सामग्री पर जाएँ

काशिका/चतुर्थोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः

अथ चतुर्थाध्याये प्रथमः पादः
ङ्याप्प्रातिपदिकात्‌ ।। 4-1-1 ।।
अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्याम आपञ्चमाध्यायपरिसमाप्तेः ङ्याप्प्रातिपदिकादित्येवं तद्वेदितव्यम् । स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रियते । `ङी इति ङीब्ङीष्ङीनां सामान्येन ग्रहणम्, टाब्डाप्चापाम् आबिति, प्रातिपदिकमुक्तम् - अर्थवत्‌(1-2-45/178), कृत्तद्धितसमासाश्च(1-2-46/179) इति, तेषां समाहारनिर्देशः - ङ्याप्प्रातिपदिकादिति ।
यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथापि वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्(म.भा.2.191); इतरथा हि समर्थविशेषणमेतत्स्यात् ।
अथ ङ्याब्ग्रहणं किम्, न `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति(व्या.प.25) इत्येव सिद्धम् ? नैतदस्ति; स्वरूपविधिविषये परिभाषेयम् `प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्टग्रहणं भवति(व्या.प.25) इति । तथा च युवा खलतिपलितवलिनजरतीभिः(2-1-67/748) इति ज्ञापकमस्यास्तादृशमेव ।
किञ्च - तदन्तात्तद्धितविधानार्थं ङ्याब्ग्रहणम् । कालितरा, हरिणितरा । खट्‌वातरा । मालातरा इति । विप्रतिषेधाद्धि तद्धितबलीयस्त्वं स्यात्‌ ।।
स्वौजसमौट्‌छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ ।। 4-1-2 ।।
`ङ्याप्प्रातिपदिकात् इत्यधिकृतम् । ङ्याप्प्रातिपदिकात्‌ स्वादयः प्रत्यया भवन्ति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः औटष्टकारः `सुट्‌ इति प्रत्याहारग्रहणार्थः । पकारः `सुप्‌ इति प्रत्याहारार्थः ।
सङ्ख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहितास्तेन सहास्यैकवाक्यता ।
ङ्यन्तात्तावत्‌--कुमारी । गौरी । शार्ङ्गरवी । ङीब्ङीष्ङीनां क्रमेणोदाहरणम् ।
कुमारी, कुमार्यौ, कुमार्यः । कुमारीम्, कुमार्यौ, कुमारीः । कुमार्या, कुमारीभ्याम्, कुमारीभिः । कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः । कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः । कुमार्याः, कुमार्योः, कुमारीणाम् । कुमार्याम्‌, कुमार्योः, कुमारीषु । एवं गौरी, शार्ङ्गरवी चोदाहार्ये ।
     आपः खल्वपि--खट्‌वा । बहुराजा । कारीषगन्ध्या । टाब्डाप्चापां क्रमेणोदाहरणम् । खट्वा । खट्‌वे, खट्‌वाः । खट्‌वाम्, खट्‌वे, खट्‌वाः । खट्‌वया, खट्‌वाभ्याम्, खट्‌वाभिः । खट्‌वायै, खट्‌वाभ्याम्, खट्‌वाभ्यः । खट्‌वायाः, खट्‌वाभ्याम्, खट्‌वाभ्यः । खट्‌वायाः, खट्‌वयोः, खट्‌वानाम् । खट्वायाम्, खट्‌वयोः, खट्‌वासु । एवं बहुराजा-करोषगन्ध्ये चोदाहार्ये ।
एवं प्रातिपदिकात् - दृषद्‌, दृषदौ, दृषदः । दषदम्, दृषदौ, दृषदः । दृषदा, दृषद्भ्याम्, दृषद्भिः । दृषदे, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषदोः, दृषदाम् । दृषदि, दृषदोः, दृषत्सु ।
स्त्रियाम् ।। 4-1-3 ।।
अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामः स्त्रियामित्येवं तद्वेदितव्यम् । ङ्याप्प्रातिपदिकात्‌(4-1-1/182) इति सर्वाधिकारेऽपि प्रातिपदिकमात्रमत्र प्रकरणे सम्बध्यते; ङ्यापोरनेनैव विधानात् ।
`स्त्रियाम् इत्युच्यते, केयं स्त्री नाम ? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः । क्वचिदाश्रयविशेषाभावादुपदेशव्यङ्ग्या एव भवन्ति, यथा - ब्राह्मणत्वादयः ।
स्त्रीत्वं च प्रत्ययार्थः, प्रकृत्यर्थंविशेषणं चेत्युभयथापि युज्यतेस्त्रियामभिधेयायां स्त्रियां वा यत्प्रातिपदिकं वर्तत इति । वक्ष्यति अजाद्यतष्टाप्‌(4-1-4/454) अजा । देवदत्ता । स्त्रियामिति किम् ? अजः । देवदत्तः ।।
अजाद्यतष्टाप्‌ ।। 4-1-4 ।।
अजादिभ्यः प्रातिपदिकेभ्योऽकारान्ताच्च प्रातिपदिकात् स्त्रियां टाप्‌ प्रत्ययो भवति । पकारः स्वरसामान्यग्रहणार्थः । टकारः सामान्यग्रहणाविघातार्थः । अजा । एडका । कोकिला । चटका । अश्वा । खट्‌वा । देवदत्ता ।
तपरकरणं तत्कालार्थम् । शुभंयाः, कीलालपाः ब्राह्मणी हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्(6-1-68/252) इति सुलोपः स्यात्‌ ।
अजादिग्रहणं तु क्वचिज्जातिलक्षणे ङीषि प्राप्ते(4-1-63/518), क्वचित्तु पुंयोगलक्षणे(4-1-48/504), क्वचितु पुष्पफलोत्तरपदलक्षणे(4-1-64/519), क्वचितु वयोलक्षणे ङीपि(4-1-20/478), क्वचिट्टिल्लक्षणे(4-1-15/470) ।
हलन्तानां त्वप्राप्त एव कस्मिंश्चिदाब्‌ विधीयते ।
`शूद्रा चामहत्पूर्वा जातिः(म.भा.2.201) इति पठ्यते, तस्यायमर्थः - शूद्रशब्दष्टापमुत्पादयति जातिश्चेद्भवति । शूद्रा । पुंयोगे ङीषैव भवितव्यम्शूद्रस्य भार्या शूद्री । महत्पूर्वस्य प्रतिषेधः - महाशूद्री । महाशूद्रशब्दोह्या भीरजातिवचनः, तत्र तदन्तविधिना टाप्‌ प्राप्तः प्रतिषिध्यते । `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न(व्या.प.89) इति कथं तदन्तविधिः ? एतदेव ज्ञापकं भवति -`अस्मिन्‌ प्रकरणे तदन्तविधिः इति । तेनातिधीवरी, अतिपीवरी, अतिभवती, अतिमहती - इति भवति ।
अजा, एडका, चटका, अश्वा, मूषिका इति जातिः । बाला होढा, पाका, वत्सा, मन्दा, विलातेति वयः । पूर्वापहाणा, अपरापहाणा । टित्‌, निपातनाण्णत्वम् । * सम्भस्त्राजिनशणपिण्डेभ्यः फलात्‌ *(ग.सू.37) सम्फला, भस्त्रफला । अजिनफला । शणफला । पिण्डफला । `त्रिफलाद्विगौ(ग.सू.38) । बहुव्रीहौ--त्रिफली संहतिः । * सदच्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्‌ *(ग.सू.39) सत्पुष्पा । प्राक्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । पाककर्ण(4-1-64/519) इति ङीषोऽपवादः । * शूद्रा चामहत्पूर्वा जातिः *(ग.सू.40) । क्रुञ्चा, उष्णिहा, देवविशा - हलन्ताः । ज्येष्ठा, कनिष्ठा, मध्यमा - पुंयोगः । कोकिला जातिः । * मूलान्नञः *(ग.सू.41) अमूला ।।
ऋन्नेभ्यो ङीप्‌ ।। 4-1-5 ।।
ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप्‌ प्रत्ययो भवति । ङकारः सामान्यग्रहणार्थः । कर्त्री, । हर्त्री । दण्डिनी । छत्त्रिणी ।।
उगितश्च ।। 4-1-6 ।।
उग्‌ इद्यत्र सम्भवति यथाकथञ्चित्‌ तदुगिच्छब्दरूपम् , तदन्तात्‌ स्त्रियां ङीप्‌ प्रत्ययो भवति । भवती । अतिभवती । पचन्ती । यजन्ती ।

  • धातोरुगितः प्रतिषेधो वक्तव्यः *(म.भा.2.202) । उखास्रत्‌ । पर्णध्वत्‌ ब्राह्मणी ।
  • अञ्चतेश्चोपसंख्यानम् *(म.भा.2.202) प्राची । प्रतीची । उदीची ।।

वनो र च ।। 4-1-7 ।।
वन्नन्तात्प्रातिपदिकात्स्त्रियां ङीप्‌ प्रत्ययो भवति, रेफश्चान्तादेशः । धीवरी । पीवरी । शर्वरी । परलोकदृश्वरी ।
`ऋन्नेभ्यः इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम् ।

  • वनो न हशः *(म.भा.2.202) । प्राप्तौ ङीब्रावुभावपि प्रतिषिद्ध्येते । सहयुध्वा ब्राह्मणी ।।

पादोऽन्यतरस्याम् ।। 4-1-8 ।।
`पादः इति कृतसमासान्तः पादशब्दो निर्दिश्यते । पादन्तात्‌ प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप्‌ प्रत्ययो भवति । द्विपात्‌, द्विपदी । त्रिपात्‌, त्रिपदी । चतुष्पाद्‌, चतुष्पदी ।।
टाबृचि ।। 4-1-9 ।।
`पादः इत्येव । `ऋचि इत्यभिधेयनिर्देशः । ऋचि वाच्यायां पादन्तात्प्रातिपदिकात् स्त्रियां टाप्‌ प्रत्ययो भवति । ङीपोऽपवादः । द्विपदा ऋक्‌ । त्रिपदा ऋक्‌ । चतुष्पदा ऋक्‌ ।
ऋचीति किम् ? द्विपदी देवदत्ता ।।
न षट्‌स्वस्रादिभ्यः ।। 4-1-10 ।।
षट्‌संज्ञकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति । यो यतः प्राप्नोति स सर्वः
प्रतिषिद्ध्यते । पञ्च ब्राह्मण्यः । सप्त । नव । दश ।
स्वस्रादिभ्यः - स्वसा । दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्रः ।
`षट्‌संज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यात् ?
प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्नोभौ ।।(म.भा.2.204)
मनः ।। 4-1-11 ।।
मन्नन्तात्प्रातिपदिकात्‌ ङीप्‌ प्रत्ययो न भवति । ऋन्नेभ्यो ङीप्‌(4-1-5/306) इति ङीप्‌ प्राप्तः `मनः इति सूत्रेण प्रतिषिद्ध्यते । दामा, दामानौ, दामानः । पामा, पामानौ, पामानः ।
`अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति(व्या.प.129) सीमा, सीमानौ, सीमानः । अतिमहिमा, अतिमहिमानौ, अतिमहिमानः ।।
अनो बहुव्रीहेः ।। 4-1-12 ।।
अन्नन्ताद्‌ बहुव्रीहेः स्त्रियां ङीप्‌ प्रत्ययो न भवति । अनुपधालोपी बहुव्रीहिरिहोदाहरणम् । उपधालोपिनो हि विकल्पं वक्ष्यति । सुपर्वा, सुपर्वाणौ, सुपर्वाणः । सुचर्मा, सुचर्माणौ, सुचर्माणः ।
बहुव्रीहेरिति किम् ? अतिक्रान्ता राजानमतिराजी ।।
डाबुभाभ्यामन्यतरस्याम् ।। 4-1-13 ।।
डाप्‌ प्रत्ययो भवति उभाभ्याम् - मन्नन्तात्प्रातिपदिकादन्नन्ताच्च बहुव्रीहेरन्यतरस्याम् । पामा, पामे, पामाः । सीमा, सीमे, सीमाः । न च भवति - पामानः । सीमानः ।
बहूव्रीहौ - बहुराजा, बहुराजे, बहुराजाः । बहुतक्षा, बङुतक्षे, बहुतक्षाः । न च भवति - बहुराजानः । बहुतक्षाणः ।
अन्यतरस्याङ्ग्रहणं किमर्थम् ? बहुव्रीहौ वनो र च(4-1-7/456) इत्यस्यापि विकल्पो यथा स्यात्‌ - बहुधीवा, बहुधीवरी । बहुपीवा, बहुपीवरी ।।
अनुपसर्जनात् ।। 4-1-14 ।।
अधिकारोऽयम् । उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति । यदित ऊर्ध्वमनुक्रमिष्यामः, अनुपसर्जनात् - इत्येवं तद्वेदितव्यम् । वक्ष्यतिटिड्ढाणञ्‌(4-1-15/470) इति ङीप्‌ । कुरुचरी । मद्रचरी । अनुपसर्जनादिति किम् ? बहुकुरुचरा, बहुमद्रचरा मधुरा ।
जातेः(4-1-63/518) इति ङीष्‌ । कुक्कुटी । शूकरी । अनुपसर्जनादिति किम् ? बहुकुक्कुटा, बहुशूकरा, मधुरा ।
कथं पुनरुपसर्जनात्प्रत्ययप्रसङ्गः ? तदन्तविधिना। ज्ञापितं चैतद्‌ - अस्त्यत्र प्रकरणे तदन्तविधिरिति । तथा च प्रधानेन तदन्तविधिर्भवति - कुम्भकारी । नगरकारी ।
न च `अण्‌ इति कृद्‌ग्रहणम्, तद्धितोऽप्यणस्ति ।।
टिड्‌ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम् ।। 4-1-15 ।।
`अतः इति सर्वत्रानुवर्तते । तत् सति सम्भवे विशेषणं भवति । टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप्‌ प्रत्ययो भवति । टापोऽपवादः ।
टितस्तावत्‌ - कुरुचरी । मद्रचरी । इह कस्मान्न भवति पचमाना, यजमाना ? द्व्यनुबन्धकत्वाल्लटः ।
ल्युडादि, कथम् ? टित्करणसामर्थ्यात्‌ । इतरत्र तु टेरेत्वं फलम् । पठिता विद्येति ? आगमटित्त्वमनिमित्तम्; ट्युट्युलौ तुट्‌च(4-3-23/1391) इति लिङ्गात्‌ ।
ढ--सौपर्णेयी । वैनतेयी । निरनुबन्धको ढशब्दः स्त्रियां नास्तीति निरनुबन्धकपरिभाषा न प्रवर्तते(म.भा.2.208) ।
अण्‌--कुम्भकारी । नगरकारी । औपगवी । णेऽपि क्वचिदण्कृतं कार्यं भवति--चौरी, तापसी । दाण्डा, मौष्टेत्यत्र न भवति ।
अञ्‌--औत्सी । औदपानी । शार्ङ्गरवाद्यञः(4-1-73/527) इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम् ।
द्वयसच्‌--ऊरुद्वयसी । जानुद्वयसी ।(5-2-37/1838)
दघ्नच्‌--ऊरुदघ्नी । जानुदघ्नी ।(5-2-37/1838)
मात्रच्‌--ऊरुमात्री । जानुमात्री ।(5-2-37/1838)
तयप्‌--पञ्चतयी । दशतयी ।(5-2-42/1843)
ठक्‌--आक्षिकी । शालाकिकी ।(4-4-2/1550)
ठञ्‌--लावणिकी(4-4-52/1602) ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम् ।
कञ्‌--यादृशी । तादृशी ।(3-2-60/429)
क्वरप्‌--इत्वरी । नश्वरी ।(3-2-163/3142)
ख्युन्‌--आढ्यङ्करणी । सुभगङ्करणी ।(3-2-56/2973)

  • नञ्स्नञीकक्तरुणतलुनानामुपसङ्ख्यानम् *(म.भा.2.209) । स्त्रैणी । पौंस्नी । शाक्तीकी । याष्टीकी । तरुणी । तलुनी ।।

यञश्च ।। 4-1-16 ।।
`ङीप्‌ इत्येव । यञन्ताच्च प्रातिपदिकात्‌ स्त्रियां ङीप्‌ प्रत्ययो भवति । गार्गी। वात्सी ।

  • अपत्यग्रहणं कर्तव्यम् *(म.भा.2.209) । इह मा भूत्‌--द्वीपादनुसमुद्रं यञ्‌(4-3-10>), द्वैप्या । योगविभाग उत्तरार्थः ।।

प्राचां ष्फ तद्धितः ।। 4-1-17 ।।
`यञः इत्येव । प्राचामाचार्याणां मतेन यञन्ताद्‌ स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसंज्ञः । षकारो ङीषर्थः । प्रत्ययद्वयेनेह स्त्रीत्वं व्यज्यते । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थम् । गार्ग्यायणी । वात्स्यायनी । अन्येषाम्--गार्गी । वात्सी ।
`सर्वत्र--ग्रहणमुत्तरसूत्रादिहापकृष्यते, बाधकबाधनार्थम् । आवट्याच्च(4-1-75/529) इति चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात्‌ - आवट्यायनी ।
सर्वत्र लोहितादिकतन्तेभ्यः ।। 4-1-18 ।।
`यञः इत्येव । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यो(4-1-105/1107) यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति । कतशब्दः स्वतन्त्रं यत्प्रातिपदिकं तदवधित्वेन परिगृह्यते - कपिशब्दात्परः कपिकतेति, न प्रातिपदिकावयवः कुरुकतेति । लौहित्यायनी । शांसित्यायनी । बाभ्रव्यायणी ।।
`कण्वात्तु शकलः पूर्वः कतादुत्तरे इष्यते ।
पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम्(म.भा.2.210) ।।
प्रातिपदिकेष्वन्यथा पाठः स एवं व्यवस्थापयितव्य इति मन्यते । `कतन्तेभ्यः इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे(4-2-111/1332) इति । तत्र तत्पुरुषवृत्त्या सङ्गृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्यते । शाकल्यायनी । शाकल्यस्येमे छात्राः शाकलाः ।।
कौरव्यमाण्डूकाभ्यां च ।। 4-1-19 ।।
कौरव्य, माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति । कुर्वादिभ्यो ण्ये(4-1-151/1175) कृते ढक्च मण्डूकात्‌(4-1-119/1122) इत्यणि च । यथाक्रमं टाब्ङीपोरपवादः । कौरव्यायणी । माण्डूकायनी ।
कथं कौरवी सेना ? तस्येदम्(4-3-120/1500) विवक्षायामणि कृते भविष्यति ।

  • कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम् *(म.भा.2.210) । आसुरायणी । शैषिकेष्वर्थेषु इञश्च(4-2-112/2333) इत्यणि प्राप्ते छप्रत्यय इष्यते । आसुरीयः कल्पः ।।

वयसि प्रथमे ।। 4-1-20 ।।
कालकृतशरीरावस्था यौवनादिः = वयः । प्रथमे वयसि यत्प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप्‌ प्रत्ययो भवति । कुमारी । किशोरी । वर्करी ।
प्रथम इति किम् ? स्थविरा । वृद्धा । अत इत्येव--शिशुः ।।

  • वयस्यचरम इति वक्तव्यम् *(म.भा.2.211) । वधूटी । चिरण्टी । द्वितीयवयोवचनावेतौ । प्राप्तयौवना

स्त्र्यभिधोयते ।
कथं कन्या ? कन्यायाः कनीन च(4-1-116/1119) इति ज्ञापकात् ।
उत्तानशया, लोहितपादिकेति ? नैता वयःश्रुतयः ।।
द्विगौः ।। 4-1-21 ।।
द्विगुसंज्ञकात्प्रातिपदिकात् स्त्रियां ङीप्‌ प्रत्ययो भवति । पञ्चपूली । दशपूली ।
कथं त्रिफला ? अजादिषु दृश्यते ।।
अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ।। 4-1-22 ।।
पूर्वेण ङीप्‌ प्राप्तः प्रतिषिद्ध्यते । अपरिमाणान्ताद्‌ द्विगोर्बिस्ताचितकम्बल्यान्ताच्च तद्धितलुकि सति ङीप्‌ प्रत्ययो न भवति । बिस्तादीनां परिमाणार्थं ग्रहणम् । सर्वतो मानम् = परिमाणम् ।
अपरिमाणान्तात्तावत् - पञ्चभिरश्वैः क्रीता पञ्चाश्वा । दशाश्वा ।(5-1-37/1702)(5-1-28/1693)
कालः सङ्ख्या च न परिमाणम् । द्विवर्षा । त्रिवर्षा(5-2-37/1838) । द्वाभ्यां शताभ्यां क्रीता द्विशता । त्रिशता ।(5-1-22/1687)
बिस्तादिभ्यः - द्विबिस्ता । त्रिबिस्ता । द्व्याचिता । त्र्याचिता (5-1-54/1720)। द्विकम्बल्या । त्रिकम्बल्या ।(5-1-37/1702)
अपरिमाणेति किम् ? द्व्याढकी । त्र्याढकी । तद्धितलुकीति किम् ? समाहारे--पञ्चाश्वी । दशाश्वी ।
काण्डान्तात्क्षेत्रे ।। 4-1-23 ।।
काण्डशब्दान्ताद्‌ द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप्‌ प्रत्ययो न भवति । द्वे काण्डे प्रमाणमस्याः क्षेत्रभक्तेः, प्रमाणे द्वयसज्‌दघ्नञ्मत्रचः(5-2-37/1838) इति विहितस्य तद्धितस्य `प्रमाणे लो द्विगोर्नित्यम्(5-2-37/1838) इति लुकि कृतेद्विकाण्डा क्षेत्रभक्तिः, त्रिकाण्डा क्षेत्रभक्तिः ।
काण्डशब्दस्यापरिमाणवाचित्वात्पूर्वेणैव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम् । इह मा भूत्‌--द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुरिति । प्रमाणविशेषः = काण्डम् ।।
पुरुषात्प्रमाणेऽन्यतरस्याम् ।। 4-1-24 ।।
`द्विगोः `तद्धितलुकि इत्येव । प्रमाणे यः पुरुषशब्दस्तदन्ताद्‌ द्विगोस्तद्धितलुकि सति अन्यतरस्यां न ङीप्‌ प्रत्ययो भवति । द्वौ पुरुषौ प्रमाणमस्याः परिखायाः द्विपुरुषा, द्विपुरुषी । त्रिपुरुषा, त्रिपुरुषी ।
अपरिमाणान्तत्वान्नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् ।
प्रमाण इति किम् ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । त्रिपुरुषा ।
तद्धितलुकीत्येव, समाहारे -- द्विपुरुषी, त्रिपुरुषी ।
बहुब्रीहेरूधसो ङीष्‌ ।। 4-1-25 ।।
ऊधस्शब्दान्ताद्बहुव्रीहेः स्त्रियां ङीष्‌ प्रत्ययो भवति । ऊधसोऽनङ्‌(5-4-131/483) इति समासान्ते कृते अनो बहुव्रीहेः(4-1-12/460) इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते । घटोध्नी । कुण्डोध्नी ।
बहुव्रीहेरिति किम् ? प्राप्ता ऊधः प्राप्तोधाः ।
अन उपधालोपिनोऽन्यतरस्याम्(4-1-28/462) इत्यस्यापि ङीपोऽयमुत्तरत्रानुवृत्तेर्बाधक इष्यते । समासान्तश्च स्त्रियामेव, इह न भवति--महोधाः पर्जन्य इति ।।
सङ्ख्याव्ययादेर्ङीप्‌ ।। 4-1-26 ।।
पूर्वेण ङीषि प्राप्ते ङीब्विधीयते । सङ्ख्यादेरव्ययादेश्च बहुव्रीहेरूधःशब्दान्ताद् ङीप्‌ प्रत्ययो भवति । सङ्ख्यादेस्तावत्--द्व्यूध्नी । त्र्यूध्नी । अव्ययादेः--अत्यूध्नी । निरूध्नी ।
आदिग्रहणं किम् ? द्विविधोध्नी, त्रिविधोध्नीत्यत्रापि यथा स्यात्‌ ।।
दामहायनान्ताच्च ।। 4-1-27 ।।
`ऊधसः इति निवृत्तम् । सङ्ख्याग्रहणमनुवर्तते, नाव्ययग्रहणम् । सङ्ख्यादेर्बहुव्रीहेर्दामशब्दान्ताद्धायनशब्दान्ताच्च स्त्रियां ङीप्‌ प्रत्ययो भवति । दामान्तात्‌ डाप्प्रतिषेधविकल्पेषु
प्राप्तेषु नित्यार्थं वचनम् । द्विदाम्नी । त्रिदाम्नी ।
हायनान्ताट्टापि प्राप्ते - द्विहायनी । त्रिहायनी । चतुर्हायणी ।

  • हायनो वयसि स्मृतः *(म.भा.2.213) तेनेह न भवति--द्विहायना शाला, त्रिहायना, चतुर्हायना । णत्वमपि `त्रिचतुर्भ्यां हायनस्य इति वयस्येव स्मर्यते ।।

अन उपधालोपिनोऽन्यतरस्याम् ।। 4-1-28 ।।
`बहुव्रीहेः इत्येव । अन्नन्तो यो बहुव्रीहिरुपधालोपी तस्मादन्यतरस्यां ङीप्‌ प्रत्ययो भवति । ङीपा मुक्ते डाप्प्रतिषेधौ भवतः ।
किमर्थं तर्हीदमुच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः ? अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनम् । बहुराजा । बहुराज्ञी । बहुराजे । बहुतक्षा । बहुतक्ष्णी । बहुतक्षे ।
अन इति किम् ? बहुमत्स्या । उपधालोपिनः किम् ? सुपर्वा । सुपर्वे । सुपर्वाः । सुपर्वाणौ । सुपर्वाणः । डाप्प्रतिषेधावेवात्र भवतः ।।
नित्यं संज्ञाछन्दसोः ।। 4-1-29 ।।
</>
अन्नन्ताद्बहुव्रीहेरुपधालोपिनः संज्ञायां विषये छन्दसि च नित्यं ङीप्‌ प्रत्ययो भवति । विकल्पस्यापवादः । सुराज्ञो, अतिराज्ञी नाम ग्रामः । छन्दसि--गौः पञ्चदाम्नी । एकदाम्नी । द्विदाम्नी । `एकमूर्ध्नी(अ.वे.<8-9-15>) । `समानमूर्ध्नी(तै.सं.<4-3-11>.4) ।।
केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ।। 4-1-30 ।।
</8-9-15>
`संज्ञाछन्दसोः इत्येव । केवलादिभ्यः प्रातिपदिकेभ्यः संज्ञायां छन्दसि विषये स्त्रियां ङीप्‌ प्रत्ययो भवति । केवली । केवलेति भाषायाम् । `मामकी(पै.<1-6-8>) । मामिकेति भाषायाम् । `मित्रावरुणयोर्भागधेयी स्थ(तै.<1-3-12>.1) । भागधेयेति भाषायाम् । `पापी त्वियम्(मै.<4-2-14>) । पापेति भाषायाम् । `उताऽपरिभ्यो मघवा विजिग्ये(ऋ.<1-32-13>) । अपरेति भाषायाम् । `समानी प्रवाणी(ऋ.<10-191-3>) । समानेति भाषायाम् । `आर्यकृती(मै.<1-8-3>) । आर्यकृतेति भाषायाम् । `सुमङ्गली(ऋ.<10-85-33>) । सुमङ्गलेति भाषायाम् । `भेषजी(तै.<4-5-10>.1) । भेषजेति भाषायाम् ।।
रात्रेश्चाजसौ ।। 4-1-31 ।।
</1-6-8>
जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दाद्‌ ङीप्‌ प्रत्ययो भवति । या च रात्री सृष्टा । `रात्रीभिः(ऋ.<10-10-9>) ।
अजसाविति किम् ? यास्ता रात्रयः ।।

  • अजसादिष्विति वक्तव्यम् *(म.भा.2.213) रात्रिं सहोषित्वा ।

कथं तिमिरपटलैरवगुण्ठिताश्च रात्र्यः ? ङीषयं बह्वादिलक्षणः, तत्र हि पठ्यते -`कृदिकारादक्तिनः(ग.सू.50), `सर्वतोऽक्तिन्नर्थादित्येके(ग.सू.51) इति ।।
अन्तर्वत्पतिवतोर्नुक्‌ ।। 4-1-32 ।।
प्रकृतिर्निपात्यते, नुगागमस्तु विधीयते । अन्तर्वत्पतिवतोर्नुग्भवति ङीप्‌ च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः । निपातनसामर्थ्याच्च विशेषे वृत्तिर्भवति । अन्तर्वत्‌, पतिवदिति गर्भ-भर्तृसंयोगे । इह तु न भवति - अन्तरस्यां शालायां विद्यते । पतिमती पृथिवी ।
अन्तर्वदिति मतुब्निपात्यते, वत्वं सिद्धम् । पतिवदिति वत्वं निपात्यते, मतुप्सिद्धः । अन्तर्वत्नी गर्भिणी । पतिवत्नी जीवपतिः ।
`अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात् ।
गर्भिण्यां जीवपत्यां च वाच्छन्दसि तु नुग्विधिः(म.भा.2.214) ।।
सान्तर्वत्नी देवानुपैत्‌ । सान्तर्वती देवानुपैत्‌ । पतिवत्नी तरुणवत्सा । पतिवती तरुणवत्सा ।।
पत्युर्नो यज्ञसंयोगे ।। 4-1-33 ।।
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते । ङीप्‌ प्रत्ययस्तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे । यज्ञेन संयोगः = यज्ञसंयोगः ।
तत्साधनत्वात्फलग्रहीतृत्वाद्वा यजमानस्य पत्नी । पत्नि वाचं यच्छ ।
यज्ञसंयोग इति किम् ? ग्रामस्य पतिरियं ब्राह्मणी ।
कथं वृषलस्य पत्नी ? उपमानाद् भविष्यति ।
विभाषा सपूर्वस्य ।। 4-1-34 ।।
`पत्युर्न इति वर्त्तते । पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति । ङीप्‌ तु लभ्यत एव । वृद्धपतिः, वृद्धपत्नी । स्थूलपतिः, स्थूलपत्नी(म.भा.2.214) । अप्राप्तविभाषेयम्, अयज्ञसंयोगत्वात्‌ ।
सपूर्वस्येति किम् ? पतिरियं ब्राह्मणी ग्रामस्य ।।
नित्यं सपत्न्यादिषु ।। 4-1-35 ।।
सपत्न्यादिषु नित्यं पत्युर्नकारादेशो भवति । ङीप्‌ तु लभ्यत एव । पूर्वेण विकल्पे प्राप्ते वचनम् । नित्यग्रहणं विस्पष्टार्थम् । समानः पतिरस्याः सपत्नी । एकपत्नी ।
समानादिष्विति वक्तव्ये समानस्य सभावार्थं वचनम् ।
समान । एक । वीर । पिण्ड । भ्रातृ । पुत्त्र । * दासाच्छन्दसि * ।।
पूतक्रतोरै च ।। 4-1-36 ।।
पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति ङीप्‌ प्रत्ययः । पूतक्रतोः स्त्री पूतक्रतायी(म.भा.2.215) ।
त्रय एते योगाः पुंयोगप्रकरणे द्रष्टव्याः । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।।
वृषाकप्यग्निकुसितकुसिदानामुदात्तः ।। 4-1-37 ।।
वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप्‌ च प्रत्ययः । वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति । अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम् । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी ।
पुंयोग इत्येव--वृषाकपिः स्त्री ।।
मनोरौ वा ।। 4-1-38 ।।
`ऐ `उदात्तः इति वर्त्तते । मनुशब्दात्‌ स्त्रियां ङीप्‌ प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्चोदात्तः । वाग्रहणेन द्वावपि विकल्प्येते । तेन त्रैरूप्यं भवति--मनोः स्त्री मनायी(काठ.30.1), मनावी(मै.1.8), मनुः । मनुशब्द आद्युदात्तः ।।
वर्णादनुदात्तात्तोपधात्तो नः ।। 4-1-39 ।।
</10-10-9>
`वा इति वर्तते । वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात्तकारोपधाद्वा ङीप्‌ प्रत्ययो भवति, तकारस्य नकारादेशो भवति । एता, एनी(ऋ.<1-144-6>) । श्येता, श्येनी । हरिता, हरिणी । सर्व एते आद्युदात्ताः; वर्णानां तणतिनितान्तानाम्(फि.सू.2.10) इति वचनात् ।
वर्णादिति किम् ? प्रकृता । प्ररुता । गतिस्वरेणाद्युदात्तः(6-2-49/3783) । अनुदात्तादिति किम् ?श्वेता । घृतादित्वादन्तोदात्तः(फि.सू.1.21) । तोपधादिति किम् ? अन्यतो ङीषं वक्ष्यति । अत इत्येव - शितिर्ब्राह्मणी ।।

  • पिशङ्गादुपसङ्ख्यानम् *(म.भा.2.215) । पिशङ्गी ।
  • असितपलितयोः प्रतिषेधः *(म.भा.2.215) । असिता । पलिता ।

</1-144-6>

  • तयोश्छन्दसि क्नमित्येके *(म.भा.2.216) । `असिक्नी(शौ.अ.<1-23-1>) । `पलिक्नी(ऋ.<5-2-4>) ।

भाषायामपीष्यते--गतो गणस्तूर्णमसिक्निकानाम् ।।
अन्यतो ङीप्‌ ।। 4-1-40 ।।
`वा इति निवृत्तम्, `वर्णादनुदात्तात्‌ इति वर्त्तते, तोपधापेक्षमन्यत्वम् । वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष्‌ प्रत्ययो भवति । स्वरे विशेषः । सारङ्गी । कल्माषी । शबली । वर्णादित्येव, खट्‌वा । अनुदात्तादित्येव--कृष्णा । कपिला ।।
षिद्‌गौरादिभ्यश्च ।। 4-1-41 ।।
`ङीष्‌अनुवर्तते । षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष्‌ प्रत्ययो भवति । शिल्पिनि ष्वुन्‌(3-1-145/2907) नर्तकी । खनकी । रजकी ।
गौरादिभ्यः--गौरी । मत्सी ।
गौर । मत्स्य । मनुष्य । शृङ्ग । हय । गवय । मुकय । ऋष्य । पुट । द्रुण । द्रोण । हरिण । कण । पटर । उकण । आमलक । कुवल । बदर । बिम्ब । तर्कार । शर्कार । पुष्कर । शिखण्ड । सुषम । सलन्द । गडुज । आनन्द । सृपाट । सृगेठ । आढक । शष्कुल । सूर्म । सुब। सूर्य । पूष । मूष । घातक । सकलूक । सल्लक । मालक । मालत । सात्वक । वेतस । अतस । पृस । मह । मठ । छेद । श्वन्‌ । तक्षन्‌ । अनडुही । अनड्‌वाही । `एषणः करणे(ग.सू.42) । देह । काकादन । गवादन । तेजन । रजन । लवण । पान । मेध । गौतम । आयस्थूण । भौरि । भौलिकि । भौलिङ्गि । औद्गाहमानि । आलिङ्गि। आपिच्छिक । आरट। टोट । नट । नाट । मलाट । शातन । पातन । पावन । आस्तरण । अधिकरण । एत। अधिकार । आग्रहायणी । प्रत्यवरोहिणी । सेवन । * सुमङ्गालात्संज्ञायाम् * (ग.सू.43)। सुन्दर । मण्डल । पिण्ड। विटक। कुर्द। गूर्द। पट । पाण्ट । लोफाण्ट । कन्दर । । कन्दल । तरुण । तलुन । बृहत्‌ । महत्‌ । सौधर्म । * रोहिणी नक्षत्रे *(ग.सू.44),* रेवती नक्षत्रे *(ग.सू.45) विकल । निष्फल । पुष्कल । * कटाच्छ्रोणिवचने *(ग.सू.46) । * पिप्पल्यादयश्च *(ग.सू.47) । पिप्पली । हरीतकी । कोशातकी । शमी । करीरी । पृथिवी । क्रोष्ट्री । मातामह । पितामह । मातामहपितामहयोः `मातरि षिच्च(4-2-36/1242) इति षित्वादेव सिद्धे ज्ञापनार्थं वचनम् -`अनित्यः षिल्लक्षणो ङीष्‌ इति, तेन दंष्ट्रेत्युपपन्नं भवति ।।
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्‌ वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनाऽयोविकारमैथुनेच्छाकेशवेशेषु ।। 4-1-42 ।।
जानपदादिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासङ्ख्यं ङीष्‌ प्रत्ययो भवति । जानपदी भवति, वृत्तिश्चेत्‌ । जानपदी अन्या । स्वरे विशेषः। उत्सादिपाठादञि कृते ङीपाद्युदात्तत्वं भवति । कुण्डी भवति, अमत्रं चेत्‌ । कुण्डाऽन्या । गोणी भवति, आवपनं चेत्‌ । गोणान्या । स्थली भवति, अकृत्रिमा चेत्‌ । स्थलान्या । भाजी भवति, श्राणा चेत्‌, पक्वेत्यर्थः । भाजाऽन्या । नागी भवति, स्थौल्यं चेत्‌ । नागाऽन्या । नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम् । जातिवचनात्तु जातिलक्षणो ङीषेव भवति--नागी । काली भवति, वर्णश्चेत् । कालाऽन्या । नीली भवति अनाच्छादनं चेत्‌ । नीलाऽन्या । न च सर्वस्मिन्ननाच्छादन इष्यते, किं तर्हि ? * नीलादोषधौ, प्राणिनि च * । नीली ओषधिः, नीली गौः, नीली वडवा । * संज्ञायां वा * । नीला । कुशी भवति, अयोविकारश्चेत्‌ । कुशान्या । कामुकी भवति, मैथुनेच्छा चेत्‌ । कामुकान्या । मैथुनेच्छावती भण्यते, नेच्छामात्रम् । कबरी भवति, केशवेशश्चेत्‌ । कबरान्या ।।
शोणात्प्राचाम् ।। 4-1-43 ।।
शोणशब्दात्प्राचामाचार्याणां मतेन स्त्रियां ङीष्‌ प्रत्ययो भवति । शोणी, शोणा वडवा ।।
वोतो गुणवचनात् ।। 4-1-44 ।।
गुणमुक्तवान्‌ = गुणवचनः । गुणवचनात्प्रातिपदिकाद्‌ उकारान्तात्‌ स्त्रियां वा ङीष्‌ प्रत्ययो भवति । पटुः, पट्‌वी । मृदुः, मृद्वी ।
उत इति किम् ? शुचिरियं ब्राह्मणी । गुणवचनादिति किम् ? आखुः ।

  • वसुशब्दाद्‌गुणवचनाद् ङीबाद्युदात्तार्थम् * (म.भा.2.217)। वस्वी ।
  • खरुसंयोगोपधात्प्रतिषेधो वक्तव्यः *(म.भा.2.217) । खरुरियं ब्राह्मणी । पाण्डुरियं ब्राह्मणी ।

`सत्त्वे निविशतेऽपैति पृथग्‌ जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ।।(म.भा.2.217)
बह्वादिभ्यश्च ।। 4-1-45 ।।
`बहु इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष्‌ प्रत्ययो भवति । बहुः, बह्वी ।
बहु । पद्धति । अङ्कति । अञ्चति । अंहति । वंहति । शकटि । * शक्तिः शस्त्रे *(ग.सू.48) । शारि । वारि । गति । अहि । कपि । मुनि । यष्टि । * इतः प्राण्यङ्गात्‌* (ग.सू.49)। * कृदिकारादक्तिनः * (ग.सू.50)। * सर्वतोऽक्तिन्नर्थादित्येके *(ग.सू.51)। चण्ड । अराल । कमल । कृपाण । विकट । विशाल । विशङ्कट । भरुज । ध्वज । * चन्द्रभागान्नद्याम् *(ग.सू.52) । कल्याण । उदार । पुराण । अहन्‌ ।
बहुशब्दो गुणवचन एव, तस्येह पाठ उत्तरार्थः ।।
नित्यं छन्दसि ।। 4-1-46 ।।
बह्वादिभ्यश्छन्दसि विषये नित्यं स्त्रियां ङीष्‌ प्रत्ययो भवति । बह्वीषु हित्वा प्रपिबन्‌ । बह्वी नाम औषधी भवति ।
नित्यग्रहणमुत्तरार्थम् ।।
भुवश्च ।। 4-1-47 ।।
</1-23-1>
छन्दसि विषये स्त्रियां भुवो नित्यं ङीष्‌ प्रत्ययो भवति । `विभ्वी च(ऋ.<5-38-1>) । `प्रभ्वी च(ऋ.<1-188-5>) । शम्भ्वी च ।
इह कस्मान्न भवति - स्वयम्भूः ? `उतः(4-1-44/502) इति तपरकरणमनुवर्तते, ह्रस्वादेवेयं पञ्चमी । `भुवः इति सौत्रो निर्देशः ।।
पुंयोगादाख्यायाम् ।। 4-1-48 ।।
पुंसा योगः = पुंयोगः । पुंयोगाद्धेतोर्यत्प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद्‌ ङीष्‌ प्रत्ययो भवति गणकस्य स्त्री गणकी । महामात्री । प्रष्ठी । प्रचरी । पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात्‌ पुंशब्दा एते, तद्योगात्स्त्रियां वर्तन्ते ।
पुंयोगादिति किम् ? देवदत्ता । यज्ञदत्ता । आख्याग्रहणं किम् ? परिसृष्टा । प्रजाता । पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते ।

  • गोपालिकादीनां प्रतिषेधः *(म.भा.2.217) । गोपालकस्य स्त्री गोपालिका ।
  • सूर्याद्‌ देवतायां चाब्वक्तव्यः *(म.भा.2.220) । सूर्यस्य स्त्री देवता सूर्या । देवतायामिति किम् ? सूरी ।।

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक्‌ ।। 4-1-49 ।।
इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष्‌ प्रत्ययो भवति, आनुक्चागमः । येषामत्र पुंयोग एवेष्यते तेषामानुगागममात्रं विधीयते, प्रत्ययस्तु पूर्वेणैव सिद्धः । अन्येषां तूभयं विधीयते । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी ।

  • हिमारण्ययोर्महत्त्वे *(म.भा.2.220) महद्धिमं हिमानी । महदरण्यमरण्यानी ।
  • यवाद्दोषे *(म.भा.2.220) । दुष्टो यवो यवानी ।
  • यवनाल्लिप्याम् *(म.भा.2.220) । यवनानी लिपिः ।
  • उपाध्यायमातुलाभ्यां वा * (म.भा.2.220)। उपाध्यायी, उपाध्यायानी । मातुली । मातुलानी ।
  • आचार्यादणत्वं च *(म.भा.2.220) ।। आचार्यानी । आचार्या ।
  • अर्यक्षत्त्रियाभ्यां वा * (म.भा.2.220)। अर्याणी, अर्या । क्षत्त्रियाणी, क्षत्त्रिया । विना पुंयोगेन स्वार्थ एवायं विधिः । पुंयोगे तु ङीषैव भवितव्यम्--अर्यी, क्षत्त्रियी ।

</5-38-1>

  • मुद्‌गलाच्छन्दसि लिच्च *(म.भा.2.220) । `रथीरभून्मुद्‌गलानी गविष्टौ(ऋ.<10-102-2>) ।।

क्रीतात्करणपूर्वात् ।। 4-1-50 ।।
करणं पूर्वमस्मिन्निति करणपूर्वं प्रातिपदिकम् । क्रीतशब्दान्तात् प्रातिपदिकात्करणपूर्वात्स्त्रियां ङीष्‌ प्रत्ययो भवति । वस्त्रेण क्रीयते सा वस्त्रक्रीती । वसनक्रीती ।
करणपूर्वादिति किम् ? सुक्रीता । दुष्क्रीता ।
इह कस्मान्न भवति -
`सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी इति ?
टाबन्तेन समासः, अत इति चानुवर्तते । `गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्‌ सुबुत्पत्तेः इति, बहुलं तदुच्यते -कर्तृकरणे कृता बहुलम्(2-1-32/694) इति ।।
क्तादल्पाख्यायाम् ।। 4-1-51 ।।
`करणपूर्वात्‌ इत्येव । करणपूर्वात्प्रातिपदिकात् क्तान्तादल्पाख्यायां ङीष्‌ प्रत्ययो भवति । `अल्पाख्यायाम् इति समुदायोपाधिः । अभ्रविलिप्ती द्यौः । सूपविलिप्ती पात्री । अल्पसूपेत्यर्थः ।
अल्पाख्यायामिति किम् ? चन्दनानुलिप्ता ब्राह्मणी ।।
बहुव्रीहेश्चान्तोदात्तात्‌ ।। 4-1-52 ।।
`क्तात्‌ इत्येव । बहुव्रीहिर्योऽन्तोदात्तस्तस्मात्स्त्रियां ङीष्‌ प्रत्ययो भवति । स्वाङ्गपूर्वपदो बहुव्रीहिरिहोदाहरणम् , अस्वाङ्गपूर्वपदाद्विकल्पं वक्ष्यति । शङ्खभिन्नी । ऊरुभिन्नी । गलकोत्कृत्ती । केशलूनी ।
बहुव्रीहेरिति किम् ? पादपतिता ।

  • अन्तोदात्ताज्जातप्रतिषेधः *(म.भा.2.221) दन्तजाता, स्तनजाता ।
  • पाणिगृहीत्यादीनामर्थविशेषे *(म.भा.2.221) पाणिगृहीती भार्या । यस्यास्तु कथञ्चित्पाणिर्गृह्यते पाणिगृहीता सा भवति ।
  • अबहुनञ्सुकालसुखादिपूर्वादिति वक्तव्यम् *(म.भा.2.222) । बहुकृता । नञ्‌-अकृता । सु - सुकृता । काल - मासजाता, संवत्सरजाता । सुखादि - सुखजाता, दुःखजाता । जातिकालसुखादिभ्योऽनाच्छादनात्‌क्तोऽकृतमितप्रतिपन्नाः(6-2-170/6904) इत्येवमादिना बहुव्रीहेरन्तोदात्तत्वम् ।।

अस्वाङ्गपूर्वपदाद्वा ।। 4-1-53 ।।
`अन्तोदात्तात्‌ क्तान्तात् इत्यनुवर्त्तते । अस्वाङ्गपूर्वपदादन्तोदात्तात्‌ क्तान्ताद्बहुव्रीहेः स्त्रियां वा ङीष्‌ प्रत्ययो भवति । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । शार्ङ्गजग्धी, शार्ङ्गजग्धा । पलाण्डुभक्षिती पलाण्डुभक्षिता । सुरापीती, सुरापीता ।
अस्वाङ्गपूर्वपदादिति किम् ? शङ्खभिन्नी । ऊरुभिन्नी । अन्तोदात्तादित्येव - वस्त्रच्छन्ना, वसनच्छन्ना ।

  • बहुलं संज्ञाछन्दसोरिति वक्तव्यम् * । प्रवृद्धविलूनी, प्रवृद्धविलूना । प्रवृद्धा चासौ विलूना चेति, नायं बहुव्रीहिः ।

स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्‌ ।। 4-1-54 ।।
`बहुव्रीहेः क्तान्तादन्तोदात्तात्‌ इति सर्वं निवृत्तम् । वाग्रहणमनुवर्तते । स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्‌ प्रत्ययो भवति । चन्द्रमुखी, चन्द्रमुखा । अतिक्रान्ता केशान्‌ अतिकेशी, अतिकेशा माला ।
स्वाङ्गादिति किम् ? बहुयवा । उपसर्जनादिति किम् ? अशिखा । असंयोगोपधादिति किम् ? सुगुल्फा । सुपार्श्वा ।

  • अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् *(म.भा.2.222) । मृद्वङ्गी, मृद्वङ्गा । सुगात्री, सुगात्रा । स्निग्धकण्ठी, स्निग्धकण्ठा ।

`अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् ।
अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथायुतम् ।।(म.भा.2.222)
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ।। 4-1-55 ।।
`स्वाङ्गाच्चोपसर्जनात् इत्येव । बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम् । सहनञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येव । नासिकाद्यन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्‌ प्रत्ययो भवति । तुङ्गनासिकी, तुङ्गनासिका । तिलोदरी, तिलोदरा । बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा । तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा ।

  • पुच्छाच्चेति वक्तव्यम् * । कल्याणपुच्छी । कल्याणपुच्छा ।
  • कबरमणिविषशरेभ्यो नित्यम् *(म.भा.2.224) कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ।
  • उपमानात्पक्षात्‌ पुच्छाच्च *(म.भा.2.224) । उलूकपक्षी सेना । उलूकपुच्छी शाला ।।

न क्रोडादिबह्वचः ।। 4-1-56 ।।
`स्वाङ्गात्‌ इति ङीष्‌ प्राप्तः प्रतिषिध्यते । क्रोडाद्यन्ताद बह्वजन्ताच्च प्रातिपदिकात्स्त्रियां ङीष्‌ प्रत्ययो न भवति । कल्याणक्रोडा । कल्याणखुरा । कल्याणोखा । कल्याणबाला । कल्याणशफा । कल्याणगुदा । कल्याणघोणा । कल्याणनखा । कल्याणमुखा । क्रोडादिराकृतिगणः । सुभागा । सुगला ।
बह्वचः खल्वपि - पृथुजघना । महाललाटा ।।
सहनढ्विद्यमानपूर्वाच्च ।। 4-1-57 ।।
स्वाङ्गाच्चोपसर्जनात्‌(4-1-54/510) इति नासिकोदरौष्ठजङ्घा(4-1-55/511) इति च प्राप्तो ङीष्प्रतिषिद्ध्यते । सह, नञ्‌, विद्यमान इत्येवम्पूर्वात्प्रातिपदिकात् स्त्रियां ङीष्‌ प्रत्ययो न भवति । सकेशा, अकेशा, विद्यमानकेशा । सनासिका, अनासिका, विद्यमाननासिका ।।
नखमुखात्संज्ञायाम् ।। 4-1-58 ।।
नखमुखान्तात्प्रातिपदिकात्संज्ञायां स्त्रियां विषये ङीष्‌ प्रत्ययो न भवति । शूर्पणखा । वज्रणखा । गौरमुखा । कालमुखा ।
संज्ञायामिति किम् ? ताम्रनखी कन्या । चन्द्रमुखी ।।
दीर्घजिह्वी च च्छन्दसि ।। 4-1-59 ।।
</10-102-2>
`दीर्घजिह्वी इति छन्दसि विषये निपात्यते । संयोगोपधत्वादप्राप्तो ङीष्‌ विधीयते । `दीर्घजिह्वी वै देवानां हव्यमवालेट्‌(मै.सं.<3-10-6>) । चकारः संज्ञानुकर्षणार्थः । `दीर्घजिह्वी इति निपातनं नित्यार्थम् ।।
दिक्पूर्वपदान्ङीप्‌ ।। 4-1-60 ।।
स्वाङ्गाच्चोपसर्जनात्‌(4-1-54/510) इत्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते । यत्र ङीष्‌ विहितस्तत्र तदपवादः । दिक्पूर्वपदात्प्रातिपदिकाद्‌ ङीप् प्रत्ययो भवति । स्वरे विशेषः । प्राङ्‌मुखी, प्राङ्‌मुखा । प्राङ्‌नासिकी, प्राङ्नासिका ।
इह न भवति - प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघनेति ।।
वाहः ।। 4-1-60 ।।
ङीषेव स्वर्यते, न ङीप्‌ । वहेरयं ण्विप्रत्ययान्तस्य निर्देशः । सामर्थ्यात्तदन्तविधेर्विज्ञानम् । वाहन्तात्प्रातिपदिकात्स्त्रियां ङीष्‌ प्रत्ययो भवति । दित्यौही । प्रष्ठौही ।।
सख्यशिश्वीति भाषायाम् ।। 4-1-62 ।।
सखी, अशिश्वी - इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते । सखीयं मे ब्राह्मणी । नास्याः शिशुरस्तीति अशिश्वी ।
</3-10-6>
भाषायामिति किम् ? `सखा सप्तपदी भव(आ.गृ.<1-7-19>) । अशिशुमिव मामयं शिशुरभिमन्यते ।।
जातेरस्त्रीविषयादयोपधात्‌ ।। 4-1-63 ।।
जातिवाचि यत्प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमयकारोपधं च तस्मात्स्त्रियां ङीष्‌ प्रत्ययो
भवति ।
`आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक्‌ ।
सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ।।(म.भा.2.225)
कुक्कुटी । सूकरी । मयूरी । ब्राह्मणी । वृषली । नाडायनी । चारायणी । कठी । वह्वृची । जातेरिति किम् ? मुण्डा । अस्त्रीविषयादिति किम् ? मक्षिका । अयकारोपधादिति किम्? क्षत्त्रिया ।

  • योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः * (म.भा.2.226)। हयी । गवयी । मुकयी । मत्सी । मनुषी ।।

पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ।। 4-1-64 ।।
पाकाद्युत्तरपदाज्जातिवाचिनः प्रातिपदिकात्स्त्रियां ङीष्‌ प्रत्ययो भवति । स्त्रीविषयत्वादेतेषां पूर्वेणाप्राप्तः प्रत्ययो विधीयते । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोबाली ।
पुष्पफलमूलोत्तरपदात्तु यतो नेष्यते तदजादिषु पठ्यते -`सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्‌(ग.सू.53), `सम्भस्त्राजिनशणपिण्डेभ्यः फलात्‌(ग.सू.54), `मूलान्नञः(ग.सू.55) इति ।।
इतो मनुष्यजातेः ।। 4-1-65 ।।
इकारान्तात्प्रातिपदिकान्मनुष्यजातिवाचिनः स्त्रियां ङीष्‌ प्रत्ययो भवति । अवन्ती । कुन्ती । दाक्षी । प्लाक्षी ।
इत इति किम् ? विट्‌ । दरत्‌ । मनुष्यग्रहणं किम् ? तित्तिरिः । `जातेः इति वर्तमाने पुनर्जातिग्रहणं योपधादपि यथा स्यात्‌ - औदमेयी (म.भा.2.226)।

  • इञ उपसङ्ख्यानमजात्यर्थम् *(म.भा.2.226) । सौतङ्गमी । मौनचित्ती । सुतङ्गमादिभ्यश्चातुरर्थिक इञ्‌ न जातिः ।।

ऊङुतः ।। 4-1-66 ।।
`मनुष्यजातेः इति वर्त्तते । उकारान्तान्मनुष्यजातिवाचिनः प्रातिपदिकात्स्त्रियामूङ्‌ प्रत्ययो भवति । कुरूः । ब्रह्मबन्धूः । वीरबन्धूः ।
ङकारः नोङ्‌धात्वोः(6-1-175/3721) इति विशेषणार्थः । दीर्घोच्चारणं कपो बाधनार्थम् । `अयोपधात्‌ इत्येतदत्रापेक्ष्यते । अध्वर्युर्ब्राह्मणी ।

  • अप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम् *(म.भा.2.226) । अलाबूः । कर्कन्धूः । अप्राणिग्रहणं किम् ? कृकवाकुः । अरज्ज्वादीनामिति किम् ? रज्जुः । हनुः ।।

बाह्वन्तात्संज्ञायाम् ।। 4-1-67 ।।
बाहुशब्दान्तात्प्रातिपदिकात्संज्ञायां विषये स्त्रियामूङ्‌ प्रत्ययो भवति । भद्रबाहूः । जालबाहूः ।
संज्ञायामिति किम् ? वृत्तौ बाहू यस्याः सा वृत्तबाहुः ।।
पङ्गोश्च ।। 4-1-68 ।।
पङ्गुशब्दात्स्त्रियामूङ्‌ प्रत्ययो भवति । पङ्‌गूः ।

  • श्वशुरस्योकाराकारयोर्लोपश्च वक्तव्यः * । श्वश्रूः ।।

ऊरूत्तरपदादौपम्ये ।। 4-1-69 ।।
ऊरूत्तरपदात्प्रातिपदिकादौपम्ये गम्यमाने स्त्रियामूङ्‌ प्रत्ययो भवति । कदलीस्तम्भोरूः । नागनासोरूः । करभोरूः ।
औपम्य इति किम् ? वृत्तोरुः स्त्री ।।
संहितशफलक्षणवामादेश्च ।। 4-1-70 ।।
संहित, शफ, लक्षण, वाम - इत्येवमादेः प्रातिपदिकादूरूत्तरपदात्‌ स्त्रियामूङ्‌ प्रत्ययो भवति । अनौपम्यार्थ आरम्भः । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः ।

  • सहितसहाभ्यां चेति वक्तव्यम् * (म.भा.2.227)। सहितोरूः । सहोरूः ।।

कद्रुकमण्डल्वोश्छन्दसि ।। 4-1-71 ।।
</1-7-19>
कद्रुशब्दात्कमण्डलुशब्दाच्च छन्दसि विषये स्त्रियामूङ्‌ प्रत्ययो भवति । `कद्रूश्च वै सुपर्णी च(तै.सं.<6-1-6>) । मा स्म कमण्डलूं शूद्राय दद्यात्‌ ।
छन्दसीति किम् ? कद्रुः । कमण्डलुः ।
</6-1-6>

  • गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् *(म.भा.2.227) । `गुग्गुलूः(अ.<4-37-3>) । `मधूः(अ.<7-56-2>) । `जतूः(मै.<3-14-6>) । `पतयालूः(अ.<7-115-2>) ।।

संज्ञायाम् ।। 4-1-72 ।।
कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियामूङ्‌ प्रत्ययो भवति । अच्छन्दोऽर्थं वचनम् । कद्रूः । कमण्डलूः ।
संज्ञायामिति किम् ? कद्रुः । कमण्डलुः ।।
शाङ्गरवाद्यञो ङीन्‌ ।। 4-1-73 ।।
शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन्‌ प्रत्ययो भवति । शार्ङ्गरवी । कापटवी । अञन्तेभ्यः - बैदी । और्वी ।
जातिग्रहणं चेहानुवर्त्तते । तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः - बैदस्य स्त्री बैदी ।
शार्ङ्गरव, कापटव, गौगुलव, ब्राह्मण, गौतम - एतेऽणन्ताः । कामण्डलेय, ब्राह्मकृतेय, आनिचेय, आनिधेय, आशोकेय - एतेढगन्ताः । वात्स्यायन, मौञ्जायन - एतौ फगन्तौ जातिः । कैकसेयः - ढगन्तः । काव्यशैव्यौ ञ्यङन्तौ । एहि, पर्येहि - कृदिकारान्तौ । आश्मरथ्यः - यञन्तः । औदपानः - उदपानशब्दः शुण्डिकाद्यणन्तः प्रयोजयति । अराल, चण्डाल, वतण्ड - जातिः ।

  • भोगवद्‌गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् * (ग.सू.56)।
  • नृनरयोर्वृद्धिश्च *(ग.सू.57) । अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन्विधीयते ।।

यङ्‌श्चाप्‌ ।। 4-1-74 ।।
यङन्तात्प्रातिपदिकात्स्त्रियां चाप्‌ प्रत्ययो भवति । ञ्यङः ष्यङश्च सामान्यग्रहणमेतत् । आम्बष्ठ्या । सौवीर्या । कौसल्या । ष्यङ्‌ - कारिषगन्ध्या । वाराह्या । बालाक्या ।

  • षाच्च यञः * (म.भा.2.228)। षात्परो यो यञ्‌ तदन्ताच्चाप्‌ वक्तव्यः । शार्कराक्ष्या । पौतिमाष्या । गौकक्ष्या । उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति ।।

आवट्याच्च ।। 4-1-75 ।।
अवटशब्दो गर्गादिः, तस्माद्यञि कृते ङीपि प्राप्ते वचनमेतत् । आवट्याच्च स्त्रियां चाप्‌ प्रत्ययो भवति । आवट्या । प्राचां ष्फ एव, सर्वत्र ग्रहणात्‌ । आवट्यायनी ।
तद्धिताः ।। 4-1-76 ।।
अधिकारोऽयम् । आपञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामस्तद्धितसंज्ञास्ते वेदितव्याः । वक्ष्यति -यूनस्तिः(4-1-77/531), युवतिः । बहुवचनमनुक्ततद्धितपरिग्रहार्थम् - `पृथिव्या ञाञौ(4-1-85/1077), `अग्रादिपश्चाड्डिमच्‌(4-3-23/1391) इत्येवमादि लब्धं भवति ।
तद्धितप्रदेशआः - कृत्तद्धितसमासाश्च(1-2-46/179) इत्येवमादयः ।।
यूनस्तिः ।। 4-1-77 ।।
युवन्‌शब्दात्प्रातिपदिकात्स्त्रियां तिः प्रत्ययो भवति, स च तद्धितसंज्ञो भवति । ङीपोऽपवादः । युवतिः ।।
अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ्‌ गोत्रे ।। 4-1-78 ।।
गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति । `निर्दिश्यमानस्यादेशा भवन्ति(व्या.प.106) इत्यणिञोरेव विज्ञायते, न तु समुदायस्य । ङकारः सामान्यग्रहणार्थः
। षकारस्तदविघातार्थः -यङश्चाप्‌(4-1-74/528) इति ।
उत्तमशब्दः स्वभावात्‌ त्रिप्रभृतीनामन्त्यमक्षरमाह । उत्तमस्य समीपमुपोत्तमम्, गुरुः उपोत्तमं यस्य तद्‌ गुरूपोत्तमं प्रातिपदिकम् । करीषस्येव गन्धोऽस्य करीषगन्धिः, कुमुदगन्धिः; तस्यापत्यम्(4-1-92/1088) इत्यण्‌, तस्य ष्यङादेशः - कारीषगन्ध्या, कौमुदगन्ध्या । वराहस्यापत्यम्, अत इञ्‌(4-1-95/1095), वाराहिः, तस्य ष्यङादेशः - वाराह्या, बालाक्या ।
अणिञोरिति किम् ? ऋतभागस्यापत्यम्, बिदादित्वादञ्‌, आर्तभागी । गुरूपोत्तमादिकं सर्वमस्तीति न त्वणिञौ । टिड्ढाणञ्‌(4-1-15/470) इति ङीबेव भवति ।
अनार्षयोरिति किम् ? वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोरिति किम् ? औपगवी । कापटवी । गोत्र इति किम् ? तत्र जातः(4-3-25/1393), आहिच्छत्री, कान्यकुब्जी ।।
गोत्रावयवात्‌ ।। 4-1-79 ।।
`अणिञोः इत्येव । गोत्रावयवाः - गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः, ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या । मौखर्या ।
येषां त्वनन्तरापत्येऽपीष्यते - दैवदत्या, याज्ञदत्येति; ते क्रौड्यादिषु द्रष्टव्याः ।
क्रौड्यादिभ्यश्च ।। 4-1-80 ।।
`क्रौडि इत्येवमादिभ्यश्च स्त्रियां ष्यङ्‌ प्रत्ययो भवति । अगुरूपोत्तमार्थ आरम्भः, अनणिञर्थश्च । क्रौड्या । लाड्या ।
क्रौडि । लाडि । व्याडि । आपिशलि । आपक्षिति । चौपयत । चैटयत । शैकयत । बैल्वयत । वैकल्पयत । सौधातकि । * सूत युवत्याम् *(ग.सू.58) । * भोज क्षत्त्रिये * (ग.सू.59)। भौरिकि । भौलिकि । शाल्मकि । शालास्थलि । कापिष्ठलि । गौलक्ष्य । गौकक्ष्य ।।
दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ।। 4-1-81 ।।
दैवयज्ञि, शौचिवृक्षि, सात्यमुग्रि, काण्ठेविद्धि - इत्येतेषामन्यतरस्यां ष्यङ्‌ प्रत्ययो भवति । इञन्ता एते, गोत्रग्रहणं च नानुवर्तते । तेनोभयत्रविभाषेयम् । गोत्रे पूर्वेण नित्यः ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते । तेन मुक्ते इतो मनुष्यजातेः(4-1-65/520) इति ङीषेव भवति । दैवयज्ञ्या, दैवयज्ञी । शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुग्र्या, सात्यमुग्री । काण्ठेविद्ध्या, काण्ठेविद्धी ।
समर्थानां प्रथमाद्वा ।। 4-1-82 ।।
त्रयमप्यधिक्रियते - समर्थानामिति च, प्रथमादिति च, वेति च । स्वार्थिकप्रत्ययावधिश्चायमधिकारः - प्राग्दिशो विभक्तिः(5-3-1/1947) इति यावत्‌ । स्वार्थिकेषु ह्यस्योपयोगो नास्ति, विकल्पोऽपि तत्रानवस्थितः । केचिन्नित्यमेव भवन्ति । लक्षणवाक्यानि -तस्यापत्यम्(4-1-92/1088), तेन रक्तं रागात्‌(4-2-1/1202), तत्र भवः (4-3-53/1428) इत्येवमादीनि भविष्यन्ति । तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवतीति वेदितव्यम् ।
`समर्थानाम् इति निर्द्धारणे षष्ठी । समर्थानां मध्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते । तस्येति सामान्यं विशेषलक्षणार्थम्, तदीयं प्राथम्यं विशेषाणां विज्ञायते । उपगोरपत्यम् औपगवः ।
समर्थानामिति किम् ? कम्बल उपगोरपत्यं देवदत्तस्य । प्रथमादिति किम् ? षष्ठ्यन्ताद्यथा स्यात्‌, प्रथमान्तान्मा भूत्‌ ।
वाग्रहणं किम् ? वाक्यमपि हि यथा स्यात्‌ - उपगोरपत्यमिति । यद्येवम्, समासवृत्तिस्तद्धितवृत्त्या बाध्येत - उपग्वपत्यमिति ? नैष दोषः, पूर्वसूत्रादन्यतरस्याङ्ग्रहणमनुवर्तते, तेनैतदपि भविष्यति ।।
प्राग्दीव्यतेऽण्‌ ।। 4-1-83 ।।
तेन दीव्यति(4-4-2/1550) इति वक्ष्यति । तदेकदेशो दीव्यच्छब्दोऽवधित्वेन गृह्यते, प्राग्दीव्यत्संशब्दनाद्‌ यानित ऊर्ध्वमनुक्रमिष्यामोऽण्प्रत्ययस्तत्र भवतीति वेदितव्यम् । अधिकारः, परिभाषा, विधिर्वेति त्रिष्वपि दर्शनेष्वपवादविषयं परिहृत्याण्‌ प्रवर्तते । वक्ष्यति -तस्यापत्यम्(4-1-92/1088) औपगवः,
कापटवः ।
अश्वपत्यादिभ्यश्च ।। 4-1-84 ।।
अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेष्वण्‌ प्रत्ययो भवति । पत्युत्तरपदाद्‌ ण्यं वक्ष्यति, तस्यापवादः । आश्वपतम् । शातपतम् ।
अश्वपति । शतपति । धनपति । गणपति । राष्ट्रपति । कुलपति । गृहपति । धान्यपति । पशुपति । धर्मपति । सभापति । प्राणपति । क्षेत्रपति ।
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।। 4-1-85 ।।
`प्राग्दीव्यतः इत्येव । दिति, अदिति, आदित्य इत्येतेभ्यः पत्युत्तरपदाच्च प्रातिपदिकात्प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति । दैत्यः । आदित्यः । आदित्यम् । पत्युत्तरपदात्‌ - प्राजापत्यम् । सैनापत्यम् ।

  • यमाच्चेति वक्तव्यम् * । याम्यम् ।
  • वाङ्‌मतिपितृमतां छन्दस्युपसङ्ख्यानम् * (म.भा.2.236)। वाच्यम् । मात्यम् । पैतृमत्यम् ।

</4-37-3>

  • पृथिव्या ञाञौ * (म.भा.2.236)। `पार्थिवा(ऋ.<1-64-3>) । `पार्थिवी(पै.<16-46-3>) ।
  • देवाद्यञञौ * (म.भा.2.236)। दैव्यम् । दैवम् ।

</1-64-3>

  • बहिषष्टिलोपश्च * (म.भा.2.236)। `बाह्यः(अ.<19-44-6>) ।
  • ईकक्च * (म.भा.2.236)। बाहीकः ।
  • ईकञ्‌ छन्दसि *(म.भा.2.236) । बाहीकः । स्वरे विशेषः । टिलोपवचनमव्ययानां भमात्रे टिलोपस्यानित्यत्वज्ञापनार्थम् - आरातीयः ।
  • स्थाम्नोऽकारः * (म.भा.2.237)। अश्वत्थामः ।
  • लोम्नोपत्ये बहुषु * (म.भा.2.237)। उडुलोमाः । शरलोमाः । बहुष्विति किम् ? औडुलोमिः । शारलोमिः ।
  • सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्‌ *(म.भा.2.237) । गव्यम् । अजादिप्रत्ययप्रसङ्ग इति किम् ? गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् ।
  • ण्यादयोऽर्थविशेषलक्षणादपवादात्पूर्वविप्रतिषेधेन *(म.भा.2.237) । दितेरपत्यं दैत्यः । वनस्पतीनां समूहो वानस्पत्यम् ।

कथं दैतेयः ? दितिशब्दात्‌ `कृदिकारादक्तिनः(ग.सू.50) `सर्वतोऽक्तिन्नर्थादित्येके(ग.सू.51) इति ङीषं कृत्वा स्त्रीभ्यो ढक्‌ क्रियते । लिङ्गविशिष्टपरिभाषा चानित्या ।।
उत्सादिभ्योऽञ्‌ ।। 4-1-86 ।।
`प्राग्दीव्यतः इत्येव । उत्सादिभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ्‌ प्रत्ययो भवति, अणस्तदपवादानां च बाधकः । औत्सः । औदपानः ।
उत्स । उदपान । विकर । विनोद । महानद । महानस । महाप्राण । तरुण । तलुन । * वष्कयाऽसे *(ग.सू.60) । धेनु । पृथिवी । पङ्‌क्ति । जगती । त्रिष्टुप्‌ । अनुष्टुप्‌ । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । * उदस्थानाद्‌ देशे * (ग.सू.61)। * पृषदंशे *(ग.सू.62) । भल्लकीय । रथन्तर । मध्यन्दिन । बृहत्‌ । महत्‌ । * सत्वन्तु * । सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते - सत्वन्त्विति । कुरु । पञ्चाल । इन्द्रावसान । उष्णिक्‌ । ककुप्‌ । सुवर्ण । देव ।

  • ग्रीष्मादच्छन्दसीति वक्तव्यम् * (ग.सू.63)। इह मा भूत्‌--`ग्रैष्मी त्रिष्टुप्‌(काठ.सं.16.18) । छन्दश्चेह वृत्तं गृह्यते, न वेदः ।।

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ ।। 4-1-87 ।।
धान्यानां भवने क्षेत्रे खञ्(5-2-1/1802) इति वक्ष्यति । तस्य `प्राक्‌ इत्यनेनैव सम्बन्धः । प्राग्भवनसंशब्दनाद्येऽर्थास्तेषु स्त्रीशब्दात्पुंस्शब्दाच्च यथाक्रमं नञ्स्नञौ प्रत्ययौ भवतः । स्त्रीषु भवं स्त्रैणम् ।
पौस्नम् । स्त्रीणां समूहः स्त्रैणम् । पौंस्नम् । स्त्रीभ्य आगतं स्त्रैणम् । पौंस्नम् । स्त्रीभ्यो हितं स्त्रैणम् । पौंस्नम् ।
स्त्रियाः पुंवत्‌(6-3-34/831) इति ज्ञापकाद्वत्यर्थे न भवति । योगापेक्षं च ज्ञापकमिति स्त्रीवदित्यपि सिद्धम् ।।
द्विगोर्लुगनपत्ये ।। 4-1-88 ।।
`प्राग्दीव्यतः इति वर्तते, न `भवनात्‌ इति । `द्विगोः इति षष्ठी । द्विगोर्यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्यप्रत्ययं वर्जयित्वा तस्य लुग्भवति । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः । दशकपालः । द्वौ वेदावधीते द्विवेदः । त्रिवेदः ।
अनपत्य इति किम् ? द्वैदेवदत्तिः । त्रैदेवदत्तिः ।
प्राग्दीव्यत इत्येव - द्वैपारायणिकः ।
द्विगुनिमित्तविज्ञानादिह न भवति - पञ्चकपालस्येदं पाञ्चकपालम् । अथ वा - द्विगोरेवायं लुग्विधीयते, `द्विगोः इति स्थानषष्ठी ।
ननु च प्रत्ययादर्शनस्यैषा संज्ञा ? सत्यमेतत्;उपचारेण तु लक्षणया दिगुनिमित्तभूतः प्रत्यय एव द्विगुस्तस्य लुग्भवति । द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्मान्न द्विगुरुच्यते - पाञ्चकपालमिति ? न तस्य द्विगुत्वं निमित्तम्, इतरस्तु द्विगुत्वस्यैव निमित्तमित्यस्ति विशेषः ।
यद्येवम्, इह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति ? नैवात्र तद्धित उत्पद्यते, वाक्यमेव भवति । त्रैशब्द्यं हि साध्यम् - पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः, पञ्चकपाल इति; तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति ।
अथेह कस्मान्न भवति - पञ्चभ्यो गर्गेभ्य आगतं पञ्चगर्गरूप्यम्, पञ्चगर्गमयमिति ? वेत्यनुवर्तते, सा च व्यवस्थितविभाषा विज्ञायते ।
गोत्रेऽलुगचि ।। 4-1-89 ।।
`प्राग्दीव्यतः इत्येव । यस्कादिभ्यो गोत्रे(2-4-63/1146) इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तस्तेषामजादौ प्राग्दीव्यतीये विषयभूते प्रतिषिद्ध्यते । गर्गाणां छात्त्रा गार्गीयाः । वात्सीयाः । आत्त्रेयीयाः । खारपायणीयाः ।
गोत्र इति किम् ? कौबलम् । बादरम् । अचीति किम् ? गर्गेभ्य आगतं गर्गरूप्यम् । गर्गमयम् । प्राग्दीव्यत इत्येव - गर्गेभ्यो हितं गार्गीयम् ।
गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक्‌ बिदानामपत्यं युवा युवानौ - बैदः,बैदौ । बैदशब्दात् अत इञि(4-1-95/1095) कृते तस्य च इञः ण्यक्षत्त्रियार्षञितो यूनि लुगणिञोः(2-4-58/1276) इति लुकि रूपम् ।
एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि - बैदस्य बैदयोर्वाऽपत्यं बहवो माणवका बिदाः, न ह्यत्राञ्‌ बहुषूत्पन्नः ।।
यूनि लुक्‌ ।। 4-1-90 ।।
`प्राग्दीव्यतः इति वर्तते, `अचि इति च । प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युवप्रत्ययस्य लुग्भवति । तस्मिन्निवृत्ते सति यो यतः प्राप्नोति स ततो भवति । फाण्टाहृतस्यापत्यं फाण्टाहृतिः, तस्यापत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ(4-1-150/1174), फाण्टाहृतः, तस्य छात्त्रा इति विवक्षितेऽर्थे बुद्धिस्थे युवप्रत्ययस्य लुग्भवति, तस्मिन्निवृत्ते इञन्तं प्रकृतिरूपं सम्पन्नम्, तस्मात्‌ इञश्च(4-2-112/1333) इत्यण्‌ भवति, फाण्टाहृताः ।
भागवित्तस्यापत्यं भागवित्तिः, तस्यापत्यं युवा वृद्धाट्ठक्सौवीरेषु बहुलम्(4-1-148/1172) इति ठक्‌ - भागवित्तिकः, तस्य छात्त्राः - पूर्ववद्‌ युवप्रत्यये निवृत्ते इञश्च(4-2-112/1333) इत्यण् - भागवित्ताः ।
तिकस्यापत्यम् तिकादिभ्यः फिञ्‌(4-1-154/1178) - तैकायनिः, तस्यापत्यं युवा - फेश्छ च(4-1-149/1173) इति छः, तैकायनीयः, तस्य छात्त्राः - युवप्रत्यये निवृत्ते वृद्धाच्छः(4-2-114/1337) -
तैकायनीयाः ।
कपिञ्जलादस्यापत्यं कापिञ्जलादिः, तस्यापत्यं युवा - कुर्वादिभ्यो ण्यः(4-1-151/1175) - कापिञ्जलाद्यः । तस्य छात्त्राः - ण्ये निवृत्ते इञश्च(4-2-112/1333) इत्यण्‌ - कापिञ्जलादाः ।
ग्लुचुकस्यापत्यम् प्राचामवृद्धात्फिन्बहुलम्(4-1-160/1184) इति ग्लुचुकायनिः, तस्यापत्यं युवा -प्राग्दीव्यतोऽण्‌(4-1-83/1073) - ग्लौचुकायनः, तस्य छात्त्राः - युवप्रत्यये निवृत्ते स एवाण्‌ - ग्लौचुकायनाः ।
अचीत्येव - फाण्टाहृतरूप्यम् । फाण्टाहृतमयम् ।
प्राग्दीव्यत इत्येव - भागवित्तिकाय हितं भागवित्तिकीयम् ।।
फक्फिञोरन्यतरस्याम् ।। 4-1-91 ।।
`यूनि इत्येव । पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते । फक्फिञोर्युवप्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग्भवति । गर्गादिभ्यो यञि(4-1-105/1107) कृते यञिञोश्च(4-1-101/1103) इति फक्‌, गार्ग्यायणः, तस्य छात्त्राः गार्गीयाः, गार्ग्यायणीयाः । वात्सीयाः, वात्स्यायनीयाः ।
फिञः खल्वपि - यस्कस्यापत्यम्, शिवादिभ्योऽण्‌(4-1-112/1115), यास्कः, तस्यापत्यं युवा - अणो द्व्यचः(4-1-156/1180) इति फिञ्‌ - यास्कायनिः । तस्य छात्त्राः यास्कीयाः । यास्कायनीयाः ।।
तस्यापत्यम् ।। 4-1-92 ।।
अर्थनिर्देशोऽयम्, पूर्वैरुत्तरैश्च प्रत्ययैरभिसम्बद्ध्यते । `तस्य इति षष्ठीसमर्थादपत्यमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । प्रकृत्यर्थविशिष्टः षष्ठ्यर्थोऽपत्यमात्रञ्चेह गृह्यते । लिङ्गवचनादिकमन्यत्सर्वमविवक्षितम् । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः ।
`तस्येदमित्यपत्येऽपि बाधनार्थं कृतं भवेत् ।
उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनम् ।।(म.भा.2.245)
भानोरपत्यं भानवः । श्यामगवः ।।
एको गोत्रे ।। 4-1-93 ।।
अपत्यं पौत्रप्रभृति गोत्रम्(4-1-162/1089), तस्मिन्‌ विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रसङ्गे नियमः क्रियते--गोत्रे एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते । अपतनादपत्यम् । योऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव । गर्गस्यापत्यं गार्गिः । गार्गेरपत्यं गार्ग्यः । तत्पुत्त्रोऽपि गार्ग्यः । सर्वस्मिन् व्यवहितजनितेऽपि गोत्रापत्ये गर्गशब्दाद्‌ यञेव भवतीति प्रत्ययो नियम्यते ।
अथ वा - गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययमुत्पादयतीति प्रकृतिर्नियम्यते - गार्ग्यः । नाडायनः ।।
गोत्राद्‌ यून्यस्त्रियाम् ।। 4-1-94 ।।
अयमपि नियमः । यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः । गार्य्यस्यापत्यं युवा गार्ग्यायणः । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः । औपगविः । नाडायनिः ।
अस्त्रियामिति किम् ? दाक्षी । प्लाक्षी ।
किं पुनरत्र प्रतिषिद्ध्यते ? यदि नियमः, स्त्रियामनियमः प्राप्नोति ? अथ युवप्रत्ययः, स्त्रियां गोत्रप्रत्ययेनाभिधानं न प्राप्नोति गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्‌ ? तस्माद्योगविभागः कर्तव्यः - गोत्राद्यूनि प्रत्ययो भवति । ततोऽस्त्रियाम् - यूनि यदुक्तं स्त्रिया तन्न भवति । युवसंज्ञैव प्रतिषिद्ध्यते, तेन स्त्री गोत्रप्रत्ययेनाभिधास्यते ।।
अत इञ्‌ ।। 4-1-95 ।।
`तस्यापत्यम् इत्येव । अकारान्तात्प्रातिपदिकादिञ्‌ प्रत्ययो भवति । अमोऽपवादः । दक्षस्यापत्यं दाक्षिः ।
तपरकरणं किम् ? शुभंयाः, कीलालपाः - इत्यतो मा भूत् ।
कथं `प्रदीयता दाशरथाय मैथिली(वा.रा.युद्ध.9.22) ? शेषविवक्षया भविष्यति ।।
बाह्वादिभ्यश्च ।। 4-1-96 ।।
`बाहु इत्येवमादिभ्यः शब्देभ्योऽपत्ये इञ्प्रत्ययो भवति । बाहविः । औपबाहविः । अनकारार्थ आरम्भः । क्वचिद्बाधकबाधनार्थः ।
बाहु । उपबाहु । विवाकु । शिवाकु । वटाकु । उपबिन्दु । वृक । चूडाला । मूषिका । बलाका । भगला । छगला । ध्रुवका । धुवका । सुमित्त्रा । दुर्मित्त्रा । पुष्करसत्‌ । अनुहरत् । देवशर्मन्‌ । अग्निशर्मन्‌ । कुनामन् । सुनामन्‌ । पञ्चन्‌ । सप्तन् । अष्टन्‌ । * अमितौजसः सलोपश्च * (ग.सू.64)। उदञ्चु । शिरस्‌ । शराविन्‌ । क्षेमवृद्धिन्‌ । शृङ्खलातोदिन्‌ । खरनादिन्‌ । नगरमर्दिन्‌ । प्राकारमर्दिन्‌ । लोमन्‌ । अजीगर्त्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्ब । गत । प्रद्युम्न । राम । * उदङ्कः संज्ञायाम् *(ग.सू.65) । * सम्भूयोऽम्भसोः सलोपश्च *(ग.सू.66) । * बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः * (म.भा.2.252)। बाहुर्नाम कश्चित्तस्यापत्यं बाहवः । * सम्बन्धिशब्दानां च तत्सदृशात्प्रतिषेधः *(म.भा.2.252) । संज्ञा-श्वशुरस्यापत्यं श्वाशुरिः । चकारोऽनुक्तसमुच्चयार्थः, आकृतिगणतामस्य बोधयति । जाम्बिः । ऐन्द्रशमिः । आजधेनविः । आजबन्धविः । औडुलोमिः ।।
सुधातुरकङ्‌ च ।। 4-1-97 ।।
सुधातृशब्दादपत्ये इञ्प्रत्ययो भवति, तत्सन्नियोगेन च तस्याकङादेशो भवति । सुधातुरपत्यं सौधातिकिः ।।

  • व्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम् *(म.भा.2.253) वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः ।।

गोत्रे कुञ्जादिभ्यश्च्फञ्‌ ।। 4-1-98 ।।
`तस्यापत्यम् इत्येव । गोत्रसंज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यश्च्फञ्‌ प्रत्ययो भवति । इञोऽपवादः । चकारो विशेषणार्थः, व्रातच्फञोरस्त्रियमाम्(5-3-113/1100) इति । ञकारो वृद्ध्यर्थः । कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः । ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः ।
गोत्र इति किम् ? कुञ्जस्यापत्यमनन्तरं कौञ्जिः । एकवचनद्विवचनयोः सतिशिष्टत्वाद्‌ ञित्स्वरेणैव भवितव्यम् । बहुवचने तु कौञ्जायना इति, परमपि ञित्स्वरं त्यक्त्वा । चित्स्वर एवेष्यते । गोत्राधिकारश्च शिवादिभ्योऽण्‌(4-1-112/1115) इति यावत्‌ ।
कुञ्ज । ब्रध्न । शङ्ख । भस्मन्‌ । गण । लोमन्‌ । शठ । शाक । शाकट । शुण्डा । शुभ । विपाश । स्कन्द । स्तम्भ ।।
नडादिभ्यः फक्‌ ।। 4-1-99 ।।
नड इत्येवमादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्ये फक्‌ प्रत्ययो भवति । नाडायनः । चारायणः । गोत्र इत्येव - नाडिः ।
`शलङ्कु शलङ्कं च(ग.सू.67) इति अत्र पठ्यते - शालङ्कायनः, पैलादिषु च शालङ्किशब्दः पठ्यते - शालङ्किः पिता, शालङ्किः पुत्रः, तत्कथम् ? गोत्रविशेषे कौशिके फकं स्मरन्ति, इञेवान्यत्र - शालङ्किरिति । अथ वा - पैलादिपाठ एव ज्ञापक इञो भावस्य ।
नड । चर । बक । मुञ्च । इतिक । इतिश । उपक । लमक । * शलङ्कु शलङ्कं च * (ग.सू.67)। सप्तल । वाजप्य । तिक । * अग्निशर्मन्‌ वृषगणे * (ग.सू.68)। प्राण । नर । सायक । दास । मित्त्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । कातल । काश्य । काश्यप । काव्य । अज । अमुष्य । * कृष्णरणौ ब्राह्मणवासिष्ठयोः *(ग.सू.69) । अमित्त्र । लिगु । चित्र । कुमार । * क्रोष्टु क्रोष्टञ्च *(ग.सू.70) । लोह । दुर्ग । स्तम्भ । शिंशपा । अग्र । तृण । शकट । सुमनस्‌ । सुमत । मिमत । ऋक्‌ । जत्‌ । युगन्धर । हंसक । दण्डिन्‌ । हस्तिन्‌ । पञ्चाल । चमसिन्‌ । सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कामुक । ब्रह्मदत्त । उदुम्बर । शोण । अलोह । दण्ड ।।
हरितादिभ्योऽञः ।। 4-1-100 ।।
हरितादिर्बिदाद्यन्तर्गणः । हरितादिभ्योऽञन्तेभ्योऽपत्ये फक्‌ प्रत्ययो भवति । इञोऽपवादः । हरितस्यापत्यं हारितायनः । कैदासायनः ।
ननु च `गोत्रे इति वर्तते । न च गोत्रादपरो गोत्रप्रत्ययो भवति, एको गोत्रे(4-1-93/1093) इति वचनात् ? सत्यमेतत्‌; इह तु गोत्राधिकारेऽपि सामर्थ्याद्यूनि प्रत्ययो विज्ञायते । गोत्राधिकारस्तूत्तरार्थः ।।
यञिञोश्च ।। 4-1-101 ।।
यञन्तादिञन्ताच्च प्रातिपदिकादपत्ये फक्प्रत्ययो भवति । गार्ग्यायणः । वात्स्यायनः । इञन्तात्‌ - दाक्षायणः । प्लाक्षायणः । द्वीपादनुसमुद्रं यञ्‌(4-3-10/1380), सुतङ्गमादिभ्य इञ्‌(4-2-80/1292) इत्यतो न भवति । गोत्रग्रहणेन यञिञौ विशेष्येते । तदन्तात्तु यून्येवायं प्रत्ययः; `गोत्राद्यूनि इति वचनात् ।।
शरद्वच्छुनकदर्भाद्‌ भृगुवत्साग्रायणेषु ।। 4-1-102 ।।
`गोत्रे इत्येव । शरद्वत्‌, शुनक, दर्भ इत्येतेभ्यो गोत्रापत्ये फक्‌ पत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेष्वर्थेष्वपत्यविशेषेषु । शारद्वतायनो भवति भार्गवश्चेत्‌, शारद्वतोऽन्यः । शौनकायनो भवति वात्स्यश्चेत्‌, शौनकोऽन्यः । दार्भायणो भवति आग्रायणश्चेत्‌, दार्भिरन्यः । शरद्वच्छुनकशब्दौ बिदादी, ताभ्यामञोऽपवादः फक्‌ ।।
द्रोणपर्वतजीवन्तादन्यतरस्याम् ।। 4-1-103 ।।
`गोत्रे इत्येव । द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक्‌ प्रत्ययो भवति । इञोऽपवादः । द्रौणायनः, द्रौणिः । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः ।
कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते ? नैवात्र महाभारतद्रोणो गृह्यते, किं तर्हि ? अनादिः, तत इदं गोत्रे प्रत्ययविधानम् । इदानीन्तनात्तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति ।।
अनृष्यानन्तर्थे बिदादिभ्योऽञ्‌ ।। 4-1-104 ।।
`गोत्रे इत्येव । बिदादिभ्यो गोत्रापत्येऽञ्प्रत्ययो भवति । बैदः । और्वः । ये पुनरत्रानुषिशब्दाः पुत्रादयस्तेभ्योऽनन्तरापत्य एव भवति पौत्रः, दौहित्रः ।
`अनृष्यानन्तर्ये इत्यस्यायमर्थः - अनृषिभ्योऽनन्तरे भवतीति । यद्ययमर्थः, ऋष्यपत्येषु नैरन्तर्यप्रतिषेधो न कृतः स्यात्‌, तत्रेदं न सिद्ध्यति - `इन्द्रभूः सप्तमः काश्यपानाम्(वं.ब्रा.2.24) ? अनन्तरापत्यरूपेणैव ऋष्यणाभिधानं भविष्यति । अवश्यं चैतदेवं विज्ञेयम् । ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्र इति दुष्यति ।
गोत्रे इत्येव - बैदिः । ननु च ऋष्यणा भवितव्यम् ? बाह्वादिराकृतिगणः, तेनेञेव भवति ।
बिद । उर्व । कश्यप । कुशिक । भरद्वाज । उपमन्यु । किलालप । किदर्भ । विश्वानर । ऋष्टिषेण । ऋतभाग । हर्यश्व । प्रियक । आपस्तम्ब । कूचवार । शरद्वत्‌ । शुनक । धेनु । गोपवन । शिग्रु । बिन्दु । भाजन । अश्वावतान । श्यामाक । श्यमाक । श्यापर्ण । हरित । किन्दास । वह्यस्क । अकलूष । वध्योष । विष्णुवृद्ध । प्रतिबोध । रथन्तर । रथीतर । गविष्ठिर । निषाद । मठर । मृद । पुनर्भू । पुत्त्र । दुहितृ । ननान्दृ । * परस्त्री परशुं च *(ग.सू.71) ।।
गर्गादिभ्यो यञ्‌ ।। 4-1-105 ।।
`गोत्रे इत्येव । गर्गादिभ्यो गोत्रापत्ये यञ्‌ प्रत्ययो भवति । गार्ग्यः । वात्स्यः ।
मनुशब्दोऽत्र पठ्यते, तत्र कथम्‌ - मानवी प्रजा ? `गोत्रे इत्युच्यते अपत्यसामान्ये भविष्यति । कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्य इति ? गोत्ररूपाध्यारोपेण भविष्यति । अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यम् - जामदग्नः, पाराशर इति ।
गर्ग । वत्स । * वाजाऽसे *(ग.सू.72) । संकृति । अज । व्याघ्रपात्‌ । विदभृत्‌ । प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शङ्ख । शठ । धूम । अवट । चमस । धनञ्जय । मनस । वृक्ष । विश्वावसु । जनमान । लोहित । शंसित । बभ्रु । मण्डु । मक्षु । अलिगु । शङ्कु । लिगु । गुलु । मन्तु । जिगीषु ।
मनु । तन्तु । मनायी । भूत । कथक । कष । तण्ड । वतण्ड । कपि। कत । कुरुकत । अनडुह्‌ । कण्व । शकल । गोकक्ष । अगस्त्य । कुण्डिन । यज्ञवल्क । उभय । जात । विरोहित । वृषगण । रहूगण । शण्डिल । वण । कचुलुक । मुद्‌गल । मुसल । पराशर । जतूकर्ण । मन्त्रित। संहित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूण । अररक । पिङ्गल । कृष्ण । गोलुन्द । उलूक । तितिक्ष । भिषज्‌ । भडित । भण्डित । दल्भ । चिकित । देवहू । इन्द्रहू । एकलू । पिप्पलू । वृदग्नि । जमदग्नि । सुलोभिन्‌ । उकत्थ । कुटीगु ।
मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ।। 4-1-106 ।।
मधुशब्दाद्बभ्रुशब्दाच्च गोत्रापत्ये यञ्‌ प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके च वाच्ये । माधव्यो भवति ब्राह्मणश्चेत्‌, माधव एवान्यः । बाभ्रव्यो भवति कौशिकश्चेत्‌, बाभ्रव एवान्यः ।
बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम् । गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः - सर्वत्र लोहितादिकतन्तेभ्यः(4-1-18/476) इति । ब्राभ्रव्यायणी ।।
कपिबोधादाङ्गिरसे ।। 4-1-107 ।।
कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ्‌ प्रत्ययो भवति । काप्यः । बौध्यः ।
आङ्गिरस इति किम् ? कापेयः । बौधिः ।
कपिशब्दो गर्गादिषु पठ्यते, तस्य नियमार्थं वचनम् - आङ्गिरसे यथा स्यात्‌ ।
लोहितादिकार्यार्थश्च गणे पाठः - काप्यायनी ।।
वतण्डाच्च ।। 4-1-108 ।।
`आङ्गिरसे इत्येव । वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ्‌ प्रत्ययो भवति । वातण्ड्यः ।
आङ्गिरस इति किम् ? वातण्डः ।
किमर्थमिदम्, यावता गर्गादिष्वयं पठ्यते ? शिवादिष्वप्ययं पठ्यते । तत्राङ्गिरसे शिवाद्यणोऽपवादार्थं पुनर्वचनम् ।
अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात्‌ प्रत्ययद्वयमपि भवति, वातण्ड्यः, वातण्डः ।।
लुक्‌ स्त्रियाम् ।। 4-1-109 ।।
`आङ्गिरसे इत्येव । वतण्डशब्दादाङ्गिरस्यां स्त्रियां यञ्प्रत्ययस्य लुग्भवति । लुकि कृते शार्ङ्गरवादिपाठान्ङीन्‌ भवति - वतण्डी ।
आङ्गिरस इति किम् ? वातण्ड्यायनी । शिवाद्यणि तु वातण्डी ।।
अश्वादिभ्यः फञ्‌ ।। 4-1-110 ।।
`आङ्गिरसे इति निवृत्तम् । अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति । आश्वायनः । आश्मायनः । ये त्वत्र प्रत्ययान्ताः पठ्यन्ते, तेभ्यः सामर्थ्याद्यूनि प्रत्ययो विज्ञायते ।
अश्व । अश्मन्‌ । शङ्ख । बिद । पुट । रोहिण । खर्जूर । खर्जूल । पिञ्जूर । भडिल । भण्डिल । भडित । भण्डित । भण्डिक । प्रहृत । रामोद । क्षत्त्र । ग्रीवा । काश । गोलाङ्क्य । अर्क । स्वन । ध्वन । पाद । चक्र । कुल । पवित्र । गोमिन्‌ । शयाम । धूम । धूम्र । वाग्मिन्‌ । विश्वानर । कुट । वेश । * शप आत्त्रेये *(ग.सू.73)। नत्त । तड । नड । ग्रीष्म । अर्ह । विशम्य । विशाला । गिरि । चपल । चुनम । दासक । वैल्य । धर्म । आनडुह्य । पुंसिजात । अर्जुन । शूद्रक । सुममस्‌ । दुर्मनस्‌ । क्षान्त । प्राच्य । कित । काण । चुम्प । श्रविष्ठा । वीक्ष्य । पविन्दा । * आत्त्रेय भारद्वाजे * (ग.सू.74)। कुत्स । आतव । कितव । शिव । खदिर । * भारद्वाज आत्त्रेये * (ग.सू.75)।
भर्गात्त्रैगर्त्ते ।। 4-1-111 ।।
भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ्‌ प्रत्ययो भवति । भार्गायणो भवति त्रैगर्त्तश्चेत्‌ भार्गिरन्यः ।।
शिवादिभ्योऽण्‌ ।। 4-1-112 ।।
`गोत्रे इति निवृत्तम् । अतः प्रभृति सामान्येन प्रत्ययो विज्ञायन्ते । शिवादिभ्योऽपत्येऽण्‌ प्रत्ययो भवति । यथायथमिञादीनामपवादः । शैवः । प्रौष्ठः ।
तक्षन्शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं बाधितुम् । ण्यप्रत्ययस्य तु बाधा नेष्यते । ताक्ष्णः, ताक्षण्यः ।
गङ्गाशब्दः पठ्यते तिकादिफिञा शुभ्रादिढका च समावेशार्थम् । तेन त्रैरूप्यं भवति - गाङ्गः, गाङ्गायनिः, गाङ्गेयः ।
विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम् । वैपाशः, वैपाशायन्यः ।
शिव । प्रौष्ठ । प्रौष्ठिक । चण्ड । जम्भ । भुरि । सन्धि । मुनि । कुठार। अनभिम्लान । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन । कोहड । पिष्ट । हेहय । खञ्जार । कञ्जाल । सुरोहिका । पर्ण । कहूष । परिल । वतण्ड । तृण । कर्ण । क्षीरह्रद । जलह्रद । परिषिक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक । वृष्णिक । रेख । आलेखन । विश्रवण । रवण । वर्त्तनाक्ष । पिटक । पिटाक । तृक्षाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्क्षिपा । रोहितिक । आर्यश्वेत । सुपिष्ट । खर्जूरकर्ण । मसूरकर्ण । तूणकर्ण । मयूरकर्ण । खडरक । तक्षन्‌ । ऋष्टिषेण । गङ्गा । विपाश । यस्क । लह्य । द्रुघ । अयः स्थूण । भलन्दन । विरूपाक्ष । भूमि । इला । सपत्नी । * द्व्यचो नद्याः * (ग.सू.76)। * त्रिवेणी त्रिवणंच * (ग.सू.77)।।
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ।। 4-1-113 ।।
वृद्धिर्यस्याचामादिस्तद्‌ वृद्धम्(1-1-73/1335) । `अवृद्धाभ्यः इति शब्दधर्मः, `नदीमानुषीभ्यः इत्यर्थधर्मः, तेनाभेदात्प्रकृतयो निर्दिश्यन्ते । `तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः । अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि तेभ्योऽपत्येऽण्प्रत्ययो भवति । ढकोऽपवादः । यमुनाया अपत्यं यामुनः । इरावत्या अपत्यम् ऐरावतः । वैतस्तः । नार्मदः ।
मानुषीभ्यः खल्वपि - शिक्षिताया अपत्यं शैक्षितः । चिन्तिताया अपत्यं चैन्तितः ।
अवृद्धाभ्यः किम् ? चान्द्र भाग्याया अपत्यं चान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीभ्य इति किम् ? सौपर्णेयः । वैनतेयः । तन्नामिकाभ्य इति किम् ? शोभनायाः - शौभनेयः ।।
ऋष्यन्धकवृष्णिकुरुभ्यश्च ।। 4-1-114 ।।
ऋषयः प्रसिद्धा वसिष्ठायः । अन्धकाः, वृष्णयः, कुरव इति वंशाख्याः । ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्येऽण्प्रत्ययो भवति । इञोऽपवादः । अत्त्र्यादिभ्यस्तु परत्वाड्ढगादिभिरेव भवितव्यम् । ऋषिभ्यस्तावत् - वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः - श्वाफल्कः । रान्धसः । वृष्णिभ्यः - वासुदेवः । आनिरुद्धः । कुरुभ्यः - नाकुलः । साहदेवः ।
कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयणेनान्वाख्यानं युज्यते ? केचिदाहुः - कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसङ्करेणैव नकुलसहदेवादयः शब्दास्सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धेति ।
अथ वा - अन्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते - नकुलसहदेवादयः; तत्रेदं प्रत्ययविधानमित्यदोषः ।।
मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः ।। 4-1-115 ।।
मातृशब्दात्सङ्ख्यापूर्वात्सम्पूर्वाद्भद्रपूर्वाच्चापत्येऽण्‌ प्रत्ययो भवति, उकारश्चान्तादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः । षाण्मातुरः । साम्मातुरः । भाद्रमातुरः ।
उकारादेशार्थं वचनम्, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति ।
सङ्ख्यासम्भद्रपूर्वाया इति किम् ? सौमात्रः ।
कन्यायाः कनीन च ।। 4-1-116 ।।
कन्याशब्दादपत्येऽण्प्रत्ययो भवति । तत्सन्नियोगेन कनीनशब्द आदेशो भवति । ढकोऽपवादः । कन्याया अपत्यं कानीनः कर्णः । कानीनो व्यासः ।।
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्त्रिषु ।। 4-1-117 ।।
विकर्णशुङ्गच्छगलशब्देभ्यो यथासङ्ख्यं वत्सभरद्वाजात्त्रिष्वपत्यविशेषेष्वण्प्रत्ययो भवति । वैकर्णो भवति वात्स्यश्चेत्‌, वैकर्णिरन्यः । शौङ्गो भवति । भारद्वाजश्चेत्‌, शौङ्गिरन्यः । छागलो भवत्यात्त्रेयश्चेत्‌, छागलिरन्यः

शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति--शौङ्गेय इति ।
द्वयमपि चैतत्प्रमाणम्; उभयथा सूत्रप्रणयनात् ।
पीलाया वा ।। 4-1-118 ।।
तन्नामिकाणो बाधके `द्वयचः इति ढकि प्राप्तेऽण्प्रत्ययः पक्षे विधीयते । पीलाया अपत्ये वाऽण्प्रत्ययो भवति । पीलाया अपत्यं पैलः । पैलेयः ।।
ढक्च मण्डूकात्‌ ।। 4-1-119 ।।
मण्डूकशब्दादपत्ये ढक्‌ प्रत्ययो भवति । चकारादण्‌ च वा । तेन त्रैरूप्यं भवति -माण्डूकेयः, माण्डूकः, माण्डूकिः ।।
स्त्रीभ्यो ढक्‌ ।। 4-1-120 ।।
इह स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते । स्त्रीभ्योऽपत्ये ढक्‌ प्रत्ययो भवति । सौपर्णेयः । वैनतेयः ।
स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति - इडबिडोऽपत्यम्, दरदोऽपत्यम् - ऐडबिडः, दारद इति ।

  • वडवाया वृषे वाच्ये * (म.भा.2.258)। वाडवेयो वृषः स्मृतः । अपत्ये प्राप्तस्ततोऽपकृष्य विधीयते, तेनापत्ये वाडव इति भवति ।
  • अण्‌ क्रुञ्चाकोकिलात्स्मृतः * (म.भा.2.258)। क्रुञ्चाया अपत्यं क्रौञ्चः । कौकिलः ।।

द्व्यचः ।। 4-1-121 ।।
`स्त्रीभ्यः इत्येव । द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक्प्रत्ययो भवति । तन्नामिकाणोऽपवादः । दत्ताया अपत्यं दात्तेयः । गौपेयः ।
द्व्यच इति किम् ? यामुनः ।।
इतश्चानिञः ।। 4-1-122 ।।
स्त्रीग्रहणं निवृत्तम्‌ । चकारः `द्व्यचः इत्यस्यानुकर्षणार्थः । इकारान्तात्प्रातिपदिकादनिञन्तादपत्ये ढक्प्रत्ययो भवति । आत्त्रेयः । नैधेयः ।
इत इति किम् ? दाक्षिः । प्लाक्षिः । अनिञ इति किम् ? दाक्षायणः । प्लाक्षायणः । द्व्यच इत्येव - मरीचेरपत्यं मारीचः ।।
शुभ्रादिभ्यश्च ।। 4-1-123 ।।
`शुभ्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक्‌ प्रत्ययो भवति । यथायोगमिञादीनामपवादः । शौभ्रेयः । वैष्टपुरेयः । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्येवमादि सिद्धं भवति ।
शुभ्र । विष्टपुर । ब्रह्मकृत । शतद्वार । शतावर । शलाका । शालाचल । शलाकाभ्रू । लेखाभ्रू । विमातृ । विधवा । किङ्कसा । रोहिणी । रुक्मिणी । दिशा । शालूक । अजवस्ति । शकन्धि । * लक्ष्मणश्यामयोर्वासिष्ठे *(ग.सू.78) । गोधा । कृकलास । अणीव । प्रवाहण । भरत । भारम । मृकण्डु । मघष्टु । मकष्टु । कर्पूर । इतर । अन्यतर । आलीढ । सुदत्त । सुचक्षस्‌ । सुनामन्‌ । कद्रु । तुद । अकशाप । कुरेका । किशोरिका । कुवेणिका । जिह्माशिन् । परिधि । वायुदत्त । ककल । खट्‌वा । अम्बिका । अशोका । शुद्धपिङ्गला । खण्डोन्मत्ता । अनुदृष्टि । जरतिन्‌ । बलिवर्दिन्‌ । विग्रज । बीज । श्वन्‌ । अश्मन्‌ । अश्व । अजिर ।।
विकर्णकुषीतकात्काश्यपे ।। 4-1-124 ।।
विकर्णशब्दात्कुषीतकशब्दाच्च काश्यपेऽपत्यविशेषे ढक्‌ प्रत्ययो भवति । वैकर्णेयः । कौषीतकेयः ।
काश्यप इति किम् ? वैकर्णिः । कौषीतकिः ।।
भ्रुवो वुक्च ।। 4-1-125 ।।
भ्रूशब्दादपत्ये ढक्‌ प्रत्ययो भवति, तत्सन्नियोगेन च वुगागगः । भ्रावेयः ।।
कल्याण्यादीनामिनङ्‌ ।। 4-1-126 ।।
`कल्याणी इत्येवमादीनां शब्दानामपत्ये ढक्‌ प्रत्ययो भवति, तत्सन्नियोगेन च इनङादेशः । स्त्रीप्रत्ययान्तानामादेशार्थं ग्रहणम्; प्रत्ययस्य सिद्धत्वात्‌ । अन्येषामुभयार्थम् । काल्याणिनेयः । सौभागिनेयः । दौर्भागिनेयः । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च(7-3-19/1133) इत्युभयपदवृद्धिः ।
कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी । ज्येष्ठा । कनिष्ठा । मध्यमा । परस्त्री ।।
कुलटाया वा ।। 4-1-127 ।।
कुलान्यटतीति कुलटा; पररूपं निपातनात्‌ । कुलटाया अपत्ये ढक्‌ प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति । आदेशार्थं वचनम्, प्रत्ययः पूर्वेणैव सिद्धः । कौलटिनेयः, कौलटेयः ।
या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा(4-1-131/1137) इति परत्वाड् ढ्रका भवितव्यम् - कौलटेरः ।।
चटकाया ऐरक्‌ ।। 4-1-128 ।।
चटकाया अपत्ये ऐरक्‌ प्रत्ययो भवति । चाटकैरः ।

  • चटकाच्चेति वक्तव्यम् * (म.भा.2.258)। चटकस्यापत्यं चाटकैरः ।
  • स्त्रियामपत्ये लुग्वक्तव्यः * (म.भा.2.258)। चटकाया अपत्यं स्त्री चटका ।।

गोधाया ढ्रक्‌ ।। 4-1-129 ।।
गोधाया अपत्ये ढ्रक्‌ प्रत्ययो भवति । गौधेरः । शुभ्रादिष्वयं पठ्यते, तेन गौधेयः इत्यपि भवति ।।
आरगुदीचाम् ।। 4-1-130 ।।
गोधाया अपत्ये उदीचामाचार्याणां मतेन आरक्‌ प्रत्ययो भवति । गौधारः ।
आचार्यग्रहणं पूजार्थम्, वचनसामर्थ्यादेव पूर्वेण समावेशो भविष्यति । आरग्वचनमनर्थकम्, रका सिद्धत्वात्‌ ? ज्ञापकं त्वयम् - अन्येभ्योऽपि भवतीति । जाडारः । पाण्डारः ।।
क्षुद्राभ्यो वा ।। 4-1-131 ।।
ढ्रगनुवर्तते, न आरक्‌ । क्षुद्राः = अङ्गहीना; शीलहीनाश्च । अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिश्यन्ते । क्षुद्राभ्यो वापऽत्ये ढ्रक्‌ प्रत्ययो भवति । ढकोऽपवादः । काणेरः, काणेयः । दासेरः, दासेयः ।।
पितृष्वसुश्छण्‌ ।। 4-1-132 ।।
पितृष्वसृशब्दादपत्ये छण्प्रत्ययो भवति । अणोऽपवादः । पैतृष्वस्रीयः ।।
ढकि लोपः ।। 4-1-133 ।।
पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति । पैतृष्वसेयः ।
कथं पुनरिह ढक्‌ प्रत्ययः ? एतदेव ज्ञापकं ढको भावस्य ।।
मातृष्वसुश्च ।। 4-1-134 ।।
`पितृष्वसुः इत्येतदपेक्षते, पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि भवति - छण्प्रत्ययो ढकि लोपश्च । मातृष्वसेयः ।।
चतुष्पाद्भ्यो ढञ्‌ ।। 4-1-135 ।।
चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः । कामण्डलेयः । शौन्तिबाहेयः । जाम्बेयः ।।
गृष्ट्यादिभ्यश्च ।। 4-1-136 ।।
गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः । गार्ष्टेयः । हार्ष्टेयः ।
गृष्टिशब्दो यश्चतुष्पाद्वचनस्ततः पूर्वेणैव सिद्धः, अचतुष्पादर्थं वचनम् ।
गृष्टि । हृष्टि । हलि । बलि । विश्रि । कुद्रि । अजबस्ति । मित्त्रयु ।।
राजश्वशुराद्यत्‌ ।। 4-1-137 ।।
राजन्‌-श्वशुरशब्दाभ्यामपत्ये यत्प्रत्ययो भवति । यथाक्रममणिञोरपवादः । राजन्यः । श्वशुर्यः ।

  • राज्ञोऽपत्ये जातिग्रहणम् *(म.भा.2.259) । राजन्यो भवति, क्षत्त्रियश्चेत्‌ । राजनोऽन्यः ।।

क्षत्त्राद्घः ।। 4-1-138 ।।
क्षत्त्रशब्दादपत्ये घः प्रत्ययो भवति । क्षत्त्रियः । अयमपि जातिशब्द एव । क्षात्त्रिरन्यः ।।
कुलात्खः ।। 4-1-139 ।।
उत्तरसूत्रे पूर्वपदप्रतिषेधादिह तदन्तः केवलश्च दृश्यते । कुलशब्दान्तात्प्रातिपदिकात्केवलाच्चापत्ये खः प्रत्ययो भवति । आढ्यकुलीनः । श्रोत्रियकुलीनः । कुलीनः ।।
अपूर्वपदादन्यतरस्यां यड्‌ढकञौ ।। 4-1-140 ।।
`कुलात्‌ इत्येव । अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्, समाससम्बन्धिपूर्वपदस्याभावेन कुलशब्दो विशेष्यते । अपूर्वपदात्कुलशब्दादन्यतरस्यां यत्‌, ढकञ्‌ इत्येतौ प्रत्ययौ भवतः । ताभ्यां मुक्ते खोऽपि भवति । कुल्यः, कौलेयकः, कुलीनः ।
पदग्रहणं किम् ? बहुच्पूर्वादपि यथा स्यात्‌ । बहुकुल्यः । बाहुकुलेयकः । बहुकुलीनः ।।
महाकुलादञ्खञौ ।। 4-1-141 ।।
`अन्यतरस्याम् इत्यनुवर्त्तते । महाकुलशब्दादञ्खञौ प्रत्ययौ भवतः, पक्षे खः । माहाकुलः, माहाकुलीनः, महाकुलीनः ।।
दुष्कुलाड्‌ढक्‌ ।। 4-1-142 ।।
दुष्कुलशब्दादपत्ये ढक्‌ प्रत्ययो भवति । `अन्यतरस्याम् इत्यनुवृत्तेः खश्च । दौष्कुलेयः, दुष्कुलीनः ।।
स्वसुश्छः ।। 4-1-143 ।।
स्वसृशब्दादपत्ये छः प्रत्ययो भवति । अणोऽपवादः । स्वसुरपत्यं स्वस्रीयः ।।
भ्रातुर्व्यच्च ।। 4-1-144 ।।
भ्रातृशब्दादपत्ये व्यत्‌ प्रत्ययो भवति । चकाराच्छश्च । अणोऽपवादः । भ्रातृव्यः । भ्रात्रीयः । तकारः स्वरार्थः ।।
व्यन्सपत्ने ।। 4-1-145 ।।
सपत्नशब्दः शत्त्रुपर्यायः शब्दान्तरव्युत्पन्नमेव । सपत्नीशब्दादपरेऽकारम् इवार्थे निपातयन्ति । सपत्नीव सपत्नः । भ्रातृशब्दाद्‌ व्यन्प्रत्ययो भवति समुदायेन चेदमित्त्रः सपत्न उच्यते । अपत्यार्थोऽत्र नास्त्येव - पाप्मना भ्रातृव्येण । भ्रातृव्यः कण्टकः ।।
रेवत्यादिभ्यष्ठक्‌ ।। 4-1-146 ।।
रेवतीत्येवमादिभ्योऽपत्ये ठक्‌ प्रत्ययो भवति । यथायोगं ढगादीनामपवादः । रैवतिकः । आश्वपालिकः ।
रेवती । अश्वपाली । मणिपाली । द्वारपाली । वृकवञ्चिन्‌ । वृकग्राह । कर्णग्राह । दण्डग्राह । कुक्कुटाक्ष ।।
गोत्रस्त्रियाः कुत्सने ण च ।। 4-1-147 ।।
`अपत्यं पौत्रप्रभृति गोत्रम् गृह्यते । गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट्ठक्च, कुत्सने गम्यमाने । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा । गार्ग्या अपत्यं गार्गोजाल्मः, गार्गिकः । ग्लुचुकायन्या अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः । `गोत्राद्यूनि इति यूनि प्रत्ययो भवति ।
गोत्रमिति किम् ? कारिकेयो जाल्मः । स्त्रिया इति किम् ? औपगविर्जाल्मः । कुत्सन इति किम् ? गार्गेयो माणवकः ।।
वृद्धाट्ठक्सौवीरेषु बहुलम् ।। 4-1-148 ।।
`कुत्सने इत्येव । `सौवीरेषु इति प्रकृतिविशेषणम् । वृद्धात्‌ सौवीरगोत्रादपत्ये बहुलं ठक्प्रत्ययो भवति,
कुत्सने गम्यमाने । भागवित्तेर्भागवित्तिकः । तार्णबन्दवस्य तार्णबिन्दविकः । पक्षे यथाप्राप्तं फक्‌ - भागवित्तायनः । पक्षे - तार्णबिन्दविः । अकशापः शुभ्रादिः - आकशापेयः, तस्यापत्यमाकशापेयिकः । पक्षे - आकशापेयिः ।
भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः ।
तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलं ततः ।।
वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम् ।
सौवीरेष्विति किम् ? औपगविर्जाल्मः । `कुत्सने इत्येव - भागवित्तायनो माणवकः ।
बहुलग्रहणमुपाधिवैचित्र्यार्थम् । `गोत्रस्त्रियाः इत्यारभ्य चत्वारो योगाः - तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्रे एव, मध्यमौ द्वयोरपि । तदेतद्बहुलग्रहणाल्लभ्यते ।।
फेश्छ च ।। 4-1-149 ।।
`कुत्सने इत्येव, `सौवीरेषु इति च । `फेः इति फिञो ग्रहणम्, न फिनः; वृद्धाधिकारात्‌ । फिञन्तात्प्रातिपदिकात्सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट्ठक्‌ कुत्सने गम्यमाने । यमुन्दस्यापत्यम् - तिकादिभ्यः फिञ्‌(4-1-154/1178), तस्यापत्यं यामुन्दायनीयः । यामुन्दायनिकः । कुत्सन इत्येव - यामुन्दायनिः । फिञन्तादौत्सर्गिकस्याण आगतस्य ण्यक्षत्त्रियार्षञितो यूनिलुगणिञोः(2-4-58/1276) इति लुक्‌ । सौवीरेष्वित्येव - तैकायनिः ।
यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः ।
सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित्‌ स्मरेत् ।।
फाण्टाहृतिमिमताभ्यां णफिञौ ।। 4-1-150 ।।
सौवीरेषु, इत्येव । `कुत्सने इति निवृत्तम् । `फाण्टहृति `मिमत शब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययौ भवतः । फकोऽपवादः । अल्पाच्तरस्यापूर्वनिपातो लक्षणव्यभिचारचिह्नम्, तेन यथासङ्ख्यमिह न भवतीति । फाण्टाहृतः, फाण्टाहृतायनिः (म.भा.2.261)। मैमतः, मैमतायनिः । सौवीरेष्वित्येव - फाण्टाहृतायनः । मैमतायनः । फाण्टाहृतेः यञिञोश्च(4-1-101/1103) इति फक्‌ । मिमतशब्दोऽपि नडादिषु पठ्यते ।
कुर्वादिभ्यो ण्यः ।। 4-1-151 ।।
`सौवीरेषु `बहुलम् इति च निवृत्तम् । `कुरु इत्येवमादिभ्यः शब्देभ्योऽपत्ये ण्यः प्रत्ययो भवति । कौरव्यः । गार्ग्यः । कुरुनादिभ्यो ण्यः(4-1-172/1190) इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति । स तु क्षत्त्रियात्तद्राजसंज्ञकः, तस्य बहुषु लुका भवितव्यम्; अयं तु श्रूयत एव - कौरव्याः । कौरव्यशब्दस्य क्षत्त्रियवचनस्य तिकादिषु पाठात्फिञपि भवति । कौरव्यायणिः । रथकारशब्दोऽत्र पठ्यते, स जातिवचनः । त्रैवर्णिकेभ्यः किञ्चिन्न्यूना रथकारजातिः । कारिणस्तु रथकारशब्दादुत्तरसूत्रेणैव ण्यः सिद्धः । केशिनीशब्दः पठ्यते, तस्य कैशिन्यः । पुंवद्भावो न भवति; स्त्रीप्रत्ययनिर्देशसामर्थ्यात्‌ ।
`वेनाच्छन्दसि(ग.सू.80) इति पठ्यते, कथं भाषायां वैन्यो राजेति ? छान्दस एवायं प्रमादात्कविभिः प्रयुक्तः ।
वामरथशब्दः पठ्यते, तस्य कण्वादिवत्कार्यमिष्यते स्वरं वर्जयित्वा, लुगादिकमतिदिश्यते । बहुषु - वामरथाः । स्त्री - वामरथी । वामरथ्यायनी । युवा - वामरथ्यायनः । वामरथ्यस्य छात्त्रा वामरथाः । वामरथानि सङ्घाङ्कलक्षणानि । स्वरस्तु ण्यप्रत्ययस्यैव भवति, नातिदेशिकमाद्युदात्तत्वम् ।
कुरु । गर्ग । मङ्गुष । अजमारक । रथकार । वावदूक । * सम्राजः क्षत्त्रिये * (ग.सू.79)। कवि । मति । वाक्‌ । पितृमत्‌ । इन्द्रजालि । दामोष्णीषि । गणकारि । कैशोरि । कापिञ्जलादि । कुट । शलाका । मुर । परक । अभ्र । दर्भ । केशिनी । * वेनाच्छन्दसि * (ग.सू.80)। शूर्पणाय । श्यावनाय । श्यावरथ । श्यावपुत्र । सत्यङ्कार । वडभीकार । शङ्कु । शाक । पथिकारिन्‌ । मूढ । शकन्धु । कर्तृ । हर्तृ । शाकिन्‌ । इनपिण्डी ।। वामरथस्य कण्वादिवत्स्वरवर्जम् ।।
सेनान्तलक्षणकारिभ्यश्च ।। 4-1-152 ।।
सेनान्तात्प्रातिपदिकाल्लक्षणशब्दात्कारिवचनेभ्यश्चापत्ये ण्यः प्रत्ययो भवति । कारिशब्दः कारूणां तन्तुवायादीनां वाचकः । कारिषेण्यः । हारिषेण्यः । लाक्षण्यः । कारिभ्यः - तान्तुवाय्यः । कौम्भकार्यः । नापित्यः
।।
उदीचामिञ्‌ ।। 4-1-153 ।।
ण्ये प्राप्ते इञपरो विधीयते । सेनान्तलक्षणकारिभ्योऽपत्ये इञ्‌ प्रत्ययो भवति उदीचां मतेन । कारिषेणिः । हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः ।
वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम् । तक्षन्शब्दः शिवादिः, तेनाणायमिञ्‌ बाध्यते, न तु ण्यः । तक्ष्णोऽपत्यं ताक्ष्णः । ताक्षण्यः ।।
तिकादिभ्यः फिञ्‌ ।। 4-1-154 ।।
`तिक इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ्‌ प्रत्ययो भवति । तैकायनिः । कैतवायनिः । वृषशब्दोऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारान्तत्वमिष्यते । वार्ष्यायणिः । कौरव्यशब्दः पठ्यते, स च क्षत्त्रियवचनः; औरसशब्देन क्षत्त्रियप्रत्ययान्ते साहचर्यात्‌ ।
यस्तु कुर्वादिभ्यो ण्यः(4-1-151/1175), तदन्ताद्‌ इञैव भवितव्यम्; तथा च ण्यक्षत्त्रियार्षञितो यूनिलुगणिञोः(2-4-58/1276) इत्यत्रोदाहृतम् - कौरव्यः पिता, कौरव्यः पुत्र इति ।
तिक । कितव । संज्ञा । बाल। शिखा । उरस्‌ । शाट्य । सैन्धव । यमुन्द । रूप्य । ग्राम्य । नील । अमित्र । गौकक्ष्य । करु । देवरथ । तैतिल । औरस । कौरव्य । भौरिकि । भौलिकि । चौपयत । चैटयत । शैकयत । क्षैतयत । ध्वाजवत । चन्द्रमस्‌ । शुभ । गङ्गा । वरेण्य । सुयामन्‌ । आरद । वह्यका । खल्या । वृष । लोमका । उदन्य । यज्ञ ।
कौशल्यकार्मार्याभ्यां च ।। 4-1-155 ।।
कौशल्यकार्मार्यशब्दाभ्यामपत्ये फिञ्‌ प्रत्ययो भवति । इञोऽपवादः । कौशल्यायनिः । कार्मार्यायणिः ।
परमप्रकृतेरेवायं प्रत्यय इष्यते - कोसलस्यापत्यम्, कर्मारस्यापत्यमिति ।
प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते । तथा च स्मृत्यन्तरम् - `दगुकोसलकर्मारच्छागवृषाणां युड्‌ वादिष्टस्य(म.भा.2.263) इति । दागव्यायनिः । कौसल्यायनिः । कार्मार्यायणिः । छाग्यायनिः । वार्ष्यायणिः ।।
अणो द्व्यचः ।। 4-1-156 ।।
अणन्ताद्‌ द्व्यचः प्रातिपदिकादपत्ये फिञ्‌ प्रत्ययो भवति । इञोऽपवादः । कार्त्रायणिः । हार्त्रायणिः ।
अण इति किम् ? दाक्षायणः । द्व्यच इति किम् ? औपगविः ।

  • त्यदादीनां वा फिञ्‌ वक्तव्यः * । त्यादायनिः, त्यादः । यादायनिः, यादः । तादायनिः, तादः । अणत्र प्राप्तः ।।

उदीचां वृद्धादगोत्रात्‌ ।। 4-1-157 ।।
वृद्धं यच्छब्दरूपमगोत्रं तस्मादपत्ये फिञ्प्रत्ययो भवति । उदीचामाचार्याणां मतेन । आम्रगुप्तायनिः । ग्रामरक्षायणिः ।
कारिशब्दादपि वृद्धादगोत्रात्परत्वादनेनैव भवितव्यम् । नापितायनिः ।
उदीचामिति किम् ? आम्रगुप्तिः । वृद्धादिति किम् ? याज्ञदत्तिः । अगोत्रादिति किम् ? औपगविः ।।
वाकिनादीनां कुक्च ।। 4-1-158 ।।
`वाकिन इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ्‌ प्रत्ययो भवति, तत्सन्नियोगेन चैषां कुगागमः । यदिह वृद्धमगोत्रं शब्दरूपं तस्यागमार्थमेव ग्रहणम्, अन्येषामुभयार्थम् । वाकिनकायनिः । गारेधकायनिः ।
इञाद्यपवादो योगः । `उदीचाम् इत्यधिकारात्पक्षे तेऽपि भवन्ति । वाकिनिः । गारेधिः ।
वाकिन । गारेध । कार्कट्य । काक । लङ्का । * चर्मिवर्मिणोर्नलोपश्च *(ग.सू.81) ।।
पुत्रान्तादन्यतरस्याम् ।। 4-1-159 ।।
`उदीचां वृद्धात् इति वर्त्तते । पुत्रान्तमगोत्रमिति पूर्वेणैव प्रत्ययः सिद्धः, तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते । पुत्रान्तात्‌ प्रातिपदिकाद्यः फिञ्प्रत्ययस्तस्मिन्‌ परभूतेऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य । तेन त्रैरूप्यं सम्पद्यते - गार्गीपुत्रकायणिः, गार्गीपुत्रायणिः, गार्गीपुत्रिः । वात्सीपुत्रकायणिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः
।।
प्राचामवृद्धात्फिन्बहुलम् ।। 4-1-160 ।।
अवृद्धाच्छब्दरूपादपत्ये फिन्‌ प्रत्ययो भवति बहुलं प्राचां मतेन । ग्लुचुकायनिः । अहिचुम्बकायनिः ।
प्राचामिति किम् ? ग्लौचुकिः । अवृद्धादिति किम् ? राजदन्तिः ।
उदीचाम्, प्राचाम्, अन्यतरस्याम्, बहुलमिति सर्व एते विकल्पार्थाः, तेषामेकेनैव सिद्ध्यति ? तत्राचार्यग्रहणं पूजार्थम् । बहुलग्रहणं वैचित्र्यार्थम्, क्वचिन्न भवत्येव - दाक्षिः । प्लाक्षिः ।।
मनोर्जातावञ्यतौ षुक्च ।। 4-1-161 ।।
मनुशब्दादञ्‌, यत्‌ - इत्येतौ प्रत्ययौ भवतः, तत्सन्नियोगेन षुगागमः, समुदायेन चेज्जातिर्गम्यते । मानुषः, मनुष्यः। जातिशब्दावेतौ ।
अपत्यार्थोऽत्र नास्त्येव, तथा च मानुषा इति बहुषु न लुग्भवति । अपत्यविवक्षायां त्वणैव भवतिव्यम् - मानवी प्रजा ।
`अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य च मूर्द्धन्यस्तेन सिद्ध्यति माणवः ।।(म.भा.2.264)
अपत्यं पौत्रप्रभृति गोत्रम् ।। 4-1-162 ।।
पौत्रप्रभृति यदपत्यं तद्‌ गोत्रसंज्ञं भवति । सम्बन्धिशब्दत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते । गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः । वात्स्यः । अपत्यमिति व्यपदेशोऽयं पौत्रप्रभृतेः ।
पौत्रप्रभृतीति किम् ? अन्यस्य मा भूत्‌ । कौञ्जिः । गार्गिः ।
गोत्रप्रदेशाः - एको गोत्रे(4-1-93/1093) इत्येवमादयः ।।
जीवति तु वंश्ये युवा ।। 4-1-163 ।।
अभिजनप्रबन्धः = वंशः । तत्र भवो वंश्यः पित्रादिः, तस्मिन्‌ जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति । पौत्रप्रभृतीति च न सामानाधिकरण्येनापत्यं विशेषयति, किं तर्हि ? षष्ठ्या विपरिणम्यते - पौत्रप्रभृतेर्यदपत्यमिति । तेन चतुर्थादारभ्य युवसंज्ञा विधीयते । गार्ग्याणः । वात्स्यायनः ।
तुशब्दोऽवधारणार्थः - युवैव भवति, न गोत्रमिति ।।
भ्रातरि च ज्यायसि ।। 4-1-164 ।।
भ्रातरि ज्यायसि जीवति कनीयान्‌ भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम् । गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान्‌ मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति । अवंश्यार्थोऽयमारम्भः । पूर्वजाः पित्रादयः `वंश्याः इत्युच्यन्ते । भ्राता तु न वंश्यः; अकारणत्वात्‌ । गार्ग्ये जीवति गार्ग्यायणोऽस्य कनीयान्भ्राता । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः ।।
वान्यस्मिन्‌ सपिण्डे स्थविरतरे जीवति ।। 4-1-165 ।।
सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । येषाम्‌ --
`उभयत्र दशाहानि कुलस्यान्नं न भुज्यते।
इत्येवमादिकायां क्रियायामनधिकारः । भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति । प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञितः । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात्‌, पितृव्ये पितामहे भ्रातरि च वयसाधिके जीवति । गर्गस्यापत्यं गार्ग्यायणः, गार्ग्यो वा । वात्स्यायनः, वात्स्यो वा । दाक्षायणः, दाक्षिर्वा ।
स्थविरेति किम् ? स्थानवयोन्यूने गार्ग्य एव भवति । जीवतीति किम् ? मृते मृतो वा गार्ग्य एव भवति ।।
वृद्धस्य च पूजायाम् ।। 4-1-166 ।।
अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद्‌ गोत्रं वृद्धमित्युच्यते । वृद्धस्य युवसंज्ञा वा भवति पूजायां गम्यमानायाम् । संज्ञासामर्थ्याद्‌ गोत्रं युवप्रत्ययेन पुनरुच्यते । `वृद्धस्य इति षष्ठीनिर्देशः, विचित्रा सूत्रस्य कृतिरिति । तत्र भवान्‌ गार्ग्यायणः, गार्ग्यो वा । तत्र भवान्‌ वात्स्यायनः, वात्स्यो वा । तत्र भवान्‌
दाक्षायणः, दाक्षिर्वा ।
पूजायामिति किम् ? गार्ग्यः । वात्स्यः ।।
यूनश्च कुत्सायाम् ।। 4-1-167 ।।
कुत्सायां गम्यमानायां यूनो वा युवसंज्ञा भवति । निवृत्तिप्रधानो विकल्पः, युवसंज्ञायां प्रतिषिद्धायां पक्षे गोत्रसंज्ञैव भवति; प्रतिपक्षाभावात्‌ । गार्ग्यो जाल्मः, गार्ग्यायणो वा । वात्स्यो जाल्मः, बात्स्यायनो वा । दाक्षिर्जाल्मः, दाक्षायणो वा ।
कुत्सायामिति किम् ? गार्ग्यायणः ।।
जनपदशब्दात्क्षत्त्रियादञ्‌ ।। 4-1-168 ।।
जनपदशब्दो यः क्षत्त्रियवाची तस्मादपत्येऽञ्‌ प्रत्ययो भवति । पाञ्चालः । ऐक्ष्वाकः । वैदेहः ।
जनपदशब्दादिति किम् ? द्रुह्योरपत्यं द्रौह्यवः । पौरवः । क्षत्त्रियादिति किम् ? ब्राह्मणस्य पञ्चालस्यापत्यं पाञ्चालिः । वैदेहिः ।

  • क्षत्त्रियसमानशब्दाज्जनपदशब्दात्‌ तस्य राजन्यपत्यवत्‌ * (म.भा.2.269)। पञ्चालानां राजा पाञ्चालः । वैदेहः । मागधः ।।

साल्वेयगान्धारिभ्यां च ।। 4-1-169 ।।
साल्वेयगान्धारिशब्दाभ्यामपत्येऽञ्‌ प्रत्ययो भवति । जनपदशब्दावेतौ क्षत्त्रियाभिधायिनौ ताभ्यामञपवादे `वृद्धात्‌ इति ञ्यङि प्राप्ते पुनरञ्विधीयते । साल्वेयः । गान्धारः । तस्य राजनीत्येव - साल्वेयो राजा । गान्धारो राजा ।
द्व्यञ्मगधकलिङ्गसूरमसादण्‌ ।। 4-1-170 ।।
जनपदशब्दात्क्षत्त्रियाभिधायिनो द्व्यचः, मगध, कलिङ्ग, सूरमस इत्येतेभ्यश्चापत्येऽण्‌ प्रत्ययो भवति । अञोऽपवादः । आङ्गः । वाङ्गः । पौण्ड्रः । सौह्मः । मागधः । कालिङ्गः । सौरमसः । तस्य राजनीत्येव - आङ्गो राजा ।।
वृद्धेत्कोसलाजादाञ्ञ्यङ्‌ ।। 4-1-171 ।।
`जनपदशब्दात्क्षत्त्रियात्‌ इत्येव । वृद्धाच्च प्रातिपदिकादिकारान्ताच्च कोसल-अजादशब्दाभ्यां चापत्ये ञ्यङ्‌ प्रत्ययो भवति । अञोऽपवादः । वृद्धात्तावत्‌ - आम्बष्ठ्यः । सौवीर्यः । इकारान्तात्‌ - आवन्त्यः । कौन्त्यः । कोसलाजादयोरवृद्धार्थं वचनम् । कौसल्यः । आजाद्यः ।
तपरकरणं किम् ? कुमारी नाम जनपदसमानशब्दः क्षत्त्रियः, तस्यापत्यं कौमारः ।

  • पाण्डोर्जनपदशब्दात्‌ क्षत्त्रियाड्‌ड्यण्‌ वक्तव्यः * । पाण्ड्यः । अन्यस्मात्पाण्डव एव । तस्य राजनीत्येव - आम्बष्ठ्यो राजा । आवन्त्यः । कौन्त्यः । कौशल्यः । आजाद्यः ।।

कुरुनादिभ्यो ण्यः ।। 4-1-172 ।।
जनपदशब्दात्क्षत्त्रियादित्येव । कुरुशब्दान्नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति । अणञोरपवादः । कौरव्यः । नकारादिभ्यः - नैषध्यः । नैपथ्यः । तस्य राजनीत्येव - कौरव्यो राजा ।।
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्‌ ।। 4-1-173 ।।
जनपदशब्दात्‌ क्षत्त्रियादित्येव । सल्वा नाम क्षत्त्रिया तन्नामिका, तस्या अपत्यम्, द्व्यचः(4-1-121/1124) इति ढक्‌, साल्वेयः । अणपीष्यते - साल्वः । `तस्य निवासः साल्वो जनपदः । तदवयवा उदुम्बरादयः, तेभ्यः क्षत्त्रियवृत्तिभ्य इदं प्रत्ययविधानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ्‌ प्रत्ययो भवति । अञोऽपवादः । औदुम्बरिः । तैलखलिः । माद्रकारिः । यौगन्धरिः । भौलिङ्गिः । शरदण्डिः । प्रात्यग्रथिः । कालकूटिः । आश्मकिः । तस्य राजनीत्येव - औदुम्बरी राजा ।
उदुम्बरास्तिलखला मद्रकारा युगन्धराः ।
भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः ।।
ते तद्राजाः ।। 4-1-174 ।।
जनपदशब्दात्‌ क्षत्त्रियादञ्‌(4-1-168/1186) इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे; गोत्रयुवसंज्ञाकाण्डेन व्यवहितत्वात्‌ । तेऽञादयस्तद्राजसंज्ञा भवन्ति । तथा चैवोदाहृतम् ।
तद्राजप्रदेशाः - तद्राजस्य बहुषु तेनैवास्त्रियाम्(2-4-62/1193) इत्येवमादयः ।।
कम्बोजाल्लुक्‌ ।। 4-1-175 ।।
जनपदशब्दात्‌ क्षत्त्रियात्‌(4-1-168/1186) इत्यनेन विहितस्याञो लुगुच्यते । कम्बोजात्प्रत्ययस्य लुग्‌ भवति । कम्बोजः ।

  • कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् * (म.भा.2.270)। कम्बोजः । चोलः । केरलः । शकः । यवनः । तस्य राजनीत्येव - कम्बोजो राजा ।।

स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ।। 4-1-176 ।।
अवन्ति-कुन्ति-कुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भवति । अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य । अवन्ती । कुन्ती । कुरूः ।
स्त्रियामिति किम् ? आवन्त्यः । कौन्त्यः । कौरव्यः ।।
अतश्च ।। 4-1-177 ।।
`स्त्रियाम् इत्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामबिधेयायां लुग्भवति । तकारो विस्पृष्टार्थः । शूरसेनी । मद्री । दरत्‌ ।
अवन्त्यादिभ्यो लुग्वचनात्‌ तदन्तविधिरत्र नास्ति, तेनेह न भवति - आम्बष्ठ्या । सौवीर्या ।।
न प्राच्यभर्गादियौधेयादिभ्यः ।। 4-1-178 ।।
प्राच्येभ्यो भर्गादिभ्यो यौधेयादिभ्यश्चोत्पन्नस्य लुग्न भवति । अतश्च(4-1-177/1196) इत्यनेन स्त्रियां लुक्‌ प्राप्तः प्रतिषिद्ध्यते । प्राच्येभ्यः क्षत्त्रियेभ्यस्तावत्‌ - पाञ्चाली । वैदेही । आङ्गी । वाङ्गी । मागधी । भर्गादिभ्यः - भागी । कारूषी । कैकेयी । यौधेयादिभ्यः - यौधेयी । शौभ्रेयी । शौक्रेयी ।
कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक्‌ प्राप्तः प्रतिषिद्ध्यते ? पाञ्चमिकस्याञः पर्श्वादियौधेयादिभ्यामणञौ(5-3-117/2070) इत्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्यानेन लुक्‌ प्राप्नोति ? एतदेव विज्ञापयति - पाञ्चमिकस्यापि तद्राजस्य अतश्च(4-1-177/1196) इत्यनेन लुग्भवतीति । किमेतस्य ज्ञापनेन प्रयोजनम् ? पर्श्वाद्यणः स्त्रियां लुक्‌ सिद्धो भवति । पर्शूः । रक्षाः । असुरी । तथा चोक्तम् - `यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुक्‌ इति ।
भर्ग । करूष । केकय । कश्मीर । साल्व । सुस्थाल । उरश । कौरव्य । भर्गादिः ।
यौधेय । शौभ्रेय । शौक्रेय । ज्याबाणेय । घार्त्तेय । धार्त्तेय । त्रिगर्त्त । भरत । उशीनर । यौधेयादिः ।।
इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
चतुर्थाध्यायस्य प्रथमः पादः।