सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/द्वितीयोऽध्यायः/प्रथमः पादः

विकिस्रोतः तः
काशिकाविवरणपञ्जिका
प्रथमः पादः
[[लेखकः :|]]
द्वितीयः पादः →

श्रीबोधिसत्त्वदशीयाचार्यजिनेन्द्रबुद्धिपादविरचिता
न्यासापरपर्याया
काशिकाव्याख्या
----------
द्वितीयाध्यायस्य
प्रथमः पादः
1.समर्थः पदविधिः। (2.1.1)
`परिभाषेयम्' इति। परितो व्यापृता भाषा = परिभाषा। तथा चोक्तम्-- `परिभाषा पुनरेकस्था सर्व शास्त्रमभिज्वलयति, यथा-- वश्मप्रदीपः'। कुतः पुनरेतद्विज्ञायते-- परिभाषेयम्, नाधिकार इति ? पदविधिग्रणाल्लिङ्गात् । उत्तरत्र हि सर्वः पराङ्गवद्भावादिरनुकरस्यमानः पदविधिरेव। तत्र यद्यमधिकारः स्यात्, पदविधिग्रहणमनर्थकं स्यात्; वयावर्त्याभावात्। परिभाषायां त्वस्याम्, परिभाषा ह्येकदेशस्यापि सर्वत्र शास्त्रे व्याप्रियत इत्यसति पदविधिग्रहणे वर्णविधायवप्युपतिष्ठेत। ततो वर्णविधिनिरासार्थ क्रियमाणं पदविधिग्रहणमर्थवद्भवति। तस्मात् पदिविधग्रहणाल्लिङ्गात् परिभाषेयं नाधिकार इत्यवसीयते। यद्यवम्, `इसुसोः सामर्थ्ये' (8.3.44) , `न चवाहाहैवयुक्ते' (8.1.24) इत्येवमादिषु योगेषु सामर्थ्यग्रहणं युक्तग्रहणञ्च किमर्थं क्रियते, यावता `पदस्य' इति तत्रानुवर्त्तते, तत्र पदविधित्वादेवासामर्थ्ये न भविष्यति ? सत्यमेतत्; यदर्थं तु क्रियते तत् तत्रैव प्रतिपादयिष्यामः।
विधिशब्दोऽयमस्त्येव भावसाधनः-- विधानं विधिरिति। अस्ति च कर्मसाधनः-- विधीयत इति विधिः। तत्र भावसाधने विधिशब्द आश्रीयमाणे पदानामपरिनिष्पन्नानां परिनिष्पादनं पदविधिरिति पदेषु कर्मणि कृद्योगलक्षणा षष्ठी; तेषां विधिना सम्बन्धात्। कर्मसाधने तु परिनिष्पन्नानां व्यवस्थितानामेव पदानां यत्समासादि कार्यं विधीयते स पदिविधिः। तत्र पदेषु च शेषलक्षणा षष्ठी भवति; विधीयमानस्य कार्यस्य पदसम्बन्धित्वेनोपादानात्। तत्र यदीह भावसाधनो विधिशब्द आश्रीयेत तदा विभक्तिविधानमेव सङ्गृहीतं स्यात्,समास-- पराङ्गवद्भाव--तद्धितवृत्त्यादिकं न सङ्गृह्येतच न हि तत्र पदानामसतां विधानम्; किं तर्हि ? व्यवस्थितानामेव पदानां समासादि कार्यं विधीयते। इतरत्र तु विधिशब्द आश्रीयमाणे तेऽपि सङ्गृहीता भवन्तीति मन्यमानः कर्मसाधनं विधिशब्दमाश्रित्याह-- `विधीयत इति विधिः' इति। ननु चात्रापि पक्षे विभक्तिविधानं न सङ्गृह्येत, न हि `कर्मणि द्वितीया' (2.3.2) इत्येवमादिशास्त्रेण व्यवस्थितानां पदानां किञ्चित् कार्यं विधीयते, अपि तु पदान्येव विधीयन्ते ? यदि न सङ्गृहीतं स्यान्न नाम। न च तदसङ्ग्रहे किञ्चिदनिष्टमापद्यत इत्युत्तरत्र प्रतिपादयिष्यामः। `समासादिः' इति। आदिशब्देन तद्धितवृत्यादीनां ग्रहणम्।
`समर्थः शक्तः' इति। स्वकार्यनिर्वर्तनक्षम इत्यर्थः। स हि लोके समर्थ इत्युच्यते। स्वार्थप्रतिपादनमेव शब्दानां स्वकार्यम्। ये चेह लौकिका वैदिकाश्च शब्दा अधिकृतास्ते सर्वे एव स्वकार्यप्रतिपादनं प्रति समर्थाः। तस्मात् `समर्थः' इत विशेषणोपादानसामर्थ्याद्विशेषः कश्चिदाश्रीयते। स च विशेषः-- वृत्त्यर्थं यद्वाक्यमुपादीयते, प्रत्यासत्तेस्तदर्थप्रतिपादने या शक्तता तल्लक्षमो विज्ञायत इत्याह-- `विग्रहवाक्यर्थाभिधाने' इत्यादि। विशेषेण गृह्यते विज्ञायतेऽनेनेति विग्रहः, विग्रहश्च तद्वाक्यम्। अथ वा-- विशेषेण ग्रहणं विग्रहः, विग्रहार्थं यद्वाक्यं तद्विग्रहवाक्यम्। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। विग्रहवाक्यस्यार्थो विग्रहवाक्यार्थः, तदभिधाने तत्प्रत्यायने यः शक्तः स समर्थो वेदितव्यः, यथा-- राजपुरुष इत्ययं समसाः, एतदर्थं यद्वाक्यं राज्ञः पुरुष इति तस्य योऽर्थस्तदभिधाने राजपुरुष इत्ययं शब्दं शक्तः; ततोऽपि तदर्थस्य प्रतीतेः। स पुनरर्थः-- संसर्गः, भेदश्च;भेदसंसर्गौ वा।तत्र स्वविशेषस्य स्वामिविशेस्य स्वामिविशेषेण यः सम्बन्धः स `संसर्गः' आख्यायते। स्वान्तरस्य स्वाम्यन्तरेभ्यः, स्वाम्यतरस्य स्वातन्तरेभ्यश्च व्यावृत्तिः `भेदः' आख्यायते।


तत्र संसर्गवादिनो मते संसर्ग एव शब्दार्थः, व्यावृत्तिस्त्वर्थसंगृहीता। न ह्यव्यावर्त्त्यसंगृहीता। न ह्यव्यावर्त्त्यमानयोः स्वस्वामिनोः सम्बन्ध्यन्तरेभ्यः संसर्ग उपपद्यते। भेदवादिनस्तु व्यावृत्तिरव शब्दार्थः, संसर्गोऽर्थसङ्गृहीतः; न हि व्यावर्त्त्यमानस्य सम्बन्ध्यन्तरेणासम्बद्धस्य स्वाम्यादेरवस्थानमस्ति। उभयवादिनस्तु उभय एव शब्दार्थः। यदि विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो विज्ञायेत, एवं सति समासतद्धितविषयमेव सामर्थ्यामिति पराङ्गवद्भावविभक्तिविधानयोरियं परिभाषा नोपतिष्ठेत; न हि तत्र विग्रहवाक्यार्थाभिधानमस्ति ? यदि नोपतिष्ठेत, न नाम; न च तदनुपस्थाने किञ्चिदनिष्टमापद्येत। तथा हि-- पराङ्गवद्भावे तावन्निमित्तग्रहणं देशयिष्यति भाष्यकारः। तत्र च निमित्तस्य निमित्तिना सामर्थ्यमस्त्येव-- मद्राणां राजन्, परशुना वृश्चन्निति। विभक्तिविधानेऽपि यास्तावत् कारकविभक्तयस्ता येष्वेव कारकेषु कर्मादिषु विधीयन्ते तेषां क्रियया सम्बन्धोऽस्त्येव। उपपदविभक्तिष्वपि `सहयुक्तेऽप्रधाने' (2.3.19) इत्येवमादिषु युक्तग्रहणादीनि सन्ति, तत्रापि सामर्थ्यमस्त्येव। तत्रैवं सम्बन्धे सति विभक्तय इष्यन्ते, न तु विग्रहवाक्यार्थाभिधानलक्षणसामर्थ्ये। एवं तावन्मुख्यार्थवृत्तिः समर्थशब्दो दर्शितः।
इदानीमुपचरितवृत्तिं दर्शयितुमाह-- `अथ वा' इत्यादि। समर्थानि पदान्याश्रयो यस्य स समर्थपदाश्रायः; तद्भावः समर्थपदाश्रयत्वम्। ततो हेतोः समासादिः समर्थ उच्यते। आश्रयस्य समर्थत्वादुपचारेणाश्रितोऽपि तथेति व्यपदिश्यते; कारणधर्मस्य कार्य उपचारात्, यथा-- ऩड्‌वलोदकं पादरोगः। `समर्थानाम्' इत्यनेन वाक्ये व्यपदेशलक्षणं सामर्थ्यमाह। तथा हि `राज्ञः पुरुषः' इत्यत्र वाक्ये राजा पुरुषमपेक्षते -- ममायमिति, पुरुषोऽपि राजानमपेक्षते-- अहमस्येति। `संसृष्टार्थानाम्' इत्यनेन समासे पदानामेकार्थीभावनलक्षमं सामर्थ्यं दर्शयति। एकार्थीभावश्च पृथगवस्थितानां भिन्नार्थानां पदानां समासे साधारणार्थता नामावस्थाविशेषः। वाक्ये हि साधारणार्थता नास्ति; भिन्नार्थत्वात्। अत एव तत्र भेदनिबन्धना षष्ठ्युपजायते-- राज्ञः पुरुष इति। वृत्तौ तूभयपदव्यवच्छिनार्थाभिधानत् साधारणार्थता भवति। एतेनैतदुक्तं भवति-- समासे हि विशेषणं विशेष्यमनुप्रविशत्येकार्थी भवति विशेष्येण सरह, वाक्ये हि विशेषमं विशेष्यात् पृथगवतिष्ठत इति। यस्मिन्नसति, वाक्ये राज्ञो गौश्चाश्वश्च पुरुषश्चेति भेदनिबन्धनसमुच्चयप्रतिपादनाय चशपब्द प्रयुज्यते। समासे तु यस्मिन् सति स निवर्त्तते राज्ञो गवाश्वपुरुषा इत्ययमेकार्थीभावो वेदितव्यः। `पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्' इति। अत्र कष्टशब्दस्य पश्येत्यनेन सम्बन्धः; न तु श्रितशब्दन; तेन सामर्थ्याभावात्समासो न भवति। ननु च श्रितादीनां श्रुतत्वात्तैरेव द्वितीयां विशेषयिष्यामः-- श्रितादीनां सम्बन्धिनी या द्वितीयेति शक्यते व्यपदेष्टम् : असति तु तस्मिन्, द्वितीयामात्रं श्रितादिभिः समस्यत इति विज्ञायते। एवं सापेक्षस्यापि समासः स्यादेव-- महत् कष्टं श्रित इति, भवति ह्यत्र श्रितादिनिमित्ता द्वितीया। तस्मात् समर्थग्रहणं कर्त्तव्यम्। `किं त्वं करिष्यसि सङ्कुलया, खण्डो देवदत्त उपलेन' इति। अत्रोपलेन तृतीयान्तेन कृतं खण्डनम्। अतस्तत्कृतत्वमस्तीति प्राप्नोति समासः; समर्थग्रहमान्न भवति। समर्थग्रहणे तु सत्ययमर्थो भवति-- यस्यैव तृतीयान्तस्य समासस्तेनैव यदि कृतं खण्डनमिति। न चेह तत्कृतं खण्डनमतो न भवति समासः। एवमन्यत्राप्यसामर्थ्यादसमासो वेदितव्यः।
2.सुबामन्त्रिते पराङ्गवत्स्वरे। (2.1.2)
`परस्याङ्गवत्' इति। अत्राङ्गवशब्दोऽवयववचनः। पर्सयाङ्गवत् परैकदेशवद्भवति। तद्‌ग्रहणेन गृह्यत इत्यर्थः। एवं तादात्म्यातिदेशोऽयं विज्ञायत इत्याह-- `तादात्म्यातिदेशोऽयम्' इति। तादात्म्यम् = तत्सभावत्वम्। `सुबन्तम्' इत्यादिना तमेव तादात्म्यातिदेशं स्पष्टीकरोति। `सुबन्तमामन्त्रितमनुप्रविशति' इति। तत्रान्तर्भवतीत्यर्थः। `कुण्डेनाटन्' इति। अत्र कुण्डशब्दोकार आमन्त्रितस्वरः। एवमन्यत्रापि ससुप्कस्यामन्त्रितस्य स्वरो वेदितव्यः।
`पीड्ये पीड्यमान' इति। हे पीड्यमान त्वदीयया पीडयाऽहं पीड्ये, बाध्येऽहमित्यर्थः। `पीड अवगाहने' (धा.पा.1544), चुरादिणिच्, उभयत्र कर्मण्यात्मनेपदम्, एकत्रोत्तमपुरुषैकवचनमिट्, अन्यत्र शानच्, सार्वधातुके यक्, णिलोपः, `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुमनुदात्तमहन्विङोः' (6.1.186) इतीटोऽनुदात्तत्वम्, यकः प्रत्ययस्वरेणाद्युदात्तत्वम्, यकः प्रत्ययसर्वेणाद्युदात्तत्वम्, `एकादेश उदात्तेनोदात्तः' (र8.2.5) इत्येकार उदात्तः। पीड्यमानेत्यस्य तु `पीड्य' इत्यस्यात् पदादुत्तरस्य `आमन्त्रितस्य च' (8.1.19) इति निघातः। `गेहे गार्ग्यः' इति। गेहशब्द उञ्छादिपाठादन्तोदात्तः, सप्तम्येकादेशः पूर्ववदुदात्तः, गार्ग्य इति ञ्त्सरेणाद्युदात्तः। पृथक्स्वर एवात्र भवति। `देवदत्त कुण्डेनाटन्' इति। यदि परग्रहणं न क्रियते तदा देवदत्तशब्दं पूर्वमप्यामन्त्रितं प्रति सुबन्तस्यानुप्रवेशः स्यात्, ततश्च देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य `आमन्त्रितस्य च'(8.1.19) इति निघातः स्यात्। ननु च परग्रहणे क्रियमाणे कुण्डशब्दस्य पराङ्गवद्भावे सत्याद्युदात्तत्वे षाष्ठिके कृते देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य निघातेन भवितव्यमेव ? नैतदस्ति; अपादादौ हि स निघातः, पादादित्वञ्चेह विवक्षितम्; तत्र च देवदत्तेत्यामन्त्रितस्वरेणाद्युदात्तः। एवं कुणेडनाटन्नित्यपि। आमन्त्रितनिघातोऽत्र न भवति; पादादित्वात्। `यथा मृत्पिण्डीभूतः स्वरं लभेत' इति। कथं नाम सुबन्तसमुदायो मृत्पिण्ड इवैकीभूत एकरूपतामिवापन्नः स्वरं लभेततेत्यवमर्थमङ्गग्रहणम्। किमर्थं पुनरेकीभूतस्य स्वरप्राप्तये यत्नः क्रियत इत्यत आह-- `उभयोः' इत्यादि। यद्यङ्गग्रहणं न क्रियेत, ततश्च कार्यातिदेश- शास्तरातिदेश-व्यपदेशातिदेशानामन्यतमः स्यात्। तथा च सति यथा परस्य कार्यमाद्युदात्तत्वमामन्त्रितव्यदेश आद्युदात्तशास्त्रं च; तथा सुबन्तस्य पूर्वस्यापि स्यादिति,ततश्चोभयोरप्याद्युदात्तत्वं स्यात्। अङ्गग्रहणे तु सति तादात्म्यातिदेशोऽयं भवति। तेन मृत्पिण्डीभूतः सुबन्तसमुदाय आमन्त्रिताद्युदात्तरूपं स्वरं लभत इति न भवत्युभयोराद्युदात्तत्वप्रसङ्गः। `स्वाश्रयमपि कार्यं यथा स्यात्' (इति)। `आम कुण्डेनाटन्' इत्यत्र अटन्नित्येतस्य पदात्परस्य `आमन्त्रितस्य' (8..19) इति निघाते प्राप्ते `न लुट्' (8.1.29) इत्यतो नेत्यनुवर्त्तमाने `आम एकान्तरताया अभावात्। परमेव हि स्यात् सुबन्तमसतिवत्करणे, न च तथाभूतेनैकान्तरता युक्ता। वत्करणे तु सति, भवति कदाचित् स्वाश्रयमप्यनङ्गत्वमित्युपपद्यत एकान्तरता, तेन निघातप्रतिषेधः सिध्यति। तत्रायं स्वरविभागः-- आमित्यस्य निपातस्वरेणाद्युदात्तत्वम्। कुण्डशब्दस्यापि पराङ्गवद्भावे सत्यामन्त्रितस्वरेणाद्युदात्तत्वम्। तथा निघातप्रतिषेधे सत्यटन्नित्येतस्यापि षाष्ठिकेनाद्युदात्तेन भवितव्यम्। `कूपे सिञ्चन्' इति। अत्र पराङ्गवद्भावो नास्तीति पदादित्वं सकारस्य भवति। तेन `सात्पदाद्योः' (8.3.109) इति षत्वप्रतिषेधः स्यात्। `चर्म नमन्' इति। अत्रापि पराङ्गवद्भावाभावात् समानपदस्थौ निमित्तनिमित्तिनौ न भवत इति समानपदाश्रयं णत्वं न भवति।
`सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य' इत्यादि। किं पुनः कारणं समानाधिकरणस्य न प्राप्नोति, यत इदमुपसंख्यानं क्रियत इत्याह-- `अनन्तरत्वात्' इति। `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात् व्यवहिते न प्राप्नोतित्तयुपसंख्यायते। `तीक्ष्णया सूच्या सीव्यन्' इत्यत्र सीव्यन्नित्येतस्मिन् परतस्तीक्ष्णयेत्यस्य व्यवहितस्यापि पराङ्गवादाद्युदात्तत्वं भवति। `उच्चैरधीयान' इति। उच्चैः शब्दस्य पराङ्गवद्भावाभावादामन्त्रितनिबन्धनमाद्युदात्तत्वं न भवति। तस्मिन्नसति तत्रान्तोदात्तत्वमेव भवति; स्वरादिष्वनन्तोदात्तस्य पाठात्। तथा हि तत्रैव सन्नतर-- उच्चैस्- नीचैरित्येवमादीनि पृथक्पर्यन्तान्युपदिश्य `एते सन्नतरप्रभृतयोऽन्तोदात्ताः पठ्यन्ते' (1.1.37) इत्युक्तम्। अधीयानेत्यस्य यदा पादादित्वं विवक्ष्यतेतदाऽऽद्युदात्तत्वम्, अन्यत्र `आमन्त्रितस्य च' (8.1.19) इति निघातः।।

3. प्राक्कडारात्समासः। (2.1.3)
`यथावृद्धम्' इति। अत्र समाससंज्ञायां सत्याम् `कृत्तद्धितसमासाश्च ' (1.2.46) इत्येवमादि कार्यं भवति। अथ किमर्थं प्राग्वचनम् ? यावता पञ्चमीनिर्देंशादेव प्रागित्यस्याध्याहारो भविष्यति; न च परागित्ययमपि दिक्छब्दोऽस्ति, अतस्तस्याप्यध्याहारः स्यादित्यशङ्कनीयम्, तदध्याहारे कडारसंशब्दनात् परे येऽनुक्रंस्यन्ते तेषां समाससंज्ञा स्यात्; तथा च कडारसंशब्दनादनन्तरमेव समासाधिकारं कुर्यात्, इह तु कृतः, तस्मादिह करणसामर्थ्यात् समासाधिकारस्य प्रागित्यस्याध्याहारो भविष्यति, ततो नार्थः प्राग्वचनेनेत्याह-- ` प्राग्वचनम्' इत्यादि। उत्तरत्राव्ययीभावादिसंज्ञाभिः सह समाससंज्ञायाः समावेशो यथा स्यादित्येवमर्थ प्राग्वचमनम्। असति तु तस्मिन्, ताभिरनवकाशाभिरियं संज्ञाल बाध्येत। अस्यास्तु समाससंज्ञायाः `सह सुपा' (2.1.4) इत्यत्र सहेति योगविभागेन यः समासः क्रिते सोऽवकाशः स्यात्-- अनुप्रावर्षत्, अनुव्यचलदिति, तिङन्तेनात्र समासः; असत्यपि सावकाशत्व एकसंज्ञाधिकारे वचनप्रमाण्यात् पर्यायेण वृत्तिः स्यात्, न तु समावेशः। साक्षात् सूत्रेणोपात्ते तु प्राग्वचने सति भवति समावेशः, कथम्? एवं हि सम्बन्धः क्रियते-- कडारात् प्राग्यावन्तो व्यवस्थितः सर्वे ते समाससंज्ञका भवन्ति, समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञां लभन्त इत। तेन निमित्तमेव समाससंज्ञाऽव्ययीभावादिसंज्ञानाम्। नच निमित्तिना निमित्तं विहन्यते; अन्यथा तस्य निमित्तत्वमेव न स्यादिति युक्तः सूत्रोपात्तेन प्राग्वचनेन समावेशः। अध्याहृते तु तस्मिन् `कडारसंशब्दनात्प्राग्यावन्तो व्यवस्थिताः सर्वे ते समाससंज्ञका भवन्ति' इत्येषोऽर्थो लभ्यते, न तु `समाससंज्ञकाः सन्तोऽव्ययीभावादिसंज्ञकाः' इत्येषोऽपि। साक्षात् सूत्रोपात्ते तु तस्मिन्नेषोऽपि लभ्यते; अन्यथा तस्य सूत्रे साक्षादुपादानमनर्थकं स्यात्।।

4. सह सुपा। (2.1.4)
`सहग्रहणं योगविभागार्थम्' इति; ननु चासति तस्मिन्नेकैकस्य संज्ञा स्यात्, ततश्च ऋक्पाद इत्यत्र `ऋक्पूरब्धूः पथामानक्षे' (5.4.74) इत्यत्राकारः समासान्तः स्यात्; इह च `राजाश्वः' इत्यत्र `समासस्य' (6.1.223) इति द्वौ स्वरौ स्याताम्, सहभूतयोरेव समाससंज्ञा यथा स्यादेकैकस्य मा भूदित्येवमर्थ सहग्रहणं कस्मान्न विज्ञायते ? एवं मन्यते-- सुपेति तृतीयैव सहार्थ गमयति, यथा `वृद्धो यूना' (1.2.65) इति। समासट इति च महती संज्ञा क्रियते-- अन्वर्थसंज्ञा यथा विज्ञायेतेति। कथं नामान्वर्थसंज्ञा क्रियते ? समसनम् = समासः, संक्षेप इत्यर्थः। संक्षेपश्चानेकवस्तुविषयः। तेनासत्यपि सहेतस्मिन् सहभूतयोरेव समाससंज्ञा भविष्यति। `न प्रत्येकम्' इति। `अनुव्यचलत्' इति। तिङन्तेनात्र समासः। अत्र `तिङङतिङः' (8.1.28) इति निघाते कृते समाससंज्ञायां सत्यां तन्निबन्धनमन्तोदात्तत्वं भवति।।

5. अव्ययीभावः। (2.1.5)
`यथावृद्धम्' इत्यत्राव्ययीभावत्वे सति `अव्ययीभावश्च' (2.4.18) इति नपुंसकत्वे `नाव्ययीभावादतोऽम्त्वपञ्चम्याः' (2.4.83) इत्येष विधिर्भवति। `अन्वर्थसंज्ञा चेयम्' इति। अनव्ययमव्ययं भवतीत्यव्ययीभावः। `पूर्वपदार्थप्राधान्यम्' इत्यादिना अन्वर्थसंज्ञायाः फलमाह। प्रायेण ह्यव्ययीभावे पूर्वपदमव्ययम्, परपदमन्यव्ययम्; समुदायो नाव्ययम्‌। स यदि पूर्वपदवशेन तस्य पूर्वपदस्य यो धर्मोऽव्ययत्वं तत्प्रतिपद्यते ततो।ञनव्ययस्वभावः सन्नव्ययस्वभावो भवति। एवञ्च पूर्वपदवशेन तद्धर्मं प्रतिपद्यते यदि पूर्वपदं प्रधानं भवति, नान्यथा। प्रधानवशेन हि वस्तुनः स्वधर्मपरित्यागेन धर्मान्तरापत्तिर्युक्ता। तदेवमन्वर्थसंज्ञेयं भवन्ती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। तेन यदा पूर्वपदार्थस्य प्राधान्यं भवति तदाव्ययीभावो भवति, नान्यथेत्युक्तं भवति।।

6.अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु। (2.1.4)
`स्त्रीष्वधिकृत्य कथा प्रवर्त्ततेऽधिस्त्रि' इति। `अनभिहिते' (2.3.1) इति सूत्रे `तिङकृत्तद्धितसमासैः परिसंख्यानम्' (म.भा.1.441) इति परिगणनं कृतम्, तेनाधिशब्देन द्योतिते सप्तम्यर्थे स्त्रीशब्दात् सप्तमी भवति। तेन तदन्त एव समस्यते। अधिशब्दस्तु प्रथमान्तः। `अव्ययीभावश्च' (2.4.18) इति नपुंसकत्वम्। `ह्रस्वो नपुंसके' (1.2.47) इति ह्रस्वः। विभक्तिशब्देनेह कारकमुच्यते-- विभज्यते प्रातिपदिकार्थोऽनयेति कृत्वा। तच्चेहाधिकरणं विवक्षितमित्याह-- `सप्तम्यर्थे यदव्ययम्' इति।
`उपकुम्भम्' इति। समीपार्थेनोपशब्देनोपजनिते व्यतिरेके कुम्भशब्दात् षष्ठी भवतीति षष्ठ्यन्तं एव समस्यते।
`समुद्रम्' इति। यदा मद्रैर्विशिष्यमाणत्वात् समृद्धेः प्राधान्यं भवति तदायं समासः। मद्राणामाधिक्येन ऋद्धिर्वर्त्तत इत्यर्थः। यदा तु मद्राः समृद्ध्या विशिष्यमाणाः प्रधानभावमनुभवन्ति तदा `कुगतिप्रादयः' (2.2.18) इत तत्पुरुषो भवति-- सुमदर्ा इति। समृद्धिमन्तो मद्रा इत्यर्थः।
`दुर्गवदिकम्' इति। गवादिकानामृद्धिविगमो वर्त्तत इत्यर्थः। ननु चार्थाभाव इत्यनेनैव तत्सिद्धम्, तथा ह्यर्थाभावो वस्त्वभावो भवत्येव, तत्कोऽत्र विशेषो येनार्थाभावात् ऋद्धिविगमस्य पृथगभिधानं क्रियते ? अयमस्ति विशेषः; उत्तरपदार्थाभावो हि द्रव्याभावः, यथा-- निर्मक्षिकमिति, मक्षिकाणामभाव उच्यते; न तु दुर्गवदिकमित्यत्र गवादिकानामभावः, किं तर्हि ? तदीयाया ऋद्धेर्विगमः।
`अर्थाभावः' इति। अर्थार्थग्रहणं किमर्थम् ? धर्माभावे प्रसज्यप्रतिषेधो मा भूत्, यथा-- न भवति ब्राह्मणोऽब्राह्मण इति। ब्राह्मणत्वं धर्मोऽत्र प्रतिषिध्यते, न तु वस्त्वभावः। किञ्च-- इतरेतराभावेच मा भूत्, गौरश्वो न भवतीति। अत्राप्यर्थान्तरत्वं प्रतिध्यते, न तु वस्त्वभावः।
`अत्ययोऽभूतत्वम् इति। अस्यैव प्रयायोऽतिक्रमः। अतिक्रमः इत्युत्पत्त्यभावः, प्रध्वंसाभाव इत्यर्थः। अर्थाभावस्तु क्वचिद्देशे सर्वदैव वस्तुनोऽभावः, न तूत्पन्नस्य पश्चादभाव इत्यत्ययोऽर्थाभावाद्भिद्यते।
`उपभोगस्य' इत्यादिनाऽर्थाभावाद्भेदं दर्शयति। अर्थाभावो हि क्वचिद्देशे कालत्रयेप्यभावः, असम्प्रति पुनरुपभोगस्य यो वर्त्तमानः कालस्तस्यैव प्रतिषेध इति भिद्यते; असम्प्रत्यर्थाभावात्। `अतितैसृकम्' इति। तिसृका नाम ग्रामः `तत्र भवः' (4.3.53) `तत आगतः' (4.3.74) इति वाऽण्, तैसृकम्, न तैसृकस्य वर्त्तमानः काल उपभोगस्येत्यर्थेऽतितैसृकमिति भवति।
`अनुरूपम्' इत्यत्र योग्यतायामनुशब्दः। योग्यं रूपं वहतीत्यर्थः। `प्रत्यर्थम्' इति। प्रतिशब्दोऽव्ययमत्र वीप्सायाम्, अर्थमर्थ प्रति प्रत्यर्थम्। ननु चात्र नित्यसमासत्वात् वाक्येन न भवितव्यम् ? नैतदस्ति; प्रतिशब्दस्य वीप्सायामर्थे कर्मप्रवचनीयसंज्ञा विहिता, तद्योगे द्वितीया यथा स्यादित्येवर्थम्। तस्याश्च वाक्य एव प्रयोगो नान्यत्रेति तेन सत्यपि नित्यसमासत्वे वाक्यमपि भवति। `यथाशक्ति' इति। पदार्थानतिवृत्तौ यथाशब्दः। पदमत्र शक्तशब्दस्तस्यार्थः शक्तरेव; तस्या अनतिवृत्तिरनतिक्रमः। यथाशक्ति करोतीति शक्यनतिक्रमेण करोतीत्यर्थः। `ज्येष्ठानुपूर्व्येण' इति। ज्ेयष्ठानुक्रमेणेत्यर्थः।
`सचक्रम्' इति। `अव्ययीभावे चाकाले' (6.3.81) इति सहशब्दस्य सभावः। एवं `सकिखि' इत्यादावपि सभावो वदितव्यः।
`गुणभूतेऽपि' इत्यादि। यदि सादृश्य इति नोच्येत तदा पूर्वपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशेष्यत्वात् प्रधानं भवति तदैव स्यात्, सादृश्यं किख्याः सकिखीति गुणभूते तु न स्यात्, अस्माद्वचनाद्भवति। `सदृशः किख्या' इति। सादृश्यवतः प्राधान्यप्रदर्शनेन सादृश्यस्य गुणभावं प्रदर्शयितुं सदृशः किख्या इत्युक्तम्‌। सादृश्यप्राधान्ये विवक्षिते हि सादृश्यमिति भावप्रत्ययेन युक्तो निर्देशः स्यात्। `सकिखि' इति। पूर्ववद् ह्रस्वः।
ननु च सम्पत्तिः समृद्धिरेव, तत्कथं पृथगुच्यत इत्यत आह-- `सम्पत्तिरनुरूपम्' इत्यादि। `सब्रह्मवाभ्रवाणाम्' इति। तेषामनुरूप आत्मभाव इत्यर्थः। `अधिकार्थवचनेन ' इति। तृणानामभ्यवहारोऽधिकार्यस्तद्वचनेन। न किञ्चिदित्यादिना वाक्येनाधिकार्थतां दर्शयति। यो हि तृणान्यभ्यवहरति स कथमन्यदभ्यवहार्य्य परित्यज्यति !
ननु चान्तशब्दः परिसमाप्तौ वर्त्तते, तत्र च साकल्यमस्त्येव तत्कथमन्तवचनं साकल्यात्पृथगुच्यत इत्यत आह-- `{अन्तः-- काशिका} अन्तशब्दः'इत्यादि। यावतोऽध्ययनस्य परिग्रहः-- एतावन्मयाऽध्येतव्यमिति-- तदपेक्षया या समाप्तिः सोऽन्तः, स चासाकल्येऽप्यध्ययनस्य भवतीति साकल्यात् पृथगुच्यते। `साग्न्यधीते' इति। अग्निपर्यन्तमधीत इत्यर्थः। अग्नर्थो ग्रन्थस्तादर्थ्यादग्निशब्देनोच्यते। यावतोऽध्ययनस्य परिग्रहस्तस्याग्निरन्तः; न तु ततः परेणाध्ययनमेव नास्तीति। तत्तु नाधीयत इत्यसाकल्यमत्रेत्याह-- `इयम्' इत्यादि। सुबोधम्।।

7. यथाऽसादृश्ये। (2.1.7)
`ये य वृद्धाः' इत्यनेन `यथावृद्धम्' इत्यत्र यथाशब्दो वीप्सायां वर्त्तत इत्याचष्टे। `यथा देवदत्तस्तथा यज्ञदत्तः' इति। देवदत्तसदृशो यज्ञदत्त इत्यर्थः। ननु च यथाशब्दोऽयमुपमानं `यज्ञदत्त' इत्युपमेयमपेक्षते। तत्र `सापेक्षमसमर्थं भवति' इत्यसामर्थ्यादेव समासो न भविष्यति, तत्किमर्थमसादृश्य इति प्रतिषेधेन ? नैतदस्ति; न ह्यत्र यथाशब्द उपमानम्, किं तर्हि ? `यथा देवदत्तः' इत्येष समुदायः। तस्मात् तस्यैवोपमेयापेक्षयाऽसामर्थ्यम्, न तु यथाशब्दस्य।।

8. यावदवधारणे। (2.1.8)
`इयत्तापरिच्छेदः'इति। इयतो भाव इयत्ता = परिमाणम्, तस्याः परिच्छेदो निश्चयः। `यावन्ति पात्राणि' इत्यादिना तमेवेयत्तापरिच्छेदं विस्पष्टीकरोति। `नावधारयामि' इत्यादिना इयत्तापरिच्छेदाभावं दर्शयति।।

9. सुप्प्रतिना मात्रार्थे। (2.1.9)
`वृक्षं प्रति' इत्यत्र लक्षणे प्रतिशब्दो वर्त्तते, न मात्रार्थे। ननु परं सुब्ग्रहणं कमर्थंम् ? यावता `सुबामन्त्रिते' (2.1.2) इत्यतः सुब्ग्रहणमतुवर्तिष्यत इत्यत आह-- `सुब्ग्रहणम्' इत्यादि। सुब्ग्रहणं पूर्वं ह्यव्ययेन सम्बद्धम्; अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मादव्ययनिवृत्त्यर्थमिदमन्यत सुब्ग्रहणं क्रियते।।

10. अक्षशलाकासंख्याः परिणा। (2.1.10)
`कितव्यवहारे' इत्यादि। कथं पुनः कितवव्यवहार इष्यमाणेऽपि तत्र लभ्यते ? स्वभावत एव; समासस्य तत्र वृत्तेः।न ह्यर्था अतिदिश्यन्ते, लौकिकत्वात् तेषाम्। `तस्य' इत्यादि। तस्य पातयितुस्तस्य च विपात इत्यनेन सम्बन्धः। विपातः = पराजयः। `एतस्य' इति। अक्षादेरेव प्रत्यवमर्शः। अभेदविवक्षायामेकवचनम्। एतस्यानयथा पात इत्यनेन सम्बन्धः। `अन्यथा' इति। जये य उक्तः पातप्रकारस्तदपेक्षयाऽन्यथात्वं विवक्षितम्। `पञ्चसु त्वेकरूपासु जय एव भवति' इति। पञ्चपरीति समसो न भवतीति भावः। जये हि यदक्षादीनां वृत्तं तदपेक्षयान्यपातत्वे सति समासेन भवितव्यम्। न च पञ्चस्वेकरूपास्वन्यथात्वं सम्भवति। अत एव जयस्तदा भवति यदा पञ्चाप्येकरूपा भवन्ति-- उत्ताना अवाञ्चो वा। एतेन प्रकारेण `परेण चतुष्परि' इत्यत्रोपपत्तिर्दर्शिता। `परेण' इति। अतिशयेनेत्यर्थः।
`अक्षादयस्तृतीयान्ताः' इत्यादि। अन्यथा वृत्तावयं समास इष्यते। तत्र चाक्षादिनामन्यथावृत्तौ कर्त्तृत्वं करणत्वं वा भवति, अतस्तृतीयया भवितव्यमिति तदन्ता एव समस्यन्ते । `पूर्वोक्तस्य' इति। अक्षादेरित्यर्थः। कुत एतत् ? अक्षादयस्तृतीयान्ता इति पूर्वमक्षादेरेवोक्तत्वात्। अभेदविवक्षायामेकवचनम्। षष्ठी चेयं शेषविवक्षायां वृत्तशब्दापेक्षया सम्बन्धलक्षणा, वृत्तशब्दस्त्वध्याहर्तव्यः। `यथा न तत्' इति। अक्षादेः पूर्वोक्तस्य यथा वृत्तमभूत् पूर्वं जये तथा वृत्तं यदि सम्प्रति न भवत्येवं समासो भवति , नान्यथा। पूर्ववृत्तस्यान्यथात्वद्योतने समासोऽयम्, तच्चैकेनापि क्रियते, ततो द्विवचनाद्यपेक्षया निष्प्रयोजनमित्याह-- `एकत्वेऽक्षशलाकयोः' इति। अक्षशलाकयोरेकवचनान्तयोरित्यर्थः। ततोऽयं न्यायसिद्ध एवार्थः श्लोकेन संगृहीतः।
अथ वा-- उत्तरं विभाषाग्रहणमिहापि सिंहावलोकितन्यायेन सम्बध्यते। सा च व्यवस्थिविभाषा। तेन वचनसिद्ध एवायमर्थो वेदितव्यः। अक्षादय इति किम् ? पाशकेनेदं न तथावृत्तं यथा पूर्वं जये। परिणेति किम्‌ ? सुबन्तमात्रेण सह समासो मा भूत्। कितवव्यवहार इति किम् ? अक्षाभ्यामक्षैर्वा न तथा वृत्तं यता पूर्वं जये।।

11.विभाषा। (2.1.11)

12. अपपरिबहिरञ्चवः पञ्चम्या। (2.1.12)
`ननु बहिः शब्दयोगे न केनचित्पञ्चमी विधीयते, तत्कथं तदन्तेन समास इत्याह-- `बहिः शब्दयोगे' इत्यादि। यदेतत् पञ्चम्यन्तेन सह बहिः शब्दस्य समासविधानम्, तज्ज्ञापयति- भवति हि बहिः शब्दयोगे पञ्चमीति। अथोपादानसामर्थ्यात् बहिः शब्दयोगे पञ्चमी न सम्भवतीत्यपञ्चम्यन्तेनैव सुबन्तमात्रेण समास इत्येवं कस्मान्न विज्ञायते ? अशक्यमेतद्विज्ञातुम्; पञ्चमीग्रहणस्य वैयर्थ्यप्रसङ्गात्। तथा हि `अपपरि वर्जने' (1.4.88) इत्येवमपपर्योः कर्मप्रवचनीयसंज्ञायां सत्यां ताभ्यां योगे `पञ्चम्यपाङपरिभिः' (2.310) इति पञ्चम्यैव भवितव्यम्; नान्यथा विभक्त्या। `अञ्चुशब्देनापि योगे' `अन्यारात्' (2.3.29) इत्यादिना पञ्चम्यैव भवितव्यमित्यपार्थकं पञ्चमीग्रहणं स्यात्. ननु चाकर्मप्रवचनीयौ यावपरी तयोरपञ्चम्यन्तेन समासो मा भूदित्येवमर्थं पञ्चमीग्रहणं स्यात्-- परिगतः, अपगत इति ? नैतदस्ति; परत्वाद्धि तयोः `कुगतिप्रादयः' (र2.2.18) इतितत्पुरुषेष भवितव्यम्। ननु च नाप्राप्ते ह्येतस्मिन्नयमारभ्यमाणो बाधको भवति ? नैतदस्ति; कर्मप्रवचनीयो यावपपरी तत्रावकाशः स्यात्। तत्र हि कर्मप्रवचनीयानां प्रतिषेधं वक्ष्यतति। तस्माद्बहिः शब्दस्य पञ्चम्यन्तेनैव समसाविधानम्, नान्येन; अन्यथा पञ्चमीग्रहणमनर्थकं स्यात्। तस्मात्साधूक्तम्-- `बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्' इति।।

13. आङ् मर्यादाभिविध्योः। (2.1.13)
अथ मर्यादाभिविधिग्रहणं किमर्थम् ? यावता पञ्चमीत्यनुवर्त्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते-- एतयोरेवार्थयोः `आङ मर्यादावचने' (1.4.89) इत्याङः कर्मप्रवचनीयसंज्ञा4, नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति ? सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणम्।।

14. लक्षणेनाभिप्रती आभिमुख्ये। (2.1.14)
`अभ्यग्नि, प्रत्यग्नि' इति। `अग्निमभि, अग्निं प्रति' इति विग्रहः। `कर्मप्रवचनीययुक्ते द्वितीया' (2.3.8) कर्मप्रवचनीयसंज्ञा त्वेकस्य `अभिरभागे' (1.4.91) इत्यनेन। अपरस्य `लक्षणेत्यम्भूताख्यान' (1.4.90) इत्यादिना। अत्र चाग्निर्लक्ष
णम्, तेन शलभपातो लक्ष्यते। अत्राभिमुख्ये चाभिप्रती वर्त्तेते; तथा ह्यग्न्यभिमुखमेव शलभाः पतन्ति, नापि पार्श्वतः, नापि पृष्ठत इत्यर्थोऽवगम्यते।
`स्रुघ्नं प्रतिगतः' इति। स्रुघ्नान्मथुरां प्रस्थितो दिङमोहात् स्रुघ्नमेव प्रतिनिवृत्त इति नात्र स्रुघ्नो लक्षणम्। यदुद्दिश्य हि गच्छति तल्लक्षणं भवति। यदा तु दिङमोहाद्यत एव प्रस्थितस्तमेव प्रतिगच्छतितदा तदप्रतीतं कथं लक्षणं भवति-- `स्रुघ्नमिति ! `तथायुक्तञ्चानीप्सितम्' (1.4.50) इति कर्मसंज्ञायां सत्यां कर्मणि द्वितीया। `येनाग्निस्तेन गतः' इति। भवत्यत्राग्निर्लक्षणमाभिमुखअयमप्यस्ति, अभिप्रती तु न स्त इति तेन येनतेनशभ्दाभ्यां सह समासो न भवति। `अभ्यङ्का गावः, प्रत्यङ्का गावः' इति। अभिनवः प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अभिशब्दोऽत्राभिनवार्थे वर्त्तते, प्रतिशब्दश्च प्रतिनवार्थे। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यन्तु नास्ति। ननु चात्र परत्वाद्बहुव्रीहिणा भवितव्यम्, अतः स बाधको भविष्यति, किमाभिमुख्यग्रहणेन ? नैवम्; असत्याभिमुख्यग्रहणेऽशेषत्वात् कुतो बहुव्रीहिर्भवति ! अथ वैतज्रज्ञापयति-- बहुव्रीहिरव्ययीभावेन बाध्यत इति। तेन द्वौ मुनी व्याकरणमिसि सिद्धं भवति; अन्यथा हि स्वपदार्थे चरितार्थोऽव्ययीभावो द्विमुनि व्याकरणमित्यत्रान्यपदार्थे परत्वाद्बहुव्रीहिणा बाध्येत।।

15. अनुर्यत्समया। (1.4.15)
यस्य समया यत्समयेति षष्ठीसमासोऽयम्। ननु च समयाशब्दयोगे `अभितः परितः समयानिकषा' (वा. 119) इत्यादग्युपसंख्यानाद्द्वितीयया भवितव्यम्, अतः षष्ठ्येव तावन्न न सम्भवति, कुतः पुनस्तस्याः समासः ? अथापि कथञ्चित् षष्ठी स्यात्, तथापि समयाशब्दस्याव्ययत्वत् `पूरणगुण' (2.2.11) इत्यादिना षष्ठीसमासप्रतिषेधेन भवितव्यम् ? नैष दोषः; योगग्रहणादिह समयाशब्दार्थेन योगे द्वितीया विज्ञायते। स चार्थो मुख्य एव गृह्यते, न गौणः। स पुनर्मुख्योऽर्थः समीपम्। न चेह समयाशब्दस्य मुख्योऽर्थोऽस्ति, किं तर्हि ? गौणोऽर्थः। अनुरेव समयाशब्देनोच्यते, तस्माच्छेषलक्षणा षष्ठ्येव न्याय्या। अत एव द्रव्यवाचित्वादव्ययसंज्ञाया अभावात् `पूरणगुण' (2.2.11) इति प्रतिषेधो नोपपद्यते। `अनुर्यत्समया' इति। एतेनानुशब्दार्थे समयाशब्दो वर्त्तत इति दर्शयति। ननु च समयाशब्दस्य समीपमर्थः, तत्कथमनुशब्दः समयाशब्देनोच्येत इत्याह-- `यस्य समीपवाची'इति। एतेन समयाशब्दार्थाभिधायित्वादनुशब्दः समयाशब्देनोपचाराद्व्यपदिष्ट इत्याचष्टे। भवत्युपचारेण हि तदर्थाभिधायिनि तद्व्यपदेशः, यथा-- सीताहरणं काव्यमिति। तेनेत्यनेन यस्यानुशब्दः समयवाची स परामृश्यते। ननु च सोऽर्थः, तत्कुतस्तेन समासः ? अर्थे कार्यासम्भवात् तद्वाचिनि शब्दे कार्यं विज्ञायते, तथा च तेनेत्यस्य तद्वाचिना शब्देनेत्ययमर्थोऽत्र गम्यते। `अनुवनम्' इति। तेनेत्यनेन यत् षष्ठ्यन्तं तेन वनशब्देन समासः। वनस्यान्विति समीपसमीपिसम्बन्धे षष्ठ्येव युक्ता।
`वनं समया' इति; पूर्वोक्तेनोपसंख्यानेन वनशब्दाद्द्वितीया। `वृक्षमनु विद्योतते विद्युत्' इति। अत्र कर्प्रवचनीयलक्षणा द्वितीया। अनुशब्दोऽत्र लक्षणे वर्त्तते, न सामीप्ये।।

16. यस्य चायामः। (2.1.16)
अत्राप्युपचारेणायामवाचित्वादनुरेवायामशब्दनोक्तः। `अनुगङ्गं वाराणसी' इति. यद्यपि गङ्गावाराणस्यावुभे अप्यायमवत्यौ, तथाप्यायामवत्तया गङ्गायाः प्रसिद्धत्वाद्‌ गङ्गैवात्र लक्षणम्, न वाराणसी। प्रसिद्धं हि लक्षणं भवति, नाप्रसिद्धम्। तस्माद्ग्ङ्गयैवात्र समासो भवति, न वाराणस्या। `यमुनायामेन गथुरायामः लक्ष्यते' इति। यमुनया तद्वत्या लक्षणभूतयेति वेदितव्यम्। यस्माद्यस्यायामवाच्यनुशब्दस्तेन लक्षणभूतेन सुबन्तेन समस्यते। युमनायाश्चायामवाच्यनुशब्दः, न यमुनायामस्य। न ह्यायामस्यापर आयामोऽस्ति, तस्माद्यमुनायामेति हेतावियं तृतीया। यमुनायामेन हेतुना तद्वत्या यमुनया लक्षणयभूतया करणभावमापन्नया वा मथुरायामो लक्ष्यत इत्ययमर्थो वेदितव्यः।।

17. तिष्ठद्गुप्रभृतीनि च।(2.1.17)
तिष्ठद्गुप्रभृतीनां गणपाठादेव कृतसाधुत्वानामिह प्रकरणे सङ्कीर्तनमव्ययीभावसंज्ञार्थम्; न तु सुबन्तेन समासार्थम्। अत एवाह-- `समुदाया एव निपात्यन्ते' इति। तथाभूतानां पाठ एवैषां निपातनम्। `अव्ययीभावसंज्ञकानि भवन्ति' इति। अनेन संज्ञामातर्ं विधीयते, न त्वेषां सुबन्तेन समास इति दर्शयति।
`तिष्ठद्गु, बहद्गु'इति। पूर्वपदस्य शत्रादेशो निपात्यते। `गोस्तरियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वः। तिष्ठन्ति गावो यस्मिन्न काले स तिष्ठद्गु कालः। वहन्ति गावो यस्मिन् काले स बहद्गु कालः। `चकारोऽवधारणार्थः' असति तस्मिन् परमतिष्ठद्ग्विति `सन्महत्' (2.1.61) इत्यादिना परमशब्देन समासः स्यात्। अवधारणार्थे तु तस्मिन् तिष्ठद्गुप्रभृतीनीत्येवम्भूतान्येवावतिष्ठते। `आयतीगवम्' इति। पुंवद्भावाभावः समासान्तश्च भवति। आयत्यो गवो यस्मिन् काले स आयतीगवम्। `खलेयवम्; खलेबुसम्' इति। सप्तम्या अलग् निपात्यते। `लूयमानयवम्' इति। शानज् निपात्यते। तथा `पूयमानयवम्' इत्यत्रापि। `एते कालशब्दाः' इति। तिष्ठद्गुप्रभृतयः संस्क्रियमाणबुसपर्यन्ताः।
`समभूमि, समपदाति' इति। समत्वं भूमेः, समत्वं पदातेरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। उत्तरपदार्थप्राधान्यविवक्षायान्तु समपदातिः समभूमिरिति विशेषणसमासस्तत्पुरुषो भवति। अन्ये मकारान्तं समशब्दं पठन्ति-- समम्भूमि, समम्पदाति' इति। ` सुषमम्, विषमम्, दुःषमम्,अपरसमम्' इति। समशब्देनेति। सुषमादयश्चैते। सुषमादयश्चैते पूर्वपदार्थप्राधान्ये समासाः। अत्र शोभनत्वं समस्येत्येवमादि वाक्यं द्रष्टव्यम्। उत्तरपदार्थप्राधान्ये तु प्रादिसमासो विशेषणसमासश्च यथथायोगं कर्त्तव्यः। `आयतीसमम्' इति। समाशब्दः संवत्सरवाची, तेन समासः- आयती समं आयतीसमम्। एवं पापा समा पापसमम्। पुण्या समा पुष्यसमम्। अन्ये तु तृतीयासमासं वर्णयन्ति-- आयत्या समं आयतीसममिति; एवमन्यत्रापि। प्रगतत्वमह्नः प्राह्णम्। अयमपि पूर्वपदार्थप्रधानः। उत्तरपदार्थप्राधान्ये तु तत्पुरुष एव भवति-- प्राह्णे कल्याणनामानावेतौ तिष्यपुनर्वसू इति। एवं `प्ररथम्' `प्रदक्षिणम्' `प्रमृगम्' , `अपरदक्षिणम्' , `सम्प्रति', `असम्प्रति'। `इच् कर्मव्यतीहारे' (5.4.127) इतीचोऽव्ययीभावत्वे प्रयोजनमव्ययसंज्ञा, नपुंसकत्वञ्च। दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं वृत्तिमिति। `तत्र तेनेदमिति सरूपे'(2.2.क27) इति समासः, `इच् कर्मव्यतीहारे' (5.4.127) इतीच् समासान्तः-- `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घः, `दण्डादण्डि' इति।।

18. पारे मध्ये षष्ठ्या वा। (2.1.18)
ननु च प्रकृतैव महाविभाषा तयैव विकल्पो भविष्यति, तत्किं वाग्रहणेनेत्याह-- `वावचनात्' इत्यादि। गतार्थम्। यदि तर्हि वावचनात् पक्षे षष्ठीसमासो भवति, माहविभाषया किं क्रियत इत्याह-- `महाविभाषया' इत्यादि।।

19. संख्या वंश्येन। (2.1.19)
`एकलक्षण' इति। एकस्वभावः। सन्तानः = प्रबन्धः। सन्तानिनामेकलक्षणत्वात्, सन्तानोऽप्येकलक्षमो भवति। ततर् विद्ययैकलक्षणः-- वैयाकरणवंशः, उपाध्यायवंश इति। जन्मना-- ब्राह्मणवंशः, क्षत्रियवंश इति। `तत्र भवो वंश्यः' इति। दिगादित्वाद्यत्। `द्वौ मुनी' इति। पाणिनिकात्यायनौ। `व्याकरणस्य' इति। सम्बन्धलक्षमा षष्ठी। `त्रिमुनिव्याकरणस्य' इति। पूर्वौ द्वौ, भाष्यकारस्तृतीयः। `विद्यया' इति। व्याकरणाख्यया। `तद्वताम्' इति। पाणिनिप्रभृतनीनाम्। `अभेदविवक्षा' इति। यौ तौ द्वौ मुनी तावेव व्याकरणमित्यतिशयेन विद्यया योगं तयोराख्यातुमभेदविवक्षा यदा क्रियते तदा सामानाधिकरण्यं भवति-- द्विमुनि व्याकरणमिति।।

20. नदीभिश्च। (2.1.20)
चकारेण `संख्या' इत्यनुकृष्यते। बहुवचननिर्देशेनार्थस्येदं ग्रहणम्, न स्वरूपस्य, नापि संज्ञायाः, तेन सर्वैर्नदीवाचिभिः समासो विज्ञायत इत्याह-- `नदीवचनैः' इत्यादि। `समाहारे चायमिष्यते' इति। चकारोऽवधारणे -- समाहार एव नान्यत्रेति। यद्येवम्, समाहारग्रहणमं कर्त्तव्यम् ? न कर्त्तव्यम्, यत एव हेतोरक्षादीनां परिणा सह कितवव्यवहार एव समासो भवति, ततएव हेतोरयमपि समाहार एव भविष्यति- सप्त गङ्गाः समाहृताः सप्तगग्ङमिति। पूर्ववद् ह्रस्वः। अन्यपदार्थे तु न भवति-- द्वीरावतीको देश इति। `पञ्चनवम्, सप्तगोदावरम्'इति।
कृष्णोदकपाण्‍डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः।
गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि।।
इति वचनादच् समासान्तः।।

21. अन्यपदार्थे च संज्ञायाम्। (2.1.21)
`कृष्णवेण्णा' इति। कृष्णा चासौ वेण्णा चेति विशेषणसमासः। `शीघ्रगङ्गः' इति। बहुव्रीहिः।

22. तत्पुरुषः। (2.1.22)
`कष्टश्रितः' इति। तत्पुरुषसंज्ञायां सत्यां `तत्पुरुषे तुल्यार्थ'(6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। अथ किमर्थमियं महती संज्ञा विधीयत इत्याह-- `पूर्वाचार्यसंज्ञा चेयम्' इति। तदङ्गीकरणं किमर्थमित्याह-- `तदङ्गीकरणम्' इत्यादि। उपाधिः = विशेषणम्। कः पुनरसौ तदीय उपाधिरित्याह-- उत्तरपदार्थप्रधानस्तत्पुरुषः' इति।।

23. द्विगुश्च। (2.1.23)
`समासान्ताः प्रयोजनम्' इति। `तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः' (5.4.86) इत्यतस्तत्पुरुष इत्यनुवर्त्तमाने `राजाहःसखिभ्यष्टच्' (5.4.91) `गोरतद्धितलुकि' (5.4.92) इति च द्विगोरपि यथा स्यात्। `पञ्चराजी' इति। पञ्चानां राज्ञां समाहार इति `तद्धितार्थोत्तरपदसमाहारे च' (2.1.51) इति समासः। `संख्यापूर्वो द्विगुः' (2.1.52) इति द्विगुसंज्ञा, टच्, `नस्तद्धिते' (6.4.144) इति टिलोपः `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' (वा.156) इति स्त्रीलिङ्गता, `द्विगोः' (4.1.21) इति ङीप्। `द्वह्यहः, त्र्यहः' इति। `अह्नष्टखोरेव' (6.4.145) इति टिलोप), `रात्रह्नाहाः पुंसि'(2.4.29) इति पुंस्त्वम्। `पञ्चगवम्' इति। `स नपुंसकम्' (2.4.17) इति नपुंसकत्वम्। सत्यप्यकारान्तत्वे स्त्रीत्वं न भवति; `पात्रादीनां प्रतिषेधो वक्तव्यः' (वा.1.5.9) इति वचनात्।।

24. द्वितीया श्रितातीतपतितगत्यास्तप्राप्तापन्नैः। (2.1.24)
`श्रितादिषु' इत्यादि। श्रितादिषु समासकारणत्वेनोपात्तेषु सत्सु गमिगाम्यादीनां समासस्योपसंख्यानं प्रतिपादनं कर्त्तव्यमित्यर्थः। एतैरपि समासः प्रतिपादयितव्यः। तत्रेदं प्रतिपादनम्-`द्वितीया' इति योगविभागः क्रियते, तेन गमिगामिप्रभृतिभिरपि समासो भवति। न चैवं श्रितादिग्रहणनर्थकम्; पूर्वविषयस्यासर्वविषयत्वज्ञापनार्थत्वात्। आदिशब्दः प्रकारवाची। गमिगामिशब्दयोरेकतरोपादानेनैव सिद्धे द्वयोरुपादानमुणादीनामन्येषाञ्च यथा स्यात्; अन्यथा यदि गमिग्रहणमेव क्रियेत तदाऽऽदिशब्दस्य प्रकारवाचित्वात् गमिप्रकाराणामुणादीनामेव ग्रहणं स्यात्। अथ गामिग्रहणमेव क्रियेत, तदा गामिप्रकाराणामुणादीनां स्यात्। तस्माद्द्वयोरपि ग्रहणं कर्त्तव्यम्। `ग्रामं गमी'इति। `गमेरिनि' (द.उ.6.57) इतीनिप्रत्ययः। स च भविष्यत्काले; `भविष्यति गम्यादयः' (3.3.3) इति वचनात्। `ग्रामं गमी' इति। `आवश्यकाधमर्ण्ययोः' (3.3.170) इत्यावश्यमे णिनिः। `अकेनोर्भविषअयदाधर्मर्ण्ययोः' (2.3.70) इति षष्ठीप्रतिषेधः। `ओदनं बुभुक्षुः' इति। भुजेः सन्नन्तात् `सनाशंसभिक्ष उः' (3.2.168) इत्युप्रत्ययः। क`न लोक
' (2.3.69)इत्यादिना षष्ठीप्रतिषेधः। कष्टं श्रित इत्यादावप्यनेनैव षष्ठीप्रतिषेधः।

25. स्वयं क्तेन। (2.1.25)
`तस्य द्वितीयया सह सम्बन्धो नोपपद्यते' इति। द्वितीयार्थासम्भवात्। इतिशब्दो हेतौ। यतस्तस्य द्वितीयया सह सम्बन्धोऽनुपपन्नस्तस्माद्द्वितीयाग्रहणमुत्तरार्थमनुवर्त्तते, न त्वेतदर्थम्। `स्वयंधौतौ पादौ' इति। `धावु गतिशुद्धयोः' (धा.पा.601), अस्योदित्त्वाद्विभाषितेट्। `यस्य विभाषा' (7.2.15) इतीट्प्रतिषेधः। `च्छवोः शूडनुनासिके चट (6.4.19) इत्यूठ्। `एत्येधत्यूठसु' (6.1.89) इति वृद्धिः। `स्वयंविलीनमाख्यम्' इति। `लीङ श्लेषणे' (धा.पा.1139), `स्वादय ओदितः' (का.8.2.45) इत्योदित्त्वात् `ओदितश्च' (8.2.45) इति नत्वम्। `कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' (व्या.प.126) इति गतिपूर्वस्यापि समासो भवति। कः पुनरत्र समासे सति विशेषः यावता विनापि तेनैतद्रूपं सिध्यतीत्याह-- `ऐकपद्यम्' इत्यादि।।

26. खट्वा क्षेपे। (2.1.26)
`स च' इत्यादि। एवकारेण वाक्यार्थतां क्षेपस्य निरस्यति। स्यादेतत्-- वाक्यार्थोऽपि क्षेपः; तेन वाक्यमपि भविष्यतीत्याह-- `न हि' इत्यादि। वाक्येन हि क्रियाकारकसम्बन्धमात्रं गम्यते, न तु क्षेपः। `खट्वारोहणञ्च' इत्यादि। विरुद्धो मार्गः = विमार्गः,तेन प्रस्थानम् = गमनम्। अधीत्य स्नात्वा गुरुणाभ्यनुज्ञातेन खट्वाऽरोढव्या। यत्त्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थनम्। न तु खट्वारोहणमेव। इह च `खट्वारूढः' इत्यादौ खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणं वेदितव्यम्। किं पुनः कारणमेव विज्ञायत इत्याह-- `सर्व एव' इत्यादि। आरूढ इत्याङपूर्वस्य रुहेः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु कृतेषु रूपम्। जाल्म इत्ययुक्तकारीत्यर्थः।

27. सामि। (2.1.27)
`असत्त्ववाचित्वात्' इति। द्रव्याधारा हि कर्मशक्तिः। अतो द्रव्यवाचिन एव द्वितीयया सम्बन्धो भवति, नासत्त्ववाचिनः।।

28. कालाः। (2.1.28)
`चराचराः' इति। अनत्यन्तसंयोगप्रतिपादनार्थम्। चरन्ति भ्रमन्तीति चराचराः, अनवस्थिता इत्यर्थः। `चरिचलिपतिवदीनमच्याक्चाभ्यासस्य' (वा.658) इति चरेः पचाद्यचि द्विर्वचनमभ्यासस्याक्चागमश्च। `कदाचिदहर्गच्छन्ति' इत्युत्तरायणे। `कदाचिद्रात्रिम्' इति दक्षिणायने। एतेन तदेवानवस्थितत्वं व्यक्तीकुर्वन्नह्नो रात्रेश्च तैर्मुहूर्तैरनत्यन्तसंयोगमाचष्टे। `अहरतिसृताः' इति। `रोऽसुपि' (8.2.69) इत्यह्नो नकारस्य रेफः। `अहः संक्रान्ताः' इति। `क्रमु पादविक्षेपे' (धा.पा.473),पूर्वपदिट्प्रतिषेधः। `अनुनासिकस्य क्विझलोः' (6.4.15) इति दीर्घः। `मासप्रमितः' इति। `माङ माने' (धा.1088), `आदिकर्मणि कर्त्तरि च' (3.4.71) इति कर्त्तरि निष्ठा। `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वम्। `मासं प्रमातुमारब्धः' इति. मासस्यैकदेशस्य प्रतिपदश्चन्द्रमसा योगं दर्शयन् मासस्य तेनात्यन्तसंयोगमाचष्टे। कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः = अत्यन्तसंयोगः। न च प्रतिपच्चन्द्रमा मासस्येह व्याप्तिः = संयोगोऽस्तीति नेहात्यन्तसंयोगः।

29. अत्यन्तसंयोगे च। (2.1.29)
`कृत्स्नसंयोगः' इति। कृत्स्नस्य संयोगः कृत्स्नसंयोगः, कृत्स्नस्य कालस्य मुहूर्त्तादेः स्वेन सम्बन्धिना = सुखादिना संयोग = सम्बन्धोऽत्यन्तसंयोगः। एतदेव स्पष्टीकर्त्तुमाह-- `कालस्य' इत्यादि। `मुहूर्त सुखम्' इति। `कालाध्वनोरत्यन्तसंयोगे' (2.3.5) इति द्वितीया। अत्र मुहूर्तस् कालस्य स्वेन सम्बन्धिना सुखेन व्याप्तिः।

30. तृतीया तत्कृतार्थेन गुणवचनेन। (2.1.30)
`तत्कृत' इति। एतदर्थशब्देनासमस्तमेव, अविभक्तिञ्च। तृतीयाविभक्तेः `सुपां सुलुक्' (7.1.39) इति लुप्तत्वात्। एतच्च गुणवचनेनेत्यस्य समानाधिकरणं विशेषणम्। अत एव कीदृशेनेति पृष्टः सन्नाह-- `तत्कृतेन' इति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्श इति तृतीयान्तकृतेनेति दर्शयति। तृतीयान्तेन गुणवचनस्य करणत्वं न सम्भवतीत्यतः सामर्थ्यात् तदर्थकृतेनेति विज्ञायत इत्यत आह-- `तृतीयान्तार्थकृतेनेति यावत्' इति। अर्थद्वारेण चेदं गुणवचनस्य विशेषणं वेदितव्यम्- तृतीयान्तार्थकृतो गुणवचनार्थ इति। सोऽपि तथोच्यते। एतदुक्तं भवति-- तृतीयान्तार्थकृतेन गुणवचनार्थेनेति। अर्थ एव हि तृतीयान्तार्थेन क्रियते, न च गुणवचनशब्दः। गुणमुक्तवान् = गुणवचनः। ` कृत्यल्युटो बहुलम्' (3.3.13) इति कर्त्तरि ल्युट्। अथ वा-- करणे, गुण उक्तोऽनेनेति गुणवचनः। यश्च पूर्व गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्त्तते स गुणवचनः। गुणेनेत्युच्यमाने घृतेन पाटवमित्यादौ प्रसङ्गः, अतस्तन्निवृत्त्यर्थं वचनग्रहणम्। तस्मिंश्च सति गुणे वर्तित्वा तद्वति द्रव्ये यो वर्त्तते तेनैव समासो भवति, न तु गुण एव यो वर्त्तते तेन सह। न च पाटवादयः शब्दाः पूर्वं गुणे वर्तित्वा पश्चात् तद्वति द्रव्ये वर्त्तन्ते, अपि तु गुण एव। वचनग्रहणात् तैः सह समासो न भवति। `शङ्कुलाखण्डः, गिरिकाणः' इति। खण्डकाणशब्दावत्र खण्डनेन निमीलने च क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति द्रव्ये वर्तते इति गुणवचनौ भवतः। `धान्यार्थः' इति। भवुत्ययमर्थशब्दस्तत्कृतः, तथा हि स गोभिर्वपावान् कृतः। न तु वपावानित्ययं शब्दो गुणमुक्तवामिति न गुणवचनः, ततस्तेन सह समासो न भवति।।

31. पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः। (2.1.31)
युक्तः समसदृशशब्दाभ्यां समासः, यावाता ताभ्यां योगे `तुल्यार्थेरतुलोपमाभ्याम्' (2.3.72) इति तृतीयाविधानम्, इतरैस्तु पूर्वादिभिः कथं तृतीयासमास उपपद्यते ? न हि तद्योगे केनचित्तृतीया विहिता इत्याह `अस्मादेव' इत्यादि। सुबोधम्।
`पूर्वादिष्ववरस्योपसंख्यानम्' इति। पूर्वादिषु समासकारणत्वेनोपात्तेषु सत्स्ववरशब्दस्योपसंख्यानं प्रतिपादनं कर्त्तव्यमित्यर्थः। अवरशब्देनापि तृतीयासमासः प्रतिपद्यत इत्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे बहुलग्रहणं क्रियते। तेनावरशब्देनापि समासो भवति।।

32. कर्त्तृकरणे कृता बहुलम्। (2.1.32)
`भिक्षाभिरुषितःट इति। हेतौ (2.3.23) तृतीया विहिता। वसेर्वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्, `वसतिक्षुधोः' (7.2.क52) इतीट्। `दात्रेण धान्यं लूनवान्' इति। `ल्वादिभ्यश्च' (8.2.44) इति निष्ठानतवम्। `पादहारकः' इति। पादाभ्यां ह्रियत इति पादाहारकः। पादाभ्यामिति पञ्चमी चतुर्थी वा। हारक इति `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्मणि ण्वुल्। `गलेचोपकः' इति। गले चुप्यत इति। `चुप मन्दायां गतौ' (धा.पा. 403) इत्यस्मात् पूर्ववदेव ण्वुल्। `तत्पुरुषे कृति बहुलम्' (6.3.14) इत्युलक्।।

33. कृत्यैरधिकार्थवचने। (2.1.33)
`स्तुतिनिन्दाप्रयुक्तम्' इति। स्तुत्या निन्दया वा यत् प्रयुक्तं प्रवर्त्तितं तत् स्तुतिनिन्दाप्रयुक्तम्। तदर्थमुच्चारितमित्यर्थः। `अध्यारोपितार्थवचनम्' इति। अध्यारोपितोऽर्थोऽसन्नेव बुद्ध्या समारोपितस्तस्य वचनमिति षष्ठीसमासः। `कृर्त्तृकरणयोःट इति। अर्थे कार्यासम्भवात् तदभिधायिनि सुबन्ते कार्यं विज्ञायते। `काकपेया' इति। `पा पाने' (धा.पा.925) इति `अचो यत्' (3.1.97) `ईद्यति' (6.4.65) ईत्त्वम्। अत्र सम्पूर्णतोयत्वोद्भावनं नद्याः स्तुतिः, अध्यारोपितः पुनरत्रार्थः काकपेयत्वम्-- एवं नाम सम्पूर्णतोया नदी यत्तटस्थैरपि काकैः शक्या पातुम्। `श्वलेह्यः कूपः' इति। `ऋहलोर्ण्यत्' (3.1.124) अत्राप्यासन्नोदकत्वोद्भावनं कूपस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः श्वलेह्यत्वम्-- एवं नामासन्नोदकः कूपो यतः श्नभिरपि लिह्यते। `बाष्पच्छेद्यानि तृणानि' इति। अत्र मारद्वातिशयोद्भावनं तृणानां स्तुतिः। अध्यारोपितः पुनरत्रार्थो बाष्पच्छेद्यता-- एवं नाम मृदूनि तृणानि यद्बाष्पेणापि शक्यानि छेत्तुम्। `कण्टकसञ्चेय ओदनः' इति। अत्रापि वैषद्यातिशयोद्भावनं विक्लिन्नतोद्भावऩञ्चौदनस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः कण्टकसञ्चेयत्वम्-- एवं नामौदनस्य विशदतातिशयो विक्लेदश्च यत्कण्टकेनापि शक्यः सञ्चेतुम्। एवं तावत् स्तुतिप्रयुक्तेऽधिकार्यवचन उदाहरणानि।
निन्दाप्रयुक्तेऽधिकार्थवचन एतावन्त्येव द्रष्टव्यानि। तथा हि-- काकेया नदीत्यत्राल्पतोयत्वोद्भावनं नद्या निन्दा। अध्यारोपितः पुनरत्रार्थस्तदेव पूर्वोक्तं काकपेयत्वम्, एवं श्वलेह्यादावपि पूर्वोक्त एवाध्यारोपितोऽर्थो द्रष्टव्यः-- एवं नामाल्पतोया नदी यत्काकैरपि शक्यं पातुमिति। श्वलेह्यः कूप इत्यत्राप्यशुद्धतोयत्वोद्भावनं निन्दा- एवं नामाल्प ओदनो यत्कण्टकैरपि चीयत इति। ननु च बहुलवचनादधिकार्थोऽपि पूर्वेणैव सिद्धः समासः, तत्किमर्थमिदमित्याह-- `पूर्वस्य' इत्यादि। ते वै विधयः सुसंगृहीता येषां प्रपञ्चश्चेति। सुसंगृहीतं यथा स्यादिति पूर्वस्यायं प्रपञ्च क्रियते।।

34. अन्नेन व्यञ्चनम्।
`दध्योदनः' इति। ननु च क्रियाकृतः कारकाणां सम्बन्ध-, न तु स्वतः। न च वृत्ताविह काचन क्रिया श्रूयत इति सामर्थ्याभावः। असति च सामर्थ्ये समासाभावः। अथासत्यपि सामर्थ्ये वचनसामर्थ्यात् समासो भवतीति चेदास्यतां दध्ना, ओदनो भुज्यतां देवदत्तेनेत्यत्रापि स्यादित्यत आह-- `वृत्तौ' इत्यादि। न ह्यसत्यामुपसेचनक्रियायां संस्कार्यं संस्कारकं सम्भवति। अस्ति चेह तदुभयमित्यतस्तद्भावादेव समासान्तर्भूता क्रिया गम्यते। तद्द्वारकश्चान्नव्यञ्जनयोः सम्बन्ध इति विद्यत एव सामर्थ्यम्।।

35. भक्ष्येण मिश्रीकरणम्। (2.1.35) `मिश्रीकरणम्' इति। अमिश्रं मिश्रं क्रियतेऽनेनेति मिश्रीकरणम्। `खरविशदमभ्यवहार्य भक्ष्यम्' इति। तत्रैव भक्ष्यशब्दस्य रूढत्वात्।।

36. चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः। (2.1.36)
`तदर्थेन' इत्यादि। यदि तादर्थ्यमात्रे समासः स्यात्, बलिरक्षितग्रहणमनर्थकं स्यात्। तथा हि-- कुबेरबलिः,गोरक्षितमित्यत्रापि तादर्थ्यं गम्यतत एव। तसमाद्बलिरक्षितग्रहणाल्लिङ्गात् `तादर्थ्ये प्रकृतिविकारभावे समासो भवति' इति विज्ञायते। ननु च सम्प्रदाने चतुर्थ्यर्थं बलिरक्षितग्रहणं स्यात्, नैतदस्ति; ददातिकर्मणा हि अभिप्रेयमाणस्य क्रियया वा सम्प्रदानसंज्ञेष्यते, न चेह ददातिकर्मणा क्रियया वाऽभिप्रेयमाणताऽस्ति, तत्कुतः सम्प्रदाने चतुर्थी ? केन पुनस्तादर्थ्ये चतुर्थी भवतीत्याह-- `अस्मादेव' इत्यादि। यदि तादर्थ्ये चतुर्थी न स्यात्, तदा तदर्थग्रहणमनर्थकं स्यात्। तस्माद्यदेतत्, तदर्थेन चतुर्थ्यन्तस्य समासविधानं तदेव ज्ञापकम्-- तादर्थ्ये चतुर्थी भवतीति।
`अर्थेन' इत्यादि। कर्त्तव्यमिति शेषः। नित्यसमास उच्यते = कथ्यते, येन तन्नित्यसमासवचनं व्याख्यातव्यम्। एतदुक्तं भवति-- येनार्थशब्देन नित्यसमासः प्रत्याय्यते तद्वयाख्यानं कर्त्तव्यमिति। तत्रेदं व्याख्यानम्-- विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनार्थशब्देन नित्यसमासो भविष्यति, सर्वलिङ्गता चेति। `परवल्ललिङ्गं द्वन्द्वतत्पुरुषयोः' (2.4.26) इति परवल्लिङ्गतायां प्राप्तायां सर्वलिङ्गता विधीयते। एषा तु लोकाश्रयत्वाल्लिङ्गस्येति सिद्धा। अथ वा -- बहुलग्रहणानुवृत्तेः सर्वमेतत् सिद्धम्। गोहितम्, गोसुखमिति `चतुर्थी चाशिष्यायुष्य' (2.3.73) इत्यादिना चतुर्थी। हितयोगे त्वनाशिष्यपि चतुर्थी भवति। तथा हि वक्ष्यति-- `हितयोगे चतुर्थी वक्तव्या' (वा. 123) इति।

37. पञ्चमी भयेन। (2.1.37)
`भयभीतभीतिभीभिरिति वक्तव्यम्' इति। एवं हि त्रिभिरपि भीतादिभिः समासो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। स्वयमेव व्याख्यातुमाह-- `पूर्वस्य' इत्यादि। यथैव हि `कर्त्तृकरणे कृता बहुलम्' (2.1.32) इति तृतीयान्तस्य समासो विधीयमानो बहुलग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वादन्यविभक्त्यन्तस्यापि समासो भवति-- पादहारकः, गलेचोपक इति, तथा वृकभीत इत्यादावपि समासो भविष्यति। तस्मात् पूर्वकस्य बहुलग्रहणस्सयैवोदाहरणप्रदर्शनार्थोऽयं योगः प्रपञ्चार्थो वेदितव्यः। `तथा च' इत्यादि। यस्मात् पूर्वकेणैव बहुलग्रहणेन सिद्धं तस्यैवायम्प्रपञ्चः; तस्मात्तत एव बहुलग्रहणात् `ग्रामनिर्गतः' इत्याद्यपि सिद्धं भवति। आदिशब्देन वृकभीतादेर्ग्रहणम्।।

38.अपेतापोढमुक्तपतितापत्रस्तैरल्पशः। (2.1.38)
`अल्पशः' इति। `बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' (5.4.42) इति शस्। `अल्पा पञ्चमी समस्यते' इति।। अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः।।

39. स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन। (2.1.39)
`स्तोकान्मुक्तः; कृच्छ्रान्मुक्तः' इति। `करणे स्तोकाल्पकृच्छ्र' (2.3.33) इत्यादिना पञ्चमी। `अन्तिकादागतः, दूरादागतः' इति। दूरान्तिकार्थेभ्यो द्वितीया च' (2.3.35) इत्यनेन।।

40. सप्तमी शौण्डैः। (2.1.40)
शौण्डैरिति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह-- `शौण्डादिभिः' इत। केन पुनर्विहितायां सप्तम्यां तदन्तस्य शौण्डादिभिः समासो विधीयते ? `सप्तम्यधिकरणे च' (2.3.36) इत्यनेनेति चेत्, वार्त्तमेतत्। तथा ह्यधिकरणं कारकम्, तच्च क्रियापेक्षम्। न चाक्षशौण्ड इत्यादौ वृत्तौ काचन क्रिया श्रूयते। तत्कुतोऽधिकरणस्येह सम्भवः ? न च शक्यते वक्तुम्‌-- अस्मादेव वचनाच्छौण्डादिभिर्योगे सप्तमी भविष्यतीति, देवदत्तः शौण्ड इत्यत्रापि प्रसङ्घः स्यादित्यत आह-- `वृत्तौ' इत्यादि. अस्त्येवात्र प्रसक्तिक्रिया। सा तु समासार्थ एवान्तर्भूतेतिगम्यमानत्वाद्द्वृतौ क्रियापदं न प्रयुज्यते। तस्या यत्साधनमधिकरणं तत्र सप्तमीत्यदोषः। अन्तः शब्दस्त्वत्राधिकरणप्रधान एव पठ्यते। तस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम्। वनेऽन्तर्वनान्तर्वसतीति पूर्वपदार्थप्रधान्ये तु `विभक्त्यर्थे यदव्ययम्' (2.1.6) इत्यव्ययीभाव एव भवतिः- अन्तर्वणमिति। अधिशब्दोऽत्र पठ्यते-- तस्याधिकरणप्राधान्ये सत्यव्ययीभावः- अधिस्त्रि। आधेयप्राधान्ये तु तत्पुरुषः-- ब्राह्मणेष्वपि ब्राह्मणाधीन इति। ब्राह्मणाधिशब्दः केवलो न प्रयुज्यते। `अष़डक्षाशित' (5.4.7) इत्यादिनाऽध्युत्तरपदात् स्वार्थिकस्य नित्यस्य खस्य विधानात्।।

41. सिद्धशुष्कपक्वबन्धैश्च। (2.1.41)

42. ध्वाङ्क्षेण क्षेपे। (2.1.42)
`ध्वाङक्षेणेत्यर्थग्रहणम्' इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च `क्षेपे' इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह-- `ध्वाङक्षवाचिना' इत्यादि। `तीर्थे ध्वाङक्ष इव' इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स `तीर्थध्वाङक्षः' इत्युच्यते, यदाह-- `अनवस्थित इत्यर्थः' इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः।।

43. कृत्यैर्ऋणे। (2.1.43)
`यप्रत्ययान्तेनैव समास इष्यते' इति। कथं पुनर्यत्प्रत्ययेनैव लभ्यते ? अल्पश इत्यनुवृत्तेः, `मासदेयम्' इति। पूर्ववद्यत्, ईत्त्वञ्च। सप्तमी ह्यत्रौपश्लेषिकेऽधिकरणे वेदितव्या। मासे ह्यतीते योऽन्तरो दिवसः स मासं प्रत्युपश्लिष्टो भवति, `यस्य च भावेन भावलक्षमम्' (2.3.37) इत्यनेन वा। मासातिक्रमणभावेन हि ऋणदानभावो लक्ष्यते। अथ ऋण इत्युच्यते, तत्रेदं न सिध्यति-- पूर्वोह्णेगेयं साम, प्रातरध्येयोऽनुवाकः, इत्यत आह-- `ऋणम्' इत्यादि। ऋणं हि नियोगतो निर्यातयितव्यमिति नियोगसहचरितम्। अतः साहचर्यात् तेन नियोगोऽवश्यम्भाव उपलक्ष्यते। एतच्च `कृत्यैः' इति बहुवचननि्रदेशाल्लिङ्गाद्गम्यते। कथम् ? `कृत्यैः' इति बहुवचनमत्र विवक्षितम्, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन। भिद्यमाने कृत्ये सति प्रसज्यते, न त्वन्यथा। यत्प्रत्ययस्यैकत्वात् तेनैव समासस्येष्टत्वात्।।

44. संज्ञायाम्। (2.1.44)
`समुदायोपाधिः' इति। `संज्ञायाम्' इति नेदं पूर्वपदस्योत्तरपदस्य वा विशेषणम्, किं तर्हि ? समुदायस्य-- समुदायेन चेत्संज्ञा गम्यत इति। किमेवं सति सिध्यतीत्यत आह-- `तेन' इत्यादि। अत्रैवोपपत्तिमाह-- `न हि' इत्यादि।।

45. क्तेनाहोरात्रावयवाः। (2.1.45)
`एतत्तु ते दिवावृत्तं रात्रौ वृत्तञ्च द्रक्ष्यसि' इत्यादि. नात्राहरवयवाः रात्र्यवयवाश्च सन्ति, किं तर्हि ? कृत्स्नमेवाहः, कृत्स्ना च रात्रिरिति, तेनेह समासो न भवति ।।

46. तत्र। (2.1.46)
`तत्रेत्येतत् सप्तम्यन्तम्' इति। सप्तमीसाधर्म्यात्। त्रल्‌प्रत्यय एवात्र सप्तमीशब्देनोक्तः। भवति हि ताद्धर्म्यात् ताच्छब्द्यम्। यथा-- गौर्वाहीक इति। सप्तमीसाधर्म्यं पुनस्त्रलोऽधिकरणार्थत्वात्. यथैव ह्यधिकरणप्रत्यायनाय सप्तमी प्रयुज्यते,तथा त्रलपि। अथ मुख्यैव सप्तमीविभक्तिः कस्मान्न विज्ञायते ? तस्यास्तत्रशब्देऽसम्भवात्। असम्भवस्तु त्रलैव तदर्थस्य द्योतित्तवात्। अन्यस्त्वाह-- यदा विभक्त्यादशास्त्रलादयस्तदा स्थानिवद्भावेनैवैतत् सप्तम्यन्तं भवति। आदेशपक्षसत्ु तत्र वृत्तिकृता नाश्रित इत्यसम्यगेतत्। अन्तशब्दश्चात्रावयववचनः। सप्तमीत्रल्प्रत्ययोऽन्तोऽवयवो यस्य तत्तथोक्तम्।।

47. क्षेपे। (2.1.47)
`अवतप्तेनकुलस्थितम्' इति। `तत्पुरुषे कृति बहुलम्' (6.3.14) इति सप्तम्या अलुक्। कः पुनरत्र क्षेपः ? कार्येष्वनवस्थितता। यदाह-- `एतच्चापलम्' इत्यादि। यथा अवतप्ते देशे नकुला न चिरं स्थातारो भवन्ति, तद्वदन्योऽपि योऽर्थानारभ्य न चिरं तेष्ववतिष्ठते तं प्रतीदमुच्यते-- अवतप्तेनकुलस्थितमिति। `उदकं विशीर्णम्' इत्यादावप्यारम्भस्य निष्फलता क्षेपः। अत एवाह-- `निष्फलं यत्क्रियते तदेवमुच्यते' इति। `प्रवाहे मूत्रितम्' इति। `मूत्र प्रस्रवणे' (धा.पा.1909) चुरादिः।।

48. पात्रेसमितादयश्च। (2.1.48)
`युक्तारोह्याविपरिग्रहार्थः' इति। युक्तारोह्यादिषु युक्तारोह्यादिभिर्वा परिगर्होऽर्थः प्रयोजनं यस्य पाठस्य स तथोक्कतः। किमर्थं पुनर्युक्तारोह्यादिषु परिग्रहस्तेषामिष्यत इत्याह-- `पूर्वपदाद्युदात्तत्वं यथा स्यात्' इति युक्तारोह्यादीनां हि `युक्तारोह्यादयश्च' (6.2.81) इत्यनेन पूरवपदाद्युदात्तत्वं विधीयते। तत्र यदि ये क्तान्तास्ते न पठ्येरन्, तदा तेषामाद्युदात्तत्वं न स्यात्। कथं पुनः पात्रेसमितादयो युक्तारोह्यादिग्रहणेन गृह्यन्ते; यतस्तेषां विधीयमानमाद्युदात्तत्वं पात्रेसमितादीनमपि भवतीत्याह-- `युक्तारोह्यादिषु हि' इत्यादि। `उदुम्बरमशकादिषूपमया क्षेपः' इति। यस्तत्रैवावरुद्धो न क्वचिद्‌गच्छति तमव विशिष्टचं मन्यते-- नास्मात्परमस्तीति, सोऽदृष्टविस्तार उच्यत उदुम्बरमशक इति। एवमन्यत्राप्यपमानात् क्षेपः। `प्रतिषिद्धसेवनेन' इति। यः कश्चित् प्रतिषिद्धमाचरति स `मातरिपुरुषः' इत्युच्यते। `निरीहतया' इति। यो न किञ्चित् कर्तुं समर्थः स `पिण्डीशूरः' इत्येवमादिभिः पदैरभिधीयते। `चकारोऽवधारणार्थः' इति। पात्रेसमितादय एव यता स्युः, यदन्यत् समासान्तरं तेषां प्राप्नोति तन्मा भूदिति। तेन परमपात्रेसमिता इति `सन्महत्' (2.1.61) इत्यादिना समासान्तरं न भवति।।

49. पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन। (2.1.49)
`भिन्नप्रवृत्तिनिमित्तप्रयुक्तस्य' इत्यादि। भिन्नप्रवृत्तिनिमित्तग्रहणं पर्यायनिवृत्त्यर्थम्। एकग्रहणं गौरश्व इत्यादिनिवृत्त्यर्थम्। `पूर्वकाल इत्यर्थनिर्देशः' इति। अर्थप्रधानत्वान्निर्देशस्य। तेन स्वरूपग्रहणं न भवतीति भावः। `परिशिष्टानां स्वरूपग्रहणम्' इति। शब्दप्रधानत्वान्निर्देशस्य। `पूर्वकालोऽपरकालेन' इति। कुतः पुनरनुक्तोऽप्येषोऽर्थविशेषो लभ्यते; सम्बन्धिशब्दत्वात् पूर्वकालस्य ? न ह्यनपेक्ष्यापरकालं पूर्वकालं सम्भवति; अतः पूर्वकालपरिग्रहे कृते सत्यपरकालस्यापि परिग्रहः कृत एव। `स्नानानुलिप्तः' इति. पूर्वं स्नातः पश्चादनुलिप्त इत्यत्र स्नातशब्दः स्नानेन निमित्तेन प्रयुक्तः, अनुलिप्तशब्दोऽनुलेपनेन; तयोश्चैकत्रार्थे वृत्तिरित्यस्ति सामानाधिकरण्यम्। `एकशाटी' इति। एका चासौ शाटी चेति `पुंत्कर्मधारय' (6.3.42) इत्यादिना पुंवद्भावः।।

50. दिक्संख्यं संज्ञायाम्। (2.1.50)
`पूर्वेषुकामशमीत्यादिः' ग्रामाणां संज्ञा। पूर्वा चासाविषुकामशमी चेति पूर्वेषुकामशमी। मन्दश्रियां पूर्वोत्तरपदविभागमात्रप्रदर्शनार्थं वाक्यं कृतम्। न ह्यत्र वाक्येन भवितव्यम्। न हि वाक्येन संज्ञा गम्यते।।

51.तद्धितार्थोत्तरपदसमाहारे च। (2.1.51)
एकस्या अपि सप्तम्या विषयभेदेन भेदं दर्शयितुमाह-- `तद्धितार्थे विषये' इत्यादि। यदि तद्धितार्थेऽभिधेय इत्येवं विज्ञायेत, तदा पाञ्चनापितिरित्यादौ तद्धितो दुर्लभः स्यात्। तदर्थस्य समासेनैवोक्तत्वादित्येतन्मनसि कृत्वा तद्धितार्थापेक्षया विषयसप्तमीयमिति दर्शयितुं `तद्धितार्थे विषये' इत्युक्तम्। तद्धिताः = अणादयः, तेषामर्थोऽपत्यादिः, तस्मिन् विषये। अनन्यत्रभावो विषयशब्दस्यार्थः, यथा-- मत्स्यानां जलं विषः इति। `पौर्वशालः' इति। पूर्वस्यां शलायां भव इति तद्धितार्थे विषयभूते ्प्राक् समासः। ततः सुब्लुक्। ततस्तद्धितः। `पूर्वशालाप्रियः' इति। पूर्वा शाला प्रियाऽस्येति पूर्वं पदानां त्रयाणां बहुव्रीहिः। पश्चात् प्रियशब्दे उत्तरपदे परतः पर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति समासान्तोदात्तत्वं भवति शालेत्यत्र। `समाहारे {दिक्शब्दः इति मूलपाठः, पदमञ्जरी च। } दिङ न सम्भवति' इति। समाहारो हि समूहः। स च भिन्नार्थानामेवैककालानां भवति. बुद्ध्या युगपदार्थानां परिग्रहादेककालत्वम्, न त्वभिन्नवस्तुनः। संखअयैव च भेदमाचष्टे; तस्या भिन्नार्थाभिधायित्वात्, न तु दिक्शब्दः; तस्य प्रतिनियतविषयत्वात्। तस्मात् समाहारे दिक्शब्दोन सम्भवतीति स न तत्र समस्यते। `पञ्चानापितिः' इति। पञ्चानां नापितानामपत्यमिति तद्धितार्थे विषयभूते प्राक् समासः। पश्चात् `अत इञ्' (4.1. 95)। `पञ्चकपालः' इति। पञ्चसु कपालेषु संस्कृत इति तद्धितार्थे विषयभूते पूर्वं समासः; पश्चादण्। तस्य `द्विगोर्लुगनपत्ये' (4.1.88) इति लुक्। `{पञ्चगवधनम् इति मुद्रित पाठः}पञ्चगवधनः' इति। पञ्च गावो धनमस्येति प्राक् त्रयाणां पदानां बहुव्रीहिः। उत्तरकालं धनशब्द उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषः। तस्मिन् सति `गोरतद्धितलुकि' (5.4.92) इति टच् समासान्तः। तत्र हि `तत्पुरुषस्याङ्गुलेः' (5.4.86) इत्यतस्तत्पुरुषग्रहणमनुवर्त्तते। `पञ्चपूली'इति। पञ्चानां पूलानां समहार इति विग्रहः। `द्विगुरेकवचनम्' (2.4.1.) इत्येकवद्भावः। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' (वा.156) इति स्त्रीलिङ्गता; `द्विगोः' (4.1.21) इति ङीप्। ननु समाहारः = समूहः, समूहश्च तद्धितकार्थो भवतीत्यपार्थकं समाहारग्रहणम्; तद्धितार्थ इत्येव सिद्धत्वात् ? नैतदस्ति; पञ्चकुमारीत्यत्र हि समूहप्रत्ययस्य `द्विगोर्लुगनपत्ये' (4.1.21) इति लुकि कृते `लुक् तद्धितलुकि' (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक् स्यात्। समाहारे तु पृथग्गृहीते तद्धितानुत्पत्तिरेवात्र विषये समाख्यायते। ततो न भवत्येष दोषः। पञ्चानां कुमारीणां समाहारः पञ्चमकुमारि। `एकविभक्तिचापूर्वनिपाते' (1.2.44) इत्युपसर्जनसंज्ञायाम् `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इति ह्रस्वत्वम्। कथं पुनरत्रैकविभक्तत्वम् ? षष्ठ्यैवैकया योगात्। तथा हि समाहारः समूहः, तेन च तत्सम्बन्धे षष्ठ्यैव भवितव्यम्। अतः समाहारः कुमा4रीणाम्, समाहारं कुमारीणां पश्य, समाहारेण कुमारीणामित्येवमादिभिरनेकाभिर्विभक्तिभिर्युज्यमानेऽपि समाहारशब्दे कुमारीशब्दः षष्ठ्यैवैकया युज्यत इत्येकविभक्तिकत्वम्।।व
52. सख्यापूर्वो द्विगुः। (2.1.52)
`समासान्तो भवति' इति। टच्। `राजाहःसखिभ्यष्टच्' (5.4.91) इत्युवृत्तेः।।

53. कुत्सितानि कुत्सनैः। (2.1.53)
कुत्सितशब्दोऽयमिह रूढिमाचष्टे। तथा च निष्ठा भूतकालं नोपादत्ते। कुत्सनशब्देन च कुत्साहतुर्धर्मो गृह्यते-- कुत्स्यते गर्ह्यतेऽनेनेति कृत्वा। बहुवचननिर्देशस्तु स्वरूपविधेर्निरासार्थः। तेन कुत्सितवादिना कुत्सनवचनैः सह समासो विज्ञायते, न तु कुत्सितशब्दस्य कुत्सनशब्देन। अत आह-- `कुत्सितवाचीनि' इत्यादि। शब्दप्रवृत्तिनिमित्तकुत्सायामयं समासो वेदितव्यः। कुतः पुनरेतल्लभ्यते ? प्रत्यासत्तेः। शब्दस्य हि प्रवृत्तिनिमित्तं प्रत्यासन्नम्, अतस्तत् कुत्सायामेव समासेन भवितुं युक्तम्। `वैयाकरणखसूचिः' इति। वैयाकरणश्चासौ खसूचिश्चेति विग्रहः। यः पृष्टः सन् व्याकरणे खमाकाशं सूचयतीति निरीक्षते निष्प्रतिभो भवति स एवमुच्यते। अत्र हि वैयाकरणत्वं वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं तत् कुत्स्यते; तत्पुनः व्याकरणाध्येतृसम्बन्धः, व्याकरणवेदितृसम्बन्धो वा.तेन हि निमित्तेन वैयाकरणशब्दो पुरुषे वर्त्तते। एवमन्यत्रापि शब्दप्रवृत्तिनिमित्तकुत्सायां समासो वेदितव्यः। `याज्ञिककितवः' इति. कितव इव कितवः। यथा हि कितवः किं तवास्तीति धनवत्तामात्रमपेक्षमाणो द्यूते प्रवर्त्तते, न तु तस्य जात्यादिकमपेक्षते; तथा याज्ञिकोऽपि याजने प्रवर्त्तमानो यस्तृष्णयाऽयाज्यस्य धनवतामात्रमपेक्षते, न तु तस्य यागार्हतां स याज्ञिककितव इत्युच्यते। अत आह- `अयाज्ययाजनतृष्णापर उच्यते' इति। `मीमांसकदुर्दुरूढः' इति. मीमांसको मीमांसाध्ययनफलमनवाप्य नास्तिको जात इति प्रतीयते।
`वैयाकरणश्चौरः' इति। ननु चौरत्वेन गर्ह्यमाणो वैयाकरणः कुत्सितो भवत्येव। तदभिषायी च वैयाकरणशब्दः । तत्कथमिदं प्रत्युदाहरणमुपपद्यत इत्याह-- `न ह्यत्र ' इत्यादि। प्रत्यासत्तेर्हि शब्दप्रवृत्तिनिमित्तस्य कुत्सायां ससासेन भवितव्यम्। न चेह वैयाकरणशब्दस्य प्रवृत्तिनिमित्तं कुत्स्यते; यस्माच्चौरोऽपि सम्यक् व्याकरणं वेत्त्यधीते वा। तस्मान्नात्र शब्दप्रवृत्तिनिमित्तं कुत्स्यते, किं तर्हि ? यत्र तद्वैयाकरणत्वं वर्त्तते स कुत्स्यते, वैयाकरणत्वन्तु तस्योपलक्षणमेव केवलम्, योऽसौ वैयाकरणः स चौरः, यथा-- यः कम्पते सोऽश्वत्थ इति। अत्र कम्पनमश्वत्थस्योपलक्षणम्। `कुत्सितो बाह्मणः' इति। भवत्यत्र कुत्सितशब्दः कुत्सिताभिधायी। न तु ब्राह्मणशब्दः कुत्सनवचनः।।

54. पापाणके कुत्सितैः।
`पापाणकशब्दौ कुत्सनाभिधायिनौ' इत्युक्तम्। यद्येवमत्र पूर्वेणैव सिद्धः समासः, किमर्थमिदनुच्यत इत्याशङ्‌क्याह-- `तयोः' इत्यादि। यदि पूर्वेण स्यात् समासः, ततः कुत्सितशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वेनिपातः स्यात्, पापापणकशब्दयोस्तु परनिपातः। तस्मात् पूर्वनिपातार्थमिदमारभ्यते। कुत्सितग्रहणं विस्पष्टार्थम्। अन्यथा पूर्वयोगादेव कुत्सित इत्यनुवर्तिष्यत इति तन्न कर्त्तव्यमेव स्यात्।।

55. उपामानानि सामान्यवचनैः। (2.1.55)
`उपमीयतेऽनेनेत्युपमानम्' इति। सादृश्येन येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा गौरिव गवय इत्यत्र गौरुपमानम्,तेन हि सादृश्येन गवयः परिच्छिद्यते। `यादृशो गौस्तादृशो गवयः' इत्यर्थः प्रतीयते। सामान्यमनेकसाधारणं भवति; इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वादुपमानोपमेयोरेव साधारणो धर्मः सामान्यं विज्ञायत इत्याह--`उपमानोपमेययोः' इत्यादि। `तद्विशिष्टोपमेयवचनैरयं समासः' इति। तेन सामान्येन धर्मेण विशष्टं यदुपमेयं तद्वचनैरयं समासो भवति। कृतः पुनः सामान्यवचनैरित्युक्ते सत्येष विशेषो लभ्यते ? न्यायात्। तथा हि-- सामान्यमुक्तवन्तः सामान्यवचनाः, यथा- गुणमुक्तवन्तो गुणवचना इति। कदा च ते सामान्यवचना भवन्ति ? यदा सामान्यमभिधाय सामान्यविशिष्टे तद्वति द्रव्ये वर्त्तन्ते। तच्च सामान्यवदुपमानस्य सम्बन्धिशब्दत्वादुपमेयमेव विज्ञायत इति न्यायप्राप्त एवार्थो वृत्तिकृता दर्शितः। `शस्त्रीश्यामा देवदत्ता' इति। अत्रोपमानं शस्त्री, उपमेया देवदत्ता। प्रसिद्धं ह्युपमानं भवति, नाप्रसिद्धम्. शस्त्र्येव श्यामगुणत्वेन प्रसिद्धा, न देवदत्ता। तयोः सामान्यं साधारणो धऱ्मः श्यामत्वम्। तत् श्यामत्वमुक्त्वा श्यामशब्दो देवदत्तयामभेदोपचारान्मतुब्लोद्वा वर्त्तत इति सामान्यवचनो भवति। ननु च समानाधिकरणेनेत्यनुवर्त्तते, इह च शस्त्रीशब्दस्य शस्त्र्यां वृत्तिः, श्यामाशब्दस्य देवदत्तायाम्, अतो वैयधिकरण्यात् समासेन न भवितव्यम् ? नैतदस्ति; सर्वत्र ह्युपमानोपमेययोर्भेदात् तद्वाचिनोर्वैयधिकरण्यमेव, उच्यते चेदं वचम्, अतो वैयधिकरण्येऽपि वचनसामर्थ्यात् समासो भविष्यति।
अथ वा-- शस्त्रीशब्दोऽप्यत्र देवदत्तायां वर्त्तते। तेन सामानाधिकरण्यं एवायं समासः-- शस्त्रौ चासौ श्यामा चेति शस्त्रीश्यामा। ननु च शस्त्रीशब्दोऽयं जातिवचनः शस्त्रीत्वं प्रवृत्तिनिमित्तमुपादाय तद्वति वर्त्तते, न च तत् शस्त्रीत्वं देवदत्तायामस्ति, तत् कथं तत्र वर्त्तते ? नैष दोषः; `सर्व एवामी शब्दा गुणमुपादाय तद्वति द्रव्ये वर्त्तन्ते' इत्यपि दर्शनमस्ति। तत्र श्यामत्वं गुणमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तिष्यते। ताद्धर्म्याद्वा देवदत्ता शस्त्रीशब्देनाभिधास्यते। भवति हि ताद्धर्म्यात् ताच्छब्द्यमित्युक्तं प्राक्। ताद्धर्म्यं पुनः श्यामगुणत्वम्।
`फाला इव तण्डुलाः' इति। भवन्ति हि फाला उपमानम्। तथाहि तैर्दीर्घत्वादिना सादृश्येन तण्डुला उपमीयन्ते। तण्डुलशब्दस्तु सामान्यवचनो न भवति। ननु च तण्डुलशब्दोऽपि तण्डुलत्वं सामान्यमुपादाय तद्वति द्रव्ये वर्त्तत इति भवत्येव सामान्यवचनः, तदयुक्तमिदं प्रत्युदाहरणम् ? नैतदस्ति; तथा ह्युपमानोपमेययोः साधारणो धर्मः सामान्यमित्युक्तम्। न च तण्डुलत्वं फालानामस्ति, किं तर्हि ? तण्डुलानामेव।।

56. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे। (2.1.56)
`सामर्थ्यादुपमानवचनैः' इति। यद्यपि `उपमानवचनैः' इति सूत्रे नोपात्तं, तथाप्युपमेयमानापेक्षमित्युपमितशब्दः सम्बन्धिशब्दत्वादुपमानत्वं व्याघ्रदीनां गमयति। तेन विशेषानभिधानेऽपि सामर्थ्यादुपमानवचनैस्तैः समासो विज्ञायते। `न चेत्सामान्यवाची शब्दः प्रयुज्यते' इति। उपमानोपमेययोः साधारणो धर्मः, शौर्यादि, सामान्यम्ष यदि तद्वाची शब्दो न प्रयुज्यते, एवं सति समासो भवति; नान्यथा। ननु च सामान्यस्य समासेऽन्तर्भूत्तवात् त्दवाचिनां शब्दानां प्रयोगो नास्ति, तत्किं प्रतिषेधेन ? नैतदस्ति; साधारणधर्मः सामान्यं हि समासेऽन्तर्भूतम्, न तु तद्विशेषः। तत्रासति प्रतिषेधे विशिष्टसाधारणधर्मवाचिनः प्रयोगः स्यादेवेति कर्त्तव्यः प्रतिषेधः ? न कर्त्तव्यः,कथम्? सामान्यशब्दप्रयोगे हि सति तदपेक्षत्वेन सापेक्षमसमर्थ भवतीत्यसामर्थ्यादेव समासो न भविष्यति। एं तर्ह्येतज्ज्ञापयति-- `भवति हि प्रधानस्य सापेक्ष्यस्यापि समासः' इति। पुरुषाश्चात्रोपमेयत्वात् प्रधानः, उपमानन्तु व्याघ्रादि तदर्थत्वादप्रधानम्। किमेतेन ज्ञापकेन प्रयोजनम् ? `राजपुरुषः शोभनः' इत्येवमादि सिद्धं भवति। `विशेषणं विशेष्येणेति प्राप्ते' इति। ननु च विशेषणस्य विशेष्येण समानाधिकरणेन समासं वक्ष्यति, उपमानोपमेययोश्च भेदाद्वैयधिकरण्यम्, तत्कुतो विशेषणं विशेष्येणेति प्राप्तिः ? एवं मन्यते-- पुरुषादावुपमेये वर्त्मानैर्व्याघ्रादिभिरुपमानशब्दैरयं समासो भवति. यथा चोपमानशब्दानामुपमेयवृत्तित्वे सामानाधिकरण्यं तथा पूर्वसूत्र एव व्याख्यातम्।।

57. विशेषणं विशेष्येण बहुलम्। (2.1.57)
`भेदकं विशेषणम्' इति। `{शिष्लृ विशरणे इति मुद्रित); शिष्लृ शेषणे, विपूर्वः-- पदमंजरी} शिष्लृ विशेषणे' (धा.पा.1451) इत्यस्माद्धातोर्विपूर्वात् करणे ल्युट्। विशिष्यतेऽनेनेति विशेषणम्। तस्येदं लक्षणम्-- भदेमिति। यत् सामान्याकारेण प्रवृत्तमनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थापयति, तद् भेदकं विशेषणमिति। `भेद्यं विशेषणम्' इति। विशेषणीयं विशेष्यम्। विपूर्वात् तस्माद्धातोः `ऋहलोर्ण्यत्' (3.1.124) इति कर्मणि ण्यत्। तस्येदं लक्षणम्, भेद्यमिति। यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद्भेद्यं विशेष्यमिति। अथ किमर्थं विशेषणविशेष्ययोरुभयोरुपादानं क्रियते ? न; अन्यतरस्यैव क्रियेत, सम्बन्धिशब्दत्वाद्धि तयोरन्यतरोपादानेनैवेतरस्याप्यवगतिर्भवत्येव ? सत्यमेतत्; यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्त्रैव समासो भवतीति ज्ञापानार्थमुभयोरुपादानम्, यथा-- नीलोत्पलमिति. अत्र नीलार्थो भ्रमरादिभ्यो व्यावर्त्योत्पलार्थेनोत्पले व्यवस्थाप्यते। उत्पलार्थोऽपि रक्तोत्पलादिभ्यो व्यावर्त्य नीलार्थेन नीले व्यवस्थाप्यत इत्यस्ति प्रत्येकं विशेषणविशेष्यभावः। स यत्र नासत्ि तत्र तु न समासः यथा-- वृक्षः शिंशपेति। वृक्षो हि शिंशपात्वं व्यभिचरति, शिंशपा तु न वृक्षत्वम्। अतस्तत्प्रकारान्तरेभ्यः पलाशादिभ्यस्तं व्यवच्छिनत्तीति शिंशपा तस्य विशेषणं भवति, न तु विशेष्यम्। वृक्षस्तु विशेष्यः शिंशपार्थस्तु वृक्षत्वं न व्यभिचरतीति न तस्यासौ विशेषणं भवति। अथ किं न भवितव्यमेव शिंशपावृक्षः, आम्रवृक्ष इति  ? विशेषणसमासेन भवितव्यम्, यदा शिंशपादिशब्दानां विशेषे वृत्तिर्नावधार्यते। तथा हि-- शिंशपादिशब्दाः फलस्य वृक्षस्य मूलस्य च वाचकाः सामान्यशब्द इति तदर्थानां वृक्षत्वव्यभिचारादद्विशेष्यभावः, वृक्षश्च विशेषणं भवति। यदा तु कुतश्चित् प्रकरणादर्थाद्वा वृक्षाद्यर्था एवावसितवृत्तयो भवन्ति तदा न भवितव्यम्। ननु च वृक्षार्थावसितवृत्तित्वाद्‌वृक्षशब्दस्य तदा प्रयोग एव नोपपद्यते, उक्तार्थत्वात्, `उक्तार्थानामप्रयोगः' (व्या.प.60) इति वचनात्। ततश्च समासस्याप्रसङ्ग एव। तत्किं तन्निवृत्त्यर्थेनोभयग्रहणेन? नैतदेवम्; क्वचिदुक्तार्थानामपि लोके प्रयोगो दृश्यते, यथा-- अपूपौ द्वावानयेति।
यदि तर्हि यत्रोभयोः प्रत्येकं विशेषमविशेष्यभावस्तत्र समासेन भवितव्यम्, एवं सति प्रत्येकमुपसर्जनत्वं स्यात्, उभयोरपि विशेषणत्वात्, विशेषणस्येह सूत्रे प्रथमानिर्दिष्टत्वात्, ततश्चोत्पलनीलरमित्यपि स्यात्, नीलोत्पलमिति तु सर्वदैवेष्यते ? नैष दोषः; यस्मादेकतरं प्रधानम्, इतरदप्रधानम्। द्वयोः प्राधान्ये परस्परानुपकारित्वादसम्बन्धयोरेकत्र प्रयोगो न स्यात्। अप्राधान्येऽपि द्वयोः प्रधानापेक्षावतोर्नास्ति परस्परोपकारित्वमिति न स्यादेवैकत्र प्रयोगः। तस्मादेकत्र प्रधानम्, अपरं त्वप्रधानम्। यच्चाप्रधानं तेदवोपसर्जनसंज्ञां भवति, नेतरत्; अन्वर्थत्वादुपसर्जनसंज्ञायाः-- उप = समीपे विशेष्ये स्वार्थ सृजति = क्षिपतीति। नीलशब्दश्चाप्रधानम्, तदर्थस्य गुणस्याप्राधान्यात्; उत्पलशब्दस्तु प्रधानम्, तदर्थस्य द्रव्यस्य प्राधान्यात्। तस्मान्नीलशब्द एवोपसर्जनम्, नोत्पलशब्द इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। यत्रोभावपि तत्र पर्यायेणोपसर्जनभावः, यथा-- कुब्जखञ्ज, खञ्जकुब्ज इति।
अथ कुतोऽत्र द्रव्यस्य प्राधान्यमवसितम् ? उच्यते;यथा-- श्वेतं छागमालभेतेत्यस्यां देशनायां देशनायां श्वेतगुणस्याभावेऽन्यवर्णस्यापि च्छागस्यालम्भनाच्छागाबावे श्वेतगुणस्यान्यद्रव्यस्यानालम्भनाच्च। न हि च्छागाभावे पिष्टकपिण्डीलमालभ्य याज्ञिकः कृती भवति। यदि च प्रधानं गुणः स्यात्तदा यथा छागाभावे पिष्टकपिण्डी नालभ्यते, तथा श्वेतगुणाभावेऽन्यगुणोऽपि च्छागो नालभ्यते। न च स नालभ्यते, तस्मात् द्रव्यमेव प्रधानम्, न गुण इति। ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दोऽयमिति व्यवस्थाप्यते। एवं नीलशब्देऽप्यतिप्रसङ्गः, प्रभृत्या विनाशात् स्वाधारं द्रव्यं नैव जहाति। अतो द्रव्यात्मभूतत्वाज्जातेस्तन्निमित्तकः शब्दो द्रव्यस्योत्पत्ते। गुणाः पुनरपायिनोऽनपायिनो वा सत्येतस्मिन् द्रव्ये वर्त्तन्ते निवर्त्तन्ते च। तस्मान्नैते द्रव्यात्मभूता इति न तन्निमित्तशब्दो द्रव्यशब्दो व्यवस्थाप्यत इत्यलमतिप्रसङ्गेन।
`तक्षकः सर्पः' इति। ननु च तक्षकः सर्पस्य विशेषणं भवत्येव, तथा हि-- सर्प त्युक्ते सर्पसामान्यं प्रतीयते, न सर्पविशेषः। तक्षक- सर्प इत्युक्ते सर्पविशेषोऽतक्षकाद्व्यावृत्तोऽवसीयते, तदयुक्तं प्रत्युदाहरणमेतत्; नैतदस्ति;उक्तं ह्येतत्- यत्रैकैस्योभयत्र भावस्तत्र समास इति। न तु कदाचित् सर्पार्थस्य तक्षको विशेष्यो भवति। कथं न भवति ? तक्षकस्य सर्पत्वाव्यभिचारात्। ननु च तक्षकशब्दस्यानेकप्रकारत्वेन प्रकारान्तरनिवृत्तये युज्यत एव सर्पस्य तक्षकोऽपि विशेष्यः ? नैतदस्ति; न नामधेयस्य क्रियाशब्देन तुल्यमर्थाभिधानसामर्थ्यम्। अवयवार्थानुसारेण हि क्रियाशब्दोऽर्थं बोधयति, समुदायरूपेण तु नामधेयम्। `अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी' (व्या.प.108) इति तस्यां सत्यां क्रियाशब्दार्थविषयापेक्षा नोपजायत एव। `लोहितस्तक्षकः' इति। भवति लोहितो विशेषणम्, न तु तक्षको विशेष्यम्। तस्य लोहितत्वाव्यभिचारात्। यदि तर्हि तक्षको न विशेष्यः, लोहितोऽपि विशेषणं न स्यात्; विशेषणस्य विशेष्यापेक्षत्वात्। न च शक्यं तक्षकाद्यर्थान्तरं पटादिकं विशेष्यं तदपेक्षया लोहितस्य विशेषणत्वं परिकल्पयितुम्। एवं हि लोहिताद्यदर्थान्तरं तीव्रविषादिकं विशेषणं तदपेक्षं तक्षकस्यापि विशेष्यत्वं प्रसज्येत। तस्माद्विस्पष्टार्थमुभयोर्ग्रहणमित्यपरे।।

58. पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च। (2.1.58)
`पूर्वस्यैवायं प्रपञ्चः' इति। तेनैव सिद्धत्वात्। अस्ति ह्यत्रापि प्रत्येकं पूर्वोत्तरपदयर्विशेषणं विशेष्यभावः।।

59. श्रेण्यादयः कृतादिभिः। (2.1.59)
`श्रेण्यादिषु च्व्यर्थवचनम्' इति। अभूततद्भावे वर्त्तमानानां समासो यथा स्यात्। यदा हि श्रेण्यादिशब्दानामर्था अपरिनिष्पन्ना एव निष्पाद्यन्ते तदा समास इष्ते। यदा तु निष्पन्ना एव ते रूपान्तरेण क्रियते तदा श्रेणयः कृता दण्डिताः सत्कृता वेत्येवमाद्यर्थविवक्षायां नेष्यते। कृतशब्दस्य दण्डितादिशब्दानामर्थेषु वृत्तिर्न सम्भवतीत्येतच्च नाशङ्कनीयम्। करोतेः क्रियासामान्यवाचित्वात्। अनेकार्थत्वाद्वा धातूनाम्। श्रेण्यादिषु च्व्यर्थवचनमित्यस्यायमर्थः-- च्व्यर्थ उच्यते = प्रत्याय्यते येन तच्च्व्यर्थवचनम्। `कर्त्तव्यम्' इति। येन श्रेण्यादिषु समासकराणत्वेनोपात्तेषु च्व्यर्थता प्रतिपद्यते तद्वयाख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- बहुलग्रहणमिहानुवर्त्तते, तेन च्व्यर्थानामेव समासो भवतीति नाच्व्यर्थानाम्। `च्व्यन्तानाम्' इत्यादि। च्वेर्विकल्पेन विधानाद्द्विविधाश्च्व्यर्थाः-- च्व्यन्ताः, अच्व्यन्ताश्च। तत्र ये श्रेण्यादयोऽच्व्यन्तास्तेषामनेन समासः। च्व्यन्तानान्तु `ऊर्य्यादिच्विडाचश्च' (1.4.61) इति गतिसंज्ञायां सत्यां परत्वात् `कुगतिप्रादयः' (2.2.18) इति समासो भविष्यतीति।।

60. क्तेन नञ्विशिष्टेनानञ्। (2.1.60)
अयं विशिष्टशब्दोऽस्त्येव सावधारण आधिक्ये वर्त्तमानः। यथा-- देवदत्तयज्ञदत्तावाढ्यावभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः; स्वाध्यायेनैवाधिक इति गम्यते। अन्ये तु गुणाः समाना एव भवन्ति। अस्ति च निरवधारण आधिक्ये वर्त्तमानः, यथा-- देवदत्तयज्ञदत्तावाढ्याविभिरूपौ प्रेक्षावन्तौ। देवदत्तस्तु यज्ञदत्तात् स्वाध्यायेन विशिष्टः, स्वाध्यायेनाधिक इति गम्यते। अन्ये तु गुणाः समाना भूयांसो वा, ते न विवक्षिता भवन्ति। यद्यपि चाभिन्नरूपमेव वाक्यद्वयमेतत्, तथापि प्रकरणादेः कुतश्चिदर्थभेदो गम्यते, यथा-- आराच्छब्दे दूरान्तिकार्थभेदः। तत्र यदि निरवधारण आधिक्ये वर्त्तमानो विशिष्टशब्दो गृह्येत, तदा सिद्धं च तदभुक्तञ्चेत्यत्रापि स्यात्, अस्त्यत्र नञाधिकं क्तान्तम्। तस्मात् सावधारण आधिक्ये वर्तमानं विशिष्टशब्दं परिगृह्याह-- `नञैव विशेषो यस्य' इत्यादि। `प्रकृत्यादिकम्' इति। आदिशब्देन प्रत्ययोपसर्गयोः परिग्रहः। `अनञ्' इति। अविद्यामानो नञ् यस्मिन् क्तान्ते तदनञ्। `कृतञ्च तदकृतञ्च' इति। कथं पुनरेकमेव वस्तु कृतं स्यादकृतञ्च ? अवयवधर्मेण समुदायस्य तथा व्यपदेशाददोषः। कृतभागसम्बन्धात् कृतम्, अकृतभागसम्बन्धात् तदेवाकृतमित्यु्च्यते। अथ वा- यदर्थं कृतं तत्रासामर्थ्यादकृतम्, यथा-- पुत्रकार्यासामर्थ्यात् पुत्रोऽप्यपुत्र इति। यदि नञेव विशेषो यस्य सर्वमन्यत् प्रकृत्यादिकं तुल्यं तेन समासः, एवं सति यस्य नुडप्यधिक इडागमो वा, तेन सह समासो न भवतीत्याह-- `नुडिटौ' इत्यादि। यत्तु नञ्विशिष्टं क्तान्तं तद्भक्तौ नुडिटौ, अतस्तद्ग्रहणेन गृह्येते, अतो नास्य भेदकौ तौ। अभेदकावित्यर्थः। तेन तदधिकमपि नञ्विशिष्टमेव भवतीति तेन समासो भवत्येव। `अशितानशितेन' इति। `तस्मान्नुडचि' (6.3.74) इति नुट्। `क्लिष्टाक्लिशितेन' ति। `क्लिशः क्त्वानिष्ठयोः'
 (7.2.50) इति पक्षे इट्। अनञिचि शक्यमकर्तुम्। यदि स नञ् समस्येत तदा नञ्विशिष्टता नोपपद्यते; द्वोयरपि नञ्सम्बन्धात्। तस्मान्नञ्विशिष्टग्रहणादेवानञ् समस्यत इत्येषोऽर्थो लभ्यत इत्यनञ्ग्रहममनर्थकम्। तत् क्रियते विस्पष्टार्थम्।
`कृतापकृतादीनाम्' इत्यादि। कृतापकृतप्रभृतीनामुपसंख्यानम् = प्रतिपादनं कर्त्तव्यम्। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिहानुवर्त्तते, तेन कृतापकृतादीनामपि समासी भवतीति। `कृतापकृतम्' इति। तदेकदेशस्येष्टस्य करणात् कृतम्। अपकृतञ्च तदेकदशस्यानभिमतस्य करणात्। `भुक्तविभुक्तम्' इति। भुक्तं त्वभ्यवहृतत्वात्, विभुक्तञ्चाशोभनत्वात्। विशब्दोऽत्राशोभवत्वं प्रतिपादयति विरूपवत्। अथ वा- भुक्तञ्च तत्प्रत्यागतञ्चेति `गतप्रत्यागतम्'। यातञ्च तत्पूर्वमनुयातञ्च पश्चात् `यातानुयातम्'। `क्रयाक्रयिका' िति। महान् क्रयः क्रयशब्दोनोच्यते, अल्पस्तु क्रयिकाशब्देन। क्रयावयवसम्बन्धात् क्रयः, क्रयिकावयवसम्बन्धात् क्रयिता, क्रयश्चासौ क्रयिका चेति क्रयाक्रयिका। `अन्येमामपि दृश्यते' (6.3.137) इति दीर्घः। एवं पुटश्चासौ पुटिका चेति `पुटापुटिका'। फलञ्च तत् फलिका चेति `फलफलिका'। मानञ्च तदुन्मानिका चेति `मानोन्मानिका'। `समानाधिकरणाधिकारे' इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनन्तु पूर्ववदेव।।

61. सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः।
`पूज्यचमानवचनैरिति वचनात्' इत्यादि। पूज्यमनत्वं ह्यवमुत्तरपदस्य भवति यदि पूजावचना भवन्ति, नान्यथा; तस्मात् पूज्यमानग्रहणात् सदादयः पूजावचना विज्ञायन्ते। अत एव सच्छब्देन शतृशानचोर्ग्रहणं न भवति, न हि तौ पूजामाहतुः। `उत्कृष्टा गौः कर्द्दमात्' इति। उद्धृतेत्यर्थः। अथ कथं महाद्रुमः, महोदधिरिति समासः, न ह्यत्र पूजा गम्यते, किं तर्हि ? प्रमाणातिरेक उत्तरपदार्थस्य ? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेर्भविष्यति।।

62. वन्दारकनागकुञ्जरैः पूज्यमानम्। (2.1.62)
वन्दारकादयो जातिशब्दाः। ते चोपमानत्वे सति पूजावचना भवन्ति। तत्र व्याघ्रादेराकृतिगणत्वात् `उपमितं व्याघ्रादिभिः' (2.1.56) इत्येवं सिद्धे समान्यप्रयोगगेऽपि यथा स्यादित्येवमर्थोऽयमारम्भः। "`पूज्यमानम्' इति वचनाद्वृन्दारकादयः पूजावनचना गृह्यन्ते" इति। न ह्यन्यथा पूज्यमानत्वमुपपद्यत इति भावः।
  `सुषीमो नागः' इति। ननु च विशेषणं विशेष्येणेति वर्त्तते। न च नागादन्यः सुषीमोऽस्ति, संज्ञा ह्येषा नागस्यैव ? एवं तर्हि प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता।इदन्त्वत्र प्रत्युदाहरणम्--देवदत्तो नागो यस्मान्मूर्ख इति।।

63. कतरतमौ जातिपरिप्रश्ने। (2.1.63)
`जातिपरिप्रश्न एव व्युत्पाद्येते'इति। `किंयत्तदौर्निर्धारणे'(5.3.92) इत्यनुवर्त्तमाने `वा बहूनाम्' (5.3.93) इत्यादिना। स्यादेतत्-- कतरशब्दविशेषणार्थ जातिपरिप्रश्नग्रहणमित्याह-- `कतरशब्दोऽपि' इत्यादि। `तदेव ज्ञापयति' इति। यदि तर्हि कतमशब्दो जातिपरिप्रश्न एव वर्त्तमानो गृह्यते, जातिपरिप्रश्नग्रहणमनर्थकं स्यात, विनाऽपि तेन यथोक्तया नीत्या कतरतमशब्दौ जातिपरिप्रश्न एव वर्त्तमानो ग्रहीष्येते। `तथा च' इत्यादि। यत एव तकमशब्दस्य जातिपरिप्रश्नादन्यत्रापि वृत्तिः, एवञ्च कृत्वा भवतां देवदत्तः कतम इति प्रत्युदाहरणमुपपद्यते। अन्यथा तन्नोपपद्येत्; तस्य जातिपरिप्रश्नादन्यत्राप्रवृत्तेः।।

64. किं क्षेपे। (2.1.64)
`किंसखा' इति। `अनङ सौ' (7.1.93) इत्यनङादेशः। अथ किंराजेत्यादौ `राजाहः सखिभ्यष्टच्' (5.4.91) `गोरतद्धितलुकि' (5.4.92) इति टच् समासान्तः कस्मान्न भवतीत्याह-- `किमः क्षेपे' इत्यादि। अत्र `न पूजनात्' (5.4.69) इत्यतः `न' इत्यनुवर्त्तते।।

65. पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः। (2.1.65)
विशेषणमित्यादिना समासे प्राप्ते वचनमिदं परनिपातार्थम्। गुणशब्दा ह्येते। तत्र यदि तेन समासः स्यात तदैषां पूर्वनिपातः प्रसज्येत। अथ धूर्त्तग्रहणं किमर्थम्, यावता कुत्सनशब्दोऽयम्, `कुत्सितानि कुत्सनैः' (2.1.53) इत्येवं समासः सिद्ध ? इत्याह-- `धूर्त्तग्रहणमकुत्सार्थम्' इति। शब्दप्रवृत्तिनिमित्तकुत्सायां समासो विज्ञायते, न कुत्सायाम्।।

66. प्रशंसावचनैश्च। (2.1.66)
`रूढिशब्दाः प्रशंसावचना गृह्यन्ते' इति। त्रिप्रकारा हि प्रशंसाशब्दाः- केिज्जातिशब्दाः परार्थे प्रयुज्यमानाः प्रशंसामाचक्षते यथा-- सिंहो देवदत्त इति। केचिद्गुणशब्दा गुणगुणिसम्बन्धेन प्रशंसावचना भवन्ति, यथा-- रमणीयो ग्रामः, शोभनः पाचक इति। केचिद्रूढिशब्दा मतल्लिकादयः; तेषां प्रशंसैव शब्दार्थः। तदिह वचनग्रहणात् प्रशंसायामेव ये वर्त्तन्ते ते गृह्यन्ते रूढिशब्दाः। `गोप्रकाण्डम्' इति। शोभनः प्रशस्तो गौरित्यर्थः। योगविभागोऽसन्देहार्थः। यदि पूर्वयोग एव प्रशंसावचना गृह्येरन्, तदा सन्देहः स्यात्-- किं पोटादिभिः प्रत्येकं वचनमभिसम्बध्यते ? अथ प्रशंसयेति ? पोटादिभिः सम्बन्धे तत्पर्यायैरपि समासः स्यात्।।

67. युवा खलतिपलितवलिनजरतीभिः। (2.1.67)
`खलत्यादिभिः समानाधिकरणैः' इत्यादि। यद्येवम्, किमर्थं जरतीभिरिति स्त्रीलिङ्गेन निर्देशः, जरद्भिरित्येवं नाम निर्देशः कर्त्तव्यः स्यात्, न हि जरतीशब्देन स्त्रीलिङ्गेन युवशब्दस्य पुंलिङ्गस्य सामानाधिकरण्यमुपपद्यत इत्याह-- `जरतीभिरिति स्त्रीलिङ्गेन निर्देशः' इत्यादि। कथं पुनरनेन निर्देशेनैषा परिभाषा शक्यते ज्ञापयितुम् ? यद्येषा न स्यात् तदा जरतीभिरित्येवं निर्देशोऽनर्थकः स्यात्. तथा च समानाधिकरणाधिकारात् समानाधिकरणेन जरतीशब्देनायं समासो विज्ञायते। न च तेन स्त्रीलिङ्गेन पुंसि वर्त्तमानस्य युवशब्दस्य सामानाधिकरण्यं भवति, तदेष निर्देशः कथमर्थवान् भवति ? यद्येषा परिभाषाऽवतिष्ठते ! तस्यां हि सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्य ग्रहणं भवतीत्युपपद्यते। युवतिजरतीशब्दयोः सामानाधिकरण्यम्, तस्मिंश्च सति तयोः समासः। तेदवं जरतीभिरिति निर्देशो ज्ञापयति-- एषा परिभाषाऽस्तीति। नन्वेवमपि जरत्या समास उच्यमाने जरता न प्राप्नोति-- युवजरन्निति ? नैष दोषः; वृत्त्यन्तरे हि जरद्भिरिति पठ्यते। उभयथाऽप्याचार्येण शिष्याः प्रतिपादिता इत्युभयं सिध्यति।।

68. कृत्यतुल्याख्या अजात्या। (2.1.68)
`तुल्यपर्यायाश्च' इति। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते ? एवं मन्यते--कृत्य इत्यर्थग्रहणम्। अतस्तत्साहचर्यात् तुल्य इत्यर्थस्यैव ग्रहणं युक्तम्, तत्रार्थे कार्यासम्भवात् तद्वाचिनां समासो विज्ञायत इत्याख्याग्रहणं तुल्यनामधेयपरिग्रहार्थम्। अन्यथा गौर्वाहीक इत्यत्रापि स्यात् ; गोशब्दस्येह सादृश्यार्थत्वात्। सर्व एव हि शब्दाः परपदार्थे प्रयुज्यमानाः सादृश्यं गमयन्ति। आख्याग्रहणे तु क्रियमाणे गोशब्दोऽत्र तुल्यनामधेयं न भवतीति समासाभावः। भोज्योष्णमित्यादावुष्णादयः शब्दा गुणवचनाः। तत्रासत्यस्मिन् योगे विशेषणसमासे सति तेषां पूर्वनिपातः स्यात्। अतः परनिपातार्थ आरम्भः। `तुल्यमहान्' इति। यद्यप्यत्र `सन्महत्' (2.1.561) इत्यादिना समासः प्राप्नोति, तथापि परत्वादनेनैव भवति। तुल्याख्यायामस्यावकाशः-- तुल्यश्वेत इति। तस्य चातुल्याख्यायामवकाशः-- महापुरुष इति। `भोज्य ओदनः' इति। ओदन शब्दोऽत्र जातिवचनः।।

69. वर्णो वर्णेन । (2.1.69)
`विशेषणं विशेष्येण' (2.1.57) इति वर्त्तते। तत्र यदि द्वयोरपि वर्णशब्दयोः स्वरूपग्रहणमिह स्यात्, विशेषणविशेष्यभावो नोपपद्येत; अभिन्नार्थत्वात्। न हि तदेव देवदत्तस्य विशेषणत्वं विशेष्यत्वं चोपपद्यते। अथाप्येकस्य स्वरूपग्रहणं स्यात्, अपरस्यार्थग्रहणम् ? एवप्येकः सामान्यवाची स्याद्वर्णशब्दः, द्वितीयस्तु विशेषवाची कृष्णादिशब्दः। ततश्च प्रत्येकं विशेषणत्वं विशेष्यत्वं च न स्यात्। यत्र च तदुभयमस्ति तत्र समास इति प्रागुभयग्रहणस्य प्रयोजनमुक्तम्। तस्मादुभयत्राप्यर्थग्रहणं विज्ञायत इत्याह-- `वर्णविशेषवाचि' इत्यादि। `कृष्णसारङ्गः, लोहितसारङ्गः' इति। ननु च कृष्णशब्दो लोहितशब्दश्चावयवे वर्त्तते सारङ्गशब्दस्तु समुदाये; यथा-- शबलशब्दः, तत्कथमवयववृत्तेः कृष्णादिशब्दस्य समुदायवृत्तिना सारङ्गादिशब्देन सामानाधिकरण्यमित्याह-- `अवयवद्वारेण' इत्यादि। कृष्ण इत्युच्यते, लोहितावयवसम्बन्धाल्लोहित इति। अत एव गौणत्वादत्र सामानाधिकरण्यस्य `विशेषणं विशेष्येण' (2.1.57) इत्यादिना समासो न प्राप्नोतीतीदमारभ्यते महत्याः संज्ञायाः करणमन्वर्थसंज्ञा यथा विज्ञायेतेति। तेनाप्रधानमुपसर्जनमिति। न चात्र समुदायोऽप्रधानम्, किं तर्हि ? प्रधानमेव। अवयवानान्तु तदर्थत्वादप्राधान्यम्। अतोऽवयववचनस्यैव कृष्णशब्दादेरुपसर्जनत्वम्। न समुदायवचनस्य सारङ्गादिशब्दस्य।।

70. कुमारः श्रमणादिभिः। (2.1.70)
`तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते' इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। `तैरुपभयथा' इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह-- `प्रातिपदिकग्रहणे' इति। गतार्थम्।।

71. चतुष्पादो गर्भिण्या। (2.1.71)
`चतुष्पादः' इति। चत्वारः पादा यासां ताश्चतुष्पादः। `पादस्य लोपोऽहस्त्यादिभ्यः' (5.4.138) इत्यन्तस्य लोपः। `चतुष्पाज्जातिरिति वक्तव्यम्' इति। चतुष्पादो जातिवचना एव गर्भिण्या समस्यन्त इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पोटादि(2.1.65) सूत्रादिह जातिग्रहणमनुर्त्तते। तेन चतुष्पज्जातिवाच्येव गर्भिण्या समस्यते, नान्यदिति।।

72. मयूरव्यंसकादयश्च। (2.1.72)
`मयूरव्यंसकः' इति। मयूरश्चासौ व्यंसकश्चेति मयूरव्यंसकः। व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते परनिपातार्थः पाठः। एवं चात्र मयूरव्यंसकादीनां यवनमुण्डपर्यन्तानाम्। `छन्दसि ह्स्तेगृह्य' इत्यादि। समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37)। भाषायान्तु -- हस्तेगृहीत्वा, पुनर्दत्त्वेत्येवं भवति। `एहीडादयोऽन्यपदार्थे' इति। एहि ईड यत्र कर्मणि वर्त्तते तदुच्यते-- `एहीडम्' इति। एवम्-- `एहियवम्' इति। एहिवाणिजेति यस्यां क्रियायां सा `एहिवाणिजा'। एवम्-- `अपेहिवाणिजा, प्रेहिवाणिजा'। एहि सवागतमिति यस्यां क्रियायां सा `एहिस्वागता'। एवम्-- `अपेहिस्वागता'। प्रौह कटमिति यस्यां सा `प्रोहकटा'। एं प्रोहकर्दमादय आहरवसनान्ताः। कृन्धि विचक्षणेति यस्यां क्रियायां सा `कृन्धिविचक्षणा' । `उद्धरोत्सृज' इति। तिङन्तयोः समासः। `आख्यातमाख्यातेन क्रियासात्ये' (ग.सू.20) इत्येवं सिद्धेऽसातत्यार्थं वचनम्। उद्धरोत्सृजति यस्यां क्रियायां सा उद्धरोत्सृजा। क्रियाप्रधानश्चायं समासः। `उत्पतनिपता'। `उत्तमविधमा'। एवमुद्धरोत्सृजेत्यादिकमसातत्यविषयमेव। `उच्चावचनम्' इति निपात्यते। उदक् चावाक् चिति विगृह्य। उच्चैश्च नीचैश्चेति विगृह्योच्चनीचमिति निपात्यते। आचितञ्चोपचितञ्चेति विगृह्य `आचोपचम्'। आचितञ्च पराचित़ञ्चेति `आचपराचम्'। निश्चितञ्च प्रचितञ्चेति `निश्चप्रचम्'। न किञ्चन `अकिञ्चनम्'। `स्नत्वाकालकः'। `पीत्वास्थिरकः'। `भुक्त्वासुहितः' इत्येषामन्तोदात्तार्थः पाठः। ल्यब्भावश्च निपात्यते। `प्रोष्यपापीयान्' इति। ऐकपद्यमैकस्वर्यञ्च समासाद्भवति। एवम्-- उत्पत्यपाकलादीनाम्। `नित्यरोहिणी। निषण्णश्यामा। अपेहिप्रसवा। इहपञ्चमी। इहद्वितीया' इति। ऐकपद्यमैकस्वर्यञ्च समासे भवति।
`जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्त्तारञ्चाधिदधाति' इति। जहीति लोण्मध्यमपुरुषैकवचनम्। तदन्तं कर्मणा च बहुलं समस्यत आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्त्ता चाभिधीयते। जहिजोडमित्याभीक्ष्ण्यं य आह स उच्यते `जहिजोडः' इति। जहिस्तम्ब इति, लोट्; सिप्, `हन्तेर्जः' (6.4.36) इति जादेशः। जोडादेरत्र कर्मभावः।
`आख्यातम्' इत्यादि। तिङन्तं तिङन्तेन सह समस्यते क्रियासातत्ये गम्यमाने। अश्नीत पिबतेत्यसकृद्यत्रोच्यते तत्र `अश्नीतपिबत' इति प्रयुज्यते। क्रियाप्रधानश्चायं समासः। एवं पचतभृज्जतेत्येवमादयो वेदितव्याः। भिन्धि लवणमिति यत्रीभिधीयते सा `भिन्धिलक्षणा'। एवं `पचलवणा' इति।।
इति श्रीबोधसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
द्वितीयाध्यायस्य
प्रथमः पादः
---------------