सामग्री पर जाएँ

काशिका/अष्टमोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः


               अथ अष्टमाध्याये प्रथमः पादः

सर्वस्य द्वे ।। <8-1-1> ।।
`सर्वस्य इति च `द्वे इति चैतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः पदस्य(8-1-16/401) इत्यतः प्राक्‌ `सर्वस्य द्वे भवतः इत्येवं तद्वेदितव्यम् । वक्ष्यति---नित्यवीप्सयोः(8-1-2/2140) इति, तत्र सर्वस्य स्थाने द्वे भवतः । के द्वे भवतः ? ये शब्दतश्चार्थतश्चोभयथान्तरतमे । एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ भवतः---पचतिपचति । ग्रामोग्रामो रमणीयः ।
यदा तु `द्विः प्रयोगो द्विर्वचनम्, तदा स एव पचतिशब्दो द्विरावर्त्तते, तस्य द्वे आवृत्ती भवतः ।
सर्वस्येति किम् ? विस्पष्टार्थम् । अथ पदस्येत्येव कस्मान्नोच्यते ? नैवं शक्यम्, इह हि न स्यात्‌---प्रपचति, प्रपचतीति । इह द्रोग्धा, द्रोढा---इति घत्वढत्वयोरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्टमपि स्यात्---द्रोग्धा द्रोढा, द्रोढा द्रोग्धेति । तस्माद्वक्तव्यमेतत्---`पूर्वत्रासिद्धीयमद्विर्वचने(पु.प.92) इति ।
`सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम् ।।
</8-1-1>
तस्य परमाम्रेडितम् ।। <8-1-2> ।।
तस्य द्विरुक्तस्य यत्परं शब्दरूपं तदाम्रेडितसज्ञं भवति । चौर चौर3, वृषल वृषल3, दस्यो दस्यो3 घातयिष्यामि त्वा, बन्धयिष्यामि त्वा ।
आम्रेडितप्रदेशाः---आम्रेडितं भर्त्सने(8-2-95/3614) इत्येवमादयः ।।
</8-1-2>
अनुदात्तं च ।। <8-1-3> ।।
अनुदात्तं च तद्भवति यदाम्रेडितसंज्ञम् । भुङ्‌क्ते भुङ्‌क्ते पशून्पशून् ।।
</8-1-3>
नित्यवीप्सयोः ।। <8-1-4> ।।
नित्ये चार्थे वीप्सायां च यद्वर्तते तस्य द्वे भवतः । केषु नित्यता ? तिङ्‌क्षु नित्यता, अव्ययकृत्सु च । कुत एतत् ? आभीक्ष्ण्यमिह नित्यता । आभीक्ष्ण्यं च क्रियाधर्मः । यां क्रियां कर्ता प्राधान्येनानुपरमन्करोति तन्नित्यम् । पचतिपचति । जल्पतिजल्पति । भुक्त्वा भुक्त्वा व्रजति । भोजंभोजं व्रजति । लुनीहिलुनीहीत्येवायं लुनाति । क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनः पुन्यप्रकाशने शक्तिः ।
यङ्‌तु तन्निरपेक्षः प्रकाशयति---पुनः पुनः पचति पापच्यत इति ।
यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनः पुन्यं द्रष्टव्यम्---पापच्यते पापच्यत इति ।
अथ केषु वीप्सा ? सुप्सु वीप्सा । का पुनर्वीप्सा ? व्याप्तिविशेष विषया प्रयोक्तुरिच्छा वीप्सा । का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत्प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा ।
नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत्प्रयोक्तुमिच्छा वीप्सा । ग्रामो ग्रामो रमणीयः । जनपदो जनपदो रमणीयः । पुरुषः पुरुषो निधनमुपैति ।
यत्तिङन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात् प्रकर्षप्रत्यय इष्यते---पचतिपचतितरामिति ।
इह तु आढ्यतरमाढ्यतरमानयेति प्रकर्षयुक्तस्य वीप्सायोग इष्यते ।।
</8-1-4>
परेर्वर्जने ।। <8-1-5> ।।
परीत्येतस्य वर्जनेऽर्थे द्वे भवतः । परिपरि त्रिगर्त्तेभ्यो वृष्टो देवः । परिपरि सौवीरेभ्यः । परिपरि सर्वसेनेभ्यः । वर्जनम्=परिहारः ।
वर्जन इति किम् ? ओदनं परिषिञ्चति ।

  • परेर्वर्जनेऽसमासे वेति वक्तव्यम् * (म.भा.3-367)। परिपरि त्रिगर्त्तेभ्यो वृष्टो देवः, परि त्रिगर्त्तेभ्यः ।

समासे तु तेनैवोक्तत्वाद्वर्जनस्य नैव भवति---परित्रिगर्त्तं वृष्टो देव इति ।
</8-1-5>
प्रसमुपोदः पादपूरणे ।। <8-1-6> ।।
प्र, सम्, उप, उत्‌---इत्येतेषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत्पादः पूर्यते । `प्रप्राचमग्निर्भरतस्य शृण्वे(ऋ.7-8-4) । `संसमिद्युवसे वृषन्(ऋ.10-191-1) । `उपोप मे परामृश(ऋ.1-126-7) । `किं नोदुदुहर्षसे दातवाउ(ऋ.4-21-9) ।
पादपूरण इति किम् ? `प्रदेवं देव्या धिया(ऋ.10-176-2) । सामर्थ्याच्छन्दस्येवैतद्विधानम् । भाषायामनर्थकं स्यात्‌; प्रयोगाभावात् ।।
</8-1-6>
उपर्यध्यधसः सामीप्ये ।। <8-1-7> ।।
उपरि, अधि, अधस्‌---इत्येतेषां द्वे भवतः सामीप्ये विवक्षिते । सामीप्यम्=प्रत्यासत्तिः कालकृता, देशकृता च । उपर्युपरि दुःखम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो नगरम् ।।
सामीप्य इति किम् ? उपरि चन्द्रमाः ।
इह कस्मान्न भवति---उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विविक्षितं न सामीप्यमिति द्विर्वचनं न भवति ।।
</8-1-7>
वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ।। <8-1-8> ।।
एकार्थः पदसमूहः=वाक्यम् । वाक्यादेरामन्त्रितस्य द्वे भवतः असूया---सम्मति---कोप---कुत्सन---भर्त्सनेषु यदि तद्वाक्यं भवति ।
तत्र परगुणानामसहनम्=असूया । पूजा=सम्पतिः । कोपः=क्रोधः । निन्दनम्=कुत्सनम् । अपकारशब्दैर्भयोत्पादनम्=भर्त्सनम् । एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः ।
असूयायां तावत्---माणवक3 माणवक, अभिरूपक3 अभिरूपक, शोभनः खल्वसि ।
कोपे---माणवक3 माणवक, अविनीतक3 अविनीतक, इदानीं ज्ञास्यसि जाल्म ।
कुत्सने---शक्तिके3 शक्तिके, यष्टिके3 यष्टिके, रिक्ता ते शक्तिः ।
भर्त्सने---चौर3 चौर, वृषल3 वृषल घातयिष्यामि त्वा, बन्धयिष्यामि त्वा ।
असूयादिषु स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु(8-2-103/3622)---इति पूर्वपदस्य प्लुतः । भर्त्सने तु आम्रेडितं भर्त्सने(8-2-95/3614) इत्याम्रेडितस्यैव प्लुतः ।
वाक्यादेरिति किम् ? अन्तस्य मध्यस्य च मा भूत्‌---शोभनः खल्वसि माणवक । आमन्त्रितस्येति किम् ? देवदत्त गामभ्याज शुक्लाम् ।।
</8-1-8>
एकं बहुव्रीहिवत् ।। <8-1-9> ।।
एकमित्येतच्छब्दरूपं द्विरुक्तं बहुव्रीहिवद्भवति । बहुव्रीहिवत्त्वे प्रयोजनम्--सुब्लोपपुंवद्भावौ । एकैकमक्षरं पठति । एकैकयाऽऽहुत्या जुहोति ।
सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । तेनातिदेशिके बहुव्रीहौ न भवन्ति । एकैकस्मै---न बहुव्रीहौ(1-1-29/222) इति प्रतिषेधो न भवति; बहुव्रीहिरेव यो बहुव्रीहिरिति विज्ञानात् । नन, सुसु---नञ्सुभ्याम्(6-2-172/3906) इत्यन्तोदात्तत्वं न भवति । ऋक्‌--ऋक्‌, पूः पूः,---ऋक्पुः(5-4-74/940) इति समासान्तो न भवति ।।
</8-1-9>
आबाधे च ।। <8-1-10> ।।
आबाधनमाबाधः=पीडाप्रयोक्तृधर्मः, नाभिधेयधर्मः; तत्र वर्त्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति । गतगतः । नष्टनष्टः । पतितपतितः । गतगता । नष्टनष्टा । पतितपतिता । प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्‌क्ते प्रयोक्ता ।।
</8-1-10>
कर्मधारयवदुत्तरेषु ।। <8-1-11> ।।
इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यं भवतीत्येतद्वेदितव्यम् ।
कर्मधारयत्वे प्रयोजनम्---सुब्लोपपुंवद्भावान्तोदात्तत्वानि । सुब्‌लोपः---पटुपटुः । मृदुमृदुः । पण्डितपण्डितः । पुंवद्भावः---पटुपट्‌वी । मृदुमृद्वी । कालककालिका ।
कोपधाया अपि हि कर्मधारयवद्भावात् पुंवत्कर्मधारय(6-3-42/746) इति पुंवद्भावो भवति ।
अन्तोदात्तत्वम्---पटुपटुः । पटुपट्‌वी । समासान्तोदात्तत्वमनेनैव विधीयत इति परत्वादाम्रेडितानुदात्तत्वं बाध्यते ।
अधिकारेणैव सिद्धे यद्‌ `उत्तरेषु इति वचनं तद्विस्पष्टार्थम् ।।
</8-1-11>
प्रकारे गुणवचनस्य ।। <8-1-12> ।।
प्रकारः---भेदः, सादृश्यं च । तदिह सादृश्यं प्रकारो गृह्यते । प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः । पटुपटुः । मृदुमृदुः । पण्डितपण्डितः । अपरिपूर्णगुण इत्यर्थः । परिपूर्णगुणेन न्यूनगुणस्योपमाने सत्येवं प्रयुज्यते ।
जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते । पटुजातीयः । मृदुजातीयः---इत्यपि हि भवति । तत्कथम् ? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विज्ञायते ।
प्रकार इति किम् ? पटुर्देवदत्तः ।
गुणवचनस्येति किम् ? अग्निर्माणवकः । गौर्वाहीकः । यद्यप्यत्राग्निशब्दः, गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुणविशेषमेव प्रतिपादयितुं प्रवृत्तः; तथापि सर्वदा गुणवचनो न भवतीति न द्विरुच्यते ।

  • आनुपूर्व्ये द्वे भवत इति वक्तव्यम् * (म.भा.3-369)। मूलेमूले स्थूलाः । अग्रेऽग्रे सूक्ष्माः । ज्येष्ठंज्येष्ठं प्रवेशय ।
  • स्वार्थे अवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम् * (म.भा.3-369)। अस्मात् कार्षापणादिह भवद्भ्यां माषंमाषं देहि । स्वार्थ एतद् द्विर्ववनम्, न वीप्सायाम् । अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः; तेन वीप्सा न विद्यते ।

अवधार्यमाण इति किम् ? अस्मात् कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन्वा माषान् देहि ।
अनेकस्मिन्निति किम् ? अस्मात् कार्षाणादिह भवद्भ्यां माषमेकं देहि ।

  • चापले द्वे भवत इति वक्तव्यम् *(म.भा.3-369) । सम्भ्रमेण प्रवृत्तिः=चापलम् । अहिरहिः बुध्यस्व बुध्यस्व । नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि ? यावद्भिः शब्दैः सोऽर्थोऽवगम्यते तावन्तः प्रयोक्तव्याः---अहिरहिरहिः बुध्यस्वबुध्यस्वबुध्यस्व इति ।
  • क्रियासमभिहारे द्वे भवत इति वक्तव्यम् * (म.भा.3-369)। स भवान् लुनीहिलुनीहीत्येवायं लुनाति ।
  • आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम् * (म.भा.3-370)। भुक्त्वाभुक्त्वा व्रजति । भोजंभोजं व्रजति । नित्य(8-1-4/2140) इत्येव सिद्धम् इति तत्रोक्तम् ।
  • डाचि द्वे भवतः इति वक्तव्यम् * (म.बा.3-370)। पटपटाकरोति । पटपटायते ।

अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनमिष्यते । इह न भवति---द्वितीयाकरोति, तृतीयाकरोति । तदर्थं केचिद् `डाचि बहुलम् इति पठन्ति ।

  • पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम् * (म.भा.3-370)। पूर्वंपूर्वं पुष्प्यन्ति । प्रथमं प्रथमं पच्यन्ते । आतिशायिकोऽपि दृश्यते--पूर्वतरं पुष्प्यन्ति । प्रथमतरं पच्यन्त इति ।
  • डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भावे द्वे भवत इति वक्तव्यम् * (म.भा.3-370)। उभाविमावाढ्यौ । कतराकतरा अनयोराढ्यता । सर्व इमे आढ्याः । कतमाकतमा एषामाढ्यता । इतरडतमाभ्यामन्यत्रापि हि दृश्यते---उभाविमावाढ्यौ । कीदृशीकीदृशी अनयोराढ्यता । तथा स्त्रीनिगदाद्भावादन्यत्रापि हि

दृश्यते---उभाविमावाढ्यौ । कतरः कतरोऽनयोर्विभव इति ।

  • कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यम् * (म.भा.3-370)। समासवच्च बहुलम् । यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य । अन्यमन्यमिमे ब्राह्मणा भोजयन्ति । अन्योऽन्यमिमे ब्राह्मणा भोजयन्ति । अन्योऽन्यस्य ब्राह्मणा भोजयन्ति । इतरेतरं भोजयन्ति । इतरेतरस्य भोजयन्ति ।
  • स्त्रीनपुंसकयोरुत्तरपदस्य चाम्भावो वक्तव्यः * (म.भा.3-370)। अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः । अन्योऽन्यं भोजयतः । इतरेतरां भोजयतः । इतरेतरं भोजयतः । अन्योऽन्यामिमे ब्राह्मणकुले भोजयतः । इतरेतरामिमे ब्राह्मणकुले भोजयतः । इतरेतरमिमे ब्राह्मणकुले भोजयतः ।।

</8-1-12>
अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।। <8-1-13> ।।
प्रिय, सुख---इत्येतयोरन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये । कृच्छ्रम्=दुःखम्, तदभावोऽकृच्छ्रम् । प्रियप्रियेण ददाति । सुखसुखेन ददाति । प्रियेण ददाति । सुखेन ददाति। अखिद्यमानो ददातीत्यर्थः ।
अकृच्छ्र इति किम् ? प्रियः पुत्रः । सुखो रथः ।।
</8-1-13>
यथास्वे यथायथम् ।। <8-1-14> ।।
यो य आत्मा यद्यदात्मीयं तत्तद्यथास्वं तस्मिन् यथायथमिति निपात्यते । यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते । ज्ञाताः सर्वे पदार्था यथायथम् । यथास्वभावमित्यर्थः । सर्वेषां तु यथायथं यथात्मीयमित्यर्थः ।।
</8-1-14>
द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।। <8-1-15> ।।
`द्वन्द्वम् इति द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावः । अत्वं चोत्तरपदस्य निपात्यते रहस्य, मर्यादावचन, व्युत्क्रमण, यज्ञपात्र, प्रयोग, अभिव्यक्ति---इत्येतेषु अर्थेषु । तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः । द्वन्द्वं मन्त्रयन्ते । मर्यादावचने---मर्यादा=स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेणापीति मर्यादार्थः । व्युत्क्रमणे---द्वन्द्वं व्युत्क्रान्ताः । व्युत्क्रमणम्=भेदः, पृथगवस्थानम् । द्विवर्गसम्बन्धेन पृथगवस्थिता द्वन्द्वं व्युत्क्रान्ता इत्युच्यन्ते । यज्ञपात्रप्रयोगे---द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः । अभिव्यक्तौ---द्वन्द्वं नारदपर्वतौ । द्वन्द्वं संकर्षणवासुदेवौ । द्वावप्यभिव्यक्तौ साहचर्येणेत्यर्थः ।
अन्यत्रापि द्वन्द्वमित्येतद् दृश्यते, तदर्थं योगविभागः कर्त्तव्यः । द्वन्द्वं युद्धं वर्त्तते । द्वन्द्वानि सहते धीरः । चार्थे द्वन्द्वः(2-2-29/901) इति ।।
</8-1-15>
पदस्य ।। <8-1-16> ।।
`पदस्य इत्ययमधिकारः प्रागपदान्ताधिकारात् । यदित ऊर्ध्वमनुक्रमिष्यामः पदस्येत्येवं तद्वेदितव्यम् । वक्ष्यति---संयोगान्तस्य लोपः(8-2-23/54) पचन् । यजन् । पदस्येति किम् ? पचन्तौ । यजन्तौ ।
वक्ष्यमाणवाक्यापेक्षया `पदस्य इत्यधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्या---क्वचित् स्थानषष्ठी, क्वचिदवयवषष्ठी ।।
</8-1-16>
पदात् ।। <8-1-17> ।।
पदादित्ययमधिकारः प्राक्‌ कुत्सने च सुप्यगोत्रादौ(8-1-69/3976) इत्येतस्माद् । यदित ऊर्ध्वमनुक्रमिष्यामः पदादित्येवं तद्वेदितव्यम् । वक्ष्यति---आमन्त्रिस्य च(8-1-19/3654) । आमिन्त्रितस्य पदात्परस्यानुदात्तादेशो भवतीति । पचसि देवदत्त । पदादिति किम् ? देवदत्त पचसि ।।
</8-1-17>
अनुदात्तं सर्वमपादादौ ।। <8-1-18> ।।
`अनुदात्तम् इति च, `सर्वम् इति च, `अपादादौ इति च---एतत्त्रयमधिकृतं वेदितव्यमापादपरिसमाप्तेः । इत
उत्तरं यद्वक्ष्यामः अनुदात्तं सर्वमपादादौ इत्येवं तद्वेदितव्यम् । वक्ष्यति---आमन्त्रितस्य च(8-1-19/3654) इति । पचसि देवदत्त । अपादादाविति किम् ? `यत्ते नियतं रजसं मृत्यो अनवधृष्ण्यम्(अ.वे.8-2-10) । बहुवचनस्य वस्नसौ(8-1-21/405) । ग्रामो वः स्वम् । जनपदो नः स्वम् ।
अपादादाविति किम् ?
रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता ।
स एव नाथो भगवानस्माकं शत्रुमर्दनः ।।
पादग्रहणेनात्र ऋक्पादः, श्लोकपादश्च गृह्यते ।
सर्वग्रहणं सर्वमनूद्यमानं विधीयमानं चानुदात्तं यथा स्यादिति ।
तेन युष्मदस्मदादेशानामपि वाक्यभेदेनानुदात्तत्वं विधीयते ।
युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः---यत्रापि स्वादिपदं पदसंज्ञं भवति । ग्रामो वां दीयते । जनपदो नौ दीयते ।।
</8-1-18>
आमन्त्रितस्य च ।। <8-1-19> ।।
आमन्त्रितस्य पदस्य पदात्परस्यापादादौ वर्त्तमानस्य सर्वस्यानुदात्तो भवति । पचसि देवदत्त । पचसि यज्ञदत्त । आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम् ।

  • समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः *(म.भा.3-372) । इह मा भूवन्---अयं दण्डो हरानेन, ओदनं पच तव भविष्यति, ओदनं पच मम भविष्यति ।

इह च यथा स्यात्‌---इह देवदत्त माता ते कथयति । नद्यास्तिष्ठति कूले । शालीनां ते ओदनं दास्यामि इति ।
आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात्पराणि न तेषां सामर्थ्यमिति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः; समर्थः पदविधिः(2-1-1/647) इति वचनात् ।।
</8-1-19>
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ।। <8-1-20> ।।
युष्मद् अस्मद्‌---इत्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वाम्, नौ---इत्येतावादेशौ भवतस्तौ चानुदात्तौ । `पदस्य, पदात्,अनुदात्तं सर्वमपदादौ इति सर्वमिह सम्बध्यते । ग्रामो वां स्वम् । जनपदो नौ स्वम् । ग्रामो वां दीयते । जनपदो नौ दीयते । ग्रामो वां पश्यति । जनपदो नौ पश्यति ।
एकवचनबहुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोरेतावादेशौ विज्ञायेते ।
षष्ठीचतुर्थीद्वितीयास्थचोरिति किम् ? ग्रामे युवाभ्यां कृतम् ।
स्थग्रहणं श्रूयमाणविभक्त्यर्थम् । इह मा भूत्‌---इति युष्मत्पुत्र इति ।।
</8-1-20>
बहुवचनस्य वस्नसौ ।। <8-1-21> ।।
बहुवचनान्तयोर्युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वस्, नस्--इत्येतावादेशौ भवतः । ग्रामो वः स्वम् । जनपदो नः स्वम् । ग्रामो वो दीयते । जनपदो नो दीयते । ग्रामो वः पश्यति । जनपदो नः पश्यति ।।
</8-1-21>
तेमयावेकवचनस्य ।। <8-1-22> ।।
युष्मदस्मदोरेकवचनान्तयोः षष्ठीचतुर्थीस्थयोर्यथासंख्यं ते, मे---इत्येतावादेशौ भवतः । ग्रामस्ते स्वम् । ग्रामो मे स्वम् । ग्रामस्ते दीयते । ग्रामो मे दीयते ।
द्वितीयान्तस्यादेशान्तरविधानसामर्थ्यात्षष्ठीचतुर्थ्योरेवायं योगः ।।
</8-1-22>
त्वामौ द्वितीयायाः ।। <8-1-23> ।।
`एकवचनस्य इति वर्तते । द्वितीयाया यदेकवचनं तदन्तयोर्युष्मदस्मदोर्यथासंख्यं त्वा, मा---इत्येतावादेशौ भवतः
। ग्रामस्त्वा पश्यति । ग्रामो मा पश्यति ।।
</8-1-23>
न चवाहाहैवयुक्ते ।। <8-1-24> ।।
च, वा, ह, अह, एव--एभिर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति । पूर्वेण प्रकरणेन प्राप्ताः प्रतिषिद्ध्यन्ते । ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्; युष्माकं च स्वम्, अस्माकं च स्वम् । ग्रामस्तुभ्यं च दीयते, ग्रामो मह्यं च दीयते; युवाभ्यां च दीयते, आवाभ्यां च दीयते; युष्मभ्यं च दीयते, अस्मभ्यं च दीयते । ग्रामस्त्वां च पश्यति, ग्रामो मां च पश्यति; युवां च पश्यति, आवां च पश्यति; युष्मांश्च पश्यति, अस्मांश्च पश्यति ।
वा---ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्; युवयोर्वा स्वम्, आवयोर्वा स्वम्; युष्माकं वा स्वम्, अस्माकं वा स्वम् । ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते; युवाभ्यां वा दीयते, आवाभ्यां वा दीयते; युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते । ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति; युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान्वा पश्यति ।
ह---ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्; युवयोर्ह स्वम्, आवयोर्ह स्वम्; युष्माकं ह स्वम्, अस्माकं ह स्वम् । ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते; युवाभ्यां ह दीयते, आवाभ्यां ह दीयते; युष्मभ्यं ह दीयते, अस्मभ्यं ह दीयते । ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति; युवां ह पश्यति, आवां ह पश्यति; युष्मान्ह पश्यति, अस्मान्ह पश्यति ।
अह---ग्रामस्तवाह स्वम्, ग्रामो ममाह स्वम्; युवयोरह स्वम्, आवयोरह स्वम्; युष्माकमह स्वम्, अस्माकमह स्वम् । ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते; युवाभ्यामह दीयते, आवाभ्यामह दीयते; युष्मभ्यमह दीयते, अस्मभ्यमह दीयते । ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति ।
एव---ग्रामस्तवैव स्वम्, ग्रामो ममैव स्वम्; युवयोरेव स्वम्, आवयोरेव स्वम्; युष्माकमेव स्वम्, अस्माकमेव स्वम् । ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते; युवाभ्यामेव दीयते, आवाभ्यामेव दीयते; युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते । ग्रामस्त्वामेव पश्यति, ग्रामो मामेव पश्यति; युवामेव पश्यति, आवामेव पश्यति; युष्मानेव पश्यति, अस्मानेव पश्यति ।
युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् । युक्तयुक्ते प्रतिषेधो न भवति । ग्रामश्च ते स्वम्, नगरं च मे स्वम् ।।
</8-1-24>
पश्यार्थैश्चानालोचने ।। <8-1-25> ।।
पश्यार्थाः=दर्शनार्थाः, दर्शनम्=ज्ञानम्, आलोचनम्=चक्षुर्विज्ञानम् । तैः पश्यार्थैरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोर्वान्नावादयो न भवन्ति । ग्रामस्तव स्वं समीक्ष्यागतः, ग्रामो मम स्वं समीक्ष्यागतः, ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः, ग्रामो मह्यं दीयमानं समीक्ष्यागतः, ग्रामस्त्वां समीक्ष्यागतः, ग्रामो मां समीक्ष्यागतः ।
अनालोचन इति किम् ? ग्रामस्त्वा पश्यति, ग्रामो मा पश्यति ।
पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते । तथा चैवोदाहृतम् ।।
</8-1-25>
सपूर्वायाः प्रथमाया विभाषा ।। <8-1-26> ।।
विद्यमानपूर्वात् प्रथमान्तात् पदादुत्तरयोर्युष्मदस्मदोर्विभाषा वान्नावादयो न भवन्ति । ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम्, ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम् । ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते; ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते । ग्रामे छात्त्रास्त्वा पश्यन्ति, ग्रामे छात्त्रास्त्वां पश्यन्ति; ग्रामे छात्त्रा मा पश्यन्ति, ग्रामे छात्रा मां पश्यन्ति ।
सपूर्वाया इति किम् ? कम्बलस्ते स्वम्, कम्बलो मे स्वम् । प्रथमाया इति किम् ? कम्बलो ग्रामे ते स्वम्, कम्बलो ग्रामे मे स्वम् ।

  • युष्मदस्मदोर्विभाषा अनन्वादेश इति वक्तव्यम् *(म.भा.3-373) । इह मा भूत्‌---अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम् ।

अपर आह---* सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः * । कम्बलस्ते स्वम्, कम्बलस्तव स्वम्; कम्बलो मे स्वम्, कम्बलो मम स्वम् । अनन्वादेश इति किम् ? अथो कम्बलस्ते स्वम्, अथो कम्बलो मे स्वम् ।
न तर्हीदानीमिदं वक्तव्यम्---`सपूर्वायाः प्रथमायाः विभाषा इति ? वक्तव्यं च । किं प्रयोजनम् ? अन्वादेशार्थम्, अन्वादेशे हि विभाषा यथा स्यात् । अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्तव स्वम्; अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम् ।।
</8-1-26>
तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ।। <8-1-27> ।।
तिङन्तात्पदात्पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति । पचति गोत्रम् । जल्पति गोत्रम् । आभीक्ष्ण्ये---पचतिपचति गोत्रम् । जल्पतिजल्पति गोत्रम् ।
ब्रुव---पचति ब्रुवम् । जल्पति ब्रुवम् । जल्पतिजल्पति ब्रुवम् । पचतिपचति ब्रुवम् ।
`ब्रुवः---इति ब्रुवः कन्निपातनाद्, वच्यादेशाभावश्च ।
गोत्र । ब्रुव । प्रवचन । प्रहसन । प्रकथन । प्रत्ययन । प्रचक्षण । प्राय । विचक्षण । अवचक्षण । स्वाध्याय । भूयिष्ठ । * वा नाम * (ग.सू.178)।
नामेत्येतद्वा निहन्यते । पक्षे आद्युदात्तमेव भवति---पचति नाम, पठति नाम ।
तिङ इति किम् ? कुत्सितं गोत्रम् । गोत्रादीनीति किम् ? पचति पापम् । कुत्सनाभीक्ष्ण्ययोरिति किम् ? खनति गोत्रं समेत्य कूपम् ।
कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम् । तेनान्यत्रापि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति ।।
</8-1-27>
तिङ्‌ङतिङः ।। <8-1-28> ।।
तिङन्तं पदमतिङन्तात् पदात्‌ परमनुदात्तं भवति । देवदत्तः पचति । यज्ञदत्तः पचति ।
तिङिति किम् ? नीलमुत्पलम् । शुक्लं वस्त्रम् ।
अतिङ इति किम् ? भवति पचति ।।
</8-1-28>
न लुट्‌ ।। <8-1-29> ।।
पूर्वेणातिप्रसक्ते प्रतिषेधः आरभ्यते । लुडन्तं तिङन्तं नानुदात्तं भवति । श्वः कर्ता । श्वः कर्तारौ । मासेन कर्तारः ।
तासेः परस्य लसार्वधातुकस्यानुदात्तत्वे सति सर्वतासिरेवोदात्तः । यत्र तु टिलोपः, तत्रोदात्तनिवृत्तिस्वरो भवति ।
</8-1-29>
निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ।। <8-1-30> ।।
`न इति वर्तते । यत्, यदि हन्त, कुवित्, नेत्, चेत्, चण्, कच्चित्, यत्र---इत्येतैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति । यत्करोति, यत्पचति । यदि करोति, यदि पचति । हन्त करोति, हन्त पचति ।
कुवित्---कुवित्करोति, कुवित्पचति ।
नेत्---`नेज्जिह्मायन्तो नरकं पताम(ऋ.खि.3-22) ।
चेत्---स चेद् भुङ्‌क्ते । स चेदधीते ।
चण्---णिद्विशिष्टोऽयं चेदर्थे वर्तते । अयं च मरिष्यति । अयं चेन्मरिष्यतीत्यर्थः । समुच्चयादिषु तु यश्चशब्दस्तेन योगेन विधिरयं न भवति ।
कच्चित्-- कच्चिद् भुङ्‌क्ते । कच्चिदधीते । यत्र--- यत्र भुङ्‌क्ते । यत्राधीते ।
निपातैरिति किम् ? यत्कूजति शकटम् । गच्छत्कूजति शकटमित्यर्थः । इणः शतरि रूपमेतत् ।
युक्तमिति किम् ? `यत्र क्व च ते मनो दक्षं दधस उत्तरम्(ऋ.6-16-17) ।।
</8-1-30>
नह प्रत्यारम्भे ।। <8-1-31> ।।
`नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति । चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियते । नह भोक्ष्यसे । नहाध्येष्यसे ।
प्रत्यारम्भ इति किम् ? नह वै तस्मिंश्च लोके दक्षिणामिच्छन्ति ।।
</8-1-31>
सत्यं प्रश्ने ।। <8-1-32> ।।
`सत्यम् इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति प्रश्ने । सत्यं भोक्ष्यसे । सत्यमध्येष्यसे ।
प्रश्न इति किम् ? `सत्यं वक्ष्यामि नानृतम्(अ.वे.4-9-7) ।।
</8-1-32>
अङ्गाप्रातिलोम्ये ।। <8-1-33> ।।
`अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति । अङ्ग कुरु । अङ्ग पच । अङ्ग पठ ।
अप्रातिलोम्य इति किम् ? अङ्ग कूज वृषल इदानीं ज्ञास्यसि जाल्म । कूजनमनभिमतमसौ कुर्वन्प्रतिलोमो भवति ।।
</8-1-33>
हि च ।। <8-1-34> ।।
`हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति । स हि कुरु । स हि पच । स हि पठ ।
`अप्रातिलोम्ये इत्येव---स हि कूज वृषल इदानीं ज्ञास्यति जाल्म ।।
</8-1-34>
छन्दस्यनेकमपि साकाङ्‌क्षम् ।। <8-1-35> ।।
`हि च इति वर्तते । छन्दसि विषये हियुक्तं तिङन्तं साकाङ्‌क्षमनेकमपि नानुदात्तं भवति, एकमपि । कदाचिदेकम्, कदाचिदनेकमित्यर्थः । तत्रानेकं तावत्---अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति । तिङन्तद्वयमप्येतन्न निहन्यते (म.भा.3-375)।
एकं खल्वपि---अग्निर्हि अग्ने उदजयत् । तिङन्तद्वयमपि हिशब्दयुक्तमेतत् । तत्रैकमुदजयदित्यादिरुदात्तम्, अपरमनुदात्तम् । अजा ह्यग्नेरजनिष्ट गर्भम् । सा वा अपश्यज्जनितारमग्रे । अजनिष्टेत्याद्युदात्तम्, अपश्यदित्यनुदात्तम् ।।
</8-1-35>
यावद्यथाभ्याम् ।। <8-1-36> ।।
`यावत्, `यथा---इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति । यावद् भुङ्‌क्ते । यथा भुङ्‌क्ते । यावदधीते । यथाधीते । देवदत्तः पचति यावत् । देवदत्तः पचति यथा । परेणापि योगे भवति प्रतिषेधः ।।
</8-1-36>
पूजायां नानन्तरम् ।। <8-1-37> ।।
`यावत्, `यथा---इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायां विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव । यावत्पचति शोभनम् । यथा पचति शोभनम् । यावत् करोति चारु । यथा करोति चारु ।
पूजायामिति किम् ? यावद् भुङ्‌क्ते । यथा भुङ्‌क्ते । अनन्तरमिति किम् ? यावद्देवदत्तः पचति शोभनम् । यथा देवदत्तः करोति चारु । पूर्वेणात्र निघातः प्रतिषिध्यते ।।
</8-1-37>
उपसर्गव्यपेतं च ।। <8-1-38> ।।
यावद्यथाभ्यां युक्तं उपसर्गव्यपतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव भवति ।
पूर्वमनन्तरमित्युक्तम्, उपसर्गव्यवधानार्थोऽयमारम्भः । यावत्प्रपचति शोभनम् । यथा प्रपचति शोभनम् । यावत्प्रकरोति चारु । यथा प्रकरोति चारु ।
अनन्तरमित्येव---यावद्देवदत्तः प्रपचति । यथा विष्णुमित्रः प्रकरोति चारु ।
</8-1-38>
तुपश्यपश्यताहैः पूजायाम् ।। <8-1-39> ।।
तु, पश्य, पश्यत, अह---इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । तु---माणवकस्तु भुङ्‌क्ते शोभनम् । पश्य---पश्य माणवको भुङ्‌क्ते शोभनम् । पश्यत---पश्यत माणवको भुङ्‌क्ते शोभनम् । अह---अह माणवको भुङ्‌क्ते शोभनम् ।
पूजायामिति किम् ? पश्य मृगो धावति । `पूजायाम् इति वर्तमाने पुनः `पूजायाम् इत्युच्यते निघातप्रतिषेधार्थम् । तद्धि प्रतिषेधस्य प्रतिषेधेन सम्बद्धमिति ।।
</8-1-39>
अहो च ।। <8-1-40> ।।
`अहो---इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । अहो देवदत्तः पचति शोभनम् । अहो विष्णुमित्रः करोति चारु ।
पृथग्योगकरणमुत्तरार्थम् ।।
</8-1-40>
शेषे विभाषा ।। <8-1-41> ।।
`अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति । कश्च शेषः ? यदन्यत्पूजायाः । कटमहो करिष्यसि । मम गेहमेष्यसि । असूयावचनमेतत् ।
`पूजायाम्----इत्यस्य पूर्वत्र चानुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम् ।।
</8-1-41>
पुरा च परीप्सायाम् ।। <8-1-42> ।।
`पुरा---इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति । परीप्सा=त्वरा । अधीष्व माणवक , पुरा विद्योतते विद्युत् । पुरा स्तनयति स्तनयित्नुः । पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति ।
परीप्सायामिति किम् ? नडेन स्म पुराधीयते । अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति । ऊर्णया स्म पुराधीयते ।।
</8-1-42>
नन्वित्यनुज्ञैषणायाम् ।। <8-1-43> ।।
`ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति अनुज्ञैषणायां विषये । अनुज्ञाया एषणा=प्रार्थना, अनुज्ञैषणा । अनुज्ञाप्रार्थनेत्यर्थः । ननु करोमि भोः । ननु गच्छामि भोः । अनुजानीष्व माम्, करणं प्रतीत्यर्थः ।
अनुज्ञैषणायामिति किम् ? अकार्षीः कटं देवदत्त । ननु करोमि भोः । पृष्टप्रतिवचनमेतत्, नानुज्ञैषणा ।।
</8-1-43>
किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ।। <8-1-44> ।।
`किम्---इत्येतत्क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति । किं देवदत्तः पचति, आहोस्विद्‌ भुङ्‌क्ते । किं देवदत्तः शेते, आहोस्विदधीते ।
अत्र केचिदाहुः---पूर्वं किंयुक्तमिति तन्न निहन्यते । उत्तरं तु न किंयुक्तमिति तन्निहन्यत एवेति ।
अपरे त्वाहुः---यद्यप्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इति, उभयत्र प्रतिषेधेन भवितव्यमिति ।
क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत्‌---किं देवदत्त ओदनं पचति आहोस्विच्छाकमिति । प्रश्न इति किम् ? किमधीते देवदत्तः । क्षेपे किंशब्दोऽयम्, न प्रश्ने । अनुपसर्गमिति किम् ? किं देवदत्तः प्रपचति,
आहोस्वित्प्रकरोति । अप्रतिषिद्धमिति किम् ? किं देवदत्तो न पठति, आहोस्विन्न करोति ।।
</8-1-44>
लोपे विभाषा ।। <8-1-45> ।।
किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति ।
क्व चास्य लोपः ? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः । देवदत्तः पचति आहोस्वित्पठति । विनैव किमा प्रश्नोऽवगम्यते ।
प्राप्तविभाषेयं किमर्थेन योगात् । पूर्ववत् प्रत्युदाहरणानि ।।
</8-1-45>
एहिमन्ये प्रहासे लृट्‌ ।। <8-1-46> ।।
`एहिमन्ये---इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे । प्रकृष्टो हासः प्रहासः=क्रीडा । एहि मन्ये ओदनं भोक्ष्यसे न हि भोक्ष्यसे भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्तेन पिता ।
प्रहास इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति । सुष्ठु मन्यसे । साधु मन्यसे ।
गत्यर्थलोटा लृट्‌(8-1-51/3958) इत्येव सिद्धे सत्यारम्भो नियमार्थः--एहिमन्येयुक्ते प्रहास एव यथा स्यात्, अन्यत्र मा भूदिति---एहि मन्यसे ओदनं भोक्ष्य इति ।
`एहिमन्ये इत्युत्तमोपादानमतन्त्रम् । प्रहास एव हि मन्यतेरुत्तमो विहितः, ततोऽन्यत्र मध्यम एव भवति । तत्रानेन नियमेन निवृत्तिः क्रियते---एहि मन्यसे ओदनं भोक्ष्य इति ।।
</8-1-46>
जात्वपूर्वम् ।। <8-1-47> ।।
`जातु इत्येतदविद्यमानपूर्वं तेन युक्तं तिङन्तं नानुदात्तं भवति । जातु भोक्ष्यसे । जातु करिष्यामि ।
अपूर्वमिति किम् ? कटं जातु करिष्यति ।।
</8-1-47>
किंवृत्तं च चिदुत्तरम् ।। <8-1-48> ।।
किमो वृत्तं किंवृत्तम् । किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ । तत्किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत्तेन युक्तं नानुदात्तं भवति । कश्चिद्भोजयति । कश्चिदधीते । केनचित्करोति । कस्मैचिद्ददाति । कतरश्चित्करोति । कतमश्चिद् भुङ्‌क्ते ।
चिदुत्तरमिति किम् ? को भुङ्‌क्ते । अपूर्वमित्येव---देवदत्तः किञ्चित्पठति ।।
</8-1-48>
आहोउताहो चानन्तरम् ।। <8-1-49> ।।
निघातप्रतिषेधोऽनुवर्तते । `अपूर्वम् इति च । आहो, उताहो---इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति । आहो भुङ्‌क्ते । उताहो भुङ्‌क्ते । आहो पठति । उताहो पठति ।
अनन्तरमिति किम् ? शेषे विभाषां वक्ष्यति ।
`अपूर्वम् इत्येव---देवदत्त आहो भुङ्‌क्ते । देवदत्त उताहो भुङ्‌क्ते ।।
</8-1-49>
शेषे विभाषा ।। <8-1-50> ।।
`आहो, `उताहो---इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति । कश्च शेषः ? यदन्यदनन्तरात् । आहो देवदत्तः पचति, उताहो दवदत्तः पचति । आहो देवदत्तः पठति। उताहो देवदत्तः पठति ।।
</8-1-50>
गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ।। <8-1-51> ।।
गमिना समानार्था गत्यर्थाः, गत्यर्थानां लोट् गत्यर्थलोट्, तेन । गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत्कारकं सर्वमन्यद्भवति । यत्रैव कारके कर्तरि कर्मणि वा लोट्‌, तत्रैव यदि लृडपि भवतीत्यर्थः ।
कर्तृकर्मणी एवात्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम् । आगच्छ देवदत्त ग्रामं द्रक्ष्यस्येनम् । आगच्छ देवदत्त ग्राममोदनं भोक्ष्यसे । उह्यन्तां देवदत्तेन शालयः, तेनैव भोक्ष्यन्ते । उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते ।
गत्यर्थग्रहणं किम् ? पच देवदत्तौदनं भोक्ष्यस एनम् । लोटेति किम् ? आगच्छेर्देवदत्त ग्रामं द्रक्ष्यस्येनम् । लृडिति किम् ? आगच्छ देवदत्त ग्रामं पश्यस्येनम् । न चेत्कारकं सर्वान्यदिति किम् ? आगच्छ देवदत्त ग्रामं पिता ते ओदनं भोक्ष्यते । उह्यन्तां देवदत्तेन शालयः सक्तवस्तेन पास्यन्ते ।
सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामं त्वं चाहं च द्रक्ष्याव एनम्‌---इत्यत्रापि निघातप्रतिषेधो यथा स्यात् । लृडन्तवाच्ये हि सर्वस्मिन् कारकेऽन्यस्मिन् भवितव्यम् । इह तु यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते इति ।
</8-1-51>
लोट्‌ च ।। <8-1-52> ।।
लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । लोडन्तयोरेकं कारकं यदि भवतीत्यर्थः । आगच्छ देवदत्त ग्रामं पश्य । आव्रज विष्णुमित्र ग्रामं शाधि । आगम्यतां देवदत्तेन ग्रामो दृश्यतां यज्ञदत्तेन ।
`गत्यर्थानाम् इत्येव---पच देवदत्तौदनं भुङ्‌क्ष्व एनम् ।
`लोटा इत्येव---आगच्छेर्देवदत्त ग्रामं पश्यैनम् । `न चेत्कारकं सर्वान्यत् इत्येव---आगच्छ देवदत्त ग्रामं पश्यत्वेनं यज्ञदत्तः ।
सर्वग्रहणानुवृत्तेस्त्विह भवत्येव---आगच्छ देवदत्त ग्रामं त्वं चाहं च पश्याव । पृथग्योगकरणमुत्तरार्थम् ।।
</8-1-52>
विभाषितं सोपसर्गमनुत्तमम् ।। <8-1-53> ।।
सर्वं पूर्वमनुवर्तते । प्राप्तविभाषेयम् । लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोटा युक्तं तिङन्तं विभाषितं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । आगच्छ देवदत्त ग्रामं प्रविश । आगच्छ देवदत्त ग्रामं प्रशाधि ।
सोपसर्गमिति किम् ? आगच्छ देवदत्त ग्रामं पश्य । अनुत्तममिति किम् ? आगच्छानि देवदत्त ग्रामं प्रविशानि ।।
</8-1-53>
हन्त च ।। <8-1-54> ।।
पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा । `हन्त---इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तं भवति । हन्त प्रविश । हन्त प्रशाधि ।
सोपसर्गमित्येव---हन्त कुरु । निपातैर्यद्यदिहन्त(8-1-30/3937) इति नित्यमत्र निघातप्रतिषेधो भवति ।
अनुत्तममित्येव---हन्त प्रभुञ्जावहै । हन्त प्रभुञ्जामहै ।।
</8-1-54>
आम एकान्तरमामन्त्रितमनन्तिके ।। <8-1-55> ।।
आम उत्तरमेकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति । आम् पचसि देवदत्त3 । आम् भो देवदत्त3 ।
`भोः इत्यामन्त्रितान्तमपि नामन्त्रिते समानाधिकरणे सामान्यवचनम्(8-1-73/413) इति नाविद्यमानवद्भवति ।
आम इति किम् ? शाकं पचसि देवदत्त 3 । एकान्तरमिति किम् ? आम् प्रपचसि देवदत्त3 । आमन्त्रितमिति किम् ? आम् पचति देवदत्तः । अनन्तिक इति किम् ? आम् देवदत्तः ।
आम एकान्तरमामन्त्रितं यत्तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते (म.भा.3-377)। तदुभयमनेन क्रियत इति केचिदाहुः । प्लुतोदात्तः पुनरसिद्धत्वान्न प्रतिषिध्यते ।
अपरेषां दर्शनम्---`अनन्तिक इत्यनेन यन्न दूरं न सन्निकृष्टं तत् परिगृह्यते । तेनास्मिन्नेकश्रुतेः प्राप्तिरेव नास्ति । प्लुतोदात्तोऽपि नोदाहर्तव्यः इति ।।
</8-1-55>
यद्धितुपरं छन्दसि ।। <8-1-56> ।।
`आमन्त्रितम्---इत्येतदस्वरितत्वान्नानुवर्तते । `तिङ्‌ इति वर्तत एव । यत्परं हिपरं तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति ।
यत्परं तावत्---`गवां गोत्रमुदसृजोऽयमङ्गिरः(ऋ.2-23-18) । हिपरम्---`इन्दवो वामुशन्ति हि(तै.सं.1-4-4-1) । तुपरम्--आख्यास्यामि ते ।
निपातैर्यद्यदिहन्त(8-1-30/3937) इति हि च(8-1-34/3941) इति, तुपश्यपश्यताहै(8-1-39/3946) इति च निघातप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्---एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैरिति । इह न भवति---जाये स्वो रोहावैहि । एहीत्यनेन गत्यर्थलोटा युक्तस्य `रोहाव इत्येतस्य लोडन्तस्य निघातो भवत्येव ।।
</8-1-56>
चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ।। <8-1-57> ।।
चन, चिद्‌, इव, गोत्रादि, तद्धित, आम्रेडित---इत्येतेषु परतः अगतेरुत्तरं तिङन्तं नानुदात्तं भवति । चन---देवदत्तः पचति चन । चित्---देवदत्तः पचति चित् । इव--देवदत्तः पचतीव । गोत्रादि---देवदत्तः पचति गोत्रम् । देवदत्तः पचति ब्रुवम् । देवदत्तः पचति प्रवचनम् । इहापि गोत्रादयः कुत्सनाभीक्ष्ण्योरेव गृह्यन्ते । तद्धित---देवदत्तः पचतिकल्पम् । देवदत्तः पचतिरूपम् । अनुदात्तस्तद्धित इहोदाहरणम्, अन्यत्र तद्धितस्वरेण तिङ्‌स्वरो बाध्यते---पचतिदेश्यः । आम्रेडित---देवदत्तः पचति पचति ।
अगतेरिति किम् ? देवदत्तः प्रपचति चन ।
अत्रागतिग्रहणे, सगतिरपि तिङ्‌(8-1-68/3975) इत्यत्र च उपसर्गग्रहणं द्रष्टव्यम् । इह मा भूत्‌---शुक्लीकरोति चन । यत्काष्ठं शुक्लीकरोति । यत्काष्ठं कृष्णीकरोति ।।
</8-1-57>
चादिषु च ।। <8-1-58> ।।
चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति । चादयः नचवाहाहैवयुक्ते(8-1-24/408) इत्यत्र ये निर्दिष्टाः, त इह परिगृह्यन्ते । चशब्दे तावत्‌---देवदत्तः पचति च खादति च । वा---देवदत्तः पचति वा खादति वा । ह---देवदत्तः पचति ह खादति ह । अह---देवदत्तः पचत्यह खादत्यह । एव---देवदत्तः पचत्येव खादत्येव ।
`अगतेः इत्येव---देवदत्तः प्रपचति च प्रखादति च । प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमेति निघातः प्रतिषिद्ध्यते एव । परं तु निहन्यते ।।
</8-1-58>
चवायोगे प्रथमा ।। <8-1-59> ।।
`अगतेः इति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते । च, वा---इत्येताभ्यां योगे प्रथमा तिङ्‌विभक्तिर्नानुदात्ता भवति । गर्दभाँश्च कालयति, वीणां च वादयति । गर्दभान्वा कालयति, वीणां वा वादयति ।
योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यादिति ।
प्रथमाग्रहणम्---द्वितीयादेस्तिङन्तस्य मा भूदिति ।
चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स चानेकस्य धर्म इति ।।
</8-1-59>
हेति क्षियायाम् ।। <8-1-60> ।।
`ह इत्यनेन युक्ता प्रथमा तिङ्‌विभक्तिर्नानुदात्ता भवति क्षियायां गम्यमानायाम् । क्षिया=धर्मव्यतिक्रमः आचारभेदः । स्वयं ह रथेन याति3 उपाध्यायं पदातिं गमयति । स्वयं हौदनं भुङ्‌क्ते3 उपाध्यायं सक्तून्पाययति । प्रथमस्य तिङन्तस्यात्र निघातः प्रतिषिध्यते । क्षियाशीः प्रैषेषु तिङाकाङ्‌क्षम्(8-2-104/3623) इति च प्लुतो भवति ।।
</8-1-60>
अहेति विनियोगे च ।। <8-1-61> ।।
`अह इत्यनेन युक्ता प्रथमा तिङ्‌विभक्तिर्नानुदात्ता भवति विनियोगे गम्यमाने । चशब्दात् क्षियायां च । नानाप्रयोजनो नियोगः=विनियोगः । त्वमह ग्रामं गच्छ । त्वमह अरण्यं गच्छ । क्षियायाम्---स्वयमह रथेन याति3 उपाध्यायं पदातिं गमयति । स्वयमहौदनं भुङ्‌क्ते3 उपाध्यायं सक्तून्पाययति । पूर्ववन्निघातप्रतिषेधः, प्लुतश्च ।।
</8-1-61>
चाहलोप एवेत्यवधारणम् ।। <8-1-62> ।।
चलोपे अहलोपे प्रथमा तिङ्‌विभक्तिर्नानुदात्ता भवति । एवेत्येतच्चेदवधारणार्थं प्रयुज्यते, क्व चास्य लोपः ? यत्रार्थो गम्यते, न च प्रयुज्यते, तत्र लोपः । तत्र चशब्दः समुच्चयार्थः, अहशब्दः केवलार्थ इति---समानकर्तृके चलोपः, नानाकर्तृके अहलोपः ।
चलोपे---देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु । ग्रामं चारण्यं च गच्छत्वित्यर्थः । अहलोपे---देवदत्त एव ग्रामं गच्छतु यज्ञदत्त एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलमित्यर्थः ।
अवधारणमिति किम् ? देवदत्तः क्वेव भोक्ष्यते । अनवक्लृप्तावयमेवशब्दः । न क्वचिद्भोक्ष्यत इत्यर्थः । `एवे चानियोगे(वा.686) इति पररूपम् ।।
</8-1-62>
चादिलोपे विभाषा ।। <8-1-63> ।।
चादयः नचवाहाहैवयुक्ते(8-1-24/408) इति सूत्रनिर्दिष्टा गृह्यन्ते, तेषां लोपे प्रथमा तिङ्‌विभक्तिर्नानुदात्ता भवति विभाषा । चलोपे---शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । भवन्तीत्येतद्विकल्पेन न निहन्यते । वालोपे---व्रीहिभिर्यजेत । यवैर्यजेत ।
एवं शेषेष्वपि यथादर्शनमुदाहार्यम् ।।
</8-1-63>
वैवावेति च च्छन्दसि ।। <8-1-64> ।।
`वै, `वाव---इत्येताभ्यां युक्ता प्रथमा तिङ्‌विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये । `अहर्वै देवानामासीद् रात्रिरसुराणाम्(तै.सं.1-5-9-2) । `बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम्(तै.सं.6-4-10-1) । वाव---अयं वाव हस्त आसीत् । नेतर आसीत् ।
</8-1-64>
एकान्याभ्यां समर्थाभ्याम् ।। <8-1-65> ।।
`एक, `अन्य---इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्‌विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये । प्रजामेका जिन्वति। ऊर्जमेका रक्षति(अ.वे.8-9-13) । जिन्वतीत्येतत्पक्षे न निहन्यते । तयोरन्यः पिप्पलं स्वाद्वत्ति । अनश्नन्नन्यो अभिचाकशीति (ऋ.1-164-20)। अत्तीत्येतत्पक्षे न निहन्यते ।
समर्थाभ्यामिति किम् ? एको देवानुपातिष्ठत् । एक इति संख्यापदमेतद् अन्यार्थे न वर्त्तते । एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्; व्यभिचारित्वात्तस्य ।।
</8-1-65>
यद्वृत्तान्नित्यम् ।। <8-1-66> ।।
`प्रथमा, `छन्दसि इति निवृत्तम् । निघातप्रतिषेध इत्येव । यदो वृत्तं यद्‌वृत्तम्, यत्र पदे यच्छब्दो वर्तते तत्सर्वं यद्‌वृत्तम् । इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् । डतरडतमौ च प्रत्ययौ इत्येत्तन्नाश्रीयते । तस्माद्यद्‌वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम् । यो भुङ्‌क्ते । यं भोजयति । येन भुङ्‌क्ते । यस्मै ददाति । `यत्कामास्ते जुहुमः(ऋ.10-121-10) । `यद्रियङ्‌ वायुर्वाति(तै.5-5-1-1) । यद्वायुः पवते ।
पञ्चमीनिर्देशेऽप्यत्र व्यवहिते कार्यमिष्यते ।

  • यथाकाम्ये वेति वक्तव्यम् * (म.भा.3-379)। यत्र क्वचन यजन्ते ।।

</8-1-66>
पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ।। <8-1-67> ।।
पूजनेभ्यः काष्ठादिभ्य उत्तरपदं पूजितमनुदात्तं भवति । काष्ठ---काष्ठाध्यायकः । काष्ठाभिरूपकः । दारुण---दारुणाध्यापकः । दारुणाभिरूपकः । अमातापुत्र---अमातापुत्राध्यापकः । अयुत---अयुताभिरूपकः । अयुताध्यापकः । अद्भुत---अद्भुताध्यापकः । अनुक्त---अनुक्ताध्यापकः । भृश---भृशाध्यापकः । घोर---घोराध्यापकः । परम---परमाध्यापकः । सु---स्वध्यापकः । अति--अत्यध्यापकः ।

  • मलोपश्च * (म.भा.3-379)। इति वार्त्तिककारमतम् । मयूरव्यंसकादित्वात् समासः, समासे चैतदनुदात्तत्वम् ।

समासान्तोदात्तत्वापवाद इष्यते । दारुणमध्यायक इत्येवमादिषु न भवति । `मलोपश्च इत्यनेनाप्ययमेव विषय आख्यायते । यत्र विभक्तेरभावान्मकारो न श्रूयते तत्रानुदात्तत्वमिति ।
असमासे हि मलोपो नैवेष्यते । दारुणमधीते दारुणमध्यायक इति ।
पूजनादित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थम् । एतदेव ज्ञापकम्---इह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते इति । तथा च यद्‌वृत्तान्नित्यम्(8-1-66/3973) इत्यत्रोदाहृतम् ।
`अनुदात्तम् इति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम् ।।
</8-1-67>
सगतिरपि तिङ्‌ ।। <8-1-68> ।।
सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्य परं पूजितं तिङन्तमनुदात्तं भवति । यत्काष्ठं पचति । यत्काष्ठं प्रपचति । यद्दारुणं पचति । यद्दारुणं प्रपचति ।
तिङ्‌ङतिङः(8-1-28/3935) इति निघातस्य निपातैर्यद्यदिहन्त(8-1-30-/3937) इति प्रतिषेधे प्राप्ते पुनर्विधानम् । सगतिग्रहणाच्च गतिरपि निहन्यते ।
गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते । इह न भवति---यत्काष्ठं शुक्लीकरोति । यत्काष्ठं कृष्णीकरोति ।।
</8-1-68>
कुत्सने च सुप्यगोत्रादौ ।। <8-1-69> ।।
`पदात् इति निवृत्तम् । `सगतिरपि तिङ्‌ इति वर्तते । कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङ्‌ अगतिरप्यनुदात्तो भवति । पचति पूति, प्रपचति पूति । पचति मिथ्या, प्रपचति मिथ्या ।
कुत्सने इति किम् ? पचति शोभनम् । सुपीति किम् ? पचति क्लिश्नाति । अगोत्रादाविति किम् ? पचति गोत्रम् । पचति ब्रुवम् । पचति प्रवचनम् ।

  • क्रियाकुत्सन इति वक्तव्यम् * (म.भा.3-380)। कर्तुः कुत्सने मा भूत्‌---पचति पूतिर्देवदत्तः । प्रपचति पूतिः ।
  • पूतिश्चानुबन्धो भवतीति वक्तव्यम् * (म.भा.3-380)। तेनायं चकारानुबन्धकत्वादन्तोदात्तो भवति ।
  • विभाषितं चापि बह्वर्थमनुदात्तं भवतीति वक्तव्यम् * (म.भा.3-380)। पचन्ति पूति । प्रपचन्ति पूति ।

`सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति चोक्तार्थम् ।
पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम् ।।(म.भा.3-380)
</8-1-69>
गतिर्गतौ ।। <8-1-70> ।।
गतिर्गतौ परतोऽनुदात्तो भवति । अभ्युद्धरति । समुदानयति । अभिसम्पर्याहरति ।
गतिरिति किम् ? देवदत्तः प्रपचति । गताविति किम् ? `आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः(ऋ.3-45-1) । याहीत्येतत्प्रति क्रियायोगादाङित्येष गतिः । तस्य गतावित्येतस्मिन्नसति गतिरित्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात् ।।
</8-1-70>
तिङि चोदात्तवति ।। <8-1-71> ।।
`गतिः इति वर्त्तते । तिङन्तेऽनुदात्तवति परतो गतिरनुदात्तो भवति । यत्प्रपचति । यत्करोति ।
तिङ्‌ग्रहणमुदात्तवतः परिमाणार्थम्; अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवतीति धातावेवोदात्तवति स्यात्‌; प्रत्यये
न स्यात्‌---यत्प्रकरोतीति । `यत्क्रियायुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसंज्ञे भवतः(जै.प.99) इति तिङन्ते धातुमेव प्रति गतिसंज्ञा ।
आमन्ते तर्हि न प्राप्नोति---प्रपचतितराम्, प्रपचतितमामिति ? अत्र केचिदामन्तेन गतेः समासं कुर्वन्ति; तेषामव्ययवूर्वपदप्रकृतिस्वरत्वे सत्यक्रियमाणेऽपि तिङ्‌ग्रहणे परमनुदात्तवद्भवतीति गतिनिघातो नैव सिद्ध्यति ।
अथ तरबन्तस्य गतिसमासः ? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः अनुदात्तं पदमेकवर्जम्(6-1-158/3650) इत्येवानुदात्तत्वं सिद्धम् ।
येषां `गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः(पु.प.62) इत्यनेन वचनेन कृदन्तेनैव प्राक्सुबुत्पत्तेः समासो भवति, नान्येन, इति दर्शनम्, तेषामेवंविधे विषये समासेन नैव भवितव्यमिति । पृथक् स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति, तदर्थं यत्नः कर्तव्यः ।
उदात्तवतीति किम् ? प्रपचति । प्रकरोति ।।
</8-1-71>
आमन्त्रितं पूर्वमविद्यमानवत् ।। <8-1-72> ।।
आमन्त्रितं पूर्वमविद्यमानवद्भवति, तस्मिन् सति यत्कार्यं तन्न भवति, असति यत्तद्भवति ।
कानि पुनरविद्यमानवत्त्वे प्रयोजनानि? आमन्त्रित--तिङ्‌निघातयुष्मदस्मदादेशाभावाः । देवदत्त, यज्ञदत्तेत्यत्रामन्त्रितस्य पदात्परस्य(8-1-19/3654) इति निघातो न भवति, षाष्ठिकामन्त्रिताद्युदात्तत्वं(6-1-198/3653) भवति; देवदत्त पचसीत्यत्र तिङ्‌ङतिङः(8-1-28/3935) इति निघातो न भवति; देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वम्---इत्येवमादिषु युष्मदस्मदादेशा न भवन्ति । पूजायामनन्तरप्रतिषेधः प्रयोजनम्---यावद्‌देवदत्त पचसीत्यत्रापि पूजायां नानन्तरम्(8-1-37/3944) इत्येव प्रतिषेधो भवति । जात्वपूर्वम्(8-1-47/3954) इत्येतद्---देवदत्त जातु पचसीत्यत्रापि भवति । आहो उताहो चानन्तरम्(8-1-49/3956) इति---आहो देवदत्त पचसि उताहो देवदत्त पचसीत्यत्रापि भवति आम एकान्तरमामन्त्रितमनन्तिके(8-1-55/3962) इति---आम् भोः पचसि देवदत्त इत्यत्रापि भवति ।
आमन्त्रितमिति किम् ? देवदत्तः पचति । पूर्वमिति किम् ? देवदत्त इत्येतस्यामन्त्रिताद्युदात्तत्वे कर्तव्ये नाविद्यमानवद्भवति । पूर्वत्वं च परापेक्षं भवतीति परस्यैव कार्ये स्वनिमित्ते, अन्यनिमित्ते वा तदविद्यमानवद्भवति, न तु स्वकार्ये । देवदत्त पचसीत्यत्रापि ह्यामन्त्रिताद्युदात्तत्वं भवत्येव ।
इह---`इमं मे गङ्गे यमुने(ऋ.10-75-5) इति गङ्गेशब्दः पूर्वमामन्त्रितम्, ततः परस्य यमुनेशब्दस्यानुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वान्निमित्तं न भवति । मेशब्दस्य निमित्तभावं न प्रतिबध्नाति ।।
</8-1-72>
नामन्त्रिते समानाधिकरणे सामान्यवचनम् ।। <8-1-73> ।।
अविद्यमानवत्त्वस्य प्रतिषेधः । आमन्त्रितान्ते समानाधिकरणे परतः पूर्वमामन्त्रितान्तं सामान्यवचनं नाविद्यमानवद्भवति, किं तर्हि ? विद्यमानवदेव । `अग्ने गृहपते(तै.2-4-5-2) । माणवक जटिलकाध्यापक । पूर्वस्य विद्यमानवत्त्वात्परमनुदात्तमेव भवति ।
आमन्त्रित इति किम् ? देवदत्त पचसि । समानाधिकरण इति किम् ? देवदत्त पण्डित यज्ञदत्त । अत्र यज्ञदत्तविशेषणं पण्डितशब्दः; न पूर्वेण समानाधिकरणः । सामान्यवचनमिति किम् ? पर्यायेषु मा भूत्‌---अघ्न्ये देवि सरस्वति ईडे काव्ये विहव्ये । एते पर्यायाः । एवं ह्युक्तम्---`एतानि ह्यघ्न्ये नामानि(वा.सं.8-43)इति ।।
</8-1-73>
विभाषितं विशेषवचने बहुवचनम् ।। <8-1-74> ।।
पूर्वेणाविद्यमानवत्त्वे प्रतिषिद्धे विकल्प उच्यते । विशेषवचने समानाधिकरणे आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमानवद्भवति । देवाः शरण्याः। देवाः शरण्याः । ब्राह्मणा वेयाकरणाः। ब्राह्मणा वैयाकरणाः ।
सामान्यवचनाधिकारादेव विशेषवचन इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम् ।
बहुवचनमिति किम् ? माणवक । जटिलक । नित्यमेतद्विद्यमानवदेव ।।
इति श्रीवामनाचार्यविरचितायां काशिकावृत्तौ
              अष्टमस्याध्यायस्य प्रथमः पादः
</8-1-74>