सामग्री पर जाएँ

काशिका/तृतीयोऽध्यायः /तृतीयः पादः

विकिस्रोतः तः

अथ तृतीयाध्याये तृतीयः पादः
उणादयो बहुलम् ।। 3-3-1 ।।
`वर्त्तमाने इत्येव, `संज्ञायाम् इति च । उणादयः प्रत्यया वर्त्तमानेऽर्थे संज्ञायां विषये बहुलं भवन्ति । यतो विहितास्ततोऽन्यत्रापि भवन्ति । केचिदविहिता एव प्रयोगत उन्नीयन्ते । `कृवापाजिमिस्वदिसाध्यशूभ्य उण्‌(उ.सू.1)। कारुः, वायुः, पायुः, जायुः, मायुः, स्वादुः, साधुः, आशुः ।
`बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् ।
कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ।।
नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ।।
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद्‌ विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ।।(म.भा.2.138)

भूतेऽपि दृश्यन्ते ।। 3-3-2 ।।
पूर्वत्र वर्त्तमानाधिकाराद् भूतार्थमिदं वचनम् । भूते काले उणादयः प्रत्यया दृश्यन्ते । वृत्तमिदं वर्त्म । चरितं तदिति चर्म । भसितं तदिति भस्म ।
दृशिग्रहणं प्रयोगानुसारार्थम् ।।
भविष्यति गम्यादयः ।। 3-3-3 ।।
भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति । प्रत्ययस्यैव भविष्यत्कालता विधीयते, न प्रकृतेः । गमी ग्रामम् । आगामी । प्रस्थायी । प्रतिरोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी । प्रतियायी । आयावी । भावी ।।

  • अनद्यतन उपसङ्ख्यानम् * (म.भा.2.139)। श्वो गमी ग्रामम् ।।


यावत्पुरानिपातयोर्लट् ।। 3-3-4 ।।
`भविष्यति इत्येव । यावत्पुराशब्दयोर्निपातयोरुपपदयोर्भविष्यति काले धातोर्लट् प्रत्ययो भवति । यावद्‌ भुङ्‌क्ते । पुरा भुङ्‌ते ।
निपातयोरिति किम् ? यावद्दास्यति तावद्भोक्ष्यते । करणभूतया पुरा व्रजिष्यति ।।

विभाषा कदाकर्ह्योः ।। 3-3-5 ।।
कदा, कर्हि-इत्येतयोरुपपदयोर्विभाषा भविष्यति काले धातोर्लट्‌ प्रत्ययो भवति । कदा भुङ्‌क्ते, कदा भोक्ष्यते, कदा भोक्ता । कर्हि भुङ्‌क्ते, कर्हि भोक्ष्यते। कर्हि भोक्ता ।।
किंवृत्ते लिप्सायाम् ।। 3-3-6 ।।
`विभाषा इति वर्त्तते । किमो वृत्तं किंवृत्तम् । वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् । डतरडतमौ चेति परिस9ङ्ख्यानं स्मर्यते । किंवृत्त उपपदे लिप्सायां भविष्यति काले धातोर्विभाषा लट्‌ प्रत्ययो भवति । लिप्सा=लब्धुमिच्छा, प्रार्थनाभिलाषः । कं भवन्तो भोजयन्ति । कं भवन्तो भोजयितारः । लब्धुकामः पृच्छति - कतरो भिक्षां दास्यति, ददाति, दाता वा । कतमो भिक्षां दास्यति, ददाति, दाता वा ।
लिप्सायामिति किम् ? कः पाटलिपुत्त्रं गमिष्यति ।।
लिप्स्यमानसिद्धौ च ।। 3-3-7 ।।
`विभाषा इत्येव । लिप्स्यमानात्सिद्धि=लिप्स्यमानसिद्धिः, लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोर्विभाषा लट्‌ प्रत्ययो भवति । अकिंवृत्तार्थोऽयमारम्भः । यो भक्तं ददाति स स्र्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दाता स स्वर्गं गन्ता । लिप्स्यमानाद्भक्तात्स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति
।।
लोडर्थलक्षणे च ।। 3-3-8 ।।
लोडर्थः प्रेषादिर्लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः, तत्र वर्त्तमानाद्धातोर्भविष्यति काले विभाषा लट्‌ प्रत्ययो भवति । उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व । उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम् ।।
लिङ्‌ चोर्ध्वमौहूर्त्तिके ।। 3-3-9 ।।
`भविष्यति `विभाषा `लोडर्थलक्षणे इति सर्वमनुवर्त्तते । ऊर्ध्वमौहूर्त्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानाद्धातोर्विभाषा लिङ्‌ प्रत्ययो भवति, चकाराल्लट्‌ च । ऊर्ध्वमुहूर्त्ताद्भव ऊर्ध्वमौहूर्त्तिकः । निपातनात्समासः, उत्तरपदवृद्धिश्च । भविष्यतश्चैतद्विशेषणम् । ऊर्ध्वं मुहूर्त्ताद्‌=उपरिमुहूर्तस्य, उपाध्यायश्चेदागच्छेत् उपाध्यायश्चेदागच्छति उपाध्यायश्चेदागमिष्यति उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व ।।
तुमुन्‌ण्वुलौ क्रियायां क्रियार्थायाम् ।। 3-3-10 ।।
`भविष्यति इत्येव । क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्‌ण्वुलौ प्रत्ययौ भवतः । भोक्तुं व्रजति भोजको व्रजति । भुजिक्रियार्थो व्रजिरत्रोपपदम् ।
क्रियायामिति क्रिम् ? भिक्षिष्य इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति दण्डः ।
अथ किमर्थं ण्वृल् विधीयते, यावता ण्वुल्तृचौ(3-1-133/2895) इति सामान्येन विहित एव, सोऽस्मिन्नपि विषये भविष्यति ? लृटा क्रियार्थोपपदेन बाध्यते । वासरूपविधिना सोऽपि भविष्यति ? एवं तर्ह्येतज्ज्ञाप्यते,क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति । तेन कर्त्ता व्रजति, विक्षिपो व्रजतीत्येवमादि निवर्त्त्यंते ।।
भाववचनाश्च ।। 3-3-11 ।।
`भविष्यति इत्येव । भावे(3-3-18/3184) इति प्रकृत्य ये घञादयो विहितास्ते च भाववचना भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति ।
किमर्थमिदम्, यावता विहिता एव ते ? क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन् । वासरूपविधिश्चात्र नास्तीत्युक्तम् ।
अथ वचनग्रहणं किमर्थम् ? वाचका यथा स्युः । कथं च वाचका भवन्ति ? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस्तथैव भवन्ति, नासामञ्जस्येनेति । पाकाय व्रजति । भूतये व्रजति । पुष्टये व्रजति ।।
अण्‌ कर्मणि च ।। 3-3-12 ।।
`भविष्यति इत्येव । चकारः सन्नियोगार्थः । धातोरण्प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम् । कर्मण्यण्‌(3-2-1/2913) इति सामान्येन विहितो वासरूपविधेरभावाद् ण्वुला बाधितः पुनरण्विधीयते, सोऽपवादत्वाद् ण्वुलं बाधते, परत्वाच्च कादीन् । तेनापवादविषयेऽपि भवत्येव - काण्डलावो व्रजति, अश्वदायो व्रजति, गोदायो व्रजति । कम्बलदायो व्रजति ।।
लृट्‌ शेषे च ।। 3-3-13 ।।
`भविष्यति इत्येव । शेषः क्रियार्थोपपदादन्यः । शेषे शुद्धे भविष्यति काले चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट् प्रत्ययो भवति । करिष्यामीति व्रजति । हरिष्यामीति व्रजति । शेषे खल्वपि करिष्यति, हरिष्यति ।
लृटः सद्वा ।। 3-3-14 ।।
लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः । व्यवस्थितविभाषेयम् । तेन यथा लटः शतृशानचौ, तथाऽस्यापि भवतः । अप्रथमासमानाधिकरणादिषु नित्यम् । अन्यत्र विकल्पः - करिष्यन्तं देवदत्तं पश्य, करिष्यमाणं देवदत्तं पश्य । हे करिष्यन्‌, हे करिष्यमाण । अर्जयिष्यमाणो वसति ।
प्रथमासमानाधिकरणे विकल्पः - करिष्यन्देवदत्तः, करिष्यमाणो देवदत्तः । करिष्यते, करिष्यति ।।
अनद्यतने लुट्‌ ।। 3-3-15 ।।
`भविष्यति इत्येव । भविष्यदनद्यतनेऽर्थे वर्त्तमानाद्‌ धातोर्लृट्‌ प्रत्ययो भवति । लृटोऽपवादः । श्वः कर्ता । श्वो भोक्ता । `अनद्यतने इति बहुव्रीहिनिर्देशः, तेन व्यामिश्रे न भवति - अद्य श्वो वा ममिष्यतीति ।

  • परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या *(म.भा.2.143) । इयं नु कदा गन्ता, यैवं पादौ निदधाति । अयं कदाऽध्येता, य एवमनभियुक्तः ।।

पदरुजविशस्पृशो घञ्‌ ।। 3-3-16 ।।
`भविष्यति इति निवृत्तम् । इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः । पदादिभ्यो धातुभ्यो घञ्‌ प्रत्ययो भवति । पद्यतेऽसौ पादः । रुजत्यसौ रोगः । विशत्यसौ वेशः ।

  • स्पृश उपताप इति वक्तव्यम् *(म.भा.2.144) । स्पृशतीति स्पर्श उपतापः । ततोऽन्यत्र पचाद्यच्‌ भवति - स्पर्शो देवदत्तः । स्वरे विशेषः ।।

सृस्थिरे ।। 3-3-17 ।।
सर्त्तेर्धातोः स्थिरे कर्त्तरि घञ्‌ प्रत्ययो भवति । स्थिर इति कालान्तरस्थायी पदार्थ उच्यते, स चिरं तिष्ठन्‌ कालान्तरं सरतीति धात्वर्थस्य कर्त्ता युज्यते । चन्दनसारः । खदिरसारः ।
स्थिरे इति किम् ? सर्त्ता, सारकः ।

  • व्याधिमत्स्यबलेष्विति वक्तव्यम् *(म.भा.2.144) । अतीसारो व्याधिः । विसारो मत्स्यः । सारो बलम् ।।

भावे ।। 3-3-18 ।।
भावे वाच्ये धातोर्घञ्‌ प्रत्ययो भवति । पाकः । त्यागः । रागः । क्रियासामान्यवाची भवतिः, तेनार्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति । धात्वर्थश्च धातुनैवोच्यते । यस्तस्य सिद्धता नाम धर्मः, तत्र घञादयः प्रत्यया विधीयन्ते ।
पुंल्लिङ्गैकवचनं चात्र न तन्त्रम् । लिङ्गान्तरे वचनान्तरेऽपि चात्र प्रत्यया भवन्त्येव - पक्तिः, पक्वम्, पचनम् । पाकौ, पाका इति ।।
अकर्तरि च कारके संज्ञायाम् ।। 3-3-19 ।।
कर्तृवर्जिते कारके संज्ञायां विषये धातोर्घञ्‌ भवति । प्रास्यन्ति तं प्रासः । प्रसीव्यन्ति तं प्रसेवः । आहरन्ति तस्माद्रसमित्याहारः । मधुराहारः । तक्षशिलाहारः ।
अकर्त्तरीति किम् ? मिषत्यसौ मेषः । संज्ञायामिति किम् ? कर्त्तव्यः कटः ।
चकारः संज्ञाव्यभिचारार्थः । को भवता दायो दत्तः । को भवता लाभो लब्धः । कारकग्रहणं पर्युदासे न कर्त्तव्यम् ? तत्क्रियते प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञापनार्थम् - आदेच उपदेशेऽशिति(6-1-45/2370) इति । इत उत्तरम् `भावे `अकर्त्तरि च कारके इति च द्वयमनुवर्त्तते ।।
परिमाणाख्याया सर्वेभ्यः ।। 3-3-20 ।।.
परिमाणाख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यो घञ्‌ प्रत्ययो भवति । एकस्तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । `कॄ विक्षेपे(धा.पा.1410) द्वौ कारौ । त्रयः काराः । सर्वग्रहणमपोऽपि बाधनार्थम् । पुरस्तादपवादन्यायेन(व्या.प.9) ह्यचमेव बाधेत, नापम् ।
परिमाणाख्यायामिति किम् ? निश्चायः । आख्याग्रहणं रूढिनिरासार्थम् । तेन सङ्ख्यापि गृह्यते, न प्रस्थाद्येव । घञनुक्रमणमजपोर्विषये, स्त्रीप्रत्ययास्तु न बाध्यन्ते - एका तिलोच्छित्तिः, द्वे प्रसूती ।

  • दारजारौ कर्तरि णिलुक् च *(म.भा.2.147) दारयन्तीति दाराः । जरयन्तीति जाराः ।।

इङश्च ।। 3-3-21 ।।
इङो धातोर्घञ्‌ प्रत्ययो भवति । अचोऽपवादः । अध्यायः । उपेत्यास्मादधीते उपाध्यायः ।

  • अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् * (म.भा.2.147)। उपाध्याया, उपाध्यायी ।
  • शॄ वायुवर्णनिवृतेषु *(म.भा.2.147) । शारो वायुः । शारो वर्णः । शारो निवृतम् ।।

`गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः(म.भा.2.147) ।
उपसर्गे रुवः ।। 3-3-22 ।।
उपसर्गे उपपदे रौतेर्धातोर्घञ्‌, प्रत्ययो भवति । अपोऽपवादः संरावः । उपरावः ।
उपसर्ग इति किम् ? रवः ।।
समि युद्रुदुवः ।। 3-3-23 ।।
समि उपपदे यु, द्रु, दु इत्येतेभ्यो धातुभ्यो घञ्‌ प्रत्ययो भवति । संयावः । संद्रावः । संदावः ।
समीति किम् ? प्रयवः ।।
श्रिणीभुवोऽनुपसर्गे ।। 3-3-24 ।।
श्रि, णी, भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ्‌ प्रत्ययो भवति । अजपोरपवादः । श्रायः । नायः । भावः ।
अनुपसर्ग इति किम् ? प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञः ? प्रकृष्टो भाव इति प्रादिसमासो भविष्यति । कथं च नयो राज्ञः ? कृत्यल्युटो बहुलम्(3-3-113/2841) इत्यज्‌ भविष्यति ।।
वौ क्षुश्रुवः ।। 3-3-25 ।।
वावुपपदे क्षु, श्रु इत्येताभ्यां धातुभ्यां घञ्‌ प्रत्ययो भवति । अपोऽपवादः । विक्षावः । विश्रावः ।
वाविति किम् ? क्षवः । श्रवः ।।
अवोदोर्नियः ।। 3-3-26 ।।
अव, उत्‌ इत्येतयोरुपपदयोर्नयतेर्धातोर्घञ्‌ प्रत्ययो भवति । अवनायः । उन्नायः ।
कथमुन्नयः पदार्थानाम् ?कृत्यल्युटो बहुलम्(3-3-113/2841) इत्यज्‌ भविष्यति ।।
प्रे द्रुस्तुश्रवः ।। 3-3-27 ।।
प्रशब्द उपपदे द्रु, स्तु, स्रु इत्येतेभ्यो धातुभ्यो घञ्‌ प्रत्ययो भवति । प्रद्रावः । प्रस्तावः । प्रस्रावः ।
प्र इति किम् ? द्रवः । स्तवः स्रवः ।।
निरभ्योः पूल्वोः ।। 3-3-28 ।।
`पू इति पूङ्‌पूञोः सामान्येन ग्रहणम् । `लूञ्‌ छेदने(धा.पा.1484) । यथासङ्ख्यमुपसर्गसम्बन्धः । निरभिपूर्वयोः पूल्वोर्धात्वोर्घञ्‌ प्रत्ययो भवति । निष्पावः । अभिलावः ।
निरभ्योरिति किम् ? पवः । लवः ।।
उन्न्योर्ग्रः ।। 3-3-29 ।।
`गॄ शब्दे(धा.पा.1499), `गॄ निगरणे(धा.पा.1411) द्वयोरपि ग्रहणम् । उन्न्योरुपपदयोः `गॄ इत्येतस्माद्धातोर्घञ्‌ प्रत्ययो भवति । उद्गारः समुद्रस्य । निगारो देवदत्तस्य ।
उन्न्योरिति किम् ? गरः ।।
कॄ धान्ये ।। 3-3-30 ।।
`उन्न्योः इति वर्त्तते । `कॄ इत्येतस्माद्धातोरुन्न्योरुपपदयोर्घञ्‌ प्रत्ययो भवति, धान्यविषयश्चेद्धात्वर्थो भवति । विक्षेपार्थस्य किरतेर्ग्रहणम्, न हिंसार्थस्यः, अनभिधानात् । उत्कारो धान्यस्य । निकारो धान्यस्य ।
धान्य इति किम् ? भैक्ष्योत्करः । पुष्पनिकरः ।।
यज्ञे समि स्तुवः ।। 3-3-31 ।।
यज्ञविषये प्रयोगे सम्पूर्वात्स्तौतेर्घञ्‌ प्रत्ययो भवति । संस्तावश्छन्दोगानाम् । समेत्य स्तुवन्ति यस्मिन्‌ देशे छन्दोगाः स देशः `संस्तावः इत्युच्यते ।
यज्ञ इति किम् ? संस्तवश्छात्रयोः ।।
प्रेस्त्रोऽयज्ञे ।। 3-3-32 ।।
`स्तॄञ्‌ आच्छादने(धा.पा.1253) अस्माद्धातोः प्रशब्दे उपपदे घञ्‌ प्रत्ययो भवति, न चेद्यज्ञविषयः प्रयोगो भवति । शङ्खप्रस्तारः ।
अयज्ञ इति किम् ? बर्हिष्प्रस्तरः ।।
प्रथने वावशब्दे ।। 3-3-33 ।।
`स्तृञ्‌ आच्छादने(धा.पा.1253) अस्माद्धातोर्विशब्द उपपदे घञ्‌ प्रत्ययो भवति प्रथने गम्यमाने, तच्चेत्प्रथनं शब्दविषयं न भवति । प्रथनम् = विस्तीर्णता । पटस्य विस्तारः ।
प्रथन इति किम् ? तृणविस्तरः । । अशब्द इति किम् ? विस्तरो वचसाम् ।।
छन्दोनाम्नि च ।। 3-3-34 ।।
`वौ `स्त्र इति वर्त्तते । विपूर्वात्स्तृणातेश्छन्दोनाम्नि घञ्‌ प्रत्ययो भवति । वृत्तमत्र छन्दो गृह्यते, यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्राह्मणम्; नामग्रहणात् । विष्टारपङ्‌क्तिश्छन्दः । विष्टारबृहती छन्दः । विष्टारपङ्‌क्तिशब्दोऽत्र छन्दोनाम, न घञन्तं शब्दरूपम् । तत्र त्ववयवत्वेन वर्त्तते । `छन्दोनाम्नि इत्यधिकरणसप्तम्येषा ।।
उदि ग्रहः ।। 3-3-35 ।।
उद्युपपदे ग्रहेर्धातोर्घञ्‌ प्रत्ययो भवति । अपोऽपवादः । उद्ग्राहः ।।

  • छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोः*(म.भा.2.148) । हकारस्य भकारः । `उदग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्(वा.सं.17.64) ।।

समि मुष्टौ ।। 3-3-36 ।।
`ग्रहः इत्येव । सम्युपपदे ग्रहेर्धातोर्घञ्‌ भवति मुष्टिविषयश्चेद्धात्वर्थो भवति । मुष्टिः = अङ्‌गुलिसंनिवेशः । अहो मल्लस्य सङ्ग्राहः । अहो मुष्टिकस्य सङ्ग्राहः । दृढमुष्टिताऽऽख्यायते ।
मुष्टाविति किम् ? सङ्ग्रहो धान्यस्य ।।
परिन्योर्नीणोर्द्यूताभ्रेषयोः ।। 3-3-37 ।।
परिशब्दे निशब्दे चोपपदे यथासङ्ख्यं निय इणश्च धातोर्घञ्‌ प्रत्ययो भवति । अचोऽपवादः । द्यूताभ्रेषयोः - अत्रापि यथासङ्ख्यमेव सम्बन्धः, द्यूतविषयश्चेन्नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः । पदार्थानामनपचारो यथाप्राप्तकरणम् = अभ्रेषः । द्यूते तावत्‌ - परिणायेन शारान्‌ हन्ति । समन्तान्नयनेन । अभ्रेषे - एषोऽत्र न्यायः ।
द्यूताभ्रेषयोरिति किम् ? परिणयः । न्ययं गतः पापः ।।
परावनुपात्यय इणः ।। 3-3-38 ।।
परिशब्द उपपदे इणो धातोर्घञ्प्रत्ययो भवति, अनुपात्यये गम्यमाने । क्रमप्राप्तस्यानतिपातोऽनुपात्ययः = परिपाटी । तव पर्यायः । मम पर्यायः ।
अनुपात्यय इति क्रिम् ? कालस्य पर्ययः । अतिपात इत्यर्थः ।।
व्युपयोः शेथेः पर्याये ।। 3-3-39 ।।
वि, उप इत्येतयोरुपपदयोः शेतेर्धातोर्घञ्‌ भवति, पर्याये गम्यमाने । तव विशायः । मम विशायः । तव राजोपशायः । तव राजानमुपशयितुं पर्याय इत्यर्थः ।
पर्याय इति किम् ? विशयः । उपशयः ।।
हस्तादाने चेरस्तेये ।। 3-3-40 ।।
हस्तादाने गम्यमाने चिनोतेर्धातोर्घञ्‌ प्रत्ययो भवति, न चेत्स्तेयं चौर्यं भवति । हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । फलप्रचायः ।
हस्तादान इति किम् ? वृक्षशिखरे फलप्रचयं करोति । अस्तेय इति किम् ? पुष्पप्रचयश्चौर्येण ।

  • उच्चस्य प्रतिषेधो वक्तव्यः * । (उच्चयः) ।।

निवासचितिशरीरोपसमाधानेष्वादेश्च कः ।। 3-3-41 ।।
`चेः इत्येव । निवसन्त्यस्मिन्निति निवासः, चीयतेऽसौ चितिः, पाण्यादिसमुदायः = शरीरम्, राशीकरणम् = उपसमाधानम् एतेष्वर्थेषु चिनोतेर्घञ्‌ प्रत्ययो भवति, धातोरादेश्च ककार आदेशः । निवासे तावत्‌ - चिखल्लिनिकायः । चितौ - आकायमग्निं चिन्वीत । शरीरे-अनित्यकायः । उपसमाधाने - महान्गोमयनिकायः ।
एतेष्विति किम् ? चयः । इह कस्मान्न भवति - महान्‌ काष्ठनिचयः ? बहुत्वमत्र गम्यते, नोपसमाधानम् ।।
सङ्घे चानौत्तराधर्ये ।। 3-3-42 ।।
`चेः इत्येव । प्राणिनां समुदायः = सङ्घः, स च द्वाभ्यां प्रकाराभ्यां भवति - एकधर्मनिवेशेन, औत्तराधर्येण वा; तत्र औत्तराधर्यपर्युदासादितरो गृह्यते । सङ्घे वाच्ये चिनोतेर्धातोर्घञ्‌ प्रत्ययो भवति, आदेश्च कः । भिक्षुकनिकायः । ब्राह्मणनिकायः । वैयाकरणनिकायः ।
औत्तराधर्ये इति किम् ? सूकरनिचयः । प्राणिविषयत्वात्सङ्घस्येह न भवति - कृताकृतसमुच्चयः, प्रमाणसमुच्चयः ।।
कर्मव्यतिहारे णच्‌ स्त्रियाम् ।। 3-3-43 ।।
कर्म = क्रिया । व्यतिहारः = परस्परं करणम् । कर्मव्यतिहारे गम्यमाने धातोर्णच्प्रत्ययो भवति स्त्रीलिङ्गे वाच्ये, तच्च भावे । चकारो विशेषणार्थः,णचः स्त्रियामञ्(5-4-14/3216)इति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्त्तते ।
स्त्रियामिति किम् ? व्यतिपाको वर्त्तते ।
बाधकविषयेऽपि क्वचिदिष्यते - व्यावचोरी, व्यावचर्ची । इह न भवति - व्यतीक्षा, व्यतीहा वर्त्तते, व्यात्युक्षी भवति । तदेतद्वैचित्र्यं कथं लभ्यते ? कृत्यल्युटो बहुलम्(3-3-113/2841) इति भवति ।।
अभिविधौ भाव इनुण्‌ ।। 3-3-44 ।।
अभिविधिः अभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः । अभिविधौ गम्यमाने धातोर्भावे इनुण्‌ भवति । साङ्कूटिनम् । सांराविणम् । सान्द्राविणं वर्त्तते ।
अभिविधाविति किम् ? सङ्कोटः । संरावः । सन्द्रावः ।
भाव इति वर्तमाने पुनर्भावग्रहणं वासरूपनिरासार्थम्, तेन घञ्‌ न भवति । ल्युटा तु समावेश इष्यते - सङ्कूटनं वर्त्तते । तत्कथम् ? कृत्यल्युटो बहुलम्(3-3-113/2841) इति ।।
आक्रोशेऽवन्योर्ग्रहः ।। 3-3-45 ।।
दृष्टानुवृत्तिसामर्थ्याद्‌ घञनुवर्त्तते, नानन्तर इनुण्‌ । `अव, नि इत्येतयोरुपपदयोर्ग्रहेर्धातोर्घञ्‌ प्रत्ययो भवति, आक्रोशे गम्यमाने । आक्रोशः = शपनम् । अवग्राहो हन्त ते वृषल भूयात् । निग्राहो हन्त ते वृषल भूयात् ।
आक्रोश इति किम् ? अवग्रहः पदस्य । निग्रहश्चोरस्य ।।
प्रे लिप्सायाम् ।। 3-3-46 ।।
`ग्रहः इत्येव । प्रशब्द उपपदे ग्रहेर्धातोर्घञ्‌ प्रत्ययो भवति लिप्सायां गम्यमानायाम् । पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी । स्रुवग्राहेण चरति द्विजो दक्षिणार्थी ।
लिप्सायामिति किम् ? प्रग्रहो देवदत्तस्य ।।
परौ यज्ञे ।। 3-3-47 ।।.
परिशब्द उपपदे ग्रहेर्घञ्‌ प्रत्ययो भवति । यज्ञविषयश्चेत्प्रत्ययान्ताभिधेयः स्यात् । उत्तरपरिग्राहः, अधरपरिग्राहः ।
यज्ञ इति किम् ? परिग्रहो देवदत्तस्य ।।
नौ वृ धान्ये ।। 3-3-48 ।।
`वृ इति वृङ्‌वृञोः सामान्येन ग्रहणम् । निशब्दे उपपदे `वृ इत्येतस्माद्धातोर्धान्यविशेषेऽभिधेये घञ्‌ प्रत्ययो भवति । अपोऽपवादः । नीवारा नाम व्रीहयो भवन्ति ।
धान्य इति किम् ? निवरा कन्या ।।
उदि श्रयतियौतिपूद्रुवः ।। 3-3-49 ।।
उच्छब्द उपपदे श्रयत्यादिभ्यो घञ्‌ प्रत्ययो भवति । अजपोरपवादः । उच्छ्रायः । उद्यावः । उत्पावः । उद्द्रावः ।
कथं `पतनान्ताः समुच्छ्रयाः ? वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन सम्बध्यते ।।
विभाषाऽऽङि रुप्लुवोः ।। 3-3-50 ।।.
आङि उपपदे रौतेः प्लवतेश्च विभाषा घञ्‌ प्रत्ययो भवति । आरावः, आरवः । आप्लावः, आप्लवः ।
अवे ग्रहो वर्षप्रतिबन्धे ।। 3-3-51 ।।
`विभाषा इति वर्त्तते । अव उपपदे ग्रहेर्धातोर्घञ्‌ प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये ।। प्राप्तकालस्य वर्षस्य कुतश्चिन्निमित्तादभावः = वर्षप्रतिबन्धः । अवग्राहो देवस्य । अवग्रहो देवस्य ।
वर्षप्रतिबन्ध इति किम् ? अवग्रहः पदस्य ।।
प्रे वणिजाम् ।। 3-3-52 ।।
`ग्रहः इति वर्त्तते । `विभाषा इत्येव । प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ्‌ प्रत्ययो भवति । प्रत्ययान्तवाच्यश्चेद्वणिजां सम्बन्धी भवति । वणिक्सम्बन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम् । तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः । तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा ।
वणिजामिति किम् ? प्रग्रहो देवदत्तस्य ।।
रश्मौ च ।। 3-3-53 ।।
`ग्रहः, `विभाषा, `प्र इति वर्त्तते । प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ्‌ प्रत्ययो भवति, रश्मिश्चेत् प्रत्ययान्तेनाभिधीयते । रथादियुक्तानामश्वादीनां संयमनार्था रज्जुः, सा रश्मिरिह गृह्यते । प्रग्रहः, प्रग्राहः ।।
वृणोतेराच्छादने ।। 3-3-54 ।।
`विभाषा `प्र इति वर्त्तते । प्रशब्द उपपदे वृणोतेर्धातोर्विभाषा घञ्‌ प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते । प्रावारः, प्रवरः ।
आच्छादन इति किम् ? प्रवरा गौः ।।
परौ भुवोऽवज्ञाने ।। 3-3-55 ।।
विभाषा इत्येव । परिशब्द उपपपदे भवतेर्धातोर्विभाषा घञ्‌ प्रत्ययो भवति, अवज्ञाने गम्यमाने । अवज्ञानम् = असत्कारः । परिभावः,परिभवः ।
अवज्ञान इति किम् ? सर्वतो भवनं परिभवः ।।
एरच् ।। 3-3-56 ।।
`भावे `अकर्त्तरि च कारके इति प्रकृतमनुवर्त्तते, यावत् कृत्यल्युटो बहुलम्(3-3-113/2841) इति । इवर्णान्ताद्धातोः भावे(3-3-18/3184) अकर्त्तरि च कारके संज्ञायाम्(3-3-19/3188)अच् प्रत्ययो भवति । घञोऽपवादः । चकारो विशेषणार्थः अन्तः(6-2-143/3877) थाथघञ्क्ताजबित्रकाणाम्(6-2-144/3878) इति । चयः । अयः । जयः । क्षयः ।

  • अज्विधौ भयादीनामुपसङ्ख्यानम् *(म.भा.2.149) । नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ।

</>

  • जवसवौ छन्दसि वक्तव्यौ *(म.भा.2.150) । `ऊर्वोरस्तु मे जवः(पै.<20-36-7>) । `पञ्चौदनसवः(पै.<8-19-3>) ।।

ॠदोरप्‌ ।। 3-3-57 ।।
ॠकारान्तेभ्य उवर्णान्तेभ्यश्च अप्‌ प्रत्ययो भवति । घञोऽपवादः । पित्करणं स्वरार्थम् । करः । गरः । शरः । उवर्णान्तेभ्यः - यवः । स्तवः । लवः । पवः ।
दकारो मुखसुखार्थः । मा भूत्तादपि परस्तपरः ।।
ग्रहवृदृनिश्चिगमश्च ।। 3-3-58 ।।
ग्रहादिभ्यो धातुभ्योऽप्‌ प्रत्ययो भवति । घञोऽपवादः । निश्चिनोतेस्त्वचोऽपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः । निश्चिग्रहणं स्वरार्थम् ।

  • वशिरण्योरुपसङ्ख्यानम् *(म.भा.2.150) । वशः । रणः ।
  • घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् *(म.भा.2.150) । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः पर्वतस्य । प्रस्नात्यस्मिन्प्रस्नः । प्रपिबत्यस्यामिति प्रपा । आविध्यन्ति तेनेत्याविधः । विहन्यन्तेऽस्मिन्निति विघ्नः । आयुध्यते अनेन इति आयुधम्।।

उपसर्गेऽदः ।। 3-3-59 ।।
`अप्‌ इत्येव । उपसर्ग उपपदेऽदेर्धातोरप्‌ प्रत्ययो भवति । विघसः । प्रघसः ।
उपसर्ग इति किम् ? घासः ।।
नौ ण च ।। 3-3-60 ।।
निशब्द उपपदे अदेर्धातोर्णः प्रत्ययो भवति, चकारादप्‌ च । न्यादः । निघसः ।।
व्यधजुपोरनुपसर्गे ।। 3-3-61 ।।
`व्यध, `जप इत्येतयोरनुपसर्गयोरप्‌ प्रत्ययो भवति । घञोऽपवादः । व्यधः । जपः ।
अनुपसर्ग इति किम् ? आव्याधा । उपजापः ।।
स्वनहसोर्वा ।। 3-3-62 ।।
`अनुपसर्गे इत्येव । स्वनहसोरनुपसर्गयोर्वा अप्‌ प्रत्ययो भवति । स्वनः, स्वानः । हसः, हासः ।
अनुपसर्ग इति किम् ? प्रस्वानः प्रहासः ।
यमः समुपनिविषु च ।। 3-3-63 ।।
`अनुपसर्गे, `वा इति वर्त्तते । सम्‌, उप्‌, नि, वि इत्येतेषूपपदेषु अनुपसर्गेऽपि यमेर्वा अप्‌ प्रत्ययो भवति । घञोऽपवादः । संयमः, संयामः । उपयमः, उपयामः । नियमः, नियामः । वियमः, वियामः ।
अनुपसर्गात्खल्वपि - यमः, यामः ।।
नौ गदनदपठस्वनः ।। 3-3-64 ।।
`अप्‌ इत्येव । निशब्द उपपदे गद, नद, पठ, स्वन इत्येतेभ्यो धातुभ्यो वा अप् प्रत्ययो भवति । घञोऽपवादः । निगदः, निगादः । निनदः, निनादः । निपठः, निपाठः । निस्वनः, निस्वानः ।।
क्वणो वीणायां च ।। 3-3-65 ।।
`नौ `वा `अनुपसर्गे इति वर्त्तते । क्वणतेर्धातोर्निपूर्वादनुपसर्गाच्च वीणायां वा अप्‌ प्रत्ययो भवति । घञोऽपवादः । सोपसर्गार्थं वीणाया ग्रहणम् । निक्वणः, निक्वाणः । अनुपसर्गात्‌ - क्वणः, क्वाणः । वीणायां खल्वपि - कल्याणप्रक्वणा वीणा ।
एतेष्विति किम् ? अतिक्वाणो वर्त्तते ।।
नित्यं पणः परिमाणे ।। 3-3-66 ।।
`पण व्यवहारे स्तुतौ च(धा.पा.439)अस्माद्धातोर्नित्यमप्‌ प्रत्ययो भवति परिमाणे गम्यमाने । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् । मूलकपणः । शाकपणः । संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते तस्येदमभिधानम् ।
परिमाण इति किम् ? पाणः ।।
मदोऽनुपसर्गे ।। 3-3-67 ।।
मदेर्धातोरनुपसर्गादप्‌ प्रत्ययो भवति । घञोऽपवादः । विद्यामदः । धनमदः । कुलमदः ।
अनुपसर्ग इति किम् ? उन्मादः । प्रमादः ।।
प्रमदसंमदौ हर्षे ।। 3-3-68 ।।
`प्रमद `संमद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये । कन्यानां प्रमदः । कोकिलानां संमदः ।
हर्ष इति किम् ? प्रमादः । संमादः ।
प्रसम्भ्यामिति नोक्तम्, निपातनं रूढ्यर्थम् ।।
समुदोरजः पशुषु ।। 3-3-69 ।।
समुदोरुपपदयोरजतेर्धातोः पशुविषये धात्वर्थे अप्‌ प्रत्ययो भवति । घञोऽपवादः । `अज
गतिक्षेपणयोः(धा.पा.230) इति पठ्यते, स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे । समजः पशूनाम् । समुदाय इत्यर्थः । उदजः पशनाम् । प्रेरणमित्यर्थः ।
पशुष्विति किम् ? समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ।।
अक्षेषु ग्लहः ।। 3-3-70 ।।
`ग्लहः इति निपात्यते अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप्‌ सिद्ध एव, लत्वार्थं निपातनम् । अक्षस्य ग्लहः ।
अक्षेष्विति किम् ? ग्रहः पादस्य ।
अन्ये ग्लहिं प्रकृत्यन्तरमाहुः, ते घञं प्रत्युदाहरन्ति - ग्लाह इति ।।
प्रजने सर्त्तेः ।। 3-3-71 ।।
सर्तेर्धातोः प्रजने विषये अप्‌ प्रत्ययो भवति । घञोऽपवादः । प्रजनम् = प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुङ्गवानां गर्भाधानाय प्रथममुपसरणमुच्यते ।।
ह्वः सम्प्रसारणं च न्यभ्युपविषु ।। 3-3-72 ।।
नि, अभि, उप, वि इत्येतेषु उपपदेषु ह्वयतेर्धातोः सम्प्रसारणम्, अप्‌ प्रत्ययश्च भवति। घ?ञोऽपवादः निहवः । अभिहवः । उपहवः । विहवः ।
एतेष्विति किम् ? प्रह्वायः ।।
आङि युद्धे ।। 3-3-73 ।।
आङि उपपदे ह्वयतेर्द्धातोः सम्प्रसारणम्, अप्‌ प्रत्ययश्च भवति, युद्धेऽभिधेये । आहूयन्तेऽस्मिन्नित्याहवः ।
युद्ध इति किम् ? आह्वायः ।।
निपानमाहावः ।। 3-3-74 ।।
आङ्‌ पूर्वस्य ह्वयतेर्धातोः सम्प्रसारणम्, अप्‌ प्रत्ययः, वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते । आहावः पशूनाम्, कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते ।
निपानमिति किम् ? आह्वायः ।।
भावेऽनुपसर्गस्य ।। 3-3-75 ।।
</20-36-7>
अनुपर्गस्य ह्वयतेः सम्प्रसारणम्, अप्‌ प्रत्ययश्च भवित, भावेऽभिधेये । हवः । `हवे हवे सुहवं शूरमिन्द्रम्(ऋ.<6-7-11>) ।
अनुपसर्गस्येति किम् ? आह्वायः । भावग्रहणम् अकर्तरि च कारके संज्ञायाम्(3-3-19/3188) इत्यस्य निरासार्थम् ।।
हनश्च वधः ।। 3-3-76 ।।
`भावे, `अनुपसर्गस्य इति वर्तते । हन्तेर्धातोरनुपसर्गे भावे अप्‌ प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः । तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति । वधश्चोराणाम् । वधो दस्यूनाम् । `भावे इत्येव - घातः ।`अनुपसर्गस्य इत्येव - प्रघातः, विघातः ।
चकारो भिन्नक्रमत्वान्नादेशेन सम्बध्यते, किं तर्हि ? प्रकृतेन प्रत्ययेन । अप्‌ च, यश्चापरः प्राप्नोति । तेन घञपि भवति। घातो वर्त्तते ।।
मूर्तौ घनः ।। 3-3-77 ।।
`हनः इत्येव । मूर्तिः = काठिन्यम् । मूर्तावभिधेयायां हन्तेरप्‌ प्रत्ययो भवति, घनश्चादेशः । अभ्रघनः । दधिघनः ।
कथं घनं दधीति ? धर्मशब्देन धर्मी भण्यते ।।
अन्तर्घनो देशे ।। 3-3-78 ।।
अन्तः पूर्वाद्धन्तेरप् प्रत्ययो भवति, घनादेशश्च भवति, देशेऽभिधेये । अन्तर्घनः, संज्ञीभूतो वाहीकेषु देशविशेष उच्यते ।
अन्ये णकारं पठन्ति - अन्तर्घणो देश इति, तदपि ग्राह्यमेव ।
देश इति किम् ? अन्तर्घातोऽन्यः ।।
अगारैकदेशे प्रघणः प्रघाणश्च ।। 3-3-79 ।।
प्रपूर्वस्य हन्तेः प्रघण, प्रघाण इत्येतौ शब्दौ निपात्येते, अगारैकदेशे वाच्ये । प्रघणः । प्रघाणः । द्वारप्रकोष्ठो बाह्य उच्यते ।
अगारैकदेश इति किम् ? प्रघातोऽन्यः ।।
उद्‌घनोऽत्याधानम् ।। 3-3-80 ।।
उत्पूर्वस्य हन्तेरुद्घन इति निपात्यते, अत्याधानं चेद्भवति । उद्घनः, यस्मिन्काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते। उद्घातोऽन्यः ।।
अपघनोऽङ्गम् ।। 3-3-81 ।।
अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत्तद्भवति । अपघनः, अङ्गम् । (अत्र) अवयवो न सर्व एकदेशः, किं तर्हि ? पाणिः पादश्चाभिधीयते । अपघातोऽन्यः ।।
करणेऽयोविद्रुषु ।। 3-3-82 ।।
`हनः इति वर्त्तते । अयस्‌, वि, द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारकेऽप्‌ प्रत्ययो भवति, घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इति केचिदुदाहरन्ति । कथं णत्वम् ? अरीहणादिषु पाठात् । पूर्वपदात्संज्ञायामगः(8-4-3/857) इति वा ।।
स्तम्बे क च ।। 3-3-83 ।।
`करणे `हनः इति वर्त्तते । स्तम्बशब्द उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति । चकारादप्‌, तत्र घनादेशः । स्तम्बघ्नः । स्तम्बघनः ।

  • स्त्रियां स्तम्बघ्ना स्तम्बघना इति इष्यते * । करण इत्येव, स्तम्बघातः ।।

परौ घः ।। 3-3-84 ।।
`करणे `हनः इत्येव । परिशब्द उपपदे हन्तेर्धातोरप्‌ प्रत्ययो भवति, करणे कारके घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः । पलिघः ।।
उपघ्न आश्रये ।। 3-3-85 ।।
उपपूर्वस्य हन्तेरप्‌ प्रत्यय उपधालोपश्च निपात्यते । आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः ।
आश्रय इति किम् ? पर्वतोपघात एवान्यः ।।
सङ्घोद्‌घौ गणप्रसंशयोः ।। 3-3-86 ।।
समुदोरुपपदयोर्हन्तेर्द्धातोरप्‌ प्रत्ययो भवति, टिलोपो घत्वं च निपात्यते, यथासङ्ख्यं गणेऽभिधेये प्रशंसायां गम्यमानायाम् । सङ्घः पशूनाम् । उद्‌घो मनुष्याणाम् ।।
गणप्रशंसयोरिति किम् ? सङ्घातः ।।
निघो निमितम् ।। 3-3-87 ।।
`निघ इति निपूर्वाद्धन्तेरप्‌ प्रत्ययष्टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति । समन्तान्मितम् = निमितम्, समारोहपरिणाहम् । निघा वृक्षाः । निघाः शालयः ।
निमितमिति किम् ? निघातः ।
ड्‌वितः क्त्रिः ।। 3-3-88 ।।
`भावे `अकर्तरि च कारके इति वर्तते । `डु इद्यस्य तस्माद्‌ड्‌वितो धातोः क्त्रिः प्रत्ययो भवति । क्त्रेर्मम्नित्यम्(4-4-20/1570) इति वचनात् केवलो न प्रयुज्यते । `डुपचष्‌ पाके(धा.पा.997) पक्त्रिमम् ।
`डुवप्‌(धा.पा.1004) उप्त्रिमम् ।
ट्‌वितोऽथुच्‌ ।। 3-3-89 ।।
`टु इद्यस्य तस्मात्‌ ट्‌वितो धातोरथुच्‌ प्रत्ययो भवति भावादौ । `टुवेपृ(धा.पा.367)-वेपथुः । `टुओश्वि(धा.पा.1011)-श्वयथुः । `टुक्षु(धा.पा.1037)-क्षवथुः ।।
यजयाचयतविच्छप्रच्छरक्षो नङ्‌ ।। 3-3-90 ।।
`भावे `अकर्त्तरि च कारके इति वर्तते । यजादिभ्यो धातुभ्यो नङ्‌ प्रत्ययो भवति । ङकारो गुणवृद्धिप्रतिषेधार्थः । यज्ञः । याच्ञा यत्नः । विश्नः । प्रश्नः । रक्ष्णः ।
प्रच्छेरसम्प्रसारणं ज्ञापकात् -प्रश्ने चासन्नकाले(3-2-117/2777) इति ।।
स्वपो नन्‌ ।। 3-3-91 ।।
स्वपेर्धातोर्नन्‌ प्रत्ययो भवति । नकारः स्वरार्थः (6-1-197/3686)। स्वप्नः ।।
उपसर्गे घोः किः ।। 3-3-92 ।।
`भावे `अकर्तरि च कारके इति वर्तते । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति । कित्करणमातो लोपार्थम्(64.64/2372) । प्रदिः । प्रधिः । अन्तर्द्धिः ।।
कर्मण्यधिकरणे च ।। 3-3-93 ।।
`घोः इत्येव । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति, अधिकरणे कारके । जलं धीयतेऽस्मिन्निति जलधिः । शरधिः ।
अधिकरणग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ।।
स्त्रियां क्तिन्‌ ।। 3-3-94 ।।
`भावे `अकर्तरि च कारके इति वर्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्रत्ययो भवति । घञजपामपवादः । कृतिः । चितिः। मतिः ।

  • क्तिन्नाबादिभ्यश्च वक्तव्यः *(म.भा.2.151) । आबादयः प्रयोगतोऽनुसर्तव्याः ।

आप्तिः । राद्धिः । दीप्तिः । ध्वस्तिः । आस्तिः । लब्धिः ।

  • श्रुयजिस्तुभ्य करणे *(म.भा.2.151) श्रूयतेऽनयेति श्रुतिः । इष्टिः । स्तुतिः ।
  • ग्लाम्लाज्याहाभ्यो निः *(म.भा.2.152) । ग्लानिः । म्लानिः । ज्यानिः । हानिः ।
  • ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् *(म.भा.2.152) । कीर्ण्णिः । गीर्ण्णिः । जीर्ण्णिः । शीर्ण्णिः । लूनिः । पूनिः ।
  • सम्पदादिभ्यः क्विप्‌ *(म.भा.2.152) । सम्पत्‌ । विपत्‌ । प्रतिपत्‌ ।
  • क्तिन्नपीष्यते * सम्पत्तिः । विपत्तिः ।।

स्थागापापचो भावे ।। 3-3-95 ।।
`स्त्रियाम् इति वर्त्तते । स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन्‌ प्रत्ययो भवति । अङोऽपवादस्य बाधकः । प्रस्थितिः । उद्गीतिः । सङ्गीतिः । प्रपीतिः । सम्पीति । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् ।
कथमवस्था, संस्थेति ? व्यवस्थायामसंज्ञयाम्(1-1-34/218) इति ज्ञापकात् नात्यन्ताय बाधा भवतीति ।।
मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ।। 3-3-96 ।।
</6-7-11>
`भावे `स्त्रियाम् इति वर्तते । मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन् प्रत्ययो भवति, उदात्तः । प्रकृतिप्रत्यययोर्विभक्तिविपरिणमेन सम्बन्धः । कस्मादेवं कृतम् ? वैचित्र्यार्थम् । `वृष्टिः(ऋ.<1-38-8>) । `इष्टिः(ऋ.44.7) । `पक्तिः(ऋ.<4-24-5>) । `मतिः(ऋ.<1-141-1>) । `वित्तिः(वा.सं.1814) । `भूतिः,(वा.सं.18.14) । `वीतिः(अ.वे.<20-69-3>) । `रातिः(ऋ.<1-34-1>) ।
सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्तार्थं वचनम् । इषेस्तु इच्छेति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते । मन्त्रादन्यत्रादिरुदात्तः ।।
ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ।। 3-3-97 ।।
`मन्त्रे इति नानुवर्त्तते । ऊत्यादयः शब्दा निपात्यन्ते । `उदात्तः इति वर्त्तते । अवतेः ज्वरत्वरस्रिव्यविमवामुपधायाश्च(6-4-20/2654) इति ऊठ्‌। ऊतिः । स्वरार्थं वचनम् । यौतेर्जवतेश्च - यूतिः । जूतिः । दीर्घत्वं च निपात्यते । सातिः - स्यतेः इत्वाभावोऽपि निपात्यते । सनोतेर्वा जनसनखनां सञ्झलोः(6-4-42/2504) इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेहिनोतेर्वा हेतिः । कीर्त्तयतेः - कीर्त्तिः ।।
व्रजयजोर्भावे क्यप्‌ ।। 3-3-98 ।।
`उदात्त इत्येव । व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप्‌ प्रत्ययो भवति, उदात्तः । क्तिनोऽपवादः । व्रज्या । इज्या । पित्करणमुत्तरत्र तुगर्थम् ।।
संज्ञायां समजनिषदनिपतमनविदषुञ्‌शीङ्‌भृञिणः ।। 3-3-99 ।।
`भावे इति न स्वर्यते । पूर्व एवात्रार्थाधिकारः । समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः, संज्ञायां विषये । समजन्त्यस्यामिति समज्या । निषद्या । निपत्या । मत्या । विद्या । सुत्या । शय्या । मृत्या । इत्या । कथं तदुक्तम् --
`स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति इति ?
भावाधिकारः = भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः ।।
कृञः श च ।। 3-3-100 ।।
करोतेर्धातोः स्त्रियां श प्रत्ययो भवति । चकारात् क्यप्‌ च । योगविभागोऽत्र कर्त्तव्यः क्तिन्नपि यथा स्यात् । क्रिया । कृत्या । कृतिः ।।
इच्छा ।। 3-3-101 ।।
इधेर्धातोः शः प्रत्ययो यगभावश्च निपात्यते । इच्छा ।

  • परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् *(म.भा.2.153) । परिचर्या । परिसर्या । मृगया । अटाट्या ।
  • जागर्तेरकारो वा *(म.भा.2.153) । जागरा, जागर्या ।।

अ प्रत्ययात् ।। 3-3-102 ।।
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययो भवति । क्तिनोऽपवादः । चिकीर्षा । जिहीर्षा । पुत्त्रीया । पुत्त्रकाम्या । लोलूया। कण्डूया ।।
गुरोश्च हलः ।। 3-3-103 ।।
हलन्तो यो धातुर्गुरुमान्‌ ततः स्त्रियामकारः प्रत्ययो भवति । क्तिनोऽपवादः । कुण्डा । हुण्डा । ईहा । ऊहा ।
गुरोरिति किम् ? भक्तिः । हल इति किम् ? नीतिः ।।
षिद्भिदादिभ्योऽङ्‌ ।। 3-3-104 ।।
षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ्‌ प्रत्ययो भवति । गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते ।
जॄष्‌--जरा । त्रपूष्‌--त्रपा ।
भिदादिभ्यः खल्वपि--भिदा । छिदा । विदा । क्षिपा । * गुहा गिर्योषध्योः * । श्रद्धा । मेधा । गोधा । आरा । हारा । कारा । क्षिया । तारा । धारा । लेखा। रेखा । चूडा । पीडा । वपा । वसा । सृजा । * क्रपेः सम्प्रसारणं च *(ग.सू.36) । कृपा । * भिधा विदारणे *(ग.सू.29) । भित्तिरन्या । * छिदा द्वैधिकरणे *(ग.सू.30)। छित्तिः अन्या । * आरा शस्त्र्याम् *(ग.सू.32)। आर्तिरन्या * धारा प्रपाते * धृतिरन्या ।।
चिन्तिपूजिकथिकुम्बिचर्चश्च ।। 3-3-105 ।।
`चिति स्मृत्याम्(धा.पा.1536), `पूज पूजायाम्(धा.पा.1643), `कथ वाक्यप्रबन्धे(धा.पा.1852), `कुबि आच्छादने(धा.पा.1656), `चर्च अध्ययने(धा.पा.1713) चुरादिः, इत्येतेभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ्‌ प्रत्ययो भवति । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । चकाराद्युजपि भवति - चिन्तना ।।
आतश्चोपसर्गे ।। 3-3-106 ।।
आकारान्तेभ्यो धातुभ्य उपसर्गे उपपदे स्त्रियामङ्‌ प्रत्ययो भवति । क्तिनोऽपवादः । प्रदा । उपदा । प्रधा । उपधा ।

  • श्रदन्तरोरुपसर्गवद्‌ वृत्तिः * श्रद्धा । अन्तर्द्धा ।।

ण्यासश्रन्थो युच्‌ ।। 3-3-107 ।।
ण्यन्तेभ्यो धातुभ्यः, आस, श्रन्थ इत्येताभ्यां च स्त्रियां युच्प्रत्ययो भवति । अकारस्यपवादः । कारणा । हारणा । आसना । श्रन्थना ।।
कथमास्या ? ऋहलोर्ण्यत्‌(3-1-124/2872) भविष्यति । वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्यैवोत्सर्गापवादस्य ।
श्रन्थिः क्र्यादिर्गृह्यते--`श्रन्थ विमोचनप्रतिहर्षयोः(धा.पा.1511) इति, न चुरादिः-`श्रन्थ ग्रन्थ सम्दर्भे(धा.पा.1839/1840) इति; ण्यन्तत्वेनैव सिद्धत्वात् ।।

  • घट्टिवन्दिविधिभ्य उपसङ्ख्यानम् *(म.भा.2.154) । घट्टना । वन्दना । वेदना ।

घट्टेस्तौदादिकस्य ग्रहणम् -`घट्ट चलने(धा.पा.259) इति, न चौरादिकस्य--`घट्ट संवरणे(धा.पा.259) इत्यस्य ग्रहणम्; तस्य णेरित्येव सिद्धत्वात् ।

  • इषेरनिच्छार्थस्य युज्वक्तव्यः *(म.भा.2.154) । अध्येषणा । अन्वेषणा ।।
  • परेर्वा *(म.भा.2.154) । पर्येषणा, परीष्टिः ।।

रोगाख्यायां ण्धुल्बहुलम् ।। 3-3-108 ।।
रोगाख्यायां गम्यमानायां धातोर्बहुलं ण्वुल् प्रत्ययो भवति । क्तिन्नादीनामपवादः । आख्याग्रहणं रोगस्य चेत्प्रत्ययान्तेन संज्ञा भवति । बहुलग्रहणं व्यभिचारार्थम् । प्रच्छर्द्दिका । प्रवाहिका । विचर्चिका । न च भवति--शिरोऽर्त्तिः ।

  • धात्वर्थनिर्द्देशे ण्वुल्वक्तव्यः *(म.भा.2.154) । आशिका । शायिका वर्त्तते ।।
  • इक्शितपौ धातुनिर्देशे इति वक्तव्यम् *(म.भा.2.154) । भिदिः । छिदिः । पचतिः । पठतिः ।
  • वर्णात्कारः *(म.भा.2.154) । निर्देश इति प्रकृतम् । अकारः । इकारः ।।
  • रादिफः *(म.भा.2.154) । रेफः ।
  • मत्वर्थाच्छः *(म.भा.2.155) । (अकारलोपश्च ।) मत्वर्थीयः ।
  • इणजादिभ्यः *(म.भा.2.155) । आजिः । आतिः । आदिः ।।
  • इक्‌ कृष्यादिभ्यः *(म.भा.2.155) । कृषिः । किरिः ।।

संज्ञायाम् ।। 3-3-109 ।।
संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका । वरणपुष्पप्रचायिका । अभ्यूषखादिका । आचोषखादिका । शालभञ्जिका । तालभञ्जिका ।।
विभाषाख्यानपरिप्रश्रयोरिञ्‌ च ।। 3-3-110 ।।
पूर्वं परिप्रश्नः, पश्चादाख्यानम् ; सूत्रेऽल्पाच्तरस्य पूर्वनिपातः । परिप्रश्ने आख्याने च गम्यमाने धातोरिञ्‌ प्रत्ययो भवति, चकाराद्‌ ण्वुलपि । विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः, कां कारिकामकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, कां कृतिमकार्षीः ? सर्वां कारिमकार्षम्, सर्वां कारिकामकार्षम्, सर्वां कृतिमकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम् । कां गणिमजीगणः ? कां गणनामजीगणः ?कां गणिकामजीगणः ? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम् । एवं कां याजिम्, कां याजिकाम् ? कां याचितम्, कां याचिकाम् ? कां पाचिम्, कां पाचिकाम्, कां पचाम्, कां पक्तिम् ? कां पाठिम्, कां पाठिकाम्, कां पठितिम् ? इति द्रष्टव्यम् ।
आख्यानपरिप्रश्नयोरिति किम् ? कृतिः । हृतिः ।।
पर्यायार्हणोत्पत्तिषु ण्वुच्‌ ।। 3-3-111 ।।
पर्यायः = परिपाटीक्रमः । अर्हणमर्हः = तद्योग्यता । ऋणं तद्यत् परस्य धार्यतेः, उत्पत्तिः = जन्म
एतेष्वर्थेषु धातोर्ण्वुच्‌ प्रत्ययो भवति । क्तिन्नादीनामपवादः । पर्याये तावत्‌--भवतः शायिका । भवतोऽग्रग्रासिका । अर्हे--अर्हति भवानिक्षुभक्षिकाम् । ऋणे--इक्षुभक्षिकां मे धारयसि । ओदनभोजिकाम् । पयः पायिकाम् । उत्पत्तौइक्षुभक्षिका मे उदपादि । ओदनभोजिका । पयः पायिका ।
विभाषेत्येव--चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ।।
आक्रोशे नञ्यनिः ।। 3-3-112 ।।
`विभाषा इति निवृत्तम् । आक्रोशः = शपनम् । आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् ।
आक्रोश इति किम् ? अकृतिस्तस्य कटस्य । नञीति किम् ? मृतिस्ते वृषल भूयात् ।।
कृत्यल्युचो बहुलम् ।। 3-3-113 ।।
`भावे `अकर्त्तरि च कारके इति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट्‌ च बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोऽन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति--स्नानीयं चूर्णम्, दानीयो ब्राह्मणः । करणाधिकरणयोर्भावे च ल्युट्‌ ।
अन्यत्रापि भवति--अपसेचनम्, अवस्रावणम् । राजभोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् ।
बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः । गले चोप्यते गलेचोपकः ।।
नपुंसके भावे क्तः ।। 3-3-114 ।।
नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् । जल्पितम् ।।
ल्युट्‌ च ।। 3-3-115 ।।
नपुंसकलिङ्गे भावे धातोर्ल्युट्‌ प्रत्ययो भवति । हसनं छात्रस्य । शोभनम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ।।
कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ।। 3-3-116 ।।
येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट्‌ प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमासार्थं वचनम् । उपपदसमासो हि नित्यः समासः । पयः पानं सुखम् । ओदनभोजनं सुखम् ।
कर्मणीति किम् ? तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् ? अग्निकुण्डस्योपासनं सुखम् । कर्तुरिति किम् ? गुरोः स्नापनं सुखम् । स्नापयतेर्न गुरुः कर्त्ता, किं तर्हि ? कर्म । शरीरग्रहणं किम् ? पुत्त्रस्य परिष्वञ्जनं सुखम् । सुखम् = मानसी प्रीतिः । सुखमिति किम् ? कण्टकानां मर्दनं दुःखम् । सर्वत्रासमासः प्रत्युदाह्रियते ।।
करणाधिकरणयोश्च ।। 3-3-117 ।।
करणेऽधिकरणे च कारके धातोर्ल्युट्‌ प्रत्ययो भवति । इध्मप्रव्रश्चनः । पलाशशातनः । अधिकरणे--गोदोहनी । सक्तुधानी ।।
पुंसि संज्ञायां घः प्रायेण ।। 3-3-118 ।।
`करणाधिकरणयोः इत्येव । पुंल्लिङ्गयोः करणाधिकरणयोरभिधेययोर्धातोर्घः प्रत्ययो भवति, समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकार्त्स्न्यार्थम् । दन्तच्छदः पटः । अधिकरणे खल्वपि--एत्य तस्मिन्कुर्वन्ति इत्याकरः । आलयः ।
पुंसीति किम् ? प्रसाधनम् । संज्ञायामिति किम् ? प्रहरणो दण्डः । घकारः छादेर्घेऽद्व्युपसर्गस्य(6-4-96/3297) इति विशेषणार्थः ।।
गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च ।। 3-3-119 ।।
गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे । हलश्च(3-3-121/3300) इति घञं
वक्ष्यति, तस्यायमपवादः । गावश्चरन्त्यस्मिन्निति गोचरः । सञ्चरन्तेऽनेनेति सञ्चरः । वहन्ति तेन वहः । व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः । निपातनाद्‌ अजेर्व्यघञपोः(2-4-56/2292) इति वीभावो न भवति । एत्य तस्मिन्नापणन्ते इत्यापणः । निगच्छन्ति तस्मिन्निति निगमः । चकारोऽनुक्तसमुच्चयार्थः । कषः । निकषः ।।
अवेतस्त्रोर्घञ्‌ ।। 3-3-120 ।।
`अव उपपदे तरतेस्स्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ्‌ प्रत्ययो भवति । घस्यापवादः । ञकारो वृद्ध्यर्थः, स्वरार्थश्च । घकार उत्तरत्र कुत्वार्थः । अवतारः । अवस्तारः ।
कथमवतारो नद्याः ? न हीयं संज्ञा । प्रायानुवृत्तेरसंज्ञायामपि भवति ।।
हलश्च ।। 3-3-121 ।।
`पुंसि संज्ञायाम्, `करणाधिकरणयोश्च इति सर्वमनुवर्त्तते । हलन्ताद्धातोः करणाधिकरणयोर्घञ्‌ प्रत्ययो भवति । घस्यापवादः । लेखः । वेदः । वेष्टः । बन्धः । मार्गः । अपामार्गः । वीमार्गः ।।
अध्यायन्यायोद्यावसंहाराधारावायाश्च ।। 3-3-122 ।।
अध्यायादयः शब्दा घञन्ता निपात्यन्ते । पुंसि संज्ञायां घे प्राप्ते घञ्विधीयते । अहलन्तार्थ आरम्भः । अधीयतेऽस्मिन्नित्यध्यायः ।
नीयतेऽनेनेति न्यायः । उद्युवन्ति अस्मिन्नित्युद्यावः । संह्रियन्तेऽनेनेति संहारः । आध्रियतेऽस्मिन्नित्याधारः । आवयन्त्यस्मिन्नित्यावायः ।
चकारोऽनुक्तसमुच्चयार्थः--अवहारः ।।
उदङ्कोऽनुदके ।। 3-3-123 ।।
`उदङ्कः इति निपात्यते, अनुदकविषयश्चेद्धात्वर्थो भवति । उत्पूर्वादञ्चतेर्घञ्निपात्यते, ननु च हलश्च(3-3-121/3300) इति सिद्ध एव घञ्‌ ? उदके प्रतिषेधार्थमिदं वचनम् । तैलोदङ्कः ।
अनुदक इति किम् ? उदकोदञ्चनः । घः कस्मान्न प्रत्युदाह्रियते ? विशेषाभावात् । घञ्यपि थाथादिस्वरेणान्तोदात्त एव ।।
जालमानायः ।। 3-3-124 ।।
`आनायः इति निपात्यते, जालं चेत्तद्भवति । आङ्‌ पूर्वान्नयतेः करणे घञ्‌ निपात्यते । आनायो मत्स्यानाम् । आनायो मृगाणाम् ।।
खनो घ च ।। 3-3-125 ।।
खनतेर्धातोः करणाधिकरणयोर्घः प्रत्ययो भवति । चकाराद्‌ घञ्च । आखनः, आखानः ।

  • डो वक्तव्यः *(म.भा.2.156) । आखः ।
  • डरो वक्तव्यः *(म.भा.2.156) । आखरः ।
  • इको वक्तव्यः *(म.भा.2.156) । आखनिकः ।
  • इकवको वक्तव्यः *(म.भा.2.156) । आखनिकवकः ।।

ईषद्‌दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल्‌ ।। 3-3-126 ।।
`करणाधिकरणयोः इति निवृत्तम् । ईषत्‌, दुस्‌, सु इत्येतेषूपपदेसु कृच्छ्राकृच्छ्रार्थेषु धातोः खल्‌ प्रत्ययो भवति । कृच्छ्रं दुःखम्, तद् दुरो विशेषणम् । अकृच्छ्रं सुखम् , तदितरयोर्विशेषणम्; सम्भवात् । ईषत्करो भवता कटः । दुष्करः । सुकरः । ईषद्भोजः । दुर्भोजः । सुभोजः ।
ईषदादिष्विति किम् ? कृच्छ्रेण कार्यः कटः । कृच्छ्राकृच्छ्रार्थेष्विति किम् ? ईषत्कार्यः ।
लकारः स्वरार्थः । खित्करणमुत्तरत्र मुमर्थम् ।।
कर्तृकर्मणोश्च भूकृञोः ।। 3-3-127 ।।
भवतेः करोतेश्च धातोर्यथासङ्ख्यं कर्त्तरि कर्मणि चोपपदे, चकारादीषदादिषु च खल्‌ प्रत्ययो भवति । ईषदाढ्यम्भवं भवता । दुराढ्यम्भवम् । ईषदाढ्यङ्करः, स्वाढ्यङ्करो देवदत्तो भवता ।।

  • कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम् *(म.भा.2.157) । इह मा भूत्‌--स्वाढ्येन भूयते ।।

आतो युच्‌ ।। 3-3-128 ।।
ईषदादयोऽनुवर्त्तन्ते । `कर्तृकर्मणोः इति न स्वर्यते । कृच्छ्राकृच्छ्रार्थेषु ईषदादिषूपपदेषु आकारान्तेभ्यो धातुभ्यो युच्‌ प्रत्ययो भवति । खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः । ईषद्दानो गौर्भवता । दुर्दानः। सुदानः ।।
छन्दसि गत्यर्थेभ्यः ।। 3-3-129 ।।
</1-38-8>
ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि विषये युच्प्रत्ययो भवति । खलोऽपवादः । `सूपसदनोऽग्निः(तै.सं.<7-5-20>.1) । सूपसदनमन्तरिक्षम् ।।
अन्येभ्योऽपि दृश्यते ।। 3-3-130 ।।.
</7-5-20>
अन्येभ्योऽपि धातुभ्यो गत्यर्थेभ्यश्छन्दसि विषये युच्प्रत्ययो दृश्यते । `सुदोहनामकृणोद् ब्रह्मणे गाम्(नि.11.43) । `सुवेदनामकृणोद् ब्रह्मणे गाम्(ऋ.<10-112-8>) ।।

  • भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्‌ वक्तव्यः *(म.भा.2.157) । दुःशासनः । दुर्योधनः । दुर्दर्शनः । दुर्द्धर्षणः । दुर्मर्षणः ।।

वर्त्तमानसामीप्ये वर्त्तमानवद्वा ।। 3-3-131 ।।
समीपमेव सामीप्यम् । ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम् । वर्त्तमानसमीपे भूते भविष्यति च वर्त्तमानाद्‌ धातोर्वर्त्तमानवत्प्रत्यया वा भवन्ति । वर्त्तमाने लट्‌(3-2-123/2151) इत्यारभ्य यावद्‌ उणादयो बहुलम्(3-3-1/3169) इति वर्त्तमाने प्रत्यया उक्तास्ते भूतभविष्यतोर्विधीयन्ते । कदा देवदत्त आगतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि, अयमागमम्, एषोऽस्म्यागतः । कदा देवदत्त गमिष्यसि ? एष गच्छामि, गच्छन्तमेव मां विद्धि, एष गमिष्यामि, गान्तास्मि ।
वत्करणं सर्वसादृश्यार्थम् । येन विशेषेण वर्त्तमाने प्रत्यया विहिताः प्रकृत्योपपदोपाधिना तथैवात्र भवन्ति । पवमानः । यजमानः । अलङ्करिष्णुः ।
सामीप्यग्रहणं किम् ? विप्रकर्षविवक्षायां मा भूत्‌ । परुदगच्छत्‌ पाटलिपुत्त्रम् । वर्षेण गमिष्यति ।
यो मन्यते - गच्छामीति पदं वर्त्तमाने काल एव वर्त्तते, कालान्तरगतिस्तु वाक्याद्भवति । न च वाक्यगम्यः कालः पदसंस्कारवेलायामुपयुज्यते इति, तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते, तथा च - श्वः करिष्यति, वर्षेण गमिष्यतीति सर्वमुपपद्यते ।।
आशंसायां भूतवच्च ।। 3-3-132 ।।
`वा इत्येव । `वर्त्तमानसामीप्ये इति नानुवर्त्तते । आशंसनमाशंसा = अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा, तस्याश्च भविष्यत्कालो विषयः । तत्र भविष्यति काले आशंसायां गम्यमानायां धातोर्वा भूतवत्प्रत्यया भवन्ति, चकाराद्वर्त्तमानवच्च । उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणमध्यगीष्महि, एते व्याकरणमधीतवन्तः, अधीमहे, अध्येष्यामहे ।
सामान्यातिदेशे विशेषानतिदेशाल्लङ्‌ लिटौ न भवतः ।
आशंसायामिति किम् ? आगमिष्यति ।।
क्षिप्रवचने लृट्‌ ।। 3-3-133 ।।
`आशंसायाम् इत्येव । क्षिप्रवचन उपपदे आशंसायां गम्यमानायां धातोर्लृट्‌ प्रत्ययो भवति । `भूतवच्च इत्यस्यायमपवादः । उपाध्यायश्चेत्क्षिप्रमागमिष्यति, क्षिप्रं व्याकरणमध्येष्यामहे ।
वचनग्रहणं पर्यायार्थम् । क्षिप्रम्, शीघ्रम्, आशु, त्वरितम् अध्येष्यामहे । `न इति वक्तव्ये लृड्‌ग्रहणं लुटोऽपि विषये यथा स्यात्‌ श्वः क्षिप्रमध्येष्यामहे ।।
आशंसावचने लिङ्‌ ।। 3-3-134 ।।
आशंसा येनोच्यते तदाशंसावचनम्, तस्मिन्नुपपदे धातोर्लिङ्‌ प्रत्ययो भवति । `भूतवच्च इत्यस्यायमपवादः
। उपाध्यायश्चेदागच्छेत् आशंसे युक्तोऽधीयीय । आशंसेऽवकल्पये युक्तोऽधीयीय । आशंसे क्षिप्रमधीयीय ।।
नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ।। 3-3-135 ।।
भूतानद्यतने भविष्यदनद्यतने च लङ्‌ लुटौ विहितौ, तयोरयं प्रतिषेधः । अनद्यतनवत्प्रत्ययविधिर्न भवति, क्रियाप्रबन्धे सामीप्ये च गम्यमाने । क्रियाणां प्रबन्धः = सातत्येनानुष्ठानम् । कालानां सामीप्यम् = तुल्यजातीयेनाव्यवधानम् । यावज्जीवं भृशमन्नमदात् । भृशमन्नं दास्यति । यावज्जीवं पुत्त्रोऽध्यापिपत्‌ ।। यावज्जीवमध्यापयिष्यति।
सामीप्ये खल्वपि - येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित । येयममावास्याऽऽगामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते । स गां दास्यते ।
द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञापनाय ।।
भविष्यति मर्यादावचनेऽवरस्मिन् ।। 3-3-136 ।।
`नानद्यतनवत्‌ इति वर्त्तते । अक्रियाप्रबन्धार्थमसामीप्यार्थञ्च वचनम् । भविष्यति काले मर्यादावचने सत्यवरस्मिन्प्रविभागेऽनद्यतनवत्प्रत्ययविधिर्न भवति । योऽयमध्वा गन्तव्य आपाटलिपुत्त्रात् तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्ष्यामहे । तत्र सक्तून्पास्यामः ।
भविष्यतीति किम् ? योऽयमध्वा गत आपाटलिपुत्त्रात् तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्ष्यामहे । तत्र सक्तून्पास्यामः ।
भविष्यतीति किम् ? योऽयमध्वा गत आपाटलिपुत्त्रात् तस्य यदवरं कौशाम्ब्यास्तत्र युक्ता अध्यैमहि, तत्र द्विरोदनम् अभुञ्ज्महि, तत्र सक्तूनपिबाम । मर्यादावचन इति किम् ? योऽयमध्वा निरवधिको गन्तव्यस्तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे, सक्तून्‌ पातास्मः । अवरस्मिन्निति किम् ? योऽयमध्वा गन्तव्य आपाटलिपुत्त्रात् तस्य यत्परं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून्पातास्मः ।
इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृताः, तत्र च विशेषं वक्ष्यति ।।
कालविभागे चानहोरात्राणाम् ।। 3-3-137 ।।
`भविष्यति मर्यादावचनेऽवरस्मिन्‌ इति वर्त्तते । कालमर्यादाविभागे सत्यवरस्मिन्प्रविभागे भविष्यति कालेऽनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्बन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः । पूर्वेणैव सिद्धे वचनमिदमहोरात्रनिषेधार्थम् । योगविभाग उत्तरार्थः । योऽयं संवत्सर आगामी तत्र यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे।`भविष्यति इत्येव - योऽयं वत्सरोऽतीतस्तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि ।
`मर्यादावचने इत्येव - योऽयं निरवधिकः काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे ।`अवरस्मिन्‌ इत्येव । परस्मिन्विभाषां(3-3-138/2796) वक्ष्यति। अनहोरात्राणामिति किम् ? त्रिविधमुदाहरणम् - योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रः, योऽयं त्रिंशद्रात्र आगामी तस्य योऽवरोऽर्द्धमासः, योऽयं त्रिंशदहोरात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे, तत्र सक्तून्पातास्मः । सर्वथा अहोरात्रस्पर्शे प्रतिषेधः ।।
परस्मिन्विभाषा ।। 3-3-138 ।।
`भविष्यति मर्यादावचने `कालविभागे चानहोरात्राणाम् इति सर्वमनुवर्त्तते । कालमर्यादाविभागे सति भविष्यति काले परस्मिन्प्रविभागे विभाषाऽनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्बन्धी प्रविभागः । अवरस्मिन्वर्जं पूर्वमनुवर्त्तते । अवरस्मिन्पूर्वेण प्रतिषेध उक्तः, सम्प्रति परस्मिन्नप्राप्त एव विकल्प उच्यते । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे, अध्येतास्महे, तत्र सक्तून् पास्यामः, तत्र सक्तून्पातास्मः ।
`अनहोरात्राणाम् इत्येव - योऽयं त्रिंशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः ।
`भविष्यति इत्येव - योऽयं संवत्सरोऽतीतस्तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि ।
`मर्यादावचने इत्येव - योऽयं संवत्सरो निरवधिकः काल आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे, तत्र सक्तून्पातस्मः ।
`कालविभागे इत्येव - योऽयमध्वा गन्तव्य आपाटलिपुत्त्रात् तस्य यत्परं कौशाम्ब्यास्तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्महे । इति सर्वत्रानद्यतनवत्प्रत्यया उदाहार्याः ।।
लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ ।। 3-3-139 ।।
`भविष्यति इत्यनुवर्त्तते । हेतुहेतुमतोर्लिङ्‌(3-3-156/2813) इत्येवमादिकं लिङो निमित्तम् । तत्र लिङ्‌निमित्ते भविष्यति काले लृङ्‌ प्रत्ययो भवति क्रियातिपत्तौ सत्याम् । कुतश्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः = क्रियातिपत्तिः । दक्षिणेन चेदायास्यन्न शकटं पर्याभविष्यत्‌ । यदि कमलकमाह्वास्यद्दक्षिणेन मार्गेणन्न शकटं पर्याभविष्यत्‌ ।। अभोक्ष्यत भवान्घृतेन यदि मत्समीपमागमिष्यत्‌ ।।
भविष्यत्कालविषयमेतद्वचनम्, भविष्यदपर्याभवनं च हेतुमत्‌, तत्र हेतुभूतं च कमलकाह्वानम् । लिङ्गिलिङ्गे बुध्वा तदतिपत्तिं च प्रमाणान्तरादगम्य वक्ता वाक्यं प्रयुङ्‌क्ते,यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यदिति, हेतुहेतुमतोराह्वानापर्याभवनयोर्भविष्यत्कालविषययोरतिपत्तिरितो वाक्यादवगम्यते ।।
भूते च ।। 3-3-140 ।।
`लिङ्‌ निमित्ते लृङ्‌ क्रियातिपत्तौ इति सर्वमनुवर्त्तते । पूर्वेण भविष्यति विहितः सम्प्रति भूते विधीयते । भूते च काले लिङ्‌ निमित्ते क्रियातिपत्तौ सत्यां लृङ्‌ प्रत्ययो भवति । उताप्योः समर्थयोर्लिङ्(3-3-152/2809) इत्यारभ्य लिङ्‌ निमित्तेषु विधानमेतत् । प्राक् ततो विकल्पं वक्ष्यति । दृष्टो मया भवत्पुत्त्रोऽन्नार्थी चङ्‌क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्‌ तदाऽभोक्ष्यत, न तु भुक्तवान्‌, अन्येन पथा स गतः ।।
वोताप्योः ।। 3-3-141 ।।
`भूते `लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ इति सर्वमनुवर्त्तते । वा + आ + उताप्योः = वोताप्योः । मर्यादायामयमाङ्‌, नाभिविधौ । उताप्योः समर्थयोर्लिङ्‌(3-3-152/2809) इति वक्ष्यति, प्रागेतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्‌निमित्ते क्रियातिपत्तौ लृङ्‌ वा भवतीत्येतदधिकृतं वेदितव्यम् । वक्ष्यति - विभाषा कथमि लिङ्‌ च(3-3-143/2800), कथं नाम तत्र भवान्वृषलमयाजयिष्यत्‌ । यथाप्राप्तं च - याजयेत् ।।
गर्हायां लडपिजात्वोः ।। 3-3-142 ।।
गर्हा, कुत्सेत्यनर्थान्तरम् । गर्हायां गम्यमानायाम् अपिजात्वोरुपपदयोर्धातोर्लट्‌ प्रत्ययो भवति । वर्त्तमाने लट्(3-2-123/2151)उक्तः कालसामान्ये न प्राप्नोतीति विधीयते । कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद्‌ अस्मिन्विषये बाधते । अपि तत्र भवान्वृषलं याजयति, जातु तत्र भवान्वृषलं याजयति । गर्हामहे, अहो अन्याय्यमेतत् ।। लिङ्‌निमित्ताभावादिह क्रियातिपत्तौ लृङ्‌ न भवति ।।
विभाषा कथमि लिङ्‌ च ।। 3-3-143 ।।
`गर्हायाम् इति वर्त्तते । कथंशब्दे उपपदे गर्हायां गम्यमानायां धातोर्लिङ्प्रत्ययो भवति, चकाराल्लट्‌ च । विभाषाग्रहणं यथास्वं कालविषये विहितानामबाधनार्थम् । कथं नाम तत्र भवान्वृषलं याजयेत्, कथं नाम तत्र भवान्वृषलं याजयति, कथं नाम तत्र भवान्वृषलं याजयिष्यति । कथं नाम तत्र भवान्वृषलं याजयिता । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवान्वृषलमयीयजत्‌ । अयाजयत्‌ । कथं नाम तत्र भवान्वृषलं याजयाञ्चकार । अत्र लिङ्‌निमित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्‌ । भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम् ।
किंवृत्ते लिङ्‌ लृटौ ।। 3-3-144 ।।
`गर्हायाम् इत्येव । विभाषा न स्वर्यते । किंवृत्त उपपदे गर्हायां गम्यमानायां धातोर्लिङ्‌लृटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । लिङ्‌ग्रहणं लटोऽपरिग्रहार्थम् । को नाम वृषलो यं तत्र भवान्‌ याजयेत् । यं तत्र भवान्वृषलं याजयिष्यति । कतरो नाम, कतमो नाम यं तत्र भवान्वृषलं याजयेत् । याजयिष्यति । भूते क्रियातिपत्तौ वा लृङ्‌ । भविष्यति तु नित्यम् - को नाम वृषलो यं तत्र भवानयाजयिष्यत्‌ ।।
अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ।। 3-3-145 ।।
`गर्हायाम् इति निवृत्तम् । अनवक्लृप्तिः= असम्भावना । अमर्षः = अक्षमा । किंवृत्तेऽकिंवृत्ते चोपपदेऽनवक्लृप्त्यमर्षयोर्धातोर्लिङ्‌लृटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन यथासङ्ख्यं न भवति । अनवक्लृप्तौ तावत्‌ नावकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्र भवान्नाम वृषलं याजयेत् । तत्र भवान्नाम वृषलं याजयिष्यति । को नाम वृषलो यं तत्र भवान्‌ वृषलं याजयेत् । को नाम तत्र भवान्वृषलं याजयिष्यति । अमर्षे - न मर्षयामि तत्र भवान्वृषलं याजयेत् । याजयिष्यति । को नाम वृषलो यं तत्र भवान्याजयेत्, याजयिष्यति ।
भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ्‌ भवति भविष्यति नित्यम् - नावकल्पयामि तत्र भवान्नाम वृषलमयाजयिष्यत्‌ ।।
किंकिलास्त्यर्थेषु लृट्‌ ।। 3-3-146 ।।
`अनवक्लृप्त्यमर्षयोः इति वर्त्तते । किंकिलशब्दः समुदाय एवोपपदम् । अस्त्यर्थाः = अस्तिभवतिविद्यतयः । किंकिलास्त्यर्थेषूपपदेषु अनवक्लृप्त्यमर्षयोर्धातोर्लृट्‌प्रत्ययो भवति । लिङोऽपवादः । किंकिल नाम तत्र भवान्वृषलं याजयिष्यति । अस्ति नाम तत्र भवान्वृषलं याजयिष्यति । भवति नाम तत्र भवान्वृषलं याजयिष्यति । विद्यते नाम तत्र भवान्वृषलं याजयिष्यति, न श्रद्दधे, न मर्षयामि । लिङ्‌निमित्तमिह नास्ति, तेन लृङ्‌ न भवति ।।
जातुयदोर्लिङ्‌ ।। 3-3-147 ।।
`अनवक्लृप्त्यमर्षयोः इत्येव । जातु, यदा इत्येतयोरुपपदयोरनवक्लृप्त्यमर्षयोर्गम्यमानयोर्धातोर्लिङ्‌प्रत्ययो भवति । लृटोऽपवादः । जातु तत्र भवान्वृषलं याजयेत् , यन्नाम तत्र भवान्वृषलं याजयेत्‌ न श्रद्दधे, न मर्षयामि ।।

  • जातुयदोर्लिङ्‌ विधाने यदायद्योरुपसङ्ख्यानम् *(म.भा.2.164) यदा भवद्विधः क्षत्त्रियं याजयेत्, यदि भवद्विधः क्षत्त्रियं याजयेत्, न श्रद्दधे न मर्षयामि । क्रियातिपत्तौ भूते वा लृङ्‌। भविष्यति नित्यम् ।।

यच्चयत्रयोः ।। 3-3-148 ।।
`अनवक्लृप्त्यमर्षयोः इत्येव । यच्च, यत्र इत्येतयोरुपपदयोरनवक्लृप्त्यमर्षयोर्गम्यमानयोर्धातोर्लिङ्‌ प्रत्ययो भवति । लृटोऽपवादः । योगविभाग उत्तरार्थः । यथासङ्ख्यं नेष्यते । यच्च तत्रभवान् वृषलं याजयेत् । यत्र तत्रभवान् वृषलं याजयेत् । क्रियातिपत्तौ यथायथं लृङ्‌ भवति ।
गर्हायां च ।। 3-3-149 ।।
`अनवक्लृप्त्यमर्षयोः इति निवृत्तम् । गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरम् । यच्च, यत्र इत्येतयोरुपपदयोर्धातोर्लिङ्‌ प्रत्ययो भवति गर्हायां गम्यमानायाम् । सर्वलकाराणामपवादः । यच्च तत्रभवान् वृषलं याजयेत्‌, यत्र तत्रभवान्‌ वृषलं याजयेद्‌ ऋद्धो वृद्धः सन्‌ ब्राह्मणः, गर्हामहे, अहो अन्याय्यमेतत् । क्रियातिपत्तौ यथायथं लृङ्‌ भवति ।।
चित्रीकरणे च ।। 3-3-150 ।।
`यच्चयत्रयोः इत्येव । चित्रीकरणम् = आश्चर्यम्, अद्‌भुतम्, विस्मयनीयम् । यच्च-यत्रयोरुपपदयोश्चित्रीकरणे गम्यमाने धातोर्लिङ्‌प्रत्ययो भवति । सर्वलकाराणामपवादः । यच्च तत्र भवान्वृषलं याजयेत्, यत्र तत्र भवान्वृषलं याजयेत्, आश्चर्यमेतत् । क्रियातिपत्तौ यथायथं लृङ्‌ भवति ।।
शेषे लृडयदौ ।। 3-3-151 ।।
यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः । शेषे उपपदे चित्रीकरणे गम्यमाने धातोलृट्‌ प्रत्ययो भवति, यदिशब्दश्चेन्न प्रयुज्यते । सर्वलकाराणामपवादः । आश्चर्यम्, चित्रम्, अद्‌भुतम्, अन्धो नाम पर्वतमारोक्ष्यति । बधिरो नाम व्याकरणमध्येष्यते ।
अयदाविति किम् ? आश्चर्यं यदि स भुञ्जीत । यदि सोऽधीयीत । लिङ्‌निमित्ताभावादिह लृङ्‌ न भवति ।।
उताप्योः समर्थलोर्लिङ्‌ ।। 3-3-152 ।।
उत, अपि इत्येतयोः समर्थयोर्धातोर्लिङ्‌ प्रत्ययो भवति । सर्वलकाराणामपवादः । बाढमित्यस्मिन्नर्थे समानार्थत्वमनयोः । उत कुर्यात्‌ । अपि कुर्यात्‌ । उताधीयीत । अप्यधीयीत । बाढमध्येष्यत इत्यर्थः ।
समर्थयोरिति किम् ? उत दण्डः पतिष्यति । अपि द्वारं धास्यति । प्रश्नः प्रच्छादनं च गम्यते । वोताप्योः(3-3-141/2798) इति विकल्पो निवृत्तः । इतः प्रभृति भूतेऽपि लिङ्‌ निमित्ते क्रियातिपत्तौ नित्यं लृङ्‌ ।। भविष्यति तु सर्वत्रैव नित्यः ।।
कामप्रवेदनेऽकच्चिति ।। 3-3-153 ।।
स्वाभिप्रायाविष्करणम् = कामप्रवेदनम् । कामः, इच्छा, अभिलाष इत्यनर्थान्तरम्, तस्य प्रवेदनम् = प्रकाशनम् । तस्मिन्‌ गम्यमानेऽकच्चित्युपपदे धातोर्लिङ्‌प्रत्ययो भवति । सर्वलकाराणामपवादः । कामो मे भुञ्जीत भवान् । अभिलाषो मे भुञ्जीत भवान् ।
अकच्चितीति किम् ?
कच्चिज्जीवति ते मता कच्चिज्जीवति ते पिता ।
माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती ।।
संभावनेऽलमिति चेत्सिद्धाप्रयोगे ।। 3-3-154 ।।
`लिङ्‌ इत्येव । सम्भावनम् = क्रियासु योग्यताध्यवसानम्, शक्तिश्रद्धानम् । तदिदानीमलमर्थेन विशेष्यते । तच्चेत्सम्भावनं पर्याप्तमवितथं भवति । सिद्धाप्रयोग इत्यलमो विशेषणम् - सिद्धश्चेदलमोऽप्रयोगः । क्व चासौ सिद्धः ? यत्र गम्यते चार्थो न चासौ प्रयुज्यते । तदीदृशसम्भावनोपाधिकेऽर्थे वर्त्तमानाद्धातोर्लिङ्‌ प्रत्ययो भवति । सर्वलकाराणामपवादः । अपि पर्वतं शिरसा भिन्द्यात्‌ । अपि द्रोणपाकं भुञ्जीत ।
अलमिति किम् ? विदेशस्थायी देवदत्तः प्रायेण गमिष्यति ग्रामम् । सिद्धाप्रयोग इति किम् ? अलं देवदत्तो हस्तिनं हनिष्यति । क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ्‌ भवति ।।
विभाषा धातौ सम्भावनवचनेऽयदि ।। 3-3-155 ।।
सम्भावनेऽलमिति चेत्‌ सिद्धाप्रयोगे(3-3-154/2811) इति सर्वमनुवर्त्तते । सम्भावनमुच्यते येन स सम्भावनवचनः । सम्भावनवचने धातावुपपदे यच्छब्दवर्जिते धातोर्विभाषा लिङ्‌ भवति । पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनम् । सम्भावयामि भुञ्जीत भवान् । सम्भावयामि भोक्ष्यते भवान् । अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान् । श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान् ।
अयदीति किम् ? सम्भावयामि यद्‌भुञ्जीत भवान् ।।
हेतुहेतुमतोर्लिङ्‌ ।। 3-3-156 ।।
हेतुः = कारणम्, हेतुमत्फलम् । हेतुभूते हेतुमति चार्थे वर्त्तमानाद्‌ धातोर्लिङ्‌ प्रत्ययो भवति । सर्वलकाराणामपवादः । दक्षिणेन चेद्यायान्न शकटं पर्याभवेत् । यदि कमलकमाह्वयेन्न शकटं पर्याभवेत्‌ । दक्षिणेन यानं हेतुः, अपर्याभवनं हेतुमत् । विभाषा चायमिष्यते, भविष्यति च काले, तेन लृडपिभवति - दक्षिणेन चेद्यास्यति न शकटं पर्याभविष्यति । तत्र विभाषाग्रहणं तावदनन्तरमेवानुवर्तते ।
लिङिति वर्तमाने पुनर्लिङ्‌ग्रहणं कालविशेषप्रतिपत्यर्थम् । तेनेह न भवति - हन्तीति पलायते, वर्षतीति धावति । क्रियातिपत्तौ लृङ्‌ भवति ।।
इच्छार्थेषु लिङ्‌ लोटौ ।। 3-3-157 ।।
इच्छार्थेषु धातुषूपपदेषु धातोर्लिङ्‌लोटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । इच्छामि भुञ्जीत भवान् । इच्छामि भुङ्‌क्तां भवान् । कामये । प्रार्थये ।।

  • कामप्रवेदन इति वक्तव्यम् *(म.भा.2.165) ।। इह मा भूत्‌ - इच्छन्‌ करोति ।।

समानकर्तृकेषु तुमुन्‌ ।। 3-3-158 ।।
इच्छार्थेषु धातुषु समानकर्तृकेषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति । तुमुन्प्रकृत्यपेक्षमेव समानकर्तृकत्वम् । इच्छति भोक्तुम् । कामयते भोक्तुम् । वष्टि भोक्तुम् । वाञ्छति भोक्तुम् ।
समानकर्तृकेष्विति - किम् ? देवदत्तं भुञ्जानमिच्छति यज्ञदत्तः । इह कस्मान्न भवति - इच्छन्करोति ? अनभिधानात् ।।
लिङ्‌ च ।। 3-3-159 ।।
इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ्‌ प्रत्ययो भवति । भुञ्जीयेतीच्छति । अधीयीयेतीच्छति । क्रियातिपत्तौ लृङ्‌ भवति । योगविभाग उत्तरार्थः ।।
इच्छार्थेभ्यो विभाषा वर्तमाने ।। 3-3-160 ।।
इच्छार्थेभ्यो धातुभ्यो वर्तमाने काले विभाषा लिङ्‌प्रत्ययो भवति । लटि प्राप्ते वचनम् । इच्छति, इच्छेत्‌ । वष्टि, उश्यात् । कामयते, कामयेत ।।
विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्‌ ।। 3-3-161 ।।
विधिः = प्रेरणम् । निमन्त्रणम् = नियोगकरणम् । आमन्त्रणम् = कामचारकरणम् । अधीष्टः= सत्कारपूर्वको व्यापारः । सम्प्रश्नः = सम्प्रधारणम् । प्रार्थनम् = याच्ञा । विध्याद्यर्थेषु प्रत्ययो भवति । सर्वलकाराणामपवादः । विध्यादयश्च प्रत्ययार्थविशेषणम् । विध्यादिविशिष्टेषु कर्त्रादिषु लिङ्‌ प्रत्ययो भवति ।
विधौ तावत्‌ - कटं कुर्यात्‌ । ग्रामं भवानागच्छेत्‌ । निमन्त्रणे इह भवान्भुञ्जीत । इह भवानासीत । आमन्त्रणे - इह भवानासीत । इह भवान्भुञ्जीत । अधीष्टे - अधीच्छामो भवन्तं माणवकं भवानुपनयेत् । सम्प्रश्ने - किं नु खलु भो व्याकरणमधीयीय । प्रार्थने - भवति मे प्रार्थना व्याकरणमधीयीय ।
लोट्‌ च ।। 3-3-162 ।।
लोट्‌प्रत्ययो भवति धातोर्विध्यादिष्वर्थेषु । योगविभाग उत्तरार्थः । विधौ तावत्‌ - कटं तावद् भवान्करोतु । ग्रामं भवानागच्छतु । निमन्त्रणे - अमुत्र भवानास्ताम् । अमुत्र भवान्भुङ्‌क्ताम् । आमन्त्रणे इह भवान् भुङ्‌क्ताम् । अधीष्टे - अधीच्छामो भवन्तं माणवकं भवानध्यापयतु । माणवकं भवानुपनयताम् । सम्प्रश्ने - किं न खलु भो व्याकरणमध्ययै । प्रार्थने - भवति मे प्रार्थना व्याकरणमध्ययै, छन्दोऽध्ययै ।।
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।। 3-3-163 ।।
प्रेषणम् = प्रैषः, कामचाराभ्यनुज्ञानम् = अतिसर्गः, निमित्तभूतस्य कालस्यावसरः = प्राप्तकालता एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्यया भवन्ति । चकाराल्लोट्‌ च । भवता कटः करणीयः, कर्त्तव्यः, कृत्यः, कार्यः । लोट्‌ खल्वपि - करोतु कटं भवानिह प्रेषितः । भवानतिसृष्टः । भवतः प्राप्तकालः कटकरणे ।।
किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भावकर्मणोर्विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति ? विशेषविहितेनानेन लोटा बाध्यन्ते । वासरूपविधिना भविष्यन्ति ? एवं तर्हि ज्ञापयति`स्त्र्यधिकारात्परेण वासरूपविधिर्नावश्यं भवति इति ।
विधिप्रैषयोः को विशेषः ? केचिदाहुः--अज्ञातज्ञापनं विधिः, प्रेषणं प्रैष इति ।।
लिङ्‌ चोर्ध्वमौहूर्तिके ।। 3-3-164 ।।
प्रैषादयो वर्त्तन्ते । प्रैषादिषु गम्यमानेषु ऊर्ध्वंमौहूर्त्तिकेऽर्थे वर्तमानाद्धातोर्लिङ्‌ प्रत्ययो भवति । चकाराद्यथाप्राप्तं च । ऊर्ध्वं मुहूर्त्तात्‌ = उपरिमुहूर्तस्य भवता खलु कटः कर्त्तव्यः, करणीयः, कार्यः । भवान्खलु कटं कुर्यात्‌, भवान्खलु करोतु । भवानिह प्रेषितः । भवानतिसृष्टः । भवान्प्राप्तकालः ।।
स्मे लोट्‌ ।। 3-3-165 ।।
`प्रैषादिषु `ऊर्ध्वमौहूर्तिके इति वर्तते । स्मशब्द उपपदे प्रैषादिषु गम्यमानेषूर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद्धातोर्लोट्‌ प्रत्ययो भवति । लिङ्‌कृत्यानामपवादः । ऊर्ध्वं मुहूर्ताद्‌ भवान्कटं करोतु स्म । ग्रामं गच्छतुस्म । माणवकमध्यापयतु स्म ।।
अधीष्टेच ।। 3-3-166 ।।
`स्मे इति वर्तते । अधीष्टं व्याख्यातम् । स्मशब्द उपपदेऽधीष्टे गम्यमाने धातोर्लोट्‌ प्रत्ययो भवति । लिङोऽपवादः । अङ्ग स्म राजन्माणवकमध्यापय । अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ।।
कालसमयवेलासु तुमुन्‌ ।। 3-3-167 ।।
कालादिषूपपदेषु धातोस्तुमुन्प्रत्ययो भवति । कालो भोक्तुम् । वेला भोक्तुम् ।। इह कस्मान्न भवति - `कालः पचति भूतानि(मै.उ.6.15) इति ? प्रैषादिग्रहणमिहाभिसम्बध्यते ।।
इह कस्मान्न भवति - कालो भोजनस्य ? वासरूपेण ल्युडपि भवति । उक्तमिदम् - `स्त्र्यधिकरात्परत्र
वासरूपविधिरनित्यः इति ।।
लिङ्‌ यदि ।। 3-3-168 ।।
कालादयोऽनुवर्त्तन्ते । यच्छब्दे उपपदे कालादिषु धातोर्लिङ्‌ प्रत्ययो भवति । तुमुनोऽपवादः । कालो यद्‌ भुञ्जीत भवान् । समयो यद्‌ भुञ्जीत भवान् । वेला यद्‌भुञ्जीत भवान् ।।
अर्हे कृत्यतृचश्च ।। 3-3-169 ।।
अर्हतीत्यर्हः = तद्योग्यः । अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्यया भवन्ति । चकाराल्लिङ्‌ च । भवता खलु कन्या वोढव्या, वाह्या, वहनीया । भवान्‌ खलु कन्याया वोढा । भवान्‌ खलु कन्यां वहेत् । भवानेतदर्हेदिति ।
अथ कस्मादर्हे कृत्यतृचो विधीयन्ते, यावता सामान्येन विहितत्वादर्हेऽपि भविष्यन्ति ? योऽयमिह लिङ्‌ विधीयते, तेन बाधा मा भूदिति । वासरूपविधिश्चानित्यः ।।
आवश्यकाधमर्ण्ययोर्णिनिः ।। 3-3-170 ।।
अवश्यं भावः = आवश्यकम् । उपाधिरयम्, नोपपदम् । अवश्यम्भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति । अवश्यङ्कारी । मयूरव्यंसकादित्वात्समासः ।
आधमर्ण्ये खल्वपि - शतं दायी । सहस्रं दायी । निष्कं दायी ।।
कृत्याश्च ।। 3-3-171 ।।
`आवश्यकाधमर्ण्ययोः इति वर्तते । कृत्यसंज्ञकाश्च प्रत्यया आवश्यकाधमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति । भवता खलु अवश्यं कटः कर्त्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः । आधमर्ण्ये - भवता शतं दातव्यम् । सहस्रं देयम् ।।
किमर्थमिदम्, यावता सामान्येन विहिता अस्मिन्नपि विषये भविष्यन्ति ? विशेषविहितेन णिनिना बाध्येरन् ।।
कर्त्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः ? तत्र केचिदाहुः - भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इहोदाहरणमिति ।।
शकि लिङ्‌ च ।। 3-3-172 ।।
`शकि इति प्रकृत्यर्थविशेषणम् । शक्नोत्यर्थोपाधिके धात्वर्थे लिङ्‌ प्रत्ययो भवति । चकारात्कृत्याश्च । भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः । भवान्‌ खलु भारं वहेत् । भवानिह शक्तः ।
सामान्यविहितानां पुनर्वचनम् - लिङा बाधा मा भूदिति ।
आशिषि लिङ्‌ लोटौ ।। 3-3-173 ।।
आशंसनमाशीः = अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा । प्रकृत्यर्थविशेषणं चैतत् । आशीर्विशिष्टेऽर्थे वर्त्तमानाद्धातोर्लिङ्‌लोटौ प्रत्ययौ भवतः । चिरं जीव्याद्‌ भवान्‌ । चिरं जीवतु भवान् ।
आशिषीति किम् ? चिरं जीवति देवदत्तः ।।
क्तिच्क्तौ च संज्ञायाम् ।। 3-3-174 ।।
`आशिषि इत्येव । आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत्संज्ञा गम्यते । तनुतात्‌ तन्तिः । सनुतात्‌ सातिः । भवतात्‌ भूतिः । मनुतात्‌ मन्तिः । क्तः खल्वपि - देवा एनं देयासुर्देवदत्तः ।
सामान्येन विहितः क्तः पुनरुच्यते - क्तिचा बाधा मा भूदिति । चकारो विशेषणार्थः - न क्तिचि दीर्घश्च(6-4-39/3314) इति ।।
माङि लुङ्‌ ।। 3-3-175 ।।
माङ्युपपदे धातोर्लुङ्‌ प्रत्ययो भवति । सर्वलकाराणामपवादः । मा कार्षीत्‌ । मा हार्षीत्‌ । कथं मा भवतु तस्य पापम्, मा भविष्यतीति ? असाधुरेवायम् । केचिदाहुः - अङिदपरो माशब्दो विद्यते, तस्यायं प्रयोगः ।।
स्मोत्तरे लङ्‌ च ।। 3-3-176 ।।
स्मशब्दोत्तरे माङ्युपदे धातोर्लङ्‌ प्रत्ययो भवति । चकाराल्लुङ्‌च । मा स्म करोत्‌, मा स्म कार्षीत्‌ । मा स्म हरत्, मा स्म हार्षीत्‌ ।।
           इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
                तृतीयाध्याये तृतीयः पादः ।।