काशिका/तृतीयोऽध्यायः /चतुर्थः पादः
अथ तृतीयाध्याये चतुर्थः पादः
धातुसम्बन्धे प्रत्ययाः ।। 3-4-1 ।।
धात्वर्थे धातुशब्दः । धात्वर्थानां सम्बन्धो धातुसम्बन्धः = विशेषणविशेष्यभावः । तस्मिन्सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति । अग्निष्टोमयाज्यस्य पुत्त्रो जनिता । कृतः कटः श्वो भविता । भावि कृत्यमासीत् । अग्निष्टोमयाजीति भूतकालः, जनितेति भविष्यत्कालः, तत्र भूतः कालो भविष्यत्कालेनाभिसम्बध्यमानः साधुर्भवति । विशेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति ।
प्रत्ययाधिकारे पुनः प्रत्ययग्रहणम्-अधात्वधिकारविहिता अपि प्रत्ययास्तद्धिता धातुसम्बन्धे सति कालभेदे साधवो यथा स्युरिति । गोमानासीत् । गोमान्भविता । गावो विद्यन्तेऽस्येति वर्तमानविहितो मतुप् आसीद् भवितेति सम्बन्धादतीते भविष्यति च साधुर्भवति ।।
क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ।। 3-4-2 ।।
`धातुसम्बन्धे इति वर्तते । पौनः पुन्यं भृशार्थो वा क्रियासमभिहारः । प्रकृत्यर्थविशेषणं चैतत् । समभिहारविशिष्टक्रियावचनाद्धातोर्लोट् प्रत्ययो भवति, सर्वेषु कालेषु । सर्वलकाराणामपवादः । तस्य च लोटो हि, स्व इत्येतावादेशौ भवतः, तध्वंभाविनस्तु वा भवतः ।
योगविभागोऽत्र कर्तव्यः, क्रियासमभिहारे लोड् भवति, ततो लोटो हिस्वौ । लोडित्येव, लोड्धर्माणौ हिस्वौ भवत इत्यर्थः । तेनात्मनेपदपरस्मैपदत्वं भेदेनावतिष्ठते, तिङ्त्वं च द्वयोरपि भवति ।। लुनीहि लुनीहीत्येवायं लुनाति, इमौ लुनीतः, इमे लुनन्ति । लुनीहि लुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ । अथ वा लुनीत लुनीतेत्येव यूयं लुनीथ । लुनीहि लुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः ।।
भूते - लुनीहि लुनीहीत्येवायमलावीत् ,अलाविष्टाम्, अलाविषुः । एवं मध्यमोत्तमयोरुदाहार्यम् ।।
भविष्यति - लुनीहि लुनीहीत्येवायं लविष्यति, लविष्यतः, लविष्यन्ति । एवं मध्यमोत्तमयोरुदाहार्यम् ।।
अधीष्वादीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते । अधीष्वाधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे । अथवा,अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे । एवं सर्वेष्वेव लकारेषूदाहार्यम् ।।
क्रियासमभिहाराभिव्यक्तौ द्विर्वचनमयं लोडपेक्षते - क्रियासमभिहारे द्वे भवत इति । यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वान्नापेक्षते द्विर्वचनम् ।।
समुच्चयेऽन्यतरस्याम् ।। 3-4-3 ।।
अनेकक्रियाध्याहारः = समुच्चयः । समुच्चीयमानक्रियावचनाद्धातोरन्यतरस्यां लोट् प्रत्ययो भवति, तस्य लोटो हिस्वावादेशौ भवतः । तध्वंभाविनस्तु वा भवतः ।
भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवायमटति, इमावटतः, इमेऽटन्ति । भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येव त्वमटसि, युवामटथः, यूयमटथ । अथ वा - भ्राष्ट्रमटत मठमटत खदूरमटत स्थाल्यपिधानमटतेत्येव यूयमटथ । भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवाहमटामि, आवामटावः, वयमटामः ।
अथ वा-भ्राष्ट्रमटति मठमटति खदूरमटति स्थाल्यपिधानमटति इत्येवायमटति, इमावटतः, इमेऽटन्ति । भ्राष्ट्रमटसि मठमटसि खदूरमटसि स्थाल्यपिधानमटसि इत्येव त्वमटसि, युवामटथः, यूयमटथ । भ्राष्ट्रमटामि मठमटामि खदूरमटामि स्थाल्यपिधानमटामीत्येवाहमटामि, आवामटावः, वयमठामः ।
छन्दोऽधीष्व व्याकरणमधीष्व निरुक्तमधीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते । छन्दोऽधीष्व व्याकरणमधीष्व निरुक्तमधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे । अथ वा - छन्दोऽधीध्वं व्याकरणमधीध्वं निरुक्तमधीध्वमित्येव यूयमधीध्वे । छन्दोऽधीष्व व्याकरणमधीष्व निरुक्तमधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे ।।
अथ वा - छन्दोऽधीते व्याकरणमधीते निरुक्तमधीते इत्येवायमधीते इमावधीयाते, इमेऽधीयते । छन्दोऽधीषे व्याकरणमधीषे निरुक्तमधीषे इत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे । छन्दोऽधीये व्याकरणमधीये निरुक्तमधीय
इत्येवाहमधीये, आवामधीवहे, वयमधीमहे ।।
यथाविध्यनुप्रयोगः पूर्वस्मिन् ।। 3-4-4 ।।
पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति । यस्माद्धातोर्लोड्विहितस्स एव धातुरनुप्रयोक्तव्यः । धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम् । तथा चैवोदाहृतम् लुनीहि लुनीहीत्येवायं लुनातीति । छिनत्तीति नानुप्रयुज्यते । अधीष्वाधीष्वेत्येवायमधीते । पठतीति नानुप्रयुज्यते ।।
समुच्चये सामान्यवचनस्य ।। 3-4-5 ।।
द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः । ओदनं भुङ्क्ष्व, सक्तून्पिब, धानाः खादेत्येवायमभ्यवहरति ।
सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम् । लाघवं च लौकिके शब्दव्यवहारे नाद्रियते । भ्राष्ट्रमट मठमट खदूरमट स्थाल्यपिधानमटेत्येवायमटतीत्यत्रापि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव ।।
छन्दसि लुङ् लङ्लिटः ।। 3-4-6 ।।
`धातुसम्बन्धे इत्येव । छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ् लिटः प्रत्यया भवन्ति । `अन्यतरस्याम् इति वर्त्तते । तेनान्येऽपि लकारा यथायथं भवन्ति । लुङ् - शकलाङ्गुष्ठकोऽकरत् । `अहं तेभ्योऽकरं नमः(वा.सं.16.8) । लङ् - `अग्निमद्य होतारमवृणीतायं यजमानः(शां.श्रौ.5-20-5) । लिट् - `अद्या ममार(ऋ.10-55-5) । अद्य म्रियते ।।
लिङर्थे लेट् ।। 3-4-7 ।।
`छन्दसि `अन्यतरस्याम् इति वर्त्तते । लिङर्थे - यत्र लिङ् विधीयते विध्यादिः हेतुहेतुमतोर्लिङ्(3-3-156/2813) इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट् प्रत्ययो भवति । `जोषिषत्(ऋ.2-35-1) । `तारिषत्(ऋ.1-25-12) । `मन्दिषत् । `नेता इन्द्रो नेषत्(श.श्रौ.7-9-1) । तक्षिषत् । `पताति विद्युत्(ऋ.7-25-1) । `प्रजापतिरुदधिं च्यावयाति(तै.3-5-5.2) ।।
उपसंवादाशङ्कयोश्च ।। 3-4-8 ।।
उपसंवादः = परिभाषणम्, कर्त्तव्ये पणबन्धः - `यदि मे भवानिदं कुर्याद् अहमपि भवते इदं दास्यामि इति । कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा = आशङ्का । उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति । उपसंवादे - `अहमेव पशूनामीशै(काठक.सं.25.1) । `मदग्रा एव वो ग्रहा गृह्यान्तै(मै.4-5-8) इति । `मद्देवतान्येव वः पात्राण्युच्यान्तै(तै.सं.6-4-7.1) । आशाङ्कायां च - `नेज्जिह्मायन्तो नरकं पताम(ऋ.खि.10-106-1) । जिह्माचरणेन नरकपात आशङ्क्यते ।
लिङर्थ एवायम्, नित्यार्थं तु वचनम् । पूर्वसूत्रे `अन्यतरस्याम् इति वर्त्तते ।।
तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ् तवेनः ।। 3-4-9 ।।
`छन्दसि इत्येव । तुमुनोऽर्थस्तुमर्थः । तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति । तुमर्थो भावः । कथं ज्ञायते ? वचनसामर्थ्यात् । तावदयं कर्तुरपकृष्यते । न चान्यस्मिन्नर्थे तुमुन्नादिश्यते । `अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति(प.122) । स्वार्थश्च धातूनां भाव एव । से--वक्षे रायः । सेन्--`ता वामेषे रथानाम्(ऋ.5-56-3) । असे, असेन्--`क्रत्वे दक्षाय जीवसे(अ.6-19-2) । स्वरे विशेषः । क्से--`प्रेषे भगाय(तै.सं.1-2-11.1),कसेन्- `श्रियसे(ऋ.5-59-3) । अध्यै, अध्यैन् - `काममुपाचरध्यै(तै.सं.1-2-11.1) । स्वरे विशेषः । कध्यै--`इन्द्राग्नी आहुवध्यै(वा.सं.3.13) । कध्यैन्--श्रियध्यै । शध्यै, शध्यैन् - `वायवे पिबध्यै(ऋ.7-92-2) । `राधसः सह मादयध्यै(वा.सं.3.13) । तवैग-`सोममिन्द्राय पातवै(ऋ.8-69-10) । तवेङ् - `दशमे मासि सूतवे(ऋ.10-184-3) । तवेन् -`स्वर्देवेषु गन्तवे(अ.9-5-17) । `कर्त्तवे(ऋ.9-86-20) । हर्त्तवे ।
प्रयै रोहिष्यै अव्यथिष्यै ।। 3-4-10 ।।
`तुमर्थे छन्दसि इत्येव । प्रयै, रोहिष्यै, अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये । प्रपूर्वस्य यातेः कैप्रत्ययः - `प्रयै देवेभ्यः(ऋ.1-142-6), प्रयातुम् । रुहेः इष्यैप्रययः - `अपामोषधीनां
रोहिष्यै(तै.सं.1-3-10.2), रोहणाय । व्यथेर्नञ्पूर्वस्य इष्यैप्रत्ययः - `अव्यथिष्यै(काठ.सं.3.7), अव्यथनाय ।।
दृशे विख्ये च ।। 3-4-11 ।।
`तुमर्थे, `छन्दसि इत्येव । दृशे, विख्ये इत्येतौ छन्दसि विषये निपात्येते । दृशेः के प्रत्ययः - `दृशे विश्वाय सूर्यम्(ऋ.1-50-1), द्रष्टुम् । विख्ये त्वा हरामि, विख्यातुम् ।।
शकि णमुल्कमुलौ ।। 3-4-12 ।।
`छन्दसि इत्येव । शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल्, कमुल् इत्येतौ प्रत्ययौ भवतः । णकारो वृद्ध्यर्थः । ककारो गुणवृद्धिप्रतिषेधार्थः । लकारः स्वरार्थः । `अग्निं देवा विभाजं नाशक्नुवन्(मै.सं.1-6-4) । विभक्तुमित्यर्थः । `अपलुम्पं नाशक्नुवन्(मै.सं.1-6-5) । अपलोप्तुमित्यर्थः ।।
ईश्वरे तोसुन्कसुनौ ।। 3-4-13 ।।
`तुमर्थे, `छन्दसि इत्येव । ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धातोस्तोसुन्कसुन्प्रत्ययौ भवतः । ईश्वरोऽभिचरितोः । अभिचरितुमित्यर्थः । ईश्वरो विलिखः । विलिखितुमित्यर्थः । ईश्वरो वितृदः । वितर्दितुमित्यर्थः ।।
कृत्यार्थे तवैकेन्केन्यत्वनः ।। 3-4-14 ।।
`छन्दसि इत्येव । कृत्यानामर्थो भावकर्मणी । तस्मिन् कृत्यार्थे छन्दसि विषये तवै, केन्, केन्य, त्वन् इत्येते प्रत्यया भवन्ति । तवै-`अन्वेतवै(ऋ.7-44-5), अन्वेतव्यम् । `परिधातवै(अ.2-13-2), परिधातव्यम् । `परिस्तरितवै(काठ.सं.32.7), परिस्तरितव्यम् । केन् - नावगाहे, नावगाहितव्यम् । केन्य - `दिदृक्षेण्यः(ऋ.1-1-46.5), `शुश्रूषेण्यः(तै.आ.4-1-1), दिदृक्षितव्यम्, शुश्रूषितव्यम् । त्वन् - `कर्त्वं हविः(अ.वे.1-4-3), कर्त्तव्यम् ।
`तुमर्थे छन्दसि(3-4-9/3436) इति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्टव्यः ।।
अवचक्षे च ।। 3-4-15 ।।
`कृत्यार्थे छन्दसि इत्येव । अवपूर्वाच्चक्षिङ एश्प्रत्ययो निपात्यते । `रिपुणा नावचक्षे(वा.सं.17.93) । नावख्यातव्यमित्यर्थः ।।
भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ।। 3-4-16 ।।
`कृत्यार्थे इति निवृत्तम् । `तुमर्थे इति वर्त्तते । प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम् । भावो लक्ष्यते येन तस्मिन्नर्थे वर्त्तमानेभ्यः स्थादिभ्यो धातुभ्यश्छन्दसि विषये तुमर्थे तोसुन्प्रत्ययो भवति । `आसंस्थातोर्वेद्यां सीदन्ति(काठ.सं.11.6) । आ समाप्तेः सीदन्तीत्यर्थः । इण् - `पुरा सूर्यस्योदेतोराधेयः(काठ.सं.8.3) । कृञ् - `पुरा वत्सानामपाकर्त्तोः(काठ.सं.31.15) । वदि - `पुरा प्रवदितोरग्नौ प्रहोतव्यम् । चरि - `पुरा प्रचरितोराग्नीध्रे होतव्यम्(गो.ब्रा.2-2-10) । हु- `आ होतोरप्रमत्तस्तिष्ठति(तै.ब्रा.1-4-9.5) । तमि - `आ तमितोरासीत(तै.ब्रा.1-6-9.5) । जनि - `आ विजनितोः सम्भवामेति(तै.सं.2-5-1.5) ।।
सृपितृदोः कसुन् ।। 3-4-17 ।।
`भावलक्षणे `छन्दसि इति वर्त्तते । सृपितृदोर्धात्वोर्भावलक्षणेऽर्थे वर्तमानयोश्छन्दसि विषये तुमर्थे कसुन्प्रत्ययो भवति । `पुरा क्रूरस्य विसृपो विरप्शिन्(तै.सं.1-1-9.3) । `पुरा जर्तृभ्य आतृदः(ऋ.8-1-12) ।
अलंखल्वोः प्रतिषेधयोः प्राचा क्त्वा ।। 3-4-18 ।।
`छन्दसि `भावलक्षणे इति सर्वं निमित्तम् । अलं, खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोर्धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन । अलं कृत्वा । खलु कृत्वा । अलं बाले रुदित्वा ।
अलङ्खल्वोरिति किम् ? मा कार्षीः । प्रतिषेधयोरिति किम् ? पूजार्थम् ।।
उदीचां माङो व्यतीहारे ।। 3-4-19 ।।
`क्त्वा तु वर्त्तते । माङो धातोर्व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति । अपमित्य याचते । अपमित्य हरति । अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते । उदीचाङ्ग्रहणात्तु यथाप्राप्तमपि भवति - याचित्वाऽपमयते, हृत्वाऽपमयते ।
मेङः कृतात्वस्यायं निर्देशः कृतो ज्ञापनार्थः -`नानुबन्धकृतमनेजन्तत्वम्(शा.प.15) इति, तेन दाधा घ्वदाप्(1-1-20/2373) इति दैपोऽपि प्रतिषेधो भवति ।।
परावरयोगे च ।। 3-4-20 ।।
परावराभ्यां योगः परावरयोगः । परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति । परेण तावत्--अप्राप्य नदीं पर्वतः स्थितः । परनदीयोगेन पर्वतो विशिष्यते । अवरयोगे--अतिक्रम्य तु पर्वतं नदी स्थिता । अवरपर्वतयोगेन नदी विशिष्यते ।
समानकर्तृकयोः पूर्वकाले ।। 3-4-21 ।।
समानः कर्त्ता ययोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद्धातोः क्त्वा प्रत्ययो भवति । शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वात् समानकर्तृकता । भुक्त्वा व्रजति । पीत्वा व्रजति। द्विवचनमतन्त्रम् । स्नात्वा पीत्वा भुक्त्वा दत्त्वा व्रजति ।
समानकर्तृकयोरिति किम् ? भुक्तवति ब्राह्मणे गच्छति देवदत्तः । पूर्वकाले इति किम् ? व्रजति च जल्पति च ।
- आस्यं व्यादाय स्वपिति चक्षुः संमील्य हसतीत्युपसङ्ख्यानमपूर्वकालत्वात् *(म.भा.2.173) ।।
आभीक्ष्ण्ये णमुल् च ।। 3-4-22 ।।
`समानकर्तृकयोः पूर्वकाले इत्येव । आभीक्ष्ण्यम् = पौनः पुन्यम् । प्रकृत्यर्थविशेषणं चैतत् । आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानार्द्धातोर्णमुल् प्रत्ययो भवति, चकारात् क्त्वा च । द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ । `अभिक्ष्ण्ये द्वे भवतः(8-1-12/2447.वा.) इत्युपसङ्ख्यानाद् द्विर्वचनम् । भोजंभोजं व्रजति, भुक्त्वा भुक्त्त्वा व्रजति । पायंपायं व्रजति, पीत्वा पीत्वा व्रजति ।।
न यद्यनाकाङ्क्षे ।। 3-4-23 ।।
यच्छब्द उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये । यत्र पूर्वोत्तरे क्रिये स्तस्तच्चेद्वाक्यं न परं किञ्चदाकाङ्क्षत इति । णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोऽपि प्रतिषिध्यते । यदयं भुङ्क्ते ततः पचति । यदयमधीते ततः शेते ।
अनाकाङ्क्ष इति किम् ? यदयं भुक्त्वा व्रजति अधीत एव ततः परम् ।।
विभाषाग्रेप्रथमपूर्वेषु ।। 3-4-24 ।।
अप्राप्तविभाषेयम् । `आभीक्ष्ण्ये इति नानुवर्त्तते । अग्रे, प्रथम, पूर्व इत्येतेषूपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययौ विभाषा भवतः । अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति ।
विभाषाग्रहणम् - एताभ्यां मुक्ते लडादयोऽपि यथा स्युः । अग्रे भुङ्क्ते ततो व्रजति ।
ननु च वासरूप इति भविष्यति ? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्नास्तीत्येतदनेन ज्ञाप्यते, तेनाभीक्ष्ण्ये लडादयो न भवन्ति ।
उपपदसमासः कस्मान्न क्रियते ? उक्तं तत्रैवकारस्य प्रयोजनम्, `अमैव यत्तुल्यविधानमुपपदं तत्समस्यते, नान्यत् इति ।।
कर्मण्याक्रोशे कृञः खमुञ् ।। 3-4-25 ।।
कर्मण्युपपदे कृञो धातोः खमुञ् प्रत्ययो भवति, आक्रोशे गम्यमाने । चोरङ्कारमाक्रोशति । चोरोऽसि दस्युरसि इत्याक्रोशति । चोरकरणमाक्रोशसम्पादनार्थमेव, न त्वसौ चोरः क्रियते ।।
स्वादुमि णमुल् ।। 3-4-26 ।।
`समानकर्तृकयोः पूर्वकाले, `कृञः इति चानुवर्त्तते । `स्वादुमि इत्यर्थग्रहणम् । स्वाद्वर्थेषूपपदेषु कृञो णमुल् प्रत्ययो भवति । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । लवणङ्कारम् । स्वादुमीति मकारान्तनिपातनमीकाराभावार्थम्, च्व्यन्तस्यापि मकारार्थं दीर्घाभावार्थं च । अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । वासरूपेण क्त्वापि भवति - स्वादुं कृत्वा भुङ्क्ते ।
तुमर्थाधिकाराच्च सर्व एते भावे प्रत्ययाः । यद्येवम्, स्वादुङ्कारं भुङ्क्ते देवदत्त इति णमुला
कर्तुरनभिहितत्वात्कर्त्तरि कस्मात्तृतीया न भवति ? भुजिप्रत्ययेनाभिहितः कर्त्ता, न चास्मिन्प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्यते, समानकर्तृत्वं हि विरुध्यते । प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत्प्रकाशते ।।
अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ।। 3-4-27 ।।
`कृञः इत्येव । अन्यथादिषूपपदेषु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत्करोतेर्भवति ।
कथं पुनरसौ सिद्धाप्रयोगः ? निरर्थकत्वान्न प्रयोगमर्हतीति एवमेव प्रयुज्यते । अन्यथा भुङ्क्ते इति यावानर्थस्तावानेव अन्यथा कारं भुङ्क्ते इति गम्यते । अन्यथाकारं भुङ्क्ते । एवङ्कारं भुङ्क्ते । कथङ्कारं भुङ्क्ते । इत्थङ्कारं भुङ्क्ते ।।
सिद्धाप्रयोग इति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ।।
यथातथयोरसूयाप्रतिवचने ।। 3-4-28 ।।
`कृञः `सिद्धाप्रयोगे इति वर्त्तते । यथातथाशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवति, असूयाप्रतिवचने गम्यमाने । यद्यसूयन् पृच्छति प्रतिवचनम् - यथाकारमहं भोक्ष्ये तथाकारमहम्, किं तवानेन ?
असूयाप्रतिवचन इति किम् ? यथा कृत्वाऽहं भोक्ष्ये तथा त्वं द्रक्ष्यसि ।
सिद्धाप्रयोग इत्येव - यथा कृत्वाऽहं शिरो भोक्ष्ये किं तवानेन ?
कर्मणि दृशिविदोः साकल्ये ।। 3-4-29 ।।
कर्मण्युपपदे साकल्यविशिष्टेऽर्थे दृशिविदोर्धात्वोर्णमुल् प्रत्ययो भवति । कन्यादर्शं वरयति । या याः कन्याः पश्यति तास्ता वरयतीत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तान्सर्वान् भोजयतीत्यर्थः ।।
साकल्ये इति किम् ? ब्राह्मणं दृष्ट्वा भोजयति ।।
यावति विन्दजीवोः ।। 3-4-30 ।।
यावच्छब्द उपपदे विन्दतेर्जीवतेश्च णमुल् प्रत्ययो भवति । यावद्वेदं भुङ्क्ते । यावल्लभते तावद् भुङ्क्त इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीत इत्यर्थः ।।
चर्मोदरयोः पूरेः ।। 3-4-31 ।।
`कर्मणि इत्येव । चर्मोदरयोः कर्मणोरुपपदयोः पूरयतेर्णमुल् प्रत्ययो भवति । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ।।
वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ।। 3-4-32 ।।
`कर्मणि इत्येव । पूरयतेर्धातोर्णमुल् प्रत्ययो भवति, ऊलोपश्चास्य पूरयतेरन्यतरस्यां भवति, समुदायेन चेद्वर्षस्य प्रमाणम् = इयत्ता गम्यते । गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः । सीतापूरं वृष्टो देवः, सीताप्रं वृष्टो देवः ।।
अस्यग्रहणं किमर्थम् ? उपपदस्य मा भूत् - मूषिकाबिलपूरं वृष्टो देवः, मूषिकाबिलप्रम् ।।
चेले क्नोपेः ।। 3-4-33 ।।
`कर्मणि इत्येव । `क्नूयी शब्दे उन्दने च(धा.पा.485)- अस्माण्ण्यन्ताद्धातोश्चेलार्थेषु कर्मसु उपपदेषु णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्ययाने । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ।।
निमूलसमूलयोः कषः ।। 3-4-34 ।।
`कर्मणि इत्येव । निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कर्षर्धातोर्णमुल्प्रत्ययो भवति । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । इतः प्रभृति कषादीन्यान्वक्ष्यति, तत्र कषादिषु यथाविध्यनुप्रयोगः(3-4-46/3367) इति ।।
शुष्कचूर्णरूक्षेषु पिषः ।। 3-4-35 ।।
`कर्मणि इत्येव । शुष्कादिषु कर्मवाचिषूपपदेषु पिषेर्धातोर्णमुल् प्रत्ययो भवति । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषं पिनष्टि । चूर्णं पिनष्टीत्यर्थः । रूक्षपेषं पिनष्टि । रूक्षं पिनष्टीत्यर्थः ।।
समूलाकृतजीवेषु हन्कृञ्ग्रहः ।। 3-4-36 ।।
`कर्मणि इत्येव । समूल, अकृत, जीव इत्येतेषु शब्देषु कर्मसूपपदेषु यथासङ्ख्यं हन्, कृञ्, ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति । समूलघातं हन्ति । समूलं हन्तीत्यर्थः । अकृतकारं करोति । जीवग्राहं गृह्णाति ।।
करणे हनः ।। 3-4-37 ।।
करणे उपपदे हन्तेर्धातोर्णमुल् प्रत्ययो भवति । पाणिघातं वेदिं हन्ति । पादघातं भूमिं हन्ति ।
हिंसार्थानां च समानकर्मकाणाम्(3-4-48/3369) इति णमुलं वक्ष्यति, अहिंसार्थोऽयमारम्भः । नित्यसमासार्थो वा यथाविध्यनुप्रयोगार्थश्च ।
पूर्वविप्रतिषेधेन - हन्तेर्हिंसार्थस्यापि प्रत्ययोऽनेनैवेष्यते - असिघातं हन्ति, शरघातं हन्ति ।।
स्नेहने पिषः ।। 3-4-38 ।।
`करणे इत्येव । स्निह्यते येन तत् स्नेहनम् । स्नेहनवाचिनि करणे उपपदे पिषेर्धातोर्णमुल् प्रत्ययो भवति । उदपेषं पिनष्टि । तैलपेषं पिनष्टि । तैलेन पिनष्टीत्यर्थः ।।
हस्ते वर्त्तिग्रहोः ।। 3-4-39 ।।
`करणे इत्येव । `हस्ते इत्यर्थग्रहणम् । वर्त्तिर्ण्यन्तः । हस्तवाचिनि करण उपपदे वर्त्तयतेर्गृह्णातेश्च णमुल् प्रत्ययो भवति । हस्तेन वर्त्तयति, हस्तवर्त्तं वर्त्तयति । करवर्त्तम् । पाणिवर्त्तम् । ग्रहेः खल्वपि - हस्तेन गृह्णाति, हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ।
स्वे पुषः ।। 3-4-40 ।।
`करणे इत्येव । `स्वे इत्यर्थग्रहणम् । स्ववाचिनि करणे उपपदे पुषेर्धातोर्णमुल्प्रत्ययो भवति । आत्मीयज्ञातिधनवचनः स्वशब्दः । स्वपोषं पुष्णाति । आत्मपोषम् । गोपोषम् । पितृपोषम् । धनपोषम् । रैपोषम् ।।
अधिकरणे बन्धः ।। 3-4-41 ।।
अधिकरणवाचिन्युपपदे बध्नातेर्धातोर्णमुल्प्रत्ययो भवति । चक्रबन्धं बध्नाति । कूटबन्धं बध्नाति । मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति । चोरके बध्नातीत्यर्थः ।।
संज्ञायाम् ।। 3-4-42 ।।
संज्ञायां विषये बध्नातेर्धातोर्णमुल् प्रत्ययो भवति । क्रौञ्चबन्धं बध्नाति। मयूरिकाबन्धं बध्नाति । मयूरिकाबन्धम् , अट्टालिकाबन्धं बद्धः । बन्धविशेषाणां नामधेयान्येतानि ।।
कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।। 3-4-43 ।।
जीवपुरुषयोः कर्तृवाचिनोरुपपदयोर्यथासङ्ख्यं नशिवहोर्धात्वोर्णमुल् प्रत्ययो भवति । जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । परुषः प्रेष्यो भूत्वा वहतीत्यर्थः ।।
कर्त्तरीति किम् ? जीवेन नष्टः । पुरुषेणोढः ।।
ऊर्ध्वे शुषिपूरोः ।। 3-4-44 ।।
कर्तृग्रहणमनुवर्त्तते । ऊर्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूरोर्धात्वोर्णमुल् प्रत्ययो भवति । ऊर्ध्वशोषं शुष्यति । ऊर्ध्वं शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वं पूर्यते इत्यर्थः ।।
उपमाने कर्मणि च ।। 3-4-45 ।।
उपमीयतेऽनेनेत्युपमानम् । उपमाने कर्मण्युपपदे चकारात्कर्त्तरि धातोर्णमुल् प्रत्ययो भवति । घृतनिधायं निहितः । घृतमिव निहित इत्यर्थः । सुवर्णनिधायं निहितः । सुवर्णमिव निहित इत्यर्थः । कर्त्तरि खल्वपि - अजकनाशं नष्टः । अजक इव नष्टः । चूडकनाशम् । दन्तनाशम् ।।
कषादिषु यथाविध्यनुप्रयोगः ।। 3-4-46 ।।
निमूलसमूलयोः(3-4-34/3355) इत्येतदारभ्य कषादयः, एतेषु यथाविध्यनुप्रयोगो भवति । यस्माद्धातोर्णमुल् प्रत्ययो भवति स एवानुप्रयोक्तव्यः ।।
ननु धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव ? `यथाविधि इति नियमार्थं वचनम्, तथा चैवोदाहृतम् ।
उपदंशस्तृतीयायाम् ।। 3-4-47 ।।
`दशं दशने(धा.पा.990)अस्माद्धातोरुपपूर्वात्तृतीयान्त उपपदे णमुल्प्रत्ययो भवति । मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशम् । आर्द्रकोपदंशम्, आर्द्रकेणोपदंशम् । अत्र विकल्पेनोपपदसमासः तृतीयाप्रभृतीन्यन्यतरस्याम्(2-2-21/784) इति । मूलकादि चोपदंशेः कर्म । भुजेः करणम् ।।
सर्वस्मिन्नेवात्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति - मूलकेनोपदश्य भुङ्क्ते ।।
हिंसार्थानां च समानकर्मकाणाम् ।। 3-4-48 ।।
`तृतीयायाम् इत्येव । हिंसा = प्राण्युपघातः । तदर्थानां धातूनामनुप्रयोगधातुना समानकर्मकाणां तृतीयान्त उपपदे णमुल् प्रत्ययो भवति । दण्डोपघातं गाः कालयति, दण्डेनोपघातम् । दण्डताडम्, दण्डेन ताडम् ।
समानकर्मकाणामिति किम् ? चोरं दण्डेनोपहत्य गोपालको गाः कालयति ।
सप्तम्यां चोपपीडरुधकर्षः ।। 3-4-49 ।।
उपशब्दः प्रत्येकमभिसम्बध्ये । उपपूर्वेभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्त उपपदे चकारात्तृतीयान्त उपपदे णमुल्प्रत्ययो भवति । पार्श्वोपपीडं शेते, पार्श्वयोरुपीडम्, पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति, व्रजे उपरोधम्, व्रजेनोपरोधम् । पाण्युपकर्षं धानाः सङ्गृह्णाति, पाणावुपकर्षम्, पाणिनोपकर्षम् । कर्षतेरिदं ग्रहणं न कृषतेः ।।
समासत्तौ ।। 3-4-50 ।।
`सप्तम्याम्, `तृतीयायाम् इति वर्त्तते । समासत्तिः = सन्निकर्षः । समासत्तौ गम्यमानायां तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति । केशग्राहं युद्ध्यन्ते, केशेषु ग्राहम्, केशैर्ग्राहम् । हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर्ग्राहम् । युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः ।।
प्रमाणे च ।। 3-4-51 ।।
`तृतीयासप्तम्योः इत्येव । प्रमाणम् = आयामः, दैर्घ्यम् । प्रमाणे गम्यमाने तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम् । त्र्यङ्गुलोत्कर्षम् ।।
अपादाने परीप्सायाम् ।। 3-4-52 ।।
परीप्सा = त्वरा । परीप्सायां गम्यमानायामपादान उपपदे धातोर्णमुल् प्रत्ययो भवति । शय्योत्थायं धावति, शय्याया उत्थाय । एवं नाम त्वरते यदवश्यंकर्त्तव्यमपि नापेक्षते । शय्योत्थानमात्रमाद्रियते । रन्ध्रापकर्षं पयः पिबति । भ्राष्ट्रापकर्षमपूपान् भक्षयति ।
परीप्सायामिति किम् ? आसनादुत्थाय गच्छति ।।
द्वितीयायां च ।। 3-4-53 ।।
`परीप्सायाम् इत्येव । द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोर्णमुल् प्रत्ययो भवति । यष्टिग्राहं युध्यन्ते; यष्टिं ग्राहम्, लोष्टग्राहम्, लोष्टं ग्राहम्। एवं नाम त्वरते यदायुधग्रहणमपि नाद्रियते । लोष्टादिकं यत्किञ्चिदासन्नं तद् गृह्णाति ।।
स्वाङ्गेऽध्रुवे ।। 3-4-54 ।।
`द्वितीयायाम् इत्येव । अध्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति । अक्षिनिकाणं जल्पति । भ्रूविक्षेपं कथयति ।
अध्रुव इति किम् ? उत्क्षिप्य शिरः कथयति ।
यस्मिन्नङ्गे छिन्नेऽपि प्राणी न म्रियते तद्ध्रुवम् -`अद्रवं मूर्त्तिमत्स्वाङ्गम्(काशिका.4-1-54) ।।
परिक्लिश्यमाने च ।। 3-4-55 ।।
`स्वाङ्गे, `द्वितीयायाम् इत्येव । परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति । परिक्लेशः = सर्वतो विबाधनम्, दुःखनम् । उरःपेषं युद्ध्यन्ते, उरः प्रतिपेषं युद्ध्यन्ते । शिरः पेषम्, शिरः प्रतिपेषम् । कृत्स्नमुरः पीडयन्तो युध्यन्ते । ध्रुवार्थोऽयमारम्भः ।।
विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ।। 3-4-56 ।।
`द्वितीयायाम् इत्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने चार्थे गम्यमाने । विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः । तात्पर्यम् = आसेवा । द्रव्ये व्याप्तिः, क्रियायामासेवा । गेहानुप्रवेशमास्ते । समासेन व्याप्त्यासेवयोरुक्तत्वात् नित्यवीप्सयोः(8-1-4/2140) इति द्विर्वचनं न भवति । असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य । तथा च वक्ष्यति -`सुप्सु वीप्सा, तिङ्क्षु नित्यता इति ।
गेहं गेहमनुप्रवेशमास्ते । आसेवायाम् - गेहमनुप्रवेशमनुप्रवेशमास्ते । पति - गेहानुप्रपातमास्ते, गेहं गेहमनुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातमास्ते । पदि - गेहानुप्रपादमास्ते, गेहं गेहमनुप्रपादम्, गेहमनुप्रपादमनुप्रपादम् । स्कन्दि - गेहावस्कन्दमास्ते, गेहं गेहमवस्कन्दम्, गेहमवस्कन्दमवस्कन्दम् ।।
व्याप्यमानासेव्यामानयोरिति किम् ? गेहमनुप्रविश्य भुङ्क्ते ।
ननु चाभीक्ष्ण्ये णमुल्विहित एव, आसेवा चाभीक्ष्ण्यमेव, किमर्थं पुनरासेवायां णमुलुच्यते ? क्त्वानिवृत्त्यर्थमिति चेत्, न; इष्टत्वात्तस्य । द्वितीयोपपदार्थं तर्हि वचनम् - उपपदसमासः पक्षे यथा स्यात् । तेन हि सत्युपपदाभावः ।।
अस्यतितृषोः क्रियान्तरे कालेषु ।। 3-4-57 ।।
`द्वितीयायाम् इत्येव । क्रियामन्तरयति क्रियान्तरः = क्रियाव्यवधायकः । क्रियान्तरे धात्वर्थे वर्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषूपपदेषु णमुल्प्रत्ययो भवति । द्व्यहात्यासं गाः पाययति, द्व्यहमत्यासं गाः पाययति । त्र्यहात्यासं गाः पाययति, त्र्यहमत्यासं गाः पाययति । द्व्यहतर्षं गाः पाययति, द्व्यहं तर्षं गाः पाययति । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते = विच्छिद्यते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ।
अस्यतितृषोरिति किम् ? द्व्यहमुपोष्य भुङ्क्ते । क्रियान्तर इति किम् ? अहरत्यस्येषून् गतः । न गतिर्व्यवधीयते । कालेष्वितिकिम् ? योजनमत्यस्य गाः पाययति । अध्वकर्मकमत्यसनं व्यवधायकम्, न कालकर्मकम् ।।
नाम्न्यादिशिग्रहोः ।। 3-4-58 ।।
`द्वितीयायाम् इत्येव । नामशब्दे द्वितीयान्त उपपदे आदिशेर्ग्रहेश्च धातोर्णमुल्प्रत्ययो भवति । नामादेशमाचष्टे । नामग्राहमाचष्टे ।।
अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ।। 3-4-59
अव्यय उपपदेऽयथाभिप्रेताख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः । ब्राह्मण, पुत्त्रस्ते जातः, किं तर्हि वृषल, नीचैः कृत्याचक्षे । नीचैः कृत्वा, नीचैः कारम् । उच्चैर्नाम प्रियमाख्येयम् । ब्राह्मण, कन्या ते गर्भिणी, कि तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारम् । नीचैर्नामाप्रियमाख्येयम् ।
अयथाभिप्रेताख्यान इति किम् ? उच्चैः कृत्वाऽऽचष्टे पुत्त्रस्ते जात इति । क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेवात्र प्रकरणे वासरूपेण क्त्वा भवतीत्युक्तम् ? समासार्थं वचनम् । तथा च क्त्वा च(2-2-22/785) इत्यस्मिन्सूत्रे तृतीयाप्रभृतीन्यन्यतरस्याम्(2-2-21/784) इति वर्त्तते । णमुलधिकारे पुनर्णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्, तेनोत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति ।।
तिर्यच्यपवर्गे ।। 3-4-60 ।।
तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने । अपवर्गः = समाप्तिः । तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः । समाप्य गत इत्यर्थः ।
अपवर्ग इति किम् ? तिर्यक्कृत्वा काष्ठं गतः ।
`तिर्यचि इति शब्दानुकरणम् । न च प्रकृतिवदनुकरणेन भवतिव्यम्; अनुक्रियमाणरूपविनाशप्रसङ्गात् -एतदोऽश्(2-4-33/1962), अदसो मात्(1-1-12/101) इति ।।
स्वाङ्गे तस्प्रत्यये कृभ्वोः ।। 3-4-61 ।।
तस्प्रत्ययो यतः स्वाङ्गात्तदेवमुच्यते । तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोतेर्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । यथासङ्ख्यमत्र नेष्यते; अस्वरितत्वात् । मुखतःकृत्य गतः, मुखतः कृत्वा गतः, मुखतः कारं
गतः । मुखतोभूय तिष्ठति, मुखतो भूत्वा तिष्ठति, मुखतोभावं तिष्ठति । पृष्ठतःकृत्य गतः, पृष्ठतः कृत्वा गतः, पृष्ठतःकारं गतः । पृष्ठतोभूय गतः, पृष्ठतो भूत्वा, पृष्ठतोभावम् ।
स्वाङ्ग इति किम् ? सर्वतः कृत्वा गतः । तस्ग्रहणं किम् ? मुखीकृत्य गतः । मुखीभूय गतः । प्रत्ययग्रहणं किम् ? मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः ।।
नाधार्थप्रत्यये च्व्यर्थे ।। 3-4-62 ।।
नार्थो धार्थश्च प्रत्ययो यस्मात्स एवमुच्यते । नाधार्थप्रत्यये शब्दे च्व्यर्थ उपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । अनाना नाना कृत्वा गतः नानाकृत्यगतः, नाना कृत्वा गतः, नानाकारं गतः । विनाकृत्यगतः, विना कृत्वा गतः, विनाकारं गतः । नानाभूय गतः, नाना भूत्वा गतः, नानाभावं गतः । विनाभूय गतः, विना भूत्वा गतः, विनाभावं गतः । द्विधाकृत्य गतः, द्विधाकारं गतः, द्विधा कृत्वा गतः । द्विधाभूय गतः, द्विधा भूत्वा गतः, द्विधाभावं गतः । द्वैधङ्कृत्य गतः, द्वैधं कृत्वा गतः, द्वैधङ्कारं गतः . द्वैधम्भूय गतः, द्वैधं भूत्वा गतः, द्वैधम्भावं गतः ।
प्रत्ययग्रहणं किम् ? हिरुक् कृत्वा । पृथक् कृत्वा ।
च्व्यर्थ इति किम् ? नाना कृत्वा काष्ठानि गतः ।
धार्थमर्थग्रहणम्, ना पुनरेक एव -विनञ्भ्यां नानाञौ(5-2-27/1828) इति ।।
तूष्णीमि भुवः ।। 3-4-63 ।।
तूष्णींशब्द उपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः । तूष्णींभूय, तूष्णीं भूत्वा, तूष्णींभावम् । भूग्रहणं कृञो निवृत्त्यर्थम् ।।
अन्वच्यानुलोम्ये ।। 3-4-64 ।।
अन्वक्शब्द उपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः । आनुलोम्यम् = अनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानम् । अन्वग्भूयास्ते । अन्वग्भूत्वाऽऽस्ते । अन्वग्भावमास्ते ।
आनुलोम्य इति किम् ? अन्वग्भूत्वा तिष्ठति ।।
शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ।। 3-4-65 ।।
शकादिषूपपदेषु अस्त्यर्थेषु वा धातुमात्रात्तुमुन् प्रत्ययो भवति । अक्रियार्थोपपदार्थोऽयमारम्भः । शक्नोति भोक्तुम् । धृष्णोति भोक्तुम् । जानाति भोक्तुम् । ग्लायति भोक्तुम् । घटते भोक्तुम् । आरभते भोक्तुम् । लभते भोक्तुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । अस्त्यर्थेषु खल्वपि - अस्ति भोक्तुम् । भवति भोक्तुम् । विद्यते भोक्तुम् ।।
पर्याप्तिवचनेष्वलमर्थेषु ।। 3-4-66 ।।
पर्याप्तिः = अन्यूनता । पर्याप्तिवचनेष्वलमर्थेषूपपदेषु धातोस्तुमुन् प्रत्ययो भवति । पर्याप्तो भोक्तुम् । अलं भोक्तुम् । भोक्तुं पारयति ।
पर्याप्तिवचनेष्विति किम् ? अलं कृत्वा । अलमर्थेष्विति किम् ? पर्याप्तं भुङ्क्ते । पूर्वसूत्रे शकिग्रहणमनलमर्थम् - शक्यमेवं कर्तुमिति ।।
कर्त्तरि कृत् ।। 3-4-67 ।।
कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति । कृदुत्पत्तिवाक्यानामयं शेषः । तत्र येष्वर्थनिर्देशो नास्ति तत्रेदमुपतिष्ठते, अर्थाकाङ्क्षत्वात् । न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात् । कारकः । कर्त्ता । नन्दनः । ग्राही । पचः ।।
भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ।। 3-4-68 ।।
भव्यादयः शब्दाः कर्त्तरि वा निपात्यन्ते । तयोरेव कृत्यक्तखलर्थाः(3-4-70/2833) इति भावकर्मणोः प्राप्तयोः कर्त्ता च वाच्यः पक्षे उच्यते । भवत्यसौ भव्यः, भव्यमनेनेति वा । गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानीति वा । प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा । उपस्थानीयोऽन्तेवासी गुरोः, अपस्थानीयः शिष्येण वा गुरुः । जायतेऽसौ जन्यः, जन्यमनेनेति वा ।
आप्लवतेऽसावाप्लाव्यः, आप्लाव्यमनेनेति वा । आपतत्यसावापात्यः । आपात्यमनेनेति वा ।।
लः कर्मणि च भावे चाकर्मकेभ्यः ।। 3-4-69 ।।
`लः इत्युत्सृष्टानुबन्धं सामान्यं गृह्यते, प्रथमाबहुवचनान्तं चैतत् । लकाराः कर्मणि कारके भवन्ति, चकारात्कर्तरि च । अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात्कर्तरि च । गम्यते ग्रामो देवदत्तेन । गच्छति ग्रामं देवदत्तः । अकर्मकेभ्यः - आस्यते देवदत्तेन । आस्ते देवदत्तः । सकर्मकेभ्यो भावे न भवन्ति ।।
तयोरेव कृत्यफखलर्थाः ।। 3-4-70 ।।
तयोरेव भावकर्मणोः कृत्यसंज्ञकाः क्तखलर्थाश्च प्रत्यया भवन्ति । एवकारः कर्तुरपकर्षणार्थः ।
कृत्याः कर्मणि - कर्तव्यः कटो भवता । भोक्तव्य ओदनो भवता । भावे - आशितव्यं भवता । शयितव्यं भवता ।
क्तः कर्मणि - कृतः कटो भवता । भुक्त ओदनो भवता । भावे - आसितं भवता । शयितं भवता ।।
खलर्थाः कर्मणि - ईषत्करः कटो भवता । सुकरः । दुष्करः । भावे - ईषदाढ्यम्भवं भवता । स्वाढ्यम्भवं भवता । भावे चाकर्मकेभ्यः(3-4-69/2151) इत्यनुवृत्तेस्सकर्मकेभ्यो भावे न भवन्ति ।।
आदिकर्मणि क्तः कर्तरि च ।। 3-4-71 ।।
आदिकर्मणि यः क्तो विहितः स कर्तरि भवति । चकाराद्यथाप्राप्तं भावकर्मणोः । आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितस्तस्यायमर्थनिर्देशः । प्रकृतः कटं देवदत्तः, प्रकृतः कटो देवदत्तेन, प्रकृतं देवदत्तेन । प्रभुक्त ओदनं देवदत्तः, प्रभुक्त ओदनो देवदत्तेन, प्रभुक्तं देवदत्तेन ।।
गत्यर्थाकर्मकश्लिशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ।। 3-4-72 ।।
गत्यर्थेभ्यो धातुभ्योऽकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः स कर्तरि भवति । चकाराद्यथाप्राप्तं च भावकर्मणोः । गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन । अकर्मकेभ्यः - ग्लानो भवान् । ग्लानं भवता । आसितो भवान् । आसितं भवता । श्लिष - उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता । शीङ् - उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता । स्था - उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता । आस - उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता । वस - अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता । जन - अनुजातो माणवको माणविकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन । रुह - आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता । जीर्यति - अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृषली देवदत्तेन, अनुजीर्णं देवदत्तेन ।।
श्लिषादयस्सोपसर्गास्सकर्मका भवन्ति, तदर्थमेषामुपादानम् ।।
दाशगोघ्नौ सम्प्रदाने ।। 3-4-73 ।।
दाशगोघ्नौ शब्दौ सम्प्रदाने कारके निपात्येते । `दाशृ दाने(धा.पा.883), ततः पचाद्यच् । स कृत्संज्ञकत्वात्कर्तरि प्राप्तः, सम्प्रदाने निपात्यते । दाशन्ति तस्मै इति दाशः । आगताय तस्मै दातुं गां हन्तीति गोघ्नः, अर्घार्होऽतिथिः । टगत्र निपात्यते । निपातनसामर्थ्यादेव गोघ्न ऋत्विगादिरुच्यते, न तु चण्डालादिः । असत्यपि च गोहनने तस्य योग्यतया गोघ्न इत्यभिधीयते ।।
भीमादयोऽपादाने ।। 3-4-74 ।।
भीमादयः शब्दा अपादाने निपात्यन्ते । उणादिप्रत्ययान्ता एते, इषुधीन्धिदसिश्याधूसूभ्यो मक्(उ.1.144) भियष्षुक् ह्रस्वश्च(उ.147) इत्येवमादयः । ताभ्यामन्यत्रोणादयः(3-4-75/3174) इति पर्युदासे प्राप्ते निपातनमारभ्यते । भीमः । भीष्मः । भयानकः । वरुः । चरुः । भूमिः । रजः । संस्कारः । सङ्क्रन्दनः । प्रपतनः । समुद्रः । स्रुचः । स्रुक् । खलतिः ।
ताभ्यामन्यत्रोणादयः ।। 3-4-75 ।।
उणादयः शब्दाः ताभ्यामपादानसम्प्रदानाभ्यामन्यत्र कारके भवन्ति । कृत्त्वात् कर्तयेव प्राप्ताः कर्मादिषु कथ्यन्ते । `ताभ्याम् इति सम्प्रदानार्थः प्रत्यवमर्शः, अन्यथा ह्यपादानमेव पर्युदस्येत; अनन्तरत्वात् । कृषितोऽसौ कृषिः । तनित इति तन्तुः । वृत्तमिति वर्त्म । चरितं चर्म ।।
क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ।। 3-4-76 ।।
ध्रौव्यार्थाः = अकर्मकाः, प्रत्यवसानार्थाः = अभ्यवहारार्था इति स्वनिकायप्रसिद्धिः । ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः सोऽधिकरणे भवति । चकाराद्यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु । ध्रौव्यार्थेभ्यस्तावत् - आसितो देवदत्तः, आसितं तेन, इदमेषामासितम् । गत्यर्थेभ्यः - यातो देवदत्तो ग्रामम्, यातो देवत्तेन ग्रामः, यातं देवदत्तेन, इदमेषां यातम् । प्रत्यवसानार्थेभ्यः - भुक्त ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदमेषां भुक्तम् ।।
कथं भुक्ता ब्राह्मणाः, पीता गाव इति ? अकारो मत्वर्थीयः - भुक्तमेषामस्ति, पीतमेषामस्तीति ।
लस्य ।। 3-4-77 ।।
`लस्य इत्ययमधिकारः । अकार उच्चारणार्थः । लकारमात्रं स्थानित्वेनाधिक्रियते । यदित ऊर्ध्वमनुक्रमिष्यामो लस्येत्येवं तद्वेदितव्यम् । किं चेदं लस्येति ? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च, तेषां विशेषकराननुबन्धानुत्सृज्य यत्सामान्यं तद् गृह्यते । षट्टितः, चत्वारो ङितः । अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते । लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् । इति ।।
अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति - लुनाति, चूडाल इति ? धात्वधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः ।।
तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ।। 3-4-78 ।।
लस्य तिबादय आदेशा भवन्ति । तिप्सिप्मिपां पकारः स्वरार्थः । इटष्टकारः इटोऽत्(3-4-106/2257) इति विशेषणार्थः, तिबादिभिरादेशैस्तुल्यत्वान्न देशविध्यर्थः । महिङो ङकारस्तिङिति प्रत्याहारग्रहणार्थः । पचति । पचतः । पचन्ति । पचसि । पचथः । पचथ । पचामि । पचावः । पचामः । पचते । पचेते । पचन्ते । पचसे । पचेथे । पचध्वे । पचे । पचावहे । पचामहे । एवमन्येष्वपि लकारेषूदाहार्यम् ।।
टित आत्मनेपादानां टेरे ।। 3-4-79 ।।
टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेरेकारादेशो भवति । तथा चैवोदाहृतम् ।।
इह कस्मान्न भवति - पचमानः, यजमानः ? प्रकृतैस्तिबादिभिरात्मनेपदानि विशेष्यन्ते ।।
थासः से ।। 3-4-80 ।।
`टितः इत्येव । टितो लकारस्य यस्थास्तस्य सेशब्द आदेशो भवति । पचसे । पेचिषे । पक्तासे । पक्ष्यसे ।।
लिटस्तझयोरेशिरेच् ।। 3-4-81 ।।
लिडादेशयोस्तझयोर्यथासङ्ख्यम् एश्, इरेच् इत्येतावादेशौ भवतः । शकारः सर्वादेशार्थः । चकारः स्वरार्थः । पेचे, पेचाते, पेचिरे । लेभे, लेभाते, लेभिरे ।।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।। 3-4-82 ।।
`लिटः इत्येव । लिडादेशानां परस्मैपदसंज्ञकानां यथासङ्ख्यं तिबादीनां णलादयो नवादेशा भवन्ति । लकारः स्वरार्थः । णकारो वृद्ध्यर्थः । पपाच । पेचतुः । पेचुः । पेचिथ, पपक्थ । पेचथुः । पेच । पपाच, पपच । पेचिव । पेचिम ।।
विदो लटो वा ।। 3-4-83 ।।
`परस्मैपदानाम् इत्येव । `विद ज्ञाने(धा.पा.1065) अस्माद्धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेनादेशा भवन्ति । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म ।।
न च भवति - वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेद्मि । विद्वः । विद्मः ।।
ब्रुवः पञ्चानामादित आहो ब्रुवः ।। 3-4-84 ।।
`परस्मैपदानाम् इत्येव । `लटो वा इति च । ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति । आह । आहतुः । आहुः । आत्थ ।
आहथुः ।
न च भवति - ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रवीषि । ब्रूथः ।
पञ्चानामिति किम् ? ब्रूथ । ब्रवीमि । ब्रूवः । ब्रूमः । आदित इति किम् ? परेषां मा भूत् ।
`ब्रुवः इति पुनर्वचनं स्थान्यर्थम्, परस्मैपदानामेव हि स्यात् ।।
लोटो लङ्वत् ।। 3-4-85 ।।
अतिदेशोऽयम् । लोटो लङ्वत्कार्यं भवति । तामादयः, सलोपश्च । पचताम् । पचतम् । पचत । पचाव । पचाम ।
अडाटौ कस्मान्न भवतः, तथा झेर्जुसादेशः(3-4-108/2213) लङः शाकटायनस्यैव(3-4-111/2463) इति - वान्तु, यान्तु ? विदो लटो वा(3-4-83/2464) इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति ।।
एरुः ।। 3-4-86 ।।
`लोटः इत्येव । लोडादेशानामिकारस्य उकारादेशो भवति । पचतु । पचन्तु ।
- हिन्योरुत्वप्रतिषेधो वक्तव्यः *(म.भा.2.185) । न वा, उच्चारणसामर्थ्यात् । अथवा `वा इति वर्तते, सा च व्यवस्थितविभाषा ।।
सेर्ह्यपिच्च ।। 3-4-87 ।।
`लोटः इत्येव । लोडादेशस्य सेः `हि इत्ययमादेशो भवति, अपिच्च भवति । स्थानिवद्भावात्पित्त्वं प्राप्तं प्रतिषिध्यते । लुनीहि । पुनीहि । राध्नुहि । तक्ष्णुहि ।।
वाच्छन्दसि ।। 3-4-88 ।।
अपित्त्वं विकल्प्यते । लादेशश्छन्दसि विषये हिशब्दो वाऽपिद् भवति । `युयोध्यस्मज्जुहुराणमेनः(ऋ.1-189-1), प्रीणाहि, प्रीणीहि ।।
मेर्निः ।। 3-4-89 ।।
`लोटः इत्येव । लोडादेशस्य मेर्निरादेशो भवति । उत्वलोपयोरपवादः । पचानि । पठानि ।।
आमेतः ।। 3-4-90 ।।
`लोटः इत्येव । लोट्सम्बन्धिन एकारस्य आमित्ययमादेशो भवति । पचताम् । पचेताम् । पचन्ताम् ।।
सवाभ्यां वामौ ।। 3-4-91 ।।
`लोटः इत्येव । सकारवकाराभ्यामुत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं व, अम् इत्येतावादेशौ भवत । आमोऽपवादः । पचस्व । पचध्वम् ।।
आडुत्तमस्य पिच्च ।। 3-4-92 ।।
`लोटः इत्येव । लोट्सम्बन्धिन उत्तमपुरुषस्याऽऽडागमो भवति, स चोत्तमपुरुषः पिद्भवति । करवाणि, करवाव, करवाम । करवै, करवावहै, करवामहै ।।
एत ऐ ।। 3-4-93 ।।
`लोट् `उत्तमस्य इति वर्तते । लोडुत्तमसम्बन्धिन एकारस्य ऐकारादेशो भवति । आमोऽपवादः । करवै, करवावहै, करवामहै ।।
इह कस्मान्न भवति - पचावेदम्, यजावेदम् ? बहिरङ्गलक्षणत्वाद् गुणस्य ।।
लेटोऽडाटौ ।। 3-4-94 ।।
लोटोऽडाटागमौ भवतः पर्यायेण । `जोषिषत्(ऋ.2-35-1) । `तारिषत्(वा.सं.23.32) । मन्दिषत् । `पताति विद्युत्(ऋ.4-16-17) । `प्रजापतिरुदधिं च्यावयाति(तै.सं.3-5-5.2) ।।
आत ऐ ।। 3-4-95 ।।
`लेटः इत्येव । लेट्सम्बन्धिन आकारस्य ऐकारादेशो भवति । प्रथमपुरुषमध्यमपुरुषात्मनेपदद्विवचनयोः । मन्त्रयैते, मन्त्रयैथे । करवैते, करवैथे ।
आटः कस्मान्न भवति ? विधानसामर्थ्यात् ।।
वैतोऽन्यत्र ।। 3-4-96 ।।
`लेटः इत्येव । लेट्सम्बन्धिन एकारस्य वा ऐकारादेशो भवति । अन्यत्रेत्यनन्तरो विधिरपेक्ष्यते - आत ऐ(3-4-95/3429) इत्येतद्विषयं वर्जयित्वा एत ऐ भवति । सप्ताहानि शासै । `अहमेव पशूनामीशै(काठ.सं.25.1) । `मदग्रा एव वो ग्रहा गृह्यान्तै(तै.सं.6-4-7.1) । `मद्देवत्यान्येव वः पात्राण्युच्यान्तै(तै.6-4-7.2) ।
न च भवति--`यत्र क्व च ते मनो दक्षं दधस उत्तरम्(ऋ.6-16-17) ।
अन्यत्रेति किम् ? मन्त्रयैते । मन्त्रयैथे ।
इतश्च लोपः परस्मैपदेषु ।। 3-4-97 ।।
`लेटः इत्येव । लेट्सम्बन्धिन इकारस्य परस्मैपदविषयस्य लोपो भवति । वानुवृत्तेः पक्षे श्रवणमपि भवति । `जोषिषत्(ऋ.2-3-5.1) । `तारिषत्(वा.सं.23.32) । मन्दिषत् ।
न च भवति - `पताति दिद्युत्(ऋ.4-16-17) । `प्रजापतिरुदधिं च्यावयाति(तै.सं.3-5-5.2) ।
परस्मैपदग्रहणम् - इड्वहिमहिङां मा भूत् ।।
स उत्तमस्य ।। 3-4-98 ।।
`लेटः इति, `वा इति च वर्तते । लेट्सम्बन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति । करवाव, करवाम ।
न च भवति - करवावः, करवामः ।
उत्तमग्रहणम् - पुरुषान्तरे मा भूत् ।।
नित्यं ङितः ।। 3-4-99 ।।
`लेटः इति निवृतम् । ङितो लकारस्य य उत्तमस्तस्य नित्यं सकारस्य लोपो भवति । अपचाव । अपचाम ।
नित्यग्रहणं विकल्पनिवृत्यर्थम् ।।
इतश्च ।। 3-4-100 ।।
`ङितः इत्येव । ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति । अपचत् । अपाक्षीत् ।
परस्मैपदेष्वित्येव - अपचावहि, अपचामहि ।।
तस्थस्थमिपां तान्तन्तामः ।। 3-4-101 ।।
`ङितः इत्येव । ङिल्लकारसम्बन्धिनां चतुर्णां यथासङ्ख्यं तामादय आदेशा भवन्ति । अपचताम्, अपचतम्, अपचत, अपचम् । अपाक्ताम्, अपाक्तम्, अपाक्त, अपाक्षम् ।।
लिङः सीयुट् ।। 3-4-102 ।।
लिङादेशानां सीयुडागमो भवति । टकारो देशविध्यर्थः । उकार उच्चारणार्थः । पचेत, पचेयाताम्, पचेरन् । पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन् ।
यासुट् परस्मैपदेषूदात्तो ङिच्च ।। 3-4-103 ।।
`लिङः इत्येव । परस्मैपदविषयस्य लिङो यासुडागमो भवति, स चोदात्तो भवति, ङिच्च । सीयुटोऽपवादः । आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते; तत्र तत्कार्याणां सम्भवाद्, नागमस्य । कुर्यात्। कुर्याताम् । कुर्युः ।
स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम् - लकाराश्रयङित्त्वमादेशानां न भवतीति । अचिनवम् । अकरवम् ।
किदाशिषि ।। 3-4-104 ।।
आशिषि यो लिङ् तस्य यासुडागमो भवति, स चोदात्तः किद्वद्भवति । प्रत्ययस्यैवेदं कित्वम्, नागमस्य; प्रयोजनाभावात् । ङित्त्वे प्राप्ते कित्त्वं विधीयते । गुणवृद्धिप्रतिषेधस्तुल्यः, सम्प्रसारणम्, जागर्तेर्गुणे च विशेषः । इष्यात्, इष्याताम्, इष्यासुः । जागर्यात्, जागर्यास्ताम्, जागर्यासुः ।
आशिषीति किम् ? वच्यात् । जागृयात् ।।
झस्य रन् ।। 3-4-105 ।।
`लिङः इत्येव । झस्य लिङादेशस्य रन् - इत्ययमादेशो भवति । झोऽन्तापवादः । पचेरन् । यजेरन् । कृषीरन् ।।
इटोऽत् ।। 3-4-106 ।।
लिङादेशस्य इटः `अत् इत्ययमादेशो भवति । पचेय । यजेय । कृषीय । हृषीय ।
तकारस्येत्संज्ञाप्रतिषेधः प्राप्नोति - न विभक्तौ तुस्माः(1-3-4/190) इति ? नैवायमादेशावयवस्तकारः, किं तर्हि ? मुखसुखार्थ उच्चार्यते ।
आगमस्येटो ग्रहणं न भवति, `अर्थवद्ग्रहणे नानर्थकस्य(व्या.प.1) इति ।।
सुट् तिथोः ।। 3-4-107 ।।
`लिङः इत्येव । लिङ्सम्बन्धिनोस्तकारथकारयोः सुडागमो भवति । तकारथकारावागमिनौ, लिङ् तद्विशेषणम्, सीयुटस्तु लिङेवागमी । तेन भिन्नविषयत्वात्सुटा बाधनं न भवति । तकारे इकार उच्चारणार्थः । कृषीष्ट, कृषीयास्ताम् । कृषीष्ठाः, कृषीयास्थाम् ।।
झेर्जुस् ।। 3-4-108 ।।
`लिङः इत्येव । लिङादेशस्य झेर्जुस् आदेशो भवति । झोऽन्तावादः । पचेयुः । यजेयुः ।।
सिजभ्यस्तविदिभ्यश्च ।। 3-4-109 ।।
अलिङर्थ आरम्भः । सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो, वेत्तेश्चोत्तरस्य झेर्जुस् आदेशो भवति । अभ्यस्तविदिग्रहणमसिजर्थम् । `ङितः इति चानुवर्तते । सिचस्तावत् - अकार्षुः, अहार्षुः । अभ्यस्तात् - अबिभयुः, अजिह्रयुः, अजागरुः । विदेः - अविदुः ।।
आतः ।। 3-4-110 ।।
सिज्ग्रहणमनुवर्तते । सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति । कथमाभ्यामानन्तर्यम् ? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति । अदुः, अधुः, अस्थुः । तकारो मुखसुखार्थः ।
पूर्वेणैव सिद्धे नियमार्थं वचनम् - आत एव सिज्लुगन्तात्, नान्यस्मादिति । अभूवन् ।
प्रत्ययलक्षणेन जुस्प्राप्तः प्रतिषिध्यते; तुल्यजातीयापेक्षत्वान्नियमस्य । श्रूयमाणे हि सिचि भवत्येव - अकार्षुः, अहार्षुः ।।
लङः शाकटायनस्यैव ।। 3-4-111 ।।
`आतः इत्येव । आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति, शाकटायनस्याचार्यस्य मतेन । अयुः । अवुः । अन्येषां मते अयान् ।
ननु `ङितः इत्यनुवर्तते, अत्र लङेवाकारान्तादनन्तरो ङित्सम्भवति नान्यः, तत्किं लङ्ग्रहणेन ? एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात्, लङ्वद्भावेन यस्तस्य मा भूत्, लोटो लङ्वत्(3-4-85/2198) इति। यान्तु, वान्तु । सिजभ्यस्तविदिभ्यश्च(3-4-109/2226) इत्ययमपि झेर्जुस् लोटो न भवति। बिभ्यतु, जाग्रतु, विदन्तु । जुस्भावमात्रं हि मुख्येन लङा विशेष्यते । एवकार उत्तरार्थः ।।
द्विषश्च ।। 3-4-112 ।।
`लङः शाकटायनस्यैव इत्येव । द्विषः परस्य लङादेशस्य झेर्जुसादेशो भवति, शाकटायनस्याचार्यस्य मतेन । अद्विषुः । अन्येषां मते अद्विषन् ।।
तिङ्शित्सार्वधातुकम् ।। 3-4-113 ।।
तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति । भवति । नयति । स्वपिति । रोदिति । पवमानः । यजमानः ।
सार्वधातुकप्रदेशाः - सार्वाधातुके यक्(3-1-67/2756) इत्येवमादयः ।।
आर्धधातुकं शेषः ।। 3-4-114 ।।
तिङः शितश्च वर्जयित्वाऽन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहित आर्धधातुकसंज्ञो भवति । लविता ।
लवितुम् । लवितव्यम् ।
धातोः(3-1-91/2829) इत्येव। वृक्षत्वम्, वृक्षताऽस्ति । लूभ्याम्, लूभिः । जुगुप्सते ।।
लिट् च ।। 3-4-115 ।।
लिडादेशस्तिङार्धाधातुकसंज्ञो भवति । सार्वधातुकसंज्ञाया अपवादः । पेचिथ । शेकिथ । जग्ले । मम्ले ।
ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति ? सत्यमेतत्; इह त्वेवकारोऽनुवर्तते, स नियमं करिष्यति ।।
लिङाशिषी ।। 3-4-116 ।।
आशिषि विषये यो लिङ् स आर्धधातुकसंज्ञो भवति । सार्वधातुकसंज्ञाया अपवादः । समावेशश्चैवकारानुवृत्तेर्न भवति । लविषीष्ट । पविषीष्ट ।
आशिषीति किम् ? लुनीयात् । पुनीयात् ।।
छन्दस्यभयथा ।। 3-4-117 ।।
छन्दसि विषये उभयथा भवति - सार्वधातुकमार्धधातुकं च ।
किं लिङेवानन्तरः सम्बध्यते ? नैतदस्ति; सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते । तिङ्शिदादि छन्दस्युभयथा भवति ।
`वर्धन्तु त्वा सुष्टुतयः(ऋ.7-99-7) । आर्धधातुकत्वाण्णिलोपः । वर्धयन्त्विति प्राप्ते । शेषं च सार्वधातुकम् - `स्वस्तये नावमिवारुहेम(ऋ.10-178-2) । क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति ।
लिट् सार्त्रधातुकम् - `ससृवांसो विश्रृण्विरे(ऋ.4-8-6) । `सोममिन्द्राय सुन्विरे(ऋ.7-32-4) लिङ् उभयथा भवति - `उपस्थेयाम शरणा बृहन्ता(ऋ.6-47-8) । सार्वधातुकत्वात् - लिङः सलोपः(7-2-79/2211), आर्धधातुकत्वात् - एत्वम् ।
व्यत्ययो बहुलम्(3-1-85/3433) इत्यस्यैवायं प्रपञ्चः ।
इति श्रीजयादित्यविरिचितायां काशिकावृत्तौ
तृतीयाध्यायस्य चतुर्थः पादः