काशिकावृत्तिः/चतुर्थोध्यायः
← तृतीयोध्याय: | काशिकावृत्तिः चतुर्थोध्यायः [[लेखकः :|]] |
पञ्चमोध्यायः → |
चतुर्थोऽध्यायः प्रथमः पादः ।
____________________________________________________________________
- <ङ्य्-आप्-प्रातिपदिकात्># । । PS_४,१.१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१ः
अधिकारोऽयं ।
यदित ऊर्ध्वं अनुक्रमिष्यामः आअपञ्वमाध्याय-परिसमाप्तेः ङ्य्-आप्-प्रातिपदिकादित्येवं तद्वेदितव्यं ।
स्व-आदिषु कप्पर्यंतेषु प्रकृतिरधिक्रियते ।
ङीब्-ङीष्-ङीनां सामान्येन ग्रहणं ङी इति, टाब्-डाप्-चापां आपिति, प्रातिपदिकं उक्तं अर्थवत्, कृत्-तद्धित-समासाश्च (*१,२.४६) इति, तेषां समाहार-निर्देशो ङ्य्-आप्-प्रातिपदिकातिति ।
यद्यपि च प्रत्यय-परत्वेन पारिशेष्यादियं एव प्रकृतिर्लभ्यते, तथा अपि वृद्धावृद्धावर्णस्वरद्व्यज्-लक्षण-प्रत्यय-विधौ तत्-संप्रत्यय-अर्थं ङ्य्-आप्-प्रातिपदिक-ग्रहणं कर्तव्यम्, इतरथा हि समर्थ-विशेषणं एतत्स्याथ् ।
अथ ङ्य्-आप्-ग्रहणं किम्, न प्रातिपदिक-ग्रहणे लिङ्ग-विशिष्टस्य अपि ग्रहणं भवति इत्येव सिद्धं ? न+एतदस्ति ।
स्वरूपविधि-विषये परिभाषेयं प्रातिपदिक-स्वरूप-ग्रहणे सति लिङ्ग-विशिष्त-ग्रहणं भवति इति ।
तथा च युवा खलति-पलित-वलिन-जरतीभिः (*२,१.६७) इति ज्ञापकमस्यास्तादृशं एव ।
किं च तदन्तात्तद्धित-विधान-अर्थं ङ्य्-आब्-ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति ।
विप्रतिषेधाद्धि तद्धित-बलीयस्त्वं स्यात् । ।
____________________________________________________________________
- <स्व्-औ-जस्-अम्-औट्-छष्-टा-भ्यां-भिस्-ङेभ्याम्-भ्यस्-ङसि-भ्यां-भ्यस्-ङस्-ओस्-आम्-ङ्य्-ओस्-सुप्># । । PS_४,१.२ । ।
_____Sठाऱ्ठ्JKव्_४,१.२ः
ङ्य्-आप्-प्रातिपदिकात्(*४,१.१) इत्यधिकृतं ।
ङ्य्-आप्-प्रातिपदिकात्स्वादयः प्रत्यया भवन्ति ।
उकारादयोऽनुबन्धा यथायोगं उच्चारण-विशेषण-अर्थाः ।
औटः टकारः सुटिति प्रत्याहार-ग्रहण-अर्थः ।
पकारः सुपिति प्रत्याहार-अर्थः ।
सङ्ख्याकर्मादयश्च स्वादीनां अर्थाः शास्त्रान्तरेण विहितास्तेन सह अस्य+एकवाक्यता ।
ङ्य्-अन्तात्तावत्- कुमारी ।
गौरी ।
शार्ङ्गरवी ।
ङीब्-ङीष्-ङीनां क्रमेण उदाहरणं ।
कुमारी, कुमार्यौ, कुमार्यः ।
कुमारीम्, कुमार्यौ, कुमारीः ।
कुमार्या, कुमारीभ्याम्, कुमारीभिः ।
कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः ।
कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः ।
कुमार्याः, कुमार्योः, कुमारीणां ।
कुमार्याम्, कुमार्योः, कुमारीषु ।
एवं गौरी, शार्ङ्गरवी चोदाहार्ये ।
आपः खल्वपि - खट्वा ।
बहुराजा ।
कारीषगन्ध्या ।
टाब्-डाप्च्-आपां क्रमेण+उदाहरणं ।
[#३१८]
खट्वा, खट्वे, खट्वाः ।
खट्वाम्, खट्वे, खट्वाः ।
खट्वया, खट्वाभ्याम्, खट्वाभिः ।
खट्वायै, खट्वाभ्याम्, खट्वाभ्यः ।
खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः ।
खट्वायाः खट्वयोः, खट्वानां ।
खट्वायाम्, खट्वयोः, खट्वासु ।
एवं बहुराजाकारीषगन्ध्ये च+उदाहार्ये ।
एवं प्रातिपदिकात्- दृषद्, दृषदौ, दृषदः ।
दृषदम्, दृषदौ, दृषदः ।
दृषदा, दृषद्भ्याम्, दृषद्भिः ।
दृसदे, दृषद्भ्याम्, दृषद्भ्यः ।
दृषदः, दृषद्भ्याम्, दृषद्भ्यः ।
दृषदः, दृषदोः, दृषदां ।
दृषदि, दृषदोः, दृषत्सु । ।
____________________________________________________________________
- <स्त्रियाम्># । । PS_४,१.३ । ।
_____Sठाऱ्ठ्JKव्_४,१.३ः
अधिकारोऽयं ।
यदिति ऊर्ध्वं अनुक्रमिष्यामः स्त्रियां इत्येवं तद्वेदितव्यं ।
ङ्य्-आप्-प्रातिपदिकात्(*४,१.१) इति सर्वाधिकारेऽपि प्रातिपदिक-मात्रं अत्र प्रकरणे सम्बध्यते, ण्य्-आपोरनेन+एव विधानाथ् ।
स्त्रियां इत्युच्यते ।
केयं स्त्री नाम ? सामान्य-विशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः ।
क्वचिदाश्रय-विशेषाभावातुपदेश-व्यङ्गया एव भवन्ति, यथा ब्राह्मणत्वादयः ।
स्त्रीत्वं च प्रत्यय-अर्थः ।
प्रकृत्यर्थ-विशेषणं च इत्युभयथा अपि प्रयुज्यते, स्त्रियां अभिधेयायां स्त्रियां वा यत्प्रातिपदिकं वर्तते इति ।
____________________________________________________________________
वक्ष्यति -
- <अजाद्य्-अतष्टाप्># । । PS_४,१.४ । ।
_____Sठाऱ्ठ्JKव्_४,१.४ः
अजा ।
देवदत्ता ।
स्त्रियां इति किं ? अजः ।
देवदत्तः । ।
अजाद्य्-अतष्टाप्(*४,१.४) ।
अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच्च प्रातिपदिकात्स्त्रियां टाप्प्रत्ययो भवति ।
पकारः सामान्यग्रहण-अर्थः ।
टकारः सामान्यग्रहण-अविघातार्थः ।
अजा एडका ।
कोकिला ।
चटका ।
अश्वा ।
खट्वा ।
देवदत्ता ।
तपरकरणं तत्काल-अर्थं ।
शुभंयाः ।
कीलालपाः ब्राह्मणी ।
हल्-ङ्य्-आब्भ्यो दीर्घात्सु-ति-स्य्-अपृक्तं हल्(*६,१.६८) इति सु-लोपः स्याथ् ।
अजादि-ग्रहणं तु क्वचिज्जाति-लक्षणे ङीषि प्राप्ते, क्वचित्तु पुंयोग-लक्षणे, क्वचित्तु पुष्प-फल-उत्तरलक्षणे, क्वचित्तु वयो-लक्षणे ङीपि, क्वचिट्टिल्लक्षणे ।
हलन्तानां तवप्राप्त एव कस्मिंश्चिदाब्विधीयते ।
शूद्रा च अमहत्पूर्वा जातिः इति पठ्यते ।
तस्य अयं अर्थः ।
शूद्र-शब्दष्टापं उत्पादयति जातिश्चेद्भवति ।
शूद्रा ।
पुंयोगे ङीषैव भवितव्यं ।
शूद्रस्य भार्या शूद्री ।
महत्पूर्वस्य प्रतिषेधः ।
महाशूद्री ।
महाशूद्र-शब्दो ह्याभीरजातिवचनः, तत्र तदन्त-विधिना टाप्प्राप्तः प्रतिषिध्यते ।
ग्रहणवता प्रातिपदिकेन तदन्त-विधिर्न इति कथं तदन्त-विधिः ? एतदेव ज्ञापकं भवति अस्मिन्प्रकरणे तदन्त-विधिः इति ।
तेन अतिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति ।
[#३१९]
अजा, एडका, चटका, अश्वा, मूसिका इति जातिः ।
बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः ।
पूर्वापहाणा, अपरापहाणा ।
टित्, निपतनाण्णत्वं ।
संभस्त्राजीनशणपिण्डेभ्यः फलाथ् ।
सम्फला ।
भस्त्रफला ।
अजिनफला ।
शणफला ।
पिण्डफला ।
त्रिफला द्विगौ ।
बहुव्रीहौ त्रिफली संहतिः ।
सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पाथ् ।
सत्पुष्पा ।
प्राक्पुष्पा ।
कान्डपुष्पा ।
प्रान्तपुष्पा ।
शतपुष्पा ।
एकपुष्पा ।
पाककर्ण इति ङीषोऽपवादः ।
शूद्रा च अमहत्पूर्वा जातिः ।
क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः ।
ज्येष्टा, कनिष्ता, मध्यमा पुंयोगः ।
कोकिला जातिः ।
मूलान्नञः ।
अमूला । ।
____________________________________________________________________
- <ऋन्-नेभ्यो ङीप्># । । PS_४,१.५ । ।
_____Sठाऱ्ठ्JKव्_४,१.५ः
ऋ-कारान्तेभ्यो न-कारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप्प्रत्ययो भवति ङ-कारः सामान्यग्रहण-अर्थः ।
कर्त्री ।
हर्त्री ।
दण्डिनी ।
छत्रिणी । ।
____________________________________________________________________
- <उगितश्च># । । PS_४,१.६ । ।
_____Sठाऱ्ठ्JKव्_४,१.६ः
उगिति यत्र सम्भवति यथाकथंचित्तदुगिच्-छाब्द-रूपं, तदन्तात्स्त्रियां ङीप्प्रत्ययो भवति ।
भवती ।
अतिभवती ।
पचन्ती ।
यजन्ती ।
धातोरुगितः प्रतिषेधो वक्तव्यः ।
उखास्रथ् ।
पर्णध्वत्ब्राह्मणी ।
अञ्चतेश्च+उपसङ्ख्यानं ।
प्राची ।
प्रतीची ।
उदीची । ।
____________________________________________________________________
- <वनो र च># । । PS_४,१.७ । ।
_____Sठाऱ्ठ्JKव्_४,१.७ः
वन्नन्तात्प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति, रेफश्चान्तादेशः ।
धीवरी ।
पीवरी ।
शर्वरी ।
परलोकदृश्वरी ।
ऋन्-नेभ्यो ङीप्(*४,१.५) इत्येव ङीपि सिद्धे तत्-सन्नियोगेन रेफ-विधान-अर्थं वचनं ।
वनो न हशः ।
प्राप्तौ ङीव्रौ उभावपि प्रतिषिध्येते ।
सहयुध्वा ब्राह्मणी । ।
____________________________________________________________________
[#३२०]
- <पादोऽन्यतरस्याम्># । । PS_४,१.८ । ।
_____Sठाऱ्ठ्JKव्_४,१.८ः
पादः इति कृत-समासान्तः पाद-शब्दो निर्दिश्यते ।
पादन्तात्प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप्प्रत्ययो भवति ।
द्विपात्, द्विपदी ।
त्रिपाथ् ।
त्रिपदी ।
चतुष्पाद्, चतुष्पदी । ।
____________________________________________________________________
- <टाबृचि># । । PS_४,१.९ । ।
_____Sठाऱ्ठ्JKव्_४,१.९ः
पादः इत्येव ।
ऋचि इत्यभिधेय-निर्देशः ।
ऋचि वाच्यायां पादन्तात्प्रातिपदिकात्स्त्रियां टाप्प्रत्ययो भवति ।
ङीपोऽपवादः ।
द्विपदा ऋक् ।
त्रिपदा ऋक् ।
चतुष्पदा ऋक् ।
ऋचि इति किं ? द्विपदी देवदत्ता । ।
____________________________________________________________________
- <न षट्स्वस्रादिभ्यः># । । PS_४,१.१० । ।
_____Sठाऱ्ठ्JKव्_४,१.१०ः
षट्-सञ्ज्ञाकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्री-प्रत्ययो न भवति ।
यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते ।
पञ्च ब्राह्मण्यः ।
सप्त ।
नव ।
दश ।
स्वस्रादिभ्यः - स्वसा ।
दुहिता ।
ननान्दा ।
याता ।
माता ।
तिस्रः ।
चतस्रः ।
षट्सञ्ज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यथ् ।
प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्न+उभौ । ।
____________________________________________________________________
- <मनः># । । PS_४,१.११ । ।
_____Sठाऱ्ठ्JKव्_४,१.११ः
मन्नन्तात्प्रातिपदिकात्ङीप्प्रत्ययो न भवति ।
ऋन्-नेम्यो ङीप्(*४,१.५) इति ङीप्प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते ।
दामा, दामानौ, दामानः ।
पामा, पामानौ, पामानः ।
अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति ।
सीमा, सीमानौ, सीमानः ।
अतिमहिमा, अतिमहिमानौ, अतिमहिमानः । ।
____________________________________________________________________
- <अनो बहुव्रीहेः># । । PS_४,१.१२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२ः
अन्नन्ताद्बहुव्रीहेः स्त्रियां ङीप्प्रत्ययो न भवति ।
अनुपधालोपी बहुव्रीहिरिह+उदाहरणं ।
उपधालोपिनो हि विकल्पं वक्ष्यति ।
सुपर्वा, सुपर्वाणौ, सुपर्वाणः ।
सुशर्मा, सुशर्माणौ, सुशर्माणः ।
बहुव्रीहेः इति किं ? अतिक्रान्ता राजानं अतिराजी । ।
____________________________________________________________________
[#३२१]
- <डाबुभाभ्यां अन्यतरस्याम्># । । PS_४,१.१३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३ः
डाप्प्रत्ययो भवति उभाभ्यां मन्नन्तात्प्रातिपदिकातनन्ताच्च बहुव्रीहेरन्यतरस्यां ।
पामा, पामे, पामाः ।
सीमा, सीमे, सीमाः ।
न च भवति ।
पामानः ।
सीमानः ।
बहुव्रीहौ - बहुराजा, बहुराजे, बहुराजाः ।
बहुतक्षा, बहुतक्षे, बहुतक्षाः ।
न च भवति ।
बहुराजानः ।
बहुतक्षाणः ।
अन्यतरस्यां-ग्रहणं किमर्थं ? बहुव्रीहौ, वनो र च (*४,१.७) इत्यस्य अपि विकओपो यथा याथ् ।
बहुधीवा, बहुधीवरी ।
बहुपीवा, बहुपीवरी । ।
____________________________________________________________________
- <अनुपसर्जनात्># । । PS_४,१.१४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४ः
अधिकारोऽयं ।
उत्तरसूत्रेषु उपसर्जने प्रतिषेधं करोति ।
यदिति ऊर्ध्वं अनुक्रमिष्यामोऽनुपसर्जनातित्येवं तद्वेदितव्यं ।
टिड्-ढ-अण्-अञिति ङीप् ।
कुरुचरी ।
मद्रचरी ।
अनुपसर्जनातिति किं ? बहुकुरुचरा, बहुमद्रचरा मधुरा ।
जातेः इति ङीष् ।
कुक्कुटीइ ।
शूकरी ।
अनुपसर्जनातिति किं ? बहुकुक्कुटा, बहुशूकरा मधुरा ।
कथं पुनरुपसर्जनात्प्रत्ययप्रस्ङ्गः ? तदन्तविधिना ।
ज्ञापितं च+एतदस्त्यत्र प्रकरणे तदन्तविधिः इति ।
तथा च प्रधानेन तदनतविधिर्भवति ।
कुम्भकारी ।
नगरकारी ।
न च अणिति कृद्-ग्रहणं, तद्धितोऽप्यणस्ति । ।
____________________________________________________________________
- <टिड्-ढ-अण्-अञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरप्ख्युनाम्># । । PS_४,१.१५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५ः
अतः इति सर्वत्र अनुवरतते ।
तत्सति सम्भवे विशेषणं भवति ।
टिद्-आदिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप्प्रत्ययो भवति ।
टापोऽपवादः ।
टितस्तावत्- कुरुचरी ।
मद्रचरी ।
इह कस्मान्न भवति, पचमाना, यजमाना ? द्व्य्-अनुबन्धकत्वाल्लटः ।
ल्युड्-आदिषु कथं ? टित्-करण-सामर्थ्याथ् ।
इतरत्र तु टेरेत्वं फलं ।
पठिता विद्या इति ? आगमटित्त्वं अनिमित्तं, ट्युट्युलौ तुट्च इति लिङ्गाथ् ।
ढ - सौपर्णेयी ।
वैनतेयी ।
निरनुबन्धको ढ-शब्दः स्त्रियां न अस्ति इति निरनुबन्धक-परिभाषा न प्रवर्तते ।
अण्- कुम्भकारी ।
नगरकारी ।
औपगवी ।
णेऽपि क्वचिदण्कृतं कार्यं भवति ।
चौरी, तापसी ।
दाण्डा, मौष्टा इत्यत्र न भवति ।
अञ्- औत्सी ।
औदपानी ।
शार्ङ्गरव-आद्य्-अञो ङीन्(*४,१.७३) इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुं ।
द्वयसच्- ऊरुद्वयसी ।
जानुद्वयसी ।
दघ्नच्- ऊरुदघ्नी ।
जानुदघ्नी ।
[#३२२]
मात्रच्- ऊरुमात्री ।
जानुमात्री ।
तयप्- पञ्चतयी ।
दशतयी ।
ठक्- आक्षिकी ।
शालाकिकी ।
ठञ्- लावणिकी ।
ठक्ठञोर्भेदेन ग्रहणं ठनादि-निवृत्त्य्-अर्थं ।
कञ्- यादृशी ।
तादृशी ।
क्वरप्- इत्वरी ।
नश्वरी ।
ख्युन्- आढ्यङ्करणी ।
सुभगंकरणी ।
नञ्स्नञीकक्तरुणतलुनानां उपसङ्ख्यानं ।
स्त्रैणी ।
प्ॐस्नी ।
शाक्तीकी ।
याष्टीकी ।
तरुणी ।
तलुनी । ।
____________________________________________________________________
- <यञश्च># । । PS_४,१.१६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६ः
ङीपित्येव ।
यञन्ताच्च प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति ।
गार्गी ।
वात्सी ।
अपत्यग्रहणं कर्तव्यं ।
इह मा भूत्, द्वीपादनुसमुद्रं यञ्(*४,३.१०) द्वैप्या ।
योग-विभागः उत्तर-अर्थः । ।
____________________________________________________________________
- <प्राचां ष्फ तद्धितः># । । PS_४,१.१७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७ः
यञः इत्येव ।
प्राचां आचार्याणां मतेन यञन्तात्स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धित-सञ्ज्ञः ।
षकारो ङीष्-अर्थः ।
प्रत्ययद्वयेन+इह स्त्रीत्वं व्यज्यते ।
तद्धित-ग्रहणं प्रातिपदिकसञ्ज्ञ-अर्थं ।
गार्ग्यायणी ।
वात्स्यायनी ।
अन्येषां - गार्गी ।
वात्सी ।
सर्वत्र-ग्रहणं उत्तरसूत्रादिह अपकृष्यते बाधकबाधन-अर्थं ।
आवट्यात्चापं वक्ष्यति, तं अपि बाधित्वा प्राचां ष्फ एव यथा स्याथ् ।
आवट्यायनी । ।
____________________________________________________________________
- <सर्वत्र लोहितादि-कतन्तेभ्यः># । । PS_४,१.१८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१८ः
यञः इत्येव ।
पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनं ।
सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यः यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति ।
कतशब्दः स्वतन्त्रं यत्प्रातिपदिकं तदवधित्वेन परिगृह्यते कपि-शब्दात्परः कपि कत इति , न प्रतिपदिकावयवः कुरुकतेति ।
लौहित्यायनी ।
शांसित्यायनी बाभ्रव्यायणी ।
कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते ।
पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनं । ।
प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्यः इति मन्यते ।
कतन्तेभ्यः इति बहुव्रीहि-तत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे (*४,२.१११) इति ।
तत्र तत्पुरुष-वृत्त्या संगृहीतो मध्यपाती शकल-शब्दो यञन्तः प्रत्ययद्वयं अपि प्रतिपद्यते ।
शाकल्यायनी ।
शाकल्यस्य+इमे छात्राः शाकलाः । ।
____________________________________________________________________
[#३२३]
- <कौरव्य-माण्डूकाभ्यां च># । । PS_४,१.१९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१९ः
कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति ।
कुर्वादिभ्यो ण्ये कृते, ढक्च म्ण्डूकात्(*४,१.११९) इत्यणि च ।
यथाक्रमं टाब्-ङीपोरपवादः ।
कौरव्यायणी ।
माण्डूकायनी ।
कथं कौरवी सेना ? तस्य+इदं विवक्षायां अणि कृते भविष्यति ।
कौरव्य-माण्डूकयोरासुरेरुपसङ्ख्यानं ।
आसुरायणी ।
शैषिकेष्वर्थेषु इञ्श्च (*४,२.११२) इत्यणि प्राप्ते छप्रत्यय इष्यते ।
आसुरीयः कल्पः । ।
____________________________________________________________________
- <वयसि प्रथमे># । । PS_४,१.२० । ।
_____Sठाऱ्ठ्JKव्_४,१.२०ः
कालकृतशसीरावस्था यौवनादिः वयः ।
प्रथमे वयसि यत्प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप्प्रत्ययो भवति ।
कुमारी ।
किशोरी ।
बर्करी ।
प्रथमे इति किन्? स्थविरा ।
वृद्धा ।
अतः इत्येव, शिशुः ।
वयस्यचरम इति वक्तव्यं ।
वधूटी ।
चिरण्टी ।
द्वितीयवयोवचनावेतौ ।
प्राप्त-यौवना स्त्री अभिधीयते ।
कथं कन्या ? कन्यायाः कनीन च (*४,१.११६) इति ज्ञापकाथ् ।
उत्तानशया, लोहितपादिका इति ? नैताः वयःश्रुतयः । ।
____________________________________________________________________
- <द्विगोः># । । PS_४,१.२१ । ।
_____Sठाऱ्ठ्JKव्_४,१.२१ः
द्विगु-सञ्ज्ञकात्प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति ।
पञ्चपूली ।
दशपूली ।
कथं त्रिफला ? अजादिषु दृश्यते । ।
____________________________________________________________________
- <अपरिमाण-बिस्त-आचित-कम्बल्येभ्यो न तद्धितलुकि># । । PS_४,१.२२ । ।
_____Sठाऱ्ठ्JKव्_४,१.२२ः
पूर्वेण ङीप्प्राप्तः प्रतिषिध्यते ।
अपरिमाण-अन्तात्द्विगोः बिस्त-आचितकम्बल्य्-आन्ताच्च तद्धितलुकि सति ङीप्प्रत्ययो न भवति ।
बस्तादीनां परिमाण-अर्थं ग्रहणं ।
सर्वतो मानं परिमाणं ।
अपरिमाण-अन्तात्तावत्- पञ्चभिरश्वैः क्रीता पञ्चाश्वा ।
दशाश्वा ।
कालः च सङ्ख्या न परिमाणं ।
द्विवर्षा त्रिवर्षा ।
द्वाभ्यां शताभ्यां क्रीता द्विशता ।
त्रिशता ।
बिस्तादिभ्यः - द्विबस्ता ।
त्रिबस्ता ।
द्व्याचिता ।
त्र्याचिता ।
द्विकम्बल्या ।
त्रिकम्बल्या ।
अपरिमाण+इति किं ? द्व्याढकी ।
त्र्याढकी ।
तद्धितलुकि इति किं ? समाहारे - पञ्चाश्वी ।
दशाश्वी । ।
____________________________________________________________________
[#३२४]
- <काण्ड-अन्तात्क्षेत्रे># । । PS_४,१.२३ । ।
_____Sठाऱ्ठ्JKव्_४,१.२३ः
काण्ड-शब्द-अन्तात्द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप्प्रत्ययो न भवति ।
द्वे कण्डे प्रमाणं अस्याः क्षेत्र-भक्तेः, प्रमणे द्वयसज्-दघ्नञ्-मात्रचः (*५,२.३७) इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर्नित्यं इति लुकि कृते, द्विकाण्डा क्षेत्र-भक्तिः ।
त्रिकाण्डा क्षेत्रभक्तिः ।
काण्ड-शब्दस्य अपरिमाणवाचित्वात्पूर्वेण+एव प्रतिषेधे सिद्धे क्षेत्रे नियम-अर्थं वचनं ।
इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति ।
प्रमाण-विशेषः काण्डं । ।
____________________________________________________________________
- <पुरुषात्प्रमाणेऽन्यतरस्याम्># । । PS_४,१.२४ । ।
_____Sठाऱ्ठ्JKव्_४,१.२४ः
द्विगोः तद्धितलुकि इत्येव ।
प्रमाणे यः पुरुष-शब्दः, तदन्ताद्द्विगोः तद्धितलुकि सति अन्यतरस्यां न ङीप्प्रत्ययो भवति ।
द्वौ पुरुषौ प्रमाणं अस्याः परिखायाः द्विपुरुषा, द्विपुरुषी ।
त्रिपुरुषा, त्रिपुरुषी ।
अपरिमाणान्तत्वान्नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनं ।
प्रमाणे इति किं ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा ।
क्रिपुरुषा ।
तद्धितलुकि इत्येव ।
समाहारे द्विपुरुषी ।
त्रिपुरुषी । ।
____________________________________________________________________
- <बहुव्रीहेरूधसो ङीष्># । । PS_४,१.२५ । ।
_____Sठाऱ्ठ्JKव्_४,१.२५ः
ऊधस्-शब्दान्ताद्बहुव्रीहेः स्त्रियां ङीष्प्रत्ययो भवति ।
ऊधसोऽनङ्(*५,४.१३१) इति समासान्ते कृते अनो बहुव्रीहेः (*४,१.१२) इति डाप्-प्रतिषेधयोः प्राप्तयोरिदं उच्यते ।
घटोध्नी ।
कुण्डोध्नी ।
बहुव्रीहेः इति किं ? प्राप्ता ऊधः प्राप्तोधाः ।
अन उपधालोपिनोऽन्यतरस्यां (*४,१.२८) इत्यस्य अपि ङीपोऽयं उत्तरत्र अनुवृत्तेर्बाधक इष्यते ।
समासान्तश्च स्त्रियां एव ।
इह न भवति, महोधाः पर्जन्यः इति । ।
____________________________________________________________________
- <सङ्ख्याव्ययादेर्ङीप्># । । PS_४,१.२६ । ।
_____Sठाऱ्ठ्JKव्_४,१.२६ः
पूर्वेण ङीषि प्राप्ते ङीब्वधीयते ।
सङ्ख्यादेः अव्ययादेश्च बहुव्रीहेरूधस्-शब्दान्ताद्ङीप्प्रत्ययो भवति ।
सङ्ख्यादेः तावत्- द्व्यूध्नी ।
त्र्यूध्नी ।
अव्ययादेः - अत्यूध्नी ।
निरूध्नी ।
आदि-ग्रहणं किं ? द्विविधोध्नी, त्रिविधोध्नी इत्यत्र अपि यथा स्यात् । ।
____________________________________________________________________
- <दाम-हायन-अनाच्च># । । PS_४,१.२७ । ।
_____Sठाऱ्ठ्JKव्_४,१.२७ः
ऊधसः इति निव्éत्तं ।
सङ्ख्या-ग्रहणं अनुवर्तते, न अव्यय-ग्रहणं ।
सङ्ख्यादेः बहुव्रीहेः दाम-शब्दान्तात्हायन-शब्दान्तात्च स्त्रियां ङीप्प्रत्ययो भवति ।
दामान्तात्डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्य-अर्थं वचनं ।
द्विदाम्नी ।
त्रिदाम्नी ।
हायनान्ताट्टापि प्राप्ते ।
द्विहायनी ।
त्रिहायणी ।
चतुर्हायणी ।
हायनो वयसि स्मृतः ।
तेन+इह न भवति, द्विहायना शाला ।
त्रिहायना ।
चतुर्हायना ।
णत्वं अपि त्रिचतुर्भ्यां हायनस्य इति वयस्य+इव स्मर्यते । ।
____________________________________________________________________
[#३२५]
- <अन उपधालोपिनोऽन्यतरस्याम्># । । PS_४,१.२८ । ।
_____Sठाऱ्ठ्JKव्_४,१.२८ः
बहुव्रीहेरित्येव ।
अन्न्-अन्तो यो बहुव्रीहिः उपधालोपी, तस्मादन्यतरस्यां ङीप्प्रत्ययो भवति ।
ङीपा मुक्ते ङाप्-प्रतिषेधौ भवतः ।
किमर्थं तर्हि इदं उच्यते, ननु सिद्धा एव डाप्-प्रतिषेधङीपः ? अनुपधालोपिनः ङीप्-प्रतिषेध-अर्थं वचनं ।
बहुराजा, बहुराज्ञी, बहुराजे ।
बहुतक्षा, बहुतक्ष्णी, बहुतक्षे ।
अनः इति किं ? बहुमत्स्या ।
उपधालोपिनः इति किं ? सुपर्वा, सुपर्वे, सुपर्वाः ।
सुपर्वाणौ, सुपर्वाणः ।
डाप्-प्रतिषेधावेव अत्र भवतः । ।
____________________________________________________________________
- <नित्यं सञ्ज्ञा-छन्दसोः># । । PS_४,१.२९ । ।
_____Sठाऱ्ठ्JKव्_४,१.२९ः
अन्नन्ताद्बहुव्रीहेरुपधा-लोपिनः सञ्ज्ञायां विषये छन्दसि च नित्यं ङीप्प्रत्ययो भवति ।
विकल्पस्य अपवादः ।
सुराज्ञी, अतिराज्ञी नामः ग्राम ।
छन्दसि - गौः पञ्चदाम्नी ।
एकदाम्नी ।
द्विदाम्नी ।
एकमूर्ध्नी ।
समानमूर्ध्नी । ।
____________________________________________________________________
- <केवल-मामक-भागधेय-पाप-अपर-समान-आर्यकृत-सुमङ्गल-भेषजाच्च># । । PS_४,१.३० । ।
_____Sठाऱ्ठ्JKव्_४,१.३०ः
सञ्ज्ञा-छन्दसोः इत्येव ।
केवल-आदिभ्यः प्रातिपदिकेभ्यः सञ्ज्ञायां, छन्दसि विषये स्त्रियां ङीप्प्रत्ययो भवति ।
केवली ।
केवला इति भाषायां ।
मामकी ।
मामिका इति भाषायां ।
मित्रावरुणयोर्भागधेयीः स्थ ।
भागधेया इति भाषायां ।
सा पापी ।
पापा इति भाषायां ।
उता+अपरीभ्यो मघवा विजिग्ये ।
अपरा इति भाषायां ।
समानी प्रवाणी ।
समाना इति भाषायां ।
आर्यकृती ।
आर्यकृता इति भाषायां ।
सुमङ्गली ।
सुमङ्गला इति भाषायां ।
भेषजी ।
भेषजा इति भाषायां । ।
____________________________________________________________________
- <रात्रेश्च अजसौ># । । PS_४,१.३१ । ।
_____Sठाऱ्ठ्JKव्_४,१.३१ः
जस्विषयादन्यत्र सञ्ज्ञायां छन्दसि च रात्रि-शब्दात्ङीप्प्रत्ययो भवति ।
या च रात्री सृष्टा ।
रात्रीभिः ।
अजसौ इति किं ? यास्ता रात्रयः ।
अजसादिष्विति वक्तव्यं ।
रात्रिं सहोषित्वा ।
कथं तिमिरपटलैरवगुण्ठिताश्च रत्र्यः ? ङीषयं बह्वादि-लक्षणः ।
तत्र हि पठ्यते कृदिकारादक्तिनः, सर्वतोऽक्तिन्न्-अर्थातित्येके इति । ।
____________________________________________________________________
[#३२६]
- <अन्तर्वत्-पतिवतोर्नुक्># । । PS_४,१.३२ । ।
_____Sठाऱ्ठ्JKव्_४,१.३२ः
प्रकृतिर्निपात्यते, नुगागं अस्तु विधीयते ।
अन्तर्वत्-पतिवतोर्नुक्भवति ङीप्च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः ।
निपातन-सामर्थ्याच्च विशेषे वृत्तिर्भवति ।
अन्तर्वत्पतिवतिति गर्भ-भर्तृ-संयोगे ।
इह न भवति, अन्तरस्यां शालायां विद्यते ।
पतिमती प्éथीवी ।
अन्तर्वतिति मतुब्निपात्यते, वत्वं सिद्धं ।
पतिवतिति वत्वं निपात्यते, मतुप्सिद्धः ।
अन्तर्वत्नी गर्भिणी ।
पतिवत्नी जीवपतिः ।
अन्तर्वत्-पतिवतोस्तु मतुब्वत्वे निपातनाथ् ।
गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्-विधिः । ।
सान्तर्वत्नी देवानुपैथ् ।
सान्तर्वती देवानुपैत ।
पतिवत्नी तरुणवत्सा ।
पतिवती तरुणवत्सा । ।
____________________________________________________________________
- <पत्युर्नो यज्ञसंयोगे># । । PS_४,१.३३ । ।
_____Sठाऱ्ठ्JKव्_४,१.३३ः
पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप्प्रत्ययस्तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे ।
यज्ञेन संयोगः यज्ञसंयोगः ।
तत्साधनत्वात्फलग्रहीतृत्वात्वा यजमानस्य पत्नी ।
पत्नी वाचं यच्छ ।
यज्ञसंयोगे इति किं ? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी ? उपमानाद्भविष्यति । ।
____________________________________________________________________
- <विभाषा सपूर्वस्य># । । PS_४,१.३४ । ।
_____Sठाऱ्ठ्JKव्_४,१.३४ः
पत्युर्नः इति वर्तते ।
पति-शब्द-अन्तस्य प्रातिपदिकस्य सपूर्वस्य अनुपसर्जनस्य स्त्रियां विभाषा नकार-आदेशो भवति, ङीप्तु लभ्यते एव ।
वृद्धप्त्नी, वृद्धपतिः ।
स्थूलपत्नी, स्थूलपतिः ।
अप्राप्तविभाषेयमयज्ञसंयोगत्वाथ् ।
सपूर्वस्य इति किं ? पतिरियं ब्राह्मणी ग्रामस्य । ।
____________________________________________________________________
- <नित्यं सपत्न्यादिषु># । । PS_४,१.३५ । ।
_____Sठाऱ्ठ्JKव्_४,१.३५ः
सप्त्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप्तु लभ्यते एव ।
पूर्वेण विकल्पे प्राप्ते वचनं ।
नित्य-ग्रहणं वस्पष्ट-अर्थं ।
समानः पतिरस्याः सप्त्नी ।
एकप्त्नी ।
समानादिष्विति वक्तव्ये समानस्य सभाव-अर्थं वचनं ।
समान ।
एक ।
वीर ।
पिण्ड ।
भ्रातृ ।
पुत्र ।
दासाच्छन्दसि । ।
____________________________________________________________________
[#३२७]
- <पूतक्रतोरै च># । । PS_४,१.३६ । ।
_____Sठाऱ्ठ्JKव्_४,१.३६ः
पूतक्रतु-शब्दस्य स्त्रियां ऐकारश्चान्तादेशो भवति, ङीप्प्रत्ययः ।
पूतक्रतोः स्त्री पूतक्रतायी ।
त्रय एते योगाः पुंयोग-प्रकरने द्रष्टव्याः ।
यया हि पूताः क्रतवः पूतक्रतुः सा भवति । ।
____________________________________________________________________
- <वृषाकप्य्-अग्नि-कुसित-कुसिदानां उदात्तः># । । PS_४,१.३७ । ।
_____Sठाऱ्ठ्JKव्_४,१.३७ः
वृषाकप्य्-आदीनां उदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप्च प्रत्ययः ।
वृषाकपि-शब्दो मद्योदात्त उदात्तत्वं प्रयोजयति ।
अग्न्य्-आदिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धं ।
वृषाकपेः स्त्री वृषाकपायी ।
अग्नायी ।
कुसितायी ।
कुसिदायी ।
पुंयोगे इत्येव, वृषाकपिः स्त्री । ।
____________________________________________________________________
- <मनोरौ वा># । । PS_४,१.३८ । ।
_____Sठाऱ्ठ्JKव्_४,१.३८ः
ऐ उदात्तः इति वर्तते ।
मनु-शब्दात्स्त्रियां ङीप्प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः ।
वाग्रहणेन द्वावपि विकल्प्येते ।
तेन त्रैरूप्यं भवति ।
मनोः स्त्री मनायी ।
मनावी ।
मनुः ।
मनु-शब्दः आद्युदात्तः । ।
____________________________________________________________________
- <वर्णादनुदात्तात्तोपधात्तो नः># । । PS_४,१.३९ । ।
_____Sठाऱ्ठ्JKव्_४,१.३९ः
वा इति वर्तते ।
वर्ण-वाचिनः प्रातिपदिकातनुदात्तान्तात्तकारोपधाद्वा ङीप्प्रत्ययो भवति, तकारस्य नकारादेशो भवति ।
एता, एनीं ।
श्येता, श्येनी ।
हरिता, हरिणी ।
सर्वे एते आद्युदात्ताः, वर्णानां तणतिनितान्तानां इति वचनाथ् ।
वर्णातिति किं ? प्रकृता ।
प्ररुता ।
गतिस्वरेणाद्युदात्तः ।
अनुदात्तातिति किं ? श्वेता ।
घृतादित्वादन्तोदात्तः ।
तोपधातिति किं ? अन्यतो ङीषं वक्ष्यति ।
अतः इत्येव, शितिर्ब्रह्मणी ।
पिशङ्गादुपसङ्ख्यानं ।
पिशङ्गी ।
असितपलितयोः प्रतिषेधः ।
असिता ।
पलिता ।
छन्दसि क्नं इत्येके ।
असिक्नी ।
पलिक्नी ।
भाषायां अपि इष्यते ।
गतो गणस्तूर्णमसिक्निकानां । ।
____________________________________________________________________
[#३२८]
- <अन्यतो ङीष्># । । PS_४,१.४० । ।
_____Sठाऱ्ठ्JKव्_४,१.४०ः
वा इति निवृत्तं ।
वर्णादनुदात्तातिति वर्तते, तोपधापेक्षं अन्यत्वं ।
वर्ण-वाचिनः प्रातिपदिकादनुदात्तान्तात्स्त्रियां ङीष्प्रत्ययो भवति ।
स्वरे विशेषः ।
सारङ्गी ।
कल्माषी ।
शबली ।
वर्णातित्येव, खट्वा ।
अनुदात्तातित्येव, कृष्णा ।
कपिला । ।
____________________________________________________________________
- <षिद्-गौरादिभ्यश्च># । । PS_४,१.४१ । ।
_____Sठाऱ्ठ्JKव्_४,१.४१ः
ङीषनुवर्तते ।
षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष्प्रत्ययो भवति ।
शिल्पिनि ष्वुन्(*३,१.१४५) - नर्तकी ।
खनकी ।
रजकी ।
गौरादिभ्यः - गौरी ।
मत्सी ।
गौर ।
मत्स्य ।
मनुष्य ।
शृङ्ग ।
हय ।
गवय ।
मुकय ।
ऋष्य ।
पुट ।
द्रुण ।
द्रोण ।
हरिण ।
कण ।
पटर ।
उकण ।
आमलक ।
कुवल ।
बदर ।
बम्ब ।
तर्कार ।
शर्कार ।
पुष्कर ।
शिखण्ड ।
सुषम ।
सलन्द ।
गडुज ।
आनन्द ।
सृपाट ।
सृगेठ ।
आढक ।
शष्कुल ।
सूर्म ।
सुब ।
सूर्य ।
पूष ।
मूष ।
घातक ।
सकलूक ।
सल्लक ।
मालक ।
मालत ।
साल्वक ।
वेतस ।
अतस ।
पृस ।
मह ।
मठ ।
छेद ।
श्वन् ।
तक्षन् ।
अनडुही ।
अनड्वाही ।
एषणः करणे ।
देह ।
काकादन ।
गवादन ।
तेजन ।
रजन ।
लवण ।
पान ।
मेध ।
गौतम ।
आयस्थूण ।
भौरि ।
भौलिकि ।
भौलिङ्गि ।
औद्गाहमानि ।
आलिङ्गि ।
आपिच्छिक ।
आरट ।
टोट ।
नट ।
नाट ।
मलाट ।
शातन ।
पातन ।
सवन ।
आस्तरन ।
आधिकरण ।
एत ।
अधिकार ।
आग्रहायणी ।
प्रत्यवरोहिणी ।
सेवन ।
सुमङ्गलात्सञ्ज्ञायां ।
सुन्दर ।
मण्डल ।
पिण्ड ।
विटक ।
कुर्द ।
गूर्द ।
पट ।
पाण्ट ।
लोफाण्ट ।
कन्दर ।
कन्दल ।
तरुण ।
तलुन ।
बृहथ् ।
महथ् ।
सौधर्म ।
रोहिणी नक्षत्रे ।
रेवती नक्षत्रे ।
विकल ।
निष्फल ।
पुष्कल ।
कटाच्छ्रोणिवचने ।
पिप्पल्यादयश्च ।
पिप्पली ।
हरीतकी ।
कोशातकी ।
शमी ।
करीरी ।
पृथिवी ।
क्रोष्ट्री ।
मातामह ।
पितामह ।
मातामह-पितामहयोः मातरि षिच्च (*४,२.३६) इति षित्त्वादेव सिद्धे ज्ञापन-अर्थं वचनम्, अनित्यः षिल्-लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति । ।
____________________________________________________________________
- <जानपद-कुण्ड-गोण-स्थल-भाज-नाग-काल-नील-कुश-कामुक-कबराद्वृत्त्य्-अमत्र-आवपन-अकृत्रिमा-श्राणा-स्थौल्य-वर्ण-अनाच्छादन-अयोविकार-मैथुनेच्छा-केशवेशेषु># । । PS_४,१.४२ । ।
_____Sठाऱ्ठ्JKव्_४,१.४२ः
जानपद-आदिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासङ्ख्यं ङीष्प्रत्ययो भवति ।
जानपदी भवति,
[#३२९]
वृत्तिश्चेथ् ।
जानपदी अन्या ।
स्वरे विशेसः ।
उत्सादिपाठादञि कृते ङीपाद्य्-उदात्तत्वं भवति ।
कुण्डी भवति, अमत्रं चेथ् ।
कुण्डाऽन्या ।
गोणी भवति, आवपनं चेथ् ।
गोणा अन्या ।
स्थली भवति, अकृत्रिमा चेथ् ।
स्थला अन्या ।
भाजी भवति, श्राणा चेथ् ।
पक्वा इत्यर्थः ।
भाजा अन्या ।
नागी भवति, स्थौल्यं चेथ् ।
नागा अन्या ।
नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापं ।
जातिवचनात्तु जातिलक्षणो ङीषेव भवति ।
नागी ।
काली भवति, वर्णश्चेथ् ।
काला अन्या ।
नीली भवति, अनाच्छादनं चेथ् ।
नीला अन्या ।
न च सर्वस्मिन्ननाच्छादन इष्यते ।
किं तर्हि ? नीलादोषधौ प्राणिनि च ।
नीली ओषधिः ।
नीली गौः ।
नीली वडवा ।
सञ्ज्ञायां वा ।
नीली, नीला ।
कुशी भवति, अयोविकारश्चेथ् ।
कुशा अन्या ।
कामुकी भवति मैथुनेच्छा चेथ् ।
कामुका अन्या ।
मैथुनेच्छावती भण्यते, नेच्छामात्रं ।
कबरी भवति, केशवेशश्चेथ् ।
कबरा अन्या । ।
____________________________________________________________________
- <शोणात्प्राचाम्># । । PS_४,१.४३ । ।
_____Sठाऱ्ठ्JKव्_४,१.४३ः
शोण-शब्दात्प्राचां आचार्याणां मतेन स्त्रियां ङीष्प्रत्ययो भवति ।
शोणी, शोणा वडवा । ।
____________________________________________________________________
- <वा+उतो गुणवचनात्># । । PS_४,१.४४ । ।
_____Sठाऱ्ठ्JKव्_४,१.४४ः
गुणं उक्तवान्गुणवचनः ।
गुणवचनात्प्रातिपदिकादुकारान्तात्स्त्रियां वा ङीष्प्रत्ययो भवति ।
पट्वी, पटुः ।
मृद्वी, मृदुः ।
उतः इति किं ? शुचिरियं ब्राहमणी ।
गुणवचनातिति किं ? आखुः ।
वसु-शब्दाद्गुणवचनाद्ङीबाद्य्-उदात्तार्थं ।
वस्वी ।
खरुसंयोगोपधात्प्रतिषेधो वक्तव्यः ।
खरुरियं ब्राह्मणी ।
पाण्डुरियं ब्राह्मणी ।
सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्च अक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः । ।
____________________________________________________________________
- <बह्व-आदिभ्यश्च># । । PS_४,१.४५ । ।
_____Sठाऱ्ठ्JKव्_४,१.४५ः
बहु इत्येवं आदिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष्प्रत्ययो भवति ।
बह्वी, बहुः ।
बहु ।
पद्धति ।
अङ्कति ।
अञ्चति ।
अंहति ।
वंहति ।
शकटि ।
शक्तिः शस्त्रे ।
शारि ।
वारि ।
गति ।
अहि ।
कपि ।
मुनि ।
यष्टि ।
इतः प्राण्यङ्गाथ् ।
कृदिकारादक्तिनः ।
सर्वतोऽक्तिन्नर्थादित्येके ।
चण्ड ।
अराल ।
कमल ।
कृपाण ।
विकट ।
विशाल ।
विशङ्कट ।
भरुज ।
ध्वज ।
चन्द्रभागान्नद्यां ।
कल्याण ।
उदार ।
पुराण ।
अहन् ।
बहुशब्दो गुणवचन एव ।
तस्य+इह पाठ उत्तरार्थः । ।
____________________________________________________________________
[#३३०]
- <नित्यं छन्दसि># । । PS_४,१.४६ । ।
_____Sठाऱ्ठ्JKव्_४,१.४६ः
बह्व्-आदिभ्यः छन्दसि विषये नित्यं स्त्रियां ङीष्प्रत्ययो भवति ।
बह्वीषु हित्वा प्रपिबन् ।
बह्वी नाम ओषधी भवति ।
नित्य-ग्रहणं उत्तरार्थं । ।
____________________________________________________________________
- <भुवश्च># । । PS_४,१.४७ । ।
_____Sठाऱ्ठ्JKव्_४,१.४७ः
छन्दसि विषये स्त्रियां भुवो नित्यं ङीष्प्रत्ययो भवति ।
विभ्वी च ।
प्रभ्वी च ।
संभ्वी च ।
इह कस्मान्न भवति, स्वयम्भूः ? उतः इति तपरकरणं अनुवर्तते ।
ह्रस्वादेव+इयं पञ्चमी ।
भुवः इति सौत्रो निर्देशः । ।
____________________________________________________________________
- <पुंयोगादाख्यायाम्># । । PS_४,१.४८ । ।
_____Sठाऱ्ठ्JKव्_४,१.४८ः
पुंसा योगः पुंयोगः ।
पुंयोगाद्धेतोर्यत्प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद्ङीष्प्रत्ययो भवति ।
गणकस्य स्त्री गणकी ।
महामात्री ।
प्रष्ठी ।
प्रचरी ।
पुंसि शब्दप्रवृत्ति-निमित्तस्य सम्भवात्पुंशब्दा एते, तद्योगात्स्त्रियां वर्तन्ते ।
पुंयोगातिति किं ? देवदत्ता ।
यज्ञदत्ता ।
आख्या-ग्रहणात्किं ? परिसृष्टा ।
प्रजाता ।
पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते ।
गोपालिकादीनां प्रतिषेधः ।
गोपालकस्य स्त्री गोपालिका ।
सूर्याद्देवतायां चाब्वक्तव्यः ।
सूर्यस्य स्त्री देवता सूर्या ।
देवतायां इति किं ? सुरी । ।
____________________________________________________________________
- <इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणामानुक्># । । PS_४,१.४९ । ।
_____Sठाऱ्ठ्JKव्_४,१.४९ः
इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष्प्रत्ययो भवति, आनुक्च आगमः ।
येषां अत्र पुंयोग एव इष्यते, तेषां आनुगागममात्रं विधीयते ।
रत्ययस्तु पूर्वेण+एव सिद्धः ।
अन्येषां तूभयं विधीयते ।
इन्द्राणी ।
वरुणानी ।
भवानी ।
शर्वाणी ।
रुद्राणी ।
मृडानी ।
हिमारण्ययोर्महत्त्वे ।
महद्धिमं हिमानी ।
महदरण्यं अरण्यानी ।
[#३३१]
यवाद्दोषे ।
दुष्टो यवः यवानी ।
यवनाल्लिप्यां ।
यवनानी लिपिः ।
उपाध्यायमातुलाभ्यां वा ।
उपाध्यायानी, उपाध्यायी ।
मतुलानी, मतुली ।
आचार्यादणत्वं च ।
आचार्यानी, आचार्या ।
अर्यक्षत्रियाभ्यां वा ।
अर्याणी, अर्या ।
क्षत्रियाणी, क्षत्रिया ।
विना पुंयोगेन स्वार्थ एव अयं विधिः ।
पुंयोगे तु ङीषा एव भवितव्यं ।
अर्यी ।
क्षत्रियी ।
मुद्गलाच्छन्दसि लिच्च ।
रथीरभून्मुद्गलानी गविष्टौ । ।
____________________________________________________________________
- <क्रीतात्करण-पूर्वात्># । । PS_४,१.५० । ।
_____Sठाऱ्ठ्JKव्_४,१.५०ः
करणं पूर्वं अस्मिन्निति करणपूर्वं प्रतिपदिकं ।
क्रीत-शब्दान्तात्प्रातिपदिकात्करण-पूर्वात्स्त्रियां ङीप्प्रत्ययो भवति ।
वस्त्रेण क्रियते सा वस्त्रक्रीती ।
वसनक्रीती ।
करणपूर्वातिति किं ? सुक्रीता ।
दुष्क्रीता ।
इह कस्मान्न भवति, सा ही तस्य धनक्रीती प्राणेभ्योऽपि गरीयसी इति ? टाबन्तेन समसः ।
अतः इति चातुवर्तते ।
गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलं (*२,१.३२) इति । ।
____________________________________________________________________
- <क्तादल्पाअख्यायाम्># । । PS_४,१.५१ । ।
_____Sठाऱ्ठ्JKव्_४,१.५१ः
करणपूर्वातित्येव ।
करणपूर्वात्प्रातिपदिकात्क्तान्तादल्पाख्यायां ङीष्प्रत्ययो भव्ति ।
अल्पाख्यायां इति समुदायोपाधिः ।
अभ्रविलिप्ती ख्यौः ।
सूपविलिप्ती पात्री ।
अल्पसूपा इत्यर्थः ।
अल्पाख्यायां इति किं ? चन्दनानुलिप्ता ब्राह्मणी । ।
____________________________________________________________________
[#३३२]
- <बहुव्रीहेश्च अन्तोदत्तात्># । । PS_४,१.५२ । ।
_____Sठाऱ्ठ्JKव्_४,१.५२ः
क्तातित्येव ।
बहुव्रीहिर्योऽन्तोदात्तः, तस्मात्स्त्रियां ङीष्प्रत्ययो भवति ।
स्वाङ्ग-पूर्व-पदो बहुव्रीहिरिह+उदाहरणं ।
अस्वाङ्ग-पूर्वपदाद्विकल्पं वक्ष्यति ।
शङ्ख्यभिन्नी ।
ऊरुभिन्नी ।
गललोत्कृत्ती ।
केशलूनी ।
बहुव्रीहेः इति किं ? पादपतिता ।
अन्तोदात्ताज्जातप्रतिषेधः ।
दन्तजाता ।
स्तनजाता ।
पाणिगृहीत्यादीनां अर्थविशेषे ।
पाणिगृहीती भार्या ।
यस्य अस्तु कथञ्चित्पाणिर्गृह्यते पाणिगृहीता सा भवति ।
अबहुनञ्सुइआलसुखादि-पूर्वादिति वक्तव्यं ।
बहुकृता ।
नङ्- अकृता ।
सु - सुकृता ।
काल - मासजाता ।
संवत्सर-जाता ।
सुखादि - सुखजाता ।
दुःखजाता ।
जाति-काल-सुख-आदिभ्योऽनाच्छादनात्क्तोऽकृत-मित. प्रतिपन्नाः (*६,२.१७०) इत्येवं आदिना भौव्रीहेरन्तोदात्तत्वं । ।
____________________________________________________________________
- <अस्वाङ्ग-पूर्वपदाद्वा># । । PS_४,१.५३ । ।
_____Sठाऱ्ठ्JKव्_४,१.५३ः
अन्तोदात्तात्क्तातिति अनुवर्तते ।
अस्वाङ्गपूर्वपदादन्तोदात्तात्क्तान्ताद्बहुव्रीहेः स्त्रियां वा ङीष्प्रत्ययो भवति ।
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
शार्ङ्गजग्धी, शार्ङ्गजग्धा ।
पलाण्डुभक्षिती, पलाण्डुभक्षिता ।
सुरापीती, सुरापीता ।
अस्वाङ्गपूर्वपदातिति किं ? शङ्खभिन्नी ।
ऊरुभिन्नी ।
अन्तोदात्तातित्येव, वस्त्रच्छन्ना ।
वसनच्छन्न ।
बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यं ।
प्रवृद्धविलूनी, प्रवृद्धविलूना ।
प्रवृद्धा च असौ विलूना च इति ।
न अयं बहुव्रीहिः । ।
____________________________________________________________________
- <स्वाङ्गाच्च+उपसर्जनादसंयोग-उपधात्># । । PS_४,१.५४ । ।
_____Sठाऱ्ठ्JKव्_४,१.५४ः
बहुव्रीहेः क्तान्तादन्तोदात्तातिति सर्वं निवृत्तं ।
वा-ग्रहणं अनुवर्तते ।
स्वाङ्गं यदुपसर्जनं असंयोगोपधं तदन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्प्रत्ययो भवति ।
चन्द्रमुखी, चन्द्रमुखा ।
अतिक्रान्ता केशानतिकेशी, अतिकेशा माला ।
स्वाङ्गातिति किं ? बहुयवा ।
उपसर्जनातिति किं ? अशिखा ।
असंयोगोपधातिति किं ? सुगुल्फा ।
सुपार्श्वा ।
[#३३३]
अङ्गगात्रकण्ठेभ्य इति वक्तव्यं ।
मृद्वङ्गी, मृद्वङ्गा ।
सुगात्री, सुगात्रा ।
स्निग्धकण्ठी, स्निग्धकण्ठा ।
अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजं ।
अतत्स्थं तत्र दृष्टं चेत्तेन चेत्तत्तथायुतं । ।
____________________________________________________________________
- <नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच्च># । । PS_४,१.५५ । ।
_____Sठाऱ्ठ्JKव्_४,१.५५ः
स्वाङ्गाच्च+उपसर्जनातित्येव ।
बह्वज्-लक्षणे संयोगोपध-लक्षणे च प्रतिषेधे प्राप्ते वचनं ।
सहनञ्-विद्यमान-लक्षणस्तु प्रतिषेधो भवत्येव ।
नासिका-आद्यन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्प्रत्ययो भवति ।
तुङ्गनासिकी, तुङ्गनासिका ।
तिलोदरी, तिलोदरा ।
बम्बोष्ठी, बम्बोष्ठा ।
दीर्घजङ्घी, दीर्घजङ्घा ।
समदन्ती, समदन्ता ।
चारुकर्णी, चारुकर्णा ।
तीक्षणशृङ्गी, तीक्ष्णशृङ्गा ।
पुच्छाच्च+इति वक्तवयं ।
कल्याणपुच्छी, कल्याणपुच्छा ।
कबर-मणि-विष-शरेभ्यो नित्यं ।
कबरपुच्छी ।
मणिपुच्छी ।
विषयुच्छी ।
शरपुच्छी ।
उपमानात्पक्षाच्च पुच्छात्च ।
उलूकपक्षीसेना ।
उलूकपुच्छी शाला । ।
____________________________________________________________________
- <न क्रोडादि-बह्वचः># । । PS_४,१.५६ । ।
_____Sठाऱ्ठ्JKव्_४,१.५६ः
स्वाङ्गातिति ङिष्प्राप्तः प्रतिषेध्यते ।
क्रोडाद्यन्तात्बह्वजन्तात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो न भवति ।
कल्याणक्रोडा ।
कल्याणाखुरा ।
कल्याणोखा ।
कल्याणबाला ।
कल्याणशफा ।
कल्याणगुदा ।
कल्याणघोणा ।
कल्याणनखा ।
कल्याणमुखा ।
क्रोडादिराकृतिगणः ।
सुभगा ।
सुगला ।
बह्वचः खल्वपि - पृथुजघना ।
महाललाटा । ।
____________________________________________________________________
- <सह-नञ्-विद्यमान-पूर्वाच्च># । । PS_४,१.५७ । ।
_____Sठाऱ्ठ्JKव्_४,१.५७ः
स्वाङ्गाच्च+उपसर्जनातिति, नासिक-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण. शृग्गाच्च (*४,१.५५) इति च प्राप्तो ङीष्प्रतिषिध्यते ।
सह नञ्विद्यमान एवं पूर्वात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो न भवति ।
सकेशा ।
अकेशा ।
विद्यमानकेशा ।
सनासिका ।
अनासिका ।
विद्यमाननासिका । ।
____________________________________________________________________
[#३३४]
- <नख-मुखात्सञ्ज्ञायाम्># । । PS_४,१.५८ । ।
_____Sठाऱ्ठ्JKव्_४,१.५८ः
नख-मुखान्तात्प्रातिपदिकात्सञ्ज्ञायां विषये स्त्रियां ङीष्प्रत्ययो न भवति ।
शूर्पणखा ।
वज्रनखा ।
गौरमुखा ।
कालमुखा ।
सञ्ज्ञायां इति किं ? ताम्रनखी कन्या ।
चन्द्रमुखी । ।
____________________________________________________________________
- <दीर्घजिह्वी च च्छन्दसि># । । PS_४,१.५९ । ।
_____Sठाऱ्ठ्JKव्_४,१.५९ः
दीर्घजिह्वी इति छन्दसि विषये निपात्यते ।
संयोगोपधत्वादप्राप्तो ङीष्विधीयते ।
दीर्घजिह्वी वै देवानां हव्यमवालेठ् ।
चकारः सञ्ज्ञ-अनुकर्षण-अर्थः ।
दीर्घजिह्वी इति निपातनं नित्य-अर्थं । ।
____________________________________________________________________
- <दिक्-पूर्वपदान्ङीप्># । । PS_४,१.६० । ।
_____Sठाऱ्ठ्JKव्_४,१.६०ः
स्वाङ्गाच्च+उपसर्जनातित्येवं आदिविधि-प्रतिषेध-विषयः सर्वोऽप्यपेक्ष्यते ।
यत्र ङीष्विहितस्तत्र तदपवादः ।
दिक्-पूर्वपदात्प्रातिपदिकात्ङीप्प्रत्ययो भवति ।
स्वरे विशेषः ।
प्राङ्मुखी, प्राङ्मुखा ।
प्राङ्नासिकी, प्राङ्नासिका ।
इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति । ।
____________________________________________________________________
- <वाहः># । । PS_४,१.६१ । ।
_____Sठाऱ्ठ्JKव्_४,१.६१ः
ङीषेव स्वर्यते, न ङीप् ।
वहेरयं ण्वि-प्रत्ययान्तस्य निर्देशः ।
सामार्थ्यात्तदन्तनिधेर्विज्ञानं ।
बहन्तात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो भवति ।
दित्यौही ।
प्रष्ठौही । ।
____________________________________________________________________
- <सख्यशिष्वी इति भाषायाम्># । । PS_४,१.६२ । ।
_____Sठाऱ्ठ्JKव्_४,१.६२ः
सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते ।
सखीयं मे ब्राह्मणी ।
न अस्याः शिशुरस्ति इति अशिश्वी ।
भाषायां इति किं ? सखा सप्तपदी भव ।
अशिशुं इव मामयं शिशुरभिमन्यते । ।
____________________________________________________________________
- <जातेरस्त्रीविषयादय-उपधात्># । । PS_४,१.६३ । ।
_____Sठाऱ्ठ्JKव्_४,१.६३ः
जातिवाचि यत्प्रातिपदिकं न च स्त्रियां एव नियतं अस्त्रीविषयं अयकारोपधं च तस्मात्स्त्रियां ङीष्प्रत्ययो भवति ।
आकृति-ग्रहणा जातिर्लिङ्गानां च न सर्वभाक् ।
सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह । ।
[#३३५]
कुक्कुटी ।
सूकरी ।
ब्राह्मणी ।
वृषली ।
नाडायनी ।
चारायणी ।
कठी ।
बह्वृची ।
जातेः इति किं ? मुण्डा ।
अस्त्रीविषयातिति किं ? मक्षिका ।
अयोपधातिति किं ? क्षत्रिया ।
योपध-प्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणं अप्रतिषेधः ।
हयी ।
गवयी ।
मुकयी ।
मत्सी ।
मनुषी । ।
____________________________________________________________________
- <पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदाच्च># । । PS_४,१.६४ । ।
_____Sठाऱ्ठ्JKव्_४,१.६४ः
पाक-आद्य्-उत्तरपदात्जातिवाचिनः प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो भवति ।
स्त्री-विषयत्वादेतेषां पूर्वेण अप्राप्तः प्रत्ययो बिधीयते ।
ओदनपादी ।
शङ्कुकर्णी ।
शालपर्णी ।
शङ्खपुष्पी ।
दासीफली ।
दर्भमूली ।
गोबाली ।
पुष्प-फल-मूल-उत्तरपदात्तु यतो नेष्यते तदजादिषु पठ्यते, सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्, सम्भस्त्राजिनशणपिण्डेभ्यः फलात्, मूलान्नञः इति । ।
____________________________________________________________________
- <इतो मनुस्य-जातेः># । । PS_४,१.६५ । ।
_____Sठाऱ्ठ्JKव्_४,१.६५ः
इकारान्तात्प्रातिपदिकात्मनुष्यजाति-वाचिनः स्त्रियां ङीष्प्रत्ययो भवति ।
अवन्ती ।
कुन्ती ।
दीक्षी ।
प्लाक्षी ।
इतः इति किं ? विठ् ।
दरथ् ।
मनुष्य-ग्रहणं किं ? तित्तिरिः ।
जातेः इति वर्तमाने पुनर्जाति-ग्रहणं योपधादपि यथा स्याथ् ।
औदमेयी ।
इञ उपसङ्ख्यानं अजात्य्-अर्थं ।
सौतङ्गमी ।
मौनचित्ती ।
सुतङ्गमादिभ्यश्चातुरर्थिक इञ्न जातिः । ।
____________________________________________________________________
- <ऊङुतः># । । PS_४,१.६६ । ।
_____Sठाऱ्ठ्JKव्_४,१.६६ः
मनुस्यजातेः इति वर्तते ।
उकारान्तात्मनुस्यजाति-वाचिनः प्रातिपदिकात्स्त्रियां ऊङ्प्रत्ययो भवति ।
कुरूः ।
बह्मबन्धूः ।
वीरबन्धूः ।
ङकारो नोङ्धात्वोः (*६,१.१७५) इति विशेषण-अर्थः ।
दीर्घोच्चारणं कपो बाधन-अर्थं ।
अयोपधातित्येतदत्र अपेक्ष्यते ।
अध्वर्युर्ब्राह्मणी ।
अप्राणिजातेश्चारज्ज्वादीनां इति वक्तव्यं ।
अलाबूः ।
कर्कन्धूः ।
अप्राणि-ग्रहणं किं ? कृकवाकुः ।
अरज्ज्वादीनां इति किं ? रज्जुः ।
हनुः । ।
____________________________________________________________________
- <बाह्वन्तात्सञ्ज्ञायाम्># । । PS_४,१.६७ । ।
_____Sठाऱ्ठ्JKव्_४,१.६७ः
बाहु-शब्दान्तात्प्रातिपदिकात्सञ्ज्ञायां विषये स्त्रियां ऊङ्प्रत्ययो भवति ।
भद्रबाहूः ।
जालबाहूः ।
सञ्ज्ञायां इति किं ? वृत्तौ बाहू अस्याः वृत्तबाहुः । ।
____________________________________________________________________
[#३३६]
- <पङ्गोश्च># । । PS_४,१.६८ । ।
_____Sठाऱ्ठ्JKव्_४,१.६८ः
पङ्गु-शब्दात्स्त्रियां ऊङ्प्रत्ययो भवति ।
पङ्गूः ।
श्वशुरस्य+उकाराकारलोपश्च वक्तव्यः ।
श्वश्रूः । ।
____________________________________________________________________
- <ऊरु-उत्तरपदादौपम्ये># । । PS_४,१.६९ । ।
_____Sठाऱ्ठ्JKव्_४,१.६९ः
ऊरु-उत्तरपदात्प्रातिपदिकातौपम्ये गम्यमाने स्त्रियां ऊङ्प्रत्ययो भवति ।
कदलीस्तम्भोरूः ।
नागनासोरूः ।
करभोरूः ।
औपम्ये इति किं ? वृत्तोरुः स्त्री । ।
____________________________________________________________________
- <संहित-शफ-लक्षण-वाम-आदेश्च># । । PS_४,१.७० । ।
_____Sठाऱ्ठ्JKव्_४,१.७०ः
संहित शफ लक्षण वाम इत्येवं आदेः प्रातिपदिकादूरु-उत्तरपदात्स्त्रियां ऊङ्प्रत्ययो भवति ।
अनौपम्य-अर्थ आरम्भः ।
संहितोरूः ।
शफोरूः ।
लक्षणोरूः ।
वामोरूः ।
सहितसहाभ्यां च+इति वक्तव्यं ।
सहितोरूः ।
सहोरूः । ।
____________________________________________________________________
- <कद्रु-कमण्डल्वोश्छन्दसि># । । PS_४,१.७१ । ।
_____Sठाऱ्ठ्JKव्_४,१.७१ः
कद्रु-शब्दात्कमण्डलु-शब्दाच्च छन्दसि चिषये स्त्रियां ऊङ्प्रत्ययो भवति ।
कद्रूश्च वै सुपर्णी अ ।
मा स्म कमण्डलूं शूद्राय दद्याथ् ।
छन्दसि इति किं ? कद्रुः ।
कमण्दलुः ।
गुग्गुलुमधुजतुपतयालूनां इति वक्तव्यं ।
गुगुलूः ।
मधूः ।
जतूः ।
पतयालूः । ।
____________________________________________________________________
- <सञ्ज्ञायाम्># । । PS_४,१.७२ । ।
_____Sठाऱ्ठ्JKव्_४,१.७२ः
कद्रु-कमण्डलु-शब्दाभ्यां सञ्ज्ञायां विषये स्त्रियां ऊङ्प्रत्ययो भवति ।
अच्छन्दोर्थं वचनं ।
कद्रूः ।
कमण्डलूः ।
सञ्ज्ञायां इति किं ? कद्रुः ।
कमण्डलुः । ।
____________________________________________________________________
[#३३७]
- <शार्ङ्गरव-आद्य्-अञो ङीन्># । । PS_४,१.७३ । ।
_____Sठाऱ्ठ्JKव्_४,१.७३ः
शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन्प्रत्ययो भवति ।
शार्ङ्गरवी ।
कापटवी ।
अञनतेभ्यः - बैदी ।
और्वी ।
जातिग्रहणं अत्र अनुवर्तते ।
तेन जाति-लक्षणो ङीषनेन बाध्यते, न पुंयोग-लक्षणः, बैदस्य स्त्री बैदी ।
शार्ङ्गरव ।
कापटव ।
गौगुलव ।
ब्राह्मण ।
गौतम ।
एतेऽणन्ताः ।
कामण्डलेय ।
ब्राहमकृतेय ।
आनिचेय ।
आनिधेय ।
आशोकेय ।
एते ढगन्ता ।
वात्स्यायन ।
मौञ्जायन ।
एतौ फगन्तौ जातिः ।
कैकसेयो ढगन्तः ।
काव्यशैव्यौ यञन्तौ ।
एहि, पर्येहि कृदिकारान्तौ ।
आश्मरथ्यो यञन्तः ।
औदपानः ।
उदपानशब्दः शुण्डिकाद्यणन्तः प्रयोजयति ।
अराल ।
चण्डाल ।
वतण्ड ।
जातिः ।
भोगवद्गौरिमतोः सञ्ज्ञायां घादिषु नित्यं ह्रस्वार्थं ।
नृनरयोर्वृद्धिश्च ।
अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन्विधीयते । ।
____________________________________________________________________
- <यङश्चाप्># । । PS_४,१.७४ । ।
_____Sठाऱ्ठ्JKव्_४,१.७४ः
यङन्तात्प्रातिपदिकात्स्त्रियां चाप्प्रत्ययो भवति ।
ञ्यङः ष्यङश्च सामान्य-ग्रहणं एतथ् ।
आम्बष्ठ्या ।
सौवीर्या ।
कौसल्या ।
ष्यङ्- कारीषगन्ध्या ।
वाराह्या ।
बालाक्या ।
षाच्च यञः ।
षात्परो यो यञ्तदन्ताच्चाप्वक्तव्यः ।
शार्कराक्ष्या ।
अपुतिमाष्या ।
गौकक्ष्या ।
उत्तरसूत्रे चकारोऽनुक्त-समुच्चय-अर्थः, तेन वा भविष्यति । ।
____________________________________________________________________
- <आवङ्याच्च># । । PS_४,१.७५ । ।
_____Sठाऱ्ठ्JKव्_४,१.७५ः
अवट-शब्दो गर्गादिः, तस्माद्यञि कृते ङीपि प्राप्ते वचनं एतथ् ।
आवट्याच्च स्त्रियां चाप्प्रत्ययो भवति ।
आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणाथ् ।
आवट्यायनी । ।
____________________________________________________________________
- <तद्धिताः># । । PS_४,१.७६ । ।
_____Sठाऱ्ठ्JKव्_४,१.७६ः
अधिकारोऽयं ।
आपञ्चमाध्यायपरिसमाप्तेः यानित ऊर्ध्वं अनुक्रमिस्यामः तद्धितसञ्ज्ञास्ते वेदितव्याः ।
वक्ष्यति, यूनस्तिः (*४,१.७७) - युवतिः ।
बहुवचनं अनुक्त-तद्धित-परिग्रह-अर्थं ।
पृथिव्या ञाञौ (*४,१.८५), अग्रादिपश्चाड्डिमच्(*४,३.२३) इत्येवं आदि लब्धं भवति ।
तद्धित-प्रदेशाः - कृत्-तद्धित-समासाश्च (*१,२.४६) इत्येवं आदयः । ।
____________________________________________________________________
[#३३८]
- <यूनस्तिः># । । PS_४,१.७७ । ।
_____Sठाऱ्ठ्JKव्_४,१.७७ः
युवन्-शब्दात्प्रातिपदिकात्स्त्रियां तिः प्रत्ययो भवति ।
स च तद्धितसञ्ज्ञो भवति ।
ङीपोऽपवादः ।
युवतिः । ।
____________________________________________________________________
- <अण्-इञोरनार्षयोर्गुरु-उपोत्तमयोः ष्यङ्गोत्रे># । । PS_४,१.७८ । ।
_____Sठाऱ्ठ्JKव्_४,१.७८ः
गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति ।
निर्दिष्यमानस्य आदेशा भवन्ति इत्यणिञोरेव विज्ञायते, न तु समुदायस्य ।
ङकारः सामान्य-ग्रहण-अर्थः ।
षकारस्तदविघातार्थः, यङश्चाप्(*४,१.७४) इति ।
उत्तम-शब्दः स्वभावात्त्रिप्रभृतीनामन्त्यमक्षरमाह ।
उत्तमस्य समीपं उपोत्तमं ।
गुरु उपोत्तमं यस्य तद्गुरूपोत्तमं प्रातिपदिकं ।
करीषस्य+इव गन्धोऽस्य करीषगन्धिः ।
कुमुदगन्धिः ।
तस्यापत्यं इत्यण् ।
तस्य ष्यङादेशः ।
कारीषगन्ध्या ।
क्ॐउदगन्ध्या ।
वराहस्यापत्यं ।
अत इञ्(*४,१.९५) ।
वाराहिः ।
तस्य ष्यङादेशः ।
वाराह्या ।
बालाक्या ।
अणिञोः इति किं ? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी ।
गुरूपोत्तमादिकं सर्वं अस्ति इति न स्तणिञौ ।
टिड्ढाणञ्(*४,१.१५) इति ङीबेव भवति ।
अनार्षयोः इति किं ? वासिष्ठी ।
वैश्वामित्री ।
गुरूपोत्तमयोः इति किं ? औपगवी ।
कापटवी ।
गोत्रे इति किं ? तत्र जाताः (*४,३.२५) - आहिच्छत्री ।
कान्यकुब्जी । ।
____________________________________________________________________
- <गोर-अवयवात्># । । PS_४,१.७९ । ।
_____Sठाऱ्ठ्JKव्_४,१.७९ः
अण्-इञोः इत्येव ।
गोत्र-अवयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः ।
ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति ।
अगुरूपोत्तमार्थ आरम्भः ।
पौणिक्या ।
भौणिक्या ।
मौखर्या ।
येषां स्वनन्तरापत्येऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः । ।
____________________________________________________________________
- <क्रौड्य्-आदिभ्यश्च># । । PS_४,१.८० । ।
_____Sठाऱ्ठ्JKव्_४,१.८०ः
क्रौडि इत्येवं आदिभ्यश्च स्त्रियां ष्यङ्प्रत्ययो भवति ।
अगुरूपोत्तम-अर्थ आरम्भः ।
अनणिञर्थश्च ।
कौड्या ।
लाड्या ।
कौडि ।
लाडि ।
व्याडि ।
आपिशलि ।
आपक्षिति ।
चौपयत ।
चैटयत ।
शैकयत ।
बैल्वयत ।
वैकल्पयत ।
सौधातकि ।
सूत युवत्यां ।
भोज क्षत्रिये भौरिकि ।
भौलिकि ।
शाल्मकि ।
शालास्थलि ।
कापिष्ठलि ।
गौलक्ष्य ।
गौकक्ष्य । ।
____________________________________________________________________
[#३३९]
- <दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्योऽन्यतरस्याम्># । । PS_४,१.८१ । ।
_____Sठाऱ्ठ्JKव्_४,१.८१ः
दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषां अन्यतरस्यां ष्यङ्प्रत्ययो भवति ।
इञन्ता एते, गोत्र-ग्रहणं च न अनुवर्तते ।
तेन+उभयत्रविभाषेयं ।
गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते ।
तेन मुक्ते इतो मनुस्यजाते (*४,१.६५) इति ङीषेव भवति ।
दैवयज्ञ्या, दैवयज्ञी ।
शौचिवृक्ष्या, शौचिवृक्षी ।
सात्यमुग्र्या, सात्यमुग्री ।
काण्ठेविद्ध्या, काण्ठेविद्धी । ।
____________________________________________________________________
- <समर्थानां प्रथमाद्वा># । । PS_४,१.८२ । ।
_____Sठाऱ्ठ्JKव्_४,१.८२ः
त्रयं अप्यधिक्रियते समर्थानां इति च, प्रथमादिति च, वा इति च ।
स्वार्थिक-प्रत्ययावधिश्चायं अधिकारः, प्राग्दिशो विभक्तिः (*५,३.१) इति वावथ् ।
स्वार्थिकेषु ह्यस्य+उपयोगो न अस्ति, विकल्पोऽपि तत्र अनवस्थितः ।
केचिन्नित्यं एव भवन्ति ।
लक्षणवाक्यानि तस्य अपत्यं (*४,१.९२), तेन रक्तं रागात्(*४,२.१) तत्र भवः (*४,३.५३) इत्येवं आदीनि भविष्यन्ति ।
तेषु सामर्थ्ये सति प्रथम-निर्दिष्टादेव विकल्पेन प्रत्ययो भवति इति वेदितव्यं ।
समर्थानां इति विर्धारणे षष्ठी ।
समर्थानां मद्ये प्रथमः प्रत्यय-प्रकृतित्वेन निर्धार्यते ।
तस्य इति सामान्यं विशेषलक्षण-अर्थं ।
तदीयं प्राथम्यं विशेषाणां विज्ञायते ।
उपगोः अपत्यं औपगवः ।
समर्थानां इति किं ? कम्बल उपगोः, अपत्यं देवदत्तस्य ।
प्रथमातिति किं ? षष्ठ्यान्ताद्यथा स्यात्, प्रथमान्तान्मा भूथ् ।
वा इति किं ? वाक्यं अपि यथा स्यातुपगोरपत्यं इति ।
यद्येवं समास-वृत्तिः तद्धित-वृत्त्या बाध्येत उपग्वपत्यं इति ।
न+एष दोषः ।
पूर्वसूत्रादन्यतरस्यां ग्रहणं अनुवर्तते ।
तेन+एतदपि भविष्यति । ।
____________________________________________________________________
- <प्राग्दीव्यतोऽण्># । । PS_४,१.८३ । ।
_____Sठाऱ्ठ्JKव्_४,१.८३ः
तेन दीव्यति इति वक्ष्यति ।
तदेकदेशो दीव्यच्छब्दो अवधित्वेन गृह्यते ।
प्राग्- दीव्यत्संशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यमः, अण्प्रत्ययस्तत्र भवति इति वेदितव्यं ।
अधिकारः, परिभाषा, चिधिर्वा इति त्रिष्वपि दर्शनेष्वपवादविषयं परिगृत्य अण्प्रवर्तते ।
वक्ष्यति, तस्य अपत्यं (*४,१.९२) - औपगवः ।
कापटवः । ।
____________________________________________________________________
- <अश्वपत्यादिभ्यश्च># । । PS_४,१.८४ । ।
_____Sठाऱ्ठ्JKव्_४,१.८४ः
अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेषु अण्प्रत्ययो भवति ।
पत्युत्तरपदाद्ण्यं वक्ष्यति, तस्य अपवादः ।
आश्वपतं ।
शातपतं ।
अश्वपति ।
शतपति ।
धनपति ।
गणपति ।
राष्ट्रपति ।
कुलपति ।
गृहपति ।
धान्यपति ।
पशुपति ।
धर्मपति ।
सभापति ।
प्राणपति ।
क्षेत्रपति । ।
____________________________________________________________________
[#३४०]
- <दित्य्-अदित्य्-आदित्य-पत्य्-उत्तरपदाण्ण्यः># । । PS_४,१.८५ । ।
_____Sठाऱ्ठ्JKव्_४,१.८५ः
प्राग्दीव्यतः इत्येव ।
दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात्च प्रातिपदिकात्प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति ।
दैत्यः ।
आदित्यः ।
आदित्यं ।
पत्युत्तरपदात्- प्राजापत्यं ।
सैनापत्यं ।
यमाच्चेति वक्तव्यं ।
याम्यं ।
वाङ्मतिपितृमतां छन्दस्युपसंख्यानं ।
वाच्यः ।
मात्या ।
पैतृमत्यं ।
पृथिव्या ञाञौ ।
पार्थिवा ।
पार्थिवी ।
देवाद्यञञौ ।
दैव्यं ।
दैवं ।
बहिषष्टिलोपश्च ।
बाह्याः ।
ईकक्च ।
वाहीकः ।
ईकञ्छन्दसि ।
बाहीकः ।
स्वरे विशेषः ।
टिलोपवचनं अव्ययानां भमात्रे टिलोपस्य अनित्यत्वज्ञापनार्थं ।
आरातीयः ।
स्थाम्नोऽकारः ।
अश्वत्थामः ।
लोम्नोऽपत्येषु बहुषु ।
उडुलोमाः ।
शरलोमाः ।
बहुषु इति किं ? औडुलोमिः ।
शारलोमिः ।
सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यथ् ।
गव्यं ।
अजादि-प्रत्यय-प्रसङ्गे इति किं ? गोभ्यो हेतुभ्य आगतं गोरूप्यं ।
गोमयं ।
ण्यादयोऽर्थविशेषलक्षणादपवादात्पूर्वविप्रतिषेधेन ।
दितेरपत्यं दैत्यः ।
वनस्पतीनां समूहः वानस्पत्यं ।
कथं दैतेयः ? दिति-शब्दात्कृदिकारादक्तिनः, सर्वतोऽक्तिन्न्-अर्थादित्येके इति ङीषं कृत्वा स्त्रीभ्यो ढक्क्रियते ।
लिङ्गविशिष्ट-परिभाषा च अनित्या । ।
____________________________________________________________________
[#३४१]
- <उत्स-आदिभ्योऽञ्># । । PS_४,१.८६ । ।
_____Sठाऱ्ठ्JKव्_४,१.८६ः
प्राग्दीव्यतः इत्येव ।
उत्सादिभ्यः प्राग्दीव्यतीयेषु अर्थेषु अञ्प्रत्ययो भवति ।
अणस्तदपवादानां च बाधकः ।
औत्सः ।
औदपानः ।
उत्स ।
उदपान ।
विकर ।
विनोद ।
महानद ।
महानस ।
महाप्राण ।
तरुण ।
तलुन ।
बष्कयाऽसे ।
धेनु ।
पृथिवी ।
पङ्क्ति ।
जगती ।
तिर्ष्टुप् ।
अनुष्टुप् ।
जनपद ।
भरत ।
उशीनर ।
ग्रीष्म ।
पीलु ।
कुल ।
उदस्थानात्देशे ।
पृषदंशे ।
भल्लकीय ।
रथान्तर ।
मध्यन्दिन ।
बृहथ् ।
महथ् ।
सत्त्वन्तु ।
सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तु इति ।
कुरु ।
पञ्चाल ।
इन्द्रावसान ।
उष्णिक् ।
ककुबः ।
सुवर्ण ।
देव ।
ग्रीष्माच्छन्दसि इति वक्तव्यं ।
इह मा भूथ् ।
ग्रैषंई त्रिष्टुप् ।
छन्दश्च+इह वृत्तं गृह्यते, न वेदः । ।
____________________________________________________________________
- <स्त्री-पुंसाभ्यां नञ्-स्नञौ भवनात्># । । PS_४,१.८७ । ।
_____Sठाऱ्ठ्JKव्_४,१.८७ः
धान्यानां भवने क्षेत्रे खञ्(*५,२.१) इति वक्ष्यति ।
तस्य प्रागित्यनेन+एव सम्बन्धः ।
प्राग्भवनसंशब्दनाद्येऽर्थास्तेषु स्त्री-शब्दात्पुंस्-शब्दाच्च यथाक्रमं नञ्स्नञौ प्रत्ययु भवतः ।
स्त्रीषु भवं स्त्रैणं ।
प्ॐस्नं ।
स्त्रिणां समूहः स्त्रैणं ।
प्ॐस्नं ।
स्त्रीभ्य आगतं स्त्रैणं ।
अपुंस्नं ।
स्त्रीभ्यो हितं स्त्रैणं ।
प्ॐस्नं ।
स्त्रियाः पुंवतिति ज्ञापकाद्वत्यर्थे न भवति ।
योग-अपेक्षं च ज्ञापकं इति स्त्रीवदित्यपि सिद्धं । ।
____________________________________________________________________
- <द्विगोर्लुग्-अनपत्ये># । । PS_४,१.८८ । ।
_____Sठाऱ्ठ्JKव्_४,१.८८ः
प्राग्दीव्यतः इति वर्तते, न भवनातिति ।
द्विगोः इति षष्ठी ।
द्विगोर्यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्य-प्रत्ययं वर्जयित्वा तस्य लुग्भवति ।
पज्चसु कपालेषु संस्कृतः पज्चकपालः ।
दशकपालः ।
द्वौ देवादधीते द्विवेदः ।
त्रिवेदः ।
अनपत्ये इति किं ? द्वैदेवदत्तिः ।
त्रैदेवदत्तिः ।
प्राग्दिव्यतः इत्येव, द्वैपारायणिकः ।
द्विगु-निमित्तविज्ञानादिह न भवति, पञ्चकपालस्य+इदं पाञ्चकपालं ।
अथ वा द्विगोरेव अयं लुग्विधीयते ।
द्विगोः इति स्थान-षष्ठी ।
ननु च प्रत्ययादर्शनस्य+एषा सञ्ज्ञा ? सत्यं एतथ् ।
उपचारेण तु लक्षणया द्विगु-निमित्त-भूतः प्रत्यय एव द्विगुः, तस्य लुग्भवति ।
द्विगु-निमित्तकोऽपि तर्हि गुणकल्पनया कस्मान्न द्विगुरुच्यते पाज्चकपालं इति ? न तस्य द्विगुत्वं निमित्तं ।
इतरस्तु द्विगुत्वस्य+एव निमित्तं इत्यस्ति विशेषः ।
यद्येवं इह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति ? न+एव अत्र तद्धित उत्पद्यते ।
[#३४२]
वाक्यं एव भवति ।
त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति ।
तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः ।
अपरस्मादुत्पत्तिर्भविष्यति ।
अथ+इह कस्मान्न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गं अयं इति वा इत्यनुवर्तते ।
सा च व्यवस्थित-विभाषा विज्ञायते । ।
____________________________________________________________________
- <गोत्रेऽलुग्-अचि># । । PS_४,१.८९ । ।
_____Sठाऱ्ठ्JKव्_४,१.८९ः
प्राग्दीव्यतः इत्येव ।
यस्कादिभ्यो गोत्रे (*२,४.६३) ।
इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विशयभूते प्रतिषिध्यते ।
गर्गाणां छात्राः गार्गीयाः ।
वात्सीयाः ।
आत्रेयीयाः ।
खारपायणीयाः ।
गोत्रे इति किं ? कौबलं ।
बादरं ।
अचि इति किं ? गर्गेभ्य आगतं गर्गरूप्यं ।
गर्गमयं ।
प्राग्दीव्यतः इत्येव, गर्गेभ्यो हि तं गार्गीयं ।
गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् ।
बिदानां अपत्यं युवा, युवानौ बैदः, बैदौ ।
वैद-शब्दाततः इञ्कृते तस्य च इञः ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग्-अण्-इञोः (*२,४.५८) इति लुकि रूपं ।
एकवचन-द्विवचन-अन्तस्य प्रवृत्तौ बहुषु लोपो यूनि, बैदस्य बैदयोर्वा अपत्यं बहवो माणवकाः बिदाः ।
नह्यत्राण्बहुषूत्पन्नः । ।
____________________________________________________________________
- <यूनि लुक्># । । PS_४,१.९० । ।
_____Sठाऱ्ठ्JKव्_४,१.९०ः
प्राग्दीव्यतः इति वर्तते, अचि च ।
प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युव-प्रत्ययस्य लुग्भवति ।
तस्मन्निवृत्ते सति यो यतः प्राप्नोति स ततो भवति ।
फाण्टाहृतस्य अपत्यं फाण्टाहृतिः ।
तस्य अपत्यं युवा, फाण्टाहृति-मिमताभ्यां ण-फिञौ (*४,१.१५०), फाण्टागृतः ।
तस्य छाअत्राः इति विवक्षितेऽर्थे बुद्धिस्थे युव-प्रत्यय्स्य लुग्भवति ।
तस्मिन्निवृत्ते इञन्तं प्रकृति-रूपं सम्पन्नं ।
तस्मातिञश्च (*४,२.११२) इत्यण्भवति, फाण्टाहृताः ।
भागवित्तस्य अपत्यं भागवित्तिः ।
तस्य अपत्यं युवा, वृद्धाट्ठक्सौवीरेषु बहुलं (*४,१.१४८) इति ठक्, भागवित्तिकः ।
तस्य छात्राः, पूर्ववद्युवप्रत्यये निवृत्ते, इञश्च (*४,२.११२) इत्यण्, भागवित्ताः ।
तिकस्य अपत्यं, तिकादिभ्यः फिञ्(*४,१.१५४), तैकायनिः ।
तस्य अपत्यं युवा, फेश्छ च (*४,१.१४९) इति छः, तैकायनीयः ।
तस्य छात्रः, युव-प्रत्यये निवृत्ते वृद्धाच्छः (*४,२.११४), तैकायनीयाः ।
कपिञ्जलादस्य अपत्यं कापिञ्जलादिः ।
तस्य अपत्यं युवा, कुर्वादिभ्यो ण्यः (*४,१.१५१), कापिञ्जलाद्यः ।
तस्य छात्राः, ण्ये निवृत्ते इञश्च (*४,२.११२) इत्यण्, कापिञ्जलादाः ।
ग्लुचुकस्य अपत्यं, प्राचां अवृद्धात्फिन्बहुलं (*४,१.१६०) इति ग्लुचुकायनिः ।
तस्य अपत्यं युवा, प्राग्दीव्यतोऽण्(*४,१.८३), ग्लौचुकायनः ।
तस्य छात्राः, युव-प्रत्यये निवृत्ते स एव अण्, ग्लौचुकायनाः ।
अचि इत्येव, फाण्टाहृतरूप्यं ।
फाण्टाहृतमयं ।
प्राग्दीव्यतः इत्येव, भागवित्तिकाय हितं भागवित्तिकीयं । ।
____________________________________________________________________
[#३४३]
- <फक्-फिञोरन्यतरस्याम्># । । PS_४,१.९१ । ।
_____Sठाऱ्ठ्JKव्_४,१.९१ः
यूनि इत्येव ।
पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते ।
फक्फिञोर्युव-प्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग्भवति ।
गर्गादिभ्यो यञि कृते यञिञोश्च (*४,१.१०१) इति फक्, गार्ग्यायणः ।
तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः ।
वात्सीयाः, वात्स्यायनीयाः ।
फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्योऽण्(*४,१.११२), यास्कः ।
तस्य अपत्यं युवा, अणो द्व्यचः (*४,१.१५६) इति फिञ्, यास्कायनिः ।
तस्य छात्राः यास्कीयाः, यास्कायनीयाः । ।
____________________________________________________________________
- <तस्य अपत्यम्># । । PS_४,१.९२ । ।
_____Sठाऱ्ठ्JKव्_४,१.९२ः
अर्थ-निर्देशोऽयं, पूर्वैरुत्तरैश्च प्रत्ययैरभिसम्बध्यते ।
तस्य इति षष्ठीसमर्थातपत्यं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
प्रकृत्यर्थ-विशिष्टः षष्ठ्यर्थोऽपत्यं आत्रञ्चेह गृह्यते ।
लिङ्गवचनादिकमन्यत्सर्वमविवक्षितं ।
उपगोरपत्यं औपगवः ।
आश्वपतः ।
दैत्यः ।
औत्सः ।
स्त्रैणः ।
प्ॐस्नः ।
तस्य+इदं अपत्येऽपि बाधन-अर्थं कृतं भवेथ् ।
उत्सर्गः शेष एव असौ वृद्धान्यस्य प्रयोजनं । ।
भानोरपत्यं भानवः ।
श्यामगवः । ।
____________________________________________________________________
- <एको गोत्रे># । । PS_४,१.९३ । ।
_____Sठाऱ्ठ्JKव्_४,१.९३ः
अपत्यं पौत्र-प्रभृति गोत्रं (*४,१.१६२) ।
तस्मन्विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्ति-प्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते ।
अपतनादपत्यं ।
योऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव ।
गर्गस्य अपत्यं गार्गिः ।
गार्गेरपत्यं गार्ग्यः ।
तत्पुत्रोऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव ।
गर्गस्य अपत्यं गार्गिः ।
गार्गेरपत्यं गार्ग्यः ।
तत्पुत्रोऽपि गार्ग्यः ।
सर्वस्मिन्व्यवहितजनितेऽपि गोत्रापत्ये गर्ग-शब्दाद्यञेव भवति इति प्रत्ययो नियम्यते ।
अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययं उत्पादयति इति प्रकृतिर्नियम्यते ।
गार्ग्यः ।
नाडायनः । ।
____________________________________________________________________
- <गोत्राद्यून्यस्त्रियां># । । PS_४,१.९४ । ।
_____Sठाऱ्ठ्JKव्_४,१.९४ः
अयं अपि नियमः ।
यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः ।
गार्ग्यस्य अपत्यं युवा गार्ग्यायणः ।
वात्स्यायनः ।
दाक्षायणः ।
प्लाक्षायणः ।
औपगविः ।
नाडायनिः ।
अस्त्रियां इति किं ? दाक्षी ।
प्लाक्षी ।
किं पुनरत्र प्रतिषिध्यते ? यदि नियमः, स्त्रियां अनियमः प्राप्नोति ।
अथ युवप्रत्ययः, स्त्रिया गोत्रप्रययेन अभिधानं न प्राप्नोति गोर-सञ्ज्ञायाः युव-सञ्ज्ञया बाधितत्वाथ् ।
तस्माद्योगविभागः कर्तव्यः ।
गोत्राद्यूनि प्रत्ययो भवति ।
ततोऽस्त्रियां ।
यूनि यदुक्तं तत्स्त्रियां न भवति ।
युवसञ्ज्ञा+एव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेन अभिधास्यते । ।
____________________________________________________________________
[#३४४]
- <अत इञ्># । । PS_४,१.९५ । ।
_____Sठाऱ्ठ्JKव्_४,१.९५ः
तस्य अपत्यं इत्येव ।
अकारान्तात्प्रातिपदिकातिञ्प्रत्ययो भवति ।
अणोऽपवादः ।
दक्षस्य अपत्यं दाक्षिः ।
तपरकरणं किं ? शुभंयाः, कीलालपाः इत्यतो मा भूथ् ।
कथं प्रदीयतां दाशरथाय मैथिलि ? शेषविवक्षया भविष्यति । ।
____________________________________________________________________
- <बाह्व्-आदिभ्यश्च># । । PS_४,१.९६ । ।
_____Sठाऱ्ठ्JKव्_४,१.९६ः
बाहु इत्येवं आदिभ्यः शब्देभ्योऽपत्ये इञ्प्रत्ययो भवति ।
बाहविः ।
औपबाहविः ।
अनकारार्थ आरम्भः ।
क्वचिद्बाधकवाधनार्थः ।
बाहु ।
उपबाहु ।
विवाकु ।
शिवाकु ।
बटाकु ।
उपबिन्दु ।
वृक ।
चूडाला ।
मूषिका ।
बलाका ।
भगला ।
छगला ।
घ्रुवका ।
धुवका ।
सुमित्रा ।
दुर्मित्रा ।
पुष्करसथ् ।
अनुहरथ् ।
देवशर्मन् ।
अग्निशर्मन् ।
कुनामन् ।
सुनामन् ।
पञ्चन् ।
सप्तन् ।
अष्टन् ।
अमितौजसः सलोपश्च ।
उदञ्चु ।
शिरस् ।
शराविन् ।
क्षेमवृद्धिन् ।
शृङ्खलातोदिन् ।
खरनादिन् ।
नगरमर्दिन् ।
प्राकारमर्दिन् ।
लोमन् ।
अजीगर्त ।
कृष्ण ।
सलक ।
युधिष्ठिर ।
अर्जुन ।
साम्ब ।
गद ।
प्रद्युम्न ।
राम ।
उदङ्कः सञ्ज्ञायां ।
अम्भूयोऽम्भसोः सलोपश्च ।
बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः ।
बाहुर्नाम कश्चित्, तस्य अपत्यं बाहवः ।
सम्बन्धिशब्दानां च तत्सदृशात्प्रतिषेधः ।
सञ्ज्ञा - श्वशुरस्य अपत्यं श्वाशुरिः ।
चकारोऽनुक्त-समुच्चय-अर्थः आकृतिगणतामस्य बोधयति ।
जाम्बिः ।
ऐन्द्रशर्मिः ।
आजधेनविः ।
आजबन्धविः ।
औडुलोमिः । ।
____________________________________________________________________
- <सुधातुरकङ्च># । । PS_४,१.९७ । ।
_____Sठाऱ्ठ्JKव्_४,१.९७ः
सुधातृ-शब्दादपत्ये इञ्प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति ।
सुधातुरपत्यं सौधातकिः ।
व्यासवरुडनिषादचण्डालबिम्बानां इति वक्तव्यं ।
वैयासकिः ।
बारुडकिः ।
नैषादकिः ।
चाण्डालकिः ।
बैम्बकिः । ।
____________________________________________________________________
[#३४५]
- <गोत्रे कुञ्ज-आदिभ्यश्च्फञ्># । । PS_४,१.९८ । ।
_____Sठाऱ्ठ्JKव्_४,१.९८ः
तस्य अपत्यं इत्येव ।
गोत्रसञ्ज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यः च्फञ्प्रत्ययो भवति ।
इञोऽपवादः ।
चकारो विशेषण-अर्थः व्रात-च्फञोरस्त्रियां (*५,३.११३) इति ।
ञकारो वृद्ध्य्-अर्थः ।
कौञ्जायन्यः, कौजायन्यौ, कौञ्जायनाः ।
ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः ।
गोत्रे इति किं ? कुञ्जस्य अपत्यं अनन्तरं कौञ्जिः ।
एकवचन-द्विवचनयोः सतिशिष्टत्वात्ञित्स्वरेण+एव भवितव्यं ।
बहुवचने तु कौञ्जायनाः इति, परं अपि ञित्स्वरं त्यक्त्वा चित्स्वर एव+इष्यते ।
गोत्र-अधिकारश्च शिवादिभ्योऽण्(*४,१.११२) इति यावथ् ।
कुञ्ज ।
ब्रध्न ।
शङ्ख ।
भस्मन् ।
गण ।
लोमन् ।
शठ ।
शाक ।
शाकट ।
शुण्डा ।
शुभ ।
विपाश ।
स्कन्द ।
स्तम्भ । ।
____________________________________________________________________
- <नडादिभ्यः फक्># । । PS_४,१.९९ । ।
_____Sठाऱ्ठ्JKव्_४,१.९९ः
नडित्येवं आदिभ्यः प्रातिपदिकेभ्यः गोत्रापत्ये फक्प्रत्ययो भवति ।
नाडायनः ।
चारायणः ।
गोत्रे इत्येव, नाडिः ।
शलङ्कु शलङ्कं च इत्यत्र पठ्यते ।
शालङ्कायनः ।
पैलादिषु शालङ्कि-शब्दः पठ्यते ।
शालङ्किः पिता ।
शालङ्किः पुत्रः ।
तत्कथं ? गोत्र-विशेषे कौशिके फकं स्मरन्ति, इञेव अन्यत्र शालङ्किः इति ।
अथवा पैलादिपाठ एव ज्ञापकः इञो भावस्य ।
नड ।
चर ।
बक ।
मुञ्ज ।
इतिक ।
इतिश ।
उपक ।
लमक ।
शलङ्कु शलङ्कं च ।
सप्तल ।
वाजप्य ।
तिक ।
अग्निशर्मन्वृशगणे ।
प्राण ।
नर ।
सायक ।
दास ।
मित्र ।
द्वीप ।
पिङ्गर ।
पिङ्गल ।
किङ्कर ।
किङ्कल ।
कातर ।
कातल ।
काश्य ।
काश्यप ।
काव्य ।
अज ।
अमुष्य ।
कृष्णरणौ ब्राह्मणवासिष्ठयोः ।
अमित्र ।
लिगु ।
चित्र ।
कुमार ।
क्रोष्टु क्रोष्टं च ।
लोह ।
दुर्ग ।
स्तम्भ ।
शिंशिपा ।
अग्र ।
तृण ।
शकट ।
सुमनस् ।
सुमत ।
मिमत ।
ऋक् ।
जथ् ।
युगन्धर ।
हंसक ।
दण्डिन् ।
हस्तिन् ।
पञ्चाल ।
चमसिन् ।
सुकृत्य ।
स्थिरक ।
ब्राह्मण ।
चटक ।
बदर ।
अश्वक ।
खरप ।
कामुक ।
व्रह्मदत्त ।
उदुम्बर ।
शोण ।
अलोह ।
दण्ड । ।
____________________________________________________________________
- <हरित-आदिभ्योऽञः># । । PS_४,१.१०० । ।
_____Sठाऱ्ठ्JKव्_४,१.१००ः
हरितादिर्बिदाद्यन्तर्गणः ।
हरितादिभ्योऽञन्तेभ्योऽपत्ये फक्प्रत्ययो भवति ।
इञोऽपवादः ।
हरितस्य अपत्यं हारितायनः ।
कैन्दासायनः ।
ननु च गोत्रे इति वर्तते ।
न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे (*४,१.९३) इति वचनात्? सत्यं एतथ् ।
[#३४६]
इह तु गोत्राधिकारेऽपि सामर्थ्याद्यूनि प्रत्ययो विज्ञायते ।
गोत्राधिकारस्तु उत्तरार्थः । ।
____________________________________________________________________
- <यञ्-इञोश्च># । । PS_४,१.१०१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०१ः
यञन्तातिञन्ताच्च प्रातिपदिकादपत्ये फक्प्रत्ययो भवति ।
गार्ग्यायणः ।
वात्स्यायनः ।
इञन्तात्- दाक्षायणः ।
प्लाक्षायणः ।
द्वीपादनुसमुद्रं यञ्(*४,३.१०), सुतङ्-गमादिभ्य इञ्(*४,२.८०) इत्यतो न भवति ।
गोत्र-ग्रहणेन यञिञौ विशेष्येते ।
तदन्तात्तु यून्येव अयं प्रत्ययः, गोत्राद्यूनि प्रत्ययो भवति इति वचनात् । ।
____________________________________________________________________
- <शरद्वच्-छुनक-दर्भाद्भृगु-वत्स-आग्रायणेषु># । । PS_४,१.१०२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०२ः
गोत्रे इत्येव ।
शरद्वत्शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक्प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्य-विशेषेषु ।
शारद्वतायनो भवति भार्गवश्चेथ् ।
शारद्वतोऽन्यः ।
शौनकायनो भवति वात्स्यश्चेथ् ।
शौनकोऽन्यः ।
दार्भायणो भवति आग्रायणश्चेथ् ।
दार्भिरन्यः ।
शरद्वच्-छुनक-शब्दौ बिदादी ।
ताभ्यां अञोऽपवादः फक् । ।
____________________________________________________________________
- <द्रोण-पर्वत-जीवन्तादन्यतरस्याम्># । । PS_४,१.१०३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०३ः
गोत्रे इत्येव ।
द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक्प्रत्ययो भवति ।
इञोऽपवादः ।
द्रौणायनः, द्रौणिः ।
पार्वतायनः, पार्वतिः ।
जैवन्तायनः, जैवन्तिः ।
कथं अनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते ।
न+एव अत्र महाभारतद्रोणो गृह्यते ।
किं तर्हि ? अनादिः ।
तत इदं गोत्रे प्रत्ययविधानं ।
इदानींतनात्तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति । ।
____________________________________________________________________
- <अनृष्य्-आनन्तर्ये बिद-आदिभ्योऽञ्># । । PS_४,१.१०४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०४ः
गोत्रे इत्येव ।
बिदादिभ्यो गोत्रापत्ये अञ्प्रत्ययो भवति ।
बैदः ।
और्वः ।
ये पुनरत्र अनृषि-शब्दाः पुत्रादयस्तेभ्योऽनन्तरापत्ये एव भवति ।
पौत्रः ।
दौहित्रः ।
अनृष्यानन्तर्यस्य अयं अर्थः, अनृषिभ्योऽनन्तरे भवति इति ।
यद्ययं अर्थः, ऋष्यपत्ये नैरन्तर्य-प्रतिषेधो न कृतः स्यात्? तत्र+इदं न सिध्यति, इन्द्रभूः सप्तमः काश्यपानां ।
अनन्तरापत्यरूपेण+एव ऋष्यणाभिधानं भविष्यति ।
अवश्यं च+एतदेवं विज्ञेयं ।
ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्रः इति दुष्यति ।
गोत्रे इत्येव, बैदिः ।
ननु च ऋष्यणा भवितव्यं ? बाह्वादिः आकृतिगणः, तेन इञेव भवति ।
बिद ।
उर्व ।
कश्यप ।
कुशिक ।
भरद्वाज ।
उपमन्यु ।
किलालप ।
किदर्भ ।
विश्वानर ऋष्टिषेण ।
ऋतभाग ।
हर्यश्व ।
प्रियक ।
आपस्तम्ब ।
कूचवार ।
शरद्वथ् ।
शुनक ।
धेनु ।
गोपवन ।
शिग्रु ।
बिन्दु ।
भाजन ।
अश्वावतान ।
श्यामाक ।
श्यमाक ।
श्यापर्ण ।
हरित ।
किन्दास ।
वह्यस्क ।
अर्कलूष ।
वध्योष ।
विष्णुवृद्ध ।
प्रतिबोध ।
रथान्तर ।
रथीतर ।
गविष्ठिर ।
निषाद ।
मठर ।
मृद ।
पुनर्भू ।
पुत्र ।
दुहितृ ।
ननान्दृ ।
परस्त्री परशुं च । ।
____________________________________________________________________
[#३४७]
- <गर्ग-आदिभ्यो यञ्># । । PS_४,१.१०५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०५ः
गोत्रे इत्येव ।
गर्गादिभ्यो गोत्रापत्ये यञ्प्रत्ययो भवति ।
गार्ग्यः ।
वात्स्यः ।
मनु-शब्दोऽत्र पठ्यते ।
तत्र कथं मानवी प्रजा ? गोत्रे इत्युच्यते ।
अपत्यसामान्ये भविष्यति ।
कथं अनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्यः इति ? गोत्ररूपाध्यारोपेण भविष्यति ।
अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशरः इति ।
गर्ग ।
वत्स ।
वाजाऽसे ।
संकृति ।
अज ।
व्याघ्रपाथ् ।
विदभृथ् ।
प्राचीनयोग ।
अगस्ति ।
पुलस्ति ।
रेभ ।
अग्निवेश ।
शङ्ख ।
शठ ।
घूम ।
अवट ।
चमस ।
धनञ्जय ।
मनस ।
वृक्ष ।
विश्वावसु ।
जनमान ।
लोहित ।
शंसित ।
बभ्रु ।
मण्डु ।
मक्षु ।
अलिगु ।
शङ्कु ।
लिगु ।
गुलु ।
मन्तु ।
जिगीषु ।
मनु ।
तन्तु ।
मनायी ।
भूत ।
कथक ।
कष ।
तण्ड ।
वतण्ड ।
कपि ।
कत ।
कुरुकत ।
अनडुः ।
कण्व ।
शकल ।
गोकक्ष ।
अगस्त्य ।
कुण्डिन ।
यज्ञवल्क ।
उभय ।
जात ।
विरोहित ।
वृषगण ।
रहूगण ।
शण्डिल ।
वण ।
कचुलुक ।
मुद्गल ।
मुसल ।
पराशर ।
जतूकर्ण ।
मान्त्रित ।
संहित ।
अश्मरथ ।
शर्कराक्ष ।
पूतिमाष ।
स्थूण ।
अररक ।
पिङ्गल ।
कृष्ण ।
गोलुन्द ।
उलूक ।
तितिक्ष ।
भिषज् ।
भडित ।
भण्डित ।
दल्भ ।
चिकित ।
देवहू ।
इन्द्रहू ।
एकलू ।
पिप्पलू ।
वृदग्नि ।
जमदग्नि ।
सुलोभिन् ।
उकत्थ ।
कुटीगु । ।
____________________________________________________________________
- <मधु-बभ्व्रोर्ब्राह्मण-कौशिकयोः># । । PS_४,१.१०६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०६ः
मधु-शब्दाद्बभ्रु-शब्दाच्च गोत्रापत्ये यञ्प्रत्ययो भवति यथासङ्ख्यं ब्राह्मणे कौशिके वाच्ये ।
माध्व्यो भवति बाह्मणः चेथ् ।
माधव एव अन्यः ।
बाभ्रव्यो भवति कौशिकश्चेथ् ।
बाभ्रव एव अन्यः ।
बभ्रु-शब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियम-अर्थं वचनं ।
गर्गादिषु पठोऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादि-कतन्तेभ्यः (*४,१.१८) इति ।
बाभ्रव्यायणी । ।
____________________________________________________________________
- <कपि-बोधादाङ्गिरसे># । । PS_४,१.१०७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०७ः
कपि-बोध-शब्दाभ्यां आङ्गिरसेऽपत्य-विशेषे गोत्रे यञ्प्रत्ययो भवति ।
काप्यः ।
बौध्यः ।
आङ्गिरसे इति किं ? कापेयः ।
बौधिः ।
कपि-शब्दो गर्गादिषु पठ्यते ।
तस्य नियमर्थं वचनम्, आङ्गिरसे यथा स्याथ् ।
लोहितादिकार्यार्थं गणे पाठः ।
काप्यायनी । ।
____________________________________________________________________
- <वतण्डाच्च># । । PS_४,१.१०८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०८ः
आङ्गिरसे इत्येव ।
वतण्ड-शब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ्प्रत्ययो भवति ।
वातण्ड्यः ।
आङ्गिरसे इति किं ? वातण्डः ।
किं अर्थं इदं यावता गर्गादिष्वयं पठ्यते ? शिवादिषु अपि अयं पठ्यते ।
तत्र आङ्गिरसे शिवाद्यणोऽपवाद-अर्थं पुनर्वचनं ।
अनाङ्गिरसे तु उभयत्र पाठसामर्थ्यात्प्रत्ययद्वयं अपि भवति ।
वातण्ड्यः, वातण्डः । ।
____________________________________________________________________
[#३४८]
- <लुक्स्त्रियाम्># । । PS_४,१.१०९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१०९ः
आङ्गिरसे इत्येव ।
वतण्ड-शब्दादाङ्गिरस्यां स्त्रियां यप्रत्ययस्य लुक्भवति ।
लुकि कृते शार्ङ्गरवादिपाठान्ङीन्भवति ।
वतण्डी ।
आङ्गिरसे इति किं ? वातण्ड्यायनी ।
शिवाद्यणि तु वातण्डी । ।
____________________________________________________________________
- <अश्वादिभ्यः फञ्># । । PS_४,१.११० । ।
_____Sठाऱ्ठ्JKव्_४,१.११०ः
आङ्गिरस इति निवृत्तं ।
अश्वादिभ्यः गोत्रापत्ये फञ्प्रत्ययो भवति ।
आश्वायनः ।
आश्मायनः ।
ये त्वत्र प्रत्ययान्ताः पठ्यन्ते तेभ्यः सामार्थ्याद्यूनि प्रत्ययो विज्ञायते ।
अश्व ।
अश्मन् ।
शङ्ख ।
बिद ।
पुट ।
रोहिण ।
खर्जूर ।
खर्जूल ।
पिञ्जूर ।
भडिल ।
भण्डिल ।
भडित ।
भण्डित ।
भण्डिक ।
प्रहृत ।
रामोद ।
क्षत्र ।
ग्रीवा ।
काश ।
गोलाङ्क्य ।
अर्क ।
स्वन ।
ध्वन ।
पाद ।
चक्र ।
कुल ।
पवित्र ।
गोमिन् ।
श्याम ।
धूम ।
धूम्र ।
वाग्मिन् ।
विश्वानर ।
कुट ।
वेश ।
शप आत्रेये ।
नत्त ।
तड ।
नड ।
ग्रीष्म ।
अर्ह ।
विशम्य ।
विशाला ।
गिरि ।
चपल ।
चुनम ।
दासक ।
वैल्य ।
धर्म ।
आनडुह्य ।
पुंसिजात ।
अर्जुन ।
शूद्रक ।
सुमनस् ।
दुर्मनस् ।
क्षान्त ।
प्राच्य ।
कित ।
काण ।
चुम्प ।
श्रविष्ठा ।
वीक्ष्य ।
पविन्दा ।
आत्रेय भारद्वाजे ।
कुत्स ।
आतव ।
कितव ।
शिव ।
खदिर ।
भारद्वाज आत्रेये । ।
____________________________________________________________________
- <भर्गात्त्रैगर्ते># । । PS_४,१.१११ । ।
_____Sठाऱ्ठ्JKव्_४,१.१११ः
भर्ग-शब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ्प्रत्ययो भवति ।
भार्गायणो भवति त्रैगर्तः चेथ् ।
भार्गिः अन्यः । ।
____________________________________________________________________
- <शिव-आदिभ्योऽण्># । । PS_४,१.११२ । ।
_____Sठाऱ्ठ्JKव्_४,१.११२ः
गोत्रे इति निवृत्तं ।
अतः प्रभृति सामान्येन प्रत्ययाः विज्ञायन्ते ।
शिवादिभ्योऽपत्ये अण्प्रत्ययो भवति ।
यथायथं इञादीनां अपवादः ।
शैवः ।
प्रौष्ठः ।
तक्षन्शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं बाधितुं ।
ण्यत्प्रत्यय्स्य तु बाधो निष्यते ।
ताक्ष्णः, ताक्षण्यः ।
गङ्गा-शब्दः पठ्यते तिकादिफिञा शुम्रादिढका च समावेश-अर्थं ।
तेन त्रैरूप्यं भवति ।
गाङ्गः, गाङ्गायनिः , गाङ्गेयः ।
विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेश-अर्थं ।
वैपाशः, वैपाशायन्यः ।
शिव ।
प्रौष्ठ ।
प्रौष्ठिक ।
चण्ड ।
जम्भ ।
मुनि ।
सन्धि ।
भूरि ।
कुठार ।
अनभिम्लान ।
ककुत्स्थ ।
कहोड ।
लेख ।
रोध ।
खञ्जन ।
कोहड ।
पिष्ट ।
हेहय ।
खञ्जार ।
खञ्जाल ।
सुरोहिका ।
पर्ण ।
कहूष ।
परिल ।
वतण्ड ।
तृण ।
कर्ण ।
क्षीरह्रद ।
जलह्रद ।
परिषिक ।
जटिलिक ।
गोफिलिक ।
बधिरिका ।
मञ्जीरक ।
वृष्णिक ।
रेख ।
आलेखन ।
विश्रवण ।
रवण ।
वर्तनाक्ष ।
पिटक ।
पिटाक ।
तृक्षाक ।
नभाक ।
ऊर्णनाभ ।
जरत्कारु ।
उत्क्षिपा ।
रोहितिक ।
आर्यश्वेत ।
सुपिष्ट ।
खर्जूरकर्ण ।
मसूरकर्ण ।
तूणकर्ण ।
मयूरकर्ण ।
खडरक ।
तक्षन् ।
ऋष्टिषेण ।
गङ्गा ।
विपाश ।
यस्क ।
लह्य ।
द्रुघ ।
अयःस्थूण ।
भलन्दन ।
विरूपाक्ष ।
भूमि ।
इला ।
सपत्नी ।
द्व्यचो नद्याः ।
त्रिवेणी त्रिवणं च । ।
____________________________________________________________________
[#३४९]
- <अवृद्धाभ्यो नदी-मानुषीभ्यस्तन्नामिकाभ्यः># । । PS_४,१.११३ । ।
_____Sठाऱ्ठ्JKव्_४,१.११३ः
वृद्धिर्यस्य अचां आदिस्तद्वृद्धं (*१,१.७३) ।
अवृद्धाभ्यः इति शब्द-धर्मः, नदी-मानुषीभ्यः इति अर्थधर्मः, तेन अभेदात्प्रकृतयो निर्दिश्यन्ते ।
तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्यय-प्रकृतेः परामर्शः ।
अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्योऽपत्ये अण्प्रत्ययो भवति ।
ढकोऽपवादः ।
यमुनाया अपत्यं यामुनः ।
इरावत्याः अपत्यं ऐरावतः ।
वैतस्तः ।
नार्मदः ।
मानुषीभ्यः खल्वपि - शिक्षितायाः अपत्यं शैक्षितः ।
चिन्तितायाः अपत्य चैन्तितः ।
अवृद्धाभ्यः इति किं ? चन्द्रभागायाः अपत्यं चान्द्रभागेयः ।
वासवद्त्तेयः ।
नदीमानुषीभ्यः इति किं ? सौपर्णेयः ।
वैनतेयः ।
तन्नामिकाभ्यः इति किं ? शोभनायाः, शौभनेयः । ।
____________________________________________________________________
- <ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश्च># । । PS_४,१.११४ । ।
_____Sठाऱ्ठ्JKव्_४,१.११४ः
ऋषयः प्रसिद्धा वसिष्ठादयः ।
अन्धकाः वृष्णयः कुरवः इति वंशाख्याः ।
ऋष्यादि-कुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्ये अण्प्रत्ययो भवति ।
इञो+आवादः ।
अत्र्यादिभ्यस्तु परत्वाड्ढगादिभिरेव भवितव्यं ।
ऋषिभ्यस्तावत्- वासिष्ठः ।
वैश्वामित्रः ।
अन्धकेभ्यः - श्वाफल्कः ।
रान्धसः ।
वृष्णिभ्यः - वासुदेवः ।
आनिरुद्धः ।
कुरुभ्यः - नाकुलः ।
साहदेवः ।
कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयेण अन्वाख्यानं युज्यते ? केचिदाहुः कथं अपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेण+एव नकुलसहदेवादयः शब्दाः सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धा इति ।
अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्र+इदं प्रत्ययविधानं इत्यदोषः । ।
____________________________________________________________________
- <मातुरुत्सङ्ख्या-सं-भद्र-पूर्वायाः># । । PS_४,१.११५ । ।
_____Sठाऱ्ठ्JKव्_४,१.११५ः
मतृ-शब्दात्सङ्ख्या-पूर्वात्सं-पूर्वात्भद्र-पूर्वाच्च अपत्ये अण्प्रत्ययो भवति, उकारश्च अन्तादेशः ।
द्वयोर्मात्रोरपत्यं द्वैमातुरः ।
षाण्मातुरः ।
सांमातुरः ।
भाद्रमातुरः ।
उकार-अदेश-अर्थं वचनं, प्रत्ययः पुनरुत्सर्गेण+एव सिद्धः ।
स्त्रीलिङ्ग-निर्देशोऽर्थ-अपेक्षः, तेन धान्यमातुर्ग्रहणं न भवति ।
सङ्ख्या-सं-भद्र-पूर्वायाः इति किं ? स्ॐआत्रः । ।
____________________________________________________________________
- <कन्यायाः कनीन च># । । PS_४,१.११६ । ।
_____Sठाऱ्ठ्JKव्_४,१.११६ः
कन्या-शब्दादपत्येऽण्प्रत्ययो भवति ।
ढकोऽपवादः ।
तत्सन्नियोगेन कनीन-शब्द आदेशो भवति ।
कन्यायाः अपत्यं कानीनः कर्णः ।
कानीनो व्यासः । ।
____________________________________________________________________
[#३५०]
- <विकर्ण-शुङ्ग-छङ्गलाद्वत्स-भरद्वाज-अत्रिषु># । । PS_४,१.११७ । ।
_____Sठाऱ्ठ्JKव्_४,१.११७ः
विकर्ण्-अशुङ्ग-छङ्गल-शब्देभ्यः यथासङ्ख्यं वत्सभरद्वाजात्रिषु अपत्य-विशेषेषु अण्प्रत्ययो भवति ।
वैकर्णो भवति वात्स्यश्चेथ् ।
वैकर्णिः अन्यः ।
शौङ्गो भवति भारद्वाजश्चेथ् ।
शौङ्गिः अन्यः ।
छागलो भवति आत्रेयश्चेथ् ।
छागलिः अन्यः ।
शुङ्गा-शब्दं स्त्रीलिङ्ग-मन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति शौङ्गेयः इति ।
द्वयं अपि च+एतत्प्रमाणम्, उभयथा सूत्र-प्रणयनात् । ।
____________________________________________________________________
- <पीलाया वा># । । PS_४,१.११८ । ।
_____Sठाऱ्ठ्JKव्_४,१.११८ः
तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण्प्रत्ययः पक्षे विधीयते ।
पीलायाः अपत्ये वा अण्प्रत्ययो भवति ।
पीलायाः अपत्यं पैलः, पैलेयः । ।
____________________________________________________________________
- <ठक्च मण्डूकात्># । । PS_४,१.११९ । ।
_____Sठाऱ्ठ्JKव्_४,१.११९ः
मण्डूक-शब्दातपत्ये ढक्प्रत्ययो भवति ।
चकारातण्च वा ।
तेन त्रैरूप्यं भवति ।
माण्डूकेयः, माण्डूकः, माण्डूकिः । ।
____________________________________________________________________
- <स्त्रीभ्यो ढक्># । । PS_४,१.१२० । ।
_____Sठाऱ्ठ्JKव्_४,१.१२०ः
स्त्री-ग्रहणेन टाबादि-प्रत्ययान्ताः शब्दा गृह्यन्ते ।
स्त्रीभ्योऽपत्ये ढक्प्रत्ययो भवति ।
सौपर्णेयः ।
वैनतेयः ।
स्त्रीप्रत्यय-विज्ञापनादसत्यर्थ-ग्रहणे इह न भवति, इडबिडोऽपत्यं ऐडविडः, दरदोऽपत्यं दारदः इति ।
वडवाया वृषे वाच्ये ।
वाडवेयो वृषः स्मृतः ।
अपत्ये प्राप्तः ततोऽपकृष्य विधीयते ।
तेन अपत्ये वाडवः इति ।
अण्क्रुञ्चाकोकिलात्स्मृतः ।
क्रुञ्चाया अपत्यं क्रौञ्चः ।
कौकिलः । ।
____________________________________________________________________
- <द्व्यचः># । । PS_४,१.१२१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२१ः
स्त्रीभ्यः इत्येव ।
द्व्यचः स्त्री-प्रत्ययान्तादपत्ये ढक्प्रत्ययो भवति ।
तन्नामिकाणोऽपवादः ।
दत्ताया अपत्यं दात्तेयः ।
गौपेयः ।
द्व्यचः इति किं ? यामुनः । ।
____________________________________________________________________
- <इतश्-च-अनिञः># । । PS_४,१.१२२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२२ः
स्त्री-ग्रहणं निवृत्तं ।
चकारो द्व्यचः इत्यस्य अनुकर्षण-अर्थः ।
इकारान्तात्प्रातिपदिकादनिञ्-अन्तादपत्ये ढक्प्रत्ययो भवति ।
आत्रेयः ।
नैधेयः ।
इतः इति किं ? दाक्षिः ।
प्लाक्षिः ।
अनिञः इति किं ? दाक्षायणः ।
प्लाक्षायणः ।
द्व्यचः इत्येव, मरीचेरप्त्यं मारीचः । ।
____________________________________________________________________
[#३५१]
- <शुभ्र-आदिभ्यश्च># । । PS_४,१.१२३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२३ः
शुभ्र इत्येवं आदिभ्यः प्रातिपदिकेभ्यः ढक्प्रत्ययो भवति ।
यथायोगं इञादीनां अपवादः ।
शौभ्रेयः ।
वैष्टपुरेयः ।
चकारोऽनुक्तसमुच्चय-अर्थः आकृतिगणतामस्य बोधयति, तेन गाङ्गेयः, पाण्डवेयः इत्येवं आदि सिद्धं भवति ।
शुभ्र ।
विष्टपुर ।
ब्रह्मकृत ।
शतद्वार ।
शतावर ।
शतावर ।
शलाका ।
शालाचल ।
शलाकाभ्रू ।
लेखाभ्रू ।
विमातृ ।
विधवा ।
किंकसा ।
रोहिणी ।
रुक्मिणी ।
दिशा ।
शालूक ।
अजबस्ति ।
शकन्धि ।
लक्ष्मणश्यामयोर्वासिष्ठे ।
गोधा ।
कृकलास ।
अणीव ।
प्रवाहण ।
भरत ।
भारम ।
मुकण्डु ।
मघष्टु ।
मकष्टु ।
कर्पूर ।
इतर ।
अन्यतर ।
आलीढ सुदत्त ।
सुचक्षस् ।
सुनामन् ।
कद्रु ।
तुद ।
अकाशाप ।
कुमारीका ।
किशोरिका ।
कुवेणिका ।
जिह्माशिन् ।
परिधि ।
वायुदत्त ।
ककल ।
खट्वा ।
अम्बिका ।
अशोका ।
शुद्धपिङ्गला ।
खडोन्मत्ता ।
अनुदृष्टि ।
जरतिन् ।
बालवर्दिन् ।
विग्रज ।
वीज ।
श्वन् ।
अश्मन् ।
अश्व ।
अजिर । ।
____________________________________________________________________
- <विकर्ण-कुषीतकात्काष्यपे># । । PS_४,१.१२४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२४ः
विकर्ण-शब्दात्कुषीतक-शब्दाच्च काष्यपेऽपत्य-विशेषे ढक्प्रत्ययो भवति ।
वैकर्णेयः ।
कौषीतकेयः ।
काश्यपे इति किं ? वैकर्णिः ।
कौषीतकिः । ।
____________________________________________________________________
- <भ्रवो वुक्च># । । PS_४,१.१२५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२५ः
भ्रूशब्दादप्त्ये ढक्प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः ।
भ्रौवेयः । ।
____________________________________________________________________
- <कल्याण्यादीनां इनङ्># । । PS_४,१.१२६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२६ः
कल्याणी इत्येवं आदीनां शब्दानां अपत्ये ढक्प्रत्ययो भवति, तत्संनियोगेन च इनङ्-आदेशः ।
स्त्रीप्रत्यय-अन्तानां आदेश-अर्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद् ।
अन्येषां उभयार्थं ।
काल्याणिनेयः ।
सौभागिनेयः ।
दौर्भागिनेयः ।
हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३.१९) इत्युभयपदवृद्धिः ।
कल्याणी ।
सुभगा ।
दुर्भगा ।
बन्धकी ।
अनुदृष्टि ।
अनुसृष्टि ।
जरती ।
बलीवर्दी ।
ज्येष्ठा ।
कन्ष्ठा ।
मध्यमा ।
परस्त्री । ।
____________________________________________________________________
- <कुलटाया># । । PS_४,१.१२७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२७ः
कुलान्यटति इति कुलता ।
पररूपं निपातनाथ् ।
कुलटायाः अपत्ये ढक्प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति ।
आदेश-अर्थं वचनं, प्रत्ययश्च पूर्वेण+एव सिद्धः ।
कौलटिनेयः, कौलटेयः ।
या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा (*४,१.१३१) इति परत्वाड्ढ्रका भवितव्यं ।
कौलटेरः । ।
____________________________________________________________________
[#३५२]
- <चटकाया ऐरक्># । । PS_४,१.१२८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२८ः
चटकायाः अपत्ये ऐरक्प्रत्ययो भवति ।
[#३५१]
चाटकैरः ।
चटकाच्च+इति वक्तव्यं ।
चटकस्य अपत्यं चाटकैरः ।
स्त्रियां अपत्ये लुग्वक्तव्यः ।
चटकाया अपत्यं स्त्री चटका । ।
____________________________________________________________________
[#३५२]
- <गोधाया ढ्रक्># । । PS_४,१.१२९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१२९ः
गोधायाः अपत्ये ड्रक्प्रत्ययो भवति ।
गौधेरः ।
शुभ्रादिष्वयं पठ्यते, तेन गौधेयः अपि भवति । ।
____________________________________________________________________
- <आरगुदीचाम्># । । PS_४,१.१३० । ।
_____Sठाऱ्ठ्JKव्_४,१.१३०ः
गोधायाः अपत्ये उदीचां आचार्याणां मतेन आरक्प्रत्ययो भवति ।
गौधारः ।
आचार्य-ग्रहणं पूज-अर्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति ।
आरग्-वचनं अनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयं अन्येभ्योऽपि भवति इति ।
जाडारः ।
पाण्डारः । ।
____________________________________________________________________
- <क्षुद्राभ्यो वा># । । PS_४,१.१३१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३१ः
ढ्रकनुवर्तते, न आरक् ।
क्षुद्राः अङ्गहीनाः शीलहीनाश्च ।
अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिष्यन्ते ।
क्षुद्राभ्यो वा अपत्ये दृअक्प्रत्ययो भवति ।
ढकोऽ पवादः ।
काणेरः, काणेयः ।
दासेरः, दासेयः । ।
____________________________________________________________________
- <पितृष्वसुश्छण्># । । PS_४,१.१३२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३२ः
पितृष्वसृ-शब्दातपत्ये छण्प्रत्ययो भवति ।
पैतृष्वस्त्रीयः । ।
____________________________________________________________________
- <ठकि लोपः># । । PS_४,१.१३३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३३ः
पितृष्Vअसुः अपत्य-प्रत्यये ढकि परतो लोपो भवति ।
पैतृष्वसेयः ।
कथं पुनरिह ढक्प्रत्ययः ? एतदेव ज्ञापकं ढको भावस्य । ।
____________________________________________________________________
[#३५३]
- <मातृ-ष्वसुश्च># । । PS_४,१.१३४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३४ः
पितृ-ष्वसुः इत्येतदपेक्षते ।
पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि भवति, छन्ण्-प्रत्ययो ढकि लोपश्च ।
मातृष्वस्त्रीयः ।
मातृष्वसेयः । ।
____________________________________________________________________
- <चतुष्पाद्भ्यो ढञ्># । । PS_४,१.१३५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३५ः
चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ्-प्रत्ययो भवति ।
अणादीनां अपवादः ।
कामण्डलेयः ।
शौन्तिबाहेयः ।
जाम्बेयः । ।
____________________________________________________________________
- <गृष्ट्य्-आदिभ्यश्च># । । PS_४,१.१३६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३६ः
गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ्प्रत्ययो भवति ।
अणादीनां अपवादः ।
गार्ष्टेयः ।
हार्ष्टेयः ।
गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण+एव सिद्धः ।
अच्तुष्पाद्-अर्थं वचनं ।
गृष्टि ।
हृष्टि ।
हलि ।
बलि ।
विश्रि ।
कुद्रि ।
अजबस्ति ।
मित्रयु । ।
____________________________________________________________________
- <राज-श्वशुराद्यत्># । । PS_४,१.१३७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३७ः
राजन्-श्वशुर-शब्दाभ्यां अपत्ये यत्प्रत्ययो भवति ।
यथाक्रमं अणिञोरपवादः ।
राजन्यः ।
श्वशुर्यः ।
राज्ञोऽपत्ये जाति-ग्रहणं ।
राजन्यो भवति क्षत्रियश्चेथ् ।
राजनोऽन्यः । ।
____________________________________________________________________
- <क्षत्राद्घः># । । PS_४,१.१३८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३८ः
क्षत्र-शब्दादपत्ये घः प्रत्ययो भवति ।
क्षत्रियः ।
अयं अपि जाति-शब्द एव ।
क्षात्रिरन्यः । ।
____________________________________________________________________
- <कुलात्खः># । । PS_४,१.१३९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१३९ः
उत्तर-सूत्रे पूर्व-प्रतिषेधादिह तदन्तः केवलश्च दृश्यते ।
कुल-शब्द-अन्तात्प्रातिपदिकात्केवलाच्च अपत्ये खः प्रत्ययो भवति ।
आढ्यकुलीनः ।
श्रोत्रियकुलीनः ।
कुलीनः । ।
____________________________________________________________________
- <अपूर्वपदादन्यत्रस्यां यङ्-ढकञौ># । । PS_४,१.१४० । ।
_____Sठाऱ्ठ्JKव्_४,१.१४०ः
कुलादित्येव ।
अविद्यमानं पूर्वपदं यस्य तदपूर्वपदं ।
समाससम्बन्धि-पूर्वपदस्य अभावेन कुल-शब्दो विशेष्यते ।
अपूर्वपदात्कुल-शब्दातन्यतरस्यां यत्ढकञित्येतौ प्रत्ययौ भवतः ।
ताभ्यां मुक्ते क्योऽपि भवति ।
कुल्यः, कौलेयकः, कुलीनः ।
पद-ग्रहणं किं ? बहुच्पूर्वादपि यथा स्याथ् ।
बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । ।
____________________________________________________________________
[#३५४]
- <महाकुलादञ्-खञौ># । । PS_४,१.१४१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४१ः
अन्यतरस्यां इति अनुवर्तते ।
महाकुल-शब्दातञ्-खञौ प्रत्ययौ भवतः ।
पक्षे खः ।
माहाकुलः, माहाकुलीनः, माहाकुलीनः । ।
____________________________________________________________________
- <दुष्कुलाड्ढक्># । । PS_४,१.१४२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४२ः
दुष्कुल-शब्दातपत्ये ढक्प्रत्ययो भवति ।
अन्यत्रस्यां इत्यनुवृत्तेः खश्च ।
दौष्कुलेयः, दुष्क्लीनः । ।
____________________________________________________________________
- <स्वसुश्छः># । । PS_४,१.१४३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४३ः
स्वसृ-शब्दादपत्ये छनः प्रत्ययो भवति ।
अणोऽपवादः ।
स्वसुरपत्यं स्वस्रीयः । ।
____________________________________________________________________
- <भ्रातुर्व्यच्च># । । PS_४,१.१४४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४४ः
भ्रातृ-शब्दादपत्ये व्यत्प्रत्ययो भवति ।
चकाराच्छश्च ।
अणोऽपवादः ।
भ्रातृव्यः, भ्रात्रीयः ।
तकारः स्वरार्थः । ।
____________________________________________________________________
- <व्यन्सपत्ने># । । PS_४,१.१४५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४५ः
सपत्न-शब्दः शत्रुपर्यायः शब्द-अन्तर-व्युत्पन्नं एव ।
सप्त्नी-शब्दादपरेऽकारं इव अर्थे निपातयन्ति ।
सप्त्नीव सपत्नः ।
भ्रातृ-शब्दाद्व्यन्प्रत्ययो भवति समुदायेन च+इदं इत्रः सपत्न उच्यते ।
अपत्य-अर्थोऽत्र न अस्त्येव ।
पाप्मना भ्रातृव्येण ।
भ्रातृव्यः कण्टकः । ।
____________________________________________________________________
- <रेवत्य्-आदिभ्यष्ठक्># । । PS_४,१.१४६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४६ः
रेवती इत्येवं आदिभ्योऽपत्ये ठक्प्रत्ययो भवति ।
यथा योगं ढगादीनां अपवादः ।
रैवतिकः ।
आश्वपालिकः ।
रेवती ।
अश्वपाली ।
मणीपाली ।
द्वारपाली ।
वृकवञ्चिन् ।
वृकग्राह ।
कर्णग्राह ।
दण्डग्राह ।
कुक्कुटाक्ष । ।
____________________________________________________________________
- <गोत्र-स्त्रियाः कुत्सने ण च># । । PS_४,१.१४७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४७ः
अपत्यं पौत्रप्रभृति गोत्रं गृह्यते ।
गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट्ठक्च, कुत्सने गम्यमाने ।
पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा ।
गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः ।
ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः ।
गोत्राद्यूनि इति यूनि प्रत्ययो भवति ।
गोत्रं इति किं ? कारिकेयो जाल्मः ।
स्त्रियाः इति किं ? औपगविर्जाल्मः ।
कुत्सने इति किं ? गार्गेयो माणवकः । ।
____________________________________________________________________
[#३५५]
- <वृद्धाट्ठक्सौवीरेषु बहुलम्># । । PS_४,१.१४८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४८ः
कुत्सने इत्येव ।
सौवीरेषु इति प्रकृति-विशेषणं ।
वृद्धात्सौवीरगोत्रादपत्ये बहुलं ठक्प्रत्ययो भवति कुत्सने गम्यमने ।
भागवित्तेः भागवित्तिकः ।
तार्णबिन्दवस्य तार्णबिन्दविकः ।
पक्षे यथाप्राप्तं फक्, भागवित्तायनः ।
पक्षे तार्णबिन्दविः ।
अकशापः शुभ्रादिः, आकशापेयः ।
तस्य अपत्यं आकशापेयिकः ।
पक्षे आकशापेयिः ।
भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः ।
तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलं ततः । ।
वृद्ध-ग्रहणं स्त्री-निवृत्त्य्-अर्थं ।
सौवीरेषु इति किं ? औपगविर्जाल्मः ।
कुत्सने इत्येव, भागवित्तायनो माणवकः ।
बहुल-ग्रहणं उपाधिवैचित्र्य-अर्थं ।
गोत्रस्त्रियाः इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि ।
तदेतद्बहुल-ग्रहणाल्लभ्यते । ।
____________________________________________________________________
- <फेश्छ च># । । PS_४,१.१४९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१४९ः
कुत्सने इत्येव, सौवीरेषु इति च ।
फेः इति फिञो ग्रहणं न फिनः, वृद्ध-अधिकाराथ् ।
फिञन्तात्प्रातिपदिकात्सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट्ठक्, कुत्सने गम्यमाने ।
यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ्(*४,१.१५४) ।
तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः ।
कुत्सने इत्येव, यामुन्दायनिः ।
फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्य-क्षत्रिय-अर्ष-ञितो यूनि लुगण्-इञोः (*२,४.५८) इति लुक् ।
सौवीरेसु इत्येव, तैकायनिः ।
यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः ।
सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित्समरेत् । ।
____________________________________________________________________
- <फाण्डाहृति-मिमताभ्यां ण-फिञौ># । । PS_४,१.१५० । ।
_____Sठाऱ्ठ्JKव्_४,१.१५०ः
सौवीरेषु इत्येव ।
कुत्सने इति निवृत्तं ।
फाण्टाहृतिमिमतशब्दाभ्यां सौवीर-विषयाभ्यां अपत्ये ण-फिञौ प्रत्ययु भवतः ।
फकोऽपवादः ।
अल्पाच्तरस्य अपूर्वनिपातो लक्षण-व्यभिचार-चिह्नं, तेन यथासङ्ख्यं इह न भवति इति ।
फाण्टाहृतः, फाण्टाहृतायनिः ।
मैमतः, मैमतायनिः ।
सौवीरेषु इत्येव, फाण्टाहृतायनः ।
मैमतायनः ।
फाण्टाहृतेः यञ्-इञोश्च (*४,१.१०१) इति फक् ।
मिमत-शब्दोऽपि नडादिषु पठ्यते । ।
____________________________________________________________________
- <कुर्वादिभ्यो ण्यः># । । PS_४,१.१५१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५१ः
सौवीरेषु बहुलं इति निवृत्तं ।
कुरु इत्येवं आदिभ्यः शब्देभ्योऽपत्ये ण्यः प्रत्ययो भवति ।
कौरव्यः ।
गार्ग्यः ।
कुरुनादिभ्यो ण्यः (*४,१.१७२) ।
इति कुरु-शब्दादपरो ण्यप्रत्ययो भविष्यति ।
स तु क्षत्रियात्तद्राजसञ्ज्ञकः ।
तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव ।
कौरव्याः ।
कौरव्यशब्दस्य क्षत्रिय-वचनस्य तिकादिषु पाठात्फिञपि भवति, फौरव्यायणिः ।
रथकार-शब्दोऽत्र पठ्यते, स जाति-वचनः ।
त्रैवर्णिकेभ्यः किंचिन्न्यूना रथकारजातिः ।
कारिणस्तु रथकार-शब्दादुत्तरसूत्रेण+एव ण्यः सिद्धः ।
केशिनी-शब्दः पठ्यते, तस्य कैशिन्यः ।
पुंवद्भावो न भवति, स्त्रीप्रत्यय-निर्देशसामर्थ्याथ् ।
[#३५६]
वेनाच्छन्दसि इति पठ्यते ।
कथं भाषायां वैन्यो राजा इति ? छन्दस एव अयं प्रमादात्कविभिः प्रयुक्तः ।
वामरथ-शब्दः पठ्यते, तस्य कण्वादिवत्कार्यं इष्यते ।
स्वरं वर्जयित्वा लुग्-आदिकं अतिदिश्यते ।
बहुसु वामरथाः ।
स्त्री वामरथी ।
वामरथ्यायनी ।
युवा वामरथ्यायनः ।
वामरथ्यस्य छात्राः वामरथाः ।
वामरथानि सङ्घाङ्कलक्षणानि ।
स्वरस्तु ण्यप्रत्ययस्य+एव भवति, न अतिदेशिकमाद्युदात्तत्वं ।
कुरु ।
गर्ग ।
मङ्गुष ।
अजमारक ।
रथकार ।
वावदूक ।
सम्राजः क्षत्रिये ।
कवि ।
मति ।
वाक् ।
पितृमथ् ।
इन्द्रजालि ।
दामोष्णीषि ।
गणकारि ।
कैशोरि ।
कापिञ्जलादि ।
कुट ।
शलाका ।
मुर ।
एरक ।
अभ्र ।
दर्भ ।
केशिनी ।
वेनाच्छन्दसि ।
शूर्पणाय ।
श्यावनाय ।
श्यावरथ ।
श्यावपुत्र ।
सत्यङ्कार ।
बडभीकार ।
शङ्कु ।
शाक ।
पथिकारिन् ।
मूढ ।
शकन्धु ।
कर्तृ ।
हर्तृ ।
शाकिन् ।
इनपिण्डी ।
वामरथस्य कन्वादिवत्स्वरवर्जं । ।
____________________________________________________________________
- <सेनान्त-लक्षण-कारिभ्यश्च># । । PS_४,१.१५२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५२ः
सेनान्तात्प्रातिपदिकात्लक्षण-शब्दात्कारि-वचनेभ्यश्च अपत्ये ण्यः प्रत्ययो भवति ।
कारि-शब्दः कारूणां तन्तुवायादीनां वाचकः ।
कारिषेण्यः ।
हारिषेण्यः ।
लाक्षण्यः ।
कारिभ्यः - तान्तुवाय्यः ।
क्ॐभकार्यः ।
नापित्यः । ।
____________________________________________________________________
- <उदीचां इञ्># । । PS_४,१.१५३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५३ः
ण्ये प्राप्ते इञपरो विधीयते ।
सेनान्त-लक्षण-कारिभ्योऽपत्ये इञ्प्रत्ययो भवति उदीचां मतेन ।
कारिषेणिः ।
हारिषेणिः ।
लाक्षणिः ।
तान्तुवायिः ।
क्ॐभकारिः ।
वचनसामर्थ्यादेव प्रत्यय-समावेशे लब्धे आचार्य-ग्रहणं वैचित्र्य्-आर्थं ।
तक्षन्-शब्दः शिवादिः, तेन अणा अयं इञ्बाध्यते, न तु ण्यः ।
तक्ष्णोऽपत्यं ताक्ष्णः, ताक्षण्यः । ।
____________________________________________________________________
- <तिकादिभ्यः फिञ्># । । PS_४,१.१५४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५४ः
तिक इत्येवं आदिभ्यः शब्देभ्योऽपत्ये फिञ्प्रत्ययो भवति ।
तैकायनिः ।
कैतवायनिः ।
वृष-शब्दोऽत्र पठ्यते, तस्य प्रत्यय-सन्नियोगेन यकारन्तत्वं इष्यते ।
वार्ष्यायणिः ।
कौरव्य-शब्दः पठ्यते, स च क्षत्रय-वचनः, औरस-शब्देन क्ष्त्रिय-प्रत्ययान्तेन साहचर्याथ् ।
यस्तु कुर्व्-आदिह्यो ण्यः (*४,१.१५१) , तदन्तादिञैव भवितव्यं ।
तथा च ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इत्यत्र उदाहृतं कौरव्यः पित, कौरव्यः पुत्रः इति ।
तिक ।
कितव ।
सञ्ज्ञा ।
बाल ।
शिखा ।
उरस् ।
शाट्य ।
सैन्धव ।
यमुन्द ।
रूप्य ।
ग्राम्य ।
नील ।
अमित्र ।
गौकक्ष्य ।
कुरु ।
देवरथ ।
तैतिल ।
औरस ।
कुअरव्य ।
भैरिकि ।
भौलिकि ।
चौपयत ।
चैतयत ।
चैटयत ।
शैकयत ।
क्षैतयत ।
ध्वाजवत ।
चन्द्रमस् ।
षुभ ।
गङ्गा ।
वरेण्य ।
सुयामन् ।
आरद ।
वह्यका ।
खल्या ।
वृष ।
लोमका ।
उदन्य ।
यज्ञ । ।
____________________________________________________________________
[#३५७]
- <कौशल्य-कार्मार्याभ्यां च># । । PS_४,१.१५५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५५ः
कौशल्य-कार्मार्य-शब्दाभ्यां अपत्ये फिञ्प्रत्ययो भवति ।
इञोऽपवादः ।
कौशल्यायनिः ।
कार्मार्यायणिः ।
परमप्रकृतेरेव अयं प्रतययः इष्यते, कौशलस्य अपत्यं, कर्मारस्य पत्यं इति ।
प्रत्ययसन्नियोगेन तु प्रकृति-रूपं निपात्यते ।
यथा च स्मृत्यन्तरम्, दगुकोसलकर्मारच्छागवृषाणां युट्वादिष्टस्य इति ।
दागव्यायनिः ।
कौसल्यायनिः ।
कार्मार्यायणिः ।
छग्यायनिः ।
वार्ष्यायणिः । ।
____________________________________________________________________
- <अणो द्व्यचः># । । PS_४,१.१५६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५६ः
अणन्ताद्द्व्यचः प्रातिपदिकादपत्ये फिञ्प्रत्ययो भवति ।
इञोऽपवादः ।
कार्त्रायणिः ।
हार्त्रायणिः ।
अणः इति किं ? दाक्षायणः ।
द्व्यचः इति किं ? औपगविः ।
त्यदादीनां वा फिञ्वक्तवयः ।
त्यादायनिः, त्यादः ।
यादायनिः, यादः ।
तादायनिः, तादः ।
अणत्र प्राप्तः । ।
____________________________________________________________________
- <उदीचां वृद्धादगोत्रात्># । । PS_४,१.१५७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५७ः
वृद्धं यच्छब्द-रूपं अगोत्रं, तस्मादपत्ये फिञ्प्रत्ययो भवति उदीचां आचार्याणां मतेन ।
आम्रगुप्तायनिः ।
ग्रामरक्षायणिः ।
कारिशब्दादपि वृद्धादगोत्रात्परत्वादनेन+एव भवितव्यं ।
नापितायनिः ।
उदीचां इति किं ? आम्रगुप्तिः ।
वृद्धादिति किं ? याज्ञदत्तिः ।
अगोत्रादिति किं ? औपगविः । ।
____________________________________________________________________
- <वाकिन-अदीनां कुक्च># । । PS_४,१.१५८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५८ः
वाकिन इत्येवं आदिभ्यः शब्देभ्योऽपत्ये फिञ्प्रत्ययो भवति, तत्संनियोगेन च+एषां कुग्-आगमः ।
यदिह वृद्धं अगोत्रं शब्दरूपं तस्य आगम-अर्थं एव ग्रहणम्, अन्येषां उभय-अर्थं ।
वाकिनकायनिः ।
गारेधकायनिः ।
इञाद्यपवादो योगः ।
उदीचां इत्यधिकारात्पक्षे तेऽपि भवन्ति ।
वाकिनिः ।
गारेधिः ।
वाकिन ।
गारेध ।
कार्कट्य ।
काक ।
लङ्का ।
चर्मिवर्मिणोर्नलोपश्च । ।
____________________________________________________________________
- <पुत्रान्तादन्यतरस्याम्># । । PS_४,१.१५९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१५९ः
उदीचां वृद्धातिति वर्तते ।
पुत्रान्तं अगोत्रं इति पूर्वेण+एव प्रत्ययः सिद्धः, तस्मिन्ननेन कुग्-आगमोऽन्यतरस्यां विधीयते ।
पुत्रान्तात्प्रातिप्दिकात्यः फिञ्प्रत्ययः, तस्मिन्परभूतेऽन्यतरस्यां कुग्-आगमो भवति पुत्रान्तस्य ।
तेन त्रैरूप्यं सम्पद्यते ।
गार्गीपुत्रकायणिः, गार्गीपुत्रायणीः, गार्गीपुत्रिः ।
वात्सीपुत्रकाय्णिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः । ।
____________________________________________________________________
[#३५८]
- <प्राचां अवृद्धात्फिन्बहुलम्># । । PS_४,१.१६० । ।
_____Sठाऱ्ठ्JKव्_४,१.१६०ः
अवृद्धाच्छब्दरूपादपत्ये फिन्प्रत्ययो भवति बहुलं प्राचां मतेन ।
ग्लुचुकायनिः ।
अहिचुम्बकायनिः ।
प्राचां इति किं ? ग्लौचुकिः ।
अवृद्धातिति किं ? राजदन्तिः ।
उदीचां प्राचां अन्यतरस्यां बहुलं इति सर्व एते विकल्प-अर्थस्तेषां एकेन+एव सिध्यति ।
तत्र आचार्य-ग्रहणं पूज-अर्थं ।
बहुल-ग्रहणं वैचित्र्य-अर्थं ।
कव्चिन्न भवत्येव, दाक्षिः ।
प्लाक्षिः । ।
____________________________________________________________________
- <मनोर्जातावञ्-अयतौ षुक्च># । । PS_४,१.१६१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६१ः
मनु-शब्दादञ्यतित्येतौ प्रत्यौ भवतः, तत्सन्नियोगेन षुग्-आगमः, समुदायेन चेज्जातिर्गम्यते ।
मानुषः, मनुष्यः ।
जाति-शब्दावेतौ ।
अपत्य-अर्थोऽत्र न अस्त्येव ।
तथा च मानुषाः इति बहुषु न लुग्भवति ।
अपत्य-विवक्षायां तु अणैव भवितव्यं ।
मानवी प्रजा ।
अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः । ।
____________________________________________________________________
- <अपत्येअं पौत्रप्रभृति गोत्रम्># । । PS_४,१.१६२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६२ः
पौत्रप्रभृति यदपत्यं तद्गोत्र-सञ्ज्ञं भवति ।
सम्बन्धि-शब्दत्वादपत्य-शब्दस्य यदपत्यं तदपेक्षया पौत्र-प्रभृतेर्गोत्र-सञ्ज्ञा विधीयते ।
गर्गस्य अपत्यं पौत्र-प्रभृति गार्ग्यः ।
वात्सयः ।
अपत्यं इति व्यपदेशोऽयं पौत्र-प्रभृतेः ।
पौत्र-प्रभृति इति किं ? अन्यस्य मा भूथ् ।
कौञ्जिः ।
गार्गिः ।
गोत्र-प्रदेशाः - एको गोत्रे (*४,१.९३) इत्येवं आदयः । ।
____________________________________________________________________
- <जीवति तु वंश्ये युवा># । । PS_४,१.१६३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६३ः
अभिजनप्रबन्धो वंशः ।
तत्र भवो वंश्यः पित्रादिः ।
तस्मिन्जीवति सति पौत्रप्रभृत्य्-अपत्यं युव-सञ्ज्ञं भवति ।
पौत्रप्रभृति इति च न सामानाअधिकरण्येन अपत्यं विशेषयति, किं तर्हि, षष्ठ्या विपरिणम्यते पौत्र-प्रभृतेर्यदपत्यं इति ।
तेन चतुर्थादारभ्य युव ।
सञ्ज्ञा विधीयते ।
गार्ग्यायणः ।
वात्स्यायनः ।
तु-शब्दोऽवधारण-अर्थो युव+एव न गोत्रं इति । ।
____________________________________________________________________
- <भ्रातरि च ज्यायसि># । । PS_४,१.१६४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६४ः
भ्रतरि ज्ययसि जीवति कनीयान्भ्राता युव-सञ्ज्ञो भवति पौत्र-प्रभृतेरपत्यं ।
गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान्मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युव-सञ्ज्ञो भवति ।
अवंश्य-अर्थोऽयं आरम्भः ।
पूर्वजाः पित्रादयो वंश्या इत्युच्यते ।
भ्राता तु न वंश्यः ।
अकारणत्वाथ् ।
गार्ग्ये जीवति, गार्ग्यायणो अस्य कनीयान्भ्राता ।
वात्स्यायनः ।
दाक्षायणः ।
प्लाक्षायणः । ।
____________________________________________________________________
[#३५९]
- <वा अन्यस्मिन्सपिण्डे स्थविरतरे जिवति># । । PS_४,१.१६५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६५ः
सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते ।
येषां उभयत्र दशाहानि कुलस्यन्नं न भुज्यते इत्येवं आदिकायां क्रियायां अनधिकारः ।
भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसञ्ज्ञं वा भवति ।
प्रकृतं जीवति-ग्रहणं सपिण्डस्य विशेषणम्, इदं तु सञ्ज्ञिनः ।
तरब्-निर्देश उभयोत्कर्षार्थः ।
स्थानेन वयसा च+उत्कृष्टे यथा स्यात्पितृव्ये पितामहे भ्रातरि वयसाधिके जिवति ।
गर्गस्य अपत्यं गार्ग्यायणः गार्ग्यो वा ।
वात्स्ययनः वात्स्यो वा ।
दक्षायणः दाक्षिर्वा ।
स्थविरतरे इति किं ? स्थानवयोनयूने गार्ग्य एव भवति ।
जीवति इति किं ? मृते मृतो वा गार्ग्य एव भवति । ।
____________________________________________________________________
- <वृद्धस्य च पूजायाम्># । । PS_४,१.१६६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६६ः
अपत्यं अन्तर्हितं वृद्धं इति शास्त्रान्तरे परिभाषणाद्गोत्रं वृद्धं इत्युच्यते ।
वृद्धस्य युवसञ्ज्ञा वा भवति पूजायां गम्यमानायां ।
सञ्ज्ञसामर्थ्याद्गोत्रं युवप्रत्ययेन पुनरुच्यते ।
वृद्धस्य इति षष्ठी-निर्देशो विचित्रा सूत्रस्य कृतिः इति ।
तत्र भवान्गार्ग्यायणः गार्ग्यो वा ।
तत्र भवान्वात्स्यायनः वात्स्यो वा ।
तत्र भवान्दाक्षायणः दाक्षिर्वा ।
पूजायां इति किं ? गार्ग्यः ।
वात्स्यः । ।
____________________________________________________________________
- <यूनश्च कुत्सायाम्># । । PS_४,१.१६७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६७ः
कुत्सायां गम्यमनायां यूनो वा युवसञ्ज्ञा भवति ।
निवृत्तिप्रधानो विकल्पः ।
युवसञ्ज्ञायां प्रतिषिद्धायां पक्षे गोत्रसञ्ज्ञा+एव भवति, प्रतिपक्षाभावाथ् ।
गार्ग्यो जाल्मः ।
गार्ग्यायणो वा ।
वात्स्यो जाल्मः वात्स्यायनो वा ।
दाक्षिर्जाल्मः दाक्षायणो वा ।
कुत्सायां इति किं ? गार्ग्यायणः । ।
____________________________________________________________________
- <जनपद-शब्दात्क्षत्रियादञ्># । । PS_४,१.१६८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६८ः
जनपदशब्दो यः क्षत्रिय-वाची, तस्मादपत्ये अञ्प्रत्ययो भवति ।
पाज्चालः ऐक्ष्वाकः ।
वैदेहः ।
जनपदशब्दातिति किं ? द्रुह्योरपत्यं द्रौह्यवः ।
पुरवः ।
क्षत्रियातिति किं ? ब्राह्मणस्य पञ्चालस्य अपत्यं पाञ्चालिः ।
वैदेहिः ।
क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यप्त्यवथ् ।
पञ्चालानां राजा पाञ्चालः ।
वैदेहः ।
मागधः । ।
____________________________________________________________________
- <साल्वेय-गान्धारिभ्यां च># । । PS_४,१.१६९ । ।
_____Sठाऱ्ठ्JKव्_४,१.१६९ः
साल्वेय-गान्धारि-शब्दाभ्यां अपत्ये अञ्प्रत्ययो भवति ।
जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्यां अञपवादे वृद्धादिति ञ्यङि प्राते पुनरञ्विधीयते ।
साल्वेयः ।
गान्धारः ।
तस्य राजनि इत्येव, साल्वेयो राजा ।
गान्धारो राजा । ।
____________________________________________________________________
[#३६०]
- <द्व्य्-अञ्-मगध-कलिङ्ग्-असूरमसादण्># । । PS_४,१.१७० । ।
_____Sठाऱ्ठ्JKव्_४,१.१७०ः
जनपदशब्दात्क्षत्रियाभिधायिनो द्व्य्-अचः, मगध कलिङ्ग सूरमस इति एतेभ्यश्च अपत्ये अण्प्रत्ययो भवति ।
अञोऽपवादः ।
आङ्गः ।
वाङ्गः ।
अपुण्ड्रः सौह्मः ।
मगधः ।
कालिङ्गः ।
सौरमसः ।
तस्य राजनि इत्येव, आङ्गो राजा । ।
____________________________________________________________________
- <वृद्ध-इत्-कोसल-अजादाञ्ञ्यङ्># । । PS_४,१.१७१ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७१ः
जनपदशब्द्दत्क्षत्रियातित्येव ।
वृद्धात्प्रातिपदिकातिकारान्तात्च, कोसल-अजाद-शब्दाभ्यां च अप्त्य ञ्यङ्प्रत्ययो भवति ।
अञोऽपवादः ।
वृद्धात्तावत्- आम्बष्ठ्यः ।
सौवीर्यः ।
इकारान्तात्- आवन्त्यः ।
कौन्त्यः ।
कौसल-अजादयोरवृद्धार्थं वचनं ।
कौसल्यः ।
आजाद्यः ।
तपरकरनं किं ? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्य अपत्यं क्ॐआरः ।
पाण्डोर्जनपदाब्दात्क्षत्रियाड्ड्यण्वक्तव्यः ।
पाण्ड्यः ।
अन्यस्मात्पाण्डव एव ।
तस्य राजनि इत्येव, आम्बष्ठ्यो राजा ।
आवन्त्यः ।
कौन्त्यः ।
कुअसल्यः ।
आजाद्यः । ।
____________________________________________________________________
- <कुरु-नादिभ्यो ण्यः># । । PS_४,१.१७२ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७२ः
जनपदशब्दात्क्षत्रियातित्येव ।
कुरुशब्दात्नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति ।
अणञोरपवादः ।
कौरव्यः ।
नकारादिभ्यः - नैषध्यः ।
नैपथ्यः ।
तस्य राजनि इत्येव, कौरव्यो राजा । ।
____________________________________________________________________
- <साल्वावयव-प्रत्यग्रथ-कलकूट-अश्मकादिञ्># । । PS_४,१.१७३ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७३ः
जनपदशब्दात्क्षत्रियातित्येव ।
सल्वा नाम अक्षत्रिया तन्नामिका, तस्या अपत्यं, द्व्यचः (*४,२.१२१) इति ढक्, साल्वेयः ।
अणपीष्यते, साल्वः ।
तस्य निवासः साल्वो जनपदः ।
तदव्यवा उदुम्बरादयः, तेभ्यः क्षत्रिय-वृत्तिभ्य इदं प्रत्यय-विधानं ।
साल्वावयवेभ्यः प्रत्यग्रथ-कलकूट-अश्मक-शब्देभ्यश्चापत्ये इञ्प्रत्ययो भवति ।
अञोऽपवादः ।
औदुम्बरिः ।
तैलखलिः ।
माद्रकारिः ।
यौगन्धरिः ।
भौलिङ्गिः ।
शारदण्डिः ।
प्रत्यग्रथिः ।
कालकूटिः ।
आश्मकिः ।
तस्य राजनि इत्येव, औदुम्बरी राजा ।
उदुम्बरास्तिलखला मद्रकारा युगन्धराः ।
भुलिङ्गाः शरदण्डाश्च साल्वावयवसञ्ज्ञिताः । ।
____________________________________________________________________
[#३६१]
- <ते तद्राजाः># । । PS_४,१.१७४ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७४ः
जन्पदशब्दात्क्षत्रियादञ्(*४,१.१६८) इत्येवं आदयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसञ्ज्ञाकान्डेन व्यवहितत्वाथ् ।
तेऽञादयः तद्राजसञ्ज्ञा भवन्ति ।
तथा चोदाहृतं ।
तद्राजप्रदेशाः - तद्राजस्य बहुषु तेन+एव अस्त्रियां (*२,४.६२) इत्येवं आदयः । ।
____________________________________________________________________
- <कम्बोजाल्लुक्># । । PS_४,१.१७५ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७५ः
जनपदशब्दात्क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते ।
कम्बोजात्प्रत्ययस्य लुक्भवति ।
कम्बोजः ।
कम्बोजादिभ्यो लुग्-वचनं चोलाद्यर्थं ।
चोलः ।
केरलः ।
शकः ।
यवनः ।
तस्य राजनि इत्येव, कम्बोजो राजा । ।
____________________________________________________________________
- <स्त्रियां अवन्ति-कुन्ति-कुरुभ्यश्च># । । PS_४,१.१७६ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७६ः
अवन्ति-कुन्ति-कुरु-शब्देभ्य उत्पन्नस्य तद्राजस्य स्तिर्यां अभिधेयायां लुग्भवति ।
अवन्ति-कुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य ।
अवन्ती ।
क्न्ती ।
कुरूः ।
स्त्रियां इति किं ? आवन्त्यः ।
कौन्त्यः ।
कौरव्यः । ।
____________________________________________________________________
- <अतश्च># । । PS_४,१.१७७ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७७ः
स्त्रियां इत्येव ।
अकार-प्रत्ययस्य तद्राजस्य स्त्रियां अभिधेयायां लुग्भवति ।
तकारो विस्पष्टार्थः ।
शूरसेनी ।
मद्री ।
दरथ् ।
अवन्त्यादिभ्यो लुग्वचनात्तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या ।
सौवीर्या । ।
____________________________________________________________________
- <न प्राच्य-भर्ग-आदि-यौधेय-आदिभ्यः># । । PS_४,१.१७८ । ।
_____Sठाऱ्ठ्JKव्_४,१.१७८ः
प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्च उत्पन्नस्य लुग्न भवति ।
अतश्च (*४,१.१७७) इत्यनेन स्त्रियां लुक्प्राप्तः प्रतिषिध्यते ।
प्राच्येभ्यः क्षत्रियेभ्यस्तावत्- पाञ्चाली ।
वैदेही ।
आङ्गी ।
वाङ्गी ।
मगधी ।
भर्गादिभ्यः - भार्गी ।
कारूषी ।
कैकेयी ।
यौधेयादिभ्यः - यौधेयी ।
शौभ्रेयी ।
शौक्रेयी ।
कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक्प्राप्तः प्रतिषिध्यते ? पाञ्चमिकस्यञः, पर्श्वादियौधेयादिभ्यां अनञौ इत्येतस्य ।
कथं पुनस्तस्य भिन्नप्रकरणस्थस्य अनेन लुक्प्राप्नोति ? एतदेव विज्ञापयति पाश्चमिकस्य अपि तद्राजस्य अतश्च इत्यनेन लुग्भवति इति ।
किं एतस्य ज्ञापनेन प्रयोजनं ? पर्श्वाद्याणः स्त्रियां लुक्सिद्धो भवति ।
पर्शूः ।
रक्षाः ।
असुरी ।
तथा च+उक्तं यौधेयादि-प्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुकिति ।
[#३६२]
भर्ग ।
करूष ।
केकय ।
कश्मीर ।
साल्व ।
सुस्थाल ।
उरश ।
कौरव्य ।
इति भर्गादिः ।
यौधेय ।
शौभ्रेय ।
शौक्रेय ।
ज्याबानेय ।
धार्तेय ।
धार्तेय ।
त्रिगर्त ।
भरत ।
उशीनर ।
यौधेयादिः । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः । ।
______________________________________________________
चतुर्थाध्यायस्य द्वितीयः पादः ।
____________________________________________________________________
[#३६३]
- <तेन रक्तं रागात्># । । PS_४,२.१ । ।
_____Sठाऱ्ठ्JKव्_४,२.१ः
शुक्लस्य वर्णान्तरापादनं इह रञ्जेरर्थः ।
रज्यतेऽनेन इति रागः ।
तेन इति तृतीयासमर्थाद्रागविशेष-वाचिनः शब्दाद्रक्तं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
कषायेण रक्तं वस्त्रं काषायं ।
माञ्जिष्ठं ।
कौसुम्भं ।
रागातिति किं ? देवदत्तेन रक्तं वस्त्रं ।
कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पदौ इति ? उपमानाद्भविष्यति, काषायौ इव काषायौ, हारिद्राविव हारिद्रौ ।
द्वैप-वैयाघ्रादञ्(*४,२.१२) इति यावत्तृतीयासमर्थ-विभक्तिरनुवर्तते । ।
____________________________________________________________________
- <लाक्षा-रोचना-शकल-कर्दमाट्ठक्># । । PS_४,२.२ । ।
_____Sठाऱ्ठ्JKव्_४,२.२ः
लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तं इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
अणोऽपवादः ।
लाक्षया रक्तं वस्त्रं लाक्षिकं ।
रौचनिकं ।
शाकलिकं ।
कार्दमिकं ।
शकलकर्दमाभ्यामणपीष्यते ।
शाकलं ।
कार्दं ।
नील्या अन्वक्तव्यः ।
नील्या रक्तं नीलं वस्त्रं ।
पीतात्कन्वक्तव्यः ।
पीतेन रक्तं पीतकं ।
हरिद्रामहारजनाभ्यामञ्वक्तव्यः ।
हारिद्रं ।
माहरजनं । ।
____________________________________________________________________
- <नक्षत्रेण युक्तं कालः># । । PS_४,२.३ । ।
_____Sठाऱ्ठ्JKव्_४,२.३ः
तृतीयासमर्थ-विभक्तिः अनुवर्तते ।
तेन इति तृतीयासमर्थाद्नक्षत्रविशेष-वाचिनः शब्दाद्युक्तः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
योऽसौ युक्तः ।
कालश्चेत्स भवति ।
कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते ? पुष्यादि-समीपस्थे चन्द्रमसि वर्तमानाः पुष्यादि-शब्दाः प्रत्ययमुत्पादयन्ति पुष्येण युक्तः कालः ।
पुष्य-समीपस्थेन चन्द्रमसा युक्तः इत्यर्थः ।
पौषी रात्रिः ।
पौषमहः ।
माघी रात्रिः ।
माघमहः ।
नक्षत्रेण इति किं ? चन्द्रमसा युक्ता रात्रिः ।
कालः इति किं ? पुष्येण युक्तश्चन्द्रमाः । ।
____________________________________________________________________
[#३६४]
- <लुबविशेषे># । । PS_४,२.४ । ।
_____Sठाऱ्ठ्JKव्_४,२.४ः
पूर्वेण विहितस्य प्रत्ययस्य लुब्भवति अविशेषे ।
न चेन्नक्षत्र-युक्तस्य कालस्य रात्र्यादि-विशेषोऽभिधीयते ।
यावन्काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब्भवति ।
अद्य पुष्यः ।
अद्य कृत्तिकाः ।
अविशेषे इति किं ? पौषी रात्रिः ।
पौषमहः । ।
____________________________________________________________________
- <सञ्ज्ञायां श्रवण-अश्वत्थाभ्याम्># । । PS_४,२.५ । ।
_____Sठाऱ्ठ्JKव्_४,२.५ः
अविशेषे लुप्विहितः पूर्वेण, विशेष-अर्थोऽयं आरम्भः ।
श्रवन-शब्दादश्वत्थ-शब्दाच्च+उत्पन्नस्य प्रत्ययस्य लुब्भवति सञ्ज्ञायां विषये ।
श्रवणारात्रिः ।
अश्वत्थो मुहूर्तः ।
लुपि युक्तवद्-भावः कस्मान्न भवति ? निपातनात्विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः (*४,२.२३) इति ।
सञ्ज्ञायां इति किं ? श्रावणी, आश्वत्थी रात्रिः । ।
____________________________________________________________________
- <द्वन्वाच्छः># । । PS_४,२.६ । ।
_____Sठाऱ्ठ्JKव्_४,२.६ः
नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च ।
राधानुराधीया रात्रिः ।
तिष्यपुनर्वसवीयमहः ।
अविशेषे - राधानुराधीयं ।
अद्य तिष्यपुनर्वसवीयं ।
लुपं परत्वाद्बाधते । ।
____________________________________________________________________
- <दृष्टं साम># । । PS_४,२.७ । ।
_____Sठाऱ्ठ्JKव्_४,२.७ः
तेन इति तृतीयासमर्थाद्दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्दृष्टं साम चेत्तद्भवति ।
क्रुञ्चेन दृष्तं कौञ्चं साम ।
वासिष्ठं ।
वैश्वामित्रं । ।
____________________________________________________________________
- <कलेर्ढक्># । । PS_४,२.८ । ।
_____Sठाऱ्ठ्JKव्_४,२.८ः
कलि-शब्दात्तृतीयासमर्थाद्दृष्टं साम इत्येतस्मिन्नर्थे ढक्प्रत्ययो भवति ।
अणोऽपवादः ।
कलिना दृष्टं साम कालेयं ।
सर्वत्र अग्निकलिभ्यां ढग्वक्तव्यः ।
अग्निना दृष्टं आग्नेयं ।
एवं अग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वं इति सर्वत्र ढगेव भवति ।
आग्नेयं ।
तथा कालेयं अपि प्रतिपत्तव्यं ।
दृष्टे सामनि अण्वा डिद्भवति इति वक्तव्यं ।
उशनसा दृष्टं साम औशनसम्, औशनं ।
जाते च अर्थे योऽन्येन बाधितः पुनरण्विधीयते स वा डिद्भवति इति वक्तव्यं ।
[#३६५]
प्राग्दीव्यतोऽण्प्राप्तः कालठञा बाधितः संधिवेलाद्य्-ऋतु-नक्षत्रेभ्यः इति पुनर्विधियते स वा डिद्भवति इति वक्तव्यं ।
शतभिषजि जातः ।
शातभिषजः, शातभिषः ।
तीयादीकक्स्वार्थे वा वक्तव्यः ।
द्वैतीयीकं ।
तार्तीयीकं ।
द्वितीयकं ।
तृतीयकं ।
न विद्यायः ।
द्वितीया, तृतीया विद्या ।
गोत्रादङ्कवदिष्यते ।
दृष्टं साम इत्येतस्मिन्नर्थे ।
औपगवेन दृष्टं साम औपगवकं ।
कापटवकं ।
गोत्रचरणाद्वुञ्भवति ।
दृष्टे सामनि जाते च द्विरण्डिद्वा विधीयते ।
तीयादीकक्न विद्याया गोत्रादङ्कवदिष्यते । ।
____________________________________________________________________
- <वामदेवाड्ड्यड्-ड्यौ># । । PS_४,२.९ । ।
_____Sठाऱ्ठ्JKव्_४,२.९ः
वामदेव-शब्दात्तृतीयासमर्थात्दृष्टं साम इत्येतस्मिन्नर्थे ड्यत्ड्य इत्येतौ प्रत्ययौ भवतः ।
अणोऽपवादः ।
वामदेवेन दृष्टं साम वामदेव्यं साम ।
तित्करणं स्वरार्थं ।
डित्करणं किं अर्थं ? य-यतोश्च अतदर्थे (*६,२.१५६) इति नञ उत्तरस्य अन्तोदात्तत्वे विधीयमानेऽन्योर्ग्रहणं मा भूथ् ।
अननुबन्धकग्रहण-परिभाषया एकानुबन्धकग्रहणपरिभाषया च अनयोर्निवृत्तिः क्रियते ।
अवामदेव्यं ।
सिद्धे यस्य+इति लोपेन किमर्थं ययतौ डितौ ।
ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे । ।
____________________________________________________________________
- <परिवृतो रथः># । । PS_४,२.१० । ।
_____Sठाऱ्ठ्JKव्_४,२.१०ः
तेन इति तृतीयासमर्थात्परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतः रथश्चेत्स भवति ।
वस्त्रेण प्रतिवृतो रथः वास्त्रो रथः ।
काम्बलः ।
चार्मणः ।
रथः इति किं ? वस्त्रेण परिवृतः कायः ।
समन्तात्वेष्टितः परिवृत उच्यते ।
यस्य कश्चिदवयवो वस्त्रादिभिरवेष्टितः, तत्र न भवति ।
तेन+इह न, छात्रैः परिवृतो रथः । ।
____________________________________________________________________
[#३६६]
- <पाण्डुकम्बलादिनिः># । । PS_४,२.११ । ।
_____Sठाऱ्ठ्JKव्_४,२.११ः
पाण्डुकम्बल-शब्दात्तृतीयासमर्थात्परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति ।
अणोऽपवादः ।
पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः ।
पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः ।
मत्वर्थीयेन+एव सिद्धे वचनमणो निवृत्त्यर्थं । ।
____________________________________________________________________
- <द्वैप-वैयाघ्रादञ्># । । PS_४,२.१२ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२ः
द्वीपि-व्याघ्रयोर्विकरभूते चर्मणो द्वैप-वैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ्प्रत्ययो भवति ।
अणोऽपवादः ।
स्वरे विशेषः ।
द्वैपेन परिवृतो रथः द्वैपः ।
वैयाघ्रः । ।
____________________________________________________________________
- <क्ॐआर-अपूर्ववचने># । । PS_४,२.१३ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३ः
क्ॐआर इत्येतदण्प्रत्ययन्तं निपात्यतेऽपूर्ववचने ।
पाणिग्रहणस्य अपूर्ववचनं ।
उभ्यतः स्त्रियाः अपूर्वत्वे निपातनं एतथ् ।
अपूर्वपतिं कुमारीं पतिरुपपन्नः क्ॐआरः पतिः ।
कुमारी-शब्दाद्द्वितीयासमर्थादुपयन्तरि प्रत्ययः ।
अपूर्वपतिः कुमारी पतिं उपपन्ना क्ॐआरी भार्या ।
प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये ।
क्ॐआरापूर्ववचने कुमार्या अण्विधीयते ।
अपूर्वत्वं यदा तस्याः कुमार्यां भवति इति वा । ।
कुमार्यां भवः क्ॐआरः पतिः, तस्य स्त्री क्ॐआरी भार्या इति सिद्धं । ।
____________________________________________________________________
- <तत्र+उद्धृतं अमत्रेभ्यः># । । PS_४,२.१४ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४ः
तत्र इति सप्तमीसमर्थादमत्र-वाचिनः शब्दादुद्धृतं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
भुक्तोच्छिष्टं उद्धृतं उच्यते, यस्य+उद्धरणं इति प्रसिद्धिः ।
अमत्रं भाजनं पात्रं उच्यते ।
शरावेषु उद्धृतः शाराव ओदनः ।
माल्लिकः ।
कार्परः ।
अमत्रेभ्यः इति किं ? पाणावुद्धृत ओदनः ।
तत्र इति सप्तमी समर्थविभक्तिः क्षीराड्ढञ्(*४,२.२०) इति यावदनुवर्तते । ।
____________________________________________________________________
- <स्थण्डिलाच्छयितरि व्रते># । । PS_४,२.१५ । ।
_____Sठाऱ्ठ्JKव्_४,२.१५ः
स्थण्डिल-शब्दात्सप्तमीसमर्थात्शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत्व्रतं गम्यते ।
व्रतं इति शास्त्रितो नियमः उच्यते ।
स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः ।
स्थाण्डिलो ब्रह्मचारी ।
व्रते इति किं ? स्थाण्डिले शेते ब्रह्मदत्तः । ।
____________________________________________________________________
[#३६७]
- <संस्कृतं भक्षाः># । । PS_४,२.१६ । ।
_____Sठाऱ्ठ्JKव्_४,२.१६ः
तत्र इति सप्तमीसमर्थात्संस्कृतं इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्संस्कृतं भक्षाः चेत्ते भवन्ति ।
खरविशदं अभ्यवहारार्थं भक्षं इत्युच्यते ।
सतुत्कर्षाधानं संस्कारः ।
भ्राष्ट्रे संस्कृता भक्षाः भ्राष्ट्रा अपूपाः ।
कालशाः ।
क्ॐभाः ।
भक्षाः इति किं ? पुष्पपुटे संस्कृतो मालागुणः । ।
____________________________________________________________________
- <शूल-उखाद्यत्># । । PS_४,२.१७ । ।
_____Sठाऱ्ठ्JKव्_४,२.१७ः
शूल-शब्दादुखा-शब्दाच्च सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
अणोऽपवादः ।
शूले संस्कृतं शूल्यं मांसं ।
उख्यं । ।
____________________________________________________________________
- <दध्नष्ठक्># । । PS_४,२.१८ । ।
_____Sठाऱ्ठ्JKव्_४,२.१८ः
दधि-शब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
दधनि संस्कृतं दाधिकं ।
ननु च संस्कृत-अर्थे प्राग्वहतेः ठकं वक्ष्यति, तेन+एव सिद्धं ? न सिध्यति ।
दध्ना हि तत्संस्कृतं यस्य दधिकृतं एव+उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते । ।
____________________________________________________________________
- <उदश्वितोऽन्यतरस्याम्># । । PS_४,२.१९ । ।
_____Sठाऱ्ठ्JKव्_४,२.१९ः
उदश्विच्-छब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे अन्यतरस्यां ठक्प्रत्ययो भवति, पक्षे यथाप्राप्तमण्भवति ।
औदश्वित्कम्, औदश्वितं । ।
____________________________________________________________________
- <क्षीराड्ढञ्># । । PS_४,२.२० । ।
_____Sठाऱ्ठ्JKव्_४,२.२०ः
क्षीर-शब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ढञ्प्रत्ययो भवति ।
अणोऽपवादः ।
क्षीरे संस्कृता क्षैरेयी यवागूः । ।
____________________________________________________________________
- <साऽस्मिन्पौर्णमासी इति सञ्ज्ञायाम्># । । PS_४,२.२१ । ।
_____Sठाऱ्ठ्JKव्_४,२.२१ः
सा इति प्रथमासमर्थादस्मिन्निति सप्तम्य्-अर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति ।
इति-करणः ततश्चेद्विवक्षा भवति ।
सञ्ज्ञायां इति समुदायोपाधिः, प्रत्ययान्तेन चेत्सञ्ज्ञा गम्यते इति ।
मासार्धमाससंवत्सराणां एषा सञ्ज्ञा ।
पौषी पौर्णमासी अस्मिन्पौषो मासः ।
पौषोऽर्धमासः ।
[#३६८]
पौषः संवत्सरः ।
इह न भवति, पौषी पौर्णमासी अस्मिन्दशरात्रे इति ।
भृतकमासे च न भवति ।
इतिकरणस्य सञ्ज्ञाशब्दस्य च तुल्यं एव फलं प्रयोग-अनुसरणं, तत्र किमर्थं द्वयं उपादीयते ? सञ्ज्ञाशब्देन तुल्यतां इति करणस्य ज्ञापयितुं, न ह्ययं लोके तथा प्रसिद्धः ।
सञ्ज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत्तत्र तत्र+उच्यते इतिकरणस्ततश्चेद्विवक्षा इति तदुपपन्नं भवति ।
अथ पौर्णमासी इति कोऽयं शब्दः ।
पूर्णमासादण्पौर्णमासी ।
अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी ।
मा इति चन्द्र उच्यते । ।
____________________________________________________________________
- <आग्रहायण्य्-अश्वत्थाट्ठक्># । । PS_४,२.२२ । ।
_____Sठाऱ्ठ्JKव्_४,२.२२ः
सा अस्मिन्पौर्णमासी इति सर्वं अनुवर्तते ।
आग्रहायणी-शब्दादश्वत्थ-शब्दाच्च प्रथमसमर्थात्पौर्णमास्य्-उपाधिकादस्मिन्निति सप्तम्यर्थे ठक्प्रत्ययो भवति ।
अणोऽपवादः ।
आग्रहायणिको मासः, सर्धमासः, संवत्सरः ।
एवं आश्वत्थिकः । ।
____________________________________________________________________
- <विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः># । । PS_४,२.२३ । ।
_____Sठाऱ्ठ्JKव्_४,२.२३ः
फल्गुन्य्-आदयः पौर्णमासी-शब्दाः तेभ्यो विभाषा ठक्प्रत्ययो भवति, साऽस्मिन्पौर्णमासी इति सज्ञायां (*४,२.२१) इत्येतस्मिन्विषये ।
नित्यं अणि प्राप्ते पक्षे ठग्विधीयते ।
फाल्गुनो मासः, फाल्गुनिकः ।
श्रावणः, श्रावणिकः ।
कार्तिकः, कार्तिकिकः ।
चैत्रः, चैत्रिकः । ।
____________________________________________________________________
- <साऽस्य देवता># । । PS_४,२.२४ । ।
_____Sठाऱ्ठ्JKव्_४,२.२४ः
सा इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं देवता चेत्सा भवति ।
यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः ।
इन्द्रो देवता अस्य ऐन्द्रं हविः ।
आदित्यं ।
बार्हस्पत्यं ।
प्राजापत्यं ।
देवता इति किं ? कन्या देवता अस्य ।
कथं ऐन्द्रो मन्त्रः ? मन्त्रस्तुत्यं अपि देवता इत्युपचरन्ति ।
कथं आग्नेयो वै ब्राह्मणो देवता इति ? उपमानाद्भविष्यति ।
महाराजप्रोष्ठपदाट्ठञ्(*४,२.३५) इति यावत्साऽस्य देवता इत्यधिकारः ।
सा इति प्रकृते पुनः समर्थ-विभक्ति निर्देशः सञ्ज्ञा-निवृत्त्य्-अर्थः । ।
____________________________________________________________________
- <कस्य+इत्># । । PS_४,२.२५ । ।
_____Sठाऱ्ठ्JKव्_४,२.२५ः
क-शब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेन+एव अण्प्रत्ययः सिद्धः, इ-कारादेश-अर्थं वचनं ।
कस्य इ-कारादेशो भवति प्रत्यय-सन्नियोगेन ।
कायं हविः ।
कायं एककपालं निर्वपेत् । ।
____________________________________________________________________
- <शुक्राद्घन्># । । PS_४,२.२६ । ।
_____Sठाऱ्ठ्JKव्_४,२.२६ः
शुक्र-शब्दात्साऽस्य देवता इत्यसिन्न्नर्थे घन्प्रत्ययो भवति ।
अणोऽपवादः ।
शुक्रियं हविः ।
शुक्रियोऽध्यायः । ।
____________________________________________________________________
[#३६९]
- <अपोनप्त्र्-अपांनप्तृभ्यां घः># । । PS_४,२.२७ । ।
_____Sठाऱ्ठ्JKव्_४,२.२७ः
अपोनप्तृ अपांनप्तृ इत्येताभ्यां घः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन्विषये ।
अणोऽपवादः ।
अपोनप्त्रियं हविः, अपांनप्त्रियं ।
अपोनपादपांनपादिति देवताया नामधेये एते ।
तयोस्तु पत्ययसन्नियोगेन रूपं इदं निपत्यते । ।
____________________________________________________________________
- <छ च># । । PS_४,२.२८ । ।
_____Sठाऱ्ठ्JKव्_४,२.२८ः
अपोनप्तृ अपांनप्तृ इत्येताभ्यां छ-कारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन्विषये ।
अणोऽपवादः ।
अपोनप्त्रीयं हविः, अपांनप्त्रीयं ।
योगविभागः सङ्ख्यातानुदेशपरिहारार्थः ।
छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानं ।
पैङ्गाक्षीपुत्रीयं ।
तार्णबिन्दवीयं ।
शतरुद्राच्छश्च घश्च ।
शतरुद्रीयम्, शतरुद्रियं । ।
____________________________________________________________________
- <महेन्द्राद्घाणौ च># । । PS_४,२.२९ । ।
_____Sठाऱ्ठ्JKव्_४,२.२९ः
महेन्द्र-शब्दात्घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, साऽस्य देवता इत्यस्मिन्विषये ।
महेन्द्रो देवता अस्य महेन्द्रियं हविः, माहेन्द्रम्, महेन्द्रीयं । ।
____________________________________________________________________
- <सोमाट्ट्यण्># । । PS_४,२.३० । ।
_____Sठाऱ्ठ्JKव्_४,२.३०ः
सोम-शब्दात्ट्यण्प्रत्ययो भवति साऽस्य देवता इत्यस्मिन्विषये ।
अणोऽपवादः ।
ण-कारो वृद्ध्य्-अर्थः ।
ट-कारो ङीब्-अर्थः ।
सोमो देवता अस्य स्ॐयं हविः ।
स्ॐयं सूक्तं ।
स्ॐयी ऋक् । ।
____________________________________________________________________
- <वाय्व्-ऋतु-पित्र्-उषसो यत्># । । PS_४,२.३१ । ।
_____Sठाऱ्ठ्JKव्_४,२.३१ः
वाय्व्-आदिभ्यः शब्देभ्यः यत्प्रत्ययो भवत्साऽस्य देवता इत्येतस्मिन्विषये ।
अणोऽपवादः ।
वायुः देवता अस्य वायव्यं ।
ऋतव्यं ।
पित्र्यं ।
उषस्यं । ।
____________________________________________________________________
[#३७०]
- <द्यावापृथिवी-शुनासीर-मरुत्वद्-अग्नीषोम-वास्तोष्पति-गृहमेधाच्छ च># । । PS_४,२.३२ । ।
_____Sठाऱ्ठ्JKव्_४,२.३२ः
द्यावापृथिव्य्-आदिब्भ्यः छः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन्विषये, चकाराद्यच्च ।
अणो ण्यस्य च अपवादः ।
द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्, ।
शुनश्च सीरश्च तौ देवते अस्य इति शुनासीरीयम्, शौनासीर्यं ।
शुनो वायुः ।
सीरः आदित्यः ।
मरुत्वान्देवता अस्य मरुत्वतीयम्, मरुत्वत्यं ।
अग्नीषोमीयम्, अग्नीशोम्यं ।
वास्तोष्पतीयम्, वास्तोष्पत्यं ।
गृहमेधीयम्, गृहमेध्यं । ।
____________________________________________________________________
- <अग्नेर्ढक्># । । PS_४,२.३३ । ।
_____Sठाऱ्ठ्JKव्_४,२.३३ः
अग्नि-शब्दाद्ढक्प्रत्ययो भवति सा+अस्य देवता इत्यस्मिन्विषये ।
अणोऽपवादः ।
अग्निर्देवता अस्य आग्नेयोऽष्टाकपालः ।
प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः ।
____________________________________________________________________
- <कालेभ्यो भववत्># । । PS_४,२.३४ । ।
_____Sठाऱ्ठ्JKव्_४,२.३४ः
कालविशेष-वाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति साऽस्य देवता इत्यस्मिन्विषये ।
कालाट्ठञ्(*४,३.११) इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते साऽस्य देवता इत्यस्मिनर्थे तथा+एव+इष्यन्ते, तदर्थं इदं उच्यते ।
वत्-करणं सर्वसादृश्य-परिग्रह-अर्थं ।
मासे भवं मासिकं ।
आर्धमासिकं ।
सांवत्सरिकं ।
वासन्तं ।
प्रावृषेण्यं ।
तथा मासो देवताऽस्य मासिकं ।
आर्धमासिकं ।
सांवत्सरिकं ।
वासन्तं ।
प्रावृषेण्यं । ।
____________________________________________________________________
- <महाराज-प्रोष्ठपदाट्ठञ्># । । PS_४,२.३५ । ।
_____Sठाऱ्ठ्JKव्_४,२.३५ः
महाराज-शब्दात्प्रोष्ठपद-शब्दाच्च ठञ्प्रययो भवति साऽस्य देवता इत्यस्मिन्विषये ।
महाराजो देवता अस्य माहाराजिकं ।
प्रौष्ठपदिकं ।
[#३७१]
ठञ्-प्रकरणे तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानं ।
नवयज्ञोऽस्मिन्वर्तते नावयज्ञिकः कालः ।
पाकयज्ञैकः ।
पूर्णमासादण् ।
पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः । ।
____________________________________________________________________
- <पितृव्य-मातुल-मातामह-पितामहाः># । । PS_४,२.३६ । ।
_____Sठाऱ्ठ्JKव्_४,२.३६ः
पितृव्यादयो निपात्यन्ते ।
समर्थविभक्तिः, प्रत्ययः, प्रत्ययार्थोऽनुबन्धः इति सर्वं निपातनाद्विज्ञेयं ।
पितृमातृभ्यां भ्रातर्यभिधेये व्यत्डुलचित्येतौ प्रत्ययु निपात्येते ।
पित्रुर्भ्राता पितृव्यः ।
मातुर्भ्राता मातुलः ।
ताभ्यां पितरि डामहच्मातरि षिच्च ।
ताभ्यां एव पितरि डामहच्प्रत्ययो भवति ।
पितुः पिता पितामहः ।
मातुः पिता मातामहः ।
मातरि षिच्च ।
पितामही ।
मातामही ।
अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः ।
अवेर्दुग्धं अविसोढम्, अविदूसम्, अविमरीसं ।
तिलान्निष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ ।
निष्फलस्तिलः तिलपिञ्जः, तिलपेजः ।
पिञ्जश्छन्दसि डिच्च ।
तिल्पिञ्जं दण्डनं नडं । ।
____________________________________________________________________
- <तस्य समूहः># । । PS_४,२.३७ । ।
_____Sठाऱ्ठ्JKव्_४,२.३७ः
तस्य इति षष्ठीसमर्थात्समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
किं इह+उदाहरणं ? चित्तवदद्युदात्तमगोत्रं यस्य च न अन्यत्प्रतिपदं ग्रहणं ।
अचित्तात्ठकं वक्ष्यति, अनुदात्तादेरञ्(*४,२.४४), गोत्राद्वुञ्, प्रतिपदं च केदाराद्यञ्च (*४,२.४०) इत्येवं आदि, तत्परिहारेण अत्र+उदाहरणं द्रष्टव्यं ।
काकानां समूहः काकं ।
बाकं ।
इनि-त्र-कट्यचश्च (*४,२.५१) इति यावत्समूहाधिकारः ।
गुणादिभ्यो ग्रामज्वक्तव्यः ।
गुणग्रामः ।
करणग्रामः ।
गुण ।
करण ।
तत्त्व ।
शब्द ।
इन्द्रिय ।
आकृतिगनः । ।
____________________________________________________________________
[#३७२]
- <भिक्षा-आदिभ्योऽण्># । । PS_४,२.३८ । ।
_____Sठाऱ्ठ्JKव्_४,२.३८ः
भिक्षा इत्येवं आदिभ्यः शब्देभ्योऽण्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
अण्-ग्रहनं बाधक-बाधन-अर्थं ।
भिक्षाणां समूहः भैक्षं ।
गार्भिणं युवति-शब्दोऽत्र पठ्यते, तस्य ग्रहण-सामर्थ्याद्पुम्बद्भावो न भवति भस्याढे तद्धिते (*६,३.३५) इति ।
युवतीनां समूहो यौवतं ।
भैक्षा ।
गर्भिणी ।
क्षेत्र ।
करीष ।
अङ्गार ।
चर्मिन् ।
धर्मिन् ।
सहस्र ।
युवति ।
पदाति ।
पद्धति ।
अथर्वन् ।
दक्षिणा ।
भूत । ।
____________________________________________________________________
- <गोत्र-उक्ष-उष्ट्र-उरभ्र-राज-राजन्य-राजपुत्र-वत्स-मनुष्य-अजाद्वुञ्># । । PS_४,२.३९ । ।
_____Sठाऱ्ठ्JKव्_४,२.३९ः
गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
अपत्य-अधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रं, न तु पौत्रप्रभृत्येव ।
औपगवानां समूहः औपगवकं ।
कापटवकं ।
उक्षन्- औक्षकं ।
उष्ट्र - औष्ट्रकं ।
उरभ्र - औरभ्रकं ।
राजन्- राजकं ।
राजन्य - राजन्यकं ।
राजपुत्र - राजपुत्रकं ।
वत्स - वात्सकं ।
मनुष्य - मानुष्यकं ।
अज - आजकं ।
प्रकृत्याऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय्च तद्धितेऽनाति (*६,४.१५१) इति ।
वृद्धाच्चेति वक्तव्यं ।
वृद्धानां समूहो वार्धकं । ।
____________________________________________________________________
- <केदाराद्यञ्च># । । PS_४,२.४० । ।
_____Sठाऱ्ठ्JKव्_४,२.४०ः
केदार-शब्दाद्यञ्प्रत्ययो भवति, च-काराद्वुञ्च, तस्य समूहः इत्येतस्मिन्विषये ।
अचित्त-लक्षनस्य ठकः अपवादः ।
केदाराणां समूहः कैदार्यम्, कैदारकं ।
गणिकायाश्च यज्वक्तव्यः ।
गनिकानां समूहः गाणिक्यं । ।
____________________________________________________________________
- <ठञ्कवचिनश्च># । । PS_४,२.४१ । ।
_____Sठाऱ्ठ्JKव्_४,२.४१ः
कवचिन्शब्दात्ठञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
कवचिनां समूहः कावचिकं ।
चकारः केदारातित्यस्य अनुकर्षण-अर्थः ।
केदाराणां समूहः कैदारिकं । ।
____________________________________________________________________
[#३७३]
- <ब्राह्मण-माणव-वाडवाद्यन्># । । PS_४,२.४२ । ।
_____Sठाऱ्ठ्JKव्_४,२.४२ः
ब्राह्मणादिभ्यः शब्देभ्यो यन्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
नकारः स्वरार्थः ।
ब्राह्मणानां समूहः ब्राह्मण्यं ।
माणव्यं ।
वाडव्यं ।
यन्-प्रकरणे पृष्ठादुपसङ्ख्यानं ।
पृष्ठानां समूहः पृष्ठ्यः ।
अह्नः खः क्रतौ ।
अह्णां समूहः अहीनः क्रतुः ।
क्रतौ इति किं ? आह्नः ।
खण्डिकादिषु दर्शनादञ्भवति ।
पर्श्वा णस्वक्तव्यः ।
पर्शूनां समूहः पार्श्वं ।
पदसञ्ज्ञकत्वाद्गुणो न भवति ।
वातादूलः ।
वातानां समूहः वातूलः । ।
____________________________________________________________________
- <ग्राम-जन-बन्धु-सहायेभ्यस्तल्># । । PS_४,२.४३ । ।
_____Sठाऱ्ठ्JKव्_४,२.४३ः
ग्रामादिभ्यः तल्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
ग्रामाणां समूहः ग्रामता ।
जनता ।
बन्धुता ।
सहायता ।
गजाच्चेति वक्तव्यं ।
गजानां समूहः गजता । ।
____________________________________________________________________
- <अनुदात्तादेरञ्># । । PS_४,२.४४ । ।
_____Sठाऱ्ठ्JKव्_४,२.४४ः
अनुदात्तादेः शब्दादञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
कपोतानां समूहः कापोतं ।
मायूरं ।
तैत्तिरं । ।
____________________________________________________________________
[#३७४]
- <खण्डिक-आदिभ्यश्च># । । PS_४,२.४५ । ।
_____Sठाऱ्ठ्JKव्_४,२.४५ः
खण्दिका इत्येवं आदिभ्यः शब्देभ्योऽञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
आद्य्-उदात्त-अर्थं अचित्तार्थं च वचनं ।
खण्दिकानां ममूहः खाण्डिकं ।
वाडवं ।
क्षुद्रक-मालव-शब्दोत्र पठ्यते ।
क्षुद्रकाश्च मालवाश्च इति क्षत्रिय-द्वन्द्वः ।
ततः पूर्वेण+एव अञि सिद्धे वचनं गोत्रवुञ्बाधन-अर्थं ।
ननु च परत्वादञा वुञ्बाधिष्यते, न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिरत्र अस्ति ? एवं तर्हि एतज्ज्ञापयति वुञि पूर्वविप्रतिषेधः, समूहिकेषु च तदन्तविधिरस्ति इति ।
प्रत्योजनं औपगवकं कापटवकं इति वुञ्भवति, वानहस्तिकं गौधेनुकं इति च तदन्तविधिः ।
क्षुद्रकमालवातित्येतावता योगविभागेन पूर्वविप्रतेषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्या+एव नियमार्थं उच्यते सेनासञ्ज्ञायां इति ।
क्षुद्रकमालवात्सेनासंज्ञायां एव अञ्भवति ।
क्षौद्रकमालवी सेना ।
क्षौद्रकमालवमन्यथ् ।
अञ्सिद्धिरनुदातादेः कोऽर्थः क्षुद्रकमालवाथ् ।
गोत्राद्वुञ्न च तद्गोत्रं तदन्तान्न च सर्वतः । ।
ज्ञापकं स्यात्तदन्तत्वे तथा च अपि शलिएर्विधिः ।
सेनायां नियम-अर्थं च यथा बध्येत चाञ्वुञा । ।
खण्दिका ।
वडवा ।
क्षुद्रकमालवात्सेनासञ्ज्ञायां ।
भिक्षुक ।
शुक ।
उलूक ।
श्वन् ।
युग ।
अहन् ।
वरत्रा ।
हलबन्ध । ।
____________________________________________________________________
- <चरणेभ्यो धर्मवत्># । । PS_४,२.४६ । ।
_____Sठाऱ्ठ्JKव्_४,२.४६ः
चरण-शब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत्प्रत्यया भवन्ति ।
गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चरणाद्धर्माम्नाययोः इति, तेन धर्मवतित्यतिदेशः क्रियते ।
वतिः सर्वसादृश्यार्थः ।
कठानां धर्मः काठकं ।
कालापकं ।
छन्दोग्यं ।
औक्थिक्यं ।
आथर्वणं ।
तथा समूहेऽपि - काठकं ।
कालापकं ।
छन्दोग्यं ।
औक्थिक्यं ।
आथर्वणं । ।
____________________________________________________________________
- <अचित्त-हस्ति-धेनोष्ठक्># । । PS_४,२.४७ । ।
_____Sठाऱ्ठ्JKव्_४,२.४७ः
अचित्त-अर्थेभ्यो हस्ति-धेनु-शब्दाभ्यां च ठक्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
अणञोरपवादः ।
अपूपानां समूहः आपूपिकं ।
शाष्कुलिकं ।
हास्तिकं ।
धैनुकं ।
धेनोरनञ इति वक्तव्यं ।
आधेनवं । ।
____________________________________________________________________
[#३७५]
- <केश-अश्वाभ्यां यञ्-छावन्यतरस्याम्># । । PS_४,२.४८ । ।
_____Sठाऱ्ठ्JKव्_४,२.४८ः
केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ्छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूहः इत्येतस्मिन्विषये ।
केशानां समूहः कैश्यम्, कैशिकं ।
अश्वानां समूहः अश्वीयम्, आश्वं । ।
____________________________________________________________________
- <पाशादिभ्यो यः># । । PS_४,२.४९ । ।
_____Sठाऱ्ठ्JKव्_४,२.४९ः
पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन्विषये ।
पाशानां समूहः पाश्या ।
तृण्या ।
पाश ।
तृण ।
धूम ।
वात ।
अङ्गार ।
पोत ।
बालक ।
पिटक ।
पिटाक ।
शकट ।
हल ।
नड ।
वन । ।
____________________________________________________________________
- <खल-गो-रथात्># । । PS_४,२.५० । ।
_____Sठाऱ्ठ्JKव्_४,२.५०ः
खल-गो-रथ-शब्देभ्यः यः प्रत्यय भवत्तस्य समूहः इत्येतस्मिन्विषये ।
खलानां समूहः खल्या ।
गव्या ।
रथ्या ।
पाशादिष्वपाठः उत्तरार्थः । ।
____________________________________________________________________
- <इनि-त्र-कट्यचश्च># । । PS_४,२.५१ । ।
_____Sठाऱ्ठ्JKव्_४,२.५१ः
खल-गो-रथ-शब्देभ्यो यथासङ्ख्यं इनि त्र कट्यचित्येते प्रत्यया भवन्ति तस्य समूहः इत्येतस्मिन्विषये ।
खलिनी ।
गोत्रा ।
रथाकट्या ।
खलादिभ्य इनिर्वक्तव्यः ।
डाकिनी ।
कुण्डलिनी ।
कुटुम्बिनी ।
कमलादिभ्यः खण्डच्प्रत्ययो भवति ।
कमलखण्डं ।
अम्भोजखण्डं ।
कमल ।
अम्भोज ।
पद्मिनी ।
कुमुद ।
सरोज ।
पद्म ।
नलिनी ।
कैरविणी ।
कमलादिराकृतिगणः ।
नरकरितुरङ्गाणां स्कन्धच्प्रत्ययः ।
नरस्कन्धः ।
करिस्कन्धः ।
तुरङ्गस्कन्धः ।
पूर्वादिभ्यः काण्डः प्रत्ययो भवति ।
पूर्वकाण्डं ।
तृणकाण्डं ।
कर्मकाण्डं । ।
____________________________________________________________________
[#३७६]
- <विषयो देशे># । । PS_४,२.५२ । ।
_____Sठाऱ्ठ्JKव्_४,२.५२ः
समूहः इति निव्éत्तं ।
षष्ठी समर्थविभक्तिरनुवर्तते ।
तस्य इति षष्ठीसमर्थाद्विषयः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयः देशश्चेत्स भवति ।
विषय-शब्दो बह्वर्थः ।
क्वचिद्ग्रामसमुदाये वर्तते, विषयो लब्धः इति ।
क्वचिदिन्द्रियग्राह्ये, चक्षुर्विषयो रूपं इति ।
क्वचिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयोऽनुवाकः इति ।
क्वाचिदन्यत्र अभावे, मत्स्यानां विषयो जलं इति ।
तत्र देश-ग्रहणं ग्रामसमुदाय-प्रतिपत्त्य्-अर्थं ।
शिबीनां विषयो देशः शैबः ।
औष्ट्रः ।
देशे इति किं ? देवदत्तस्य विषयोऽनुवाकः । ।
____________________________________________________________________
- <राजन्यादिभ्यो वुञ्># । । PS_४,२.५३ । ।
_____Sठाऱ्ठ्JKव्_४,२.५३ः
राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशे इत्येतस्मिन्नर्थे ।
अणोऽपवादः ।
राजन्यानां विषयो देशः राजन्यकः ।
दैवयानकः ।
आकृतिगणश्च अयं ।
मालवानां विषयो देशः मालवकः ।
वैराटकः ।
त्रैगर्तकः ।
राजन्य ।
देवयान ।
शालङ्कायन ।
जालन्धरायण ।
आत्मकामेय ।
अम्बरीषपुत्र ।
वसाति ।
बैल्ववन ।
शैलूष ।
उदुम्बर ।
बैल्वत ।
आर्जुनायन ।
संप्रिय ।
दाक्षि ।
ऊर्णनाभ । ।
____________________________________________________________________
- <भौरिक्याद्य्-ऐषुकार्यादिभ्यो विधल्भक्तलौ># । । PS_४,२.५४ । ।
_____Sठाऱ्ठ्JKव्_४,२.५४ः
भैरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च यथासङ्ख्यं विधल्भक्तलित्येतौ प्रत्ययौ भवतः विषयो देशे इत्येतस्मिन्विषये ।
अणोऽपवादः ।
भौरिकिविधः ।
वैपेयविधः ।
ऐषुकार्यादिभ्यः - ऐषुकारिभक्तः ।
सारस्यायनभक्तः ।
भौरिकि ।
वैपेय ।
भौलिकि ।
चैटयत ।
काणेय ।
वाणिजक ।
वालिज ।
वालिज्यक ।
शैकयत ।
वैकयत ।
ऐषुकारि ।
सारस्यायन ।
चान्द्रायण ।
द्व्याक्षायण ।
त्र्याक्षायण ।
औडायन ।
जौलायन ।
खाडायन ।
सौवीर ।
दासमित्रि ।
दासमित्रायण ।
शौद्राण ।
दाक्षायण ।
शयण्ड ।
तार्क्ष्यायण ।
शौभ्रायण ।
सायण्डि ।
शौण्दि ।
वैश्वमाणव ।
वैश्वधेनव ।
नद ।
तुण्डदेव ।
विशदेव । ।
____________________________________________________________________
- <सोऽस्य-आदिरिति च्छन्दसः प्रगाथेषु># । । PS_४,२.५५ । ।
_____Sठाऱ्ठ्JKव्_४,२.५५ः
स इति समर्थविभक्तिः ।
अस्य इति प्रत्यय-अर्थः ।
आदिः इति प्रकृतिविशेषनं ।
इति-करणो विवक्षार्थः ।
छन्दसः इति प्रकृतिनिर्देशः ।
प्रगाथेषु इति प्रत्ययार्थविशेषणं ।
स इति प्रथमासमर्थादस्य ति षष्ट्यार्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्य इति निर्दिष्टं प्रगाथाश्चेत्ते भवन्ति, इति-करणस्ततश्चेद्विवक्षा ।
[#३७७]
पङ्क्तिरादिरस्य पाङ्कतः प्रगाथः ।
आनुष्टुभः ।
जागतः ।
आदिः इति किं ? अनुष्टुबः मध्यं अस्य प्रगाथस्य ।
छन्दसः इति किं ? उदुत्य-शब्द आदिरस्य प्रगाथस्य ।
प्रगाथेषु इति किं ? पङ्क्तिरादिरस्य अनुवाकस्य ।
प्रगाथ-शब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते ।
यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात्प्रकर्षगानाद्वा प्रगाथः इत्युच्यते ।
छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानं ।
त्रिष्टुबेव त्रैष्टुभं ।
जागतं । ।
____________________________________________________________________
- <सङ्ग्रामे प्रयोजन-योद्धृभ्यः># । । PS_४,२.५६ । ।
_____Sठाऱ्ठ्JKव्_४,२.५६ः
सोऽस्य इति समर्थविभक्तिः, प्रत्ययार्थश्च अनुवर्तते ।
प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च ।
प्रत्ययार्थविशेषनं सङ्ग्रामः ।
प्रयोजनवाचिभ्यः योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यः अस्य इति षष्ठ्यर्थे सङ्ग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति ।
भद्रा प्रयोजनं अस्य सङ्ग्रामस्य भद्रः सङ्ग्रामः ।
सौभद्रः ।
गौरिमित्रः ।
योद्धृभ्यः - आहिमाला योद्धारोऽस्य सङ्ग्रामस्य आहिमालः ।
स्यान्दनाश्वः ।
भारतः ।
सङ्ग्रामे इति किं ? सुभद्रा प्रयोजनं अस्य दानस्य ।
प्रयोजन-योद्धृभ्यः इति किं ? सुभद्रा प्रेक्षिकाऽस्य सङ्ग्रामस्य । ।
____________________________________________________________________
- <तदस्यां प्रहरणं इति क्रीडायां णः># । । PS_४,२.५७ । ।
_____Sठाऱ्ठ्JKव्_४,२.५७ः
ततिति प्रथमासमर्थादस्यां इति सप्तम्य्-अर्थे णः प्रत्ययो भवति, यत्ततिति निर्दिष्टं प्रहरणं चेत्भवति ।
यदस्यां इति निर्दिष्टं क्रीडा तद्चेत्सा भवति ।
इतिकरणस्ततश्चेद्विवक्षा ।
दण्डः प्रहरणं अस्यां क्रीडायां दाण्डा ।
मौष्टा ।
प्रहरणं इति किं ? माला भूषणं अस्यां क्रीडायां ।
क्रीडायां इति किं ? खङ्गः प्रहरणं अस्यां सेनायां । ।
____________________________________________________________________
- <घञः सास्यां क्रियेति ञः># । । PS_४,२.५८ । ।
_____Sठाऱ्ठ्JKव्_४,२.५८ः
सा इति समर्थविभक्तिः ।
अस्यां इति प्रत्ययार्थः स्त्रीलिङ्गः ।
क्रिया इति प्रकृत्यर्थ-विशेषणं ।
घञः इति प्रकृतिनिर्देशः ।
इति करणो विवक्षार्थः ।
घञन्तात्कियावाचिनः प्रथमासमर्थादस्यां इति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रययो भवति ।
घञः इति कृद्-ग्रहणम्, तत्र गतिकारक-पूर्वं अपि गृह्यते ।
श्येनपातोऽस्यां वर्तते श्यैनंपाता ।
तैलंपाता घञः इति किं ? श्येनपतनं अस्यां वर्तते ।
क्रिया इति किं ? प्राकारोऽस्यां वर्तते ।
अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात्पुनरुपादियते, यावता द्वयं अपि प्रकृतं एव ? क्रीडायां इत्यनेन तत्सम्बद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि सम्भाव्येत ।
सामान्येन च+इदं विधानं ।
दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ।
मौसलपाता तिथिः । ।
____________________________________________________________________
- <तदधीते तद्वेद># । । PS_४,२.५९ । ।
_____Sठाऱ्ठ्JKव्_४,२.५९ः
ततिति द्वितीयासमर्थातधीते वेद इत्येतयोः अर्थयोः यथाविहितं प्रत्ययो भवति ।
छन्दोऽधीते छान्दसः ।
वैयाकरणः ।
नैरुक्तः ।
निमित्तानि वेद नैमित्तः ।
मौहूर्तः ।
औत्पातः ।
द्विस्तद्-ग्रहणं अधीयानविदुषोः पृथग्-निधान-अर्थं । ।
____________________________________________________________________
[#३७८]
- <क्रतु-उक्थादि-सूत्रान्ताट्ठक्># । । PS_४,२.६० । ।
_____Sठाऱ्ठ्JKव्_४,२.६०ः
क्रतुविशेष-वाचिभ्यः उक्थादिभ्यश्च सूत्रान्ताच्च ठक्प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन्विषये ।
अणोऽपवादः ।
अग्निष्टोमं अधीते वेद वा आग्निष्टोमिकः ।
वाजपेयिकः ।
उक्थादिभ्यः - औक्थिकः ।
लौकायतिकः ।
सूत्रान्तात्- वार्त्तिकसूत्रिकः ।
साङ्ग्रहसूत्रिकः ।
सूत्रान्तादकल्पादेरिष्यते ।
कल्पसूत्रं अधीते काल्पसूत्रः ।
अणेव भवति ।
उक्थ-शब्दः केषुचिदेव सामसु रूढः ।
यज्ञायज्ञीयात्परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि, सामलक्षणे औक्थिक्ये वर्तमानः उक्थ-शब्दः प्रत्ययं उत्पादयति ।
उक्थं अधीते औक्थिकः ।
औक्थिक्यं अधीते इत्यर्थः ।
औक्थिक्य-शब्दाच्च प्रत्ययो न भवत्येव, अनभिधानाथ् ।
विद्यालक्षण-कल्पसूत्रान्तादिति वक्तव्यं ।
वायसविद्यिकः ।
सार्पविद्यिकः ।
गौलक्षणिकः ।
आश्वलक्षणिकः ।
मातृकल्पिकः ।
पाराशरकल्पिकः ।
विद्या च न अङ्ग-क्षत्र-धर्म-संसर्ग-त्रि-पूर्वा ।
अङ्गविद्यां अधीते आङ्गविद्यः ।
क्षात्रविद्यः ।
धार्मविद्यः ।
सांसर्गविद्यः ।
त्रैविद्यः ।
आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग्वक्तव्यः ।
आख्यानाख्यायीकयोरर्थ-ग्रहणम्, इतिहास-पुराणयोः स्वरूप-ग्रहणं यावक्रीतिकः ।
प्रैयङ्गविकः ।
वासवदत्तिकः ।
स्ॐअनोत्तरिकः ।
ऐतिहासिकः ।
पौराणिकः ।
सर्वसादेर्द्विगोश्च लः ।
सर्ववेदः ।
सर्वतन्त्रः ।
सादेः - सवार्त्तिकः ।
ससङ्ग्रहः ।
द्विगोः - द्विवेदः ।
पञ्चव्याकरणः ।
अनुसूर्लक्ष्यलक्षणे च ।
अनुसूर्नामग्रन्थः, तं अधीते आनुसुकः ।
लाक्षिकः ।
लाक्षणिकः ।
इकन्बहुलं पदोत्तरपदाथ् ।
पूर्वपदिकः ।
शतषष्टेः षिकन्पथो बहुलं ।
शतपथिकः ।
शतपथिकी ।
षष्टिपथिकः ।
षष्टिपथिकी ।
बहुल-ग्रहणादणपि भवति ।
शातपथः ।
षाष्टिपथः ।
उक्थ ।
लोकायत ।
न्याय ।
न्यास ।
निमित्त ।
पुनरुक्त ।
निरुक्त ।
यज्ञ ।
चर्चा ।
धर्म ।
क्रमेतर ।
श्लक्ष्ण ।
संहिता ।
पद ।
क्रम ।
सङ्घात ।
वृत्ति ।
सङ्ग्रह ।
गुणागुण ।
आयुर्वेद ।
सूत्रान्तादकल्पादेः ।
विद्यालक्षणकल्पान्ताथ् ।
विद्याचानङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा ।
आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठक् ।
सर्वसादेर्द्विगोश्च लः ।
अनुसूर्लक्ष्यलक्षणे च ।
द्विपदि ज्योतिषि ।
अनुपद ।
अनुकल्प ।
अनुगुण ।
इकन्बहुलं पदोत्तरपदाथ् ।
शतषष्टेः षिकन् ।
पथो बहुलं । ।
____________________________________________________________________
- <क्रमादिभ्यो वुन्># । । PS_४,२.६१ । ।
_____Sठाऱ्ठ्JKव्_४,२.६१ः
क्रम इत्येवं आदिभ्यः शब्देभ्यः वुन्प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन्विषये ।
अणोऽपवादः ।
क्रमकः ।
पदकः ।
क्रम ।
पद ।
शिक्षा ।
मीमंसा ।
सामन् । ।
____________________________________________________________________
[#३७९]
- < अनुब्राह्मणादिनिः># । । PS_४,२.६२ । ।
_____Sठाऱ्ठ्JKव्_४,२.६२ः
अनुब्राह्मण-शब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन्विषये ।
अणोऽपवादः ।
ब्राह्मण-सदृशोऽयं ग्रन्थः अनुब्राह्मणं ।
तदधीते अनुब्राह्मणी ।
अनुब्राह्मणिनौ, अनुब्राह्मणिनः ।
मत्त्वर्थेन अत इनि-ठनौ (*५,२.११५) इति इनिना सिद्धं ? तत्र+एतस्माट्ठन्नपि प्राप्नोति ।
अनभिधानान्न भविष्यति ? अणो निवृत्त्य्-अर्थं तर्हि वचनं । ।
____________________________________________________________________
- < वसन्तादिभ्यष्ठक्># । । PS_४,२.६३ । ।
_____Sठाऱ्ठ्JKव्_४,२.६३ः
वसन्त इत्येवं आदिभ्यः ठक्प्रत्ययो भवति तदधीते तद्वेद इत्यस्मिन्विषये ।
अणोऽपवादः ।
वसन्त-सहचरितोऽयं ग्रन्थः वसन्तः ।
तं अधीते वासन्तिकः ।
वार्षिकः ।
वसन्त ।
वर्षाशरदं ।
हेमन्त ।
शिशिर ।
प्रथम ।
गुण ।
चरम ।
अनुगुण ।
अपर्वन् ।
अथर्वन् । ।
____________________________________________________________________
- <प्रोक्ताल्लुक्># । । PS_४,२.६४ । ।
_____Sठाऱ्ठ्JKव्_४,२.६४ः
प्रोक्त-सहचरितः प्रत्ययः प्रोक्तः ।
प्रोक्त-प्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग्भवति ।
पाणिनिना प्रोक्तं पाणिनीयं ।
तदधीते पाणिनीयः ।
आपिशलः ।
स्त्रियां स्वरे च विशेषः ।
पाणिनीया ब्राह्मणी । ।
____________________________________________________________________
- < सूत्राच्च क+उपधात्># । । PS_४,२.६५ । ।
_____Sठाऱ्ठ्JKव्_४,२.६५ः
सूत्र-वाचिनः क-कार+उपधादुपन्नस्य प्रत्ययस्य लुग्भवति ।
अप्रोक्त-अर्थ आरम्भः ।
पाणिनीयं अष्टकं सूत्रं ।
तदधीयते अष्टकाः पाणिनीयाः ।
दशका वैयघ्रपदीयाः ।
त्रिकाः काशकृत्स्नाः ।
सङ्ख्याप्रकृतेरिति वक्तव्यं ।
इह मा भूत्, महावार्त्तिकं सूत्रं अधीते माहावार्त्तिकः ।
कालापकं अधीते कालापकः ।
कोपधातिति किं ? चतुष्टयं अधीते चातुष्टयः । ।
____________________________________________________________________
- < छन्दो-ब्राहमणानि च तद्-विषयाणि># । । PS_४,२.६६ । ।
_____Sठाऱ्ठ्JKव्_४,२.६६ः
प्रोक्त-ग्रहणं अनुवर्तते ।
छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति ।
अध्येतृवेदितृरत्ययविषयाणि ।
अनन्यभावो विषय-अर्थः ।
तेन स्वातन्त्र्यं उपाध्यान्तरयोगो वक्यं च निवर्तते ।
[#३८०]
कठेन प्रोक्तं अधीयते कठाः ।
मौदाः ।
पैप्पलादाः ।
आर्चाभिनः ।
वाजसनेयिनः ।
ब्राहमणानि खल्वपि - ताण्डिनः ।
भाल्ल्लविनः ।
शाट्यायनिनः ।
ऐतरेयिणः ।
ब्राह्मण-ग्रहणं किं, यावता छन्द एव तद्? ब्राह्मणविशेष-प्रतिपत्त्य्-अर्थं ।
इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि ।
सौलभानि ।
चकारोऽनुक्त-समुच्चय-अर्थः ।
कल्पे - काश्यपिनः ।
कौशिकिनः ।
सूत्रे - पाराशरिणो भिक्षवः ।
शैलालिनो नटाः ।
कर्मन्दिनः ।
कृशाश्विनः ।
छन्दो-ब्राह्मणानि इति किं ? पाणिनीयं व्याकरणं ।
पैङ्गी कल्पः । ।
____________________________________________________________________
- <तदस्मिन्नस्ति इति देशे तन्नाम्नि># । । PS_४,२.६७ । ।
_____Sठाऱ्ठ्JKव्_४,२.६७ः
ततिति प्रथमा समर्थविभक्तिः ।
अस्मिनिति प्रत्ययार्थः ।
अस्ति ईत्प्रकृत्यर्थ-विशेषणं ।
इति-करणो विवक्ष-अर्थः ।
देशे तन्नम्नि इति प्रत्ययार्थ-विशेषणं ।
ततिति रथमासमर्थादस्मिनिति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं अस्ति चेत्तद्भवति यदस्मिनिति निर्दिष्टं देशश्चेत्स तन्नामा भवति, प्रत्ययान्तनामा, इति-करणस्ततश्चेद्विवक्षा ।
उदुम्बरा अस्मिन्देशे सन्ति औदुम्बरः ।
बाल्बजः ।
पार्वतः ।
मत्वर्थीयापवादो योगः । ।
____________________________________________________________________
- <तेन निर्वृत्तम्># । । PS_४,२.६८ । ।
_____Sठाऱ्ठ्JKव्_४,२.६८ः
तेन इति तृतीयासमर्थात्निर्वृत्तं इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने ।
देशे तन्नम्नि इति चतुर्ष्वपि योगेषु सम्बध्यते ।
सहस्रेण निर्वृत्ता साहस्री परिखा ।
कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ।
हेतौ कर्तरि च यथायोगं तृतीया समर्थ-विभक्तिः । ।
____________________________________________________________________
- <तस्य निवासः># । । PS_४,२.६९ । ।
_____Sठाऱ्ठ्JKव्_४,२.६९ः
तस्य इति षष्ठीसमर्थान्निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने ।
निवसन्त्यस्मिन्निति निवासः ।
ऋजुनावां निवासो देशः आर्जुनावो देशः ।
शैबः ।
शुदिष्ठः । ।
____________________________________________________________________
- <अदूरभवश्च># । । PS_४,२.७० । ।
_____Sठाऱ्ठ्JKव्_४,२.७०ः
पूर्वा समर्थविभक्तिरनुवर्तते ।
तस्य इति षष्ठीसमर्थातदूरभवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
विदिशायाः अदूरभवं नगरं वैदिशं ।
हैमवतं ।
चकारः पूर्वेषां त्रयाणां अर्थानां इह सन्निधान-अर्थः ।
तेन+उत्तरेषु ।
चत्वारोऽप्यर्थाः सम्बध्यन्ते । ।
____________________________________________________________________
[#३८१]
- <ओरञ्># । । PS_४,२.७१ । ।
_____Sठाऱ्ठ्JKव्_४,२.७१ः
चत्वारोऽर्थाः अनुवर्तन्ते ।
उ-वर्णान्तात्प्रातिपदिकात्यथविहितं समर्थविभक्ति-युक्तातञ्प्रत्ययो भवति तदस्मिन्नस्ति इत्येवं आदिष्वर्थेषु ।
अणोऽपवादः ।
अरडु - आरडवं ।
कक्षतु - काक्षतवं ।
कर्कटेलु - कार्कटेलवं ।
नद्यां तु परत्वान्मतुब्भवति ।
इक्षुमती ।
अञधिकारः प्राक्सुबास्त्वादिभ्योऽणः । ।
____________________________________________________________________
- <मतोश्च बह्व्-अज्-अङ्गात्># । । PS_४,२.७२ । ।
_____Sठाऱ्ठ्JKव्_४,२.७२ः
बह्वचङ्गं यस्य असौ बह्वजङ्गओ मतुप्, तदन्तात्प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः ।
अणोऽपवादः ।
ऐषुकावतं ।
सैध्राकावतं ।
बह्वजङ्गातिति किं ? आहिमतं ।
यावमतं ।
अङ्ग-ग्रहणं बह्वजिति तद्विशेषणं यथा विज्ञायते, मत्वन्त-विशेषणं मा विज्ञायि इति ।
मालावतां निवासो मालावतं । ।
____________________________________________________________________
- <बह्व्-अचः कूपेषु># । । PS_४,२.७३ । ।
_____Sठाऱ्ठ्JKव्_४,२.७३ः
बह्वचः प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेसु ।
अणोऽपवादः ।
यथासम्भवमर्थाः सम्बध्यन्ते ।
दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः ।
कापिलवरत्रः । ।
____________________________________________________________________
- <उदक्च विपाशः># । । PS_४,२.७४ । ।
_____Sठाऱ्ठ्JKव्_४,२.७४ः
विपाशः उत्तरे कूले ये कूपास्तेष्वभिधेयेषु अञ्प्रत्ययो भवति चातुरर्थिकः ।
अणोऽपवादः ।
अबह्वज्-अर्थ आरम्भः ।
दत्तेन निर्वृतः कूपः दात्तः ।
गौप्तः ।
उदकिति किं ? दक्षिणतो विपाशः कूपेषु अणेव दात्तः ।
गौप्तः ।
स्वरे विशेषः ।
महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य । ।
____________________________________________________________________
- <सङ्कलादिभ्यश्च># । । PS_४,२.७५ । ।
_____Sठाऱ्ठ्JKव्_४,२.७५ः
कूपेषु इति निवृत्तं ।
सङ्कल इत्येवं आदिभ्यः अञ्प्रत्ययो भवति चातुरर्थिकः ।
अणोऽपवादः ।
यथासम्भवं अर्थसम्बन्धः ।
सङ्गतः कलः सङ्कलः ।
सङ्क्लेन निर्वृत्तः साङ्कलः ।
पौष्कलः ।
[#३८२]
सङ्कल ।
पुष्कल ।
उद्वप ।
उडुप ।
उत्पुट ।
कुम्भ ।
विधान ।
सुदक्ष ।
सुदत्त ।
सुभूत ।
सुनेत्र ।
सुपिङ्गल ।
सिकता ।
पूतीकी ।
पूलस ।
कूलास ।
पलाश ।
निवेश ।
गवेष ।
गम्भीर ।
इतर ।
शर्मन् ।
अहन् ।
लोमन् ।
वेमन् ।
वरुण ।
बहुल ।
सद्योज ।
अभिषिक्त ।
गोभृथ् ।
राजभृथ् ।
गृह ।
भृत ।
भल्ल ।
माल ।
वृत् । ।
____________________________________________________________________
- <स्त्रीषु सौवीर-साल्व-प्राक्षु># । । PS_४,२.७६ । ।
_____Sठाऱ्ठ्JKव्_४,२.७६ः
देशे तन्नम्नि इत्यस्य विशेषनं सौवीरादयः, स्त्रीत्वं च ।
ङ्याप्प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि ।
सौवीरे तावत्- दत्तमित्रेण निर्वृत्ता नगरी दात्तामित्री ।
साल्वे - विधूमाग्निना निर्वृत्ता वैधूमाग्नी ।
प्राचि खल्वपि - ककन्देन निर्वृत्ता काकन्दी ।
माकन्दी ।
मणिचरी ।
जारुषी । ।
____________________________________________________________________
- <सुवास्त्व्-आदिभ्योऽण्># । । PS_४,२.७७ । ।
_____Sठाऱ्ठ्JKव्_४,२.७७ः
सुबास्तु इत्येवं आदिभ्यः अण्प्रत्ययो भवति चातुरर्थिकः ।
अञ उ-वर्णान्त-लक्षणस्य कूप-लक्षणस्य च अपवादः ।
सुवास्तोः अदूरभवं नगरं सौवास्तवं ।
वार्णवं ।
अण्ग्रहणं नद्यां मतुपो बाधन-अर्थं ।
सौवास्तवी नदी ।
सुवास्तु ।
वर्णु ।
भण्डु ।
खण्डु ।
सेचालिन् ।
कर्पूरिन् ।
शिखण्दिन् ।
गर्त ।
कर्कश ।
शटीकर्ण ।
कृष्ण ।
कर्क ।
कर्ङ्कधू मती ।
गोह्य ।
अहिसक्थ ।
वृत् । ।
____________________________________________________________________
- <रोणी># । । PS_४,२.७८ । ।
_____Sठाऱ्ठ्JKव्_४,२.७८ः
रोणीशब्दादन्प्रत्ययो भवति चातुरर्थिकः ।
यथासम्भवं अर्थसम्बन्धः ।
कूपलक्षणस्य अञोऽपवादः ।
रोणी इति कोऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता ? सर्वावस्थप्रतिपत्त्यर्थं एवं उच्यते ।
रोणी-शब्दः सर्ववस्थोऽण्-प्रत्ययं उत्पादयति, केवलस्तदन्तश्च ।
रौणः ।
आजकरोणः ।
सैहिकरोणः । ।
____________________________________________________________________
[#३८३]
- <क-उपधाच्च># । । PS_४,२.७९ । ।
_____Sठाऱ्ठ्JKव्_४,२.७९ः
क-कार-उपधात्च प्रातिपदिकातन्प्रत्ययो भवति चातुरर्थिकः ।
यथासम्भवं अर्थसम्बन्धः ।
कूप-लक्षणस्य+उवर्नल्-अक्षणस्य च अञोऽपवादः ।
कार्णच्छिद्रिकः कूपः ।
कार्णवेष्टकः ।
कृकवाकुना निर्वृत्तं कार्कवाकवं ।
त्रैशङ्कवं । ।
____________________________________________________________________
- <वुञ्-छण्-क-ठज्-इल-स-इनि-र-ढ ण्य-य-फक्-फिञ्-इञ्-ञ्य-कक्-ठकोऽरीहण-कृशाश्व-र्श्य-कुमुद-काश-तृण-प्रेक्षा-अश्म-सखि-सङ्काश-बल-पक्ष-कर्ण-सुतङ्गम-प्रगदिन्-वराह-कुमुद-आदिभ्यः># । । PS_४,२.८० । ।
_____Sठाऱ्ठ्JKव्_४,२.८०ः
वुञादयः स्पतदश प्रत्ययाः, अरीहणादयोऽपि सप्तदश+एव प्रातिपदिकगणाः ।
आदि-शब्दः प्रत्येकं अभिसम्बध्यते ।
तत्र यथासङ्ख्यं सप्तदशभ्यः प्रातिपदिकगणेभ्यः सप्तदश प्रत्ययाः भवन्ति चातुरर्थिकाः ।
अणोऽपवादः ।
यथासम्भवमर्थसम्बन्धः ।
अरीहणादिभ्यो वुञ्प्रत्ययो भवति ।
आरीहणकं ।
द्रौघणकं ।
अरीहण ।
द्रुघण ।
खदिर ।
सार ।
भगल ।
उलन्द ।
साम्परायण ।
क्रौष्ट्रायण ।
भास्त्रयण ।
मैत्रायण ।
त्रैगर्तायन ।
रायस्पोष ।
विपथ ।
उद्दण्ड ।
उदञ्चन ।
खाडायन ।
खण्ड ।
वीरण ।
काशकृत्स्न ।
जाम्बवन्त ।
शिंशिपा ।
किरण ।
रैवत ।
बैल्व ।
वैमतायन ।
सौसायन ।
शाण्दिल्यायन ।
शिरीष ।
बधिर ।
अरीहणादिः ।
कृशाश्वादिभ्यः छण्प्रत्ययो भवति ।
कार्शाश्वीयः ।
आरिष्टीयः ।
कृशाश्व ।
अरिष्ट ।
अरीश्व ।
वेश्मन् ।
विशाल ।
रोमक ।
शबल ।
कूट ।
रोमन् ।
वर्वर ।
सुकर ।
सूकर ।
प्रतर ।
सुदृश ।
पुरग ।
सुख ।
धूम ।
अजिन ।
विनता ।
अवनत ।
विकुघास ।
अरुस् ।
अवयास ।
मौद्गल्य ।
कृशाश्वादिः ।
ऋश्यादिभ्यः कः प्रत्ययो भवति ।
ऋश्यकः ।
न्यग्रोधकः ।
ऋश्य ।
न्यग्रोध ।
शिरा ।
निलीन ।
निवास ।
निधान ।
निवात ।
निबद्ध ।
विबद्ध ।
परिगूढ ।
उपगूढ ।
उत्तराश्मन् ।
स्थूलबाहु ।
खदिर ।
शर्करा ।
अनडुः ।
परिवंश ।
वेणु ।
वीरण ।
ऋश्यादिः ।
कुमुदादिभ्यः ठच्प्रत्ययो भवति ।
कुमुदिकं ।
शर्करिकं ।
कुमुद ।
शर्करा ।
न्यग्रोध ।
इत्कट ।
गर्त ।
बीज ।
अश्वत्थ ।
बल्वज ।
परिवाप ।
शिरीष ।
यवाष ।
कूप ।
विकङ्कत ।
कुमुदादिः ।
[#३८४]
काशादिभ्य इलः प्रत्ययो भवति ।
काशिलं ।
वाशिलं ।
काश ।
वाश ।
अश्वत्थ पलाश ।
पीयूष ।
विश ।
तृण ।
नर ।
चरण ।
कर्दम ।
कर्पूर ।
कण्टक ।
गृह ।
काशादिः ।
तृणादिभ्यः शः प्रत्ययो भवति ।
तृणशः ।
नडशः ।
तृण ।
नड ।
बुस ।
पर्ण ।
वर्ण ।
चरण ।
अर्ण ।
जन ।
बल ।
लव ।
वन ।
तृणादिः ।
प्रेक्षादिभ्य इनि-प्रत्ययो भवति ।
प्रेक्षी ।
हलकी ।
प्रेक्षा ।
हलका ।
बन्धुका ।
ध्रुवका ।
क्षिपका ।
न्यग्रोध ।
इर्कुट ।
प्रेक्षादिः ।
अश्मादिभ्यो रप्रत्ययो भवति ।
अश्मरः ।
अश्मन् ।
यूष ।
रूष ।
मीन ।
दर्भ ।
वृन्द ।
गुड ।
खण्ड ।
नग ।
शिखा ।
अश्मादिः ।
सख्यादिभ्यो ढञ्प्रत्ययो भवति ।
साखेयं ।
साखिदत्तेयं ।
सखि ।
सखिदत्त ।
वायुदत्त ।
गोहित ।
भल्ल ।
पाल ।
चक्रपाल ।
चक्रवाल ।
छङ्गल ।
अशोक ।
करवीर ।
सीकर ।
सकर ।
सरस ।
समल ।
सख्यादिः ।
संकाशादिभ्यो ण्यप्रत्ययो भवति ।
सांकाश्यं ।
कम्पिल्यं ।
संकाश ।
काम्पिल्य ।
समीर ।
कश्मर ।
शूरसेन ।
सुपथिन् ।
सक्थच ।
यूप ।
अंश ।
एग ।
अश्मन् ।
कूट ।
मलिन ।
तीर्थ ।
अगस्ति ।
विरत ।
चिकार ।
विरह ।
नासिका ।
संकाशादिः ।
बलादिभ्यो यः प्रत्ययो भवति ।
बल्यः ।
कुल्यं ।
बल ।
वुल ।
तुल ।
उल ।
डुल ।
कवल ।
वन ।
कुल ।
बलादिः ।
पक्षादिभ्यः फक्प्रत्ययो भवति ।
पाक्षायणः ।
तौषायनः ।
पक्ष ।
तुष ।
अण्ड ।
कम्बलिक ।
चित्र ।
अश्मन् ।
अतिस्वन् ।
पथिन्पन्थ च ।
पक्षादिः ।
कर्णादिभ्यः फिञ्प्रत्ययो भवति ।
कार्णायनिः ।
वासिष्ठायनिः ।
[#३८५]
कर्ण ।
वसिष्ठ ।
अलुश ।
शल ।
डुपद ।
अनडुह्य ।
पाञ्चजन्य ।
स्थिरा ।
कुलिश ।
कुम्भी ।
जीवन्ती ।
जित्व ।
अण्डीवथ् ।
कर्णादिः ।
सुतङ्गमादिभ्य इञ्प्रत्ययो भवति ।
सौतङ्गमिः ।
मौनिचित्तिः ।
सुतङ्गम ।
मुनिचित्त ।
विप्रचित्त ।
महापुत्र ।
श्वेत ।
गडिक ।
शुक्र ।
विग्र ।
बीजवापिन् ।
श्वन् ।
अर्जुन ।
अजिर ।
जीव ।
सुतङ्गमादिः ।
प्रगदिन्नादिभ्यः ज्यः प्रत्ययो भवति ।
प्रागद्यं ।
प्रगदिन् ।
मगदिन् ।
शरदिन् ।
कलिव ।
खडिव ।
गडिव ।
चूडार ।
मार्जार ।
कोविदार ।
प्रगद्यादिः ।
वराहादिभ्यः कक्प्रत्ययो भवति ।
वाराहकं ।
पालाशकं ।
वराह ।
पलाश ।
शिरीष ।
पिनद्ध ।
स्थूण ।
विदग्ध ।
विजग्ध ।
विभग्न ।
बाहु ।
खदिर ।
शर्करा ।
वराहादिः ।
कुमुदादिभ्यः ठक्प्रत्ययो भवति ।
क्ॐउदिकं ।
कुमुद ।
गोमथ ।
रथकार ।
दशग्राम ।
अश्वत्थ ।
शाल्मली ।
कुण्डल ।
मुनिस्थूल ।
कूट ।
मुचुकर्ण ।
कुमुदादिः ।
शिरीष-शब्दोऽरीहणादिषु, कुमुदादिषु, वराहादिषु च पठ्यते, औत्सर्गिकोऽपि तत इष्यते, तस्य च वरणादिषु दर्शनाल्लुब्भवति ।
तथा च+उक्तम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनं इति । ।
____________________________________________________________________
- <जनपदे लुप्># । । PS_४,२.८१ । ।
_____Sठाऱ्ठ्JKव्_४,२.८१ः
देशे तन्नाम्नि यश्चातुरर्थिकः प्रत्ययः भवति, तस्य देशविशेषे अनपदेऽभिधेये लुब्भवति ।
ग्रामसमुदायो जनपदः ।
पञ्चालानां निवासो जनपदः पञ्चालाः ।
कुरवः ।
मत्स्याः ।
अङ्गाः ।
बङ्ङाः ।
मगधाः ।
सुह्माः ।
पुण्ड्राः ।
इह कस्मान्न भवति, उदुम्बराः अस्मिन्सन्ति औदुम्बरो जनपदः, वैदिशो जनपदः इति ? तन्नाम्नि इति वर्तते ।
न च अत्र लुबन्तं तन्नामधेयं भवति । ।
____________________________________________________________________
- <वरण-आदिभ्यश्च># । । PS_४,२.८२ । ।
_____Sठाऱ्ठ्JKव्_४,२.८२ः
वरण इत्येवं आदिभ्यः उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुप्भवति ।
अजनपदार्थ आरम्भः ।
वरणानां अदूरभवं नगरं वरणाः ।
शृङ्गी ।
शाल्मलयः ।
चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति ।
कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी ।
शिरीषाः ।
काञ्ची ।
वरणाः ।
पूर्वौ गोदौ ।
आलिङ्ग्यायन ।
पर्णी ।
शृङ्गी ।
शाल्मलयः ।
सदाण्वी ।
वणिकि ।
वणिक ।
जालपद ।
मथुरा ।
उज्जयिनी ।
गया ।
तक्षशिला ।
उरशा ।
अकृत्या । ।
____________________________________________________________________
[#३८६]
- <शर्कराया वा># । । PS_४,२.८३ । ।
_____Sठाऱ्ठ्JKव्_४,२.८३ः
शर्करा-शब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब्भवति ।
वा-ग्रहणं किम्, यावता शर्करा-शब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसमर्थ्यात्प्रत्ययस्य पक्षे श्रवणं भविष्यति ? एवं तर्ह्येतज्ज्ञापयति, शर्करा-शब्दादौत्सर्गिको भवति, तस्य अयं विकल्पितो लुपिति ।
शर्करा ।
शार्करं ।
गणपाठाच्च श्रवणं उत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड्रूपाणि भवन्ति ।
शर्करा, शार्करम्, शर्करिकम्, शार्करकं , शार्करिकम्, शर्करीयं इति । ।
____________________________________________________________________
- <ठक्-छौ च># । । PS_४,२.८४ । ।
_____Sठाऱ्ठ्JKव्_४,२.८४ः
शर्करा-शब्दात्ठक्छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ ।
यथासम्भवं अर्थसम्बन्धः ।
शार्करिकं ।
शर्करीयं । ।
____________________________________________________________________
- <नद्यां मतुप्># । । PS_४,२.८५ । ।
_____Sठाऱ्ठ्JKव्_४,२.८५ः
नद्यां अभिधेयायां मतुप्प्रत्ययो भवति चातुरर्थिकः ।
तन्नाम्नो देशस्य विशेषणं नदी ।
उदुम्बरा यस्यां सन्ति उदुम्बरवती ।
मशकावती ।
वीरणावती ।
पुष्करावति ।
इक्षुमती ।
द्रुमती ।
इह कस्मान्न भवति, भागीरथी, भैमरथी ? मतुबन्तस्य अतन्नामधेयत्वात् । ।
____________________________________________________________________
- <मध्वादिभ्यश्च># । । PS_४,२.८६ । ।
_____Sठाऱ्ठ्JKव्_४,२.८६ः
मधु इत्येवं आदिभ्यः शब्देभ्यो मतुप्प्रत्ययो भवति चातुरर्थिकः ।
अनद्यर्थ आरम्भः ।
मधुमान् ।
बिसवान् ।
मधु ।
बिस ।
स्थाणु ।
मुष्टि ।
इक्षु ।
वेणु ।
रम्य ।
ऋक्ष ।
कर्कन्धु ।
शमी ।
किरीर ।
हिम ।
किशरा ।
शर्पणा ।
मरुथ् ।
मरुव ।
दार्वाघाट ।
शर ।
इष्टका ।
तक्षशिला ।
शक्ति ।
आसन्दी ।
आसुति ।
शलाका ।
आमिधी ।
खडा ।
वेटा ।
मध्वादिः । ।
____________________________________________________________________
- <कुमुद-नड-वेतसेभ्यो ड्मतुप्># । । PS_४,२.८७ । ।
_____Sठाऱ्ठ्JKव्_४,२.८७ः
कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यः ड्मतुप्प्रत्ययो भवति चातुरर्थिकः ।
कुमुद्वान् ।
नड्वान् ।
वेतस्वान् ।
महिषाच्च+इति वक्तव्यं ।
महिष्मान्नाम देशः । ।
____________________________________________________________________
[#३८७]
- <नड-शादाड्ड्वलच्># । । PS_४,२.८८ । ।
_____Sठाऱ्ठ्JKव्_४,२.८८ः
नड-शाद-शब्दाभ्यां ड्वलच्प्रत्ययो भवति चातुरर्थिकः ।
यथासम्भवं अर्थसम्बन्धः ।
नड्वलं ।
शाद्वलं । ।
____________________________________________________________________
- <शिखाया वलच्># । । PS_४,२.८९ । ।
_____Sठाऱ्ठ्JKव्_४,२.८९ः
शिखा-शब्दात्वलच्प्रत्ययो भवति चातुरर्थिकः ।
यथासम्भवं अर्थसम्बन्धः ।
शिखावलं नाम नगरं ।
मतुप्-प्रकरणेऽपि शिखाया वलचं वक्ष्यति, तददेशार्थं वचनं । ।
____________________________________________________________________
- <उत्करादिभ्यश्छः># । । PS_४,२.९० । ।
_____Sठाऱ्ठ्JKव्_४,२.९०ः
उत्कर इत्येवं आदिभ्यः छः प्रत्ययो भवति चातुरर्थिकः ।
यथासम्भवं अर्थसम्बन्धः ।
उत्करीयं ।
शफरीयं ।
उत्कर ।
संफल ।
शफर ।
पिप्पल ।
पिप्पलीमूल ।
अश्मन् ।
अर्क ।
पर्ण ।
सुपर्ण ।
खलाजिन ।
इडा ।
अग्नि ।
तिक ।
कितव ।
आतप ।
अनेक ।
पलाश ।
तृणव ।
पिचुक ।
अश्वत्थ ।
शकाक्षुद्र ।
भस्त्रा ।
विशाला ।
अवरोहित ।
गर्त ।
शाल ।
अन्य ।
जन्य ।
अजिन ।
मञ्च ।
चर्मन् ।
उत्क्रोश ।
शान्त ।
खदिर ।
शूर्पणाय ।
श्यावनाय ।
नैव ।
बक ।
नितान्त ।
वृक्ष ।
इन्द्रवृक्ष ।
आर्द्रवृक्ष ।
अर्जुनवृक्ष ।
उत्करादिः । ।
____________________________________________________________________
- <नडादीनां कुक्च># । । PS_४,२.९१ । ।
_____Sठाऱ्ठ्JKव्_४,२.९१ः
नड इत्येवं आदीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः ।
यथासम्भवमर्थसम्बन्धः ।
नडकीयं ।
प्लक्षदीयं ।
नड ।
प्लक्ष ।
बिल्व ।
वेणु ।
वेत्र ।
वेतस ।
तृण ।
इक्षु ।
काष्ठ ।
कपोत ।
क्रुञ्चायां ह्रस्वत्वं च ।
तक्षन्नलोपश्च । ।
____________________________________________________________________
- <शेषे># । । PS_४,२.९२ । ।
_____Sठाऱ्ठ्JKव्_४,२.९२ः
शेषे इत्यधिकारोऽयं ।
यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः ।
उपयुक्तादन्यः शेषः ।
अपत्यादिभ्यश्चतुरर्थ-पर्यन्तेभ्योऽन्योऽर्थः ।
शेषः ।
तस्य इदं विशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवनिति शेषाधिकारः क्रियते ।
किं च सर्वेषु जातादिषु घादयो यथा स्युः अनन्तरेण+एवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायि इति साकल्यार्थं शेष-वचनं ।
____________________________________________________________________
वक्ष्यति -
- <राष्ट्र-अवारपाराद्घ-खौ># । । PS_४,२.९३ । ।
_____Sठाऱ्ठ्JKव्_४,२.९३ः
राष्ट्रियः ।
अवारपारीणः ।
[#३८८]
शेषे इति लक्षणं च अधिकारश्च ।
चक्षुषा गृह्यते चाक्षुषं रूपं ।
श्रावणः शब्दः ।
दृषदि पिष्टाः दार्षदाः सक्तवः ।
उलूखले क्षुण्णः औलूखलो यावकः ।
अश्वैरुह्यते आश्वो रथः ।
चतुर्भिरुह्यते चातुरं शकटं ।
चतुर्दश्यां दृश्यते चातुर्दशं रक्षः इति । ।
____________________________________________________________________
- <राष्ट्र-अवारपाराद्घ-खौ># । । PS_४,२.९४ । ।
_____Sठाऱ्ठ्JKव्_४,२.९४ः
राष्ट्र अवारपार इत्येताभ्यां यथासङ्ख्यं घ-खौ इत्येतौ प्रत्ययौ भवतः ।
राष्ट्रियः ।
अवारपारीणः ।
विगृहीतादपि इष्यते ।
अवारीणः ।
पारीणः ।
विपरीताच्च ।
पारावारीणः ।
प्रकृति-विशेष+उपादान-मात्रेण तावत्प्रत्यया विधीयन्ते ।
तेषां तु जातादयोऽर्थाः समर्थ-विभक्तयश्च पुरस्ताद्वक्ष्यन्ते । ।
ग्रामाद्यखञौ (*४,२.९३) ।
ग्राम-शब्दात्य खञित्येतौ प्रत्ययौ भवतः ।
ग्राम्यः, ग्रामीणः । ।
____________________________________________________________________
- <कत्र्य्-आदिभ्यो ढकञ्># । । PS_४,२.९५ । ।
_____Sठाऱ्ठ्JKव्_४,२.९५ः
कत्रि इत्येवं आदिभ्यो ढकञ्प्रत्ययो भवति ।
कात्रेयकः ।
ॐभेयकः ।
कत्रि ।
उम्भि ।
पुष्कर ।
मोदन ।
कुम्भी ।
कुण्डिन ।
नगर ।
वञ्जी ।
भक्ति ।
माहिष्मती ।
चर्मण्वती ।
ग्राम ।
उख्या ।
कुड्याया यलोपश्च ।
कत्र्यादिः । ।
____________________________________________________________________
- <कुल-कुक्षि-ग्रीवाभ्यः श्व-अस्य्-अलङ्कारेषु># । । PS_४,२.९६ । ।
_____Sठाऱ्ठ्JKव्_४,२.९६ः
कुल-कुक्षि-ग्रीवा-शब्देभ्यो यथासङ्ख्यं श्वनसि अलङ्कार इत्येतेषु जतादिष्वर्थेषु ढकञ्प्रत्ययो भवति ।
कौलेयको भवति श्वा चेथ् ।
कौलोऽन्यः ।
कौक्षेयको भवति असिश्चेथ् ।
कौक्षोऽन्यः ।
ग्रैवेयको भवति अलङ्कारश्चेथ् ।
ग्रैवोऽन्यः । ।
____________________________________________________________________
[#३८९]
- <नद्य्-आदिभ्यो ढक्># । । PS_४,२.९७ । ।
_____Sठाऱ्ठ्JKव्_४,२.९७ः
नदी इत्येवं आदिभ्यो ढक्प्रत्ययो भवति ।
नादेयं ।
माहेयं ।
पूर्वनगरी-शब्दोऽत्र पठ्यते ।
पौर्वनगरेयं ।
केचित्तु पूर्वनगिरी इति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति, पौरेयम्, वानेयम्, गैरेयं इति ।
तदुभयं अपि दर्शनं प्रमाणं ।
नदी ।
मही ।
वाराणसी ।
श्रावस्ती ।
कौशाम्बी ।
नवकौशाम्बी ।
काशफरी ।
खादिरी ।
पूर्वनगरी ।
पावा ।
मावा ।
साल्वा ।
दार्वा ।
दाल्वा ।
वासेनकी ।
वडवाया वृषे । ।
____________________________________________________________________
- <दक्षिणा-पश्चात्-पुरसस्त्यक्># । । PS_४,२.९८ । ।
_____Sठाऱ्ठ्JKव्_४,२.९८ः
दक्षिणा पश्चात्पुरसित्येतेभ्यः त्यक्प्रययो भवति शैषिकः ।
दाक्षिणात्यः ।
पाश्चात्यः ।
पौरस्त्यः । ।
____________________________________________________________________
- <कापिश्याः ष्फक्># । । PS_४,२.९९ । ।
_____Sठाऱ्ठ्JKव्_४,२.९९ः
कापिशी-शब्दात्ष्फक्प्रत्ययो भवति शैषिकः ।
षकारो ङीष्-अर्थः ।
कापिशायनं मधु ।
कापिशायनी द्राक्षा ।
बाह्ल्युर्दिपर्दिभ्यश्च+इति वक्तव्यं ।
बाह्लायनी ।
और्दायनी ।
पार्दायनी । ।
____________________________________________________________________
- <रङ्कोरमनुष्येऽण्च># । । PS_४,२.१०० । ।
_____Sठाऱ्ठ्JKव्_४,२.१००ः
रङ्कु-शब्दादण्प्रत्ययो भवति, चकारात्ष्फक्च शैषिकोऽमनुस्येऽभिधेये ।
राङ्कवो गौः, राङ्कवायणो गौः ।
अमनुस्ये इति किं ? राङ्कवको मनुस्यः ।
ननु च रङ्कु-शब्दः कच्छादिषु पठ्यते, तत्र च मनुष्य-तस्थयोर्वुञ्(*४,२.१३४) इति मनुस्ये परत्वाद्वुञैव भवितव्यं, कच्छादिपाठादमनुस्ये अणपि सिद्धः, किं इह मनुस्य-प्रतिषेधेन अण्ग्रहनेन च ? तदुच्यते, न+एव अयं मनुस्यप्रतिषेधः, किं तर्हि, नञिवयक्तन्यायेन मनुस्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते ।
तेन राङ्कवः कम्बलः इति ष्फक्न भवति ।
विशेषविहितेन च ष्फका अणो बाधा मा भूतित्यण्-ग्रहणं अपि क्रियते । ।
____________________________________________________________________
- <द्यु-प्राग्-अपाग्-उदक्-प्रतीचो यत्># । । PS_४,२.१०१ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०१ः
दिव्प्राचपाचुदच्प्रत्यचित्येतेभ्यो यत्प्रत्ययो भवति शैसिकः ।
दिव्यं ।
प्राच्यं ।
अपाच्यं ।
उदीच्यं ।
प्रतीच्यं ।
अव्ययात्तु कालवाचिनः परत्वात्ट्युट्युलौ भवतः ।
प्राक्तनं । ।
____________________________________________________________________
[#३९०]
- <कन्थायाष्ठक्># । । PS_४,२.१०२ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०२ः
कन्था-शब्दात्ठक्प्रत्ययो भवति शैषिकः ।
कान्थिकः । ।
____________________________________________________________________
- <वर्णौ वुक्># । । PS_४,२.१०३ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०३ः
कन्थायाः इत्येव ।
वर्णौ या कन्था तस्या वुक्प्रत्ययो भवति शैषिकः ।
ठकोऽपवादः ।
वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः ।
तद्विषयार्थ-वाचिनः कन्था-शब्दादयं प्रत्ययः ।
तथा हि - जातं हिमवत्सु कान्थकं । ।
____________________________________________________________________
- <अव्ययात्त्यप्># । । PS_४,२.१०४ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०४ः
अव्ययात्त्यप्प्रत्ययो भवति शैषिकः ।
अमेहक्वतसित्रेभ्यस्त्यद्विधिर्योऽव्ययात्स्मृतः ।
निनिर्भ्यां घ्रुवगत्योश्च प्रवेशो नियमे तथा । ।
अमात्यः ।
इहत्यः ।
क्वत्यः ।
इतस्त्यः ।
तत्रत्यः ।
यत्रत्यः ।
परिगणनं किं ? औपरिष्टः पौरस्तः ।
पारस्तः ।
वृद्धात्तुधो भवति ।
आरातीयः ।
त्यब्नेर्घ्रुवे ।
नियतं घ्रुवं नित्यं ।
निसो गते ।
निर्गतो वर्णाश्रमेभ्यः निष्ट्यः चण्डालादिः ।
आविसश्छन्दसि ।
आविस्शब्दाच्छन्दसि त्यप्प्रत्ययो भवति ।
आविष्ट्यो वर्धते चारुरासु ।
अरण्याण्णो वक्तव्यः ।
आरण्याः सुमनसः ।
दूरादेत्यः ।
दूरेत्यः पथिकः ।
उत्तरादाहञ् ।
औत्तराहं । ।
____________________________________________________________________
[#३९१]
- <ऐषमेओ-ह्यः-श्वसोऽन्यतरस्याम्># । । PS_४,२.१०५ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०५ः
ऐषमश्यस्श्वसित्येतेभ्योऽन्यतरस्यां त्यप्पत्ययो भवति शैषिकः ।
ऐषमस्त्यम्, ऐषमस्तनं ।
ह्यस्त्यम्, ह्यस्तनं ।
श्वस्त्यम्, श्वस्तनं ।
श्वसस्तुट्च (*४,३.१५) इति ठञपि तृतीयो भवति ।
शौवस्तिकं । ।
____________________________________________________________________
- <तीर-रूप्य-उत्तरपदादञ्-ञौ># । । PS_४,२.१०६ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०६ः
तीर-उत्तरपदात्रूप्य-उत्तरपदाच्च प्रातिपदिकाद्यथासङ्ख्यं अञ्ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ ।
अणोऽपवादौ ।
काकतीरं ।
पाल्वलतीरं ।
रूप्योत्तरपदात्- वार्करूप्यं ।
शैवरूप्यं ।
तीररूप्यान्तातिति नोक्तं बहुच्-प्रत्यय-पूर्वाद्मा भूतिति ।
बाहुरूप्यं ।
अणेव भवति । ।
____________________________________________________________________
- <दिक्-पूर्वपदादसञ्ज्ञायां ञः># । । PS_४,२.१०७ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०७ः
असञ्ज्ञायां इति प्रकृति-विशेषणं ।
दिक्-पूर्वपदात्प्रातिपदिकातसञ्ज्ञा-विषयात्ञः पत्ययो ह्बवति शैषिकः ।
अणोऽपवदः ।
पौर्वशालः ।
दाक्षिणशालः ।
आपरशालः ।
असञ्ज्ञायां इति किं ? पूर्वैषुकामशमः ।
अपरैषुकामशमः ।
दिक्षङ्ख्ये सञ्ज्ञायां (*२,१.५०) इति समासः ।
प्राचां ग्रामनगराणां इति उत्तरपद-वृद्धिः ।
पद-ग्रहणं स्वरूपविधिनिरासार्थं । ।
____________________________________________________________________
- <मद्रेभ्योऽञ्># । । PS_४,२.१०८ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०८ः
दिक्-पूर्वपदातित्येव ।
दिक्-पूर्वपदात्मद्र-शब्दादञ्प्रत्ययो भवति शैषिकः ।
पौर्वमद्रः ।
आपरमद्रः ।
दिशोऽमद्राणां (*७,३.१३) इति पर्युदासादादिवृद्धिरेव । ।
____________________________________________________________________
- <उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्># । । PS_४,२.१०९ । ।
_____Sठाऱ्ठ्JKव्_४,२.१०९ः
दिग्-ग्रहणं निवृत्तं ।
उदीच्यग्रामवाचिनः प्रातिपदिकाद्बह्वचोऽन्तोदात्तादञ्प्रत्ययो भवति शैषिकः ।
अणोऽपवादः ।
शैवपुरं ।
माण्डवपुरं ।
उदीच्यग्रामातिति किं ? माथुरं ।
बह्वचः इति किं ? ध्वजी ।
ध्वाजं ।
अन्तोदात्तातिति किं ? शार्करीधानं ।
शर्करीधान-शब्दे लित्-स्वरेण धान-शब्द उदात्तः । ।
____________________________________________________________________
[#३९२]
- <प्रस्थ-उत्तरपद-पलद्यादि-क-उपधादण्># । । PS_४,२.११० । ।
_____Sठाऱ्ठ्JKव्_४,२.११०ः
प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात्च प्रातिपदिकादण्प्रत्ययो भवति शैसिकः ।
उदीच्यग्रामलक्षणस्य अञोऽपवादः ।
माद्रीप्रस्थः ।
माहकीरस्थः ।
पलद्यादिभ्यः - पालदः ।
पारिषदः ।
ककारोपधात्- नैलीनकः ।
चैयातकः ।
पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः ।
यथा - गौष्ठी, नैतकी इति ।
गोमती-शब्दः पठ्यते, ततो रोपधेतोः प्राचां (*४,२.१२३) इति वुञोऽपवादः ।
वाहीक-शब्दः कोपधोऽपि पुनः पठ्यते परं छं (*४,२.११४) बाधितुं ।
अण्ग्रहणं बाधकबाधनार्थं ।
पलदी ।
परिषथ् ।
यकृल्लोमन् ।
रोमक ।
कालकूट ।
पटच्चर ।
वाहीक ।
कलकीट ।
मलकीट ।
कमलकीट ।
कमलभिदा ।
गोष्ठी ।
कमलकीर ।
बाहुकीत ।
नैतकी ।
परिखा ।
शूरसेन ।
गोमती ।
उदयान ।
पलद्यादिः । ।
____________________________________________________________________
- <कण्व-आदिभ्यो गोत्रे># । । PS_४,२.१११ । ।
_____Sठाऱ्ठ्JKव्_४,२.१११ः
गोत्रं इह न प्रत्यय-अर्थो न च प्रकृतिविशेषणं ।
तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण्प्रत्ययो भवति शैषिकः ।
छस्य अपवादः ।
काण्वाः छात्राः ।
गौकक्षाः । ।
____________________________________________________________________
- <इञश्च># । । PS_४,२.११२ । ।
_____Sठाऱ्ठ्JKव्_४,२.११२ः
गोत्रे इत्येव ।
गोत्रे य इञ्विहितः तदन्तात्प्रातिप्दिकातण्प्रत्ययो भवति शैषिकः ।
छस्य अपवादः ।
दाक्षाः ।
प्लाक्षाः ।
माहकाः ।
गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयं । ।
____________________________________________________________________
- <न द्व्य्-अचः प्राच्य-भरतेसु># । । PS_४,२.११३ । ।
_____Sठाऱ्ठ्JKव्_४,२.११३ः
द्व्य्-अचः प्रातिपदिकात्प्राच्य-भरत-गोत्रादिञन्तादण्प्रत्ययो न भवति ।
पूर्वेण प्राप्तः प्रतिषिध्यते ।
पैङ्गीयाः ।
पौष्ठीयाः ।
चैदीयाः ।
पौष्कीयाः ।
काशीयाः ।
पाशीयाः ।
द्व्यचः इति किं ? पान्नागाराः ।
प्राच्यभरतेषु इति किं ? दाक्षाः ।
काशीयाः इति कथं उदाहृतं, यावता काश्यादिभ्यष्ठञ्- ञिठाभ्यां भवितव्यं ? न+एतदस्ति ।
देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदि-शब्देन साहचर्याथ् ।
गोत्रात्तु वृद्धाच्छः एव भवति ।
ज्ञापकादन्यत्र प्राच्य-ग्रहणेन भरत-ग्रहणं न भवति इति स्व-शब्देन भरतानां उपादानं कृतं । ।
____________________________________________________________________
[#३९३]
- <वृद्धाच्छः># । । PS_४,२.११४ । ।
_____Sठाऱ्ठ्JKव्_४,२.११४ः
गोत्रे इति न अनुवर्तते ।
सामान्येन विधानं ।
वृद्धात्प्रातिपदिकात्छः प्रत्ययो भवति शैषिकः ।
अणोऽपवादः ।
गार्गीयः ।
वात्सीयः ।
शालीयः ।
मालीयः ।
अव्यय-तीर-रूप्य-उत्तरपद-उदीच्य-ग्राम. क-उपध-विधीन्तु परत्वाद्बाधते । ।
____________________________________________________________________
- <भवतष्ठक्-छसौ># । । PS_४,२.११५ । ।
_____Sठाऱ्ठ्JKव्_४,२.११५ः
वृद्धातित्येव ।
भवच्-छब्दाद्वृद्धात्ठक्-छसौ प्रत्ययौ भवतः शैषिकौ ।
छस्य अपवादौ सकारः पदसञ्ज्ञ-अर्थः ।
भवतस्त्यदादित्वाद्वृद्ध-सञ्ज्ञा ।
भावत्कः ।
भवदीयः ।
अवृद्धात्तु भवतः शतुरणेव भवति ।
भावतः । ।
____________________________________________________________________
- <काश्यादिभ्यष्ठञ्-ञिठौ># । । PS_४,२.११६ । ।
_____Sठाऱ्ठ्JKव्_४,२.११६ः
काशि इत्येवं आदिभ्यः ठञ्ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ ।
इकार उच्चारनार्थः ।
ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः ।
स्त्रीप्रत्यये विशेषः ।
काशिकी ।
काशिका ।
बैदिकी ।
बैदिका ।
वृद्धातित्यत्र अनुवर्तते ।
ये तु अवृद्धाः पठ्यन्ते, वचनप्रामाण्यात्तेभ्यः प्रत्यय-विधिः ।
देवदत्त-शब्दः पठ्यते, तस्य एङ्प्राचां देशे (*१,१.७५) इति वृद्धसञ्ज्ञा ।
दैवदत्तिकः ।
वाहीकग्रामस्य तु न अस्ति वृद्धसञ्ज्ञा ।
दैवदत्तः ।
कथं भाष्ये उदाहृतं वा नामधेयस्य वृद्धसञ्ज्ञा वेदितव्या देवदत्तीयाः, दैवदत्ताः इति, यावता वृद्धसञ्ज्ञा-अपक्षे काश्यादित्वात्ठञ्ञिठाभ्यां भवितव्यं ? तत्र+एवं वर्णयन्ति, वा नामधेयस्य इति व्यवस्थित-विभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर्न भवति इति ।
काशि ।
चेति ।
सञ्ज्ञा ।
संवाह ।
अच्युत ।
मोहमान ।
शकुलाद ।
हस्तिकर्षू ।
कुदामन् ।
हिरण्य ।
करण ।
गोधाशन ।
भौरिकि ।
भौलिङ्गि ।
अरिन्दम ।
सर्वमित्र ।
देवदत्त ।
साधुमित्र ।
दासमित्र ।
दासग्राम ।
सौधावतान ।
युवराज ।
उपराज ।
सिन्धुमित्र ।
देवराज ।
आपदादिपूर्वपदात्कालाथ् ।
आपत्कालिकी, आपत्कालिका ।
और्ध्वकालिकी, और्ध्वकालिका ।
तात्कालिकी, तात्कालिका । ।
____________________________________________________________________
- <वाहीकग्रामेभ्यश्च># । । PS_४,२.११७ । ।
_____Sठाऱ्ठ्JKव्_४,२.११७ः
वृद्धातित्येव ।
वाहीकग्राम-वाचिभ्यः वृद्धेभ्यः ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ ।
छस्य अपवादौ ।
शाकलिकी, शाकलिका ।
मान्थविकी, मान्थविका । ।
____________________________________________________________________
[#३९४]
- <विभाषा+उशीनरेषु># । । PS_४,२.११८ । ।
_____Sठाऱ्ठ्JKव्_४,२.११८ः
वृद्धातिति वर्तते, वाहीकग्रामेभ्यः इति च ।
उशीनरेसु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यः विभाषा ठञ्ञिठौ प्रत्ययौ भवतः ।
आह्वजालिकी, आह्वजालिका, आह्वजालीया ।
सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया । ।
____________________________________________________________________
- <ओर्देशे ठञ्># । । PS_४,२.११९ । ।
_____Sठाऱ्ठ्JKव्_४,२.११९ः
वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणाथ् ।
उ-वर्णान्तात्देशवाचिनः प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः ।
नैषादकर्षुकः ।
शावरजम्बुकः ।
देशे इति किं ? पटोश्छात्राः पाटवाः ।
ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्-ग्रहणं कृतं । ।
____________________________________________________________________
- <वृद्धत्प्राचाम्># । । PS_४,२.१२० । ।
_____Sठाऱ्ठ्JKव्_४,२.१२०ः
ओर्देशे इत्येव ।
उ-वर्णान्तात्वृद्धात्प्राग्देशब्-वाचिनः ।
प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः ।
आढकजम्बुकः ।
शाकजम्बुकः ।
नापितवास्तुकः ।
पूर्वेण+एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धादेव प्राचां अवृद्धान्न भवति इति ।
मल्लवास्तु - माल्लवास्तवः । ।
____________________________________________________________________
- <धन्व-य-उपधाद्वुञ्># । । PS_४,२.१२१ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२१ः
वृद्धातिति वर्तते, देशे इति च ।
धन्व-वाचिनो य-कार-उपधाच्च देश-अभिधायिनो वृद्धात्प्रातिपदिकात्वुञ्प्रत्ययो भवति शैषिकः ।
धन्व-शब्दो मरुदेश-वचनः ।
पारेधन्वकः ।
ऐरावतकः ।
योपधात्- सांकाश्यकः ।
कम्पिल्यकः । ।
____________________________________________________________________
- <प्रस्थ-पुर-वहान्ताच्च># । । PS_४,२.१२२ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२२ः
वृद्धातित्येव, देशे इति च ।
अन्त-शब्दः प्रत्येकं अभिसम्बध्यते ।
प्रस्थपुर वह इत्येवं अन्तात्देश-वाचिनः प्रातिपदिकाद्वृद्धाद्वुञ्प्रत्ययो भवति शैषिकः ।
छस्य अपवादः ।
मालाप्रस्थकः ।
नान्दीपुरकः ।
कान्तीपुरकः ।
पैलुवहकः ।
फाल्गुनीवहकः ।
पुरान्तो रोपधस्ततः उत्तरसूत्रैणैव सिद्धं अप्रागर्थं इह ग्रहणं । ।
____________________________________________________________________
- <र-उपध-इतोः प्राचाम्># । । PS_४,२.१२३ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२३ः
वृद्धतित्येव, देशे इति च ।
तद्विशेसणं प्राग्ग्रहणं ।
र-उपधातीकारान्ताच्च प्रग्देश-वाचिनो वृद्धाद्वुञ्प्रत्ययो भवति शैषिकः ।
छस्य अपवादः ।
पाटलिपुत्रकाः ऐकचक्रकाः ।
ईतः खल्वपि - काकन्दी ।
काकन्दकः ।
माकन्दी ।
माक्नदकः ।
प्राचां इति किं ? दात्तामित्रीयः ।
तपरकराणं विस्पष्टार्थं । ।
____________________________________________________________________
[#३९५]
- <जनपद-तदवध्योश्च># । । PS_४,२.१२४ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२४ः
वृद्धातित्येव, देशे इति च ।
तद्विशेषनं जनपद-तदवधी ।
वृद्धाज्जनपद-वाचिनः तदवधि-वाचिनश्च प्रातिपदिकात्वुञ्प्रत्ययो भवति शैसिकः ।
छस्य अपवादः ।
आभिसारकः ।
आदर्शकः ।
जनपदावधेः खल्वपि औपुष्टकः ।
श्यामायनकः ।
तदवधेरपि जनपा एव गृह्यते न ग्रामः ।
किं अर्थं तर्हि ग्रहणं ? बाधकबाधन-अर्थं ।
गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपद-अवधेर्भवति ।
त्रैगर्तकः । ।
____________________________________________________________________
- <अवृद्धादपि बहुवचन-विषयात्># । । PS_४,२.१२५ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२५ः
जनपद-तदवध्योः इत्येव ।
अवृद्धाद्वृद्धाच्च जनपदात्तदवधि-वाचिनश्च बहुवनच-विषयात्प्रातिपदिकाद्वुञ्प्रत्ययो भवति शैसिकः ।
अण्छयोरपवादः ।
अवृद्धाज्जनपदात्तावत्- अङ्गाः ।
वङ्गाः ।
कलिङ्गाः ।
आङ्गकः ।
वाङ्गकः ।
कालिङ्गकः ।
अवृद्धाज्जनपद-अवधेः - अजमीढाः ।
अजक्रन्द्राः ।
आजमीढकः ।
आजक्रन्दकः ।
वृद्धाज्जनपदात्- दार्वाः ।
जाम्ब्वाः ।
दार्वकः ।
जाम्ब्वकः ।
वृद्धाज्जनपदावधेः - कालञ्जराः ।
वैकुलिशाः ।
कालञ्जरकः ।
वैकुलिशकः ।
विषय-ग्रहणमनयत्र भावार्थं ।
जनपद-एकशेष-बहुत्वे मा भूथ् ।
वर्तन्यः ।
वार्तनः ।
अपिग्रहणं किं यावता वृद्धात पूर्वेण+एव सिद्धं ? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते । ।
____________________________________________________________________
- <कच्छ-अग्नि-वक्त्र-गर्त-उत्तरपदात्># । । PS_४,२.१२६ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२६ः
देशे इत्येव उत्तरपद-शब्दः प्रत्येकं अभिसम्बध्यते ।
कच्छ-अद्य्-उत्तरपदाद्देशवाचिनः ।
प्रातिपदिकाच्च अवृद्धाद्वृद्धाच्च वुञ्प्रत्ययो भवति शैषिकः ।
छणोरपवादः ।
दारुकच्छकः ।
पैप्पलीकच्छकः ।
काण्डाग्नकः ।
वैभुजाग्नकः ।
ऐन्द्रवक्त्रकः ।
सैन्धुवक्त्रकः ।
बाहुगर्तकः ।
चाक्रगर्तकः । ।
____________________________________________________________________
- <धूमादिभ्यश्च># । । PS_४,२.१२७ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२७ः
धूमादिभ्यो देशवचिभ्यः प्रातिपदिकेभ्यः वुञ्प्रत्ययो भवति शैषिकः ।
अणादेरपवादः ।
ध्ॐअकः ।
खाण्डकः ।
पाथेय-शब्दः पठ्यते, तस्य योपधात्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणं ।
तथा विदेह-अनर्तशब्दयोः जनपद-लक्षणे वुञि सिद्धेऽदेशार्थः पाठः ।
विदेहानां क्षत्रियाणां स्वं वैदेहकं ।
आनर्तकं ।
समुद्र-शब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते ।
सामुद्रिका नौः ।
सामुद्रको मनुस्यः ।
अन्यत्र न भवति, सामुद्रं जलं इति ।
धूम ।
खण्ड ।
शशादन ।
आर्जुनाद ।
दाण्डायनस्थली ।
माहकस्थली ।
घोषस्थली ।
माषस्थली ।
राजस्थली ।
राजगृह ।
सत्रासाह ।
भक्षास्थली ।
मद्रकूल ।
गर्तकूल ।
आञ्जीकूल ।
द्व्याहाव ।
त्र्याहाव ।
संहीय ।
वर्वर ।
वर्चगर्त ।
विदेह ।
आनर्त ।
माठर ।
पाथेय ।
घोष ।
शिष्य ।
मित्र ।
वल ।
आराज्ञी ।
धर्तराज्ञी ।
अवयात ।
तीर्थ ।
कूलात्सौवीरेषु ।
समुद्रान्नावि मनुस्ये च ।
कुक्षि ।
अन्तरीप ।
द्वीप ।
अरुण ।
उज्जयिनी ।
दक्षिणापथ ।
साकेत । ।
____________________________________________________________________
[#३९६]
- <नगरात्कुत्सन-प्रावीण्ययोः># । । PS_४,२.१२८ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२८ः
नगर-शब्दात्वुञ्प्रत्ययो भवति शैसिकः कुत्सने प्रावीण्ये च गम्यमाने ।
प्रत्ययार्थ-विशेषणं च+एतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति ।
कुत्सनं निन्दनं ।
प्रावीण्यं नैपुण्यं ।
केन अयं मुषितः पन्था गात्रे पक्षमालिधूसरः ।
इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण ।
चोरा हि नागरका भवन्ति ।
केन+इदं लिखितं चित्रं मनोनेत्रविकाशि यथ् ।
इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण ।
प्रवीणा हि नागरका भवन्ति ।
कुत्सनप्रावीण्ययोः इति किं ? नागरा ब्राह्मणाः ।
कत्र्यादिषु तु सञ्ज्ञाशब्देन साहचर्यात्सञ्ज्ञानागरं पठ्यते, तस्मिन्नागरेयकं इति प्रत्युदाहार्यं । ।
____________________________________________________________________
- <अरण्यान्मनुस्ये># । । PS_४,२.१२९ । ।
_____Sठाऱ्ठ्JKव्_४,२.१२९ः
अरण्य-शब्दाद्वुञ्प्रत्ययो भवति शैसिको मनुस्येऽभिधेये ।
औपसङ्ख्यानिकस्य णस्य अपवादः ।
आरण्यको मनुस्यः ।
पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यं ।
आरण्यकः पन्थाः ।
आरण्यकोऽध्यायः ।
आरण्यको न्यायः ।
आरण्यको विहारः ।
आरण्यको मनुष्यः ।
आरण्यको हस्ती ।
वा गोमयेसु ।
आरण्याः, आरण्यका गोमयाः ।
एतेसु इति किं ? आरण्याः पशवः । ।
____________________________________________________________________
- <विभाषा कुरु-युगन्धराभ्याम्># । । PS_४,२.१३० । ।
_____Sठाऱ्ठ्JKव्_४,२.१३०ः
कुरु युगन्धर इत्येताभ्यां विभाषा वुञ्प्रत्ययो भवति शैषिकः ।
कौरवकः, कौरवः ।
यौगन्धरकः , यौगन्धरः ।
जनपद-शब्दावेतौ, ताभ्यां अवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते ।
कुरु-शब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति ।
सैषा युगन्धर-अर्था विभाष ।
मनुष्यतत्स्थयोः तु कुरु-शब्दान्नित्य एव वुञ्प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितं इति । ।
____________________________________________________________________
- <मद्र-वृज्योः कन्># । । PS_४,२.१३१ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३१ः
मद्र-वृजि-शब्दाभ्यां कन्प्रत्ययो भवति शैषिकः ।
जनपदवुञोऽपवादः ।
मद्रेसु जातः मद्रकः ।
वृजिकः । ।
____________________________________________________________________
[#३९७]
- <कोपधादण्># । । PS_४,२.१३२ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३२ः
देशे इत्येव ।
क-कार-उपधात्प्रातिपदिकादण्प्रत्ययो भवति शैसिकः ।
जनपदवुञोऽपवादः ।
अन्यत्र जनपदं मुक्त्वा पूर्वेण+एव कोपधादणि सिद्धं ।
ऋषिकेषु जातः आर्षिकः ।
माहिषिकः ।
अण्-ग्रहणं उ-वर्णान्तादपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः । ।
____________________________________________________________________
- <कच्छ-आदिभ्यश्च># । । PS_४,२.१३३ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३३ः
देशे इत्येव ।
कच्छ इत्येवं आदिभ्यो देशवाचिभ्यः अण्प्रत्ययो भवति शैसिकः ।
वुञादेरपवादः ।
काच्छः ।
सैन्धवः ।
वार्णवः ।
कच्छ-शब्दो न बहुवचन-विषयः, तस्य मनुस्य-तत्स्थयोर्वुञर्थः पाठः ।
विजापक-शब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनं उत्तरार्थं ।
कच्छ ।
सिन्धु ।
वर्णु ।
गन्धार ।
मधुमथ् ।
कम्बोज ।
कश्मीर ।
साल्व ।
कुरु ।
रङ्कु ।
अणु ।
खण्ड ।
द्वीप ।
अनूप ।
अजवाह ।
विजापकः ।
कुलून ।
कच्छादिः । ।
____________________________________________________________________
- <मनुस्य-तत्स्थयोर्वुञ्># । । PS_४,२.१३४ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३४ः
कच्छादिभ्यः इत्येव ।
मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ्प्रत्ययो भवति ।
अणोऽपवादः ।
काछको मनुस्यः ।
काच्छकं अस्य हसितं, जल्पितं ।
काच्छिका चूडा ।
सैन्धवको मनुस्यः ।
सैन्धवनस्य हसितं, जल्पितं ।
सैन्धविका चूडा ।
मनुष्य-तत्स्थयोः इति किं ? काच्छो गौः ।
सैन्धवो वार्णवः । ।
____________________________________________________________________
- <अपदातौ साल्वात्># । । PS_४,२.१३५ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३५ः
साल्व-शब्दः कच्छादिसु पठ्यते, ततः पूर्वेण+एव मनुस्य-तत्स्थयोः वुञि सिद्धे नियमार्थं वचनं ।
अपदातावेव मनुस्ये मनष्यस्थे च साल्व-शब्दाद्वुञ्प्रत्ययो भवति ।
साल्वको मनुस्यः ।
सल्वकं अस्य हसितम्, जल्पितं ।
अपदातौ इति किं ? साल्वः पदातिर्व्रजति । ।
____________________________________________________________________
- <गो-यवग्वोश्च># । । PS_४,२.१३६ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३६ः
गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्व-शब्दाद्बुञ्प्रत्ययो भवति शैसिकः ।
कच्छाद्यणोऽपवादः ।
साल्वको गौः ।
साल्विका यवागूः ।
साल्वमन्यत् । ।
____________________________________________________________________
[#३९८]
- <गर्त-उत्तरपदाच्छः># । । PS_४,२.१३७ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३७ः
देशे इत्येव ।
गर्त-उत्तरपदात्देश-वाचिनः प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः ।
अणोऽपवादः ।
वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद्बाधते ।
वृकगर्तीयं ।
शृगालगर्तीयं ।
श्वाविद्गर्तीयं ।
उत्तरपद-ग्रहणं बहुच्पूर्वनिरासार्थं ।
बाहुगर्तं । ।
____________________________________________________________________
- <गह-आदिभ्यश्च># । । PS_४,२.१३८ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३८ः
गह इत्येवं आदिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति शैसिकः ।
अणादेरपवादः ।
गहीयः ।
अन्तःस्थीयः ।
देशाधिकारेऽपि संभव-अपेक्षं विशेषणं, न सर्वेषां ।
मध्यमध्यमं चाण्चरणे इति पठ्यते, तस्यायमर्थः ।
मध्य-शब्दः प्रत्ययसंनियोगेन मध्यमं आपद्यते ।
मध्यमीयाः ।
चरणे तु प्रत्ययर्थे अण्भवति, माध्यमाः इति ।
तदेतद्विशेष एव स्मर्यते ।
पृथिवीमध्यस्य मध्यमभावः ।
चरणसम्बन्धेन निवासलक्षणोऽणिति च ।
मुखपार्श्वतसोर्लोपश्च ।
मुखतीयं ।
पार्श्वतीयं ।
कुग्जनस्य परस्य च ।
जनकीयं ।
परकीयं ।
देवस्य च+इति वक्तव्यं ।
देवकीयं ।
वेणुकादिभ्यश्छण्वक्तव्यः ।
आकृतिगणोऽयं ।
वैणुकीयं ।
वैत्रकीयं ।
औत्तरपदकीयं ।
प्रास्थकीयं ।
माध्यमकीयं ।
गह ।
अन्तःस्थ ।
सम ।
विषम ।
मध्यमध्यमं चाण्चरणे ।
उत्तम ।
अङ्ग ।
वङ्ग ।
मगध ।
पूर्वप्क्ष ।
अपरपक्ष ।
अधमशाख ।
उत्तमशाख ।
समानशाख ।
एकग्राम ।
एकवृक्ष ।
एकपलाश ।
एष्वग्र ।
इष्वनी ।
अवस्यन्दी ।
कामप्रस्थ ।
खाडायनि ।
कावेरणि शैशिरि ।
शौङ्गि ।
आसुरि ।
आहिंसि ।
आमित्रि ।
व्याडि ।
वैदजि ।
भौजि ।
आढ्यश्वि ।
आनृशंसि ।
सौवि ।
पारकि ।
अग्निशर्मन् ।
देवशर्मन् ।
श्रौति ।
आरटकि ।
वाल्मीकि ।
क्षेमवृद्धिन् ।
उत्तर ।
अन्तर ।
मुखपार्श्वतसोर्लोपः ।
जनपरयोः कुक्च ।
देवस्य च ।
वेणुकादिभ्यश्छण् ।
गहादिः । ।
____________________________________________________________________
- <प्राचां कटादेः># । । PS_४,२.१३९ । ।
_____Sठाऱ्ठ्JKव्_४,२.१३९ः
देशे इत्येव ।
तद्विशेषनं प्राग्-ग्रहणं ।
प्राग्देश-वाचिनः कटादेः प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः ।
अणोऽपवादः ।
कटनगरीयं ।
कठघोषीयं ।
कटपल्वलीयं । ।
____________________________________________________________________
- <राज्ञः क च># । । PS_४,२.१४० । ।
_____Sठाऱ्ठ्JKव्_४,२.१४०ः
असंभवाद्देशाधिकारो न विशेषणं ।
राज्ञः ककारश्च अन्तादेशो भव्ति छश्च प्रत्ययः ।
राजकीयं ।
आदेशमात्रं इह विधेयं, प्रत्यय्स्तु वृद्धाच्छः (*४,२.११४) इत्येव सिद्धः । ।
____________________________________________________________________
[#३९९]
- <वृद्धादक-इक-अन्त-ख-उपधात्># । । PS_४,२.१४१ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४१ः
देशे इत्येव ।
वृद्धाद्देश-वाचिनः अक इक इत्येवं अन्तात्खकारोपधाच्च प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः ।
कोपध-लक्षणस्य अणोऽपवादः ।
वाहीकग्राम-लक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचां (*४,२.१२३) इति च ।
अकान्तात्तावत्- आरीहणकीयं ।
द्रौघणकीयं ।
इकान्तात्- आश्वपथिकीयं ।
शाल्मलिकीयं ।
खोपधात्- कौटिशिखीयं ।
आयोमुखीयं ।
अकेकान्त-ग्रहणे कोपध-ग्रहणं सौसुकाद्यर्थं ।
सौसुकीयं ।
मौसुकीयं ।
ऐन्द्रवेणुकीयं । ।
____________________________________________________________________
- <कन्था-पलद-नगर-ग्राम-ह्रद-उत्तरपदात्># । । PS_४,२.१४२ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४२ः
देशे इत्येव, वृद्धातिति च ।
कन्थाद्य्-उत्तरपदाद्देश-वाचिनो वृद्धात्प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः ।
वाहीकग्रमादि-लक्षणस्य प्रत्ययस्य अपवादः ।
दाक्षिकन्थीयं ।
माहिकिकन्थीयं ।
दाक्षिपलदीयं ।
माहिकिपलदीयं ।
दाक्षिनगरीयं ।
माहिकिनगरीयं ।
दाक्षिग्रामीयं ।
माहिकिग्रामीयं ।
दाक्षिह्रदीयं ।
माहिकिह्रदीयं । ।
____________________________________________________________________
- <पर्वताच्च># । । PS_४,२.१४३ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४३ः
पर्वत-शब्दाच्छः प्रत्ययो भवति शैषिकः ।
अणोऽपवदः ।
पर्वतीयो राजा ।
पर्वतीयः पुरुषः । ।
____________________________________________________________________
- <विभाषाऽमनुष्ये># । । PS_४,२.१४४ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४४ः
पर्वतशब्दाच्छः प्रत्ययो भवति वा अमनुष्ये वाच्ये ।
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते ।
पर्वतीयानि फलानि, पार्वतानि फलानि ।
पर्वतीयमुदकम्, पार्वतमुदकं ।
अमनुष्ये इति किं ? पर्वतीयो मनुष्यः । ।
____________________________________________________________________
- <कृकण-पर्णाद्भरद्वाजे># । । PS_४,२.१४५ । ।
_____Sठाऱ्ठ्JKव्_४,२.१४५ः
देशे इत्येव ।
भारद्वाज-शब्दोऽपि देश-वचन एव, न गोत्र-शब्दः ।
प्रकृति-विशेषणं च+एतन्, न प्रत्ययार्थः ।
कृकणपर्ण-शब्दाभ्यां भारद्वाजदेश-वाचिभ्यां छः प्रत्ययो भवति शैषिकः ।
कृकणीयं ।
पर्णीयं ।
भारद्वाजे इति किं ? कार्कणं ।
पार्णं । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः । ।
______________________________________________________
चतुर्थाध्यायस्य तृतीयः पादः ।
____________________________________________________________________
[#४००]
- <युष्मद्-अस्मदोरन्यतरस्यां खञ्च># । । PS_४,३.१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१ः
देशाधिकारो निवृत्तः ।
युष्मद्-अस्मदोः खञ्प्रत्ययो भवति शैषिकः ।
चकाराच्छः च ।
अन्यतरस्यां-ग्रहणाद्यथाप्राप्तं ।
तदेते त्रयः प्रत्ययाः भवन्ति, तत्र वैषम्याद्यथासङ्ख्यं न भवति ।
त्यदादित्वाद्वृद्ध-सञ्ज्ञकयोर्युष्मद्-अस्मदोः छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते ।
यौष्माकीणः ।
आस्माकीनः ।
युष्मदीयः ।
अस्मदीयः ।
यौष्माकः ।
आस्माकः ।
____________________________________________________________________
- <तस्मिन्नणि च युष्माक-अस्माकौ># । । PS_४,३.२ । ।
_____Sठाऱ्ठ्JKव्_४,३.२ः
तस्मिनिति साक्षाद्विहितः खञ्निर्दिष्यते, न चकार-अनुकृष्टः छः ।
तस्मिन्खञि अणि च युष्मद्-अस्मदोर्यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः ।
निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान्न भवति ? योगविभागः करिष्यते, तस्मिन्खञि युष्मद्-अस्मदोः युष्माक-अस्माकौ भवतः, ततोऽणि च इति ।
यौष्माकीणः ।
आस्माकीनः ।
यौष्माकः ।
आस्माकः ।
तस्मिनणि च इति किं ? युष्मदीयः ।
अस्मदीयः । ।
____________________________________________________________________
- <तवक-ममकावेकवचने># । । PS_४,३.३ । ।
_____Sठाऱ्ठ्JKव्_४,३.३ः
एकवचन-परयोर्युष्मद्-अस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन्खञि अणि च परतः ।
निमित्तयोस्तु यथासङ्ख्यं पूर्ववदेव न भवति ।
ननु च न लुमता अङ्गस्य (*१,१.६३) इति प्रत्ययलक्षण-प्रतिषेधादेकवचन-परता युष्मद्-अस्मदोर्न सम्भवति ? वचनात्प्रत्ययलक्षणं भविष्यति ।
अथ वा न+एव+इदं प्रत्ययलक्षणं, किं तर्ह्यन्वर्थ-ग्रहणं ।
एकवचने युष्मद्-असमादी एकस्य अर्थस्य वाचके तवक-ममकावादेशौ प्रतिपद्येते इति सूत्र-अर्थः ।
तावकीनः ।
मामकीनः ।
तावकः ।
मामकः ।
तस्मिन्नणि च इत्येव, त्वदीयः ।
मदियः । ।
____________________________________________________________________
- <अर्धाद्यत्># । । PS_४,३.४ । ।
_____Sठाऱ्ठ्JKव्_४,३.४ः
अर्ध-शब्दात्यत्प्रत्ययो भवति शैषिकः ।
अणोऽपवादः ।
अर्ध्यं ।
सपूर्वपदाट्ठञ्वक्तव्यः ।
बालेयार्धिकं ।
गौतमार्धिकं । ।
____________________________________________________________________
[#४०१]
- <पर-अवर-अधम-उत्तम-पूर्वाच्च># । । PS_४,३.५ । ।
_____Sठाऱ्ठ्JKव्_४,३.५ः
पर अवर अधम उत्तम इत्येवं पूर्वाच्च अर्धात्यत्प्रत्ययो भवति शैषिकः ।
परार्ध्यं ।
अवरार्ध्यं ।
अधमार्ध्यं ।
उत्तमार्ध्यं ।
पूर्व-ग्रहणं किं ? पर-अवर-अधम-उत्तमेभ्यः इत्येव+उच्यते, अर्धातिति वर्तते, तस्य तत्पूर्वता विज्ञास्यते ? पर-अवर-शब्दावदिग्-ग्रहणावपि स्तः परं सुखम्, अवरं सुखं इति ।
तत्र कृत-अर्थत्वाद्दिक्-शब्दपक्षे परेण ठञ्यतौ स्यातां ।
अस्मात्पूर्व-ग्रहणाद्यत्प्रत्ययो भवति परार्ध्यम्, अवरार्ध्यं इति । ।
____________________________________________________________________
- <दिक्-पूर्वपदाट्ठञ्च># । । PS_४,३.६ । ।
_____Sठाऱ्ठ्JKव्_४,३.६ः
दिक्-पूर्वपदादर्धान्तात्प्रातिपदिकात्ठञ्प्रत्ययो भवति, चकाराद्यत्च शैषिकः ।
अणोऽपवादः ।
पौर्वार्धिकं ।
पूर्वार्ध्यं ।
दाक्षिणार्धिकम्, दक्षिणार्ध्यं ।
पद-ग्रहणं स्वरूप-विधिनिवारण-अर्थं । ।
____________________________________________________________________
- <ग्राम-जनपद+एकदेशादञ्-ठञौ># । । PS_४,३.७ । ।
_____Sठाऱ्ठ्JKव्_४,३.७ः
दिक्-पूर्वपदातित्येव ।
ग्राम-एकदेश-वाचिनो जनपद-एकदेशवाचिनश्च प्रातिपदिकाद्दिक्-पूर्वपदादर्धान्तादञ्-ठञौ प्रत्ययौ भवतः शैषिकौ ।
यतोऽपवदौ ।
इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः ।
दाक्षिणार्धाः, दाक्षिणार्धिकाः । ।
____________________________________________________________________
- <मध्यानमः># । । PS_४,३.८ । ।
_____Sठाऱ्ठ्JKव्_४,३.८ः
मध्य-शब्दान्मः प्रत्ययो भवति शैषिकः ।
अणोऽपवादः ।
मध्यमः ।
आदेश्च+इति वक्तव्यं ।
आदिमः ।
अवोऽधसोर्लोपश्च ।
अवमं ।
अधमं । ।
____________________________________________________________________
- <अ साम्प्रतिके># । । PS_४,३.९ । ।
_____Sठाऱ्ठ्JKव्_४,३.९ः
अ-कारः प्रत्ययो भवति मध्य-शब्दात्साम्प्रतिके जातादौ प्रत्यय-अर्थे ।
मस्य अपवादः ।
साम्प्रतिकं न्याय्यं, युक्तं उचितं, सममुच्यते ।
नातिदीर्घं नातिह्रस्वं मध्यं काष्ठं ।
नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः ।
मध्या स्त्री । ।
____________________________________________________________________
[#४०२]
- <द्वीपादनुसमुद्रं यञ्># । । PS_४,३.१० । ।
_____Sठाऱ्ठ्JKव्_४,३.१०ः
समुद्र-समीपे यो द्वीपः, तस्माद्यञ्प्रत्ययो भवति शैषिकः ।
कच्छादिपाठातणो, मनुष्यवुञः चापवादः ।
द्वैप्यं ।
द्वैप्यं भवन्तोऽनुचरन्ति चक्रं ।
अनुसमुद्रं इति किं ? द्वैपकं ।
द्वैपमन्यत् । ।
____________________________________________________________________
- <कालाट्ठञ्># । । PS_४,३.११ । ।
_____Sठाऱ्ठ्JKव्_४,३.११ः
काल-विशेष-वाचिनः प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः ।
अणोऽपवादः ।
वृद्धात्तु छं परत्वाद्बाधते ।
मासिकः ।
आर्धमासिकः ।
सांवत्सरिकः ।
यथाकथञ्चिद्गुण-वृत्त्या अपि काले वर्तमानात्प्रत्यय इष्यते ।
कादम्बपुष्पिकं ।
व्रैहिपलालिकं ।
तत्र जातः (*४,३.२५) इति प्रागतः कालाधिकारः । ।
____________________________________________________________________
- <श्राद्धे शरदः># । । PS_४,३.१२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२ः
शरच्-छब्दात्ठञ्प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः ।
ऋत्वणः अपवादः ।
श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान्पुरुषः, अनभिधानाथ् ।
शारदिकं श्राद्धं ।
शारदं अन्यत् । ।
____________________________________________________________________
- <विभाषा रोग-आतपयोः># । । PS_४,३.१३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३ः
शरदः इत्येव ।
रोगे आतपे च अभिधेये शरच्-छब्दाट्ठञ्प्रत्ययो वा भवति शैषिकः ।
ऋत्वणोऽपवादः ।
शारदिको रोगः ।
शारदिकः आतपः ।
शारदो रोगः ।
शारदः आतपः ।
रोगातपयोः इति किं ? शारदं दधि । ।
____________________________________________________________________
- <निशा-प्रदोषाभ्यां च># । । PS_४,३.१४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४ः
निशा-प्रदोष-शब्दाभ्यां च विभाषा ठञ्प्रत्ययो भवति शैषिकः ।
कालाट्ठञ्(*४,३.११) इति नित्ये ठञि प्राप्ते विकल्प उच्यते ।
नैशिकम्, नैशं ।
प्रादोषिकम्, प्रादोषं । ।
____________________________________________________________________
- <श्वसस्तुट्च># । । PS_४,३.१५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५ः
विभाषा इत्येव ।
श्वः-शब्दाद्विभाष ठञ्प्रत्ययो ह्बवति, तस्य च तुड्-आगमो भवति ।
त्यप्-प्रत्ययोऽप्यतो विहितः, ऐषमोह्यः श्वसोऽन्यत्रस्यां (*४,२.१०५) इति ।
एताभ्यां मुक्ते ट्युट्युलावपि भवतः ।
शैवस्तिकः, श्वस्त्यः, श्वस्तनः । ।
____________________________________________________________________
[#४०३]
- <सन्धिवेल-आद्य्-ऋतु-नक्षत्रेभ्योऽण्># । । PS_४,३.१६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६ः
कालातित्येव ।
सन्धिवेल-आदिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च काल-वृत्तिभ्योऽण्प्रत्ययो भवति शैषिकः ।
ठञोऽपवादः ।
अण्-ग्रहणं वृद्धाच्छस्य (*४,२.११४) बाधन-अर्थं ।
सन्धिवेलादिभ्यस्तावत्- सान्धिवेलं ।
सांध्यं ।
ऋतुभ्यः - ग्रैष्मं ।
शैशिरं ।
नक्ष्त्रेभ्यः - तैषं ।
पौषं ।
सन्धिवेला ।
सन्ध्या ।
अमावास्या ।
त्रयोदशी ।
चतुर्दशी ।
पञ्चदशी ।
पौर्णमसी ।
प्रतिपद् ।
संवत्सरात्फलपर्वणोः - सांवत्सरं फलं ।
सांवत्सरं पर्व । ।
____________________________________________________________________
- <प्रावृष एण्यः># । । PS_४,३.१७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१७ः
प्रावृष्-शब्दादेण्यः प्रत्ययो भवति शैषिकः ।
ऋत्वणोऽपवादः ।
प्रावृषेण्यः बलाहकः । ।
____________________________________________________________________
- <वर्षाभ्यष्ठक्># । । PS_४,३.१८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१८ः
वर्ष-शब्दाट्ठक्प्रत्ययो भवति शैषिकः ऋत्वणोऽपवादः ।
वार्षिकं वासः ।
वार्षिकमनुलेपनं । ।
____________________________________________________________________
- <छन्दसि ठञ्># । । PS_४,३.१९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१९ः
वर्ष-शब्दात्छन्दसि विषये ठञ्प्रत्ययो भवति शैषिकः ।
ठकोऽपवादः ।
स्वरे भेदः ।
नभश्च अभस्यश्च वार्षिकावृतू । ।
____________________________________________________________________
- <वसन्ताच्च># । । PS_४,३.२० । ।
_____Sठाऱ्ठ्JKव्_४,३.२०ः
छन्दसि इत्येव ।
वसन्त-शब्दाच्छन्दसि विषये ठञ्प्रत्ययो भवति शैषिकः ।
ऋत्वणोऽपवादः ।
मधुश्च माधवश्च वासन्तिकावृतू । ।
____________________________________________________________________
- <हेमन्ताच्च># । । PS_४,३.२१ । ।
_____Sठाऱ्ठ्JKव्_४,३.२१ः
छन्दसि इत्येव ।
हेमन्त-शब्दाच्छन्दसि विषये ठज्प्रत्ययो भवति शैषिकः ।
ऋत्वणोऽपवादः ।
सहश्च सहस्यश्च हैमन्तिकावृतू ।
योगविभागः उत्तरार्थः । ।
____________________________________________________________________
- <सर्वत्र अण्च तलोपश्च># । । PS_४,३.२२ । ।
_____Sठाऱ्ठ्JKव्_४,३.२२ः
हेमन्त-शब्दादण्प्रत्ययो भवति, तत्संनियोगेन च अस्य तकार-लोपः ।
हैमनं वासः ।
हेइमनं उपलेपनं ।
सर्वत्र-ग्रहणं छन्दोऽधिकारनिवृत्त्य्-अर्थं ।
छन्दसि भाषायां च सर्वत्र+एतद्भवति ।
ननु च छन्दसि इति न अनुवर्तिष्यते ? सैवाननुवृत्तिः शब्देन अख्यायते प्रत्यत्नाधिक्येन पूर्वसूत्रेऽपि सम्बन्ध-अर्थं ।
[#४०४]
हैमन्तिकं इति भाषायां अपि ठञं स्मरन्ति ।
अथ अण्च इति चकारः किं अर्थः ? अण्, यथाप्राप्तं च ऋत्वणिति ।
कः पुनरनयोर्विशेषः ? ऋत्वणि हि तकारलोपो न अस्ति हैमन्ति पङ्क्ती पङ्क्तिः इति ।
तदेवं त्रीणि रूपाणि भवन्ति, हैमन्तिकम्, हैमन्तम्, हैमनं इति । ।
____________________________________________________________________
- <सायं-चिरं-प्राह्णे-प्रगेऽव्ययेभ्यष्ट्यु-ट्युलौ तुट्च># । । PS_४,३.२३ । ।
_____Sठाऱ्ठ्JKव्_४,३.२३ः
कालातित्येव ।
सायं चिरं प्राह्णे प्रगे इत्येतेभ्यः अव्ययेभ्यश्च कालवाचिभ्यः ट्यु-ट्युलौ प्रत्ययौ भवतः, तयोश्च अदिष्टयोः तुडागमो भवति ।
सायन्तनं ।
चिरन्तनं ।
प्राह्णेतनं ।
प्रगेतनं ।
अव्ययेभ्यः - दोषातनं ।
दिवातनं ।
सायं इति मकारान्तं पदं अव्ययम्, ततोऽव्ययादेव सिद्धः प्रत्ययः ।
यस्तु स्यतेरन्तकर्मणो घञि साय-शब्दस्तस्य+इदं मकारान्तत्वं प्रत्यय-सन्नियोगेन निपात्यते ।
दिवसावसानं सायः ।
चिर-शब्दस्य अपि मकारान्तत्वं निपात्यते ।
प्राह्णे, प्रगे इत्येकारान्तत्वं ।
चिरपरुत्परारिभ्यस्त्नो वक्तव्यः ।
चिरत्नं ।
परुत्नं ।
परारित्नं ।
प्रगस्य छन्दसि गलोपश्च ।
प्रत्नं ।
अग्रपश्चाड्डिमछ् ।
अग्रिमं ।
पश्चिमं ।
अन्ताच्च+इति वक्तव्यं ।
अन्तिमं । ।
____________________________________________________________________
- <विभाषा पूर्वाह्ण-अपराह्णाभ्याम्># । । PS_४,३.२४ । ।
_____Sठाऱ्ठ्JKव्_४,३.२४ः
पूर्वाह्ण-अपराह्णा-शब्दाभ्यां विभाषा ट्यु-ट्युलौ प्रत्ययौ भवतः, तुट्च तयोरागमः ।
कालाट्ठञ्(*४,३.११) इति ठञि प्राप्ते वचनं, पक्षे सोऽपि भवति ।
पूर्वाह्णेतनं ।
अपराह्णेतनं ।
पौर्वाह्णिकं ।
आपराह्णिकं ।
घकालतनेषु कालनाम्नः (*६,३.१७) इति सप्तम्या अलुक् ।
यदा तु न सप्तमी समर्थ-विभक्तिः पूर्वाह्णः सोढः अस्य इति तदा पूर्वाह्णतनः इति भवितव्यं । ।
____________________________________________________________________
[#४०५]
- <तत्र जातः># । । PS_४,३.२५ । ।
_____Sठाऱ्ठ्JKव्_४,३.२५ः
अण्-आदयो घादयश्च प्रत्ययाः प्रकृताः, तेषां अतः प्रभृति अर्थाः समर्थ-विभक्तयः च निर्दिश्यन्ते ।
तत्र इति सप्तमीसमर्थात्जातः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
स्रुघ्ने जातः स्त्रौघ्नः ।
माथुरः ।
औत्सः ।
औदपानः ।
राष्ट्रियः ।
अवारपारीणः ।
शाकलिकः ।
माकलिकः ।
ग्राम्यः ।
ग्रामीणः ।
कात्रेयकः ।
ॐभेयकः । ।
____________________________________________________________________
- <प्रावृषष्ठप्># । । PS_४,३.२६ । ।
_____Sठाऱ्ठ्JKव्_४,३.२६ः
प्रावृट्-शब्दात्सप्तमीसमर्थाज्जातः इत्येतस्मिन्नर्थे ठप्प्रत्ययो भवति ।
एण्यस्य अपवादः ।
पकारः स्वरार्थः ।
प्रावृषि जातः प्रावृषिकः । ।
____________________________________________________________________
- <सञ्ज्ञायां शरदो वुञ्># । । PS_४,३.२७ । ।
_____Sठाऱ्ठ्JKव्_४,३.२७ः
शरच्-छब्दात्सप्तमी-समर्थाज्जातः इत्येतस्मिन्नर्थे वुञ्प्रत्ययो भवति ऋत्वणः अपवादः, समुदायेन चेत्सञ्ज्ञा गम्यते ।
शारदका दर्भाः ।
शारदका मुद्गाः ।
दर्भ-विशेषस्य मुद्ग-विशेषस्य च+इयं सञ्ज्ञा ।
सञ्ज्ञायां इति किं ? शारदं सस्यं ।
सञ्ज्ञाधिकारं केचित्कृतलब्धक्रीतकुशलाः (*४,३.३८) इति यावदनुवर्तयन्ति । ।
____________________________________________________________________
- <पूर्वाह्ण-अपराह्ण-आर्द्रा-मूल-प्रदोष-अवस्कराद्वुन्># । । PS_४,३.२८ । ।
_____Sठाऱ्ठ्JKव्_४,३.२८ः
पूर्वाह्ण-आदिभ्यः शब्देभ्यः वुन्प्रत्ययो भवति तत्र जातः (*४,३.२५) इत्येतस्मिन्विषये सञ्ज्ञायां गम्यमानायां ।
पूर्वाह्णकः ।
अपराह्णकः ।
विभाषा पूर्वाह्ण-अपरह्णाभ्यां (*४,३.२४) इत्यस्य अपवादः ।
आर्द्रकः ।
मूलकः ।
नक्षत्राणः अपवादः ।
प्रदोषकः ।
निशाप्रदोषाभ्यं च (*४,३.१४) इत्यस्य अपवादः ।
अवस्करकः ।
औत्सर्गिकस्याणः (*४,१.७३) अपवादः ।
असञ्ज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति । ।
____________________________________________________________________
- <पथः पन्थ च># । । PS_४,३.२९ । ।
_____Sठाऱ्ठ्JKव्_४,३.२९ः
पथि-शब्दाद्वुन्प्रत्ययो भवति, तत्र जातः इत्येतस्मिन्विषयेऽणोऽपवादः ।
प्रत्यय. संनियोगेन च पथः पन्थ इत्ययं आदेशः भवति ।
पथि जातः पन्थकः । ।
____________________________________________________________________
[#४०६]
- <अमावास्याया वा># । । PS_४,३.३० । ।
_____Sठाऱ्ठ्JKव्_४,३.३०ः
अमावास्या-शब्दाद्वुन्प्रत्ययो भवति वा तत्र जातः इत्येतस्मिन्विषये ।
सन्दिवेलद्य्-ऋतु-नक्षत्रेभ्योऽण्(*४,३.१६) इत्यादिषु पाठातणोऽपवादः ।
अमावस्यकः, आमावास्यः ।
एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति ।
अमावस्यकः, आमावस्यः । ।
____________________________________________________________________
- <अ च># । । PS_४,३.३१ । ।
_____Sठाऱ्ठ्JKव्_४,३.३१ः
अमावास्या-शब्दातकारः प्रत्ययो भवति तत्र जातः (*४,३.२५) इत्येतस्मिन्विषये ।
पूर्वेण वुन्नणोः प्राप्तयोः अयं तृतीयः विधीयते ।
अमावास्यः, अमावास्यकः, अमावास्यः ।
अमावस्यः, अमावस्यकः, आमावस्यः । ।
____________________________________________________________________
- <सिन्ध्व्-अपकराभ्यां कन्># । । PS_४,३.३२ । ।
_____Sठाऱ्ठ्JKव्_४,३.३२ः
सिन्धु-शब्दादपकर-शब्दाच्च कन्प्रत्ययो भवति तत्र जात (*४,३.२५) इत्येतस्मिन्विषये ।
सिन्धु-शब्दः कच्छादिः, ततोऽणि मनुष्यवुञि च प्राप्ते विधानं ।
अपकर-शब्दादपि औत्सर्गिकेऽणि ।
सिन्धुकः ।
अपकरकः । ।
____________________________________________________________________
- <अणञौ च># । । PS_४,३.३३ । ।
_____Sठाऱ्ठ्JKव्_४,३.३३ः
सिन्ध्व्-अपकर-शब्दाभ्यां यथासङ्ख्यं अणञौ प्रत्ययौ भवतः तत्र जातः (*४,३.२५) इत्येतस्मिन्विषये ।
पूर्वेण कनि प्राप्ते वचनं ।
सैन्धवः ।
आपकरः । ।
____________________________________________________________________
- <श्रविष्ठा-फल्गुन्य्-अनुराधा-स्वाति-तिष्य-पुनर्वसु-हस्त-विशाखा-अषाढा-बहुलाल्लुक्># । । PS_४,३.३४ । ।
_____Sठाऱ्ठ्JKव्_४,३.३४ः
श्रविष्ठा-आदिभ्यः शब्देभ्यः नक्षत्रेभ्यः आगतस्य जातार्थे लुग्भवति ।
तस्मिन्स्त्रीप्रत्ययस्य अपि लुक्तद्धितलुकि (*१,२.४९) इति भवति ।
श्रविष्ठासु जातः श्रविष्ठः ।
फल्गुनः ।
अनुराधः ।
स्वातिः ।
तिष्यः ।
पुनर्वसुः ।
हस्तः ।
विशाखः ।
अषाढः ।
बहुलः ।
लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियां उपसङ्ख्यानं ।
चित्रायां जाता चित्रा ।
रेवती ।
रोहिणी ।
स्त्रीपर्त्ययस्य लुकि कृते गौरादित्वात्ङीष् ।
फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ ।
फल्गुनी ।
अषाढा ।
श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः ।
श्राविष्ठीयः ।
आषाढीयः । ।
____________________________________________________________________
[#४०७]
- <स्थानानत-गोशाल-खरशालाच्च># । । PS_४,३.३५ । ।
_____Sठाऱ्ठ्JKव्_४,३.३५ः
स्थानान्तात्प्रातिपदिकात्गोशाल-शब्दात्खरशाल-शब्दात्च जात-अर्थे प्रत्ययस्य लुग्भवति ।
गोस्थाने जातः गोस्थानः ।
अश्वस्थानः ।
गोशालः ।
खरशालः । ।
____________________________________________________________________
- <वत्सशाला-अभिजिद्-अश्वयुक्-छतभिषजो वा># । । PS_४,३.३६ । ।
_____Sठाऱ्ठ्JKव्_४,३.३६ः
वत्सशालादिभ्यः परस्य जात-अर्थे प्रत्ययस्य लुग्वा भवति ।
वत्सशालायां जातः वत्सशालः, वात्सशालः ।
अभिजित्, आभिजितः ।
अश्वयुक्, आश्वयुजः ।
शतभिषक्, शातभिषजः ।
बहुल-ग्रहणस्य अयं प्रपञ्चः । ।
____________________________________________________________________
- <नक्षत्रेभ्यो बहुलम्># । । PS_४,३.३७ । ।
_____Sठाऱ्ठ्JKव्_४,३.३७ः
नक्षत्रेभ्यः उत्तरस्य जात-अर्थे प्रत्ययस्य बहुलं लुग्भवति ।
रोहिणः, रौहिणः ।
मृगशिराः, मार्गशीर्षः । ।
____________________________________________________________________
- <कृत-लब्ध-क्रीत-कुशलाः># । । PS_४,३.३८ । ।
_____Sठाऱ्ठ्JKव्_४,३.३८ः
तत्र इत्येव ।
सप्तमी-समार्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययः भवति ।
स्रुध्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघनः ।
माथुरः ।
राष्ट्रियः ।
ननु च यद्यत्र कृतं जातं अपि तत्र भवति, यच्च यत्र क्रीतं लब्धं अपि तत्र+एव भवति किमर्थं भेदेन+उपादानं क्रियते, शब्द-अर्थस्य अभिन्नत्वात्? वस्तुमात्रेण क्रीतं लब्धं भवति, शब्द-अर्थस्तु भिद्यते एव । ।
____________________________________________________________________
- <प्रायभवः># । । PS_४,३.३९ । ।
_____Sठाऱ्ठ्JKव्_४,३.३९ः
तत्र इत्येव ।
सप्तमी-समर्थात्ङ्य्-आप्-प्रातिपदिकात्प्रायभवः इत्येतस्मिन्विषये यथा-विहितं प्रत्ययो भवति ।
प्राय-शब्दः साकल्यस्य किंचिन्नयूनतां आह ।
स्रुघ्ने प्रायेण बहुल्येन भवति स्रौघनः ।
माथुरः ।
राष्ट्रियः ।
प्रायभव-ग्रहणं अनर्थकं तत्र भवेन कृतत्वाथ् ।
अनित्यभवः प्रायभवः इति चेद्, मुक्त-संशयेन तुल्यं । ।
____________________________________________________________________
[#४०८]
- <उपजानु-उपकर्ण-उपनीवेष्ठक्># । । PS_४,३.४० । ।
_____Sठाऱ्ठ्JKव्_४,३.४०ः
उपजान्व्-आदिभ्यः शब्देभ्यः सप्तमी-समर्थेभ्यः प्रायभव इत्येतस्मिन्विषये ठक्प्रत्ययो भवति ।
अणोऽपवादः ।
औपजानुकः ।
औपक्र्णिकः ।
औपनीविकः । ।
____________________________________________________________________
- <सम्भूते># । । PS_४,३.४१ । ।
_____Sठाऱ्ठ्JKव्_४,३.४१ः
तत्र इत्येव ।
सप्तमी-समर्थाद्ङ्य्-आप्-प्रातिपदिकात्सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
अवक्लृप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थः इह गृह्यते, न+उत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वाथ् ।
स्रुघ्ने सम्भवति स्रौघनः ।
माथुरः ।
राष्ट्रियः । ।
____________________________________________________________________
- <कोशाड्ढञ्># । । PS_४,३.४२ । ।
_____Sठाऱ्ठ्JKव्_४,३.४२ः
कोश-शब्दात्ठञ्प्रत्ययो भवति तत्र सम्भूते इत्यस्मिन्विषये ।
अणोऽपवादः ।
कोशे सम्भूतं कौशेयं वस्त्रं ।
रूढिरेषा, तेन क्रिमौ न भवति, खङ्गकोशाच्च । ।
____________________________________________________________________
- <कालात्साधु-पुष्प्यत्-पच्यमानेषु># । । PS_४,३.४३ । ।
_____Sठाऱ्ठ्JKव्_४,३.४३ः
तत्र इत्येव काल-विशेष-वाचिभ्यः सप्तमी-समार्थेभ्यः साध्व्-आदिष्वर्थेषु यथाविहितं प्रत्ययो भवति ।
हेमन्ते साधुः हैमन्तः प्राकारः ।
शैशिरमनुलेपनं ।
वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः ।
ग्रैष्म्यः पाटलाः ।
शरदि पच्यन्ते शारदाः शालयः ।
ग्रैष्म यवाः । ।
____________________________________________________________________
- <उप्ते च># । । PS_४,३.४४ । ।
_____Sठाऱ्ठ्JKव्_४,३.४४ः
तत्र इत्येव, कालातिति च ।
सप्तमी-समर्थात्कालवाचिनः प्रातिपदिकातुप्तेऽर्थे यथाविहितं प्रत्ययो भवति ।
हेमन्ते उप्यन्ते हैमन्ता यवाः ।
ग्रैष्माः व्रीहयः ।
योगविभाग उत्तरार्थः । ।
____________________________________________________________________
- <आश्वयुज्या वुञ्># । । PS_४,३.४५ । ।
_____Sठाऱ्ठ्JKव्_४,३.४५ः
आश्वयुजी-शब्दात्वुञ्प्रत्ययो भवति उप्तेऽर्थे ।
ठञोऽपवादः ।
आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः ।
अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी ।
अश्विनीपर्यायोऽश्वयुक्-शब्दः । ।
____________________________________________________________________
[#४०९]
- <ग्रीष्म-वसन्तादन्यत्रस्याम्># । । PS_४,३.४६ । ।
_____Sठाऱ्ठ्JKव्_४,३.४६ः
ग्रीष्म-वसन्त-शब्दाभ्यां अन्यतरस्यां वुञ्प्रत्ययो भवति उप्तेऽर्थे ।
ऋत्वणोऽपवादः ।
ग्रीष्मं सस्यम्, ग्रैष्मकं ।
वासन्तम्, वासन्तकं । ।
____________________________________________________________________
- <देयं ऋणे># । । PS_४,३.४७ । ।
_____Sठाऱ्ठ्JKव्_४,३.४७ः
तत्र इत्येव, कालातिति च ।
सप्तमी-समार्थात्कालवाचिनः प्रातिपदिकात्देयं इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयं ऋणं चेत्तद्भवति ।
मासे देयं ऋणं मासिकं ।
आर्धमासिकं ।
सांवत्सरिकं ।
ऋणे इति किं ? मासे देया भिक्षा । ।
____________________________________________________________________
- <कलाप्य्-अश्वत्थ-यवबुसाद्वुन्># । । PS_४,३.४८ । ।
_____Sठाऱ्ठ्JKव्_४,३.४८ः
कालातित्येव ।
कलापिनश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमी-समर्थेभ्यो देयं ऋणं इत्येतस्मिन्नर्थे वुन्प्रत्ययो भवति ।
कलाप्यादयः शब्दाः साहचर्यात्काले वर्तन्ते ।
यस्मिन्काले मयूशः कलापिनो भवन्ति स कलापी ।
यस्मिनश्वत्थाः फलन्ति सोऽश्वत्थः ।
यस्मिन्यवबुसं सम्पद्यते स यवबुस-शब्देन+उच्यते ।
कलापिनि काले देयं ऋणं कलापकं ।
अश्वत्थकं ।
यवबुसकं । ।
____________________________________________________________________
- <ग्रीष्म-अवरसमाद्वुञ्># । । PS_४,३.४९ । ।
_____Sठाऱ्ठ्JKव्_४,३.४९ः
ग्रीष्म अवरसम-शब्दाभ्यां वुञ्प्रत्ययो भवति देयं ऋणं इत्येतस्मिन्नर्थे ।
अण्ठञोरपवादः ।
ग्रीष्मे देयं ऋणं ग्रैष्मकं ।
आवरसमकं ।
प्रत्ययान्तरकरणं वृद्ध्य्-अर्थं ।
समा-शब्दो वर्षपर्यायः । ।
____________________________________________________________________
- <संवत्सर-आग्रहायणीभ्यां ठञ्च># । । PS_४,३.५० । ।
_____Sठाऱ्ठ्JKव्_४,३.५०ः
संवत्सर-आग्रहायणी-शब्दाभ्यां ठञ्प्रत्ययो भवति, चकाराद्वुञ्च देयं ऋणं इत्येतस्मिन्नर्थे संवत्सरे देयं ऋणं सांवत्सरिकम्, सांवत्सरकं ।
आग्रहयणिकम्, आग्रहायणकं ।
वा इति वक्तव्ये ठञ्-ग्रहणं सन्धिवेलादिषु संवत्सरात्फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यातिति । ।
____________________________________________________________________
[#४१०]
- <व्याहरति मृगः># । । PS_४,३.५१ । ।
_____Sठाऱ्ठ्JKव्_४,३.५१ः
तत्र इत्येव, कालातिति च ।
कालवाचिनः सप्तमी-समर्थात्प्रातिपदिकात्व्याहरति मृगः इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति ।
निशायां व्याहरति मृगः वैशः, नैशिकः ।
प्रादोषः, प्रादोसिकः ।
मृगः इति किं ? निशायां व्याहरति उलूकः । ।
____________________________________________________________________
- <तदस्य सोढम्># । । PS_४,३.५२ । ।
_____Sठाऱ्ठ्JKव्_४,३.५२ः
कालातित्येव ।
तदिति प्रथमा-समर्थात्कालवाचिनः प्रातिपदिकातस्य इति षष्ठ्य्-अर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमा-समर्थं सोढं चेत्तद्भवति ।
सोढं जितमभ्यस्तं इत्यर्थः ।
निशासहचरितं अध्ययनं निशा, तत्सोढं अस्य छात्रस्य नैशः, वैशिकः ।
प्रादोषः, प्रदोषिकः । ।
____________________________________________________________________
- <तत्र भवः># । । PS_४,३.५३ । ।
_____Sठाऱ्ठ्JKव्_४,३.५३ः
कालातिति निवृत्तं ।
तत्र इति सप्तमी-समर्थात्ङ्य्-आप्-प्रातिपदिकात्भवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
सत्ता भवत्यर्थो गृह्यते, न जन्म, तत्र जातः (*४,३.२५) इति गतार्थत्वाथ् ।
स्रुघ्ने भवः स्रौघ्नः ।
माथुरः ।
राष्ट्रियः ।
पुनस्तत्र-ग्रहणं तदस्य इति निवृत्त्य्-अर्थं । ।
____________________________________________________________________
- <दिग्-आदिभ्यो यत्># । । PS_४,३.५४ । ।
_____Sठाऱ्ठ्JKव्_४,३.५४ः
दिशित्येवं आदिभ्यः प्रातिपदिकेभ्यः यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणश्छस्य च अपवादः ।
दिशि भवं दिश्यं ।
वर्ग्यं ।
मुख-जघन-शब्दयोरशरीर-अवयव-अर्थः पाठः, सेनामुख्यम्, सेनाजघन्यं इति ।
दिश् ।
वर्ग ।
पूग ।
गण ।
पक्ष ।
धाय्या ।
मित्र ।
मेधा ।
अन्तर ।
पथिन् ।
रहस् ।
अलीक ।
उखा ।
साक्षिन् ।
आदि ।
अन्त ।
मुख ।
जघ्न ।
मेघ ।
यूथ ।
उदकात्सञ्ज्ञयां ।
न्याय ।
वंश ।
अनुवंश ।
विश ।
काल ।
अप् ।
आकाश ।
दिगादिः । ।
____________________________________________________________________
- <शरीर-अवयवाच्च># । । PS_४,३.५५ । ।
_____Sठाऱ्ठ्JKव्_४,३.५५ः
शरीरं प्राणिकायः शरीर-अवयव-वाचिनः प्रातिपदिकाद्यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
दन्तेषु भवं दन्त्यं ।
कर्ण्यं ।
ओष्ठ्यं । ।
____________________________________________________________________
[#४११]
- <दृति-कुक्षि-कलशि-वस्त्य्-अस्त्य्-अहेर्ढञ्># । । PS_४,३.५६ । ।
_____Sठाऱ्ठ्JKव्_४,३.५६ः
दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
दृतौ भवं दार्तेयं ।
कौक्षेयं ।
कालशेयं ।
वास्तेयं ।
आस्तेयं ।
आहेयं अजरं विषं ।
अस्ति-शब्दः प्रातिपदिकं, न तिङ्-अन्तः । ।
____________________________________________________________________
- <ग्रीवाभ्योऽण्च># । । PS_४,३.५७ । ।
_____Sठाऱ्ठ्JKव्_४,३.५७ः
ग्रीवा-शब्दादण्प्रत्ययो भवति, चकाराड्ढञ्च, तत्र भवः इत्येतस्मिन्विषये ।
शरीर-अवयवाद्यतोऽपवादः ।
ग्रीवासु भवं ग्रैवम्, ग्रैवेयं ।
ग्रीवा-शब्दो धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतं । ।
____________________________________________________________________
- <गम्भीराञ्ञ्यः># । । PS_४,३.५८ । ।
_____Sठाऱ्ठ्JKव्_४,३.५८ः
गम्भीर-शब्दाद्ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
गम्भीरे भवं गाम्भीर्यं ।
बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यं ।
बाह्यं ।
दैव्यं ।
पाञ्चजन्यं । ।
____________________________________________________________________
- <अव्ययीभावाच्च># । । PS_४,३.५९ । ।
_____Sठाऱ्ठ्JKव्_४,३.५९ः
अव्ययीभाव-सञ्ज्ञाकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
न च सर्वस्मादव्ययीभावाद्भवति, किं तर्हि, परिमुखादेः ।
परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनं ।
तेषां विशेषणं अव्ययीभाव-ग्रहणं ।
परिमुखं भवं पारिमुखं ।
पारिहनव्यं ।
परिमुखादेरन्यत्र न भवति, औपकूलं ।
परिमुख ।
परिहनु ।
पर्योष्ठ ।
पर्युलूखल ।
परिसीर ।
अनुसीर ।
उपसीर ।
उपस्थल ।
उपकलाप ।
अनुपथ ।
अनुखड्ग ।
अनुतिल ।
अनुशीत ।
अनुमाष ।
अनुयव ।
अनुयूप ।
अनुवंश । ।
____________________________________________________________________
- <अन्तः-पूर्वपदाट्ठञ्># । । PS_४,३.६० । ।
_____Sठाऱ्ठ्JKव्_४,३.६०ः
अव्ययीभावातित्येव ।
अन्य्तः-शब्दो विभक्त्य्-अर्थे समस्यते ।
अतपूर्वपदातव्ययीभावाट्ठञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
आन्तर्वेश्मिकं ।
आन्तर्गेहिकं ।
[#४१२]
समानशब्दाद्ठञ्वक्तव्यः ।
समाने भवं सामानिकं ।
तदादेश्च ।
सामानग्रामिकं ।
सामानदेशिकं ।
अध्यात्मादिभ्यश्च ।
आध्यात्मिकं ।
आधिदैविकं ।
आधिभौतिकं ।
अध्यात्मादिराकृतिगणः ।
ऊर्ध्वन्दमाच्च ठञ्वक्तव्यः ।
और्ध्वन्दमिकः ।
ऊर्ध्व-शब्देन समानार्थ ऊर्ध्वन्दम-शब्दः ।
ऊर्ध्वदेहाच्च ।
और्ध्वदेहित्कं ।
लोकोत्तरपदाच्च ।
ऐहलौकिकं ।
पारलौकिकं ।
मुखपार्श्व-शब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः ।
मुखतीयं ।
पार्श्वतीयं ।
जनपरयोः कुक्च ।
जनकीयं ।
परकीयं ।
मध्यशब्दादीयः ।
मध्यीयः मण्मीयौ च प्रत्ययौ वक्तव्यौ ।
माध्यमं ।
ंध्यमीयं ।
मध्यो मध्यं दिनण्च अस्माथ् ।
मध्ये भवं माध्यन्दिनं ।
स्थम्नो लुग्वक्तव्यः ।
अश्वत्थामा ।
अजिनान्ताच्च ।
वृकाजिनः ।
सिंहाजिहः ।
[#४१३]
समानस्य तदादेश्च अध्यात्मादिषु च+इष्यते ।
ऊर्ध्वन्दमाच्च देहाच्च लोकोत्तरपदस्य च । ।
मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च ।
ईयः कार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा । ।
मध्यो मध्यं दिनण्च अस्मात्स्थाम्नो लुगजिनात्तथा । ।
____________________________________________________________________
- <ग्रामात्पर्य्-अनु-पूर्वात्># । । PS_४,३.६१ । ।
_____Sठाऱ्ठ्JKव्_४,३.६१ः
अव्ययीभवातित्येव ।
ग्राम-शब्दान्तादव्ययीभावात्परि अनु इत्येवं पूर्वात्ठञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
पारिग्रामिकः ।
आनुग्रामिकः । ।
____________________________________________________________________
- <जिह्वामूल-अङ्गुलेश्छः># । । PS_४,३.६२ । ।
_____Sठाऱ्ठ्JKव्_४,३.६२ः
जिह्वामूल-शब्दादङ्गुलि-शब्दात्च छनः प्रतयो भवति तत्र भवः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
जिह्वामूलीयं ।
अङ्गुलीयं । ।
____________________________________________________________________
- <वर्गान्ताच्च># । । PS_४,३.६३ । ।
_____Sठाऱ्ठ्JKव्_४,३.६३ः
वर्ग-शब्दान्तात्च प्रातिपदिकाच्छः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
क-वर्गीयं ।
च-वर्गीयं । ।
____________________________________________________________________
- <अशब्दे यत्-खावन्यतरस्याम्># । । PS_४,३.६४ । ।
_____Sठाऱ्ठ्JKव्_४,३.६४ः
वर्गान्तातित्येव ।
शब्दादन्यस्मिन्प्रत्यय-अर्थे वर्गान्तात्प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन्विषये ।
छे प्राप्ते वचनं ।
पक्षे सोऽपि भवति ।
वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः ।
युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः ।
अशब्दे इति किं ? कवर्गीयो वर्णः । ।
____________________________________________________________________
- <कर्ण-ललाटात्कनलङ्कारे># । । PS_४,३.६५ । ।
_____Sठाऱ्ठ्JKव्_४,३.६५ः
कर्णललाट-शब्दाभ्यां कन्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषयेऽलङ्कारेऽभिधेये ।
यतोऽपवादः ।
कर्णिका ।
ललाटिका ।
अलङ्कारे इति किं ? कर्ण्यं ।
ललाट्यं । ।
____________________________________________________________________
- <तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः># । । PS_४,३.६६ । ।
_____Sठाऱ्ठ्JKव्_४,३.६६ः
व्याख्यायतेऽनेन इति व्याख्यानं, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम ।
तस्य इति षष्ठीसमर्थात्व्याखयातव्यनाम्नः प्रातिपदिकाद्व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति तत्र भवे च ।
वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाख्य-अर्थं एव समुच्चिनोति तत्र भव (*४,३.५३) इति ।
[#४१४]
सुपां व्याख्यानः सौपो ग्रन्थः ।
तैङः ।
कार्त्तः ।
सुप्सु भवं सौपं ।
तैङं ।
कार्तं ।
व्याख्यातव्यनाम्नः इति किं ? पातलिपुत्रस्य व्याख्यानी सुकोशला, पाटलिपुत्रः सुकोशलया व्याख्यायते, एवं संनिवेशं पाटलिपुत्रं इति, न तु पाटलिपुत्रो व्याख्यातव्यनाम ।
भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः ।
कृत-निर्देशौ हि तौ । ।
____________________________________________________________________
- <बह्वचोऽन्तोदात्ताट ठञ्># । । PS_४,३.६७ । ।
_____Sठाऱ्ठ्JKव्_४,३.६७ः
बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद्भवव्याख्यानयोः ठञ्प्रत्ययो भवति ।
अणोऽपवादः ।
षात्वणत्विकं ।
नातानतिकं ।
समासस्वरेण अन्तोदात्ताः प्रकृतयः ।
बह्वचः इति किं ? द्व्यचः ठकं वक्ष्यति ।
एकाच्प्रयुदाह्रियते ।
सौपं ।
तैङं ।
कार्तं ।
अन्योदात्तातिति किं ? संहितायाः सांहितं ।
संहिताशब्दो हि गतिस्वरेण अद्युदात्तः । ।
____________________________________________________________________
- <क्रतु-यज्ञेभ्यश्च># । । PS_४,३.६८ । ।
_____Sठाऱ्ठ्JKव्_४,३.६८ः
क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनमभ्यः प्रातिपदिकेभ्यः भवव्याख्यानयोरर्थयोः ठञ्प्रत्ययो भवति ।
अणोऽपवादः ।
क्रतुभ्यस्तावत्- अग्निष्टोमस्य व्याख्यानः, तत्र भवः आग्निष्टोमिकः ।
वाजपेयिकः ।
राजसूयिकः ।
यज्ञेभ्यः - पाकयज्ञिकः ।
नावयज्ञिकः ।
अनन्तोदात्तार्थ आरम्भः ।
क्रतुभ्यः इत्येव सिद्धे यज्ञ-ग्रहणं असोमयागेभ्योऽपि यथा स्याथ् ।
पाञ्चौदनिकः ।
दाशौदनिकः ।
बहुवचनं स्वरूपविधिनिरासार्थं । ।
____________________________________________________________________
- <अध्यायेष्वेव र्षेः># । । PS_४,३.६९ । ।
_____Sठाऱ्ठ्JKव्_४,३.६९ः
ऋषि-शब्दाः प्रवर्नामधेयानि, तेभ्यः ऋषि-शब्देभ्यो भवव्याख्यानयोः अर्थयोः ठञ्प्रतयो भवति अणोऽपवादः अध्यायेष्वेव प्रत्ययार्थे विशेषणेषु ।
व्याख्यातव्यनाम्नः इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते ।
वसिष्ठस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः ।
वैश्वामित्रिकः ।
अध्यायेषु इति किं ? वासिष्ठी ऋक् । ।
____________________________________________________________________
- <पौराडाश-पुरोडाशात्ष्ठन्># । । PS_४,३.७० । ।
_____Sठाऱ्ठ्JKव्_४,३.७०ः
पौराडाश-शब्दात्पुरोडाश-शब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन्प्रत्ययो भवति ।
पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानः तत्र भवो वा पौरोडाशिकः, पौरोडाशिकी ।
पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः, पुरोडाशिकी ।
षकारो ङीषर्थः । ।
____________________________________________________________________
[#४१५]
- <छन्दसो यदणौ># । । PS_४,३.७१ । ।
_____Sठाऱ्ठ्JKव्_४,३.७१ः
छन्दः-शब्दाद्भवव्याख्यानयोरर्थयोः यदणौ प्रत्ययौ भवतः ।
द्व्यचः इति ठकि प्राप्ते वचनं ।
छन्दस्यः छान्दसः । ।
____________________________________________________________________
- <द्व्यज्-ऋद्-ब्राह्मण-र्क्-प्रथम-अध्वर-पुरश्चरण-नामाख्याताट्ठक्># । । PS_४,३.७२ । ।
_____Sठाऱ्ठ्JKव्_४,३.७२ः
द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोः ठक्प्रत्ययो भवति ।
अणादेरपवादः ।
द्व्यचस्तावत्- ऐष्टिकः ।
पाशुकः ।
ऋकारान्तात्- चातुर्होतृकः ।
पाञ्चहोतृकः ।
ब्राह्मण - ब्राह्मणिकः ।
ऋक्- आर्चिकः ।
प्रथम - प्राथमिकः ।
अध्वर - आध्वरिकः ।
पुरश्चरण - पौरश्चरणिकः ।
नामाख्यात-ग्रहणं सङ्घातविगृहीतार्थं ।
नामिकः ।
आख्यातिकः ।
नामख्यातिकः । ।
____________________________________________________________________
- <अणृगयन-आदिभ्यः># । । PS_४,३.७३ । ।
_____Sठाऱ्ठ्JKव्_४,३.७३ः
ऋगयन-आदिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोः अण्प्रत्ययो भवति ।
ठञादेरपवादः ।
आर्गयनः ।
पादव्याख्यानः ।
अण्-ग्रहणं बाधकबाधन-अर्थं ।
वास्तुविद्यः ।
ऋगयन ।
पदव्याख्यान ।
छन्दोमान ।
छग्दोभाषा ।
छन्दोविचिति ।
न्याय ।
पुनरुक्त ।
व्याकरण ।
निगम ।
वास्तुविद्या ।
अङ्गविद्या ।
क्षत्रविद्या ।
उत्पात ।
उत्पाद ।
संवत्सर ।
मुहूर्त ।
निमित्त ।
उपनिषथ् ।
शिक्षा ।
ऋगयनादिः । ।
____________________________________________________________________
- <तत आगतः># । । PS_४,३.७४ । ।
_____Sठाऱ्ठ्JKव्_४,३.७४ः
ततः इति पञ्चमी-समर्थादागतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
स्रुघ्नातागतः स्रौघनः ।
माथुरः ।
राष्ट्रियः ।
ततः इति मुख्यं अपादानं विवक्षितं यत्तदिह गृह्यते, न नान्तरीयकं ।
स्रुघ्नादाग्च्छन्वृक्षमूलादागतः इति । ।
____________________________________________________________________
- <ठगायस्थानेभ्यः># । । PS_४,३.७५ । ।
_____Sठाऱ्ठ्JKव्_४,३.७५ः
आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानं ।
आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक्प्रत्ययो भवति तत आगतः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
छं तु परत्वाद्बाधते ।
शुल्कशालाया आगतः शौल्कशालिकः ।
आकरिकं ।
बहुवचनं स्वरूपविधिनिरासार्थं । ।
____________________________________________________________________
[#४१६]
- <शुण्डिकादिभ्योऽण्># । । PS_४,३.७६ । ।
_____Sठाऱ्ठ्JKव्_४,३.७६ः
शुण्डिक इत्येवं आदिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति ततः आगतः इत्येतस्मिन्विषये ।
आयस्थानठकोऽपवादः ।
शुण्डिकादागतः शौण्डिकः ।
कार्कणः ।
अण्-ग्रहणं बाधकबाधनार्थं ।
औदपानः ।
शुण्डिक ।
कृकण ।
स्थण्डिल ।
उदपान ।
उपल ।
तीर्थ ।
भूमि ।
तृण ।
पर्ण ।
शुण्दिकादिः । ।
____________________________________________________________________
- <विद्या-योनि-सम्बन्धेभ्यो वुञ्># । । PS_४,३.७७ । ।
_____Sठाऱ्ठ्JKव्_४,३.७७ः
विद्या-योनि-कृतः सम्बन्धो येषां ते विद्या-योनि-सम्बन्धाः ।
तद्वाचिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति तत आगतः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
छं तु परत्वाद्बाधते ।
विद्या-सम्बन्धेभ्यस्तावत्- उपाध्यायादागतं औपाध्यायकं ।
शौष्यकं ।
आचार्यकं ।
योनि-सम्बन्धेभ्यः - मातामहकः ।
पैतामहकः ।
मातुलकः । ।
____________________________________________________________________
- <ऋतष्-ठञ्># । । PS_४,३.७८ । ।
_____Sठाऱ्ठ्JKव्_४,३.७८ः
विद्या-योनि-सम्बन्धेभ्यः इत्येव ।
ऋ-कारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्ध-वाचिभ्यः ठञ्प्रत्ययो भवति तत आगतः इत्येतस्मिन्विषये ।
वुञोऽपवादः ।
विद्या-सम्बन्ध-वाचिभ्यस्तावत्- होतुरागतं हौतृकं ।
पौतृकं ।
योनि-सम्बन्ध-वाचिभ्यः - भ्रातृकं ।
स्वासृकं ।
मातृकं ।
तपरकरणं मुखसुख-अर्थं ।
विद्यायोनिभ्यां अन्यत्र, सावित्रं । ।
____________________________________________________________________
- <पितुर्यच्च># । । PS_४,३.७९ । ।
_____Sठाऱ्ठ्JKव्_४,३.७९ः
पितृ-शब्दाद्यत्प्रत्ययो भवति, च-काराट्ठञ्च ततागतः इत्येतस्मिन्विषये ।
पितुरागतं पित्र्यम्, पैतृकं । ।
____________________________________________________________________
- <गोत्रादङ्कवत्># । । PS_४,३.८० । ।
_____Sठाऱ्ठ्JKव्_४,३.८०ः
अपत्याधिकारादन्यत्र लौकिकं गोत्रं अपत्यमात्रं गृह्यते ।
गोत्र-प्रत्ययान्तात्प्रातिपदिकादङ्कवत्प्रत्यय-विधिर्भवति ततः आगतः इत्येतस्मिन्विषये ।
अङ्क-ग्रहणेन तस्य+इदं अर्थसामान्यं लक्ष्यते ।
तस्माद्वुञतिदिष्यते, न अण्, सङ्घ-अङ्क-लक्षणेष्वञ्-यञ्-इञां अण्(*४,३.१२७) इति ।
औपगवानां अङ्कः औपगवकः ।
कापटवकः ।
नाडायनकः ।
चारायणकः ।
एवं औपगवेभ्य आगतं औपगवकं ।
कापटवकं ।
नाडायनकं ।
चारायणकं । ।
____________________________________________________________________
[#४१७]
- <हेतु-मनुष्येभ्योऽन्यतरस्यां रूप्यः># । । PS_४,३.८१ । ।
_____Sठाऱ्ठ्JKव्_४,३.८१ः
हेतुभ्यो मनुस्येभ्यश्च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्येतस्मिन्विषये ।
मनुष्य-ग्रहणं अहेत्वर्थं ।
हेतुः कारणं ।
हेतुभ्यस्तावत्- समादागतं समरूप्यम्, समीयं ।
विषमरूप्यम्, विषमीयं ।
गहादित्य्वाच्छः ।
मनुस्येभ्यः - देवदत्तरूप्यं ।
यज्ञदत्तरूप्यं दैवदत्तं ।
याज्ञदत्तं ।
बहुवचनं स्वरूपविधिनिरासार्थं । ।
____________________________________________________________________
- <मयट्च># । । PS_४,३.८२ । ।
_____Sठाऱ्ठ्JKव्_४,३.८२ः
हेतुभ्यो मनुष्येभ्यः च मयट्प्रत्ययो भवति ततः आगतः इत्येतस्मिन्विषये ।
सममयं ।
विषममयं ।
मनुस्येभ्यः - देवदत्तमयं ।
यज्ञदत्तमयं ।
ट-कारो ङीब्-अर्थः ।
सममयी ।
योगविभागो यथासङ्ख्यनिरासार्थः । ।
____________________________________________________________________
- <प्रभवति># । । PS_४,३.८३ । ।
_____Sठाऱ्ठ्JKव्_४,३.८३ः
ततः इत्येव ।
पञ्चमी-समर्थात्ङ्याप्-प्रातिपदिकात्प्रभवति इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति ।
प्रभवति प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः ।
हिमवतः प्रभवति गैमवती गङ्गा ।
दारदी सिन्धुः । ।
____________________________________________________________________
- <विदूराञ्ञ्यः># । । PS_४,३.८४ । ।
_____Sठाऱ्ठ्JKव्_४,३.८४ः
विदूर-शब्दात्ञ्यः प्रत्ययो भवति ततः प्रभवति इत्येतस्मिन्विषये ।
अणोऽपवादः ।
विदूरात्प्रभवति वैदूर्यो मणिः ।
ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते ? एवं तर्हि - वालवायो विदूरं च प्रकृत्यनतरं एव वा ।
न वै तत्र इति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् । ।
____________________________________________________________________
- <तद्गच्छति पथि-दूतयोः># । । PS_४,३.८५ । ।
_____Sठाऱ्ठ्JKव्_४,३.८५ः
तदिति द्वितीया-समर्थाद्गच्छति इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत्स भवति दूतो वा ।
स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा ।
माथुरः ।
तत्स्थेषु गच्छत्सु पन्था गच्छति इत्युच्यते ।
अथ वा स्रुघ्न-प्राप्तिः पथो गमनं ।
पथिदूतयोः इति किं ? स्रुघ्नं गच्छति सार्थः । ।
____________________________________________________________________
[#४१८]
- <अभिनिष्क्रामति द्वारम्># । । PS_४,३.८६ । ।
_____Sठाऱ्ठ्JKव्_४,३.८६ः
तदित्येव ।
तदिति द्वितीया-समर्थादभिनिष्क्रामति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यतभिनिष्क्रामति द्वारं चेद्तद्भवति ।
आभिमुख्येन निष्क्रामति अभिनिष्क्रामति ।
स्रुघ्नं अभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नं ।
माथुरं ।
राष्ट्रियं ।
द्वारं अभिनिष्क्रमणक्रियायां करणं प्रसिद्धं, तदिह स्वातन्त्र्येण विवक्ष्यते, यथा साध्वसिश्छिनत्ति इति ।
द्वारं इति किं ? स्रुघ्नं अभिनिष्क्रामति पुरुषः । ।
____________________________________________________________________
- <अधिकृत्य कृते ग्रन्थे># । । PS_४,३.८७ । ।
_____Sठाऱ्ठ्JKव्_४,३.८७ः
तदित्येव ।
अधिकृत्य+एतदपेक्ष्य द्वितीया ।
अधिकृत्य प्रस्तुत्य, आगूर्य इत्यर्थः ।
तदिति द्वितीयासमर्थादधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्तत्कृतं ग्रन्थश्चेत्स भवति ।
सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः ।
गैरिमित्रः ।
यायातः ।
ग्रन्थे इति किं ? सुभ्द्रां अधिकृत्य कृतः प्रासादः ।
लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलं ।
वासवदत्तां अधिकृत्य कृता आख्यायिका वासवदत्ता ।
सुमनोत्तरा ।
उर्वशी ।
न च भवति ।
भिमरथी । ।
____________________________________________________________________
- <शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यश्छः># । । PS_४,३.८८ । ।
_____Sठाऱ्ठ्JKव्_४,३.८८ः
तदित्येव, अधिकृत्य कृते ग्रन्थे इति च ।
शिशुक्रन्द-आदिभ्यो द्वितिया-समर्थेभ्यः छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे ।
अणोऽपवादः ।
शिशूनां क्रन्दनं शिशुक्रन्दः, तं अधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः ।
यमस्य सभा यमसभम्, यमसभीयः ।
द्वन्द्वात्- इन्द्रजननीयं ।
प्रद्युम्नागमनीयं ।
इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते ।
द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ।
दैवासुरं ।
राक्षोऽसुरं ।
गौणमुख्यं ।
इन्द्रजनादेराकृतिगणत्वात्शिशुक्रन्दादयोऽपि तत्र+एव द्रष्टव्याः ।
प्रपञ्च-अर्थं एषां ग्रहणं ।
एवं सति देवासुरादि-प्रतिषेधोऽपि न वक्तव्यः, ततश्छ-प्रत्ययस्य अदर्शनात् । ।
____________________________________________________________________
[#४१९]
- <सोऽस्य निवासः># । । PS_४,३.८९ । ।
_____Sठाऱ्ठ्JKव्_४,३.८९ः
सः इति प्रथमा-समर्थातस्य इति षष्ठ्य्-अर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमा-समर्थं निवासः चेत्स भवति ।
निवसन्त्यस्मिन्निवासो देश उच्यते ।
स्रुघ्नो निवासोऽस्य स्रौघ्नः ।
माथुरः ।
राष्ट्रियः । ।
____________________________________________________________________
- <अभिजनश्च># । । PS_४,३.९० । ।
_____Sठाऱ्ठ्JKव्_४,३.९०ः
सोऽस्य इत्येव ।
स इति प्रथमा-समर्थादस्य+इति षष्ठ्य्-अर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमा-समर्थं अभिजनश्चेत्स भवति ।
अभिजनः पूर्वबान्धवः ।
तत्सम्बन्धाद्देशोऽपि अभिजनः इति उच्यते, यस्मिन्पूर्वबान्ध-वैरुषितं ।
तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यो, निवासप्रत्यासत्तेः ।
स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः ।
माथुरः ।
राष्टियः ।
निवासाभिजनयोः को विशेषः ? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सोऽभिजनः ।
योगविभाग उत्तरार्थः । ।
____________________________________________________________________
- <आयुधजीविभ्यश्छः पर्वते># । । PS_४,३.९१ । ।
_____Sठाऱ्ठ्JKव्_४,३.९१ः
सोऽस्य अभिजनः इति वर्तते ।
आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, पर्वते इति प्रकृति-विशेषणं ।
पर्वतवाचिनः प्रथमा-समर्थादभिजनादस्य+इति षष्ठ्यर्थे छनः प्रत्ययो भवति ।
आयुधजीविभ्यः आयुधजीव्यर्थं आयुधजीविनोऽभिधातुं प्रत्ययो भवति इत्यर्थः ।
हृद्गोलः पर्वतोऽभिजनः एषां आयुधजीविनां हृद्गोलीयाः ।
अन्धकवर्तीयाः ।
रोहितगिरीयाः ।
आयुधजीविभ्यः इति किं ? ऋक्षोदः पर्वतोऽभिजनः एशां ब्रह्मणानां आर्क्षोदा ब्राह्मणाः ।
पर्वते इति किं ? सांकाश्यका आयुधजीविनः । ।
____________________________________________________________________
- <शण्दिक-आदिभ्यो ञ्यः># । । PS_४,३.९२ । ।
_____Sठाऱ्ठ्JKव्_४,३.९२ः
शण्डिक इत्येवं आदिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सोऽस्य अभिजनः इत्येतस्मिन्विषये ।
अणादेरपवादः ।
शाण्डिक्यः ।
सार्वसेन्यः ।
शण्डिक ।
सर्वसेन ।
सर्वकेश ।
शक ।
सट ।
रक ।
शङ्ख ।
बोध ।
शण्डिकादिः । ।
____________________________________________________________________
- <सिन्धु-तक्षशिला-आदिभ्योऽण्-अञौ># । । PS_४,३.९३ । ।
_____Sठाऱ्ठ्JKव्_४,३.९३ः
आदि-शब्दः प्रत्येकं अभिसम्बध्यते ।
सिन्ध्व्-आदिभ्यः प्रातिपदिकेभ्यः तक्षशिलादिभ्यश्च यथासङ्ख्यं अण्-अञौ प्रत्ययौ भवतः सोऽस्य अभिजनः इत्येतस्मिन्विषये ।
सैन्धवः ।
वार्णवः ।
[#४२०]
सिन्धु ।
वर्णु ।
गन्धार ।
मधुमथ् ।
कम्बोज ।
कश्मीर ।
साल्व ।
किष्किन्धा ।
गदिका ।
उरस ।
दरथ् ।
ये तु कच्छादिषु पठ्यन्ते सिन्धु-वर्णु-प्रभृतयः, तेभ्यस्तत एव अणि सिद्धे मनुष्यवुञो बाधनार्थं वचनं ।
तक्षशिलादिभ्यः खल्वपि - ताक्षशिलः ।
वात्सोद्धरणः ।
तक्षशिला ।
वत्सोद्धरण ।
क्ॐएदुर ।
कण्डवारण ।
ग्रामणी ।
सरालक ।
कंस ।
किन्नर ।
संकुचित ।
सिंहकोष्ठ ।
कर्णकोष्ठ ।
बर्बर ।
अवसान । ।
____________________________________________________________________
- <तूदी-शलातुर-वर्मती-कूचवाराड्ठक्-छण्-ढञ्-यकः># । । PS_४,३.९४ । ।
_____Sठाऱ्ठ्JKव्_४,३.९४ः
तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक्छण्ढञ्यकित्येते प्रत्यया भवन्ति सोऽस्य अभिजनः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
तौदेयः ।
शालातुरियः ।
वार्मतेयः ।
कौचवार्यः । ।
____________________________________________________________________
- <भक्तिः># । । PS_४,३.९५ । ।
_____Sठाऱ्ठ्JKव्_४,३.९५ः
समर्थ-विभक्तिः प्रत्ययार्थश्च अनुवर्तते ।
अभिजन इति निवृत्तं ।
स इति प्रथमा-समर्थातस्य इति षष्ठ्य्-अर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमा-समर्थं भक्तिश्चेद्तद्भवति ।
भज्यते सेव्यते इति भक्तिः ।
स्रुघ्नो भक्तिरस्य स्रौघ्नः ।
माथुरः ।
राष्ट्रियः । ।
____________________________________________________________________
- <अचित्ताददेश-कालाट्ठक्># । । PS_४,३.९६ । ।
_____Sठाऱ्ठ्JKव्_४,३.९६ः
देश-काल-व्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट्ठक्प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन्विषये ।
अणोऽपवादः ।
वृद्धाच्छं परत्वाद्बाधते ।
अपूपो भक्तिरस्य आपूपिकः ।
पायसिकः ।
शाष्कुलिकः ।
अचित्तादिति किं ? दैवदत्तः ।
अदेशादिति किं ? स्रौघ्नः ।
अकालातिति किं ? ग्रैष्मः । ।
____________________________________________________________________
- <महाराजाट्ठञ्># । । PS_४,३.९७ । ।
_____Sठाऱ्ठ्JKव्_४,३.९७ः
महाराज-शब्दात्ठज्प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
महाराजो भक्तिरस्य माहाराजिकः ।
प्रत्ययान्तरकरणं स्वरार्थं । ।
____________________________________________________________________
[#४२१]
- <वासुदेव-अर्जुनाभ्यां वुन्># । । PS_४,३.९८ । ।
_____Sठाऱ्ठ्JKव्_४,३.९८ः
वासुदेव-अर्जुन-शब्दाभ्यां वुन्प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन्विषये ।
छाणोरपवादः ।
वासुदेवो भक्तिरस्य वासुदेवकः ।
अर्जुनकः ।
ननु च वासुदेव-शब्दाद्गोत्र-क्षत्रिय-आख्येभ्यः इति वुञस्त्येव, न च अत्र वुन्-वुञोर्विशेषो विद्यते, किमर्थं वासुदेव-ग्रहणं ? सञ्ज्ञैषा देवता-विशेषस्य न क्षत्रियाख्या ।
अल्प-अच्तर (*२,२.३४), अजाद्य्-अदन्तं (*२,२.३३) इति च अर्जुन-शब्दस्य पूर्व-निपातं अकुर्वन्ज्ञापयति अभ्यर्हितं पूर्वं निपतति इति । ।
____________________________________________________________________
- <गोत्र-क्षत्रिय-आख्येभ्यो बहुलं वुञ्># । । PS_४,३.९९ । ।
_____Sठाऱ्ठ्JKव्_४,३.९९ः
गोत्र-आख्येभ्यः क्षत्रिय-आख्येभ्यश्च प्रातिपदिकेभ्यः बहुलं वुञ्प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
वृद्धाच्छां परत्वाद्बाधते ।
ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः ।
औपगवकः ।
कापटवकः ।
क्षत्रिय-आख्येभ्यः - नाकुलकः ।
साहदेवकः ।
साम्बकः ।
आख्या-ग्रहणं प्रसिद्ध-क्षत्रिय-शब्द-परिग्रह-अर्थं, यथाकथंचित्क्षत्रिय-वृत्तिभ्यो मा भूथ् ।
बहुल-ग्रहणात्क्वचिदप्रवृत्तिरेव ।
पाणिनो भक्तिरस्य पाणिनीयः ।
पौरवीयः । ।
____________________________________________________________________
- <जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने># । । PS_४,३.१०० । ।
_____Sठाऱ्ठ्JKव्_४,३.१००ः
जनपदिनो ये बहुवचने जनपदेन समानशब्दास्तेषां जनपदवत्सर्वं भवति, प्रत्ययः प्रकृतिश्च सोऽस्य भक्तिः इत्येतस्मिन्विषये ।
जनपदतदवध्योश्च इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते ।
जनपदिनो जनपदस्वामिनः क्षत्रियाः ।
अङ्गा जनपदो भक्तिरस्य आङ्गकः ।
वाङ्गकः ।
सौह्मकः ।
पौण्ड्रकः ।
तद्वतङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः ।
वाङ्गकः ।
सौह्मकः ।
पौण्ड्रकः ।
जनपदिनां इति किं ? पञ्चालाः ब्राह्मणा भक्तिरस्य पाज्चालः ।
सर्व-ग्रहणं प्रकृत्य्-अतिदेश-अर्थं, स च द्व्येकयोः प्रयोजयति, वृद्धि-निमित्तेषु च वुञादिषु विशेषो न अस्ति इति ।
मद्रवृज्योः कनि विशेषः ।
मद्रस्यापत्यं, द्व्यञ्-मगध-कलिङ्ग-सूरमसादण्(*४,१.१७०), माद्रः ।
वृजि-शब्दादपि, वृद्ध-इत्-कोसल-अजादाञ्ञ्यङ्(*४,१.१७१), वार्ज्यः ।
स भक्तिरस्य इति प्रकृतिनिर्ह्रासे कृते, मद्रकः ।
वृजिकः ।
जनपदेन समानशब्दानां इति किं ? अनुष्ण्डो जनपदः पौरवो राजा, स भक्तिरस्य, पौरवीयः ।
बहुवचन-ग्रहणं समानशब्दताविषयलक्षणार्थं ।
अन्यथा हि यत्र+एव समानशब्दता तत्र+एव अतिदेशः स्यात्, एकवचन्-अद्विवचनयोर्न स्यात्, वाङ्गो वङ्गौ वा भक्तिरस्य इति ।
बहुवचने तु, बहुवचने समानशब्दानां एकवचन-द्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति ।
वाङ्गः वाङ्गौ वा भक्तिरस्य वाङ्गक । ।
____________________________________________________________________
[#४२२]
- <तेन प्रोक्तम्># । । PS_४,३.१०१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०१ः
तेन इति तृतीया-समर्थात्प्रोक्तं इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
प्रकर्षेण+उक्तं प्रोक्तं इत्युच्यते, न तु कृतम्, कृते ग्रन्थे (*४,३.११६) इत्यनेन गतार्थत्वाथ् ।
अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः ।
पाणिनीयं ।
आपिशलं ।
काशकृत्स्नं । ।
____________________________________________________________________
- <तित्तिरि-वरतन्तु-खण्डिक-उखाच्छण्># । । PS_४,३.१०२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०२ः
तित्तिर्यादिभ्यः शब्देभ्यः छण्प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
अणोऽपवादः ।
तित्तिरिणा प्रोक्तं अधीयते तैत्तिरीयाः ।
वारतन्तवीयाः ।
खाण्दिकीयाः ।
औखीयाः ।
छन्दसि च अयं इष्यते ।
तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र न भवति ।
शौनकादिभ्यश्छन्दसि (*४,३.१०६) इत्यत्र अस्य अनुवृत्तेः छन्दोऽधिकार-विहितानां च तद्विषयता इष्यते । ।
____________________________________________________________________
- <काश्यप-कौशिकाभ्यां ऋषिभ्यां णिनिः># । । PS_४,३.१०३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०३ः
काश्यप-कौशिकाभ्यां ऋषिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
छस्य अपवादः ।
णकार उत्तरत्र वृद्ध्य्-अर्थः ।
कल्पस्ताभ्यां प्रोक्तः इति स्मर्यते ।
तस्य अपि तद्विषयता भवत्येव ।
शौनकादिभ्यश्छन्दसि (*४,३.१०६) इत्यत्र अनुवृत्तेः छन्दोऽधिकार-विहितानां च तत्र तद्विषयता इष्यते ।
काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः ।
कौशिकिनः ।
ऋषिभ्यां इति किं ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयं । ।
____________________________________________________________________
- <कलापि-वैशम्पायन-अन्तेवासिभ्यश्च># । । PS_४,३.१०४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०४ः
कलाप्यन्तेवासिनां वैशम्पायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
अणोऽपवादः ।
छं तु परत्वाद्बाधते ।
तत्र कलाप्यन्तेवासिनश्चत्वारः - हरिद्रुः, छगली, तुम्बुरुः, उलपः इति ।
वैशम्पायनान्तेवसिनः नव - आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति ।
प्रत्यक्ष-कारिणो गृह्यन्ते न तु व्यवहिताः शैष्यशिष्याः ।
कुतः ? कलापिखाण्डायन-ग्रहणाथ् ।
तथा हि वैशम्पायनान्तेवासी कलापी, तदन्तेवासिनो वैशम्पायनान्तेवासिन एव भवन्ति, किं कलापि-ग्रहणेन ? तथा वैशम्पायनान्तेवासी कठस्तदन्तेवासी खाण्डायनः, तस्य किं शौनकादिसु पाठेन ? तदेतत्प्रत्यक्षकारि-ग्रहणस्य लिङ्गं ।
कलाप्यनतेवासिभ्यः तावत्- हरिद्रुणा प्रोक्तं अधीयते हारिद्रविणः ।
त्ॐबुरविणः ।
औलपिनः ।
छङ्गलिनः ढिनुकं वक्ष्यति ।
वैशम्पायनान्तेवासिभ्यः - आलम्बिनः ।
पालङ्गिनः ।
कामलिनः ।
आर्चाभिनः ।
आरुणिनः ।
ताण्डिनः ।
श्यामायनिनः ।
कठाल्लुकं वक्ष्यति, कलापिनश्चाणं ।
[#४२३]
हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू ।
उलपेन चतुर्थेन कालापकं इह+उच्यते । ।
आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ ।
ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे । ।
श्यामायन उदिच्येषु उक्तः कठकलापिनोः ।
चरकः इति वैशम्पायनस्याख्या, तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरकाः इत्युच्यन्ते । ।
____________________________________________________________________
- <पुराण-प्रोक्तेषु ब्राह्मण-कल्पेषु># । । PS_४,३.१०५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०५ः
प्रत्ययार्थ-विशेषणं एतथ् ।
तृतीया-समर्थात्प्रोक्ते णिनिः प्रत्ययो भवति यत्प्रोक्तं पुराण-प्रोक्ताश्चेद्ब्राह्मण-कल्पास्ते भवन्ति ।
पुराणेन चिरन्तनेन मुनिना प्रोक्ताः ।
ब्राह्मणेषु तावत्- भाल्लविनः ।
शाट्यायनिनः ।
ऐतरेयिणः ।
कल्पेषु - पैङ्गी कल्पः ।
आरुणपराजी ।
पुराण-प्रोक्तेषु इति किं ? याज्ञवल्कानि ब्राह्मणानि ।
आश्मरथः कल्पः याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता ।
तथा व्यवहरति सूत्रकारः ।
तद्विषयता कस्मान्न भवति ? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः ।
अयं तु याज्ञवल्क्य-शब्दस्य कण्वादिषु पाठादण् ।
न वाऽयं योगश्छन्दोऽधिकारं अनुवर्तयति, तेन कल्पेष्वपि न भवति ।
पुराण इति निपातनात्तुडभावः ।
न वा+अत्यन्तबाधैव, तेन पुरातनं इत्यपि भवति । ।
____________________________________________________________________
- <शौनक-आदिभ्यश्छन्दसि># । । PS_४,३.१०६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०६ः
शौनक इत्येवं आदिभ्यः णिनिः प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये छन्दस्यभिधेये ।
छाणोरपवादः ।
शौनकेन प्रोक्तं अधीयते शौनकिनः ।
वाजसनेयिनः ।
छन्दसि इति किं ? शौनकीया शिक्षा ।
कठशाठ इत्यत्र पठ्यते तत्संहतार्थं, केवलाद्धि लुकं वक्ष्यति ।
कटशाठाभ्यां प्रोक्तं अधीयते काठशाठिनः ।
शौनक ।
वाजसनेय ।
साङ्गरव ।
शाअर्ङ्गरव ।
साम्पेय ।
शाखेय ।
खाण्डायन ।
स्कन्ध ।
स्कन्द ।
देवदत्तशठ ।
रज्जुकण्ठ ।
रज्जुभार ।
कठशाठ ।
कशाय ।
तलवकार ।
पुरुषांसक ।
अश्वपेय ।
शौनकादिः । ।
____________________________________________________________________
[#४२४]
- <कठ-चरकाल्लुक्># । । PS_४,३.१०७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०७ः
कठ-चरक-शब्दाभ्यां परस्यप्रोक्त-प्रत्ययस्य लुग्भवति ।
कठ-शब्दाद्वैशम्पायन-अन्त्तेवासिभ्यः इति णिनेः, चरक-शब्दादप्यणः ।
कठेन प्रोक्तं अधीयते कठाः ।
चरकाः ।
छन्दसि इत्येव ।
काठाः ।
चारकाः । ।
____________________________________________________________________
- <कलापिनोऽण्># । । PS_४,३.१०८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०८ः
कलापि-शब्दादण्प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
वैशम्पायनान्तेवासित्वाण्णिनेरपवादः ।
कलापिना प्रोक्तं अधीयते कालापाः ।
इनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि. लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणां उपसङ्ख्यानं ।
इति टिलोपः ।
अथाण्-ग्रहणं किम्, यथाप्राप्तं इत्येव सिद्धं ? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवं आदि सिद्धं । ।
____________________________________________________________________
- <छगलिनो ढिनुक्># । । PS_४,३.१०९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१०९ः
छङ्गलिन्-शब्दात्ढिनुक्प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
कलाप्यन्तेवासित्वाण्णिनेरपवादः ।
छङ्गलिना प्रोक्तं अधीयते छागलेयिनः । ।
____________________________________________________________________
- <पाराशर्य-शिलालिभ्यां भिक्षु-नटसूत्रयोः># । । PS_४,३.११० । ।
_____Sठाऱ्ठ्JKव्_४,३.११०ः
णिनिरिह अनुवर्तते, न ढिनुक् ।
पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये ।
भिक्षु-नटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थ-विशेषणं ।
सूत्र-शब्दः प्रत्येकं अभिसम्बध्यते ।
तद्विषयता चात्रेष्यते, तदर्थें छन्दो-ग्रहणं अनुवर्त्यं, गुणकल्पनया च भिक्षु-नटसूत्रयोः छन्दस्त्वं ।
पाराशर्येण प्रोक्तं अधीयते पराशरिणो भिक्षवः ।
शैलालिनो नटाः ।
भिक्षुनटसूत्रयोः इति किं ? पाराशरं ।
शैलालं । ।
____________________________________________________________________
- <कर्मन्द-कृशाश्वादिनिः># । । PS_४,३.१११ । ।
_____Sठाऱ्ठ्JKव्_४,३.१११ः
भिक्षु-नटसूत्रयोः इत्येव ।
कर्मन्द-कृशाश्व-शब्दाभ्यां इनिः प्रत्ययो भवति तेन प्रोक्तं इत्येतस्मिन्विषये यथासङ्ख्यं भिक्षु-नटसूत्रयोरभिधेययोः ।
अणोऽपवादः ।
अत्र अपि तद्विषयतार्थं छन्दो-ग्रहणं अनुवर्त्यं ।
कर्मन्देन प्रोक्तं अधीयते कर्मन्दिनो भिक्षवः ।
कृशाश्विनो नटाः ।
भिक्षु-नटसूत्रयोः इत्येव, कार्मन्दं ।
कार्शाश्वं । ।
____________________________________________________________________
[#४२५]
- <तेन+एकदिक्># । । PS_४,३.११२ । ।
_____Sठाऱ्ठ्JKव्_४,३.११२ः
तेन इति तृतीया-समर्थादेकदिकित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति ।
एकदिक्तुल्यदिक्समानदिकित्यर्थः ।
सुदाम्ना एकदिक्सौदामनी विद्युथ् ।
हैमवती ।
त्रैककुदि ।
पैलुमूली ।
तेन इति प्रकृते पुनः समर्थविभक्ति-ग्रहणं छन्दोऽधिकारनिवृत्त्य्-अर्थं ।
पूर्वत्र हि छन्दोऽधिकारात्तद्विषयता साध्यते । ।
____________________________________________________________________
- <तसिश्च># । । PS_४,३.११३ । ।
_____Sठाऱ्ठ्JKव्_४,३.११३ः
तसिश्च प्रत्ययो भवति तेन+एकदिकित्येतस्मिन्विषये ।
पूर्वेण्घादिसु अणादिषु च प्राप्तेषु अयं अपरः प्रत्ययो विधीयते ।
स्वरादि-पाठादव्ययत्वं ।
सुदामतः ।
हिमवत्तः ।
पिलुमूलतः । ।
____________________________________________________________________
- <उरसो यच्च># । । PS_४,३.११४ । ।
_____Sठाऱ्ठ्JKव्_४,३.११४ः
उरस्-शब्दात्यत्प्रत्ययो भवति, चकारात्तसिश्च, तेन एकदिकित्येतस्मिन्विषये ।
अणोऽपवादः ।
उरसा एकदिगुरस्यः, उरस्तः । ।
____________________________________________________________________
- <उपज्ञाते># । । PS_४,३.११५ । ।
_____Sठाऱ्ठ्JKव्_४,३.११५ः
तेन इत्येव ।
तृतीया-समर्थातुपज्ञाते इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति ।
विना उपदेशेन ज्ञातमौपज्ञातं, स्वयं अभिसम्बद्धं इत्यर्थः ।
पाणिनिना उपज्ञातं पाणिनीयं अकालकं व्याकरणं ।
काशकृत्स्नं गुरुलाघवं ।
आपिशलं दुष्करणं । ।
____________________________________________________________________
- <कृते ग्रन्थे># । । PS_४,३.११६ । ।
_____Sठाऱ्ठ्JKव्_४,३.११६ः
तेन इत्येव ।
तृतीया-समर्थात्कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तत्कृतं ग्रन्थश्चेत्स भवति ।
वररुचिना कृताः वाररुचाः श्लोकाः ।
हैकुपादो ग्रन्थः ।
भैकुराटो ग्रन्थः ।
जालूकः ।
ग्रन्थे इति किं ? तक्षकृतः प्रासादः ।
उत्पादितं कृतं, विद्यामानां एव ज्ञातं औपज्ञातं इत्ययं अनयोर्विशेषः । ।
____________________________________________________________________
- <सञ्ज्ञायाम्># । । PS_४,३.११७ । ।
_____Sठाऱ्ठ्JKव्_४,३.११७ः
तृतीया-समर्थात्कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत्सञ्ज्ञा ज्ञायते ।
मक्षिकाभि कृतं माक्षिकं ।
कार्मुकं ।
सारघं ।
पौत्तिकं ।
मधुनः सञ्ज्ञाः एताः । ।
____________________________________________________________________
[#४२६]
- <कुलाल-आदिभ्यो वुञ्># । । PS_४,३.११८ । ।
_____Sठाऱ्ठ्JKव्_४,३.११८ः
तेन, कृते, सञ्ज्ञायां इति च+एतत्सर्वं अनुवर्तते ।
कुलालादिभ्यः वुञ्प्रत्ययो भवति तेन कृतं इत्येतस्मिन्नर्थे सञ्ज्ञायां गम्यमानायां ।
कौलालकं ।
वारुडकं ।
कुलाल ।
वरुद ।
चण्डाल ।
निषाद ।
कर्मार ।
सेना ।
सिरघ्र ।
सेन्द्रिय ।
देवराज ।
परिषथ् ।
वधू ।
रुरु ।
ध्रुव ।
रुद्र ।
अनडुः ।
ब्रह्मन् ।
कुम्भकार ।
श्वपाक ।
कुलालादिः । ।
____________________________________________________________________
- <क्षुद्रा-भ्रमर-वटर-पादपादञ्># । । PS_४,३.११९ । ।
_____Sठाऱ्ठ्JKव्_४,३.११९ः
तेन, कृते, सञ्ज्ञायां इति सर्वं अनुवर्तते ।
क्षुद्रादिभ्यः अञ्प्रत्ययो भवति तेन कृते इत्येतस्मिन्विषये सञ्ज्ञायां गम्यमानायां ।
अणोऽपवादः ।
स्वरे विशेषः ।
क्षुद्रादिभिः कृतं क्षौद्रं ।
भ्रामरं ।
वाटरं ।
पादपं । ।
____________________________________________________________________
- <तस्य+इदम्># । । PS_४,३.१२० । ।
_____Sठाऱ्ठ्JKव्_४,३.१२०ः
तस्य इति षष्ठी-समर्थादिदं इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति ।
अणादयः पञ्च महोत्सर्गाः ।
घादयश्च प्रत्यया यथाविहितं विधीयन्ते ।
प्रकृतिप्रत्यय-अर्थयोः षष्ठ्य्-अर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्ग-सङ्ख्या-प्रत्यक्ष-परोक्षादिकं तत्सर्वं अविवक्षितं ।
उपगोरिदं औपगवं ।
कापटवं ।
राष्ट्रियं ।
अवारपारीणं ।
अनन्तरादिष्वनभिधानान्न भवति, देवदत्तस्य अनन्तरं इति ।
संवहेस्तुरणिट्च ।
संवोढुः स्वं सांवहित्रं ।
सिद्धः एवात्राण्, इडर्थं उपसङ्ख्यानं ।
आग्नीधः शरणे रण्भं च ।
आग्नीध्रं ।
समिधामाधाने षेण्यण् ।
सामिधेन्यो मन्त्रः ।
सामिधेनी ऋक् । ।
____________________________________________________________________
- <रथाद्यत्># । । PS_४,३.१२१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२१ः
रथ-शब्दात्यत्प्रत्ययो भवति तस्य+इदं इत्येतस्म्न्विषये ।
अणोऽपवादः ।
रथस्य इदं रथ्यं, चक्रं वा युगं वा ।
रथाङ्ग एव+इष्यते, न अन्यत्र अनभिधानाथ् ।
रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते ।
परमरथ्यं ।
उत्तमरथ्यं । ।
____________________________________________________________________
[#४२७]
- <पत्रपूर्वा दञ्># । । PS_४,३.१२२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२२ः
पतन्ति तेन इति पत्रं अश्वादिकं वाहनं उच्यते ।
तत्पूर्वाद्रथ-शब्दातञ्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
पूर्वस्य यतोऽपवादः ।
आश्वरथं चक्रं ।
औष्ट्ररथं ।
गार्दभरथं । ।
____________________________________________________________________
- <पत्र-अध्वर्यु-परिषदश्च># । । PS_४,३.१२३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२३ः
पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्यु-परिषच्-छब्दाभ्यां च अञ्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
अणोऽपवादः ।
पत्राद्वाह्ये ।
अश्वस्य इदं वहनीयं आश्वं ।
औष्ट्रं ।
गार्दभं ।
आध्वर्यवं ।
पारिषदं । ।
____________________________________________________________________
- <हल-सीराट्ठक्># । । PS_४,३.१२४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२४ः
हल-सीर-शब्दाभ्यां ठक्प्रत्ययो भवति तस्य+इदं इत्यस्मिन्विषये ।
अणोऽपवादः ।
हलस्य इदं हालिकं ।
सैरिकं । ।
____________________________________________________________________
- <द्वन्द्वाद्वुन्वैर-मैथुनिकयोः># । । PS_४,३.१२५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२५ः
द्वन्द्व-सञ्ज्ञाकात्वुन्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये, वैर-मैथुनिकयोः प्रत्ययार्थ-विशषणयोः ।
अणोऽपवादः ।
छं तु परत्वाद्बाधते ।
वैरे तवत्- बाभ्रव्यशालङ्कायनिका ।
काकोलूकिका ।
मैथुनिकायां - अत्रिभरद्वाजिका ।
कुत्सकुशिकिका ।
विवहनमैथुनिका ।
वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः ।
वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः ।
दैवासुरं ।
राक्षोऽसुरं वैरं । ।
____________________________________________________________________
- <गोत्र-चरणाद्वुञ्># । । PS_४,३.१२६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२६ः
गोत्र-वाचिभ्यः चरण-वाचिभ्यः च प्रातिपदिकेभ्यो वुञ्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये अणोऽपवादः ।
छं तु प्रत्वाद्बाधते ।
गोत्रात्तावद्- ग्लौचुकायनकं ।
औपगवकं ।
चरणाद्धर्माम्नाययोरिष्यते ।
काठकं ।
कालापकं ।
मौदकं ।
पैप्पलादकं । ।
____________________________________________________________________
[#४२८]
- <सङ्घ-अङ्क-लक्षणेष्वञ्-यञ्-इञां अण्># । । PS_४,३.१२७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२७ः
सङ्घ-आदिषु प्रतयार्थ-विशेषणेषु अञनताद्, यञन्ताद्, इञन्ताच्च प्रातिपदिकादण्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
पूर्वस्य वुञोऽपवादः ।
घोष-ग्रहणं अत्र कर्तव्यं ।
तेन वैषम्याद्यथासङ्ख्यं न भवति ।
अञनतात्बैदः सङ्घः ।
बैदाऽङ्कः ।
बैदं लक्षणं ।
बैदो घोषः ।
यञन्तात्गार्गः सङ्घः ।
गार्गोऽङ्कः ।
गार्गं लक्षणं ।
गार्गो घोषः ।
इञन्तात्दाक्षः सङ्घः ।
दाक्षोऽङकः ।
दाक्षं लक्षणं ।
दाक्षो घोषः ।
अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यभूतस्य+एव चिह्नभूतं स्वं यथा विद्या बिदानाम्, अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति ।
णित्करणं ङीबर्थं पुंवद्भाव-प्रतिषेध-अर्थं च ।
वैदी विद्या अस्य वैदीविद्यः । ।
____________________________________________________________________
- <शाकलाद्वा># । । PS_४,३.१२८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२८ः
शाकल-शब्दात्सङ्घादिषु प्रत्ययार्थ-विशेषनेषु वा अण्-प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
वुञोऽपवादः ।
शाकलेन प्रोक्तं अधीयते शाकलाः ।
तेषां सङ्घः शाकलः, शाकलकः ।
शाकलोऽङ्कः, शाकलकोऽङ्कः ।
शाकलं लक्षणम्, शाकलकं लक्षणं ।
शाकलो घोषः, शाकलको घोषः । ।
____________________________________________________________________
- <छन्दोग-औक्थिक-याज्ञिक-बह्वृच-नटाज्ञ्यः># । । PS_४,३.१२९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१२९ः
सङ्घादयो निवृत्ताः, सामान्येन विवानं ।
छन्दोग-आदिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
वुञणोरपवादः ।
चरणाद्धर्माम्नाययोः, तत्साहचर्यान्नटशब्दादपि धर्माम्नाययोरेव भवति ।
छन्दोगानां धर्मो वा आम्नायो वा छन्दोग्यं ।
औक्थिक्यं ।
याज्ञिक्यं ।
बाह्वृच्यं ।
नाट्यं ।
अन्यत्र छान्दोगं कुलं इत्यादिः । ।
____________________________________________________________________
- <न दण्डमाणव-अन्तेवासिषु># । । PS_४,३.१३० । ।
_____Sठाऱ्ठ्JKव्_४,३.१३०ः
दण्ड-प्रधाना मानवाः दण्ड-माणवाः, अन्तेवासिनः शिष्याः ।
तेष्वभिधेयेषु वुञ्प्रत्ययो न भवति ।
गोत्र-ग्रहणं इह अनुवर्तते, तेन वुञ्-प्रतिषेधो विज्ञायते ।
गौकक्षाः दण्डमाणवाः अन्तेवासिनो वा ।
दाक्षाः ।
माहकाः । ।
____________________________________________________________________
- <रैवतिक-आदिभ्यश्छः># । । PS_४,३.१३१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३१ः
दैवतिक-आदिभ्यः छः प्रतयो भवति तस्य+इदं इत्येतस्मिन्विषये ।
गोत्र-प्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छ-विधान-अर्थं वचनं ।
रैवतिकीयः ।
स्वपिशीयः ।
रैवतिक ।
स्वापिशि ।
क्षैमवृद्धि ।
गौरग्रीवि ।
औदमेयि ।
औदवाहि ।
बैजवापि । ।
____________________________________________________________________
[#४२९]
- <कौपिञ्जल-हासितपदादण्># । । PS_४,३.१३२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३२ः
कौपिञ्जल-हास्तिपद-शब्दाभ्यं अण्प्रत्ययो भवति तस्य+इदं इत्येतस्मिन्विषये ।
गोत्र-वुञोऽपवादः, गोत्र-अधिकाराथ् ।
कौपिञ्जलः ।
हास्तिपदः । ।
____________________________________________________________________
- <आथर्वणिकस्य+इक-लोपश्च># । । PS_४,३.१३३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३३ः
अणित्येव ।
आथर्वणिक-शब्दादण्प्रत्ययो भवति, तत्संनिहोगेन च इक-लोपः, तस्य+इदं इत्येतस्मिन्विषये ।
चरनवुञोऽपवादः ।
आथर्वणिकस्यायं आथर्वणो धर्मः आम्नायो वा ।
चरणाद्धर्माम्नाययोः । ।
____________________________________________________________________
- <तस्य विकारः># । । PS_४,३.१३४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३४ः
तस्य इति षष्ठी-समर्थाद्विकारः इत्येतस्मिन्विषये यथाविहितं प्रत्ययो भवति ।
प्रकृतेरवस्थान्तरं विकारः ।
किं इह+उदाहरणं ? अप्राण्याद्य्-उदात्तं अवृद्धं, यस्य च न अन्यत्प्रतिपदं विधानं ।
अश्मनो विकारः आश्मनः, आश्मः ।
अश्मनो विकारे ।
इति टिलोपः पाक्षिकः ।
भास्मनः ।
मार्त्तिकः ।
नित्स्वरेणाद्युदात्ता एते ।
तस्य प्रकरणे तस्य इति पुनर्वचनं शैषिक-निवृत्त्य्-अर्थं ।
विकारावयवयोर्धादयो न भवन्ति ।
हालः ।
सैरः । ।
____________________________________________________________________
- <अवयवे च प्राण्य्-ओषधि-वृक्षेभ्यः># । । PS_४,३.१३५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३५ः
प्राण्-योषधि-वृक्ष-वाचिभ्यः शब्देभ्यः षष्ठी-समर्थेभ्यः अवयवे यथाविहितं प्रत्ययो भवति, चकाराद्विकारे च ।
तत्र प्राणिभ्यः अञं वक्ष्यति ।
कपोतस्य विकारो अवयवो वा कापोतः ।
मायूरः ।
तैत्तिरः ।
ओषधिभ्यः -- मौर्वं काण्डं ।
मौर्वं भस्म ।
वृक्षेभ्यः -- कारीरं काण्डं ।
कारीरं भस्म ।
इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यः विकारावयवयोः भवन्ति ।
अन्येभ्यस्तु विकारमात्रे ।
कथं द्वयं अप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्य्-ओषधि-वृक्षेभ्यः इति ? विकारावयवयोर्युगपदधिकारोऽपवाद ।
विधान-अर्थः ।
कृत-निर्देशौ हि तौ । ।
____________________________________________________________________
- <बिल्व-आदिभ्योऽण्># । । PS_४,३.१३६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३६ः
बिल्व इत्येवं आदिभ्योऽण्प्रत्ययो भवति विकार-अवयवयोरर्थयोः ।
यथायोगं अञ्मयटोरपवादः ।
बिल्वस्य विकारोऽवयवो वा बैल्वः ।
गवेधुका-शब्दोऽत्र पठ्यते, ततः कोपधातेव सिद्धे मयड्बाधनार्थं ग्रहणं ।
विल्व ।
व्रीहि ।
काण्ड ।
मुदङ् ।
मसूर ।
गोधूम ।
इक्षु ।
वेणु ।
गवेधुका ।
कर्पासी ।
पाटली ।
कर्कन्धू ।
कुटीर ।
बिल्वादिः । ।
____________________________________________________________________
[#४३०]
- <क-उपाधाच्च># । । PS_४,३.१३७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३७ः
क-कार-उपधात्प्रातिपदिकादण्प्रत्ययो भवति यथायोगं विकार-अवयवयोरर्थयोः ।
अञोऽपवादः ।
तर्कु - तार्कवं ।
तित्तिडीक-तैत्तिडीकं ।
माण्डूकं ।
दार्दुरूकं ।
माधूकं । ।
____________________________________________________________________
- <त्रपु-जतुनोः षुक्># । । PS_४,३.१३८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३८ः
त्रपु-जतु-शब्दाभ्यां अण्प्रत्ययो भवति विकरे, तत्सन्नियोगेन तयोः षुगागमो भवति ।
ओरञोऽपवादः ।
त्रपुणो विकारः त्रापुषं ।
जातुषं ।
अप्राण्यादित्वान्न अवयवे । ।
____________________________________________________________________
- <ओरञ्># । । PS_४,३.१३९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१३९ः
उ-वर्णान्तात्प्रातिपदिकातञ्प्रतयो भवति विकार-अवयवयोरर्थयोः ।
अणोऽपवादः ।
अनुदात्तादेरन्यदिहोदाहरणं ।
दैवदारं ।
भाद्रदारवं । ।
____________________________________________________________________
- <अनुदात्त-आदेश्च># । । PS_४,३.१४० । ।
_____Sठाऱ्ठ्JKव्_४,३.१४०ः
अनुदात्तादेः प्रातिपदिकातञ्प्रत्ययो भवति विकार-अवयवयोरर्थयोः ।
अणोऽपवादः ।
दाधित्थं ।
कापित्थं ।
माहित्थं । ।
____________________________________________________________________
- <पलाश-आदिभ्यो वा># । । PS_४,३.१४१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४१ः
पलाश-आदिभ्यः प्रातिपदिकेभ्यः वा अञ्प्रत्ययो भवति विकार-अवयवयोरर्थयोः ।
पालाशं ।
खादिरं ।
यवासं ।
उभयत्र विभाषेयं ।
पलाशखदिरशिंशिपास्पन्दनानां अनुदत्तादित्वात्प्राप्ते अन्येषां अप्राप्ते ।
पलाश ।
खदिर ।
शिंशिपा ।
स्पन्दन ।
करीर ।
शिरीष ।
यवास ।
विकङ्कत ।
पलाशादिः । ।
____________________________________________________________________
- <शम्याष्ट्लञ्># । । PS_४,३.१४२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४२ः
शमी-शब्दाट्ट्लञ्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
अञोऽपवादः ।
शामीलं भस्म ।
शामीलीस्रुक् । ।
____________________________________________________________________
[#४३१]
- <मयड्वऽ+एतयोर्भाषायां अभक्ष्य आच्छादनयोः># । । PS_४,३.१४३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४३ः
प्रकृतिमात्राद्वा मयट्प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोः विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु ।
अश्ममयम्, आश्मनं ।
मूर्वामयम्, मौर्वां ।
भाषायां इति किं ? बैल्वः खादिरो वा यूपः स्याथ् ।
अभक्ष्याच्छादनयोः इति किं ? मौद्गः सूपः ।
कार्पासमाच्छादनं ।
एतयोः इत्यनेन किं यावता विकार-अवयवौ प्रकृतावेव ? ये विशेष-प्रत्ययाः प्राणिरजतादिभ्योऽञ्(*४,३.१५४) इत्येवं आदयस्तद्विषयेऽपि यथा स्यात्, कपोतमयम्, कापोतम्, लोहमयम्, लौहं इति । ।
____________________________________________________________________
- <नित्यं वृद्ध-शर-आदिभ्यः># । । PS_४,३.१४४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४४ः
भाषायां अभक्ष्याच्छादनयोः इत्येव ।
वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्च अभक्ष्याच्छादनयोः विकारावयवयोः भाषायां विषये नित्यं मयट्प्रत्ययो भवति ।
वृद्धेभ्यस्तावत्- आम्रमयं ।
शालमयं ।
शाकमयं ।
शरादिभ्यः - शरमयं ।
दर्भमयं ।
मृन्मयं ।
नित्य-ग्रहणं किं यावता आरम्भ-सामर्थ्यादेव नित्यं भविस्यति ? एक-अचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते, त्वङ्मयम्, स्रङ्मयं , वाङ्मयं इति ।
शर ।
दर्भ ।
मृथ् ।
कुटी ।
तृण ।
सोम ।
बल्वज ।
शरादिः । ।
____________________________________________________________________
- <गोश्च पुरीषे># । । PS_४,३.१४५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४५ः
गो-शब्दात्पुरीषेऽभिधेये मयट्प्रत्ययो भवति ।
गोमयं ।
पुरीषे इति किं ? गव्यं पयः ।
पुरीषं न विकारो न च अवयवः, तस्य+इदं विषये विधानं ।
विकारावयवयोस्तु गोपयसोर्यतं वक्ष्यति । ।
____________________________________________________________________
- <पिष्टाच्च># । । PS_४,३.१४६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४६ः
पिष्ट-शब्दान्नित्यं मयट्प्रत्ययो भवति तस्य विकारः इत्येतस्मिन्विषये ।
अणोऽपवादः ।
पिष्टमयं भस्म । ।
____________________________________________________________________
- <सञ्ज्ञायां कन्># । । PS_४,३.१४७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४७ः
पिष्ट-शब्दात्कन्प्रत्ययो भवति विकारे सञ्ज्ञायां विषये ।
मयटोऽपवादः ।
पिष्टकः । ।
____________________________________________________________________
- <व्रीहेः पुरोडाशे># । । PS_४,३.१४८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४८ः
व्रीहि-शब्दान्मयट्प्रत्ययो भवति पुरोडशे विकारे ।
बिल्वाद्यणोऽपवादः ।
व्रीहिमयः पुरोडाशः ।
व्रैहं अन्यत् । ।
____________________________________________________________________
[#४३२]
- <असञ्ज्ञायां तिल-यवाभ्याम्># । । PS_४,३.१४९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१४९ः
तिल-यव-शब्दाभ्यां असञ्ज्ञाविषये मयट्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
तिलमयं ।
यवमयं ।
असञ्ज्ञायां इति किं ? तैलं ।
यावकः ।
यावादिभ्यः कन्(*५,४.२९) । ।
____________________________________________________________________
- <द्व्यचश्छन्दसि># । । PS_४,३.१५० । ।
_____Sठाऱ्ठ्JKव्_४,३.१५०ः
द्व्यचः प्रातिपदिकात्छन्दसि विषये मयट्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते ।
यस्य पर्णमयी जुहूर्भवति ।
दर्भमयं वासो भवति ।
शरमयं बहिर्भवति । ।
____________________________________________________________________
- <न+उत्त्वद्-वर्ध्र-बिल्वात्># । । PS_४,३.१५१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५१ः
उत्वतः प्रातिपदिकाद्वर्ध्र-बिल्व-शब्दाभ्यां च मयट्प्रत्ययओ न भवति ।
द्व्यचश्छन्दसि (*४,३.१५०) इति प्राप्तः प्रतिषिध्यते ।
मौञ्जं शिक्यं ।
गार्मुतं चरुं ।
वार्ध्री बालप्रग्रथिता भवति ।
बैल्वो ब्रह्मवर्चसकामेन कार्यः ।
तपरकरणं तत्कालार्थं धूममयानि अभ्राणि ।
मतुब्-निर्देशस्तदन्तविधिनिरासार्थः ।
इह+एव स्यात्वैणवी यष्टिः इति । ।
____________________________________________________________________
- <ताल-आदिभ्योऽण्># । । PS_४,३.१५२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५२ः
ताल-आदिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
मयडादीनां अपवादः ।
तालं धनुः ।
बार्हिणं ।
ऐन्द्रालिशं ।
तालाद्धनुषि ।
बार्हिण ।
इन्द्रालिश ।
इन्द्रादृश ।
इन्द्रायुध ।
चाप ।
श्यामाक ।
पीयुक्षा ।
तालादिः । ।
____________________________________________________________________
- <जातरूपेभ्यः परिमाणे># । । PS_४,३.१५३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५३ः
जातरूपं सुवर्णं ।
बहुवचन-निर्देशात्तद्वाचिनः सर्वे गृह्यन्ते ।
जातरूप-वाचिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति परिमाणे विकारे ।
मयडादीनं अपवादः ।
हाटको निष्कः ।
हाटकं कार्षापणं ।
जातरूपं ।
तापनीयं ।
परिमाणे इति किं ? यष्टिरियं हाटकमयी । ।
____________________________________________________________________
[#४३३]
- <प्राणि-रजत-आदिभ्योऽञ्># । । PS_४,३.१५४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५४ः
प्राणि-वाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश्च अञ्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
अणादिनां अपवादः ।
अनुदात्तादेः अञ्विहित एव परिशिष्टं इह+उदाहरणं ।
प्राणिभ्यस्तावत्- कापोतं ।
मायूरं ।
तैत्तिरं ।
रजतादिभ्यः - राजतं ।
सैसं ।
लौहं ।
रजतादिषु येऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थं ।
रजत ।
सीस ।
लोह ।
उदुम्बर ।
नीलदारु ।
रोहितक ।
बिभीतक ।
पीतदास ।
तीव्रदारु ।
त्रिकण्टक ।
कण्टकार ।
रजतादिः । ।
____________________________________________________________________
- <ञितश्च तत्प्रत्ययात्># । । PS_४,३.१५५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५५ः
अञित्येव ।
तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः ।
ञिद्यो विकारावयवप्रत्ययस्तदन्तात्प्रातिपदिकातञ्प्रत्ययो भवति विकारवयवयोः एव ।
मयटोऽपवादः ।
ओरञ्(*४,२.७१), शम्याष्ट्लञ्(*४,३.१४२), प्राणिरजतादिभ्योऽञ्(*४,३.१५४), उष्ट्राद्वुञ्(*४,३.१५७), एण्या ढञ्(*४,३.१५९), कंसीय-परशव्ययोर्यञ्-अञौ लुक्च (*४,३.१६८) इत्येते प्रत्ययाः गृह्यन्ते ।
दैवदारवस्य विकारोऽवयवो वा दैवदारवं ।
दाधित्थस्य दाधित्थं ।
पालाशस्य पालाशं ।
शामीलस्य शामीलं ।
कापोतस्य कापोतं ।
औष्ट्रकस्य औष्ट्रकं ।
ऐणेयस्य ऐणेयं ।
कांस्यस्य कांस्यं ।
पारशवस्य पारशवं ।
ञितः इति किं ? बैल्वमयं ।
तत्प्रत्ययातिति किं ? बैदमयं । ।
____________________________________________________________________
- <क्रीतवत्प्रैमाणात्># । । PS_४,३.१५६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५६ः
प्राग्वतेष्ठञ्(*४,१.१८) इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहिताः, ते विकारेऽतिदिश्यन्ते ।
परिमाणात्क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन्विषये ।
अणादीनां अपवादः ।
सङ्ख्या अपि परिमाण-ग्रहणेन गृह्यते, न रूढिपरिमाणं एव ।
निष्केण क्रीतं नैष्किकं ।
एवं निष्कस्य विकारो नैष्किकः ।
शतेन क्रीतं शत्यम्, शतिकं ।
शतस्य विकारः शत्यः, शतिकः ।
साहस्रः ।
वतिः सर्वसादृश्यार्थः ।
अध्यर्धपूर्वाद्द्विगोर्लुगसञ्ज्ञायां (*५,१.२८) इत्येवं आदिकं अप्यतिदिश्यते ।
द्विसहस्रः, द्विसाहस्रः ।
द्विनिष्कः, द्विनैष्किकः । ।
____________________________________________________________________
- <उष्ट्राद्वुञ्># । । PS_४,३.१५७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५७ः
उष्ट्र-शब्दाद्वुञ्प्रत्ययो विकारावयवयोरर्थ्योः ।
प्राण्यञोऽपवादः ।
उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः । ।
____________________________________________________________________
[#४३४]
- <उमा-ऊर्णयोर्वा># । । PS_४,३.१५८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५८ः
उमा-शब्दादूर्णा-शदच्च वा वुञ्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
ॐअकम्, ॐअं ।
और्णकं और्णं । ।
____________________________________________________________________
- <एण्या ढञ्># । । PS_४,३.१५९ । ।
_____Sठाऱ्ठ्JKव्_४,३.१५९ः
एणी-शब्दाद्ढञ्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
प्राण्यञोऽपवादः ।
ऐणेयं मांसं ।
पुंसस्तु अञेव भवति ।
एणस्य मांसं ऐणं । ।
____________________________________________________________________
- <गोपयसोर्यत्># । । PS_४,३.१६० । ।
_____Sठाऱ्ठ्JKव्_४,३.१६०ः
गोपयस्-शब्दाभ्यां यत्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
गव्यं ।
पयस्यं ।
सर्वत्र गोरजादि-प्रसङ्गे यदस्त्येव, मय्ड्विषये तु विधीयते । ।
____________________________________________________________________
- <द्रोश्च># । । PS_४,३.१६१ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६१ः
द्रु-शब्दाद्यत्प्रत्ययो भवति विकारावयवयोरर्थयोः ।
ओरञोऽपवादः ।
द्रव्यं । ।
____________________________________________________________________
- <माने वयः># । । PS_४,३.१६२ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६२ः
द्र-शब्दान्माने विकार-विशेषे वयः प्रत्ययो भवति ।
यतोऽपवादः ।
द्रुवयं । ।
____________________________________________________________________
- <फले लुक्># । । PS_४,३.१६३ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६३ः
विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग्भवति ।
आमलक्याः फलं आमलकं ।
कुवलं ।
वदरं ।
फलितस्य वृक्षास्य फलं अवयवो भवति विकारश्च, पल्लवितस्य+इव पल्लवः । ।
____________________________________________________________________
- <प्लक्ष-आदि-भ्योऽण्># । । PS_४,३.१६४ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६४ः
फले इत्येव ।
प्लक्ष-आदिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण्प्रत्ययो भवति ।
अञोऽपवादः ।
विधान-सामर्थ्यात्तस्य न लुग्भवति ।
प्लाक्षं ।
नैयग्रोधं ।
प्लक्ष ।
न्यग्रोध ।
अश्वत्थ ।
इङ्गुदी ।
शिग्रु ।
ककर्न्धु ।
वुहती ।
प्लक्ष-आदिः । ।
____________________________________________________________________
[#४३५]
- <जम्ब्वा वा># । । PS_४,३.१६५ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६५ः
फले इत्येव ।
जम्बू-शब्दात्फलेऽभिधेये वा अण्प्रत्ययो भवति ।
अञोऽपवादः ।
अत्र अणो विधान - समार्थ्याल्लुग्न भवति, अञस्तु भवत्येव ।
जाम्बवानि फलानि, जम्बूनि वा । ।
____________________________________________________________________
- <लुप्च># । । PS_४,३.१६६ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६६ः
वा इत्येव ।
जम्ब्वाः फलेऽभिधेये प्रत्ययस्य वा लुप्भवति ।
युक्तवद्भावे विशेषः ।
जम्ब्वाः फलं जम्बूः फलम्, जम्बु फलम्, जाम्बवं इति वा ।
लुप्-प्रकरणे पह्ल-पाकशुषां उपसङ्ख्यानं ।
व्रीहयः ।
यवाः ।
माषाः ।
मुद्गाः ।
तिलाः ।
पुष्पमूलेसु बहुलं ।
मल्लिकायाः पुष्पं मल्लिका ।
नवमल्लिका जातिः ।
बिदार्याः मूलं बिदारी ।
अंशुमती ।
बृहती ।
न च भवति ।
पाटलानि पुष्पाणि ।
शाल्वानि मूलनि ।
बहुलवचनात्क्वचिदन्यदपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति । ।
____________________________________________________________________
- <हरीतक्य्-आदिभ्य श्च># । । PS_४,३.१६७ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६७ः
हरीतकी इत्येवं आदिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब्भवति ।
लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्री-प्रत्ययश्रवणे च विशेषः ।
हरीतक्याः फलं हरीतकी ।
कोशातकी ।
नखरजनी ।
अत्र च व्यक्तिर्युक्तवद्भावेन+इष्यते, वचनं त्वभिधेयवदेव भवति ।
हरीतक्याः फलानि हरीतक्यः ।
हरीतकी ।
कोशातकी ।
नखरजनी ।
शष्कण्डी ।
दाडी ।
दोडी ।
दीडी ।
श्वेतपाकी ।
अर्जुनपाकी ।
काला ।
द्राक्षा ।
ध्वङ्क्षा ।
गर्गरिका ।
कण्टकारिका ।
शेफालिका ।
येषां च फलपाक-निमित्तः शोषः ।
पुष्पमुलेषु बहुलं ।
हरीतक्यादिः । ।
____________________________________________________________________
- <कंसीय-परशव्ययोर्यञ्-अञौ लुक्च># । । PS_४,३.१६८ । ।
_____Sठाऱ्ठ्JKव्_४,३.१६८ः
प्राक्क्रीताच्छः (*५,१.१), कंसीयः ।
उ-गव्-आदिभ्यो यत्(*५,१.२), परशव्यः ।
कंसीय-परशव्य-शब्दाभ्यां यथासङ्ख्यं यञ्-अञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन्विषये, तत्संनियोगेन च कंसीय-परशव्ययोः लुग्भवति ।
[#४३६]
कंसीयस्य विकारः कांस्यः ।
परशव्यस्य विकारः पारशवः ।
प्रातिपदिक-अधिकाराद्धातुप्रत्ययस्य न लुग्भवति ।
परशव्य-शब्दादनुदात्त-आदित्वादेव अञि सिद्धे लुग्-अर्थं वचनं ।
ननु च यस्य+इति च (*६,४.१४८) इति लोपे कृते हलस्तद्धितस्य (*६,४.१५०) इति य-लोपो भविष्यति ? ना+एअदस्ति, ईति इति तत्र वर्तते । ।
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः
______________________________________________________
[#४३७]
चतुर्थाध्यायस्य चतुर्थः पादः ।
____________________________________________________________________
- <प्राग्वहतेष्ठक्># । । PS_४,४.१ । ।
_____Sठाऱ्ठ्JKव्_४,४.१ः
तद्वहति रथ-युग-प्रासङ्गं (*४,४.७६) इति वक्ष्यति ।
प्रागेतस्माद्वहतिसंशब्दनाद्यानर्थाननुक्रममिष्यामः, ठक्प्रत्ययस्तेष्वधिकृतो वेदितव्यः ।
वक्ष्यति - तेन दीव्यति खनति जयति जितं (*४,४.२) इति ।
अक्षैर्दीव्यति आक्षिकः ।
ठक्-प्रकरणे तदाहेति माशब्दादिभ्य उपसङ्ख्यानं ।
माशब्दः इत्याह माशब्दिकः ।
नैत्यशब्दिकः कार्यशब्दिकः ।
वाक्यादेतत्प्रत्ययविधानं ।
आहौ प्रभूतादिभ्यः ।
प्रभूतं आह प्राभूतिकः ।
पार्याप्तिकः ।
क्रियाविशेषणत्प्रत्ययः ।
पृच्छतौ सुस्नातादिभ्यः ।
सुस्नतं पृच्छति सौस्नातिकः ।
सौखरात्रिकः ।
सौखशायनिकः ।
गच्छति परदारादिभ्यः ।
परदारान्गच्छति पारदारिकः ।
गौरुतल्पिकः । ।
____________________________________________________________________
- <तेन दीव्यति खनति जयति जितम्># । । PS_४,४.२ । ।
_____Sठाऱ्ठ्JKव्_४,४.२ः
तेन इति तृतीया-समर्थाद्दीव्यति खनति जयति जितं इत्येतेष्वर्थेषु ठक्प्रत्ययो भवति ।
अक्षैर्दीव्यति आक्षिकः ।
शालाकिकः ।
अभ्र्या खनति आभ्रिकः ।
कौद्दालिकः ।
अक्षैर्जयति आक्षिकः ।
अक्षैर्जितं आक्षिकं ।
शालाकिकं ।
सर्वत्र करणे तृतीया समर्थविभक्तिः ।
देवदत्तेन जितं इति प्रत्ययो न भवति, अनभिधानाथ् ।
अङ्गुल्या खनति इति च ।
प्रत्ययार्थे सङ्ख्याकालयोरविवक्षा ।
क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात्साधनप्रधानः । ।
____________________________________________________________________
[#४३८]
- <संस्कृतम्># । । PS_४,४.३ । ।
_____Sठाऱ्ठ्JKव्_४,४.३ः
तेन इति तृतीया-समर्थात्संस्कृतं इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
सत उत्कर्षाधानं संस्कारः ।
दध्ना संस्कृतं दाधिकं ।
शार्ङ्गवेरिकं ।
मारीचिकं ।
योगविभाग उत्तरार्थः । ।
____________________________________________________________________
- <कुलत्थ-क-उपधादण्># । । PS_४,४.४ । ।
_____Sठाऱ्ठ्JKव्_४,४.४ः
कुलत्थ-शब्दात्क-कारोपधात्शब्दाच्च प्रातिपदिकादण्प्रत्ययो ह्बवति संस्कृतं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
कुलत्थैः संस्कृतं कौलत्थं ।
ककारोपधात्- तैत्तिडीकं ।
दार्दभकं । ।
____________________________________________________________________
- <तरति># । । PS_४,४.५ । ।
_____Sठाऱ्ठ्JKव्_४,४.५ः
तेन इति तृतीयासमर्थात्तरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो ह्बवति ।
तरति प्लवते इत्यर्थः ।
काण्डप्लवेन तरति काण्डप्लविकः ।
औडुपिकः । ।
____________________________________________________________________
- <गोपुच्छाट्ठञ्># । । PS_४,४.६ । ।
_____Sठाऱ्ठ्JKव्_४,४.६ः
गोपुच्छ-शब्दाट्ठञ्प्रत्ययो भवति तरति इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
स्वरे विशेषः ।
गौपुच्छिकः । ।
____________________________________________________________________
- <नौ-द्व्यचष्ठन्># । । PS_४,४.७ । ।
_____Sठाऱ्ठ्JKव्_४,४.७ः
नौ-शब्दाद्द्व्यचश्च प्रातिपदिकाट्ठन्प्रत्ययो ह्बवति तरति इत्येतस्मिनर्थे ।
ठकोऽपवादः ।
नावा तरति नाविकः ।
द्व्यचः खल्वपि - घटिकः ।
प्लविकः ।
बाहुकः ।
षकारः सांहितिको नानुबन्धः ।
बाहुका स्त्री ।
आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीद-सूत्राच्च ।
आवसथात्किशरादेः षितः षडेते ठग्-अधिकारे । ।
विधिवाक्यापेक्षं च षट्त्वं, प्रत्ययास्तु सप्त । ।
____________________________________________________________________
- <परति># । । PS_४,४.८ । ।
_____Sठाऱ्ठ्JKव्_४,४.८ः
तेन इति तृतीयासमर्थाच्चरति इत्येतस्मिन्नर्थे ठक्पत्ययो भवति ।
चरतिर्भक्षणे गतौ च वर्तते ।
दध्ना चरति दधिकः ।
हास्तिकः ।
शाकटिकः । ।
____________________________________________________________________
[#४३९]
- <आकर्षात्ष्ठल्># । । PS_४,४.९ । ।
_____Sठाऱ्ठ्JKव्_४,४.९ः
आकर्ष-शब्दाद्ष्थल्प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
लकारः स्वरार्थः ।
षकारो ङीषर्थः ।
आकर्षेण चरति आकर्षिकः ।
आकर्षिकी ।
आकर्षः इति सुवर्ण-परीक्षार्थो निकषोपलः उच्यते । ।
____________________________________________________________________
- <पर्प-आदिभ्यः ष्ठन्># । । PS_४,४.१० । ।
_____Sठाऱ्ठ्JKव्_४,४.१०ः
पर्प इत्येवं आदिभ्यः ष्ठन्प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
नकारः स्वरार्थः ।
षकारो ङीषर्थः ।
पर्पिकः ।
पर्पिकी ।
अश्विकः ।
अश्विकी ।
पर्प ।
अश्व ।
अश्वत्थ ।
रथ ।
जाल ।
न्यास ।
व्याल ।
पाद ।
पञ्च ।
पदिक ।
पर्पादिः । ।
____________________________________________________________________
- <श्वगणाट्ठञ्च># । । PS_४,४.११ । ।
_____Sठाऱ्ठ्JKव्_४,४.११ः
श्वगण-शब्दात्ठञ्प्रत्ययो भवति, चकारात्ष्ठन्, चरति इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
श्वगणेन चरति श्वागणिकः ।
श्वागणिकी ।
ठन्- श्वगणिकः ।
श्वगणिका ।
श्व-आदेरिञि (*७,३.८) इत्यत्र वक्ष्यति, इकारादि-ग्रहणं च कर्तव्यं श्वागणिकाद्य्-अर्थं (*७,३.८) इति ।
तेन थत्रि द्वरादिकार्यं न भवति । ।
____________________________________________________________________
- <वेतन-आदिभ्यो जीवति># । । PS_४,४.१२ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२ः
तेन इति तृतीयासमर्थेभ्यः वेतनादिभ्यः शब्देभ्यः जीवति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
वेतनेन जीवति वैतनिकः कर्मकरः ।
धनुर्दण्डग्रहणं अत्र सङ्घातविगृहीतार्थं ।
धनुर्दण्डिकः ।
धानुष्कः ।
दाण्डिकः ।
वेतन ।
वाह ।
अर्धवाह ।
धनुर्दण्ड ।
जाल ।
वेस ।
उपवेस ।
प्रेषन ।
उपस्ति ।
सुख ।
शय्या ।
शक्ति ।
उपनिषथ् ।
उपवेष ।
स्रक् ।
पाद ।
उपस्थान ।
वेतनादिः । ।
____________________________________________________________________
- <वस्न-क्रय-विक्रयाट्ठन्># । । PS_४,४.१३ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३ः
वस्न-क्रयविक्रय-शब्दाभ्यां तृतीयासमर्थाभ्यां ठन्प्रत्ययो भवति जीवति इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
वस्नेन जीवति वस्निकः ।
क्रय-विक्रय-ग्रहणं सङ्घातविगृहीत-अर्थं ।
क्रयविक्रयीकः ।
क्रयिकः ।
विक्रयिकः । ।
____________________________________________________________________
[#४४०]
- <आयुधच्छ च># । । PS_४,४.१४ । ।
_____Sठाऱ्ठ्JKव्_४,४.१४ः
आयुध-शब्दात्छ प्रत्ययो भवति, चकाराट्ठंश्च, जीवति इत्येतस्मिन्विषये ।
आयुधेन जीर्वात आयुधीयः, आयुधिकः । ।
____________________________________________________________________
- <हरत्युत्सङ्ग-आदिभ्यः># । । PS_४,४.१५ । ।
_____Sठाऱ्ठ्JKव्_४,४.१५ः
तेन इत्येव ।
उत्सङ्गादिभ्यस्तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
हरतिर्देशान्तरप्रापणे वर्तते ।
उत्सङ्गेन हरति औत्सङ्गिकः ।
औडुपिकः ।
उत्सङ्ग ।
उडुप ।
उत्पत ।
पिटक ।
उत्सङ्गादिः । ।
____________________________________________________________________
- <भस्त्रादिभ्यः ष्ठन्># । । PS_४,४.१६ । ।
_____Sठाऱ्ठ्JKव्_४,४.१६ः
भस्त्रा इत्येवं आदिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन्प्रत्ययो भवति ।
भस्त्रया हरति भस्त्रिकः ।
भस्त्रिकी ।
भरटिकः ।
भरटिकी ।
भस्त्रा ।
भरट ।
भरण ।
शीर्षभार ।
शीर्षेभार ।
अंसभार ।
अंसेभार ।
भस्त्रादिः । ।
____________________________________________________________________
- <विभाषा विवध-वीवधात्># । । PS_४,४.१७ । ।
_____Sठाऱ्ठ्JKव्_४,४.१७ः
हरति इत्येव ।
विवध-वीवध-शब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन्प्रत्ययो भवति ।
तेन मुक्ते प्रकृतः ठग्भवति ।
विवधेन हरति विवधिकः ।
विवधिकी ।
वीवधिकः ।
विवधिकी ।
ठक्खल्वपि - वैवधिकः ।
वैवधिकी ।
विवध-वीवध-शब्दौ समानार्थौ पथि पर्याहारे च वर्तेते । ।
____________________________________________________________________
- <अण्कुटिलिकायाः># । । PS_४,४.१८ । ।
_____Sठाऱ्ठ्JKव्_४,४.१८ः
हरति इत्येव ।
कुटिलिका-शब्दात्तृतीयासमर्थादण्प्रत्ययो ह्बवति हरति इत्येतस्मिन्नर्थे ।
कुटिलिकाया हरति मृगो व्याधं कौटिलिको मृगः ।
कुटिलिकया हरत्यङ्गारात्कौटिलिकः कर्मारः ।
कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्च+उच्यते । ।
____________________________________________________________________
[#४४१]
- <निर्वृत्तेऽक्षद्यूत-आदिभ्यः># । । PS_४,४.१९ । ।
_____Sठाऱ्ठ्JKव्_४,४.१९ः
तेन इत्येव ।
अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
अक्षद्यूतेन निर्वृत्तं आक्षद्यूतिकं वैरं ।
जानुप्रहृतिकं ।
अक्षद्यूत ।
जानुप्रहृत ।
जङ्घाप्रहृत ।
पादस्वेदन ।
कण्टकमर्दन ।
गतागत ।
यातोपयात ।
अनुगत ।
अक्षद्यूतादिः । ।
____________________________________________________________________
- <त्रेर्मं नित्यम्># । । PS_४,४.२० । ।
_____Sठाऱ्ठ्JKव्_४,४.२०ः
निर्वृत्त इत्येव ।
ड्वितः क्त्रिः (*३,३.८८) इत्ययं त्रिशब्दो गृह्यते ।
त्र्यन्तान्नित्यं मप्प्रत्ययो भवति तेन विर्वृत्ते इत्येतस्मिन्नर्थे ।
डुपचष्पाके - पक्त्रिमं ।
डुवप्- उप्त्रिमं ।
डुकृञ्- कृत्रिमं ।
नित्य-ग्रहणं स्वातन्त्र्यनिवृत्त्य्-अर्थम्, तेन त्र्यन्तं नित्यं मप्-प्रत्ययान्तं एव भवति, विषयान्तरे न प्रयोक्तव्यं इति ।
भाव-प्रत्ययान्तादिं अब्वक्तव्यः ।
पाकेन निर्वृत्तं पाकिमं ।
त्यागिमं ।
सेकिमं ।
कुट्टिमं । ।
____________________________________________________________________
- <अपमित्य-याचिताभ्यां कक्कनौ># । । PS_४,४.२१ । ।
_____Sठाऱ्ठ्JKव्_४,४.२१ः
निर्वृत्त इत्येव ।
अपमित्य-याचित-शब्दाभ्यां यथासङ्ख्यं कक्कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे ।
आपमित्यकं ।
याचितकं । ।
____________________________________________________________________
- <संसृष्टे># । । PS_४,४.२२ । ।
_____Sठाऱ्ठ्JKव्_४,४.२२ः
तेन इत्येव ।
तृतीयासमर्थात्संसृष्टे इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
संसृष्टं एकीभूतं अभिन्नं इत्यर्थः ।
दध्ना संसृष्टं दाधिकं ।
मारिचिकं ।
शार्ङ्गवेरिकं ।
पैप्पलिकं । ।
____________________________________________________________________
- <चूर्णादिनिः># । । PS_४,४.२३ । ।
_____Sठाऱ्ठ्JKव्_४,४.२३ः
चूर्ण-शब्दादिनिः प्रत्ययो भवति संसृष्ते ।
ठकोऽपवादः ।
चूर्णैः संसृष्टाः चूर्णिनोऽपूपाः ।
चूर्णिनो धानाः । ।
____________________________________________________________________
[#४४२]
- <लवणाल्लुक्># । । PS_४,४.२४ । ।
_____Sठाऱ्ठ्JKव्_४,४.२४ः
संसृष्ते (*४,३.२२) इत्यनेन+उत्पन्नस्य ठको लवण-शब्दाल्लुक्भवति ।
लवणः सूपः ।
लवणं शाकं ।
लवणा यवागूः ।
द्रव्य-वाची लवण-शब्दो लुकं प्रयोजयति, न गुणवाची । ।
____________________________________________________________________
- <मुद्गादण्># । । PS_४,४.२५ । ।
_____Sठाऱ्ठ्JKव्_४,४.२५ः
मुद्ग-शब्दादण्प्रत्ययो भवति संसृष्टे इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
मौद्ग ओदनः ।
मौद्गी यवागूः । ।
____________________________________________________________________
- <व्यञ्जनैरुपसिक्ते># । । PS_४,४.२६ । ।
_____Sठाऱ्ठ्JKव्_४,४.२६ः
तेन इत्येव ।
व्यञ्जन-वाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
दध्ना उपसिक्तं दाधिकं ।
सौपिकं ।
खारिकं ।
व्यञ्जनैः इति किं ? उदकेन+उपसिक्त ओदनः । ।
____________________________________________________________________
- <ओजःसहोऽम्भसा वर्तते># । । PS_४,४.२७ । ।
_____Sठाऱ्ठ्JKव्_४,४.२७ः
ओजस्सहसम्भसित्येतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्यर्थे ठक्प्रत्ययो भवति ।
ओजसा वर्तते औजसिकः शूरः ।
साहसिकश्चौरः ।
आम्भसिको मत्स्यः । ।
____________________________________________________________________
- <तत्प्रत्य्-अनु-पूर्वं ईप-लोम-कूलम्># । । PS_४,४.२८ । ।
_____Sठाऱ्ठ्JKव्_४,४.२८ः
तदिति द्वितीयासमर्थ-विभक्तिः ।
प्रति अनु इत्येवं पूर्वेभ्यः ईप-लोम-कूल-शब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः ? क्रियाविश्षणं अकर्मकाणां अपि कर्म भवति ।
प्रतीपं वर्तते प्रातीपिकः ।
आन्वीपिकः ।
प्रातिलोमिकः ।
आनुलोमिकः ।
प्रातिकूलिकः ।
आनुकूलिकः । ।
____________________________________________________________________
- <परिमुखं च># । । PS_४,४.२९ । ।
_____Sठाऱ्ठ्JKव्_४,४.२९ः
परिमुख-शब्दाद्द्वितीयासमर्थाद्वर्तते इत्येअस्मिन्नर्थे ठक्प्रत्ययो भवति ।
परिमुखं वर्तते पारिमुखिकः ।
चकारोऽनुक्त-समुच्चयार्थः ।
पारिपार्श्विकः । ।
____________________________________________________________________
[#४४३]
- <प्रयच्छति गर्ह्यम्># । । PS_४,४.३० । ।
_____Sठाऱ्ठ्JKव्_४,४.३०ः
ततिति द्वितीयासमर्थात्प्रयच्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति, यत्तद्द्वितीयासमर्थं गर्ह्यं चेत्तद्भवति ।
द्विगुणार्थ द्विगुणं, तादर्थ्यात्ताच्छब्द्यं ।
द्विगुणं प्रयच्छति द्वैगुणिकः ।
त्रिगुणिकः ।
वृद्धेर्वृधुशिभावो वक्तव्यः ।
वार्धुषिकः ।
प्रकृत्यनतरं वा वृद्धिपर्यायो वृधुषिशब्दः ।
गर्ह्यं इति किं ? द्विगुणं प्रयच्छत्यधमर्णः । ।
____________________________________________________________________
- <कुसीद-दश-एकादशात्ष्ठन्ष्ठचौ># । । PS_४,४.३१ । ।
_____Sठाऱ्ठ्JKव्_४,४.३१ः
प्रयच्छति गर्ह्यं इत्येव ।
कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसिदं ।
एकादशार्था दश दशैकादशशब्देन+उच्यन्ते ।
कुसीद-दश-एकादशशब्दाभ्यां यथासङ्ख्यं ष्ठन्ष्ठचित्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यं इत्येतस्मिन्विषये ।
ठकोऽपवादौ ।
कुसिदं प्रयच्छति कुसीदिकः ।
कुसीदिकी ।
दशैकादशिकः ।
दशैकादशिकी । ।
____________________________________________________________________
- <उच्छति># । । PS_४,४.३२ । ।
_____Sठाऱ्ठ्JKव्_४,४.३२ः
तदिति द्वितीयासमर्थादुच्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
बदराणि उच्छति बादरिकः ।
श्यामाकिकः ।
भूमौ पतितस्यैकैकस्य कणस्योपादानमुञ्छः ।
कणानुञ्छति काणिकः । ।
____________________________________________________________________
- <रक्षति># । । PS_४,४.३३ । ।
_____Sठाऱ्ठ्JKव्_४,४.३३ः
तदिति द्वितीयासमर्थाद्रक्षति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
समाजं रक्षति सामाजिकः ।
सांनिवेशिकः । ।
____________________________________________________________________
- <शब्द-दर्दुरं करोति># । । PS_४,४.३४ । ।
_____Sठाऱ्ठ्JKव्_४,४.३४ः
तदिति द्वितीयासमर्थाभ्यां शब्द-दर्दुर-शब्दाभ्यां करोति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
शब्दं करोति शाब्दिको वैयाकरणः ।
दार्दुरिकः कुम्भकारः । ।
____________________________________________________________________
- <पक्षि-मत्स्य-मृगान्हन्ति># । । PS_४,४.३५ । ।
_____Sठाऱ्ठ्JKव्_४,४.३५ः
तदित्येव ।
पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्ति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणं इह+इस्यते ।
पक्षिणो हन्ति पाक्षिकः ।
शाकुनिकः ।
मायूरिकः ।
तैत्तिरिकः ।
मत्स्य - मात्स्यिकः ।
मैनिकः ।
शाफरिकः ।
शाकुलिकः ।
मृग - मार्गिकः ।
हारिणिकः ।
सौकरिकः ।
सारङ्गिकः । ।
____________________________________________________________________
[#४४४]
- <परिपन्थं च तिष्ठति># । । PS_४,४.३६ । ।
_____Sठाऱ्ठ्JKव्_४,४.३६ः
परिपन्थ-शब्दात्तदिति द्वितीयासमर्थात्तिष्ठति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
परिपन्थं तिष्ठति पारिपन्थिकश्चौरः ।
चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति ।
परिपन्थं हन्ति पारिपन्थिकः ।
समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्य-प्रदर्शन-अर्थं ।
परिपथशब्द-पर्यायः परिपन्थ-शब्दोऽस्ति इति ज्ञापयति ।
स विषयान्तरेऽपि प्रयोक्तव्यः । ।
____________________________________________________________________
- <माथ-उत्तरपद-पदव्य्-अनुपदं धावति># । । PS_४,४.३७ । ।
_____Sठाऱ्ठ्JKव्_४,४.३७ः
माथ-शब्द-उत्तरपदात्प्रातिपैकात्पदवी अनुपद इत्येताभ्यां च धावति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
दण्डमाथं धावति दाण्डमाथिकः ।
शौल्कमाथिकः ।
पादविकः ।
आनुपदिकः ।
मथशब्दः पथिपर्यायः । ।
____________________________________________________________________
- <आक्रन्दाट्ठञ्च># । । PS_४,४.३८ । ।
_____Sठाऱ्ठ्JKव्_४,४.३८ः
आक्रन्दन्ति एतस्मिन्नित्याक्रन्दो देशः ।
अथ वा आक्रन्द्यते इत्याक्रन्दः आर्तायनं उच्यते ।
विशेषाभावाद्द्वयोरपि ग्रहणं ।
आक्रन्द-शब्दात्तदिति द्वितीयासमर्थाद्धावति इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति, चकाराट्ठक्च ।
स्वरे विशेषः ।
आक्रन्दं धावति आक्रन्दिकः ।
आक्रन्दिकी । ।
____________________________________________________________________
- <पद-उत्तरपदं गृह्णाति># । । PS_४,४.३९ । ।
_____Sठाऱ्ठ्JKव्_४,४.३९ः
पदशब्दः उत्तरपदं यस्य तस्मात्पदोत्तरपद-शब्दात्तदिति द्वितीयासमर्थाद्गृह्णाति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
पूर्वपदं गृह्णाति पौर्वपदिकः ।
औत्तरपदिकः ।
पदानतातिति न+उक्तं, बहुच्पूर्वान्मा भूतिति । ।
____________________________________________________________________
- <प्रतिकण्ठ-अर्थ-ललामं च># । । PS_४,४.४० । ।
_____Sठाऱ्ठ्JKव्_४,४.४०ः
प्रतिकण्ठ-अर्थ-ललाम-शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः ।
आर्थिकः ।
लालामिकः । ।
____________________________________________________________________
- <धर्मं चरति># । । PS_४,४.४१ । ।
_____Sठाऱ्ठ्JKव्_४,४.४१ः
धर्म-शब्दात्तदिति द्वितीयासमर्थाच्चरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
चरतिरासेबायां नानुष्ठानमात्रे ।
धर्मं चरति धार्मिकः ।
अधर्माच्च+इति वक्तव्यं ।
आधर्मिकः । ।
____________________________________________________________________
[#४४५]
- <प्रतिपथं एति ठंश्च># । । PS_४,४.४२ । ।
_____Sठाऱ्ठ्JKव्_४,४.४२ः
प्रतिपथ-शब्दाद्द्वितीयासमर्थादेति इत्यस्मिन्नर्थे ठन्प्रत्ययो भवति, चकाराट्ठक्च ।
प्रतिपथं एति प्रतिपथिकः, प्रातिपथिकः । ।
____________________________________________________________________
- <समवायान्समवैति># । । PS_४,४.४३ । ।
_____Sठाऱ्ठ्JKव्_४,४.४३ः
समवाया-वाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
समवायः समूहः उच्यते, न संप्रधारणा ।
समवायानिति बहुवचनं सरूपविधिनिरासार्थं ।
समवैति आगत्य तदेकदेशी भवति इत्यर्थः ।
समवायान्समवैति सामवायिकः ।
सामाजिकः ।
सामूहिकः ।
सान्निवेशिकः । ।
____________________________________________________________________
- <परिषदो ण्यः># । । PS_४,४.४४ । ।
_____Sठाऱ्ठ्JKव्_४,४.४४ः
परिषदः ण्यः प्रत्ययो भवति समवायान्समवैति इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
परिषदं समवैति पारिषद्यः । ।
____________________________________________________________________
- <सेनाया वा># । । PS_४,४.४५ । ।
_____Sठाऱ्ठ्JKव्_४,४.४५ः
सेना-शब्दाद्वा ण्यः प्रत्ययो भवति समवायान्समवैति इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
पक्षे सोऽपि भवति ।
सेनां समवैति सैन्यः, सैनिकः । ।
____________________________________________________________________
- <सञ्ज्ञायां ललाट-कुक्कुट्यौ पश्यति># । । PS_४,४.४६ । ।
_____Sठाऱ्ठ्JKव्_४,४.४६ः
ललाट-कुक्कुटी-शब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति सञ्ज्ञायां विषये ।
सञ्ज्ञा-ग्रहणं अभिधेय-नियम-अर्थं, न तु रूढ्यर्थं ।
ललाटं पश्यति लालाटिकः सेवकः ।
कौक्कुटिको भिक्षुः ।
सर्वावयवेभ्यो ललाटं दूरे दृश्यते ।
तदनेन ललाट-दर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते ।
लालाटिकः सेवकः ।
स्वामिनः कार्येषु न+उपतिष्ठते इत्यर्थः ।
कुक्कुटी-शब्देन अपि कुक्कुटीपातो लक्ष्यते ।
देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति । ।
____________________________________________________________________
[#४४६]
- <तस्य धर्म्यम्># । । PS_४,४.४७ । ।
_____Sठाऱ्ठ्JKव्_४,४.४७ः
तस्य इति षष्ठीसमर्थाद्धर्म्यं इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
धर्म्यं न्याय्यं ।
आचारयुक्तं इत्यर्थः ।
शुल्कशालायाः धर्म्यं शौल्कशालिकं ।
आकरिकं ।
आपणिकं ।
गौल्मिकं । ।
____________________________________________________________________
- <अण्महिष्य्-आदिभ्यः># । । PS_४,४.४८ । ।
_____Sठाऱ्ठ्JKव्_४,४.४८ः
महिषी इत्येवं आदिभ्यः अण्प्रत्ययो भवति तस्य धर्म्यं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
महिस्याः धर्म्यं माहिषं ।
प्राजावतं ।
महिषी ।
प्रजावती ।
प्रलेपिका ।
विलेपिका ।
अनुलेपिका ।
पुरोहित ।
मणिपाली ।
अनुचारक ।
होतृ ।
यजमान ।
महिष्यादिः । ।
____________________________________________________________________
- <ऋतोऽञ्># । । PS_४,४.४९ । ।
_____Sठाऱ्ठ्JKव्_४,४.४९ः
ऋकारान्तात्प्रातिपदिकातञ्प्रत्ययो भवति तस्य धर्म्यं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
पोतुर्ध्र्म्यं पौत्रं ।
औद्गात्रं ।
नरच्च+एति वक्तव्यं ।
नरस्य धर्म्या नारी ।
विशसितुरिड्लोपश्च ।
विशसितुः धर्म्यं वैशस्त्रं ।
विभाजयितुर्णिलोपश्च ।
विभाजयितुर्ध्र्म्यं वैभाजित्रं । ।
____________________________________________________________________
- <अवक्रयः># । । PS_४,४.५० । ।
_____Sठाऱ्ठ्JKव्_४,४.५०ः
तस्य इत्येव ।
षष्ठीसमर्थातवक्रय इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
अवक्रीणितेऽनेन इति अवक्रयः पिण्डकः उच्यते ।
शुल्कशालायाः अवक्रयः औल्कशालिकः ।
आकरिकः ।
आपणिकः ।
गौल्मिकः ।
ननु अवक्रयोऽपि धर्म्यं एव ? न+एतदस्ति ।
लोकपीडया धर्मतिक्रमेण अप्यवक्रयो भवति । ।
____________________________________________________________________
[#४४७]
- <तदस्य पण्यम्># । । PS_४,४.५१ । ।
_____Sठाऱ्ठ्JKव्_४,४.५१ः
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत्तद्भवति ।
अपूपाः पण्यं अस्य आपूपिकः ।
शाष्कुलिकः ।
मौदकिकः ।
पण्यं इति विशेषनं तद्धितवृत्तावन्तर्भूतं अतः पण्य-शब्दो न प्रयुज्यते । ।
____________________________________________________________________
- <लवणाट्ठञ्># । । PS_४,४.५२ । ।
_____Sठाऱ्ठ्JKव्_४,४.५२ः
लवण-शब्दाट्ठञ्प्रत्ययो भवति तदस्य पण्यं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
स्वरे विशेषः ।
लवणं पण्यं अस्य लावणिकः । ।
____________________________________________________________________
- <किशरादिभ्यः ष्ठन्># । । PS_४,४.५३ । ।
_____Sठाऱ्ठ्JKव्_४,४.५३ः
किशर इत्येवं आदिभ्यः ष्ठन्प्रत्ययो तदस्य पण्यं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
किशरादयो गन्धविशेष-वचनाः ।
किशराः पण्यं अस्य किशरिकः ।
किशरिकी ।
निरदिकः ।
नरदिकी ।
किशर ।
नरद ।
नलद ।
सुमङ्गल ।
तगर ।
गुग्गुलु ।
उशीर ।
हरिद्रा ।
हरिद्रायणी ।
किशरादिः । ।
____________________________________________________________________
- <शलालुनोऽन्यतरस्याम्># । । PS_४,४.५४ । ।
_____Sठाऱ्ठ्JKव्_४,४.५४ः
शलालु-शब्दादन्यतरस्यां ष्ठन्प्रत्ययो भवति तदस्य पण्यं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
पक्षे सोऽपि भवति ।
शलालु-शब्दो गन्धविशेष-वचनः ।
शलालु पण्यं अस्य शलालुकः ।
शलालुकी ।
शालालुकः ।
शालालुकी । ।
____________________________________________________________________
- <शिल्पम्># । । PS_४,४.५५ । ।
_____Sठाऱ्ठ्JKव्_४,४.५५ः
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं शिल्पं चेत्तद्भवति ।
शिल्पं कौशलं ।
मृदङ्गवादनं शिल्पं अस्य मार्दङ्गिकः ।
पाणविकः ।
वैणिकः ।
मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययं उत्पादयति ।
शिल्पं तद्धितवृत्तावन्तर्भवति । ।
____________________________________________________________________
[#४४८]
- <मड्डुक-झर्झरादणन्यतरस्याम्># । । PS_४,४.५६ । ।
_____Sठाऱ्ठ्JKव्_४,४.५६ः
मड्डुक-झर्झर-शब्दाभ्यां अन्यतरस्यां अण्प्रत्ययो भवति तदस्य शिल्पं इत्येतस्मिन्विषये ।
पक्षे सोऽपि भवति ।
मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः ।
झार्झरः, झार्झरिकः । ।
____________________________________________________________________
- <प्रहरणम्># । । PS_४,४.५७ । ।
_____Sठाऱ्ठ्JKव्_४,४.५७ः
तदस्य इत्येव ।
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति ।
असिः प्रहरणं अस्य आसिकः ।
प्रासिकः ।
चाक्रिकः धानुष्कः । ।
____________________________________________________________________
- <परश्वधाट्ठञ्च># । । PS_४,४.५८ । ।
_____Sठाऱ्ठ्JKव्_४,४.५८ः
परश्वध-शब्दात्ठञ्प्रत्ययो भवति, चकारात्ठक् ।
स्वरे विशेषः ।
परश्वधः प्रहरणं अस्य पारश्वधिकः । ।
____________________________________________________________________
- <शक्ति-यष्ट्योरीकक्># । । PS_४,४.५९ । ।
_____Sठाऱ्ठ्JKव्_४,४.५९ः
शक्ति-यष्टि-शब्दाभ्यां ईकक्प्रत्ययो भवति तदस्य प्रहरणं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
शक्तिः प्रहरणं अस्य शाक्तीकः ।
याष्टीकः । ।
____________________________________________________________________
- <अस्ति-नास्ति-दिष्टं मतिः># । । PS_४,४.६० । ।
_____Sठाऱ्ठ्JKव्_४,४.६०ः
तदस्य इत्येव ।
तदिति प्रथमासमर्थेभ्यः अस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति ।
अस्ति मतिः अस्य आस्तिकः ।
नास्ति मतिः अस्य नास्तिकः ।
दैष्टिकः ।
न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्ति इति यस्य मतिः स आस्तिकः ।
तद्विपरीतो नास्तिकः ।
प्रमाण-अनुपातिनी यस्य मतिः स दैष्टिकः ।
तदेतदभिधान-शक्ति-स्वभावाल्लभ्यते ।
अस्ति-नास्ति-शब्दौ निपातौ, वचनसामर्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः । ।
____________________________________________________________________
- <शीलं># । । PS_४,४.६१ । ।
_____Sठाऱ्ठ्JKव्_४,४.६१ः
तदस्य इत्येव ।
तदिति प्रथमासमर्थादस्य इति षष्ट्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्तद्भवति ।
शीलं स्वभावः ।
अपूपभक्षणं शीलं अस्य आपूपिकः ।
शाष्कुलिकः ।
मौदकिकः ।
भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति । ।
____________________________________________________________________
[#४४९]
- <छत्रादिभ्यो णः># । । PS_४,४.६२ । ।
_____Sठाऱ्ठ्JKव्_४,४.६२ः
छत्र इत्येवं आदिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
छत्रं शीलं अस्य छात्रः ।
छादनादावरणाच्छत्रं ।
गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः ।
स्था-शब्दोऽत्र पठ्यते, स उपसर्ग-पूर्वोऽत्र गृह्यते आस्था संस्था अवस्था इति ।
छत्र ।
बुभुक्षा ।
शिक्षा ।
पुरोह ।
स्था ।
चुरा ।
उपस्थान ।
ऋषि ।
कर्मन् ।
विश्वधा ।
तपस् ।
सत्य ।
अनृत ।
शिबिका ।
छत्रादिः । ।
____________________________________________________________________
- <कर्माध्ययने वृत्तम्># । । PS_४,४.६३ । ।
_____Sठाऱ्ठ्JKव्_४,४.६३ः
तदस्य इत्येव ।
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति, यत्तत्प्रथमास्मर्थं कर्म चेत्तद्वृत्तं अध्ययनविषयं भवति ।
एकमन्यदध्ययने कर्म वृत्तं अस्य ऐकान्यिकः ।
द्वैयन्यिकः ।
त्रैयन्यिकः ।
एकमन्यतिति विगृह्य तद्धितार्थ इति समासः ।
ततश्च ठक्प्रत्ययः ।
अध्ययने कर्म वृत्तं इत्येतत्सर्वं तद्धितवृत्तावन्तर्भवति ।
यस्य अध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितं अपपाठरूपं एकं जातं स उच्यते ऐकान्यिकः इति ।
एवं द्वैयन्यिकः त्रैयन्यिक इति । ।
____________________________________________________________________
- <बह्व्-अच्-पूर्वपदाट्ठच्># । । PS_४,४.६४ । ।
_____Sठाऱ्ठ्JKव्_४,४.६४ः
बह्वच्पूर्वपदं यस्य तस्माद्बह्वच्पूर्वपदात्प्रातिपदिकात्ठच्प्रत्ययो भवति तदस्य कर्माध्ययने वृत्तं इत्येतस्मिन्नर्थे ठकोऽपवादः ।
द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः ।
त्रयोदशान्यिकः ।
चतुर्दशान्यिकः ।
चतुर्दशापपाठा अस्य जाता इत्यर्थः ।
उदात्ते कर्तव्ये योऽनुदात्तं करोति स उच्यते अन्यत्त्वं करोषि इति । ।
____________________________________________________________________
- <हितं भक्षाः># । । PS_४,४.६५ । ।
_____Sठाऱ्ठ्JKव्_४,४.६५ः
तदस्य इत्येव ।
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं हितं चेत्तद्भवति, तच्च भक्षाः ।
ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते ? एवं तर्हि सामर्थ्याद्विभक्तिविपरिणामो भविष्यति ।
अपूपभक्षणं हितं अस्मै आपूपिकः ।
शाष्कुलिकः ।
मौदकिकः ।
हितार्थक्रिया च तद्धितवृतावन्तर्भवति । ।
____________________________________________________________________
[#४५०]
- <त दस्मै दीयते नियुक्तम्># । । PS_४,४.६६ । ।
_____Sठाऱ्ठ्JKव्_४,४.६६ः
ततिति प्रथमासमर्थादस्मा इति चतुर्थ्यर्थ ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं तच्चेद्दीयते नियुक्तं ।
नियोगेन अव्यभिचारेण दीयते इत्यर्थः ।
अव्यभिचारो नियोगः ।
अग्रे भोजनं अस्मै नियुक्तं दीयते आग्रभोजनिकः ।
आपूपिकः ।
शाष्कुलिकः ।
केचित्तु नियुक्तं नित्यं आहुः ।
अपूपा नित्यं अस्मै दीयन्ते आपूपिकः । ।
____________________________________________________________________
- <श्राणा-मांस-ओदनाट्टिठन्># । । PS_४,४.६७ । ।
_____Sठाऱ्ठ्JKव्_४,४.६७ः
श्राणा-मांस-ओदन-शब्दाभ्यां टिठन्प्रत्ययो भवति तदस्मै दीयते नियुक्तं इत्येतस्मिन्नर्थे ।
ठकोऽपवादः ।
इकार उच्चारण-अर्थः ।
टकारो ङीब्-अर्थः ।
श्राणा नियुक्तं अस्मै दीयते श्राणिकः ।
श्राणिकी ।
मांसौदनिकः ।
मांसौदनिकी ।
अथ ठञेव कस्मान्न+उक्तः, न ह्यत्र ठञष्टिठनो वा विशेषोऽस्ति ? मांसौदन-ग्रहणं सङ्घातविगृहीत-अर्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः ।
ओदनिकः ।
ओदनिकी । ।
____________________________________________________________________
- <भक्टादणान्यतरस्याम्># । । PS_४,४.६८ । ।
_____Sठाऱ्ठ्JKव्_४,४.६८ः
भक्त-शब्दादण्प्रत्ययो भवति अन्यत्रस्यां तदसमि दीयते नियुक्तं इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
पक्षे सोऽपि भवति ।
भक्तं अस्मै दीयते नियुक्तं भाक्तः, भक्तिकः । ।
____________________________________________________________________
- <तत्र नियुक्तः># । । PS_४,४.६९ । ।
_____Sठाऱ्ठ्JKव्_४,४.६९ः
तत्र इति सप्तमीसमर्थान्नियुक्त इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
नियुक्तः आधिकृतो व्यापारितः इत्यर्थः ।
शुल्कशालायां नियुक्तः शौल्कशालिकः ।
आकरिकः ।
आपणिकः ।
गौल्मिकः ।
दौवारिकः । ।
____________________________________________________________________
- <अगार-अन्ताट्ठन्># । । PS_४,४.७० । ।
_____Sठाऱ्ठ्JKव्_४,४.७०ः
अगार-शब्दान्तात्प्रातिपदिकात्ठन्प्रत्ययो भवति तत्र नियुक्तः इत्येतस्मिन्विषये ।
ठकोऽपवादः ।
देवागारे नियुक्तः देवागारिकः ।
कोष्ठागारिकः ।
भाण्डागारिकः । ।
____________________________________________________________________
[#४५१]
- <अध्यायिन्यदेश-कालात्># । । PS_४,४.७१ । ।
_____Sठाऱ्ठ्JKव्_४,४.७१ः
तत्र इत्येव ।
सप्तमीसमर्थाददेश-वाचिनः परतिपदिकादकाल-वाचिनः च अध्यायिन्यभिधेये ठक्प्रत्ययो भवति ।
अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकाल-शब्देन+उच्येते, तत इदं प्रत्ययविधानं ।
श्माशानेऽधीते श्माशानिकः ।
चातुष्पथिकः ।
अकालात्- चतुरदश्यमधीते चातुर्दशिकः ।
आमावास्यिकः ।
अदेशकालातिति किं ? स्रुघ्नेऽधीते ।
पूर्वाह्णेऽधीते । ।
____________________________________________________________________
- <कठिनान्त-प्रस्तार-संस्थानेषु व्यवहरति># । । PS_४,४.७२ । ।
_____Sठाऱ्ठ्JKव्_४,४.७२ः
तत्र इत्येव ।
कठिन-शब्दान्तात्सप्तमीसमर्थात्प्रस्तार-संस्थान-शब्दाभ्यां च ठक्प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे ।
व्यवहारः क्रियातत्त्वं यथा लौकिकव्यवहारः इति ।
वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः ।
वार्ध्रकठिनिकः ।
प्रास्तारिकः ।
सांस्थानिकः । ।
____________________________________________________________________
- <निकटे वसति># । । PS_४,४.७३ । ।
_____Sठाऱ्ठ्JKव्_४,४.७३ः
निकट-शाब्दात्सप्तमीस्मर्थात्वसति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
यस्य शास्त्रतो निकटवासस्तत्र अयं विधिः ।
आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यं इति शास्त्रं ।
निकटे वसति नैकटिको भिक्षुः । ।
____________________________________________________________________
- <आवसथात्ष्ठल्># । । PS_४,४.७४ । ।
_____Sठाऱ्ठ्JKव्_४,४.७४ः
तत्र इत्येव ।
आवसथ-शब्दात्सप्तमीसमर्थात्वसति इत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति ।
लकारः स्वरार्थः ।
षकारो ङीषर्थः ।
आवसथे वसति आवसथिकः ।
आवसथिकी ।
ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते । ।
____________________________________________________________________
- <प्राग्घिताद्यत्># । । PS_४,४.७५ । ।
_____Sठाऱ्ठ्JKव्_४,४.७५ः
तस्मै हितं (*५,१.५) इति वक्ष्यति ।
प्रागेतस्माद्धितसंशब्दनाद्यानित ऊर्ध्वं अनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः ।
____________________________________________________________________
वक्ष्यति -
- <तद्वहति रथयुगप्रासङ्गम्># । । PS_४,४.७६ । ।
_____Sठाऱ्ठ्JKव्_४,४.७६ः
रथ्यः ।
युग्यः ।
प्रासङ्ग्यः । ।
तद्वहति रथयुगप्रासङ्गं (*४,४.७६) ।
तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
रथं वहति रथ्यः ।
युग्यः ।
प्रासङ्ग्यः ।
रथसीताहलेभ्यो यद्विधौ इति तदनतविध्य्-उपसङ्ख्यानात्परमरथ्यः इत्यपि भवति । ।
____________________________________________________________________
[#४५२]
- <धुरो यड्-ढकौ># । । PS_४,४.७७ । ।
_____Sठाऱ्ठ्JKव्_४,४.७७ः
तद्वहति इत्येव ।
धुरित्येतस्माद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे यत्ढकित्येतौ प्रत्ययौ भवतः ।
धुरं वहति धुर्यः, धौरेयः । ।
____________________________________________________________________
- <खः सर्वधुरात्># । । PS_४,४.७८ । ।
_____Sठाऱ्ठ्JKव्_४,४.७८ः
तद्वहति इत्येव ।
सर्वधुरा-शब्दाद्द्वितीयासमर्थात्वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति ।
सर्वधुरां वहति सर्वधुरीणः ।
स्त्रीलिङ्गे न्याय्ये सर्वधुरातिति प्रातिपदिकमात्र-अपेक्षो निर्देशः ।
खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः ।
उत्तरधुरीणः ।
दक्षिणधुरीणः । ।
____________________________________________________________________
- <एकधुराल्लुक्च># । । PS_४,४.७९ । ।
_____Sठाऱ्ठ्JKव्_४,४.७९ः
तद्वहति इत्येव ।
एकधुरा-शब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग्भवति ।
वचनसमार्थ्यात्पक्षे लुग्विधीयते ।
एकधुरां वहति एकधुरीणः, एकधुरः । ।
____________________________________________________________________
- <शकटादण्># । । PS_४,४.८० । ।
_____Sठाऱ्ठ्JKव्_४,४.८०ः
तद्वहति इत्येव ।
शकट-शब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे अण्प्रत्ययो भवति ।
शकटं वहति शाकटो गौः । ।
____________________________________________________________________
- <हलसीराट्ठक्># । । PS_४,४.८१ । ।
_____Sठाऱ्ठ्JKव्_४,४.८१ः
तद्वहति इत्येव ।
हल-सीर-शब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति ।
हलं वहति हालिकः ।
सैरिकः । ।
____________________________________________________________________
- <सञ्ज्ञायां जन्याः># । । PS_४,४.८२ । ।
_____Sठाऱ्ठ्JKव्_४,४.८२ः
तद्वहति इत्येव ।
जनी-शब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञागम्यते ।
जनीं वहति जन्या, जामातुर्वयस्या ।
सा हि विहारादिषु जमातृसमीपं प्रापयति ।
जनी वधूरुच्यते । ।
____________________________________________________________________
[#४५३]
- <विध्यत्यधनुषा># । । PS_४,४.८३ । ।
_____Sठाऱ्ठ्JKव्_४,४.८३ः
ततिति द्वितीयासमर्थाद्विध्यति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, न चेद्धनुष्करणं भवति ।
पादौ विध्यन्ति पद्याः शर्कराः ।
ऊरव्याः कण्टकाः ।
अधनुषा इति किं ? पादौ विध्यति धनुषा ।
ननु असमर्थत्वादनभिधानाच्च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितोऽर्थः प्रतीयते ? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणं न सम्भाव्यते इति ।
तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति । ।
____________________________________________________________________
- <धन-गणं लब्धा># । । PS_४,४.८४ । ।
_____Sठाऱ्ठ्JKव्_४,४.८४ः
तदित्येव ।
धनगण-शब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धा इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
धन्यः ।
गण्यः ।
लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर्युज्यते । ।
____________________________________________________________________
- <अन्नाण्णः># । । PS_४,४.८५ । ।
_____Sठाऱ्ठ्JKव्_४,४.८५ः
अन्न-शब्दात्तदिति द्वितीयासमर्थात्लब्धा इत्येतस्मिनर्थे णः प्रत्ययो भवति ।
अन्नं लब्धा आन्नः । ।
____________________________________________________________________
- <वशं गतः># । । PS_४,४.८६ । ।
_____Sठाऱ्ठ्JKव्_४,४.८६ः
वश-शब्दात्तदिति द्वितीयासमर्थाद्गतः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
वशं गतः वश्यः ।
कामप्राप्तो विधेयः इत्यर्थः । ।
____________________________________________________________________
- <पदं अस्मिन्दृश्यम्># । । PS_४,४.८७ । ।
_____Sठाऱ्ठ्JKव्_४,४.८७ः
निर्देशातेव प्रथमा समर्थविभक्तिः ।
पदशब्दात्प्रथमासमर्थाद्दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति ।
पदं दृश्यं अस्मिन्पद्यः कर्दमः ।
पद्याः पांसवः ।
शक्यार्थे कृत्यः ।
शक्यते यस्मिन्पदं मूल्याः, सुष्ठु द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः ।
कर्दमस्य अवस्था+उच्यते नातिद्रवो नातिशुष्क इति । ।
____________________________________________________________________
- <मूलं अस्य आवर्हि># । । PS_४,४.८८ । ।
_____Sठाऱ्ठ्JKव्_४,४.८८ः
मुल-शब्दात्प्रथमासमर्थादावर्हि इत्येवं उपाधिकादस्य+इति षष्ठ्यर्थे यत्प्रत्ययो भवति ।
मूलं एषां आवर्हि मूल्या माषाः ।
मूल्या मुद्गाः ।
वृहू उद्यमने ।
येषां मूलं आवृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः ।
मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः । ।
____________________________________________________________________
[#४५४]
- <सञ्ज्ञायां धेनुष्या># । । PS_४,४.८९ । ।
_____Sठाऱ्ठ्JKव्_४,४.८९ः
धेनुष्या इति निपात्यते सञ्ज्ञायां विषये ।
सञ्ज्ञा-ग्रहणं अभिधेयनियम-अर्थं ।
धेनोः सुगागमो यश्च प्रत्ययः निपात्यते ।
अन्तोदात्तोऽपि ह्ययं इष्यते ।
या धेनुरुत्तमर्णाय ऋणप्रदानाद्दोहनार्थं दीयते सा धेनुष्या ।
पीतदुग्धा इति यस्याः प्रसिद्धिः ।
धेनुस्यां भवति ददाअमि । ।
____________________________________________________________________
- <गृहपतिना संयुक्ते ञ्यः># । । PS_४,४.९० । ।
_____Sठाऱ्ठ्JKव्_४,४.९०ः
निर्देशादेव तृतीया समर्थविभक्तिः ।
गृहपति-शब्दात्तृतीयासमर्थात्संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति ।
गृहपतिना संयुक्तः गार्हपत्योऽग्निः ।
अन्यस्य अपि गृहपतिना संयोगोऽस्ति, तत्र सञ्ज्ञाधिकारादतिप्रसङ्ग-निवृत्तिः । ।
____________________________________________________________________
- <नौ-वयो-धर्म-विष-मूल-मूल-सीता-तुलाभ्यस्तार्य-तुल्य-प्राप्य-वध्य-आनाम्य-सम-समित-संमितेषु># । । PS_४,४.९१ । ।
_____Sठाऱ्ठ्JKव्_४,४.९१ः
नावाधिभ्योऽष्टभ्यः शब्देभ्योऽष्टस्वेव तार्यादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति ।
प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते ।
नावा तार्यं नव्यं उदकं ।
नव्या नदी ।
शक्यार्थे कृत्यः ।
वयसा तुल्यः वयस्यः सखा ।
सञ्ज्ञाधिकारोऽभिधेयनियमार्थः ।
तेन वयसा तुल्ये शत्रौ न भवति ।
धर्मेण प्राप्यं धर्म्यं ।
ननु च धर्मादनपेते इति वक्ष्यमाणेन+एव सिद्धं ? न+एतदस्ति ।
धर्मं यदनुवर्तते तद्धर्मादनपेतं इत्युच्यते ।
फलं तु धर्मादपेत्येव, कार्यविरोधित्वाद्धर्मस्य ।
विषेण वध्यः विष्यः ।
विषेण वधं अर्हति इत्यर्थः ।
मूलेन आनाम्यं मूल्यं ।
आनाम्यं अभिभवनीयं ।
पटादीनां उत्पत्तिकारणं मूलं तेन तदभिभूयते शेषीक्रियते ।
मूलं हि सगुणं मुल्यं करोति ।
पोरदुपधात्(*३,१.९८) इति यति प्राप्ते आनाम्यं इति निपातनात्ण्यथ् ।
मूलेन समः मूल्यः पटः ।
उपदानेन समानफलः इत्यर्थः ।
सीतया समितं सीत्यं क्षेत्रं ।
समितं सङ्गतं इत्यर्थः ।
रथसीताहलेभ्यो यद्विधौ इति तदन्तविधिरपि इष्यते ।
परमसीत्यं ।
उत्तरसीत्यं ।
द्विसीत्यं ।
त्रिसीत्यं ।
तुल्या संमितं तुल्यं ।
संमितं समानं, सदृशं इत्यर्थः ।
यथा तुला परिच्छिनत्ति परं एवं तदपि इति । ।
____________________________________________________________________
- <धर्म-पथ्य्-अर्थ-न्यायादनपेते># । । PS_४,४.९२ । ।
_____Sठाऱ्ठ्JKव्_४,४.९२ः
निर्देशादेव पञ्चमी समर्थविभक्तिः ।
धर्मादिभ्यः पञ्चमीसमर्थेभ्योऽनपेतः इत्यर्थे यत्प्रत्ययो भवति ।
धर्मातनपेतं धर्म्यं ।
पथ्यं ।
अर्थ्यं ।
न्याय्यं ।
सञ्ज्ञाधिकारादभिधेयनियमः । ।
____________________________________________________________________
[#४५५]
- <छन्दसो निर्मिते># । । PS_४,४.९३ । ।
_____Sठाऱ्ठ्JKव्_४,४.९३ः
प्रत्ययार्थसामर्थ्यलभ्या समर्थ-विभक्तिः ।
छन्दः-शब्दात्तृतीयासमर्थान्निर्मिते इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
निर्मितः उत्पादितः ।
छन्दसा निर्मितः छन्दस्यः ।
छन्दसा इच्छया कृतः इत्यर्थः ।
इच्छा-पर्याय छन्दः-शब्दः इह गृह्यते । ।
____________________________________________________________________
- <उरसोऽण्च># । । PS_४,४.९४ । ।
_____Sठाऱ्ठ्JKव्_४,४.९४ः
उरःशब्दात्तृतीयासमर्थान्निर्मिते इत्येतस्मिन्नर्थेऽण्प्रत्ययो भवति, चकारात्यत्च ।
उरसा निर्मितः औरसः पुत्रः, उरस्यः पुत्रः ।
सञ्ज्ञाधिकारादभिधेयनियमः । ।
____________________________________________________________________
- <हृदयस्य प्रियः># । । PS_४,४.९५ । ।
_____Sठाऱ्ठ्JKव्_४,४.९५ः
निर्देशादेव समर्थविभक्तिः ।
हृदय-शब्दात्षष्ठीसमर्थात्प्रियः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
हृदयस्य प्रियः हृद्यः देशः ।
हृद्यं वनं ।
सञ्ज्ञाधिकारादभिधेयनियमः ।
इह न भवति, हृदयस्य प्रियः पुत्रः इति । ।
____________________________________________________________________
- <बन्धने चर्षौ># । । PS_४,४.९६ । ।
_____Sठाऱ्ठ्JKव्_४,४.९६ः
हृदयस्य इत्येव ।
बन्धने इति प्रत्ययार्थः ।
तद्विशेषणं ऋषिग्रहनं ।
वध्यते येन तद्बन्धनं ।
हृदय-शब्दात्षष्ठीसमर्थाद्बन्धने ऋषावभिधेये यत्प्रत्ययो भवति ।
ऋषिर्वेदो गृह्यते ।
हृदयस्य बन्धनं ऋषिः हृद्यः ।
परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते । ।
____________________________________________________________________
- <मतजनहलात्करणजल्पकर्षेषु># । । PS_४,४.९७ । ।
_____Sठाऱ्ठ्JKव्_४,४.९७ः
मतादिभ्यः त्रिभ्यः शब्देभ्यः त्रिष्वेव करणादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति ।
प्रत्ययार्थसामर्थ्याल्लब्धा षष्ठी समर्थविभक्तिः ।
मतं ज्ञानं तस्य करणं मत्यं ।
भावसाधनं वा ।
जनस्य जल्पः जन्यः ।
हलस्यः कर्षः हल्यः ।
द्विहल्यः ।
त्रिहल्यः ।
कर्षणं कर्षः, भावसाधनं वा । ।
____________________________________________________________________
- <तत्र साधुः># । । PS_४,४.९८ । ।
_____Sठाऱ्ठ्JKव्_४,४.९८ः
तत्र इति सप्तमीसमर्थात्साधुः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
सामसु साधुः सामन्यः ।
वेमन्यः ।
कर्मण्यः ।
शरण्यः ।
साधुः इह प्रवीणो योग्यो वा गृह्यते, न+उपकारकः ।
तत्र हि परत्वात्तस्मै हितं (*५,१.५) इत्यनेन विधिना भवितव्यं । ।
____________________________________________________________________
[#४५६]
- <प्रतिजन-आदिभ्यः खञ्># । । PS_४,४.९९ । ।
_____Sठाऱ्ठ्JKव्_४,४.९९ः
प्रतिजनादिभ्यः शब्देभ्यः खञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्नर्थे ।
यतोऽपवादः ।
प्रतिजने साधुः प्रातिजनीनः ।
जने जने साधुः इत्यर्थः ।
ऐदंहुगीनः ।
सांयुगीनः ।
प्रतिजन ।
इदंयुग ।
संयुग ।
समयुग ।
परयुग ।
परकुल ।
परस्यकुल ।
अमुष्यकुल ।
सर्वजन ।
विश्वजन ।
पञ्चजन ।
महाजन ।
प्रतिजनादिः ।
यत्र हितार्थ एव साध्वर्थस्तत्र वचनात्प्राक्क्रीतीया बाध्यन्ते । ।
____________________________________________________________________
- <भक्ताण्णः># । । PS_४,४.१०० । ।
_____Sठाऱ्ठ्JKव्_४,४.१००ः
भक्त-शब्दात्णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
भक्ते साधुः भक्तः शालिः ।
भाक्ताः तण्डुलाः । ।
____________________________________________________________________
- <परिषदो ण्यः># । । PS_४,४.१०१ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०१ः
परिषच्-छब्दाद्ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
परिषदि साधुः पारिषद्यः ।
ण-प्रत्ययोऽप्यत्र+इष्यते ।
तदर्थं योगविभागः क्रियते ।
परिषदः णो भवति, परिषदि साधुः पारिषदः ।
ततः ण्यः ।
परिषदः इत्येव । ।
____________________________________________________________________
- <कथादिभ्यष्ठक्># । । PS_४,४.१०२ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०२ः
कथादिभ्यः शब्देभ्यः ठक्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
कथायां साधुः काथिकः ।
वैकथिकः ।
कथा ।
विकथा ।
वितण्डा ।
कुष्टचिथ् ।
जनवाद ।
जनेवाद ।
वृत्ति ।
सद्गृह ।
गुण ।
गण ।
आयुर्वेद ।
कथादिः । ।
____________________________________________________________________
- <गुड-आदिभ्यष्ठञ्># । । PS_४,४.१०३ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०३ः
गुड-आदिभ्यः शब्देभ्यः ठञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
गुडे साधुः गौदिकः इक्षुः ।
कौल्माषिको मुद्गः ।
साक्तुको यवः ।
गुड ।
कुल्माष ।
सक्तु ।
अपूप ।
मांसौदन ।
इअक्षु ।
वेणु सङ्ग्राम ।
सङ्घात ।
प्रवास ।
निवास ।
उपवास ।
गुडादिः । ।
____________________________________________________________________
- <पथ्य्-अतिथि-वसति-स्वपतेर्ढञ्># । । PS_४,४.१०४ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०४ः
पथ्य्-आदिभ्यः शब्देभ्यः ढञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
पथि साधु पाथेयं ।
आतिथेयं ।
वासतेयं ।
स्वापतेयं । ।
____________________________________________________________________
[#४५७]
- <सभायाः यः># । । PS_४,४.१०५ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०५ः
सभा-शब्दाद्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
स्वरे विशेषः ।
सभायां साधुः सभ्यः । ।
____________________________________________________________________
- <ढश्छन्दसि># । । PS_४,४.१०६ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०६ः
सभा-शब्दाड्ढः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्विषये छन्दसि ।
यस्य अपवादः ।
सभेयो युवाऽस्य यजमानस्य वीरो जायतां । ।
____________________________________________________________________
- <समानातीर्थे वासी># । । PS_४,४.१०७ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०७ः
साधुः इति निवृत्तं ।
वासी इति प्रत्ययार्थः ।
समाअनतीर्थ-शब्दात्तत्र इति सप्तमीसमर्थाद्वासि इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
समानतीर्थे वासी इति सतीर्थ्यः ।
समनोपध्यायः इत्यर्थः ।
तीर्थश्-अब्देन+इह गुरुरुच्यते । ।
____________________________________________________________________
- <समान-उदरे शयित ओ चोदात्तः># । । PS_४,४.१०८ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०८ः
समानोदर-शब्दात्सप्तमीसमर्थात्शयितः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, ओकारश्च+उदात्तः ।
शयितः स्थितः इत्यर्थः ।
समानोदरे शयितः समानोदर्यः भ्राता । ।
____________________________________________________________________
- <सोदराद्यः># । । PS_४,४.१०९ । ।
_____Sठाऱ्ठ्JKव्_४,४.१०९ः
सोदर-शब्दात्सप्तमीसमर्थात्शयितः इत्येत्स्मिन्नर्थे यः प्रत्ययो भवति ।
विभाषोदरे (*६,३.८८) ।
इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः ।
समानोदरे शयितः सोदर्यः भ्राता ।
ओ च+उदात्तः इति न अनुवर्तते ।
यकारे स्वरः । ।
____________________________________________________________________
- <भवे छन्दसि># । । PS_४,४.११० । ।
_____Sठाऱ्ठ्JKव्_४,४.११०ः
तत्र इत्येव ।
स्प्तमीसमर्थात्भव इत्येतस्मिन्नर्थे छन्दसि विषये यत्प्रत्ययो भवति ।
अणादीनां घादीनां चापवादः ।
सति दर्शने तेऽपि भवन्ति, सर्वविधीनां छन्दसि व्यभिचाराथ् ।
नमो मेध्याय च विद्युत्याय च नमः ।
आपादपरिसमाप्तेः छन्दोऽधिकारः ।
भवाधिकारश्च समुद्र-अभ्राद्धः (*४,४.११८) इति यावत् । ।
____________________________________________________________________
[#४५८]
- <पाथो-नदीभ्यां ड्यण्># । । PS_४,४.१११ । ।
_____Sठाऱ्ठ्JKव्_४,४.१११ः
पाथः-शब्दान्नदी-शब्दाच्च ड्यण्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे ।
यतोऽपवादः ।
पाथसि भवः पाथ्यो वृषा ।
च नो दधीत नाद्यो गिरो मे ।
पाथः अन्तरिक्षं । ।
____________________________________________________________________
- <वेशन्त-हिमवद्भ्यां अण्># । । PS_४,४.११२ । ।
_____Sठाऱ्ठ्JKव्_४,४.११२ः
वेशन्त-शब्दाद्धिमवच्छ-शब्दाच्च अण्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
यतोऽपवादः वैशन्तीभ्यः स्वाहा ।
हैमवतीभ्यः स्वाहा । ।
____________________________________________________________________
- <स्रोतसो विभाषा ड्यड्-ड्यौ># । । PS_४,४.११३ । ।
_____Sठाऱ्ठ्JKव्_४,४.११३ः
स्रोतः-शब्दाद्विभाषा ड्यत्द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
पक्षे सोऽपि भवति ।
स्रोतसि भवः स्रोत्यः ।
स्रोतस्यः ।
ड्यड्-ड्ययोः स्वरे विशेषः । ।
____________________________________________________________________
- <सगर्भ-सयूथ-सनुताद्यन्># । । PS_४,४.११४ । ।
_____Sठाऱ्ठ्JKव्_४,४.११४ः
सगर्भ-सयूथ-सनुत-शब्देभ्यो यन्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
स्वरे विशेषः ।
अनु भ्राता सगर्भ्यः ।
अनु सहा सयूथ्यः ।
यो नः सनुत्यः ।
सर्वत्र समानस्य छन्दसि इति सभावः । ।
____________________________________________________________________
- <तुग्राद्घन्># । । PS_४,४.११५ । ।
_____Sठाऱ्ठ्JKव्_४,४.११५ः
तुग्र-शब्दाद्घन्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
यतोऽपवादः ।
त्वमग्ने वृषभस्तुग्रियाणां ।
अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः । ।
____________________________________________________________________
- <अग्राद्यत्># । । PS_४,४.११६ । ।
_____Sठाऱ्ठ्JKव्_४,४.११६ः
अग्र-शब्दात्यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्विषये ।
अग्रे भवं अग्र्यं ।
किं अर्थं इदं यावता सामान्येन यद्विहित एव ? घच्छौ च (*४,४.११७) इति वक्ष्यति ताभ्यां बाधा मा भूतिति पुनर्विधीयते । ।
____________________________________________________________________
- <घ-च्छौ च># । । PS_४,४.११७ । ।
_____Sठाऱ्ठ्JKव्_४,४.११७ः
अग्र-शब्दात्यत्घ-च्छौ च प्रत्यया भवन्ति तत्र भवः इत्येतस्मिन्विषये ।
अग्र्यम्, अग्रियम्, अग्रीयं ।
चकारः तुग्राद्घन्(*४,४.११५) इत्यस्य अनुकर्षण-अर्थः ।
अग्रियं ।
स्वरे विशेषः । ।
____________________________________________________________________
[#४५९]
- <समुद्र-अभ्राद्घः># । । PS_४,४.११८ । ।
_____Sठाऱ्ठ्JKव्_४,४.११८ः
समुद्र-शब्दातभ्र-शब्दाच्च घः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे ।
यतोऽपवादः ।
समुद्रिया नदीनां ।
अभ्रियस्येव घोषाः ।
अभ्र ।
शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात् । ।
____________________________________________________________________
- <बर्हिषि दत्तम्># । । PS_४,४.११९ । ।
_____Sठाऱ्ठ्JKव्_४,४.११९ः
भवः इति निवृत्तं ।
बर्हिः-शब्दात्सप्तमीसमर्थात्दत्तं इत्येतस्मिनर्थे यत्प्रत्ययो भवति ।
बर्हिष्येषु निधिसु प्रियेषु । ।
____________________________________________________________________
- <दुतस्य भाग-कर्मणी># । । PS_४,४.१२० । ।
_____Sठाऱ्ठ्JKव्_४,४.१२०ः
निर्देशादेव समर्थविभक्तिः ।
दूत-शब्दात्षष्ठीसमर्थाद्भागे कर्मणि च अभिधेये यत्प्रत्ययो भवति ।
भागः अंशः ।
कर्म क्रिया ।
यदग्ने यासि दूत्यं ।
दूतभागः दूतकर्क्म वा । ।
____________________________________________________________________
- <रक्षो-यातूनां हननी># । । PS_४,४.१२१ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२१ः
निर्देशादेव समर्थविभक्तिः ।
रक्षः-शब्दाद्यातु-शब्दाच्च षष्ठीसमर्थाद्हननी इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
हन्यतेऽन्या इति हननी ।
या वां मित्रावरुणौ रक्षस्या तनू यातव्या ।
रक्षसां हननी ।
यातूनां हननी ।
बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थं ।
बहुनां रक्षसां हननेन तनूः स्तूयते । ।
____________________________________________________________________
- <रेवती-जगती-हविष्याभ्यः प्रशस्ये># । । PS_४,४.१२२ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२२ः
रेवत्य्-आदिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत्प्रत्ययो भवति ।
प्रशंसनं प्रशस्यम्, भावे क्यप्प्रत्ययो भवति ।
यद्वो रेवती रेवत्यं ।
यद्वो जगती जगत्यं ।
यद्वो हविष्या हविष्यं ।
हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यं ।
यस्य+इति च (*६,४.१४८) इति लोपे कृते हलो यमां यमि लोपः (*८,४.६४) इति लोपः । ।
____________________________________________________________________
- <असुरस्य स्वम्># । । PS_४,४.१२३ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२३ः
असुर-शब्दात्षष्ठीसमर्थात्स्वं इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
अणोऽपवादः ।
असुर्यं वा एतत्पात्रं यत्कुलालकृतं चक्रवृत्तं । ।
____________________________________________________________________
[#४६०]
- <मायायां अण्># । । PS_४,४.१२४ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२४ः
असुर-शब्दात्षष्ठीसमर्थात्मायायां स्वविशेषे अण्प्रत्ययो भवति ।
पूर्वस्य यतोऽपवादः ।
आसुरी माया स्वधया कृतासि । ।
____________________________________________________________________
- <तद्वानासां उपधानो मन्त्र इति इष्टकासु लुक्च मतोः># । । PS_४,४.१२५ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२५ः
तद्वानिति निर्देशादेव समर्थविभक्तिः ।
मतुब्-अन्तात्प्रातिपदिकात्प्रथमासमर्थादासां इति षष्ठ्यर्थे यत्प्रत्ययो भवति, यत्प्रथमासमर्थं उपधानो मन्त्रश्चेत्स भवति, यत्तदासां इति निर्दिष्टं इष्टकाश्चेत्ता भवन्ति ।
लुक्च मतोः इति प्रकृतिनिर्हृआसः ।
इतिकरणस्ततश्चेद्विवक्षा ।
तद्वानित्यवयवेन समुदायो व्यपदिश्यते ।
वर्चः-शब्दो यस्मिन्मन्त्रेऽस्ति स वर्चस्वान् ।
उपधीयते येन स उपधानः ।
चयनवचनः इत्यर्थः ।
वर्चस्वानुपधानमन्त्रः आसां इष्टकानां इति विगृह्य यति विहिते मतोर्लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति ।
पयस्याः ।
रेतस्याः ।
तद्वानिति किं ? मन्त्रसमुदायादेव मा भूथ् ।
उपधानः इति किं ? वर्चस्वानुपस्थानमन्त्रः आसां इत्यत्र मा भूथ् ।
मन्त्रः इति किं ? अङ्गुलिमानुपधानो हस्तः आसां इत्यत्र मा भूथ् ।
इष्टकासु इति किं ? अङ्गुलिमानुपधानो हस्त आसां इत्यत्र मा भूथ् ।
इति-करणो नियमार्थः ।
अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते, न सर्वेण । ।
____________________________________________________________________
- <अश्विमानण्># । । PS_४,४.१२६ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२६ः
अश्वि-शब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान् ।
अश्विमच्छब्दादण्प्रत्ययो भवति ।
पूर्वस्य यतोऽपवादः ।
अश्विमानुपधानो मन्त्रः आसामि ष्टकानां इति विगृह्याण्विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावः ।
आश्विनीरुपदधाति । ।
____________________________________________________________________
- <वयस्यासु मूर्ध्नो मतुप्># । । PS_४,४.१२७ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२७ः
वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप्प्रत्ययो भवति ।
पूर्वस्य यतोऽपवादः ।
यस्मिन्मन्त्रे वयः-शब्दो मूर्धन्-शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि, यथा मूर्धा वयः प्रजापतिश्छन्दः इति ।
तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि यति प्राप्ते मतुप्विधास्यते ।
मूर्धन्वतीर्भवन्ति ।
वयस्या एव मूर्धन्वत्यः ।
वयस्यासु इति किं ? यत्र मूर्धन्-शब्द एव केवलो न वयः-शब्दस्न्तत्र मा भूथ् ।
मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा । ।
____________________________________________________________________
[#४६१]
- < मत्व्-अर्हे मास-तन्वोः># । । PS_४,४.१२८ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२८ः
यस्मिन्नर्थे मतुब्विहितः, तस्मिन्श्छन्दसि विषये यत्प्रत्ययो भवति मासतन्वोः प्रत्ययार्थ-विशेषणयोः ।
प्रथमासमर्थादस्त्युपाधिकात्षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति ।
मत्वर्थीयानां अपवादः ।
नभांसि विद्यन्ते अस्मिन्मासे अभस्यो मासः ।
सहस्यः ।
तपस्यः ।
मधव्यः ।
नभःशदोऽभ्रेषु वर्तते ।
तन्वा खल्वपि - ओजोऽस्यां विद्यते ओजस्या तनूः ।
रक्षस्या तनूः ।
मासतन्वोः इति किं ? मधुमता पात्रेण चरति मासतन्वोरनन्तरार्थे वा ।
मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरं इति वा मध्व्यो मासः ।
लुगकारेकाररेफाश्च वक्तव्याः ।
लुक्तावत्- तपश्च तपस्यश्च ।
नभश्च नभस्यश्च ।
सहश्च सहस्यश्च ।
नपुंसकलिङ्गं छन्दसत्वाथ् ।
अकारः - इषो मासः ।
ऊर्जो मासः ।
इकारः - शुचिर्मासः ।
रेफः - शुक्रो मासः । ।
____________________________________________________________________
- <मधोर्ञ च># । । PS_४,४.१२९ । ।
_____Sठाऱ्ठ्JKव्_४,४.१२९ः
मधु-शब्दान्मत्वर्थे ञः प्रत्ययो भवति, चकाराद्यत्च ।
उअप्सङ्ख्यानाल्लुक्च ।
माधवः, मधव्यः, मधुः ।
तन्वां खल्वपि माधवा, मधव्या, मधुः तनूः । ।
____________________________________________________________________
- <ओजसोऽहनि यत्खौ># । । PS_४,४.१३० । ।
_____Sठाऱ्ठ्JKव्_४,४.१३०ः
मत्वर्थे इत्येव ।
ओजः-शदान्मत्वयर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये ।
ओजस्यमहः ।
ओजसीनमहः । ।
____________________________________________________________________
- <वेशो-यश-आदेर्भगाद्यल्># । । PS_४,४.१३१ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३१ः
मत्वर्थे इत्येव वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद्वेशोयशाअदेर्भगान्तात्प्रातिपदिकात्मत्वर्थे यल्प्रत्ययो भवति ।
लकारः स्वरार्थः वेशोभगो विद्यते यस्य स वेशोभग्यः ।
यशोभग्यः ।
वेशः इति वलं उच्यते ।
श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः ।
वेशश्च असौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्य अस्ति इति वेशोभग्यः । ।
____________________________________________________________________
[#४६२]
- <ख च># । । PS_४,४.१३२ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३२ः
वेशोयशाअदेर्भगान्तात्प्रातिपदिकात्मत्वर्थे खः प्रत्ययो भवति ।
योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश्च ।
चकारात्यथ् ।
वेशोभगीनः, वेशोभग्यः ।
यशोभगीनः, यशोभग्यः । ।
____________________________________________________________________
- <पूर्वैः कृतं इन-यौ च># । । PS_४,४.१३३ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३३ः
मत्वर्थे इति निवृत्तं ।
निर्देशादेव समर्थविभक्तिः ।
पूर्वशब्दात्तृतीयासमर्थात्कृतं इत्येतस्मिन्नर्थे इन य इत्येतौ प्रत्ययौ भवतः ।
चकारात्ख च ।
गम्भीरेभिः प्रथिभिः पूर्विणेभिः ।
पूर्व्यैः ।
पूर्वीणैः ।
पूर्वैः इति बहुवचनान्तेन पूर्वपुरुषाः उच्यन्ते ।
तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा । ।
____________________________________________________________________
- <अद्भिः संस्कृतम्># । । PS_४,४.१३४ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३४ः
निर्देशादेव समर्थविभक्तिः ।
अप्-शब्दात्तृतीयासमर्थात्संस्कृतं इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ।
यस्य+इदं अप्यं हविः ।
अद्भिः संस्कृतं इति । ।
____________________________________________________________________
- <सहस्रेण संमितौ घः># । । PS_४,४.१३५ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३५ः
निर्देशादेव समर्थविभक्तिअः ।
सहस्र-शब्दात्तृतीयासमर्थात्सम्मित इत्येतस्मिन्नर्थे घः प्रत्ययो भवति ।
सम्मितः तुल्यः, सदृशः ।
अयम ग्निः सहस्रियः ।
सहस्रतुल्यः इत्यर्थः ।
केचित्तु समितौ इति पठन्ति ।
तत्र अपि समित्या सम्मितः एव लक्षयितव्यः ।
तत्र छन्दसि प्रयोगदर्शनात् । ।
____________________________________________________________________
- <मतौ च># । । PS_४,४.१३६ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३६ः
मत्वर्थे च सहस्र-शब्दात्घः प्रत्ययो भवति ।
सहस्रं अस्य विद्यते सहस्रियः ।
तपः-सहस्राभ्यां विनि-इनी (*५,२.१०२), अण्च (*५,२.१०३) इत्यस्य अपवादः । ।
____________________________________________________________________
- <सोमं अर्हति यः># । । PS_४,४.१३७ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३७ः
निर्देशादेव समर्थविभक्तिः ।
सोम-शब्दात्द्वितीयासमर्थातर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति ।
सोमं अर्हन्ति सोम्या ब्राह्मणाः ।
यज्ञार्हाः इत्यर्थः ।
यति प्रकृते य-ग्रहणं ।
स्वरे विशेषः । ।
____________________________________________________________________
[#४६३]
- <मये च># । । PS_४,४.१३८ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३८ः
सोम-ग्रहणं यश्च अनुवर्तते ।
मय इति मयडर्थो लक्ष्यते ।
सोम-शब्दान्मयडर्थे यः प्रत्ययो भवति ।
आगतविकारावयवप्रकृता मयडर्थाः ।
हेतुं अनुष्येभ्योऽन्यत्रस्यां रूप्यः (*४,३.८१) मयट्च (*४,३.८२), मयड्-वा+एतयोर्भाषायां अभक्ष्य आच्छादनयोः (*४,३.१४३), तत्प्रकृतवचने मयट्(*५,४.२१) इति ।
तत्र यथायोगं समर्थविभक्तिः ।
पिबाति सोम्यं मधु ।
सोमं अयं इत्यर्थः । ।
____________________________________________________________________
- <मधोः># । । PS_४,४.१३९ । ।
_____Sठाऱ्ठ्JKव्_४,४.१३९ः
यशब्दो निवृत्तः ।
मधु-शब्दान्मयडर्थे यत्प्रत्ययो भवति ।
मधव्यान्स्तोकान् ।
मधुमयानित्यर्थः । ।
____________________________________________________________________
- <वसोः समूहे च># । । PS_४,४.१४० । ।
_____Sठाऱ्ठ्JKव्_४,४.१४०ः
वसु-शब्दात्समूहे वाच्ये यत्प्रत्ययो भवति, चकारान्मयडर्थे च ।
यथायोगं समर्थविभक्तिः ।
वसव्यः समूहः ।
मयडर्थो वा ।
अक्षरसमूहे छन्दसः स्वार्थ उपसङ्ख्यानं ।
ओ श्रावय इति चतुरक्षरं ।
अस्तु श्रौषटिति चतुरक्षरं ।
यज इति द्व्यक्षरं ।
ये यजामहे इति पञ्चाक्षरं ।
द्व्यक्षरो वषट्कारः ।
एश वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिरंर्यज्ञो मन्त्रे विहितः ।
सप्तदशाक्षराण्येव छन्दस्यः इत्यर्थः ।
छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः ।
वसुशब्दादपि यद्वक्तव्यः ।
हस्तो पृणस्व बहुभिर्वसव्यैः ।
वसुभिः इत्यर्थः ।
आग्निराशे वसव्यस्य ।
वसोः इत्यर्थः । ।
____________________________________________________________________
- <नक्षत्राद्घः># । । PS_४,४.१४१ । ।
_____Sठाऱ्ठ्JKव्_४,४.१४१ः
नक्षत्र-शब्दाद्घः प्रत्ययो भवति स्वार्थे ।
समूहे इति न अनुवर्तते ।
नक्षत्रियेभ्यः स्वाहा । ।
____________________________________________________________________
- <सर्वदेवात्तातिल्># । । PS_४,४.१४२ । ।
_____Sठाऱ्ठ्JKव्_४,४.१४२ः
सर्वदेव-शब्दाभ्यां तातिल्प्रत्ययो भवति छन्दसि विषये स्वार्थिकः ।
सर्वतातिं ।
देवतातिं । ।
____________________________________________________________________
[#४६४]
- <शिव-शम्-अरिष्टस्य करे># । । PS_४,४.१४३ । ।
_____Sठाऱ्ठ्JKव्_४,४.१४३ः
करोति इति करः प्रत्ययार्थः ।
तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ।
शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्येतस्मिन्नर्थे तातिल्प्रत्ययो भवति ।
शिवं करोति इति शिवतातिः ।
शंतातिः ।
अरिष्टतातिः । ।
____________________________________________________________________
- <भावे च># । । PS_४,४.१४४ । ।
_____Sठाऱ्ठ्JKव्_४,४.१४४ः
भावे चार्थे छन्दसि विषये शिवादिभ्यः तातिल्प्रत्ययो भवति ।
शिवस्य भावः शिवतातिः ।
शंतातिः ।
श्रिष्टतातिः ।
यतः पूर्णोऽवधिः ।
अतः परमन्यः प्रत्ययोऽधिक्रियते । ।
इति श्रिजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः । ।
प्रथमो भागः समाप्तः