काशिका/चतुर्थोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः

अथ चतुर्थाध्याये चतुर्थः पादः
प्राग्वहतेष्ठक्‌ ।। 4-4-1 ।।
तद्वहति रथयुगप्रासङ्गम्(4-4-76/1627) इति वक्ष्यति । प्रागेतस्माद्वहतिसंशब्दनाद्यानर्थाननुक्रमिष्यामः, ठक्‌ प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति---तेन दीव्यति खनति जयति जितम्(4-4-2/1550) इति । अक्षैर्दीव्यति आक्षिकः ।

  • ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् * (म.भा.2.329)। माशब्द इत्याह माशब्दिकः । नैत्यशब्दिकः । कार्यशब्दिकः । वाक्यादेतत्प्रत्ययविधानम् ।
  • आहौ प्रभूतादिभ्यः * (म.भा.2.329)। प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणात्प्रत्ययः ।
  • पृच्छतौ सुस्नातादिभ्यः * (म.भा.2.329)। सुस्नातं पृच्छति सौस्नातिकः । सौखरात्रिकः । सौखशायनिकः ।
  • गच्छतौ परदारादिभ्यः * (म.भा.2.329)। परदारान्‌ गच्छति पारदारिकः । गौरुतल्पिकः ।।

तेन दीव्यति खनति जयति जितम् ।। 4-4-2 ।।
`तेन इति तृतीयासमर्थाद्‌ दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक्‌ प्रत्ययो भवति । अक्षैर्दीव्यति आक्षिकः । शालाकिकः । अभ्र्या खनति आभ्रिकः । कौद्दालिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् । शालाकिकम् । सर्वत्र करणे तृतीया समर्थविभक्तिः ।
देवदत्तेन जितमिति प्रत्ययो न भवति; अनभिधानात्‌ । अङ्‌गुल्या खनतीति च । प्रत्ययार्थे सङ्ख्याकालयोरविवक्षा ।
क्रियाप्रधानत्वेऽपि चाख्यातस्य, तद्धितः स्वभावात्साधनप्रधानः ।।
संस्कृतम् ।। 4-4-3 ।।
`तेन इति तृतीयासमर्थात्‌ `संस्कृतम् इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । सत उत्कर्षाधानम् = संस्कारः । दध्ना संस्कृतं दाधिकम् । शार्ङ्गवेरिकम् । मारिचिकम् । योगविभाग उत्तरार्थः ।।
कुलत्थकोपधादण्‌ ।। 4-4-4 ।।
कुलत्थशब्दात्ककारोपधाच्छब्दाच्च प्रातिपदिकादण्‌ प्रत्ययो भवति `संस्कृतम् इत्येतस्मिन्विषये । ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम्। ककारोपधात्‌--तैत्तिडीकम् । दार्दभकम् ।।
तरति ।। 4-4-5 ।।
तेनेति तृतीयासमर्थात्‌ `तरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । तरति प्लवते इत्यर्थः । काण्डप्लवेन तरति काण्डप्लविकः । औडुपिकः ।।
गोपुच्छाट्ठञ्‌ ।। 4-4-6 ।।
गोपुच्छशब्दाट्‌ ठञ्प्रत्ययो भवति `तरति इत्येतस्मिन्नर्थे ठकोऽपवादः । स्वरे विशेषः । गौपुच्छिकः ।।
नौद्व्यचष्ठन्‌ ।। 4-4-7 ।।
नौशब्दाद्‌ द्व्यचश्च प्रातिपदिकाट्‌ठन्‌ प्रत्ययो भवति `तरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । नावा तरति नाविकः । द्व्यचः खल्वपि---घटिकः । प्लविकः । बाहुकः ।
षकारः सांहितिकः, नानुबन्धः---बाहुका स्त्री ।
आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च ।
आवसथात्किशरादेः षितः षडेते ठगधिकारे ।।
विधिवाक्यापेक्षं च षट्‌त्वम्, प्रत्ययास्तु सप्त (म.भा.2.329)।।
चरति ।। 4-4-8 ।।
`तेन इति तृतीयासमर्थात्‌ `चरति इत्येतस्मिन्नथे ठक्प्रत्ययो भवति । चरतिर्भक्षणे गतौ च वर्त्तते । दध्ना चरति दाधिकः । हास्तिकः । शाकटिकः ।।
आकर्षात्ष्ठल्‌ ।। 4-4-9 ।।
आकर्षशब्दात्‌ ष्ठल्‌ प्रत्ययो भवति `चरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । लकारः स्वरार्थः । षकारो
ङीषर्थः । आकर्षेण चरति आकर्षिकः । आकर्षिकी । `आकर्ष इति=सुवर्णपरीक्षार्थो निकषोपल उच्यते ।।
पर्पादिभ्यः ष्ठन्‌ ।। 4-4-10 ।।
`पर्प इत्येवमादिभ्यः ष्ठन्‌ प्रत्ययो भवति `चरति इत्येतस्गिन्नर्थे । ठकोऽपवादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः, पर्पिकी । अश्विकः, अश्विकी ।
पर्प । अश्व । अश्वत्थ । रथ । जाल । न्यास । व्याल । पादः पच्च । पदिकः । पर्पादिः ।।
श्वगणाट्ठञ्च ।। 4-4-11 ।।
श्वगणशब्दाट्ठञ्‌ प्रत्ययो भवति, चकारात्‌ ष्ठन्‌, `चरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । श्वगणेन चरति श्वागणिकः, श्वागणिकी । ठन्‌--श्वगणिकः, श्वगणिका । श्वादेरिञि(7-3-8/1560) इत्यत्र वक्ष्यति---`इकारादिग्रहणं च कर्त्तव्यं श्वागणिकाद्यर्थम्(7-3-8/1560) इति । तेन ठञि द्वारादिकार्यं न भवति ।।
वेतनादिभ्यो जीवति ।। 4-4-12 ।।
`तेन इति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यः `जीवति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम् । धानुर्दण्डिकः । धानुष्कः । दाण्डिकः ।
वेतन । वाह । अर्धवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषण । उपस्ति । सुख । शय्या । शक्ति । उपनिषत्‌ । उपवेष । स्रक्‌ । पाद । उपस्थान । वेतनादिः ।।
वस्नक्रयविक्रयाट्ठन्‌ ।। 4-4-13 ।।
वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन्‌ प्रत्ययो भवति `जीवति इत्येतस्मिन्विषये । ठकोऽपवादः । वस्नेन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम्---क्रयविक्रयिकः, क्रयिकः, विक्रयिकः ।।
आयुधाच्छ च ।। 4-4-14 ।।
आयुधशब्दाच्छप्रत्ययो भवति, चकाराट्ठँश्च `जीवति इत्येतस्मिन्विषये । आयुधेन जीवति आयुधीयः । आयुधिकः ।।
हरत्युत्सङ्गादिभ्यः ।। 4-4-15 ।।
`तेन इत्येव । उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यः `हरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । हरतिर्देशान्तरप्रापणे वर्त्तते । उत्सङ्गेन हरति औत्सङ्गिकः । औडुपिकः ।
उत्सड्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः ।।
भस्त्रादिभ्यः ष्ठन्‌ ।। 4-4-16 ।।
`भस्त्रा इत्येवमादिभ्यस्तृतीयासमर्थेभ्यः `हरति इत्येतस्मिन्नर्थे ष्ठन्प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः, भस्त्रिकी । भरटिकः, भरटिकी ।
भस्त्रा । भरट । भरण । शीर्षभार । शीर्षेभार । अम्सभार । अंसेभार । भस्त्रादिः ।।
विभाषा विवधवीवधात्‌ ।। 4-4-17 ।।
`हरति इत्येव । विवधवीवधशब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन्‌ प्रत्ययो भवति । तेन मुक्ते प्रकृतष्ठग्भवति । विवधेन हरति विवधिकः, विवधिकी । वीवधिकः, वीवधिकी । ठक्‌ खल्वपि--वैवधिकः, वैवधिकी ।
विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्त्तते ।।
अण्‌ कुटिलिकायाः ।। 4-4-18 ।।
`हरति इत्येव । कुटिलिकाशब्दात्तृतीयासमर्थादण्‌ प्रत्ययो भवति `हरति इत्येतस्मिन्नर्थे । कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः । कुटिलिकया हरत्यङ्गारान्‌ कौटिलिकः कर्मारः ।
कुटिलिका=वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते ।।
निर्वृत्तेऽक्षद्यूतादिभ्यः ।। 4-4-19 ।।
`तेन इत्येव । अक्षद्यूतादिभ्यस्तृतीयासमर्थेभ्यः `निर्वृत्ते इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । अक्षद्यूतेन निर्वृत्तम्, आक्षद्यूतिकं वैरम् । जानुप्रहृतिकम् ।
अक्षद्यूत । जानुप्रहृत । जङ्घाप्रहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । अक्षद्यूतादिः ।।
क्त्रेर्मम्नित्यम् ।। 4-4-20 ।।
`निर्वृत्ते इत्येव, ड्‌वितः क्त्रिः(3-3-88/3266) इत्यय त्रिशब्दो गृह्यते । त्र्यन्तान्नित्यं मप्‌ प्रत्ययो भवति `तेन निर्वृत्ते इत्येतस्मिन्नर्थे । `डुपचष्पाके(धा.पा.997)--पक्त्रिमम् । `डुवप्‌(धा.पा.1003)--उप्त्रिमम् । `डुकृञ्‌(धा.पा.1473)--कृत्रिमम् ।
नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम् । तेन त्र्यन्तं नित्यं मप्प्रत्ययान्त--मेव भवति, विषयान्तरे न प्रयोक्तव्यम्(म.भा.2.330)इति ।।

  • भावप्रत्ययान्तादिमब्वक्तव्यः * (म.भा.2.330)। पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् । सेकिमम् । कुट्टिमम् ।।

अपमित्यायाचिताभ्यां कक्कनौ ।। 4-4-21 ।।
`निर्वृत्ते इत्येव । अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक्‌, कन्‌--इत्येतौ प्रत्ययौ भवतः `निर्वृत्ते इत्येतस्मिन्नर्थे । आपमित्यकम् । याचितकम् ।।
संसृष्टे ।। 4-4-22 ।।
`तेन इत्येव । तृतीयासमर्थात्‌ `संसृष्टे इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । संसृष्टम्=एकीभूतम्, अभिन्नमित्यर्थः । दध्ना संसृष्टं दाधिकम् । मारिचिकम् । शार्ङ्गवेरिकम् । पैप्पलिकम् ।।
चूर्णादिनिः ।। 4-4-23 ।।
चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्टे । ठकोऽपवादः । चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः । चूर्णिनो धानाः ।।
लवणाल्लुक्‌ ।। 4-4-24 ।।
संसृष्टे(4-3-22/1572) इत्यनेनोत्पन्नस्य ठको लवणशब्दाल्लुग्भवति । लवणः सूपः । लवणं शाकम् । लवणा यवागूः ।
द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची ।।
मुद्गादण्‌ ।। 4-4-25 ।।
मुद्‌गशब्दादण्‌ प्रत्ययो भवति `संसृष्टे इत्येतस्मिन्विषये । ठकोऽपवादः । मौद्‌ग ओदनः । मौद्‌गी यवागूः ।।
व्यञ्जनैरुपसिक्ते ।। 4-4-26 ।।
`तेन इत्येव । व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यस्तृतीयासमर्थेभ्यः `उपसिक्ते इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । दध्ना उपसिक्तं दाधिकम् । सौपिकम् । खारिकम् ।
व्यञ्जनैरिति किम् ? उदकेनोपसिक्त ओदनः ।।
ओजः सहोम्भसा वर्तते ।। 4-4-27 ।।
औजस्‌, सहस्‌, अम्भस् इत्येतेभ्यस्तृतीयासमर्थेभ्यः `वर्त्तते इत्यर्थे ठक्प्रत्ययो भवति । ओजसा वर्त्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ।।
तत्प्रत्यनुपूर्वमीपलोमकूलम् ।। 4-4-28 ।।
`तत्‌ इति द्वितीया समर्थविभक्तिः । `प्रति `अनु--इत्येवम्पूर्वेभ्य ईप, लोम, कूल-शब्देभ्यो द्वितीयासमर्थेभ्यः `वर्त्तते इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति ।
ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः ? क्रियाविशेषणकर्मकाणामपि कर्म भवति ।
प्रतीपं वर्त्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ।।
परिमुखं च ।। 4-4-29 ।।
परिमुखशब्दाद्‌ द्वितीयासमर्थाद्‌ `वर्त्तते इत्यस्मिन्नर्थे ठक्प्रत्ययो भवति । परिमुखं वर्त्तते पारिमुखिकः ।
चकारोऽनुक्तसमुच्चयार्थः । पारिपार्श्विकः ।
प्रयच्छति गर्ह्यम् ।। 4-4-30 ।।
`तत् इति द्वितीयासमर्थात्‌ `प्रयच्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति, यद्‌ द्वितीयासमर्थं गर्ह्यं चेत्तद्भवति । द्विगुणार्थम्=द्विगुणम्, तादर्थ्यात्ताच्छब्द्यम् । द्विगुणं प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ।

  • वृद्धेर्वृधुषिभावो वक्तव्यः * (म.भा.2.331)। वार्धुषिकः । प्रकृत्यन्तरं वा वृद्धिपर्यायो वृधुषिशब्दः ।

गर्ह्यमिति किम् ? द्विगुणं प्रयच्छत्यधमर्णः ।।
कुसीददशैकादशात्‌ ष्ठन्ष्ठचौ ।। 4-4-31 ।।
`प्रयच्छति गर्ह्यम् इत्येव । कुसीदम्=वृद्धिः, तदर्थद्रव्यं कुसीदम् । एकादशार्था दश दशैकादशशब्देनोच्यन्ते । कुसीद, दशैकादशशब्दाभ्यां यथासङ्ख्यं ष्ठन्‌, ष्ठज्‌--इत्येतौ प्रत्ययौ भवतः `प्रयच्छति गर्ह्यम् इत्येतस्मिन्विषये । ठकोऽपवादौ । कुसीदं प्रयच्छति कुसीदिकः, कुसीदिकी । दशैकादशिकः, दशैकादशिकी ।।
उञ्छति ।। 4-4-32 ।।
`तत्‌ इति द्वितीयासमर्थात्‌ `उञ्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । बदराण्युञ्छति बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादानम्=उञ्छः । कणानुञ्छति काणिकः ।।
रक्षति ।। 4-4-33 ।।
`तत् इति द्वितीयासमर्थाद्‌ `रक्षति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । समाजं रक्षति सामाजिकः । सान्निवेशिकः ।।
शब्ददर्दुरं करोति ।। 4-4-34 ।।
`तत्‌ इति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां `करोति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । शब्दं करोति शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ।।
पक्षिमत्स्यमृगान्हन्ति ।। 4-4-35 ।।
`तत्‌ इत्येव । पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो `हन्ति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । स्वरूपस्य पर्यायाणां च तद्विशेषाणां च ग्रहणमिहेष्यते । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । तैत्तिरिकः । मत्स्य--मात्स्यिकः, मैनिकः, शाफरिकः, शाकुलिकः । मृग--मार्गिकः, हारिणिकः, सौकरिकः, सारङ्गिकः ।।
परिपन्थं च तिष्ठति ।। 4-4-36 ।।
परिपन्थशब्दात्तदिति द्वितीयासमर्थात्‌ `तिष्ठति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । परिपन्थं तिष्ठति पारिपन्थिकश्चौरः ।
चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति । परिपन्थं हन्ति पारिपन्थिकः ।
समर्थविभक्तिप्रकरणे पुनर्द्वितीयोच्चारणं लौकिकवाक्यप्रदर्शनार्थम्, परिपथशब्दपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापयति, स विषयान्तरेऽपि प्रयोक्तव्यः ।।
माथोत्तरपदपदव्यनुपदं धावति ।। 4-4-37 ।।
माथशब्दोत्तरपदात्प्रातिपदिकात् पदवी, अनुपद---इत्येताभ्यां च `धावति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । दण्डमाथं धावति दाण्डमाथिकः । शौल्कमाथिकः । पादविकः । आनुपदिकः । माथशब्दः पथिन्पर्यायः ।।
आक्रन्दाट्ठञ्च ।। 4-4-38 ।।
आक्रन्दन्त्येतस्मिन्नित्याक्रन्दः=देशः, अथ वा---आक्रन्द्यत इत्याक्रन्दः--आर्त्तायनमुच्यते; विशेषाभावाद्‌ द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीयासमर्थात्‌ `धावति इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति, चकाराट्ठक्च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः, आक्रन्दिकी ।।
पदोत्तरपदं गृह्णाति ।। 4-4-39 ।।
पदशब्द उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्‌ `तत् इति द्वितीयासमर्थाद्‌ `गृह्णाति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ।
पदान्तादिति नोक्तम् , बहुच्पूर्वान्मा भूदिति ।।
प्रतिकण्ठार्थललामं च ।। 4-4-40 ।।
प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः `गृह्णाति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ।।
धर्मं चरति ।। 4-4-41 ।।
धर्मशब्दात्तदिति द्वितीयासमर्थात्‌ `चरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । चरतिरासेवायाम्, नानुष्ठानमात्रे । धर्मं चरति धार्मिकः ।

  • अधर्माच्च वक्तव्यम् * (म.भा.2.331)। आधर्मिकः ।।

प्रतिपथमेति ठँश्च ।। 4-4-42 ।।
प्रतिपथशब्दाद्‌ द्वितीयासमर्थाद्‌ `एति इत्यस्मिन्नर्थे ठन्‌ प्रत्ययो भवति, चकाराट्ठक्‌ च । प्रतिपथमेति प्रतिपथिकः, प्रातिपथिकः ।।
समवायान्‌ समवैति ।। 4-4-43 ।।
समवायवाचिभ्यः शब्देभ्यः `तत्‌ इति द्वितीयासमर्थेभ्यः `समवैति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति ।
समवायः समूह उच्यते, न सम्प्रधारणा । `समवायान्‌ इति बहुवचनं स्वरूपविधिनिरासार्थम् । समवैति, आगत्य तदेकदेशीभवतीत्यर्थः ।
समवायान्समवैति सामवायिकः । सामाजिकः । सामूहिकः । सान्निवेशिकः ।।
परिषदो ण्यः ।। 4-4-44 ।।
परिषदो ण्यः प्रत्ययो भवति `समवायान्‌ समवैति इत्येतस्मिन्‌ विषये । ठकोऽपवादः । परिषदं समवैति पारिषद्यः ।।
सेनाया वा ।। 4-4-45 ।।
सेनाशब्दाद्‌ वा ण्यः प्रत्ययो भवति `समवायान्समवैति इत्येतस्मिन्नर्थे । ठकोऽपवादः । पक्षे सोऽपि भवति । सेनां समवैति सैन्यः, सैनिकः ।।
संज्ञायां ललाटकुक्कुट्यौ पश्यति ।। 4-4-46 ।।
ललाट-कुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्याम् `पश्यति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति, संज्ञायां विषये । संज्ञाग्रहणमभिधेयनियमार्थम्, न तु रूढ्यर्थम् । ललाटं पश्यति ललाटिकः सेवकः । कौक्कुटिको भिक्षुः ।
सर्वावयवेभ्यो ललाटं दूरे दृश्यते, तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते । लालाटिकः सेवकः । स्वामिनः कार्येषु नोपतिष्ठत इत्यर्थः ।
कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते । देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्चति स उच्यते कौक्कुटिक इति ।।
तस्य धर्म्यम् ।। 4-4-47 ।।
`तस्य इति षष्ठीसमर्थाद्‌ `धर्म्यम् इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । धर्म्यं न्याय्यम् । आचारयुक्तमित्यर्थः । शुल्कशालाया धर्म्यं शौल्कशालिकम् । आकरिकम् । आपणिकम् । गौल्मिकम् ।।
अण्‌ महिष्यादिभ्यः ।। 4-4-48 ।।
`महीषी इत्येवमादिभ्योऽण्‌ प्रत्ययो भवति `तस्य धर्म्यम् इत्येतस्मिन्‌ विषये । ठकोऽपवादः । महिष्या धर्म्यं माहिषम् । प्राजावतम् ।
महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । मणिपाली । अनुचारक । होतृ । यजमान । महिष्यादिः ।।
ऋतोऽञ्‌ ।। 4-4-49 ।।
ऋकारान्तात्प्रातिपदिकादञ्‌ प्रत्ययो भवति `तस्य धर्म्यम् इत्येतस्मिन्विषये । ठकोऽपवादः । पोतुर्धर्म्यं पौत्रम् । औद्‌गात्रम् ।

  • नराच्चेति वक्तव्यम् * (म.भा.2.331)। नरस्य धर्म्या नारी ।
  • विशसितृरिड्‌लोपश्च * (म.भा.2.331)। विशसितुर्धर्म्यं वैशस्त्रम् ।
  • विभाजयितुर्णिलोपश्च * (म.भा.2.331)। विभाजयितुर्धर्म्यं वैभाजित्रम् ।।

अवक्रयः ।। 4-4-50 ।।
`तस्य इत्येव । षष्ठीसमर्थाद्‌ `अवक्रयः इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । अवक्रीणीतेऽनेनेत्यवक्रयः=पिण्डक उच्यते । शुल्कशालाया अवक्रयः शौल्कशालिकः । आकरिकः । आपणिकः । गौल्मिकः ।
नन्ववक्रयोऽपि धर्म्यमेव ? नैतदस्ति; लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवति ।।
तदस्य पण्यम् ।। 4-4-51 ।।
`तत् इति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य आपूपिकः । शाष्कुलिकः । मौदकिकः ।
पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतम्, अतः पण्यशब्दो न प्रयुज्यते ।।
लवणाट्ठञ्‌ ।। 4-4-52 ।।
लवणशब्दाट्ठञ्‌ प्रत्ययो भवति `तदस्य पण्यम् इत्येतस्मिन्विषये । ठकोऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य लावणिकः ।।
किशरादिभ्यः ष्ठन्‌ ।। 4-4-53 ।।
`किशर इत्येवमादिभ्यः ष्ठन्‌ प्रत्ययो भवति `तदस्य पण्यम् इत्येतस्मिन्विषये । ठकोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य किशरिकः । किशरिकी । नरदिकः । नरदिकी ।
किशर । नरद । नलद । सुमङ्गल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी । किशरादिः ।।
शलालुनोऽन्यतरस्याम् ।। 4-4-54 ।।
शलालुशब्दादन्यतरस्यां ष्ठन्‌ प्रत्ययो भवति `तदस्य पण्यम् इत्येतद्विषये । ठकोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालुपण्यमस्य शलालुकः, शलालुकी । शालालुकः, शालालुकी ।।
शिल्पम् ।। 4-4-55 ।।
`तत् इति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं शिल्पं चेत्तद्भवति । शिल्पम् = कौशलम् । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । पाणविकः । वैणिकः (म.भा.2.332)।
मृदङ्गवादने वर्त्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ।।
मड्‌डुकझर्झरादणन्यतरस्याम् ।। 4-4-56 ।।
`मड्‌डुक, `झर्झर शब्दाभ्यामन्यतरस्यामण्‌ प्रत्ययो भवति, `तदस्य शिल्पम् इत्येतस्मिन्विषये । ठकोऽपवादः । पक्षे सोऽपि भवति । मड्‌डुकवादनं शिल्पमस्य माड्‌डुकः, माड्‌डुकिकः । झार्झरः, झार्झरिकः ।।
प्रहरणम् ।। 4-4-57 ।।
`तदस्य इत्येव । `तत् इति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य आसिकः । प्रासिकः । चाक्रिकः । धानुष्कः ।।
परश्वधाट्ठञ्‌ च ।। 4-4-58 ।।
परश्वधशब्दात्‌ ठञ्‌ प्रत्ययो भवति, चकारात्‌ ठक्‌ । स्वरे विशेषः । परश्वधः प्रहरणमस्य पारश्वधिकः ।।
शक्तियष्ट्योरीकक् ।। 4-4-59 ।।
शक्ति, यष्टिशब्दाभ्यामीकक्प्रत्ययो भवति, `तदस्य प्रहरणम् इत्येतस्मिन्विषये । ठकोऽपवादः । शक्तिः प्रहरणमस्य शाक्तीकः । याष्टीकः ।।
अस्तिनास्तिदिष्टं मतिः ।। 4-4-60 ।।
`तदस्य इत्येव । `तत् इति प्रथमासमर्थेभ्यः `अस्ति, `नास्ति, `दिष्ट--इत्येतेभ्यः शब्देभ्यः `अस्य इति
षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिरस्य आस्तिकः । नास्ति मतिरस्य नास्तिकः । दैष्टिकः ।
न च मतिसत्तागात्रे प्रत्यय इष्यते, किं तर्हि ? परलोकोऽस्तीति यस्य मतिरस्ति स आस्तिकः, तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य गतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते ।
अस्ति, नास्ति-शब्दौ निपातौ, वचनसामर्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ।।
शीलम् ।। 4-4-61 ।।
`तदस्य इत्येव । `तत् इति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं शीलं चेत्तद्भवति । शीलम् = स्वभावः । अपूपभक्षणं शीलमस्य आपूपिकः । शाष्कुलिकः । मौदकिकः ।
भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ।।
छत्त्रादिभ्यो णः ।। 4-4-62 ।।
`छत्त्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति, `तदस्य शीलम् इत्येतस्मिन्विषये । ठकोऽपवादः । छत्त्रं शीलमस्य छात्त्रः । छादनादावरणाच्छत्त्रम् । गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्त्रशीलः शिष्यश्छात्त्रः ।
स्थाशब्दोऽत्र पठ्यते, स चोपसर्गपूर्वो गृह्यते - आस्था, संस्था, अवस्थेति ।
छत्त्र । बुभुक्षा । शिक्षा । पुरोह । स्था । चुरा । उपस्थान । ऋषि । कर्मन्‌ । विश्वधा । तपस्‌ । सत्य । अनृत । शिबिका । छत्त्रादिः ।।
कर्माध्ययने वृत्तम् ।। 4-4-63 ।।
`तदस्य इत्येव । `तत्‌ इति प्रथमासमर्थात्‌ `अस्य इति षष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं कर्म चेत्तद्‌वृत्तमध्ययनविषयं भवति । एकमन्यदध्ययने कर्म वृत्तमस्य ऐकान्यिकः । द्वैयन्यिकः । त्रैयन्यिकः ।
एकमन्यदिति विगृह्य `तद्धितार्थ इति समासः, ततश्च ठक्‌ प्रत्ययः । `अध्ययने कर्म वृत्तम् इत्येतत्सर्वं तद्धितवृत्तावन्तर्भवति । यस्याध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितमपपाठरूपमेकं जातं स उच्यते ऐकान्यिक इति । एवं द्वैयन्यिकः, त्रैयन्यिक इति ।।
बह्वच्पूर्वपदाट्ठच्‌ ।। 4-4-64 ।।
बह्वच्‌ पूर्वपदं यस्य तस्माद्बह्वच्पूर्वपदात्प्रातिपदिकाट्ठच्‌ प्रत्ययो भवति `तदस्य कर्माध्ययने वृत्तम् इत्येतस्मिन्नर्थे । ठकोऽपवादः । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । त्रयोदशान्यिकः । चतुर्दशान्यिक इति । चतुर्दशापपाठा अस्य जाता इत्यर्थः ।
उदात्ते कर्त्तव्ये योऽनुदात्तं करोति स उच्यतेऽन्यत्त्वं करोषीति ।।
हितं भक्षाः ।। 4-4-65 ।।
`तदस्य इत्येव । `तत्‌ इति प्रथमासमर्थात्‌ `अस्य इति ष्ष्ठ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं हितं चेत्तद्भवति, तच्च भक्षाः ।
ननु च हितयोगे चतुर्थ्या भवितव्यम्, तत्र कथं ष्ष्ठ्यर्थे प्रत्ययो विधीयते ? एवं तर्हि सामर्थ्याद्विभक्तिविपरिणामो भविष्यति ।
अपूपभक्षणं हितमस्मै आपूपिकः । शाष्कुलिकः । मौदकिकः । हितार्थक्रिया च तद्धितवृत्तावन्तर्भवति ।।
तदस्मै दीयते नियुक्तम् ।। 4-4-66 ।।
`तत्‌ इति प्रथमासमर्थाद्‌ `अस्मै इति चतुर्थ्यर्थे ठक्‌ प्रत्ययो भवति, यत्तत्प्रथमासमर्थं तच्चेद्‌ दीयते नियुक्तम् । नियोगेनाव्यभिचारेण दीयत इत्यर्थः । अव्यभिचारः = नियोगः । अग्रे भोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः । आपूपिकः । शाष्कुलिकः ।
केचित्तु नियुक्तम् = नित्यमाहुः । अपूपा नित्यमस्मै दीयन्ते आपूपिकः ।।
श्राणामांसौदनाट्टिठन्‌ ।। 4-4-67 ।।
`श्राणा, `मांसौदन- शब्दाभ्यां टिठन्‌ प्रत्ययो भवति, `तदस्मै दीयते नियुक्तम् इत्येतस्मिन्नर्थे ।
ठकोऽपवादः । इकार उच्चारणार्थः । टकारो ङीबर्थः । श्राणा नियुक्तमस्मै दीयते श्राणिकः, श्राणिकी । मांसौदनिकः, मांसौदनिकी ।
अथ ठञेव कस्मान्नोक्तः, न ह्यत्र ठञष्टिठनो वा विशेषोऽस्ति ? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः - ओदनिकः, ओदनिकी ।।
भक्तादणन्यतरस्याम् ।। 4-4-68 ।।
भक्तशब्दादण्‌ प्रत्ययो भवत्यन्यतरस्यां `तदस्मै दीयते नियुक्तम् इत्येतस्मिन्विषये । ठकोऽपवादः । पक्षे सोऽपि भवति । भक्तमस्मै दीयते नियुक्तं भाक्तः, भाक्तिकः ।।
तत्र नियुक्तः ।। 4-4-69 ।।
`तत्र इति सप्तमीसमर्थात्‌ `नियुक्तः इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । नियुक्तः=अधिकृतः, व्यापारित इत्यर्थः । शुल्कशालायां नियुक्तः शौल्कशालिकः । आकरिकः । आपणिकः । गौल्मिकः । दौवारिकः ।।
अगारान्ताट्ठन्‌ ।। 4-4-70 ।।
अगारशब्दान्तात्प्रातिपदिकाट्ठन्‌ प्रत्ययो भवति, `तत्र नियुक्तः इत्येतस्मिन्विषये । ठकोऽपवादः । देवागारे नियुक्तो देवागारिकः । कोष्ठागारिकः । भाण्डागारिकः ।
अध्यायिन्यदेशकालात् ।। 4-4-71 ।।
`तत्र इत्येव । सप्तमीसमर्थाददेशवाचिनः प्रातिपदिकादकालवाचिनश्चाध्यायिन्यभिधेये ठक्‌ प्रत्ययो भवति । अध्ययनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते, तत इदं प्रत्ययविधानम् । श्मशानेऽधीते श्माशानिकः । चातुष्पथिकः । अकालात्‌--चतुर्दश्यामधीते चातुर्दशिकः । आमावास्यिकः ।
अदेशकालादिति किम् ? स्रुघ्नेऽधीते । पूर्वाह्णेऽधीते ।।
कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।। 4-4-72 ।।
`तत्र इत्येव । कठिनशब्दान्तात्सप्तमीसमर्थात्‌ प्रस्तारसंस्थानशब्दाभ्यां च ठक्‌ प्रत्ययो भवति, `व्यवहरति इत्येतस्मिन्नर्थे । व्यवहारः=क्रियातत्त्वम्, यथा---लौकिकव्यवहार इति । वंशकठिने व्यवहरति वांशकठिनिकश्चक्रचरः । वार्धकठिनिकः । प्रास्तारिकः । सांस्थानिकः ।।
निकटे वसति ।। 4-4-73 ।।
निकटशब्दात्सप्तमीसमर्थाद्‌ `वसति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस्तत्रायं विधिः । `आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यम् इति शास्त्रम् । निकटे वसति नैकटिको भिक्षुः ।।
आवसथात्‌ ष्ठछल्‌ ।। 4-4-74 ।।
`तत्र इत्येव । आवसथशब्दात्सप्तमीसमर्थाद्‌ `वसति इत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति । लकारः स्वरार्थः, षकारो ङीषर्थः । आवसथे वसति आवसथिकः । आवसथिकी ।
ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो, विधीयते ।।
प्राग्घिताद्यत्‌ ।। 4-4-75 ।।
तस्मै हितम्(5-1-5/1665) इति वक्ष्यति । प्रागेतस्माद्धितसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति - तद्वहति रथयुगप्रासङ्गम्(4-4-76/1627)। रथ्यः । युग्यः । प्रासङ्ग्यः ।।
तद्वहति रथयुगप्रासङ्गम् ।। 4-4-76 ।।
`तत्‌ इति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यः `वहति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । रथं वहति रथ्यः । युग्यः । प्रासङ्ग्यः ।
`रथसीताहलेभ्यो यद्विधौ(कात्या.वा.1) इति तदन्तविध्युपसङ्ख्यानात्‌ परमरथ्य इत्यपि भवति ।।
धुरो यड्‌ढकौ ।। 4-4-77 ।।
`तद्वहति इत्येव । `धूर्‌ इत्येतस्माद्‌ द्वितीयासमर्थाद्‌ `वहति इत्येतस्मिन्नर्थे यत्‌, ढक्‌-इत्येतौ प्रत्ययौ
भवतः । धुरं वहतीति धुर्यः, धौरेयः ।।
खः सर्वधुरात्‌ ।। 4-4-78 ।।
`तद्वहति इत्येव । सर्वधुराशब्दाद्‌ द्वितीयासमर्थाद्‌ `वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । सर्वधुरां वहति सर्वधुरीणः ।
स्त्रीलिङ्गे न्याय्ये `सर्वधुरात्‌ इति प्रातिपदिकमात्रापेक्षो निर्देशः । `खः इति योगविभागः कर्त्तव्य इष्टसंग्रहार्थः । उत्तरधुरीणः । दक्षिणधुरीणः ।।
एकधुराल्लुक्‌ च ।। 4-4-79 ।।
`तद्वहति इत्येव । एकधुराशब्दाद्‌ द्वितीयासमर्थाद्‌ `वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति तस्य च लुग्भवति । वचनसामर्थ्यात्पक्षे लुग्भवति । एकधुरां वहति एकधुरीणः । एकधुरः ।।
शकटादण्‌ ।। 4-4-80 ।।
`तद्वहति इत्येव । शकटशब्दाद्‌ द्वितीयासमर्थाद्‌ `वहति इत्येतस्मिन्नर्थेऽण्‌ प्रत्ययो भवति । शकटं वहति शाकटो गौः ।।
हलसीराट्ठक्‌ ।। 4-4-81 ।।
`तद्वहति इत्येव । हलसीरशब्दाभ्यां द्वितीयासमर्थाभ्यां `वहति इत्येतस्मिन्नर्थे ठक्‌ प्रत्ययो भवति । हलं वहति हालिकः । सौरिकः ।
संज्ञायां जन्याः ।। 4-4-82 ।।
`तद्वहति इत्येव । जनीशब्दात्‌ द्वितीयासमर्थाद्‌ `वहति इत्येतस्मिन्नर्थे यत्‌ प्रत्ययो भवति, समुदायेन चेत्संज्ञा गम्यते । जनीं वहति जन्या=जामातुर्वयस्या । सा हि विवाहादिषु जामातृसमीपं प्रापयति। जनी=वधूरुच्यते ।
विध्यत्यधनुषा ।। 4-4-83 ।।
`तत् इति द्वितीयासमर्थाद्‌ `विद्ध्यति इत्येतस्मिन्नर्थे यत्‌ प्रत्ययो भवति, न चेद्धनुष्करणं भवति । पादौ विद्ध्यन्ति पद्याः शर्कराः । ऊरव्याः कण्टकाः ।
अधनुषेति किम् ? पादौ विद्ध्यति धनुषा ।
नन्वसमर्थत्वादनभिधानाच्च प्रत्ययो न भवति, न हि धनुषा पद्य इत्युक्ते विवक्षितोऽर्थः प्रतीयते ? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्या धनुष्करणं न सम्भाव्यते इति । तेनेह न भवति--चौरं विध्यति, शत्रुं विध्यति देवदत्त इति ।।
धनगणं लब्धा ।। 4-4-84 ।।
`तत्‌ इत्येव । धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् `लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । धन्यः । गण्यः । लब्धेति तृनन्तम्, तेन द्वितीया समर्था विभक्तिर्युज्यते ।।
अन्नाण्णः ।। 4-4-85 ।।
अन्नशब्दात्‌ `तत्‌ इति द्वितीयासमर्थात्‌ `लब्धा इत्येतस्मिन्नर्थे णः प्रत्ययो भवति । अन्नं लब्धा आन्नः ।।
वशं गतः ।। 4-4-86 ।।
वशशब्दात्‌ `तत्‌ इति द्वितीयासमर्थाद्‌ `गतः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । वशं गतः वश्यः=कामप्राप्तोः, विधेय इत्यर्थः ।।
पदमस्मिन्‌ दृश्यम् ।। 4-4-87 ।।
निर्देशादेव प्रथमा समर्थविभक्तिः । पदशब्दात्प्रथमासमर्थाद्‌ दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति । पदं दृश्यमस्मिन्‌ पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यप्रत्यः । शक्यते यस्मिन्‌ पदं द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्यावस्थोच्यते--नातिद्रवो नातिशुष्क इति ।।
मूलमस्यावर्हि ।। 4-4-88 ।।
मूलशब्दात्प्रथमासमर्थाद्‌ `आबर्हि इत्येवमुपाधिकादस्येति षष्ठ्यर्थे यत्प्रत्ययो भवति । मूलमेषामावर्हि
मूल्या माषाः । मूल्या मुद्‌गाः । `वृहू उद्यमे(धा.पा.1348), येषां मूलमावृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः । मूलोत्पाटनेन विना ग्रहीतुं न शक्यन्ते इत्यर्थः ।।
संज्ञायां धेनुष्या ।। 4-4-89 ।।
`धेनुष्या इति निपात्यते संज्ञायां विषये । संज्ञाग्रहणमभिधेयनियमार्थम् । धेनोः षुगागमो यश्च प्रत्ययो निपात्यते । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय ऋणप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धेति यस्याः प्रसिद्धिः । धेनुष्यां भवते ददामि ।।
गृहपतिना संयुक्ते ञ्यः ।। 4-4-90 ।।
निर्देशादेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्‌ तृतीयासमर्थात्‌ `संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः गार्हपत्योऽग्निः ।
अन्यस्यापि गृहपतिना संयोगोऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ।।
नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ।। 4-4-91 ।।
नावादिभ्योऽष्टभ्यः शब्देभ्योऽष्टस्वेव तार्यादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं नाव्यमुदकम् । नाव्या नदी । शक्यार्थे कृत्यः ।
वयसा तुल्यो वयस्यः सखा । संज्ञाधिकारोऽभिधेयनियमार्थः, तेन वयसा तुल्ये शत्रौ न भवति ।
धर्मेण प्राप्यं धर्म्यम् । ननु च धर्मादनपेते(4-4-92/1644) इति वक्ष्यमाणेनैव सिद्धम् ? नैतदस्ति; धर्मं यदनुवर्त्तते तद्धर्मादनपेतमित्युच्यते, फलं तु धर्मादपेत्यैव; कार्यविरोधित्वाद्धर्मस्य ।
विषेण वध्यो विष्यः । विषेण वधमर्हतीत्यर्थः ।
मूलेनानाम्यं मूल्यम् । आनाम्यम् = अभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलम्, तेन तदभिभूयते शेषीक्रियते । मूलं हि सगुणं मूल्यं करोति । पोरदुपधात्‌(3-1-98/2844) इति यति प्राप्ते आनाम्यमिति निपातनाण्ण्यत्‌ । मूलेन समो मूल्यः पटः । उपादानेन समानफल इत्यर्थः ।
सीतया समितं सीत्यं क्षेत्रम् । समितम् = सङ्गतमित्यर्थः ।।
`रथसीताहलेभ्यो यद्विधौ(कात्या.वा.1) इति तदन्तविधिरपीष्यते । परमसीत्यम् । उत्तमसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् ।
तुलया सम्मितं तुल्यम् । सम्मितम्=समानम्, सदृशमित्यर्थः ।
यथा--तुला परिच्छिनत्ति परम्, एवं तदपीति ।।
धर्मपथ्यर्थन्यायादनपेते ।। 4-4-92 ।।
निर्देशादेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्यः-`अनपेतः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ।
संज्ञाधिकारादभिधेयनियमः ।।
छन्दसो निर्मिते ।। 4-4-93 ।।
प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः । छन्दः शब्दात्‌ तृतीयासमर्थात्‌ `निर्मिते इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । निर्मितः = उत्पादितः । छन्दसा निर्मितश्छन्दस्यः । इच्छया कृत इत्यर्थः ।
इच्छापर्यायश्छन्दःशब्द इह गृह्यते ।।
उरसोऽण्‌ च ।। 4-4-94 ।।
उरः शब्दात्तृतीयासमर्थात्‌ `निर्मिते इत्येतस्मिन्नर्थेऽण्‌ प्रत्ययो भवति, चकाराद्यच्च । उरसा निर्मित औरसः पुत्रः, उरस्यः पुत्रः ।
संज्ञाधिकारादभिधेयनियमः ।।
हृदयस्य प्रियः ।। 4-4-95 ।।
निर्देशादेव समर्थविभक्तिः । हृदयशब्दात्षष्ठीसमर्थात्‌ `प्रियः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । हृदयस्य प्रियो हृद्यो देशः । हृद्यं वनम् ।
संज्ञाधिकारादभिधेयनियमः । इह न भवति---हृदयस्य प्रियः पुत्र इति ।।
बन्धने चर्षौ ।। 4-4-96 ।।
`हृदयस्य इत्येव । `बन्धने इति प्रत्ययार्थः । तद्विशेषणमृषिग्रहणम् । बद्ध्यते येन तद्बन्धनम् । हृदयशब्दात्षष्ठीसमर्थाद्बन्धने ऋषावभिधेये यत्‌ प्रत्ययो भवति । ऋषिः= वेदो गृह्यते । हृदयस्य बन्धनमृषिः हृद्यः । परहृदयं येन बद्ध्यते वशीक्रियते स वशीकरणमन्त्रः=हृद्य इत्युच्यते ।।
मतजनहलात्‌ करणजल्पकर्षेषु ।। 4-4-97 ।।
मतादिभ्यस्त्रिभ्यः शब्देभ्यस्त्रिष्वेव करणादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति । प्रत्ययार्थसामर्थ्याल्लब्धा षष्ठी समर्थविभक्तिः । मतम् = ज्ञानम्, तस्य करणं मत्यम्, भावसाधनं वा । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः । द्विहल्यः । त्रिहल्यः । कर्षणं कर्षः, भावसाधनं वा ।।
तत्र साधुः ।। 4-4-98 ।।
`तत्र इति सप्तमीसमर्थात्‌ `साधुः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । सामसु साधुः सामान्यः । वेमन्यः । कर्मण्यः । शरण्यः ।
साधुरिह प्रवीणो योग्यो वा गृह्यते, नोपकारकः; तत्र हि परत्वात्‌ तस्मै हितम्(5-1-5/1665) इत्यनेन विधिना भवितव्यम् ।।
प्रतिजनादिभ्यः खञ्‌ ।। 4-4-99 ।।
प्रतिजनादिभ्यः शब्देभ्यः खञ्‌ प्रत्ययो भवति, `तत्र साधुः इत्येतस्मिन्नर्थे । यतोऽपवादः । प्रतिजने साधुः प्रातिजनीनः । जनेजने साधुरित्यर्थः । ऐदंयुगीनः । सांयुगीनः ।
प्रतिजन । इदंयुग । संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पञ्चजन । महाजन । प्रतिजनादिः ।।
यत्र हितार्थ एव साध्वर्थः, तत्र वचनात्प्राक्क्रीतीया बाध्यन्ते ।।
भक्ताण्णः ।। 4-4-100 ।।
भक्तशब्दाद्‌ णः प्रत्ययो भवति, `तत्र साधुः इत्येतस्मिन्विषये । यतोऽपवादः । भक्ते साधुः भाक्तः शालिः । भाक्तास्तण्डुलाः ।।
परिषदो ण्यः ।। 4-4-101 ।।
परिषद्‌-शब्दाद्‌ ण्यः प्रत्ययो भवति, `तत्र साधुः इत्येतस्मिन्‌ विषये । यतोऽपवादः । परिषदि साधुः पारिषद्यः ।
णप्रत्ययोऽप्यत्रेष्यते । तदर्थं योगविभागः क्रियते---`परिषदः णो भवति । परिषदि साधुः पारिषदः, ततः `ण्यः, परिषद इत्येव ।।
कथादिभ्यष्ठक्‌ ।। 4-4-102 ।।
कथादिभ्यः शब्देभ्यष्ठक्‌ प्रत्ययो भवति `तत्र साधुः इत्येतस्मिन्विषये । यतोऽपवादः । कथायां साधुः काथिकः । वैकथिकः ।
कथा । विकथा । वितण्डा । कुष्टचित्‌ । जनवाद । जनेवाद । वृत्ति । सद्‌गृह । गुण । गण । आयुर्वेद । कथादिः ।।
गुडादिभ्यष्ठञ्‌ ।। 4-4-103 ।।
गुडादिभ्यः शब्देभ्यष्ठञ्‌ प्रत्ययो भवति `तत्र साधुः इत्येतस्मिन्विषये । यतोऽपवादः । गुडे साधुः गौडिक इक्षुः । कौल्माषिको मुद्‌गः । साक्तुको यवः ।
गुड । कुल्माष । सक्तु । अपूप । मांसौदन । इक्षु । वेणु । सङ्ग्राम । सङ्घात । प्रवास । निवास । उपवास । गुडादिः ।।
पथ्यतिथिवसतिस्वपतेर्ढञ्‌ ।। 4-4-104 ।।
पथ्यादिभ्यः शब्देभ्यो ढञ्‌ प्रत्ययो भवति `तत्र साधुः इत्येतस्मिन्विषये । यतोऽपवादः । पथि साधु
पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ।।
सभाया यः ।। 4-4-105 ।।
सभाशब्दाद्यः प्रत्ययो भवति `तत्र साधुः इत्येतस्मिन्विषये । यतोऽपवादः । स्वरे विशेषः । सभायां साधुः सभ्यः ।।
ढश्छन्दसि ।। 4-4-106 ।।
सभाशब्दाड्ढुः प्रत्ययो भवति `तत्र साधुः इत्येतस्मिन्विषये छन्दसि । यस्यापवादः । `सभेयो युवाऽस्य यजमानस्य वीरो जायताम्(वा.सं.22.22) ।।
समानतीर्थे वासी ।। 4-4-107 ।।
`साधुः इति निवृत्तम् । `वासी इति प्रत्ययार्थः । समानतीर्थ शब्दात्तत्रेति सप्तमीसमर्थाद्‌ `वासी इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । समाने तीर्थे वासीति सतीर्थ्यः । समानोपाध्याय इत्यर्थः । तीर्थशब्देनेह गुरुरुच्यते । समानस्य सभावः, तीर्थे यः ।।
समानोदरे शयित ओ चोदात्तः ।। 4-4-108 ।।
समानोदरशब्दात्सप्तमीसमर्थात्‌ `शयितः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, ओकारश्चोदात्तः । शयितः=स्थित इत्यर्थः । समानोदरे शयितः समानोदर्यो भ्राता ।।
सोदराद्यः ।। 4-4-109 ।।
सोदरशब्दात्सप्तमीसमर्थात्‌ `शयितः इत्येतस्मिन्नर्थे यः प्रत्ययो भवति । विभाषोदरे(6-3-88/1016) इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः । समानोदरे शयितः सोदर्यो भ्राता । `ओ चोदात्तः इति नानुवर्त्तते । यकारे स्वरः ।।
भवे छन्दसि ।। 4-4-110 ।।
`तत्र इत्येव । सप्तमीसमर्थाद्‌ `भवे इत्येतस्मिन्नर्थे छन्दसि विषये यत्प्रत्ययो भवति । अणादीनां घादीनां चापवादः । सति दर्शने तेऽपि भवन्ति; सर्वविधीनां छन्दसि व्यभिचारात्‌ । `नमो मेघ्याय च विद्युत्याय च नमः(तै.सं.4-5-7.16) ।
आपादपरिसमाप्तेश्छन्दोऽधिकारः । भवाधिकारश्च समुद्राभ्राद्धः(4-4-118/3464) इति यावत्‌ ।।
पाथोनदीभ्यां ड्यण्‌ ।। 4-4-111 ।।
पाथशब्दान्नदीशब्दाच्च ड्यण्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्नर्थे । यतोऽपवादः । पाथसि भवः `पाथ्यो वृषा(ऋ.6-16-15) । `नाद्यो गिरो मे प्रयच्छति(ऋ.2-35-1) । पाथोऽन्तरिक्षम् ।।
वेशन्तहिमवद्भ्यामण्‌ ।। 4-4-112 ।।
वेशन्तशब्दाद्धिमवच्छब्दाच्चाण्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । यतोऽपवादः । `वैशन्तीभ्यः स्वाहा(तै.सं.7-4-13.9) । `हैमवन्तीभ्यः स्वाहा(शौ.19-2-1) ।
स्रोतसो विभाषा ड्यड्‌ड्यौ ।। 4-4-113 ।।
स्रोतश्शब्दाद्विभाषा `ड्यत्, `ड्य- इत्यतौ प्रत्ययौ भवतः `तत्र भवः इत्येतस्मिन्विषये । यतोऽपवादः । पक्षे सोऽपि भवति । स्रोतसि भवः `स्रोत्यः(ऋ.10-104-8) । `स्रोतस्यः(अ.19-2-4) । ड्यड्‌ड्ययोः स्वरे विशेषः ।।
सगर्भसयूथसनुताद्यन्‌ ।। 4-4-114 ।।
`सगर्भ, `सयूथ, `सनुत-शब्देभ्यो यन्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । यतोऽपवादः । स्वरे विशेषः । `अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः(तै.सं.1-2-4.2) । `यो नः सनुत्यः(ऋ.2-30-9) । सर्वत्र समानस्य छन्दसि(6-3-84/1012) इति सभावः ।।
तुग्राद्‌ घन्‌ ।। 4-4-115 ।।
तुग्रशब्दाद्धन्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । यतोऽपवादः । `त्वमग्ने वृषभस्तुग्रियाणाम् । अन्नाकाशयज्ञवरिष्ठेषु तुग्रशब्दः ।।
अग्राद्यत्‌ ।। 4-4-116 ।।
अग्रशब्दाद्यत्‌ प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्विषये । अग्रे भवम् `अग्र्यम्(खि.1-3-7) । किमर्थमिदम्, यावता सामान्येन यद्विहित एव ? घच्छौ च(4-4-117/3463) इति वक्ष्यति, ताभ्यां बाधा मा भूदिति पुनर्विधीयते ।।
घच्छौ च ।। 4-4-117 ।।
अग्रशब्दाद्यत्‌, घच्छौ प्रत्ययौ भवन्ति, `तत्र भवः इत्येतस्मिन्विषये । `अग्र्यम्(खि.1-3-7), `अग्रियम्(ऋ.1-13-10), `अग्रीयम्(मै.2-7-13.13) ।
चकारः `तुग्राद्धन्‌ इत्यस्यानुकर्षणार्थः । अग्रियम् । स्वरे विशेषः ।।
समुद्राभ्राद्‌ घः ।। 4-4-118 ।।
समुद्रशब्दाद्‌, अभ्रशब्दाच्च घः प्रत्ययो भवति `तत्र भवः इत्येतस्मिन्नर्थे । यतोऽपवादः । `समुद्रिया नदीनाम्(ऋ.7-87-1) । `अभ्रियस्येव घोषः(ऋ.10-68-1) ।
अभ्रशब्दास्यापूर्वनिपातः; तस्य लक्षणस्य व्यभिचारित्वात्‌ ।।
बर्हिषि दत्तम् ।। 4-4-119 ।।
`भवः इति निवृत्तम् । बर्हिः - शब्दात्सप्तमीसमर्थात्‌ `दत्तम् इत्येतस्मिन्नर्थे यत्‌ प्रत्ययो भवति । `बर्हिष्येषु निधिषु प्रियेषु(ऋ.10-15-5) ।।
दूतस्य भागकर्मणी ।। 4-4-120 ।।
निर्देशादेव समर्थविभक्तिः । दूतशब्दात्‌ षष्ठीसमर्थाद्भागे कर्मणि चाभिधेये यत्प्रत्ययो भवति । भागः = अंशः । कर्म = क्रिया । `यत्ते अग्ने दूत्यम्(ऋ.1-12-4) । दूतभागः, दूतकर्म वा ।।
रक्षोयातूनां हननी ।। 4-4-121 ।।
निर्देशादेव समर्थविभक्तिः । रक्षः शब्दाद्यातुशब्दाच्च षष्ठीसमर्थात्‌ `हननी इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । हन्यतेऽनयेति हननी । `यावां मित्रावरुणौ रक्षस्या तनूः(मै.2-3-1) । रक्षसां हननी । `यातव्या(मै.2-3-1) । यातूनां हननी ।
बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम् । बहूनां रक्षसां हननेन तनूः स्तूयते ।।
रेवतीजगतीहविष्याभ्यः प्रशस्ये ।। 4-4-122 ।।
रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत्प्रत्ययो भवति । प्रशंसनं प्रशस्यम्, भावे क्यप्‌ प्रत्ययो भवति । `यद्वो रेवती रेवत्यम्(काठ.सं.1.8) । `यद्वो जगती जगत्यम्(काठ.सं.1.8) । `यद्वो हविष्या हविष्यम्(काठ.सं.1.8) । हविषे हिता हविष्याः, तासां प्रशंसनं हविष्यम् । यस्येति लोपे कृते हलो यमा यमि लोपः(8-4-64/60) इति लोपः ।।
असुरस्य स्वम् ।। 4-4-123 ।।
असुरशब्दात्षष्ठीसमर्थात्‌ `स्वम् इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । अणोऽपवादः । `असुर्यं वा एतत्पात्रम्, यच्चक्रधृतं कुलालकृतम्(मै.सं.1-8-3) ।।
मायायामण्‌ ।। 4-4-124 ।।
असुरशब्दात्षष्ठीसमर्थात्‌ `मायायाम् स्वविशेषेऽण्प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । `आसुरी माया स्वधया कृतासि(वा.सं.11.69) ।।
तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक्‌ च मतोः ।। 4-4-125 ।।
`तद्वान्‌ इति निर्देशादेव समर्थविभक्तिः । मतुबन्तात्प्रातिपदिकात्‌ प्रथमासमर्थादासामिति षष्ठ्यर्थे यत्प्रत्ययो भवति, यत्प्रथमासमर्थमुपधानो मन्त्रश्चेत्स भवति । यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । `लुक्च मतोः इति प्रकृतिनिर्ह्रासः । इतिकरणस्ततश्चेद्विवक्षा । `तद्वान्‌ इत्यवयवेन समुदायो निर्दिश्यते । वर्चः शब्दो यस्मिन्मन्त्रेऽस्ति स वर्चस्वान्‌ । उपधीयते येन स उपधानः । चयनवचन इत्यर्थः । वर्चस्वानुपधानमन्त्र आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते - `वर्चस्या(तै.ब्रा.1-8-9.1) उपदधाति,
`तेजस्या(तै.ब्रा.1-8-1.9) उपदधाति । `पयस्याः(तै.सं.2-3-13.1) । `रेतस्याः(ष.विं.21) ।
तद्वानिति किम् ? मन्त्रसमुदायादेव मा भूत्‌ । उपधान इति किम् ? वर्चस्वानुपस्थानमन्त्र आसामित्यत्र मा भूत्‌ । मन्त्र इति किम् ? अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत्‌ । इष्टकास्विति किम् ? अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत्‌ ।
इतिकरणो नियमार्थः । अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते, न सर्वेण ।।
अश्विमानण्‌ ।। 4-4-126 ।।
अश्विशब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान्‌, अश्विमच्छब्दादण्‌ प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । अश्विमानुपधानो मन्त्र आसामिष्टकानामिति विगृह्याण्विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये(6-4-164/1245) इति प्रकृतिभावः । `आश्विनीरुपदधाति(श.ब्रा.8-2-1.11) ।।
वयस्यासु मूर्ध्नो मतुप्‌ ।। 4-4-127 ।।
वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप्‌ प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । यस्मिन्मन्त्रे वयः शब्दो मूर्द्धन्शब्दश्च विद्यते, स वयस्वानपि भवति, मूर्द्धन्वानपि; यथा - `मूर्द्धावयः प्रजापतिच्छन्द(वा.सं.14.9) इति । तत्र वयस्वच्छब्दादिव मूर्द्धन्वच्छब्दादपि यति प्राप्ते मतुब्‌ विधायते - `मूर्द्धन्वतीरुपदधाति(तै.सं.5-3-8.3), वयस्या एव मूर्द्धन्वत्यः ।
वयस्यास्विति किम् ? यत्र मूर्द्धन्शब्द एव केवलो न वयः शब्दः, तत्र मा भूत्‌ ।
`मर्द्धन्वतः इति वक्तव्ये `मूर्ध्नः इत्युक्तम्--मतुपो लुकं भाविनं चित्ते कृत्वा ।।
मत्वर्थे मासतन्वोः ।। 4-4-128 ।।
यस्मिन्नर्थे मतुब्विहितस्तस्मिंश्छन्दसि विषये यत्प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः । प्रथमासमर्थादस्त्युपाधिकात्षष्ठ्यर्थे सप्तम्यर्थे च यत्प्रत्ययो भवति । मत्वर्थीयानामपवादः । नभांसि विद्यन्ते यस्मिन्मासे `नभस्यो(तै.सं.1-4-14.1) मासः । `सहस्यः(तै.सं.1-4-14.1) । `तपस्यः(तै.सं.1-4-14.1) । `मधव्यः(तै.सं.5-2-9.3) । नभः शब्दोऽभ्रेषु वर्त्तते । तन्वां खल्वपि--ओजोऽस्यां विद्यते `ओजस्या तनू, रक्षस्या(मै.सं.2-3-1) ।
मासतन्वोरिति किम् ? मधुमता पात्रेण चरति ।
`मासतन्वोरनन्तरार्थे वा(म.भा.2.334) । मध्वस्मिन्नस्ति, मध्वस्मिन्ननन्तरमिति वा मधव्यो मासः ।

  • लुगकारेकाररेफाश्च वक्तव्याः * (म.भा.2.335)। लुक्तावत्‌-`तपश्च तपस्यश्च(तै.सं.1-4-14.1) । `नभश्च नभस्यश्च(तै.सं.1-4-14.1) । `सहश्च सहस्यश्च(तै.सं.1-4-14.1) । नपुंसकलिङ्गं छान्दसत्वात्‌ । अकारः - `इषो मासः(तै.सं.1-4-14.1) । `ऊर्जो मासः(तै.सं.1-4-14.1) । इकारः - `शुचिर्मासः(तै.सं.1-4-14.1) । रेफः - `शुक्रो मासः(तै.सं.1-4-14.1) ।

मधोर्ञ च ।। 4-4-129 ।।
मधुशब्दान्मत्वर्थे ञः प्रत्ययो भवति, चकाराद्यच्च । उपसङ्ख्यानाल्लुक्च । `माधवः(तै.सं.1-4-14.1), `मधव्यः(तै.सं.1-4-14.1), `मधुः(तै.सं.1-4-14.1) । तन्वां खल्वपि - माधवा, मधव्या, मधुः तनूः ।।
ओजसोऽहनि यत्खौ ।। 4-4-130 ।।
`मत्वर्थे इत्येव । ओजः शब्दान्मत्वर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये । ओजस्यमहः । ओजसीनमहः ।।
वेशोयशआदेर्भगाद्यल्‌ ।। 4-4-131 ।।
`मत्वर्थे इत्येव । वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद्‌ वेशोयशआदेर्भगान्तात्‌ प्रातिपदिकान्मत्वर्थे यल्‌ प्रत्ययो भवति । लकारः स्वरार्थः । वेशोभगो विद्यते यस्य स वेशोभग्यः । यशोभग्यः ।
वेशः = इति बलमुच्यते । श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः । वेशश्चासौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्यास्तीति वेशोभग्यः ।।
ख च ।। 4-4-132 ।।
वेशोयशआदेर्भगान्तात्प्रातिपदिकान्मत्वर्थे खः प्रत्ययो भवति । योगविभागो यथासङ्ख्यनिरासार्थ उत्तरार्थश्च । चकाराद्यत्‌ । वेशोभग्यः, वेशोभगीनः । यशोभग्यः । यशोभगीनः ।।
पूर्वैः कृतमिनयौ च ।। 4-4-133 ।।
`मत्वर्थे इति निवृत्तम् । निर्देशादेव समर्थविभक्तिः । पूर्वशब्दात्‌ तृतीयासमर्थात्कृतमित्येतस्मिन्नर्थे `इन, `य इत्येतौ प्रत्ययौ भवतः । चकारात्ख च । `गम्भीरेभिः पथिभिःपूर्विणेभिः(काठ.सं.9-6-19)। `पूर्व्यैः(तै.1-8-5.2) । पूर्वीणैः ।
`पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषा उच्यन्ते । तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा ।।
अद्भिः संस्कृतम् ।। 4-4-134 ।।
निर्देशादेव समर्थविभक्तिः । अप्शब्दात्तृतीयासमर्थात्‌ `संस्कृतम् इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । `यस्येदमप्यं हविः(ऋ.10-86-12) । अद्भिः संस्कृतमिति ।।
सहस्रेण संमितौ घः ।। 4-4-135 ।।
निर्देशादेव समर्थविभक्तिः । सहस्रशब्दात्तृतीयासमर्थात्‌ `सम्मितौ इत्येतस्मिन्नर्थे घः प्रत्ययो भवति । सम्मितस्तुल्यः सदृशः । `अयमग्निः सहस्रियः(तै.सं.4-7-13.4) । सहस्रतुल्य इत्यर्थः ।
केचित्तु `समितौ इति पठन्ति । तत्रापि समित्या सम्मित एव लक्षयितव्यः; तत्र छन्दसि प्रयोगदर्शनात्‌ ।।
मतौ च ।। 4-4-136 ।।
मत्वर्थे च सहस्रशब्दात्‌ घः प्रत्ययो भवति । सहस्रमस्य विद्यते सहस्रियः । तपः सहस्राभ्यां विनीनी(5-2-102/1909), अण्‌ च(5-2-103/1910) इत्यस्यापवादः ।।
सोममर्हति यः ।। 4-4-137 ।।
निर्देशादेव समर्थविभक्तिः । सोमशब्दाद्‌ द्वितीयासमर्थाद्‌ `अर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति । सोममर्हन्ति `सोम्या ब्राह्मणाः(तै.सं.2-1-2.9) । यज्ञार्हा इत्यर्थः । यति प्रकृते यग्रहणं स्वरे विशेषः ।।
मये च ।। 4-4-138 ।।
सोमग्रहणम्, यश्चानुवर्त्तते । `मये इति मयडर्थो लक्ष्यते । सोमशब्दान्मयडर्थे यः प्रत्ययो भवति ।
आगतविकारावयवप्रकृता मयडर्थाः - हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः(4-3-81/1461), मयट्‌ च(4-3-82/1462), मयड्‌वैतयोर्भाषायामभक्ष्याच्छादनयोः(4-3-143/1523), तत्प्रकृतवचने मयट्‌(5-4-21/2089) इति । तत्र यथायोगं समर्थविभक्तिः । `सोम्यं मधुपिबन्ति(ऋ.8-24-13) । सोममयमित्यर्थः ।।
मधोः ।। 4-4-139 ।।
यशब्दो निवृत्तः । मधुशब्दान्मयडर्थे यत्प्रत्ययो भवति । मधव्यान्‌ स्तोकान्‌(पै.1-88-2) । मधुमयानित्यर्थः ।
वसोः समूहे च ।। 4-4-140 ।।
वसुशब्दात्समूहे वाच्ये यत्प्रत्ययो भवति चकारान्मयडर्थे च । यथायोगं समर्थविभक्तिः । वसव्यः समूहः । मयडर्थो वा ।

  • अक्षरसमूहे छन्दसः स्वार्थे उपसङ्ख्यानम् * (म.भा.2.335)। `ओश्रावयेति चतुरक्षरम्, अस्तु श्रौषडिति चतुरक्षरम्, यजेति द्व्यक्षरम्, ये यजामह इति पञ्चाक्षरम्, द्व्यक्षरो वषट्‌कारः। एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञो मन्त्रे विहितः(मै.सं.1-4-11) । सप्तदशाक्षराण्येव छन्दस्य इत्यर्थः । छन्दःशब्दादक्षरसमूहे वर्त्तमानात्स्वार्थे यत्प्रत्ययः ।
  • वसुशब्दादपि यद्वक्तव्यः * (म.भा.2.335)। `हस्तौ गृहीतस्य बहुभिर्वसव्यैः(तै.सं.1-2-13.2) । वसुभिरित्यर्थः । `अग्निरीशे वसव्यस्य(ऋ.4-55-8) । वसोरित्यर्थः ।

नक्षत्राद्‌ घः ।। 4-4-141 ।।
नक्षत्रशब्दाद्घः प्रत्ययो भवति स्वार्थे । `समूहे इति नानुवर्त्तते । `नक्षत्रियेभ्यः स्वाहा(वा.सं.12.28) ।।
सर्वदेवात्तातिल्‌ ।। 4-4-142 ।।
सर्वदेवशब्दाभ्यां तातिल्‌ प्रत्ययो भवति, छन्दसि विषये स्वार्थिकः । `सर्वतातिम्(ऋ.10.36) । `देवतातिम्(ऋ.3-19-2) ।।
शिवशमरिष्टस्य करे ।। 4-4-143 ।।
करोतीति करः, प्रत्ययार्थः । तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः । शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः `करे इत्येतस्मिन्नर्थे तातिल्प्रत्ययो भवति । शिवं करोतीति `शिवतातिः(पै.5-36-1) । `शन्तातिः(ऋ.8-18-7) । `अरिष्टतातिः(ऋ.10-60-8) ।।
भावे च ।। 4-4-144 ।।
भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल्प्रत्ययो भवति । शिवस्य भावः `शिवतातिः(पै.5-36-1) । `शन्तातिः(ऋ.8-18-7) । `अरिष्टतातिः(ऋ.10-60-8) । यतः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययोऽधिक्रियते ।।
                इति श्रीजयादित्यविरचितायां काशिकावृत्तौ
                    चतुर्थाध्यायस्य चतुर्थः पादः