> ।।
</3-1-127>
`आनाय्यः इति निपात्यते, अनित्येऽभिधेये। नयतेराङ्पूर्वाण्ण्यदायादेशौ निपात्येते। आनाय्यो दिक्षिणाग्निः। रूढिरेषा। तस्मादनित्यविशेषे दक्षिणाग्नावेवावतिष्ठते। तस्य चानित्यत्वं नित्यमजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सहैकयोनिस्तत्र एतन्निपातनम्, न दक्षिणाग्निमात्रे; तस्य हि योनिर्विकल्प्यते-- `वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वेति।।(पार.गृ.<1-2-3>)
`आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेत्।
एकयोनौ च तं विद्यादानेयो ह्यन्यथा भवेत्।।i(म.भा.2.89)
</1-2-3>
प्रणाय्योऽसम्मतौ ।। <3-1-128> ।।
</3-1-128>
अविद्यमाना सम्मतिरस्मिन्नित्यसम्मतिः। सम्मननं समतिः = सम्मतता, पूजा। `प्रणाय्यः इति निपात्यतेऽसम्मतावभिधेये। प्रणाय्यश्चोरः। असम्माताविति किम् ? प्रणेयोऽन्यः। यद्येवम्, कथमेतत्-`ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्यान्तेवासिने, नान्यस्मै कस्मैचन(छां.<3-10-5>.6) इति ? सम्मतिरभिलाषोऽप्युच्यते, तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति। तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म प्रब्रूयादिति युज्यते।।
</3-10-5>
पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ।। <3-1-129> ।।
</3-1-129>
पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यम्; माने, हविषि, निवासे, सामिधेन्यां चाभिधेयायाम्। पाय्य इति-माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम्। मेययन्यत्। सम्पूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते-`सान्नाय्यं हविः(तै.सं.<7-5-103>)। सन्नेयमन्यत्। रूढित्वाच्च हविर्विशेषेष्ववतिष्ठते। निपूर्वाच्चिनोतेर्ण्यदायादेशावादिकुत्वं च निपात्यते--निकाय्यो निवासः। निचेयमन्यत्। धाय्येति धाञो ण्यत्प्रत्ययो निपात्यते सामिधेनी चेत्सा भवति-धाय्या सामिधेनी। धेयमन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः, तत्र च धाय्येति न सर्वा सामिधेन्युच्यते, किं तर्हि ? काचिदेव । रूढिशब्दो ह्ययम्। तथा चासामिधेन्यामपि दृश्यते-`धाय्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः(ऐ.ब्रा.12.7) इति।।
</7-5-103>
क्रतौ कुण्डपाय्यसञ्चाय्यौ ।। <3-1-130> ।।
कुण्डपाय्य, संचाय्य-इत्येतौ शब्दौ निपात्येते क्रतावभिधेये। कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो निपात्यते, युक्च। कुण्डेन पीयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः। यतोऽनावः(6-1-213/3701) इति स्वरः। सम्पूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। सञ्चीयतेऽस्मिन् सोम इति सञ्चाय्यः क्रतुः। क्रताविति किम् ? कुण्डपानम्। सञ्चेयः।।
</3-1-130>
अग्नौ परिचाय्योपचाय्यसमूह्याः ।। <3-1-131> ।।
</3-1-131>
परिचाय्य, उपचाय्य, समूह्य-इत्येते शब्दा निपात्यन्ते अग्नावभिधेये। परिपूर्वाच्चिनोतेर्ण्यदायादेशौ निपात्येते। परिचाय्यः(तै.सं.<5-4-11>)। उपचाय्यःग(मै.<3-4-7>)। सम्पूर्वाद्वहेः सम्प्रसारणं, दीर्घत्वं च निपात्यते। `समूह्यं चिन्वीत पुशुकामः(तै.सं.<5-4-11>)। अग्नाविति किम् ? परिचेयम्। उपचेयम्। संवाह्यम्।।
</5-4-11>
चित्याग्निचित्ये च ।। <3-1-132> ।।
चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते। चीयतेऽसौ चित्योऽग्निः। अग्निचयनमेवाग्निचित्या। भावे यकारप्रत्ययस्तुक् च, तेनान्तोदात्तत्त्वं भवति। अग्नावित्येव। चेयमन्यत्।
</3-1-132>
ण्वुल्तृचौ ।। <3-1-133> ।।
`धातेः इति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः, कर्त्ता। हारकः, हर्त्ता। चकारः सामान्यग्रहणाविघातार्थः तुश्छन्दसि(5-3-59/2007), तुरिष्ठेमेयस्सु(6-4-154/2008) इति।।
</3-1-133>
नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।। <3-1-134> ।।
प्रत्येकमादिशब्दः सम्बध्यते। त्रिभ्यो गणेभ्यस्त्रय प्रत्यया यथासङ्ख्यं भवन्ति-नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच्। नन्दिग्रहिपचादयश्च न धातुपाठतः संनिविष्टा गृह्यते, किं तर्हि ? नन्दन रमणेत्येवमादिषु प्रातिपदिकगणेषु अपोद्धृत्य ये पठ्यन्ते ते निर्दिश्यन्ते। * नन्दिवासिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् *। नन्दनः। वासनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। * सहितपिदमेः संज्ञायाम् *(ग.सू.3)। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। सङ्क्रन्दनः। सङ्कर्षणः। सम्पर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण्णत्वम्। वित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः।
ग्रह। उत्सह। उद्वस। उद्भास। स्था। मन्त्र। सम्मर्द। ग्राही। उत्साही। उद्वासी। उद्भासी। स्थायी। मन्त्री। सम्मर्दी। * रक्षश्रुवसवपशां नौ *(ग.सू.24)। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। * याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् *(ग.सू.25)। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। * अचामचित्तकर्तृकाणाम् *(ग.सू.26)। प्रतिषिद्धानामित्येव। अकारी। अहारी। अविनायी। अविशायी। * विशयी विषयी देशे *(ग.सू.27)। विशयी, विषयी देशः। * अभिभावी भूते *(ग.सू.28)। अभिभावी। अपराधी। उपरोधी। परिभावी। परिभवी। इति ग्रह्यादिः।
पच। वच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। सेव। मेष। कोप। मेधा। नर्त्त। व्रण। दश। दंश। दम्भ। जारभरा। श्वपच। पचादिराकृतिगणः।
`अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।
अण्बाधनार्थमेव स्यात्सिध्यन्ति श्वपचादयः।।i(म.भा.2.91)
</3-1-134>
इगुपधज्ञाप्रीकिरः कः ।। <3-1-135> ।।
इगुपधेभ्यो जानातेः प्रीणातेः किरतेश्च कप्रत्ययो भवति। विक्षिपः। विलिखः। बुधः। कृशः। जानातीति ज्ञः। प्रीणातीति। प्रियः। किरतीति किरः। देवसेवमेषादयः पचादौ पठितव्याः।।
</3-1-135>
आतश्चोपसर्गे ।। <3-1-136> ।।
आकारान्तेभ्यो धातुभ्य उपसर्ग उपपदे कप्रत्ययो भवति। णस्यापवादः। प्रस्थः। सुग्लः। सुम्लः।।
</3-1-136>
पाघ्राध्माधेट्दृशः ।। <3-1-137> ।।
पादिभ्यो धातुभ्य उपसर्ग उपपदे शप्रत्ययो भवति। उत्पिबः। विपिबः। उज्जिघ्र। विजिघ्रः। उध्दमः। धेट्-उध्दयः, विधयः। उत्पश्यः। विपश्यः। `उपसर्गे इति केचिन्नानुवर्तयन्ति-पश्यतीति पश्यः। * जिघ्रतेः संज्ञायां प्रतिषेधो वक्तव्यः *(म.भा.2.92)। व्याघ्रः।।
</3-1-137>
अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ।। <3-1-138> ।।
अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति। लिम्पतीति लिम्पः। विन्दतीति विन्दः। धारयतिति धारयः। पारयतीति पारयः। वेदयतीति वेदयः। उदेजयतीत्युदेजयः। चेतयतीति चेतयः। सातिः सौत्रो धातुः-सातयः। साहयः। अनुपसर्गादिति किम् ? प्रलिपः। * नौ लिम्पेरिति वक्तव्यम् *(म.भा.2.92)। निलिम्पा नाम देवाः। * गवादिषु विन्देः संज्ञायाम् *(म.भा.2.92)। गोविन्दः। अरविन्दः।।
</3-1-138>
ददातिदधात्योर्विभाषा ।। <3-1-139> ।।
दाञो धाञश्च विभाषा शप्रत्ययो भवति। णस्यापवादः। ददः, दायः। दधः, धायः। अनुपसर्गादित्येव--प्रधः। प्रदः।।
</3-1-139>
ज्वलितिकसन्तेभ्यो णः ।। <3-1-140> ।।
इतिशब्दः आद्यर्थः। `ज्वल दीप्तौ(धा.पा.805)--इत्येवमादिभ्यो धातुभ्यः `कसगतौ(धा.पा.861) इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति। अचोऽपवादः। ज्वालः, ज्वलः। चालः, चलः। अनुपसर्गादित्येव-प्रज्वलः। * तनोतेर्णस्योपसङ्ख्यानं कर्तव्यम् *(म.भा.2.92)। अवतनोतीत्यवतानः।।
</3-1-140>
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसश्च ।। <3-1-141> ।।
`अनुपसर्गात् इति `विभाषा इति च निवृत्तम्। श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध, आस्रु, संस्रु, अतीण्, अवसा, अवहृ, लिह, श्लिष, श्वस--इत्येतेभ्यश्च णप्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यये सिद्धे पुनर्वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वाऽयमेव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः । लेहः। श्लेषः। श्वासः।।
</3-1-141>
दुन्योरनुपसर्गे ।। <3-1-142> ।।
दुनोतेः, नयतेश्चानुपसर्गे णप्रत्ययो भवति। दुनोतीति दावः। नयतीति नायः। अनुपसर्ग इति किम् ? प्रदवः। प्रणयः।।
</3-1-142>
विभाषा ग्रहः ।। <3-1-143> ।।
विभाषा ग्रहेर्धातोर्णप्रत्ययो भवति। अचोऽपवादः। ग्राहः, ग्रहः। व्यवस्थितविभाषा चेयम्। जलचरे नित्यम्-ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रह एव। * भवतेश्चेति वक्तव्यम् *। भवतीति भावः, भवः।।
</3-1-143>
गेहे कः ।। <3-1-144> ।।
ग्रहेर्धातोः कप्रत्ययो भवति। गेहे कर्त्तरि। गृहं वेश्म। तात्स्थ्याद्दाराश्च। गृह्णन्तीति गृहा दाराः। गृहाणि = वेश्मानि।।
</3-1-144>
शिल्पिनि ष्वुन् ।। <3-1-145> ।।
धातोः ष्वुन्प्रत्ययो भवति शिल्पिनि कर्त्तरि। * नृतिखनिरञ्जिभ्यः परिगणनं कर्त्तव्यम् *। नर्त्तकः। खनकः। रजकः। नर्त्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।
</3-1-145>
गस्थकन् ।। <3-1-146> ।।
गायतेस्थकन्प्रत्ययो भवति शिल्पिनि कर्त्तरि। गाथकः। गाथिका।
</3-1-146>
ण्युट् च ।। <3-1-147> ।।
चकारेण `ग इत्यनुकृष्यते। गायतेर्ण्युट् प्रत्ययो भवति शिल्पिनि कर्त्तरि। गायनः। गायनी। योगविभाग उत्तरार्थः।।
</3-1-147>
हश्च व्रीहिकालयोः ।। <3-1-148> ।।
चकारेण ण्युडनुकृष्यते। जहातेर्जिहातेश्च धातोर्ण्युट् प्रत्ययो भवति, व्रीहौ काले च कर्त्तरि। हायना नाम व्रीहयः-जहत्युदकमिति कृत्वा। काले-हायनः संवत्सरः, जिहीते भवानिति कृत्वा।।
</3-1-148>
प्रुसृल्वः समभिहारे वुन् ।। <3-1-149> ।।
प्रु-सृ-लू--इत्येतेभ्यो धातुभ्यः समभिहारे वुन्प्रत्ययो भवति। प्रवकः। सरकः। लवकः। समभिहारग्रहणेनात्र साधुकारित्वं लक्ष्यते। साधुकारिणि वुन्विधानात्सकृदपि यः सुष्ठु करोति तत्र भवति। बहुशो यो दुष्टं करोति तत्र न भवति।।
</3-1-149>
आशिषि च <3-1-150> ।।
आशिषि गम्यमानायां धातुमात्राद् वुन्प्रत्ययो भवति। जीवतात् जीवकः। नन्दतात् नन्दकः। आशीः = प्रार्थनाविशेषः। स चेह क्रियाविषयः। अमुष्याः क्रियाया कर्त्ता भवेत् इत्येवमाशास्यते।।
इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
तृतीयाध्यायस्य प्रथमः पादः।
</3-1-150>