काशिका/अष्टमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः


           * अथ अष्टमाध्याये तृतीयः पादः *

मतुवसो रु सम्बुद्धौ छन्दसि ।। <8-3-1> ।।
`संहितायाम् इति वर्त्तते । मत्वन्तस्य वस्वन्तस्य च पदस्य `रुः इत्ययमादेशो भवति सम्बुद्धौ परतः छन्दसि विषये । मत्वन्तस्य तावत्---`इन्द्र मरुत्व इह पाहि सोमम्(तै.सं.1-4-18-1) । `हरिवो मेदिनं त्वा(तै.सं.4-7-14-4) । मरुतोऽस्य सन्ति, हरयोऽस्य सन्ति---इति मतुप्‌, सुप्तकारयोर्हल्ङ्यादिलोपे(6-1-68/252) संयोगान्तस्य लोपे(8-2-23/54) च कृते नकारस्य रुर्भवति ।
वस्वन्तस्य खल्वपि---`मीढ्‌वस्तोकाय तनयाय मृळ(ऋ.2-33-14) इन्द्र साह्वः । क्वसोर्निपातनम् दाश्वान् साह्वान् मीढ्‌वांश्च(6-1-12/3629) इति ।
मतुवसोरिति किम् ? ब्रह्मन्स्तोष्यामः । सम्बुद्धाविति किम् ? `य एवं विद्वानग्निमाधत्ते(मै.सं.1-5-7) । छन्दसीति किम् ? हे गोमन् । हे पपिवन् ।

  • वन उपसंख्यानं कर्त्तव्यम् *(म.भा.3-424) । `यस्त्वायन्तं वसुना प्रातरेत्वः(ऋ.1-115-2) । इणः प्रातः पूर्वस्य छन्दसि क्वनिप् ।
  • विभाषा भवद्भगवदघवतामोच्चावस्य *(म.भा.3-424) । छन्दसि भाषायां व भवाद्, भगवद्, अघवद्---इत्येतेषां विभाषा रुर्वक्तव्यः, अवशब्दस्य च ओकारादेशः । सामान्येन छन्दसि भाषायां चेदं वचनम् । भवत्‌---हे भोः, हे भवन् । भगवद्---हे भगोः, हे भगवन् । अघवत्---हे अघोः, हे अघवन् ।

निपातविज्ञानाद्वा सिद्धम् । अथ वा---भो इत्येवमादयो निपाता द्रष्टव्याः । असम्बुद्धावपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ । भो देवदत्तयज्ञदत्तविष्णुमित्त्राः ।
तथा स्त्रियामपि च दृश्यन्ते---भो ब्राह्मणि ।
संहिताधिकार उत्तरत्रोपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ---नश्छव्यप्रशान्(8-3-7/140) इति ।।
</8-3-1>
अत्रानुनासिकः पूर्वस्य तु वा ।। <8-3-2> ।।
अधिकारोऽयम् । इत उत्तरं यस्य स्थाने रुर्विधीयते ततः `पूर्वस्य तु वर्णस्य वाऽनुनासिको भवति---इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र । वक्ष्यति---समः सुटि(8-3-5/135) । सँस्कर्ता, सँस्कर्तुम्। सँस्कर्तव्यम् ।
अत्रग्रहणं रुणा सह सन्नियोगप्रतिपत्त्यर्थम् । अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोपः(8-3-13/2335) इत्यत्रापि पूर्वस्यानुनासिक आशङ्‌क्येत ।।
</8-3-2>
आतोऽटि नित्यम् ।। <8-3-3> ।।
अटि परतो रोः पूर्वस्याकारस्य स्थाने नित्यमनुनासिकादेशो भवति । दीर्घादटि समानपादे(8-3-9/3631) इति रुत्वं वक्ष्यति, ततः पूर्वस्यातोऽनुनासिकविकल्पे प्राप्ते, नित्यार्थं वचनम् । `महाँ असि(ऋ.3-46-2) । `महाँ इन्द्रो य ओजसा(ऋ.8-6-1) । `देवाँ अच्छा दीद्यत्(ऋ.3-1-1) ।
केचिदनुस्वारमधीयते, स च्छान्दसो व्यत्ययो द्रष्टव्यः ।
आत इति किम् ? `ये वा वनस्पतीरनु(वा.सं.13-7) । अटीति किम् ? भवांश्चरति, भवांश्लाघयति ।
नित्यग्रहणं विस्पष्टार्थम् ।।
</8-3-3>
अनुनासिकात् परोऽनुस्वारः ।। <8-3-4> ।।
अन्यशब्दोऽत्राध्याहर्त्तव्यः । तदपेक्षया चेयम् `अनुनासिकात् इति पञ्चमी । अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्यानुनासिको न कृतः, ततः परोऽनुस्वार आगमो भवति । वक्ष्यति---समः सुटि(8-3-5/135) । संस्कर्ता,
संस्कर्तव्यम् । पुमः खय्यम्परे(8-3-6/139)---पुंस्कामा । नश्छव्यप्रशान्(8-3-7/140)---भवांश्चरति ।
केचित्तु परशब्दमेवान्यार्थं वर्णयन्ति । अनुनासिकात्परः=अनुनासिकादन्योऽनुस्वारो भवति । यस्मिन्पक्षेऽनुनासिको नास्ति तत्रानुस्वारागमो भवति । स तु कस्यागमो भवति ? रोः पूर्वस्यैवेति वर्तते, व्याख्यानादादेशो न भवति ।।
</8-3-4>
समः सुटि ।। <8-3-5> ।।
रुर्वर्तते । `समः---इत्येतस्य रुर्भवति सुटि परतः संहितायां विषये । सँस्कर्ता, सँस्कर्तुम्, सँस्कर्तव्यम् । संस्स्कर्त्ता, संस्स्कर्तुम्, संस्स्कर्तव्यम् ।
अत्र रोर्विसर्जनीये कृते वा शरि(8-3-66/151) इति पक्षे विसर्जनीय एव प्राप्नोति । व्यवस्थितविभाषा द्रष्टव्या । तेनात्र नित्यं सकार एव भवति ।
अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते---`समः स्सुटि इति द्विसकारको निर्द्देशः ।
सम इति किम् ? उपस्कर्ता । सुटीति किम् ? संकृतिः ।
कश्चिदाह---

  • संपुंकानां सो वक्तव्यः * (म.भा.3-424)। रुविधौ ह्यनिष्टप्रसङ्गः । संस्स्कर्ता । पुंस्स्कामा । कांस्स्कानिति ।।

</8-3-5>
पुमः खय्यम्परे ।। <8-3-6> ।।
पुमित्येतस्य रुर्भवति अम्परे खयि परतः । पुँस्कामा, पुंस्कामा । पुँस्पुत्रः, पुंस्पुत्रः । पुँस्फलम्, पुंस्फलम् । पुँश्चली, पुंश्चली ।
पुंस्कामेत्यत्र विसर्जनीयस्य कुप्वोः :क:पौ च(8-3-37/142) इति प्राप्नोति । तस्मादत्र सकार एवादेशो वक्तव्यः ।
द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् `स इत्यनुवर्तते ।
रुत्वं त्वनुवर्तमानमपि नात्राभिसम्बध्यते । सम्बन्धानुवृत्तिस्तस्येति ।
खयीति किम् ? पुंदासः । पुंगवः । अम्पर इति किम् ? पुंक्षीरः । पुंक्षुरः । परग्रहणं किम् ? पुमाख्यः । पुमाचारः ।।
</8-3-6>
नश्छव्यप्रशान् ।। <8-3-7> ।।
`अम्परे इति वर्तते । नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवति अम्परे छवि परतः । भवाँश्छादयति, भवांश्चादयति । भवाँश्छादयति, भवांश्छादयति । भवांश्चिनोति, भवांश्चिनोति । भवाँष्टीकते, भवांष्टीकते । भवाँस्तरति, भवांस्तरति ।
छवीति किम् ? भवान्करोति । अप्रशानिति किम् ? प्रशाञ्छादयति । प्रशान् चिनोति ।
`अम्परे इत्येव---भवान् त्सरुकः ।।
</8-3-7>
उभयथर्क्षु ।। <8-3-8> ।।
पूर्वेण नित्ये प्राप्ते विकल्पः क्रियते । नकारान्तस्य पदस्य छवि परतः अम्परे उभयथा ऋक्षु भवति---रुर्वा, नकारो वा । तस्मिंस्त्वा दधाति । तस्मिन्त्वा दधाति ।
ऋक्ष्विति किम् ? तांस्त्वं खाद सुखादितान् ।।
</8-3-8>
दीर्घादटि समानपादे ।। <8-3-9> ।।
`नः इत्यनुवर्तते । दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुर्भवत्यटि परतस्तौ चेन्निमित्तनिमित्तिनौ समानपादे भवतः । `ऋक्षु इति प्रकृतत्वाद् ऋक्पाद इह गृह्यते । `परिधीं रति(ऋ.1-107-19) । `देवां अच्छादीव्यत्(ऋ.3-1-1) । `महां इन्द्रो य ओजसा(ऋ.8-6-1) ।
दीर्घादिति किम् ? `अहन्नहिम्(ऋ.1-32-1) । अटीति किम् ? इभ्यान्क्षत्त्रियान् । समानपाद इति किम् ? यातुधानानुपस्पृशः ।
`उभयथा इत्येव---`आदित्यान् हवामहे(ऋ.8-67-1) ।।
</8-3-9>
नॄन्पे ।। <8-3-10> ।।
`नॄन् इत्येतस्य नकारस्य रुर्भवति पशब्दे परतः । अकार उच्चारणार्थः । नॄँ:पाहि । नॄं : पाहि । नॄँ : प्रीणीहि । नॄं :प्रणीहि ।
पे इति किम् ? नॄन् भोजयति ।
उभयथेत्यपि केचिदनुवर्तयन्ति, नॄन्पाहीत्यपि यथा स्यात् ।
</8-3-10>
स्वतवान् पायौ ।। <8-3-11> ।।
`स्वतवान् इत्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः । `स्वतवाँ: पायुरग्ने(ऋ.4-2-6) ।
</8-3-11>
कानाम्रेडिते ।। <8-3-12> ।।
कानित्येतस्य नकारस्य रुर्भवति आम्रेडिते परतः । कांस्कानामन्त्रयते । कांस्कान्भोजयति ।
अस्य कस्कादिषु पाठो द्रष्टव्यः । तेन कुत्वोः :क:च(8-3-37/142) इति न भवति ।
समः सुटि(8-3-5/135) इत्यतो वा सकारोऽनुवर्तते, स एवात्र विधीयते ।
पूर्वेषु योगेषु सम्बन्धानुवृत्त्या गतस्य रोरत्रानभिसम्बन्धः । आम्रेडित इति किम् ? कान् कान्पश्यति । एकोऽत्र कुत्सायाम् ।।
</8-3-12>
ढो ढे लोपः ।। <8-3-13> ।।
ढकारस्य ढकारे लोपो भवति । सत्यपि पदाधिकारे तस्यासम्भवादपदान्तस्य ढकारस्यायं लोपो विज्ञायते । लीढम् । उपगूढम् ।
ष्टुत्वस्यात्र सिद्धत्वमाश्रयाद् द्रष्टव्यम् ।
श्वलिड्‌ढौकते---इत्यत्र तु जश्त्वे कृते कार्यं नास्तीति लोपाभावः । न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते; तस्य हि लोढादिर्विषयः सम्भवति ।
तत्र हि श्रुतिकृतमानन्तर्यमस्ति । शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्यासिद्धत्वेन प्राप्तम्, तत्तु सूत्रकरणसामर्थ्याद्बाध्यते । श्वलिड्‌ ढौकते---इत्यत्र तु न श्रुतिकृतमानन्तर्यम्, न शास्त्रकृतमिति अविषयोऽयं ढलोपस्य ।।
</8-3-13>
रो रि ।। <8-3-14> ।।
रेफस्य रेफे परतो लोपो भवति । नीरक्तम् । दूरक्तम् । अग्नीरथः । इन्दू रथः । पुना रक्तं वासः । प्राता राजक्रयः ।
`पदस्य इत्यत्र विशेषणे षष्ठी, तेन पदान्तस्यापि रेफस्य लोपो भवति । जर्गृधेः---अजर्घाः । पास्पर्धेः---अपास्पा इति ।
</8-3-14>
खरवसानयोर्विसर्जनीयः ।। <8-3-15> ।।
`र इति वर्तते । रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति । वृक्षश्छादयति । प्लक्षश्छादयति । वृक्षस्तरति । प्लक्षस्तरति । अवसाने---वृक्षः । प्लक्षः ।
खरवसानयोरिति किम् ? अग्निर्नयति । वायुर्नयति ।
इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः---इति वृद्धेर्बहिरङ्गलक्षणत्वात्तदाश्रयस्य रेफस्य `असिद्धं बहिरङ्गम्(व्या.प.42) इत्यसिद्धत्वाद् विसर्जनीयो न भवति ।।
</8-3-15>
रोः सुपि ।। <8-3-16> ।।
`रु---इत्येतस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति । पयःसु । सर्पिःषु । यशःसु ।
`सुपि---इति सप्तमीबहुवचनं गृह्यते । `सिद्धे सत्यारम्भो नियमार्थः(कात.प.62)---रोरेव सुपि विसर्जनीयादेशः, नान्यस्य । गीर्षु । धूर्षु ।।
</8-3-16>
भोभगोअघोअपूर्वस्य योऽशि ।। <8-3-17> ।।
भोर्, भगोर्, अघोर्---इत्येवम्पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परतः । भो अत्र । भगो अत्र । अघो अत्र । भो ददाति । भगो ददाति । अघो ददाति । अवर्णपूर्वस्य---क आस्ते, कय् आस्ते । ब्राह्मणा ददति । पुरुषा ददति ।
भोभगोअघोअपूर्वस्येति किम् ? अग्निरत्र । वायुरत्र ।
अश्ग्रहणं किम् ? वृक्षः । प्लक्षः । नैतदस्ति; संहितायाम्(8-2-108/3627) इत्यनुवर्तते ? तर्हि अश्ग्रहणमुत्तरार्थम् । हलि सर्वेषाम्(8-3-22/171) इत्ययं लोपः अशि हलि यथा स्यात्, इह मा भूत्‌---वृक्षं वृश्चतीति वृक्षवृट्‌, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययः---वृक्षव् करोति ।
अथ तत्रैव अश्ग्रहणं कस्मान्न कृतम् ? उत्तरार्थम्, मोऽनुस्वारः(8-3-23/122) इति हल्मात्रे यथा स्यात् । व्योर्लघुप्रयत्नतरः शाकटायनस्य(8-3-18/168), लोपः शाकल्यस्य(8-3-19/67) इत्येतच्च वृक्षव् करोतीत्यत्र मा भूदित्यश्ग्रहणम् ।
`रोः इत्येव---प्रातरत्र । पुनरत्र ।।
</8-3-17>
व्योर्लघुप्रयत्नतरः शाकटायनस्य ।। <8-3-18> ।।
वकारयकारयोर्भोभगोअघोअवर्णपूर्वयोः पदान्तयोर्लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्याचार्यस्य मतेन । भगोयत्र, भगो अत्र । अघोयत्र, अघो अत्र । क आस्ते, कयास्ते । अस्मायुद्धर, अस्मा उद्धर । असावादित्यः, असा आदित्यः । द्वावत्र, द्वा अत्र । द्वावानय, द्वा आनय ।
लघुप्रयत्नतरत्वमुच्चारणे स्थान-करणशैथिल्यम् । स्थानम्=ताल्वादि । करणम्=जिह्वामूलादि । तयोरुच्चारणे शैथिल्यम्=मन्दप्रयत्नता ।।
</8-3-18>
लोपः शाकल्यस्य ।। <8-3-19> ।।
वकारयकारयोः पदान्तयोरवर्णपूर्वयोर्लोपो भवति शाकल्यस्याचार्यस्य मतेनाशि परतः । क आस्ते, कयास्ते । काक आस्ते, काकयास्ते । अस्मा उद्धर, अस्मायुद्धर । द्वावत्र, द्वा अत्र । असावादित्यः, असा आदित्यः ।
शाकल्यग्रहणं विभाषार्थम् । तेन यदापि लघुप्रयत्नतरो न भवत्यादेशः, तदापि व्योः पक्षे श्रवणं भवति ।।
</8-3-19>
ओतो गार्ग्यस्य ।। <8-3-20> ।।
ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्याचार्यस्य मतेन अशि परतः । भो अत्र । भगो अत्र । भो इदम् । भगो इदम् ।
नित्यार्थोऽयमारम्भः ।
गार्ग्यग्रहणं पूजार्थम् । योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते । लघुप्रयत्नतरस्तु भवत्येव यकारः । भो अत्र, भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्र ।
केचित्तु सर्वमेव यकारमत्र नेच्छन्ति ।।
</8-3-20>
उञि च पदे ।। <8-3-21> ।।
अवर्णपूर्वयोः व्योः पदान्तयोर्लोपो भवति उञि च पदे परतः । `स उ एकविंशतिः(मै.2-7-20) । स उ एकाग्निः ।
पद इति किम् ? तन्त्र उतम्, तन्त्रयुतम् । वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुमिति ।
अथ `उञ्‌ इत्येवंरूपो निपातः प्रतिपदोक्तोऽस्ति ? तदा लाक्षणिकत्वाद् वेञादेशस्य ग्रहणमिह नास्ति, उत्तरार्थं पदग्रहणं क्रियते ।।
</8-3-21>
हलि सर्वेषाम् ।। <8-3-22> ।।
?Bहलि परतो भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन । भो हसति । भगो हसति । अघो हसति । भो याति । भगो याति । अघो याति । वृक्षा हसन्ति ।
सर्वेषांग्रहणं शाकटायनस्यापि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूदिति ।
</8-3-22>
मोऽनुस्वारः ।। <8-3-23> ।।
मकारस्य पदान्तस्यानुस्वार आदेशो भवति हलि परतः । कुण्डं हसति । वनं हसति । कुण्डं याति । वनं याति ।
हलीत्येव---त्वमत्र, किमत्र । पदान्तस्येत्येव--गम्यते, रम्यते ।।
</8-3-23>
नश्चापदान्तस्य झलि ।। <8-3-24> ।।
नकारस्य मकारस्य चापदान्तस्यानुस्वारादेशो भवति झलि परतः । पयांसि । यशांसि । सर्पींषि । धनूंषि । मकारस्य---आक्रंस्यते । आचिक्रंस्यते । अधिजिगांसते ।
अपदान्तस्येति किम् ? राजन्भुङ्‌क्ष्व । झलीति किम् ? रम्यते । गम्यते ।।
</8-3-24>
मो राजि समः क्वौ ।। <8-3-25> ।।
समो मकारस्य मकार आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः । सम्राट्‌ । साम्राज्यम् ।
मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम् ।
राजीति किम् ? संयत् । सम इति किम् ? किंराट्‌ । क्वाविति किम् ? संराजिता । संराजितुम् । संराजितव्यम् ।।
</8-3-25>
हे मपरे वा ।। <8-3-26> ।।
हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति । किं ह्मलयति, किम् ह्मलयति । कथं ह्मलयति, कथम् ह्मलयति ।

  • यवलपरे यवला वा * (म.भा.3-428)। यवलपरे हकारे मकारस्य यवला यथासंख्यं वा भवन्तीति वक्तव्यम् । कियँ ह्यः, किं ह्यः । किवँ ह्वलयति, किं ह्वलयति । किलँ ह्‌लायति । किं ह्‌लादयति ।।

</8-3-26>
नपरे नः ।। <8-3-27> ।।
नकारपरे हे परतः मकारस्य वा नकारादेशो भवति । किन् ह्नुते, किं ह्नुते । कथन् ह्नुते, कथं ह्नुते ।।
</8-3-27>
ङ्‌णोः कुक्टुक् शरि ।। <8-3-28> ।।
ङकारणकारयोः पदान्तयोः कुक्, टुक्‌---इत्येतावागमौ वा भवतः शरि परतः । प्राङ्क्‌ शेते, प्राङ्‌ शेते । प्राङ्‌क्‌ षष्ठः, प्राङ्‌ षष्ठः । प्राङ्‌क्‌ साये, प्राङ्‌ साये । णकारस्य---वण्‌ट्‌ शेते, वण्‌ शेते ।
पूर्वान्तकरणम्---प्राङ्‌क् छेते इत्यत्र छत्वार्थम् । शश्छोऽटि(8-4-63/120) इति हि पदान्ताज्झय इति तद्विज्ञायते । इह मा भूत्‌---`पुरा क्रूरस्य विसृपो विरप्शिन्(वा.सं.1-28) ।
प्राङ्‌क् साय इत्यत्रापि सात्पदाद्योः(8-3-111/2123) इति षत्वप्रतिषेधार्थं च ।
वण्‌ट्‌ साय इत्यत्र च न पदान्ताट्टोरनाम्(8-4-42/114) इति ष्टुत्वप्रतिषेधार्थम् ।।
</8-3-28>
ङः सि धुट्‌ ।। <8-3-29> ।।
डकारान्तात् पदादुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति । श्वलिट्‌त्साये, मधुलिट्त्साये, श्वलिट्‌ साये, मधुलिट् साये ।
परादिकरणम् न पदान्ताट्टोरनाम्(8-4-42/114) इति ष्टुत्वप्रतिषेधार्थम् ।।
</8-3-29>
नश्च ।। <8-3-30> ।।
नकान्तात्पदादुत्तरस्य सकारस्य वा धुडागमो भवति । भवान्त्साये, महान्त्साये; भवान्साये, महान्साये ।
धुटश्चर्त्वस्य चासिद्धत्वात् नश्छव्यप्रशान्(8-3-7/140) इति रुत्वं न भवति ।
</8-3-30>
शि तुक् ।। <8-3-31> ।।
नकारस्य पदान्तस्य शकारे परतो वा तुगागमो भवति । भवाञ्‌च्छेते ।
पूर्वान्तकरणं छत्वार्थम् । यद्येवम्, कुर्वञ्छेते इत्यत्र नकारस्यापदान्तत्वाण्णत्वं प्राप्नोति ? तत्र समाधिमाहुः---स्तोः श्चुना श्चुः(8-4-40/111) इत्यत्र योगविभागः क्रियते---णत्वप्रतिषेधार्थम् `स्तोः श्चुना णकारो न भवतीति, ततः `श्चुः इति ।।
</8-3-31>
ङमो ह्रस्वादचि ङमुण्नित्यम् ।। <8-3-32> ।।
ह्रस्वात्परो यो ङम् तदन्तात्पदादुत्तरस्याचो ङमुडागमो भवति नित्यम् । ङणनेभ्यो यथासंख्यं ङणना भवन्ति । ङकारान्तान् ङुट्‌---प्रत्यङ्‌ङास्ते । णकारान्ताण्णुट्‌---वण्णास्ते । वण्णवोचत् । नकारान्तान्नुट्---कुर्वन्नास्ते, कुर्वन्नवोचत् । कृषन्नास्ते, कृषन्नवोचत् ।
ङम इति किम् ? त्वमास्से । ह्रस्वादिति किम् ? प्राङास्ते । भवानास्ते । अचीति किम् ? प्रत्यङ्करोति ।
इह परमदण्डिनौ, परमदण्डिनेति `उत्तरपदत्वे चापदादिविधौ(भो.सू.44) इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं नास्तीति ङमुण्न भवति ।
अथ वा---उञि च पदे(8-3-21/170) इत्यतः सप्तम्यन्तम् `पदे इत्यनुवर्त्तते, तेन अजादौ पदे ङमुड् भवति ।।
</8-3-32>
मय उञो वो वा ।। <8-3-33> ।।
मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः । शमु अस्तु वेदिः, `शम्वस्तु वेदिः(वा.सं.23-44) । तदु अस्य परेतः, तद्वस्य परेतः । किमु आवपनम्, किम्वावपनम् ।
प्रगृह्यत्वादुञः प्रकृतिभावे प्राप्ते वकारो विधीयते । तस्यासिद्धत्वाद्धलीति मोऽनुस्वारः(8-3-23/122) न भवति ।।
</8-3-33>
विसर्जनीयस्य सः ।। <8-3-34> ।।
`खरि इत्यनुवर्त्तते । विसर्जनीयस्य सकार आदेशो भवति खरि परतः । वृक्षश्छादयति । प्लक्षश्छादयति ।
वृक्षष्ठकारः । प्लक्षष्ठकारः । वृक्षस्थकारः । प्लक्षस्थकारः । वृक्षश्चिनोति । प्लक्षश्चिनोति । वृक्षष्टीकते । प्लक्षष्टीकते । वृक्षस्तरति । प्लक्षस्तरति ।।
</8-3-34>
शर्परे विसर्जनीयः ।। <8-3-35> ।।
शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति । शशः क्षुरम् । पुरुषः क्षुरम् । अद्भिः प्सातम् । वासः क्षौमम् । पुरुषः त्सरुः । `घनाघनः क्षोभणश्चर्षणीनाम्(ऋ.10-103-1) ।
`न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्; तेन जिह्वामूलीयोपध्मानीयौ न भवतः ।।
</8-3-35>
वा शरि ।। <8-3-36> ।।
विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे । वृक्षः शेते, वृक्षश्शेते । प्लक्षः शेते, प्लक्षश्शेते । वृक्षः षण्डे, वृक्षष्षण्डे । वृक्षः साये, वृक्षस्साये ।।

  • खर्परे शरि वा लोपो वक्तव्यः * (म.भा.3-431)। वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः ।।

</8-3-36>
कुप्वोः :क:पौ च ।। <8-3-37> ।।
कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासंख्यं :क:प---इत्येतावादेशौ भवतः, चकाराद्विसर्जनीयश्च । वृक्षःकरोति, वृक्षः करोति । वृक्षःखनति, वृक्षः खनति । वृक्षःपचति, वृक्षः पचति, वृक्षःफलति, वृक्षः फलति ।
कपावुच्चारणार्थौ । जिह्वामूलीयोपध्मानीयावेतावादेशौ ।
विसर्जनीयस्य सः(8-3-34/138) इत्येतस्मिन्नाप्राप्ते इदमारभ्यते इत्येतस्य बाधकम् । शर्परे विसर्जनीयः(8-3-35/150) इत्येतत्तु न बाध्यते---वासः क्षौमम्, अद्भिः प्सातम्; `पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य(जै.प.67) इति शर्परे विसर्जनीयः(8-3-35/150) इत्येतदेव भवति ।
केचित्तु एतदर्थं योगविभागं कुर्वन्ति---`कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीय आदेशो भवति । किमर्थमिदम् ? `:क:पौ च इति वक्ष्यति, तद्बाधनार्थमिति ।।
</8-3-37>
सोऽपदादौ ।। <8-3-38> ।।
सकार आदेशो भवति विसर्जनीयस्य कुप्वोरपदाद्योः परतः, पाशकल्पककाम्येषु । याप्ये पाशप्‌(5-3-57/1993)---पयस्पाशम् । ईषदसमाप्तौ कल्पप्(5-3-67/2022)---पयस्कल्पम्, यशस्कल्पम् । प्रागिवात्कः(5-3-70/2025)---पयस्कम्, यशस्कम् । काम्यच्च(3-1-9/2663)---पयस्काम्यति । यशस्काम्यति ।
अपदादाविति किम् ? पयःकामयते । पयःपिबति ।

  • सोऽपदादावित्यनव्ययस्येति वक्तव्यम् * (म.भा.3-432)। इह मा भूत्‌---प्रातः कल्पम् । पुनः कल्पमिति ।
  • रोः काम्ये नियमार्थम् * (म.बा.3-432)। रोरेव काम्ये, नान्यस्येति नियमार्थं वक्तव्यम् । पयस्काम्यति । यशस्काम्यति । इह मा भूत्‌---गीः काम्यति । धूः काम्यति ।
  • उपध्मानीयस्य कवर्गे परतः सकार आदेशो भवतीति वक्तव्यम् * (म.भा.3-432)। किं प्रयोजनम् ? `उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्‌गः, समुद्‌ग इति यथा स्यात् ।।

</8-3-38>
इणः षः ।। <8-3-39> ।।
`अपदादौ इति वर्त्तते । इण उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः, पाशकल्पककाम्येषु । पाश---सर्पिष्पाशम् । यजुष्पाशम् । कल्प---सर्पिष्कल्पम्, यजुष्कल्पम् । क---सर्पिष्कम्, यजुष्कम् । काम्य---सर्पिष्काम्यति, यजुष्काम्यति ।
`अपदादौ इत्येव---अग्निः करोति, वायुः करोति । अग्निः पचति, वायुः पचति । `कुप्वोः इत्येव---सर्पिस्ते,
यजुस्ते ।
इत उत्तरम् `सः इति, `इणः षः इति च वर्तते;तत्र इणः परो यो विसर्जनीयस्तस्य षकारो भवति, अन्यस्य सकारो भवति ।।
</8-3-39>
नमस्पुरसोर्गत्योः ।। <8-3-40> ।।
नमस्‌, पुरस्‌---इत्येतयोर्गतिसंज्ञकयोर्विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः । नमस्कर्ता । नमस्कर्तुम् । नमस्कर्तव्यम् ।
गत्योरिति किम् ? पूः, पुरौ, पुरः करोति ।।
</8-3-40>
इदुदुपधस्य चाप्रत्ययस्य ।। <8-3-41> ।।
इकारोपधस्य, उकारोपधस्य चाप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः । निर्दुर्बहिराविश्चतुर्‌प्रादुस् । निस्‌---निष्कृतम्, निष्पीतम् । दुस्‌---दुष्कृतम्, दुष्पीतम् । बहिस्‌---बहिष्कृतम्, बहिष्पीतम् । आविस्‌---आविष्कृतम्, आविष्पीतम् । चतुष्‌---चतुष्कृतम्, चतुष्कपालम् । चतुष्कण्टकम्, चतुष्कलम् । प्रादुस्‌---प्रादुष्कृतम्, प्रादुष्पीतम् ।
अप्रत्ययस्येति किम् ? अग्निः करोति, वायुः करोति ।
मातुः करोत, पितुः करोति । अत्र रात्सस्य(8-2-24/280) इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्याप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति ? ९कस्कादिषु(8-3-48/144) तु भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य ।

  • पुम्मुहुसोः प्रतिषेधो वक्तव्यः * (म.भा.3-434)। पुंस्कामा । मुहुःकामा । नैष्कुल्यम्, दौष्पुरुष्यम् । नि3ष्कुलम्, दु3ष्कुलम् । दु3ष्पुरुषः । बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्त्तते ।।

</8-3-41>
तिरसोऽन्यतरस्यात् ।। <8-3-42> ।।
तिरसो विसर्जनीयस्यान्यतरस्यां सकारादेशो भवति कुप्वोः परतः । तिरस्कर्ता । तिरस्कर्तुम्। तिरस्कर्तव्यम् । तिरः कर्ता । तिरः कर्तुम् । तिरः कर्तव्यम् ।
`गतेः इत्येव---तिरः कृत्वा काण्डं गतः ।।
</8-3-42>
द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ।। <8-3-43> ।।
`षः इति सम्बद्ध्यते । द्विस्, त्रिस्, चतुर्‌---इत्येतेषां कृत्वोऽर्थे वर्त्तमानानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः । द्विष्करोति, द्विः करोति । त्रिष्करोति, त्रिः करोति । चतुष्करोति, चतुः करोति । द्विष्पचति, द्विः पचति । त्रिष्पचति, त्रिः---पचति । चतुष्पचति, चतुः पचति ।
कृत्वोऽर्थ इति किम् ? चतुष्कपालम्, चतुष्कण्टकम् । पूर्वेण नित्यं षत्वं भवति ।
इदुदुपधस्य---(8-3-41/155)इत्यस्यानुवृत्तौ सत्यां कृत्वोऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे `द्विस्त्रिश्चतुरिति शक्यमकर्त्तुम् ।
        कृत्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुष्कपाले मा ।
        षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण ।।
        सिद्धे ह्ययं विधत्ते चतुरः षत्वं यदापि कृत्वोऽर्थे ।
लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि ।।
एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम् ।
अन्यो हि नेदुदुपधः कृत्वोऽर्थः कश्चिदप्यस्ति ।।
अक्रियमाणे ग्रहणे विसर्जनीयस्तदा विशेष्येत ।
चतुरो न सिध्यति तथा रेफस्य विसर्जनीयो हि ।।
तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति ।
प्रकृतं पदं तदन्तं तस्यापि विशेषणं न्याय्यम् ।।
एवं तु क्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुः शब्दस्य कृत्वोऽर्थेऽपि वर्तमानस्य पूर्वेणैव नित्यं षत्वं स्यात् । `पूर्वत्रासिद्धे नास्ति विप्रतिषेधः; अभावादुत्तरस्य(जै.प.67) ।।
इसुसोः सामर्थ्ये ।। <8-3-44> ।।
`षः इति सम्बद्ध्यते । इस्, उस्‌---इत्येतयोर्विसर्जनीयस्यान्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः । सर्पिष्करोति, सर्पिः करोति । यजुष्करोति, यजुः करोति ।
सामर्थ्य इति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् ।
सामर्थ्यमिह व्यपेक्षा; न पुनरेकार्थीभावः, उभयं वा ।।
</8-3-43>
नित्यं समासेऽनुत्तरपदस्थस्य ।। <8-3-45> ।।
`इसुसोः इति वर्तते । समासविषये इसुसोर्विसर्जनीयस्यानुत्तरपदस्थस्य नित्यं षत्वं भवति कुप्वोः परतः । सर्पिष्कुण्डिका । धनुष्कपालम् । सर्पिष्पानम् । धनुष्फलम् ।
अनुत्तरपदस्थस्येति किम् ? परमसर्पिःकुण्डिका । परमधनुःकपालम् । पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति ।
एतदेव `अनुत्तपदस्थस्य इति वचनं ज्ञापकम्---इसुसोः `प्रत्ययग्रहणे यस्मात्स विहितस्तदादेः(पु.प.24) इत्ययं नियमो न भवति । तेन वाक्येऽपि---परमसर्पिष्करोति, परमसर्पिः करोति इसुसोः सामर्थ्ये(8-3-44/158) इत्येतद्‌ भवति । व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति ।।
</8-3-45>
अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।। <8-3-46> ।।
अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ, कमि, कंस, कुम्भ, पात्र, कुशा, कर्णी---इत्येतेषु परतः । कृ---अयस्कारः । पयस्कारः । कमि---अयस्कामः । पयस्कामः । कंस---अयस्कंसः । पयस्कंसः । कुम्भ---अयस्कुम्भः । पयस्कुम्भः । अयस्कुम्भी, पयस्कुम्भीत्यत्रापि भवति; `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति(व्या.प.29) इति ।
पात्र---अयस्पात्रम् । पयस्पात्रम् । अयस्पात्री । पयस्पात्री । कुशा---अयस्कुशा । पयस्कुशा । कर्णी---अयस्कर्णी । पयस्कर्णी ।
शुनस्कर्ण इत्ययं तु कस्कादिषु द्रष्टव्यः ।
अत इति किम् ? गीः कारः । दूः कारः । तपरकरणं किम् ? भाः करणम् । भास्कर इत्ययं तु कस्कादिषु द्रष्टव्यः ।
अनव्ययस्येति किम् ? श्वः कारः । पुनः कारः ।
`समासे इत्येव---यशः करोति । यशः कामयते ।
`अनुत्तरपदस्थस्य इत्येव---परमपयः कारः । परमपयः कामः ।।
</8-3-46>
अधः शिरसी पदे ।। <8-3-47> ।।
अधस्‌, शिरस्‌---इत्येतयोर्विसर्जनीयस्य समासेऽनुत्तरपदस्थस्य सकार आदेशो भवति पदशब्दे परतः । अधस्पदम् । शिरस्पदम् । अधस्पदी । शिरस्पदी ।
`समासे इत्येव---अधः पदम् ।
`अनुत्तरपदस्थस्य इत्येव---परमशिरः पदम् ।
अधस्पदमिति मयूरव्यंसकादित्वात् समासः ।।
</8-3-47>
कस्कादिषु च ।। <8-3-48> ।।
`कस्क---इत्येवमादिषु च विसर्जनीयस्य सकारः, षकारो वा यथायोगमादेशो भवति कुप्वोः परतः । कस्कः । कौतस्कुतः । कुत आगतः---इत्यण्‌ । भ्रातुष्पुत्रः शुनस्कर्णः । सद्यस्कालः । सद्यस्क्रीः । क्रीणातेरयं सम्पदादित्वात् क्विप्प्रत्ययः, तत्र भवः क्रतुः---साद्यस्क्रः । कांस्कान्---कानाम्रेडिते(8-3-12/143) इति रुत्वमत्र ।
सर्पिष्कुण्डिका, धनुष्कपालम्, बर्हिष्पूलम्, यजुष्पात्रमित्येषां पाठः---उत्तरपदस्थस्यापि षत्वं यथा स्यादिति । परमसर्पिः फलमित्येवमादिप्रत्युदाहरणादिति पारायणिका आहुः ।
भाष्ये, वृत्तौ च नित्यं समासेऽनुत्तरपदस्थस्य(8-3-45/159) इत्यत्र परमसर्पिः--कुण्डिकेत्येतदेव प्रत्युदाहरणम् । अयस्काण्डः । मेदस्पिण्डः । अविहित लक्षण उपचारः कस्कादिषु द्रष्टव्यः ।।
</8-3-48>
छन्दसि वाऽप्राम्रेडितयोः ।। <8-3-49> ।।
छन्दसि विषये विसर्जनीयस्य वा सकारादेशो भवति कुप्वोः परतः, प्रशब्दमाम्रेडितं वर्जयित्वा । अयः पात्रम्, अयस्पात्रम् । विश्वतः पात्रम्, विश्वतस्पात्रम् । उरुणः कारः, उरुणस्कारः ।
अप्राम्रेडितयोरिति किम् ? `अग्निः प्रविद्वान्(अ.वे.5-26-1) । `परुषः परुषः परि(मै.2-7-15-214) ।
`सूर्यरश्मिर्हरिकेशः पुरस्तात्(ऋ.10-139-1), `स नः पावकः(ऋ.1-12-10)---इत्येवमादिषु `सर्वे विधयश्छन्दसि विकल्प्यन्ते(पु.प.35) इति सत्वं न भवति ।।
</8-3-49>
कः करत्करतिकृधिकृतेष्वनदितेः ।। <8-3-50> ।।
कः, करत्, करति, कृधि, कृत---इत्येतेषु परतः अनदितेर्विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये । कः---विश्वतस्कः । करत्---विश्वतस्करत् । करति---पयस्करति । कृधि---`उरुणस्कृधि(ऋ.8-75-11) । कृत---सदस्कृतम् ।
अनदितेरिति किम् ? `यथा नो अदितिः करत्(ऋ.1-43-2) ।।
</8-3-50>
पञ्चम्याः परावध्यर्थे ।। <8-3-51> ।।
`छन्दसि इत्येव । पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे । `दिवस्परि प्रथमं जज्ञे(ऋ.10-45-1) । `अग्निर्हिमवतस्परि(अ.वे.4-9-9) । `दिवस्परि(ऋ.1-121-10) । महस्परि ।
पञ्चम्या इति किम् ? `अहिरिव भोगैः पर्येति बाहुम्(ऋ.6-75-14) । पराविति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत् ।
अध्यर्थ इति किम् ? `दिवः पृथिव्याः पर्योज उद्‌भृतम्(ऋ.6-47-27) ।
अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः ।।
</8-3-51>
पातौ च बहुलम् ।। <8-3-52> ।।
पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकार आदेशो भवति छन्दसि विषये । `दिवस्पातु(ऋ.1-43-2) । राज्ञस्पातु ।
न च भवति---परिषदः पातु ।।
</8-3-52>
षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ।। <8-3-53> ।।
षष्ठीविसर्जनीयस्य सकारादेशो भवति पति, पुत्र, पृष्ठ, पार, पद, पयस्, पोष---इत्येतेषु परतः छन्दसि विषये । `वाचस्पतिं विश्वकर्माणमूतये(ऋ.10-81-7) । पुत्र---`दिवस्पुत्राय सूर्याय(ऋ.10-37-1) । पृष्ठ---`दिवस्पृष्ठे धावमानं सुपर्णम्(अ.13-2-37) । पार---`अगन्म तमसस्पारम्(वा.सं.12-73) । पद---`इडस्पदे
समिध्यसे(ऋ.10-191-1) । पयस्‌--`सूर्यं चक्षुर्दिवस्पयः । पोष---`रायस्पोषं यजमानेषु धत्तम्(ऋ.10-122-8) ।
षष्ठ्या इति किम् ? मनुः पुत्रेभ्यो दायं व्यभजत् ।।
</8-3-53>
इडाया वा ।। <8-3-54> ।।
इडायाः षष्ठीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतश्छन्दसि विषये । इडायास्पतिः, इडायाः पतिः । `इडायास्पुत्रः(ऋ.3-29-3), इडायाः पुत्रः । इडायास्पृष्ठम्, इडायाः पृष्ठम् । इडायास्पारम्, इडायाः पारम् । `इडायास्पदम्(वा.सं.4-22), `इडायाः पदम्(तै.सं.1-2-5-1) । इडायास्पयः, इडायाः पयः । इडायास्पोषम्, इडायाः पोषम् ।।
</8-3-54>
अपदान्तस्य मूर्धन्यः ।। <8-3-55> ।।
पदाधिकारो निवृत्तः । `अपदान्तस्य इति, `मूर्धन्यः इति चैतदधिकृतं वेदितव्यमापादपरिसमाप्तेः । वक्ष्यति---आदेशप्रत्यययोः(8-3-59/212) । सिषेव । सुष्वाप । अग्निषु । वायुषु । अपदान्तस्येति किम् ? अग्निस्तत्र, वायुस्तत्र ।
`ष इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम्---अकृढ्‌वम्, चकृढ्‌वे ।।
</8-3-55>
सहेः साडः सः ।। <8-3-56> ।।
सहेर्धातोः साड्‌रूपस्य यः सकारस्तस्य मूर्धन्य आदेशो भवति । जलाषाट्‌ । तुराषाट्‌ । पृतनाषाट्‌ ।
सहेरिति किम् ? सह डेन वर्तते सडः, तस्यापत्यं साडिः ।
साड्‌ग्रहणं किम् ? यत्रास्यैतद्रूपं तत्र यथा स्यात्, इह मा भूत्‌---जलासाहम् । तुरासाहम् ।
स इति किम् ? आकारस्य मा भूत् ।।
</8-3-56>
इण्कोः ।। <8-3-57> ।।
`इण्कोः इत्येतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः, इणः कवर्गाच्चेत्येवं तद्वेदितव्यम् । वक्ष्यति---आदेशप्रत्यययोः(8-3-59/212) । सिषेव । सुष्वाप । अग्निषु । वायुषु । कर्तृषु । गीर्षु । धूर्षु । वाक्षु । त्वक्षु । इण्कोरिति किम् ? दास्यति । असौ ।।
</8-3-57>
नुम्विसर्जनीयशर्व्यवायेऽपि ।। <8-3-58> ।।
नुम्व्यवायेऽपि, विसर्जनीयव्यवायेऽपि, शर्व्यवायेऽपि इण्कोरुतरस्य सकारस्य मूर्धन्यादेशो भवति । व्यवायशब्दः प्रत्येकमभिसम्बद्ध्यते । नुम्व्यवाये तावत्---सर्पींषि, यजूंषि, हवींषि । विसर्जनीयव्यवाये---सर्पिःषु, यजुःषु, हविःषु । शर्व्यवाये---सर्पिष्षु, यजुष्षु, इविष्षु ।
नुमादिभिः प्रत्येकं व्यवाये षत्वमिष्यते, न समस्तैः । तेनेह न भवति---निंस्से, निंस्स्व इति । `णिसि चुम्बने(धा.पा.1026)---इत्येतस्यैतद्रूपम् । अत्र हि नुमा, सकारेण, शरा च व्यवधानम् ।।
</8-3-58>
आदेशप्रत्यययोः ।। <8-3-59> ।।
`मूर्धन्यः इति वर्तते, `स इति च । `आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बद्ध्यते । आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः, तस्य मूर्धन्यो भवति आदेशः । आदेशस्य तावत्---सिषेव । सुष्वाप । प्रत्ययस्य---अग्निषु । वायुषु । कर्तृषु । हर्तृषु ।
इन्द्रो मा वक्षत्‌, `स देवान्यक्षत्(अ.वे.3-4-6)इति व्यपदेशिवद्भावात् प्रत्ययस्येति षत्वं भवति । यजतेः, वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटोऽडाटौ(3-4-94/3427) इत्यट्‌, सिब्बहुलं लेटि(3-1-34/3425) इति सिप्, ततः सिद्धम्---यक्षत्, वक्षत्, इति ।।
</8-3-59>
शासिवसिघसीनां च ।। <8-3-60> ।।
शासि, वसि, घसि---इत्येतेषां च इण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति । अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् । शिष्टः, शिष्टवान् । वसि---उषितः, उषितवान् । उषित्वा । घसि---जक्षतुः, जक्षुः । घसिभसोर्हलि च(6-4-100/3550) इत्युपधालोपः । `अक्षन्नमीमदन्त पितरः(वा.सं.19-36) ।
अनादेशार्थं वचनम् । घसिर्यद्यप्यादेशः, सकारस्त्वादेशो न भवति ।
`इण्कोः इत्येव---शास्ति । वसति । जघास ।।
</8-3-60>
स्तौतिण्योरेव षण्यभ्यासात् ।। <8-3-61> ।।
स्तौतेर्ण्यन्तानां च षभूते सनि परतः अभ्यासादिण उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति । तुष्टूषति । ण्यन्तानाम्---सिषेवयिषति । सिषञ्जयिषति । सुष्वापयिषति ।
`सिद्धे सत्यारम्भो नियमार्थः(का.प.62)---स्तोतिण्योरेव षण्यभ्यासाद्यथा स्यात्, अन्यस्य मा भूत्‌---सिसिक्षति । सुसूषति ।
एवकारकरणमिष्टतोऽवधारणार्थम् । स्तौतिण्योः षण्येव---इति हि विज्ञायमाने तुष्टावेत्यत्र न स्यात् । इह च स्यादेव---सिसिक्षतीति ।
षणीति किम् ? अन्यत्र नियमो मा भूत्‌---सिषेच ।
को विनतेऽनुरोधः ? अविनते नियमो मा भूत्‌---सुषुप्सति (म.भा.3-441)। तिष्ठासति ।
कः सानुबन्धेऽनुरोधः ? षशब्दमात्रे नियमो मा भूत्‌---सुषुपिष इन्द्रम् ।
अभ्यासादिति किम् ? अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यात्, धातोर्या प्राप्तिस्तस्या नियमो मा भूत्‌---प्रतीषिषति । अधीषिषति ।।
</8-3-61>
स स्विदिस्वदिसहीनां च ।। <8-3-62> ।।
स्विदि, स्वदि, सहि---इत्येतेषां ण्यन्तानां सनि षभूते परतोऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति । स्विदि---सिस्वेदयिषति । स्वदि---सिस्वादयिषति । सहि---सिसाहयिषति ।
सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम् ।।
</8-3-62>
प्राक्सितादड्‌व्यवायेऽपि ।। <8-3-63> ।।
`सेवसित इति वक्ष्यति । प्राक्सितसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामस्तत्राड्‌व्यवायेऽपि मूर्धन्यो भवतीत्येवं तद्वेदितव्यम्, अपिशब्दादनड्‌व्यवायेऽपि । वक्ष्यति---उपसर्गात्सुनोतिसुवति(8-3-65/2270) इति षत्वम् । अभिषुणोति । परिषुणोति । विषुणोति । निषुणोति । अभ्यषुणोत् । पर्यषुणोत् । व्यषुणोत् । न्यषुणोत् ।।
</8-3-63>
स्थादिष्वभ्यासेन चाभ्यासस्य ।। <8-3-64> ।।
`प्राक्‌ सितात् इति वर्तते । उपसर्गात्सुनोति---(8-3-65/2270) इत्यत्र `स्थासेनयसेध इति स्थादयः, तेषु स्थादिषु प्राक्‌ सितसंशब्दनाद् अभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवतीत्येवं वेदितव्यम् । अभ्यासेन व्यवाये---परितष्ठौ ।
अषोपदेशार्थं च---अभिषिषेणयिषति, परिषिषेणयिषति ।
अवर्णान्ताभ्यासार्थं च---अभितष्ठौ, परितष्ठौ।
षणि प्रतिषेधार्थं च---अभिषिषिक्षति, परिषिषिक्षति ।
`अभ्यासस्य इति वचनं नियमार्थम्---स्थादिष्वेवाभ्याससकारस्य मूर्धन्यो भवति, नान्यत्र । अभिसुसूषति, अभिसिषासति ।।
</8-3-64>
उपसर्गात्‌ सुनोतिसुवतिस्यतिस्यौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ।। <8-3-65> ।।
`मूर्धन्यः इति वर्तते, `स इति च । उपसर्गस्थान्निमित्तादुत्तरस्य सुनोति, सुवति, स्यति, स्तौति, स्तोभति, स्था, सेनय, सेध, सिच, सञ्ज, स्वञ्ज---इत्येतेषां सकारस्य मूर्धन्यादेशो भवति ।
सुनोति---अभिषुणोति, परिषुणोति । अभ्यषुणोत्, पर्यषुणोत् ।
सुवति---अभिषुवति, परिषुवति । अभ्यषुवत्, पर्यषुवत् ।
स्यति---अभिष्यति, परिष्यति । अभ्यष्यत्, पर्यष्यत् ।
स्तौति---अभिष्टौति, परिष्टौति । अभ्यष्टौत्, पर्यष्टौत् ।
स्तोभति---अभिष्टोभते, परिष्टोभते । अभ्यष्टोभत, पर्यष्टोभत ।
स्था---अभिष्ठास्यति, परिष्ठास्यति । अभ्यष्ठात्, पर्यष्ठात् । अभितष्ठौ, परितष्ठौ ।
सेनय---अभिषेणयति, परिषेणयति । अभ्यषेणयत्, पर्यषेणयत् । अभिषिषेणयिषति, परिषिषेणयिषति ।
सेध---अभिषेधति परिषेधति । अभ्यषेधत्, पर्यषेधत् ।
सिच---अभिषिञ्चति, परिषिञ्चति । अभ्यषिञ्चत्, पर्यषिञ्चत् । अभिषिषिक्षति, परिषिषिक्षति ।
सञ्ज---अभिषजति, परिषजति । अभ्यषजत्, पर्यषजत् । अभिषिषङ्‌क्षति, परिषिषङ्‌क्षति ।
स्वञ्ज---अभिष्वजते, परिष्वजते । अभ्यष्वजत, पर्यष्वजत । अभिषिष्वङ्‌क्षते, परिषिष्वङ्‌क्षते ।
`सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः ।
उपसर्गादिति किम् ? दधि सिञ्चति । मधु सिञ्चति ।
निर्गताः सेचका अस्माद् देशान्निःसेचको देश इति नायं सिचेरुपसर्गः । अभिसावकीयतीत्यत्रापि न सुनोतिं प्रति क्रियायोगः, किं तर्हि ? सावकीयं प्रति ।
अभिषावयतीत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावयतिमिति षत्वं भवति ।।
</8-3-65>
सदिरप्रतेः ।। <8-3-66> ।।
सदेः सकारस्य उपसर्गस्थान्निमित्तादप्रतेरुत्तरस्य मूर्धन्य आदेशो भवति । निषीदति, विषीदति । न्यषीदत्, व्यषीदत् । निषसाद, विषसाद ।
अप्रतेरिति किम् ? प्रतिसीदति ।।
</8-3-66>
स्तन्भेः ।। <8-3-67> ।।
`उपसर्गात्‌ इति वर्तते । स्तन्भेः सकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य मूर्धन्य आदेशो भवति । अभिष्टभ्नाति, परिष्टभ्नाति । अभ्यष्टभ्नात्, पर्यष्टभ्नात् । अभितष्टम्भ, परितष्टम्भ ।
`अप्रतेः इत्येतदिह नानुवर्तते, तेनैतदपि भवति---प्रतिष्टभ्नाति, प्रत्यष्टभ्नात्, प्रतितष्टम्भ ।।
</8-3-67>
अवाच्चालम्बनाविदूर्ययोः ।। <8-3-68> ।।
अवशब्दादुपसर्गादुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यादेशो भवति । आलम्बनेऽर्थे, आविदूर्ये च । आलम्बनम्=आश्रयणम् । अविदूरस्य भाव आविदूर्यम् । आलम्बने तावत्--अवष्टभ्यास्ते । अवष्टभ्य तिष्ठति । आविदूर्ये---अवष्टब्धा सेना । अवष्टब्धा शरत् ।
आलम्बनाविदूर्ययोरिति किम् ? अवस्तब्धो वृषलः शीतेन । अनिगर्थ आरम्भः ।।
</8-3-68>
वेश्च स्वनो भोजने ।। <8-3-69> ।।
वेरुपसर्गादवाच्चोत्तरस्य भोजनार्थे स्वनतेः सकारस्य मूर्धन्यादेशो भवति । विष्वणति, व्यष्वणत्, विषष्वाण । अवष्वणति, अवाष्वणत्, अवषष्वाण । अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति ।
भोजन इति किम् ? विस्वनति मृदङ्गः ।।
</8-3-69>
परिनिविभ्यः सेवसितसयसिवुसहसुट्‌स्तुस्वन्जाम् ।। <8-3-70> ।।
परि, नि, वि---इत्येतेभ्य उपसर्गेभ्य उत्तरेषां सेव, सित, सय, सिवु, सह, सुट्, स्तु, स्वन्ज---इत्येतेषां सकारस्य पूर्धन्य आदेशो भवति । परिषेवते, निषेवते, विषेवते । पर्यषेवत, न्यषेवत, व्यषेवत । परिषिषेविषते, विषिषेविषते, निषिषेविषिते ।
सित---परिषितः, विषितः, निषितः । सय---परिषयः, निषयः, विषयः ।
सिव्‌---परिषीव्यति, निषीव्यति, विषीव्यति । पर्यषीव्यत्, न्यषीव्यत्, व्यषीव्यत् । पर्यसीव्यत्, न्यसीव्यत्, व्यसीव्यत् ।
सह---परिषहते, निषहते, विषहते । पर्यषहत, न्यषहत, व्यषहत ।
सुट्---परिष्करोति । पर्यष्करोत् ।
स्तु---परिष्टौति, निष्टौति, विष्टौति । पर्यष्टौत्, न्यष्टौत्, व्यष्टौत् । पर्यस्तौत्, न्यस्तौत्, व्यस्तौत् ।
ष्वञ्ज---`दंशसञ्जस्वञ्जाम्(6-4-25/2396) इति नलोपः । परिष्वजते, विष्वजते, निष्वजते । पर्यष्वजत, पर्यस्वजत ।
पूर्वेणैव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्‌व्यवाये विभाषा यथा स्यात् ।।
</8-3-70>
सिवादीनां वाड्‌व्यवायेऽपि ।। <8-3-71> ।।
अनन्तरसूत्रे सिवुसहसुट्‌स्तुस्वञ्जाम्(8-3-70/2275) इति सिवादयः । सिवादीनामड्‌व्यवायेऽपि परिनिविभ्य उत्तरस्य सकारस्य वा मूर्धन्यो भवति । तथा चैवोदाहृतम् ।।
</8-3-71>
अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ।। <8-3-72> ।।
अनु, वि, परि, अभि, नि--इत्येतेभ्य उत्तरस्य स्यन्दतेरप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति । अनुष्यन्दते, विष्यन्दते, परिष्यन्दते, अभिष्यन्दते तैलम्, निष्यन्दते । अनुस्यन्दते, विस्यन्दते, परिस्यन्दते, अभिस्यन्दते, निस्यन्दते ।
अप्राणिष्विति किम् ? अनुस्यन्दते मत्स्य उदके । प्राण्यप्राणिविषयस्यापि स्यन्दतेरयं विकल्पो भवति---अनुष्यन्देते मत्स्योदके, अनुस्यन्देते ।
`अप्राणिषु इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः ।।
</8-3-72>
वेः स्कन्देरनिष्ठायाम् ।। <8-3-73> ।।
वेरुपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम् । विष्कन्ता, विस्कन्ता । विष्कन्तुम्, विस्कन्तुम् । विष्कन्तव्यम्, विस्कन्तव्यम् ।
अनिष्ठायामिति किम् ? विस्कन्नः ।।
</8-3-73>
परेश्च ।। <8-3-74> ।।
परिशब्दाच्चोत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति । परिष्कन्ता, परिष्कन्तुम्, परिष्कन्तव्यम् । परिस्कन्ता, परिस्कन्तुम्, परिस्कन्तव्यम् ।
पृथग्योगकरणसामर्थ्यात् `अनिष्ठायाम् इत्येतन्नानुवर्तते---परिष्कण्णः, परिस्कन्नः ।।
</8-3-74>
परिस्कन्दः प्राच्यभरतेषु ।। <8-3-75> ।।
`परिस्कन्द इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु । पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते ।
परिस्कन्दः । अन्यत्र परिष्कन्दः । अचि निपातनम् । अथ वा---निष्ठातकारस्य लोपः ।
भरतग्रहणं प्राच्यविशेषणम् ।।
</8-3-75>
स्फुरतिस्फुलत्योर्निर्निविभ्यः ।। <8-3-76> ।।
स्फुरतिस्फुलत्योः सकारस्य निस्‌, नि, वि---इत्येतेभ्य उत्तरस्य वा मूर्धन्यादेशो भवति । स्फुरति---निष्ष्फुरति, निस्स्फुरति, निष्फुरति, निस्फुरति । विष्फुरति, विस्फुरति । स्फुलति---निष्ष्फुलति, निस्स्फुलति । निस्फुलति, निस्फुलति । विष्फुलति, विस्फुलति ।।
</8-3-76>
वेः स्कभ्नातेर्नित्यम् ।। <8-3-77> ।।
वेरुत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति । विष्कभ्नाति । विष्कम्भिता । विस्कम्भितुम् । विस्कम्भितव्यम् ।।
</8-3-77>
इणः षीध्वंलुङ्‌लिटां धोऽङ्गात् ।। <8-3-78> ।।
`मूर्धन्य इति वर्तते । इणन्तादङ्गादुत्तरेषां षीध्वंलुङ्‌लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति । च्योषीढ्‌वम् । प्लोषीढ्‌वम् । लुङ्‌--अच्योढ्‌वम् । अप्लोढ्‌वम् । लिट्‌---चकृढ्‌वे, ववृढ्‌वे ।
इण्कोः(8-3-57/211) इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम् । पक्षीध्वम् । यक्षीध्वम् ।
षीध्वंलुङ्‌लिटामिति किम् ? स्तुध्वे । अस्तुध्वम् । अङ्गादिति किम् ? परिवेविषीध्वम् ।
अर्थवद्‌ग्रहणादपि सिद्धम् ? तत्तु नाश्रितम् ।।
</8-3-78>
विभाषेटः ।। <8-3-79> ।।
इणः परस्मादिट उत्तरेषां षीध्वंलुङ्‌लिटां यो धकारस्तस्य मूर्धन्यादेशो भवति विभाषा । लविषीढ्‌वम्, लविषीध्वम् । पविषीढ्‌वम्, पविषीध्वम् । लुङ्‌---अलविढ्‌वम्, अलविध्वम् । लिट्‌---लुलुविध्वे, लुलुविढ्‌वे ।
इण इत्येव---आसिषीध्वम् ।
अथेह कथं भवितव्यम्---उपदिदीयिध्वे ? केचिदाहुः---इणन्तादङ्गादुत्तरस्य इट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेनेति । <K.6.570> अपरेषां दर्शनम्---`अङ्गात् इति निवृत्तम्, `इणः इत्यनुवर्त्तते, ततश्च यकारादेव इणः परोऽनन्तर इडिति पक्षे भवितव्यं मूर्धन्येन इति ।।
</8-3-79>
समासेऽङ्‌गुलेः सङ्गः ।। <8-3-80> ।।
सङ्गसकारस्याङ्‌गुलेरुत्तरस्य मूर्धन्य आदेशो भवति समासे । अङ्‌गुलेः सङ्गः अङ्‌गुलिषङ्गः । अङ्‌गुलिषङ्गा यवागूः । अङ्‌गुलिषङ्गः गाः सादयति ।
समास इति किम् ? अङ्‌गुलेः सङ्गं पश्य ।।
</8-3-80>
भीरोः स्थानम् ।। <8-3-81> ।।
स्थानसकारस्य भीरोरुत्तरस्य मूर्धन्यादेशो भवति । भीरुष्ठानम् । समास इत्येव --- भीरोः स्थानं पश्य ।।
</8-3-81>
<K.6.571>
अग्नेः स्तुत्स्तोमसोमाः ।। <8-3-82> ।।
अग्नेरुत्तरस्य स्तुत्, स्तोम, सोम --- इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमः ।
`अग्नेर्दीर्घात्सोमस्येष्यते। तेनेह न भवति --- अग्निसोमौ माणवकौ । तथा च ज्योतिः = अग्निः, सोमः =
लताविशेषः --- अग्निसोमौ तिष्ठतः ।
समासे इत्येव --- अग्ने सोमः ।।
</8-3-82>
ज्योतिरायुषः स्तोमः ।। <8-3-83> ।।
ज्योतिस्, आयुस्‌ --- इत्येताभ्यामुत्तरस्य स्तोमसकारस्य मूर्धन्यादेशो भवति समासे । ज्योतिष्टोमः । आयुष्टोमः ।
`समासे इत्येव --- ज्योतिः स्तोमं दर्शयति ।
</8-3-83>
<K.6.572>
मातृपितृभ्यां स्वसा ।। <8-3-84> ।।
मातृ, पितृ --- इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति । मातृष्वसा । पितृष्वसा ।
</8-3-84>
मातुःपितुर्भ्यामन्यतरस्याम् ।। <8-3-85> ।।
मातुर्, पितुर्‌ --- इत्येताभ्यामुत्तरस्य स्वसृशब्दस्यान्यतरस्यां मूर्धन्यादेशो भवति समासे । मातुःष्वसा, मातुःस्वस्वा । पितुःष्वसा, पितुःस्वसा । मातुः पितुरिति रेफान्तयोरेतद्‌ग्रहणम् । एकदेशविकृतस्यानन्यत्वाद् विसर्जनीयान्तात् सकारान्ताच्च षत्वं भवति । <K.6.573> समास इत्येव --- वाक्ये मा भूत्‌; मातुः स्वसा इत्येव नित्यं भवति ।।
</8-3-85>
अभिनिसः स्तनः शब्दसंज्ञायाम् ।। <8-3-86> ।।
अभि, निस्‌--इत्येतस्मादुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवति अन्यतरस्यां शब्दसंज्ञायां गम्यमानायाम् । अभिनिष्टानो वर्णः । अभिनिष्टानो विसर्जनीयः । अभिनिस्तानो वर्णः । अभिनिस्तानो विसर्जनीयः ।
शब्दसंज्ञायामिति किम् ? अभिनिस्तनति मृदङ्गः ।
`समासे इति अतः प्रभृति निवृत्तम् ।।
</8-3-86>
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ।। <8-3-87> ।।
उपसर्गस्थान्निमित्तात्प्रादुस्‌शब्दाच्चोतरस्य यकारपरस्याच्परस्य चास्तिसकारस्य मूर्धन्यो भवति । अभिषन्ति, निषन्ति, विषन्ति, प्रादुःषन्ति । अभिष्यात्, निष्यात्, विष्यात्, प्रादुःष्यात् ।
उपसर्गादिति किम् ? दधि स्यात् । मधु स्यात् ।
अस्तीति किम् ? अनुसृतम् । विसृतम् ।
अथासत्यपि अस्तिग्रहणे सकारमेव प्रति उपसर्ग आश्रीयते, प्रादुः शब्दस्य च कृभ्वस्तिष्वेव प्रयोग इत्यन्यत्राप्रसङ्गः ? तथाप्येतत् प्रत्युदाहर्तव्यम्---अनुसूते अनुसूः, अनुस्वोऽपत्यम् अनुसेयः । शुभ्रादित्वाड्‌ ढक्‌(4-1-123/1126), ढे लोपेऽकद्र्वाः(6-4-147/1142) इत्युवर्णलोपः ।
यच्पर इति किम् ? निस्तः । विस्तः । प्रादुस्तः ।।
</8-3-87>
सुविनिर्दुर्भ्यः सुपिसूतिसमाः ।। <8-3-88> ।।
सु, वि, निर्‌, दुर्‌--इत्येतेभ्य उत्तरस्य सुपि, सूति, सम---इत्येतेषां सकारस्य मूर्धन्यादेशो भवति । `सुपि इति स्वपिः कृतसम्प्रसारणो गृह्यते । सुषुप्तः । निःषुप्तः । दुःषुप्तः ।
`सूति इति स्वरूपग्रहणम् । सुषूतिः । विषूतिः । निःषूतिः । दुःषूतिः ।
सम---सुषमम्, विषमम्, निःषमम्, दुःषमम् ।
`सुपेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न ।
हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम् ।।
स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः ।
अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते ।।(म.भा.3-447)
`पूर्वत्रासिद्धीयमद्विर्वचने(पू.प.92) इति कृते षत्वे ततो द्विर्वचनम् ।।
</8-3-88>
निनदीभ्यां स्नातेः कौशले ।। <8-3-89> ।।
नि, नदी---इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्धन्यादेशो भवति कौशले गम्यमाने । निष्णातः कटकरणे । निष्णातो रज्जुवर्तने । नद्यां स्नातीति नदीष्णः । सुपि स्थः(3-2-4/2916) इत्यत्र `सुपि इति योगविभागात्कप्रत्ययः ।
कौशल इति किम् ? निस्नातः । नद्यां स्नातो नदीस्नात इति ।।
</8-3-89>
सूत्रं प्रतिष्णातम् ।। <8-3-90> ।।
`प्रतिष्णातम् इति निपात्यते सूत्रं चेद्भवति । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । प्रतिस्नातमित्येवान्यत्र ।।
</8-3-90>
कपिष्ठलो गोत्रे ।। <8-3-91> ।।
`कपिष्ठलः इति निपात्यते गोत्रविषये । कपिष्ठलो नाम यस्य स कापिष्ठलिः पुत्रः ।
गोत्र इति किम् ? कपेः स्थलं कपिस्थलम् ।।
</8-3-91>
प्रष्ठोऽग्रगामिनि ।। <8-3-92> ।।
`प्रष्ठः इति निपात्यते अग्रगामिन्यभिधेये । प्रतिष्ठत इति प्रष्ठोऽश्वः । अग्रतो गच्छतीत्यर्थः ।
अग्रगामिनीति किम् ? प्रस्थे हिमवतः पुण्ये । प्रस्थो व्रीहीणाम् ।।
</8-3-92>
वृक्षासनयोर्विष्टरः ।। <8-3-93> ।।
`विष्टरः इति निपात्यते वृक्षे आसने च वाच्ये । विपूर्वस्य स्तृणातेः षत्वं निपात्यते । विष्टरो वृक्षः । विष्टरमासनम् ।
वृक्षासनयोरिति किम् ? औलपिवाक्यस्य विस्तरः ।।
</8-3-93>
छन्दोनाम्नि च ।। <8-3-94> ।।
<K.6.581>
`विष्टारः इति निपात्यते । विपूर्वात् `स्तॄ---इत्येतस्माद्धातोः छन्दोनाम्नि च(3-3-34/3205)इत्येवं विहितो घञ् इति `विष्टरःइत्यपि प्रकृते `विष्टार इति विज्ञायते । विष्टारपङ्‌क्तिः छन्दः । विष्टारो बृहतीछन्दः ।
छन्दोनाम्नीति किम् ? पटस्य विस्तारः ।।
</8-3-94>
गवियुधिभ्यां स्थिरः ।। <8-3-95> ।।
गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो भवति । गविष्ठिरः । युधिष्ठिरः ।
गोशब्दादहलन्तादपि एतस्मादेव निपातनात्सप्तम्या अलुग्भवति ।।
</8-3-95>
विकुशमिपरिभ्यः स्थलम् ।। <8-3-96> ।।
वि, कु, शमि, परि --- इत्येतेभ्य उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ।।
</8-3-96>
अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‌क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ।। <8-3-97> ।।
अम्ब, आम्ब, गो, भूमि, सव्य, अप, द्वि, त्रि, कु, शेकु, शङकु, अङ्गु, मञ्जि, पुञ्जि, परमे, बर्हिस्‌, दिवि,अग्नि---इत्येतेभ्य उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति । अम्बष्ठः । आम्बष्ठः । गोष्ठः । भूमिष्ठः । सव्येष्ठः । अपष्ठः । द्विष्ठः । त्रिष्ठः । कुष्ठः । शेकुष्ठः । शङ्कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । परमेष्ठः । बर्हिष्ठः । दिविष्ठः । अग्निष्ठः ।

  • स्थास्थिन्स्थॄणामिति वक्तव्यम् *(म.भा.3-448) । सव्येष्ठाः । परमेष्ठी । सव्येष्ठृसारथिः ।।

</8-3-97>
<K.6.584>
सुषामादिषु च ।। <8-3-98> ।।
सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति । शोभनं साम यस्यासौ सुषामा ब्राह्मणः । दुष्षामा, निष्षामा । निष्षेधः, दुष्षेधः । सुशब्दस्य कर्मप्रवचनीयसंज्ञकत्वान्निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे <K.6.585> सति पाठोऽयम् । सेधतेर्गतौ इति वा प्रतिषेधबाधनार्थः । सुषन्धिः । दुःषन्धिः । निषन्धिः । सुष्ठु । दुष्ठु । तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते । * गौरिषक्थः संज्ञायाम् * । ङ्यापोः संज्ञाछन्दसोर्बहुलम् इति पूर्वपदस्य ह्रस्वत्वम् । प्रतिष्णिका । प्रतिष्णाशब्दादयं कन्प्रत्ययः । <K.6.586> जलाषाहम् । नौषेचनम् । दुन्दुभिषेवणम् ।

  • एति संज्ञायामगात् * । एकारपरस्य सकारस्य मूर्धन्यादेशो भवति इण्कोरुत्तरस्यागकारात्परस्य संज्ञायां विषये । हरिषेणः । वारिषेणः । जानुषेणी ।

एतीति किम् ? हरिसक्थम् । संज्ञायामिति किम् ? पृथ्वी सेना यस्य स पृथुसेनः राजा । अगादिति किम् ? विष्वक्सेनः । `इण्कोः इत्येव --- सर्वसेनः ।

  • नक्षत्राद्वा *। नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति संज्ञायामगकाराद्, मूर्धन्यो भवति । रोहिणीषेणः, रोहिणीसेनः । भरणीषेणः, भरणीसेनः । <K.6.587> अगकारादित्येव --- शतभिषक्सेनः । अविहितलक्षणो मूर्धन्यः । सुषामादिषु द्रष्टव्यः ।।

</8-3-98>
ह्रस्वात्तादौ तद्धिते ।। <8-3-99> ।।
ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति तादौ तद्धिते परतः । तरप्, तमप्, तय, त्व, तल्, तस्, त्यप् --- एतानि प्रयोजयन्ति । तरप्‌ -- सर्पिष्टरम्, यजुष्टरम् । तमप् --- सर्पिष्टमम्, यजुष्टमम् । तय --- चतुष्टये ब्राह्मणानां निकेताः । त्व --- सर्पिष्ट्‌वम्, यजुष्ट्‌वम् । तल्‌ --- सर्पिष्टा, यजुष्टा । तस्‌ --- सर्पिष्टः, यजुष्टः । त्यप्‌ --- `आविष्ट्यः वर्द्धते। ह्रस्वादिति किम् ? गीस्तरा, धूस्तरा । तादाविति किम् ? <K.6.588> सर्पिस्साद्भवति । प्रत्ययसकारस्य सात्पदाद्योः इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् ।
तद्धित इति किम् ? सर्पिस्तरति ।

  • तिङन्तस्य प्रतिषेधो वक्तव्यः * । भिन्द्युस्तराम् । छिन्द्युस्तराम् ।।

</8-3-99>
निसस्तपतावनासेवने ।। <8-3-100> ।।
<K.6.589>
निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे । आसेवनम् = पुनः पुनः करणम् । निष्टपति सुवर्णम् । सकृदग्निं स्पर्शयतीत्यर्थः । अनासेवन इति किम् ? निस्तपति सुवर्णं सुवर्णकारः । पुनःपुनरग्निं स्पर्शयतीत्यर्थः । `निष्ठप्तं रक्षो निष्टप्ता अरातयः इत्यत्र सदप्यासेवनं न विवक्ष्यते । छान्दसो वा वर्णविकारः ।
</8-3-100>
युष्मत्तत्ततक्षुःष्वन्तः पादम् ।। <8-3-101> ।।
युष्मत् तत्, ततक्षुस्---इत्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति से चेत् सकारोऽन्तः पादं भवति । युष्मदादेशाः---त्वम्, त्वाम्, ते, तव । अग्निष्ट्‌वं नामासीत्, । त्वा---अग्निष्ट्‌वा वर्धयामसि । ते---`अग्निष्टे
विश्वमानय(आप.गृ4-10-17) । तव---`अप्स्वग्ने सधिष्टव(ऋ.8-43-9) । तत्---`अग्निष्टद्विश्वमापृणाति(ऋ.10-2-4) । ततक्षुस्‌---`द्यावापृथिवी निष्टतक्षुः(ऋ.10-31-7) ।
अन्तः पादमिति किम् ? `यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः(तै.सं.3-2-5-4) ।।
</8-3-101>
यजुष्येकेषाम् ।। <8-3-102> ।।
यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति । अर्चिभिष्ट्‌वम्, अर्चिभिस्त्वम् । अग्निष्टेऽग्रम्, `अग्निस्तेऽग्रम्(तै.3-5-6-2) । `अग्निष्टत्(तै.1-1-14-5), `अग्निस्तत्(तै.3-2-5-4) । अर्चिर्भिष्टतक्षुः । अर्चिर्भिस्ततक्षुः ।।
</8-3-102>
स्तुतस्तोमयोश्छन्दसि ।। <8-3-103> ।।
`एकेषाम् इति वर्तते । स्तुत, स्तोम---इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवति एकेषामाचार्याणां मतेन । त्रिभिष्टुतस्य, त्रिभिस्तुतस्य । `गोष्टोमं(तै.सं.7-4-11-1) षोडशिनम्, गोस्तोमं षोडशिनम्(आप.श्रौ.23-12-18) ।
`पूर्वपादत् इत्येव सिद्धे प्रपञ्चार्थमिदम् ।।
</8-3-103>
पूर्वपदात् ।। <8-3-104> ।।
`छन्दसि इति वर्त्तते, `एकेषाम् इति च । पूर्वपदस्थान्निमित्तादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन । `द्विषन्धिः(मै.3-8-2), द्विसन्धिः । `त्रिषन्धिः(मै.3-8-2), त्रिसन्धिः । मधुष्ठानम्, मधुस्थानम् । `द्विषाहस्रं चिन्वीत(तै.5-6-8-2), द्विसाहस्रं चिन्वीत ।
असमासेऽपि यत्पूर्वपदं तदपीह गृह्यते । `त्रिः षमृद्धत्वाय(ऐ.ब्रा.2-16), त्रिः समृद्धत्वाय ।।
</8-3-104>
सुञः ।। <8-3-105> ।।
`सुञ इति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तादुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये । `अभीषुणः सखीनाम्(ऋ.4-31-3) । `ऊर्ध्व ऊषुणः(ऋ.1-16-13) । इकः सुञि(6-4-134/3536) इति दीर्घः । नश्च धातुस्थोरुषुभ्यः(8-4-27/3649) इति णत्वम् ।।
</8-3-105>
सनोतेरनः ।। <8-3-106> ।।
सनोतेरनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति । `गोषाः(ऋ.9-2-10) । `नृषाः(ऋ.9-2-10) ।
अन इति किम् ? `गोसनिं वाचमुदीरयन्(अ.वे.3-20-10) ।
`पूर्वपदात् इत्येव सिद्धे नियमार्थमिदम् । अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवतीति सिसानयिषतीति प्रत्युदाहरन्ति । सिसनिषतेरप्रत्ययः । सिसनीरित्यपरे ।
</8-3-106>
सहेः पृतनर्ताभ्यां च ।। <8-3-107> ।।
पृतना, ऋत---इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति । `पृतनाषाहम्(ऋ.6-72-5) । ऋतीषाहम् ।
केचिद् `सहः इति योगविभागं कुर्वन्ति---`ऋतीषहम्(ऋ.6-14-4)इत्यत्रापि यथा स्यात् । ऋतिशब्दस्य पूर्वपदस्य संहितायामेतद्दीर्घत्वम्, षत्वं च । अवग्रहे तु ऋतिसहमित्येव भवति । चकारोऽनुक्तसमुच्चयार्थः । तेन ऋतीषहमिति सिद्धम् ।।
</8-3-107>
न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ।। <8-3-108> ।।
रेफपरस्य सकारस्य सृपि, सृजि, स्पृशि, स्पृहि, सवनादीनां च मूर्धन्यो न भवति । रपर---`विस्रंसिकायाः काण्डं
जुहोति(मै.2-6-1) । विस्रब्धः कथयति । सृपि---`पुरा क्रूरस्य विसृपः(वा.सं.1-28) । सृजि---बाचो विसर्जनात् । स्पृशि---`दिविस्पृशम्(ऋ.1-142-8) । स्पृहि----निस्पृहं कथयति ।
सवनादीनाम्---सवने सवने । सूतेसूते । सामेसामे । सवनमुखेसवनमुखे । किं स्यतीति किंसंकिंसम् । अनुसवनमनुसवनम् । `गोसनिं(अ.वे.3-20-10) गोसनिम् । अश्वसनिमश्वसनिम् । पूर्वपदादिति प्राप्ते प्रतिषेधः ।
अश्वसनिग्रहणमनिणोऽपि षत्वमस्तीति ज्ञापनार्थम् । तेन जलाषाहम्, अश्वषाहमित्येतत्सिद्धं भवति ।
क्वचिदेवं गणपाठः---सवनेसवने । अनुसवनेऽनुसवने । संज्ञायां बृहस्पतिसवः । शकुनिसवनम् । सोमेसोमे । सूतेसूते । संवत्सरेसंवत्सरे । किंसंकिंसम् । बिसंबिसम् । मुसलंमुसलम् । गोसनिमश्वसनिम् । सवनादिः ।।
</8-3-108>
सात्पदाद्योः ।। <8-3-109> ।।
`सात् इत्येतस्य, पदादेश्च मूर्धन्यादेशो न भवति विभाषा साति कार्त्स्न्ये(5-4-52/2122) । प्रत्ययसकारत्वात् प्राप्तिः, पदादेश्चादेशसकारत्वात् । सात्--अग्निसात्, दधिसात्, मधुसात् । पदादेः---दधि सिञ्चति । मधु सिञ्चति ।।
</8-3-109>
सिचो यङि ।। <8-3-110> ।।
सिचः सकारस्य यङि परतो मूर्धन्यादेशो न भवति । परिसेसिच्यते । अभिसेसिच्यते ।
उपसर्गात्(8-3-65/2270) इति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेदधं बाधते, न `सिचो यङि इति । तस्मादयं प्रतिषेधः सर्वत्र भवति ।
यङीति किम् ? अभिषिषिक्षति ।।
</8-3-110>
सेधतेर्गतौ ।। <8-3-111> ।।
गतौ वर्त्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति । अभिसेधयति गाः । परिसेधयति गाः ।
गताविति किम् ? शिष्यमकार्यात् प्रतिषेधयति ।।
</8-3-111>
प्रतिस्तब्धनिस्तब्धौ च ।। <8-3-112> ।।
प्रतिस्तब्ध, निस्तब्ध---इत्येतौ मूर्धन्यप्रतिषेधाय निपात्येते । स्तन्भेः(8-3-67/2272) इति प्राप्तं षत्वं प्रतिषिध्यते । प्रतिस्तब्धः । निस्तब्धः ।।
</8-3-112>
सोढः ।। <8-3-113> ।।
सहिरयं सोड्‌भूतो गृह्यते, तस्य सकारस्य मूर्धन्यादेशो न भवति । परिसोढः, परिसोढुम्, परिसोढव्यम् ।
सोड्‌भूतग्रहणं किम् ? परिषहते ।।
</8-3-113>
स्तम्भुसिवुसहां चङि ।। <8-3-114> ।।
स्तम्भु, सिवु, सह---इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति । स्तन्भेः(8-3-77/2272) इति परिनिविभ्यः(8-3-70/2275) इति च प्राप्तो मूर्धन्यः प्रतिषिध्यते । स्तम्भु--- पर्यतस्तम्भत्‌, अभ्यतस्तन्बत् । सिवु---पर्यसीषिवत्, न्यसीषिवत् । सह---पर्यसीषहत्, व्यसीषहत् ।

  • स्तम्भुसिवुसहां चङि उपसर्गादिति वक्तव्यम् * (म.भा.3-450)। उपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिस्तस्या मा भूदिति । तथा चैवोदाहृतम् ।।

</8-3-114>
सुनोतेः स्यसनोः ।। <8-3-115> ।।
सुनोतेः सकारस्य मूर्धन्यादेशो न भवति स्ये सनि च परतः । अभिसोष्यति । परिसोष्यति । अभ्यसोष्यत् ।
पर्यसोष्यत् ।
सनि किमुदाहरणम् ? अभिसुसूषति । नैतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात्(8-3-71/2627) इति नियमान्न भविष्यति । इदं तर्हि---अभिसुसूषते ? एतदपि नास्ति; स्थादिष्वभ्यासेन चाभ्यासस्य(8-3-64/2277) इति नियमात् । इदं तर्ह्यभिसुसूषतेरप्रत्ययः अभिसुसूरित्युदाहरणमिति ? अत्र हि सन्षभूतो न भवतीत्यभ्यासात् प्राप्तिरस्ति ।
स्यसनोरिति किम् ? सुषाव ।।
</8-3-115>
सदिस्वञ्ज्योः परस्य लिटि ।। <8-3-116> ।।
सदि, स्वञ्जि---इत्येतयोर्धात्वोर्लिटि परतः सकारस्य परस्य मूर्धन्यो न भवति । अभिषसाद, परिषसाद, निषसाद, विषसाद । परिषस्वजे, परिषस्वजाते, परिषस्वजिरे । अभिषस्वजे । स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वमिच्छन्तीति पक्षेऽनुषङ्गलोपः ।।
</8-3-116>
निव्यभिभ्योऽड्‌व्यवाये वा छन्दसि ।। <8-3-117> ।।
नि, वि, अभि---इत्येतेभ्य उपसर्गेभ्य उत्तरस्य सकारस्याड्‌व्यवाये छन्दसि विषये मूर्धन्यादेशो न भवति वा । न्यषीदत्पिता नः, न्यसीदत् । व्यषीदत्पिता नः, व्यसीदत् । अभ्यषीदत्, अभ्यसीदत् ।
`सदिष्वन्ज्योः इति, तदिह नानुवर्त्तते, सामान्येनैव तद्वचनम् । व्यष्टौत्, व्यस्तौत्; अभ्यष्टौत्, अभ्यस्तौत्---इत्येतदपि सिद्धं भवति ।।
     इति श्रीवामनाचार्यविरचितायां काशिकावृत्तौ अष्टमाध्यायस्य तृतीयः पादः
</8-3-117>