काशकृत्स्न-धातुपाठः/भ्वादिगणः (१)(णिजन्ताश्च)

विकिस्रोतः तः
← भ्वादिगणः (१)(आत्मनेपदिनः) काशकृत्स्न-धातुपाठः
भ्वादिगणः (१)(णिजन्ताश्च)
[[लेखकः :|]]
अदादिगणः (२) →

97
(३)
णिजन्ताश्च
५८१. घटि1 चेष्टायाम्--घटते--व्याप्रियते । घटयति2--व्यवहरति । घटकः, घटमानः--भविता। घट् , घटिः, घटः, घटा, घटनम् , घटनीयम्, घट्यम् , घाट्यम्--अष्टौ व्यापारे।
५८२. व्यथ दुःखभयचलनयोः--दुःखेन भयेन च व्यथने चलने । व्यथते, व्यथयति--दुःख्यति, बिभेति । व्यथकः, व्यथमानः--दुःखितः, भीरुश्च । व्यथ्यम् , व्यथ्, व्यथिः, व्यथम् , व्यथा, व्यथनम् , व्यथनीयम् , व्याथ्यम्--दुःखे भये ।
५८३. प्रथ प्रख्याने--प्रसिद्धौ । प्रथते, प्रथयति--प्रसिद्धो भवति । प्रथकः, प्रथमः, प्रथमानः-- प्रसिद्धः। प्रथ्, प्रथिः, प्रथमम् , प्रथनम्, प्रथनीयम्--पञ्च प्रख्याने।
५८४. प्रस विस्तारे--प्रसते, प्रसयति--विस्तृणाति । प्रसकः, प्रसमानः--विस्तारकः। प्रसः, प्रसिः, प्रसा, प्रसनम् , प्रसनीयम् , प्रस्यम् , प्रास्यम् , प्रासम्--अष्टौ सुविस्तारे।
५८५, म्रद मर्दने--म्रदते, म्रदयति--मर्दयति । म्रदकः, म्रदमानः--मर्दकः । म्रद् , म्रदिः, म्रदनम् , म्रदनीयम् , म्रद्यम् , म्राद्यम्--षट् मर्दने ।
५८६. स्खद स्खदने--विशरणे स्खलने च । स्खदते, स्खदयति--कृन्तति,

टिप्पणी


१. 'घट' इति शुद्ध पाठः, घटते घटयति इत्यादिरूपोदाहरणात् । इदितो नुम् स्यात् । कातन्त्रधातुपाठेऽपि 'घट' इत्यैव पाठः।
२. इतः प्रभृति णिजन्तेषु 'घटादयो मानुबन्धाः' (धातुसूत्र १।५९२ ) इत्यनेन मित्त्वाद् वृद्ध्यभावः।

98
चोरयति, अपराध्यति । स्खदकः, स्खदमानः--विकर्तकः, अपराधी। स्खद् , स्खदः, स्खदनम् , स्खदनीयम् , स्खद्यम् , स्खाद्यम्--[ षट्] विकर्तने, अपराधे वा।
५८७. क्षजि दाने गतौ च--दाने चलने च । क्षञ्जते, क्ष[ञ्ज]यति--ददाति, चलति । क्षञ्जकः, क्षञ्जमानः--दाता, गन्ता । क्षञ्जम् , क्षञ्जिः, क्षञ्जनम् , क्षञ्जनीयम्--पञ्च1 दाने चलने च ।
५८८. दक्ष हिंसायां च----हिंसने चात् चलने च । दक्षते, दक्षयति--हिनस्ति । दक्षः, दक्षकः, दक्षमाणः--त्रयो घातके । दक्षिः, दक्षा, दक्षणम् , दक्षणीयम् , दक्ष्यम् , दाक्ष्यम्--षट् हिंसायाम् । ।
५८९. क्रप कृपायाम्--दयायाम् । क्रपते, क्रपयति । क्रपकः, क्रपमाणः--कृपालुः । क्रपिः, क्रपा, क्रपणम् , क्रपणीयम् , क्रप्यम् , क्राप्यम्--षट् दयायाम् ।
५९०. क्रदि क्लदि क्रद क्लद वैकल्ये----विकलतायाम्--क्रन्दते, क्रन्दयति--विकलो भवति । क्रन्दकः, क्रन्दमानः--द्वौ विकले। क्रन्दिः, क्रन्दनम् , क्रन्दनीयम् , क्रन्द्यम् , क्रान्द्यम्--पञ्च चञ्चलतायाम् । क्लन्दते, क्लन्दयति--चिन्तयति । क्लन्दकः, क्लन्दमानः--चिन्तयिता । क्लन्दिः, क्लन्दम् , क्लन्दनम् , क्लन्दनीयम् , क्लन्द्यम् , क्लान्द्यम्--षट् चिन्तने । क्रदते, क्रदयति--व्यथते, चिन्तति । क्रदकः, क्रदमानः--चिन्तकः । क्रदिः, क्रदनम् , क्रदनीयम्, क्रद्यम् , क्राद्यम्--पञ्च चिन्तने । क्लदते, क्लदयति--चिन्तितो भवति । क्लदकः, क्लदमानः--चिन्तितः । क्लदिः, क्लदम् , क्लदनम् , क्लदनीयम् , क्लद्यम् , क्लाद्यम्--षट् चिन्तायाम् ।
५९१. ञित्वरा सम्भ्रमे--शैघ्र्ये । त्वरते, त्वरयति--शैघ्र्यमाचरित । त्वरकः, त्वरमाणः, त्वरन्--शीघ्रकारी । त्वरिः, त्वरम् , त्वरणम् , त्वरितम् , त्वर्यम् , त्वार्यम् , त्वरितव्यम् , त्वरणीयम्--अष्टौ शीघ्रतायाम् ।।
५९२. घटादयो मानुबन्धाः--घटप्रभृतयो मानुबन्धयुक्ता भवन्ति । मानुबन्धाद् इन् मा----मानुबन्धधातुभ्य इन् णानुबन्धवन्मा2 भवेत् ।
५९३. ज्वर रोगे--ज्वरति, ज्वरयति--तीव्रं संतपति । ज्वरकः, ज्वरन्--उष्णः । ज्वरः, ज्वरणम् , ज्वरणीयम् , ज्वर्यम् , ज्वार्यम्--पञ्चौष्ण्ये ।

टिप्पणी


१. उदाहरणेषु चत्वार एव पठ्यन्ते, लेखकप्रमादाद् भ्रष्टः स्यात् ।
२. कन्नडटीकायां सूत्रार्थोऽस्पष्टः । अस्माभिः चुरादिप्रकरणे निर्दिष्टम् ‘इन् णानुबन्धवत्' सूत्रमनुरुध्यायमर्थः प्रदर्शितः। तेन तत्रैव निर्दिष्टेन 'वृद्धिरादौ सणे' सूत्रेण वृद्धिर्नं भवति । पाणिनीयास्तु वृद्धिं कृत्वा मितां ह्रस्वः (६।४।९२) सूत्रेण ह्रस्वत्वं विदधति ।

99
५९४. गड सेचने--घर्षणे । गडति, गडयति--घर्षति । गडकः, गडन्--घर्षकः । गडम् , गडिः, गडुः, गडनम् , गडनीयम् , गड्यम् , गाड्यम् , गाडिः, गाडम्--नव घर्षणे ।
५९५. हेड वेष्टने------परिवेष्टने ( लपेटने में )। हेडति, हेडयति--परिवेष्टयति । हेडकः, हेडन् , हेडः--परिवेष्टकः । हेडिः, हेडुः, हेडनम् , हेडनीयम् , हेड्यम् , हैड्यम् , हैडम्--सप्त वेष्टने ।
५९६, वट भट परिभाषणे--व्यक्तभाषणे । वटति, वटयति--वदति । वटः, वटुः, वटन्--वदिता । वटः--एतन्नामा वृक्षः। वटा--भक्ष्यविशेषः ('बड़ा' इति भाषायाम् )। वाटम्--धावनम् । वाटी--मार्गः, उद्यानम् । वटुकम्--औषधमात्रा, गुटिका । वटनम् , वटनीयम् , वट्यम् , वाट्यम्--चत्वारो वार्तायाम् । भटति, भटयति--गप्पयति1 । भटः, भटकः, भटन्--गप्पयिता । भटिः, भटुः, भटनम् , भटनीयम् , भट्यम् , भाट्यम्--गप्पक्रियायाम् । भाटः--भृतिः । भाटी--(?)।
५९७. नट नृतौ2--नृत्ये । नटति, नटयति--नृत्यति । नटः, नटकः, नाटकः, नटन्--चत्वारो नर्तके । नटिः, नटुः, नटनम् , नटनीयम् , नट्यम् , नाट्यम्--षट् नर्तने।
५९८. कष्ट प्रतिघाते--प्रतिहिंसने । कष्टति, कष्टयति--प्रतिहिनस्ति । कष्टन् , कष्टकः--प्रतिहिंसकः । कष्टम् , कष्टिः, काष्टम् , कष्टनम् , कष्टनीयम् , कष्ट्यम् , काष्ट्यम्--षट् प्रतिहिंसने ।
५९९. चक तृप्तौ--शीतीभावे । चकति, चकयति--शीतीभवति । चकः, चककः, चकन्--शीतीभवितरि। चाकलः--रजकः। चाकली--रजकी। चकि, चकु, चकनम् , चकनीयम् , चक्यम् , चाक्यम् , चाकम् , चक् , चाक्--नव शीतीभावे । चक्रम्--(रथाङ्गम्)।
६००. कख हसने--कखति, कखयति--हसति । कखः, कखकः, कखन्--हसिता । कखि, कखु, कखनम् , कखनीयम् , कख्यम् , काख्यम् , काखम् , कख् , काख्--नव हसने।
६०१. रगे शङ्कायाम्--शङ्कायां भये च । रगति, रगयति--शङ्कते । रगः, रगकः, रगन्--शङ्किता। रगिः, रगुः, रगा, रगणम् , रगणीयम् , रग्यम् ,

टिप्पणी


१. गप्पं करोति गप्पयति । यद्वा 'गप मिथ्यापरिभाषणे'----'गपयते' । एतद्विषये पूर्वत्र (पृष्ठ ४६ ) टिप्पणी ( १ ) द्रष्टव्या।
२. 'नृत्यौ' इत्यपपाठः कन्नडटीकायाम् ।

100
राग्यम् , रग्, राग्--नव शङ्कायाम् । रागी--धान्यविशेषः । रागम्--गानम् , रक्तवर्णम् ।
६०२. लगे संगमे1--सङ्गे। लगति, लगयति--परस्परं संगच्छते । लगः, लगकः, लगन्--संगन्ता । लगिः, लगुः, लग्नम् , लगनम् , लगनीयम् , लगितव्यम् , लग्यम् , लाग्यम् , लागुः--नव परस्परं संगमने, मेषादिराशीनां गतौ च ।
६०३. ह्रगे ह्लगे षगे स्थगे संवरणे--आच्छादने । ह्रगति, ह्रगयति--आच्छादितो भवति (?, आच्छादयति )। ह्रगः, ह्रगन् , ह्रगकः--आच्छादयिता। ह्रगिः, ह्रगुः, ह्रगणम् , ह्रगितव्यम् , ह्रगणीयम् , ह्रग्यम् , ह्राग्यम् , ह्रागम्--अष्टावाच्छादने । ह्लगति, ह्लगयति--आच्छादयति । ह्लगः, ह्लगकः, ह्लगन्--आच्छादकः । ह्लगिः, ह्लगम् , ह्लगनीयम्--त्रय आच्छादने । सगति, सगयति--संवृणोति (ओढ़ता है)। सगः, सगन् , सगकः--संव्रियमाणः ( ओढ़ने वाला )। सगिः, सगनम् , सगनीयम्--संवरणे ( ओढने में)। स्थगति, स्थगयति--आवृणोति (घेरता है)। स्थगः, स्थगकः, स्थगन्--आवरकः । स्थगिः, स्थगितम् , स्थगनम्, स्थगनीयम्--चत्वार आवरणे ।
६०४. कगे गतौ2--कगति, कगयति--चलति । कगः, कगकः, कगन्--गन्ता । कागिः, कागः--काकः । कगिः, कगनम् , कगनीयम्--गतौ ।
६०५. अक अज3 कुटिलायां गतौ--अकति, अकयति--कुटिलमाचरति । अकः, अककः, अकन्–वक्रगन्ता । अकिः, अकनम् , अकनीयम् , अक्यम् , आक्यम् , आकम् आक्--सप्त वक्रगमने । आकु--करभूषणम् । [ अजति, अजयति.....]।
६०६. कण, रण गतौ--कणति, कणयति--चलति । कणः, कणकः, कणन्--गन्ता । कणा--[गन्त्री] । कणम्--धान्यम् । कणुकम्--(?)। कणादः--एतन्नामा महर्षिः, पक्षिविशेषः । कणनम् , कणितव्यम् , कणनीयम् , कण् , काण् , काणम् , कण्यम् , काण्यम्--अष्टौ गमने । रणति, रणयति--चलति । रणकः, रणन्--चलिता । रणनम् , रणनीयम्--द्वौ चलने ।
६०७. चण शण श्रण दाने--चणति, चणयति--ददाति । चणन्--दाता । चणः, चणकः--धान्यविशेषः । ( 'चना' इति प्रसिद्धः)। चणितव्यम् , चणनम् ,

टिप्पणी


१. कातन्त्रपाठे 'लगे सङ्गे च' ।
२. कगे नोच्यते इति पाणिनीयाः, गतिसामान्यादनेकार्थत्वाच्चार्थो नोच्यत इति वृत्तिकारा आहुः ।
३. अज धातोरुदाहरणानि कन्नडवृत्तौ नोपलभ्यन्ते ।

101
चणनीयम् , चण्यम् , चाण्यम् , चणि, चणु, चाणु, चाणम् , चण् , चाण् -- एकादश दाने । शणति, शणयति--ददाति । शणः, शणकः, शणन्--दाता। शण शाण् शणि, शणु, शणनम् , शणनीयम् , शण्यम् , शाण्यम् , शणितम्--अष्टौ दाने । श्रणति, श्रणयति--रक्षति । श्रणः, श्रणकः, श्रणन्--रक्षकः । श्रण् , श्रणि, श्रृणु, श्राणु, श्रणितम् , श्रण्यम् , श्राण्यम् , श्रणनम् , श्रणनीयम् , श्राणम् , श्रणितव्यम्--एकादश रक्षणे ।
६०८. श्नथ क्नथ क्रथ क्लथ--हिंसायाम्--मारणे । श्नथति, श्नथयति--मारयति । श्नथः, श्नथकः, श्नथन्--मारयिता । श्नथनम् , श्नथितम् , श्नथितव्यम् , श्नथनीयम् , श्नथ्यम् , श्नाथ्यम् , श्नाथम् , श्नथ् , श्नाथ् , श्नाथु, श्नथि, श्नथु,--द्वादश हिंसायाम् । क्नथति, क्नथयति--ताडयति । क्नथः, कथकः, क्नथन्--ताडयिता । क्नथ् , क्नाथ् , क्नथि, क्नथु, क्नाथु, क्नाथम् , क्नथितम् , क्नथितव्यम् , क्नथनम् , क्नथनीयम् , क्नथ्यम् , क्नाथ्यम् , क्नाथम्1--त्रयोदश1 ताडने । क्रथति, क्रथयति--पातयति ( डालता है ?)। क्रथः, ऋथकः, क्रथन्--पातयिता। क्रथ् , क्राथ् , क्रथिः, क्रथुः, क्राथुः, क्रथ्यम् , क्राथ्यम् , क्रथितम् , क्रथितव्यम् , क्रथनम् , क्रथनीयम्--एकादश पातने । क्लथति, क्लथयति--अवहन्ति ( कूटता है)। क्रथः, क्रथकः, क्रथन्--अवहन्ता। क्लथ् , क्लाथ् , क्लथिः, क्लथुः, क्लाथुः, क्लथनम् , क्लथितव्यम् , क्लथनीयम् , क्लथ्यम् , क्लाथ्यम् , क्लाथम्--एकादश अवहनने ।
६०९. चनु वनु स्मरणे--चनति, चनयति--स्मरति । चनः, चनकः, चनन्--स्मर्ता । चननम् , चननीयम् , चन्यम् , चान्यम् , चानम् , चन् , चनु, चानु--अष्टौ स्मृत्याम् । वनति, वनयति--स्मरति । वनः, वनकः, वनन्--स्मृतिशीलः । वननम् , वननीयम् , वन्यम् , वान्यम् , वानम्--पञ्च स्मरणे ।
६१०. ज्वल दीप्तौ--प्रकाशे । ज्वलति, ज्वलयति--प्रकाशते । ज्वलः, ज्वलनम् , ज्वलकः, ज्वलन् , जाज्वल्यमानः, ज्वाली--षट् प्रकाशयितरि । ज्वलिः, ज्वलुः, ज्वाला--त्रयः प्रकाशे।
६११. ह्वल, ह्मल चलने--स्पन्दने । ह्वलति, ह्वलयति--स्पन्दते । ह्वलः, ह्वलकः, ह्वलन्--स्पन्दिता। ह्वलनम्, ह्वलनीयम्, ह्वलितव्यम्--त्रयः स्पन्दने । ह्मलति, ह्मलयति--कम्पते । ह्मलः, ह्मलकः, ह्मलन्--कम्पकः। ह्मलनम् , ह्मलनीयम् , ह्मलितव्यम्--त्रयः कम्पने ।

टिप्पणी


१. 'क्नाथम्' द्विरुच्यते; अतो द्वादश एव साधुपाठः । यद्वा एकत्र 'क्नथम्' इत्यपेक्षते।

102
६१२. स्मृ आध्याने--स्मरणे । स्मरति, स्मरयति--आध्यायति । स्मरः--मन्मथः । स्मर्ता--आध्यायकः । स्मरणम् , स्मृतिः, स्मृतम् , स्मर्तव्यम् , स्मरणीयम् , स्मर्यम् , स्मार्यम् , स्मर्यमाणम्--अष्टौ स्मरणे । ।
६१३. दॄ भये--दरति दरयति--बिभेति । दरः, दरकः, दरन्--भीरः । दाराः पुंसि भूम्नि1--पत्नीवाचको दाराशब्दः पुंसि बहुवचने प्रयुज्यते। [ दाराः--भार्या । ] दरा, दरी--द्वौ तटे। दर्तव्यम् , दरणीयम् , दरणम् , दर्यम् , दार्यम् , दरिः, दॄ--सप्त भयेन श्वयथौ ( भय से हाथ फैर फूलने में )।
६१४. नॄ नये--विनये । नरति, नरयति--विनीतो भवति । नरः, नॄ, नरकः, नर्ता--चत्वारो विनम्रे। नर्तव्यम् , नरणीयम् , नरणम् , नर्यम् , नार्यम्--पञ्च मृदुनि, कोमले । नरी--भीरुः।
६१५. श्रा पाके--श्रायति, श्राययति, श्रापयति2--पचति । श्रायः, श्रायन् , श्रायकः--पक्तरि । श्रायणम् , श्रायणीयम् , श्रायितव्यम्--त्रयः पाके । आतो युरनि3--आकारान्तानां धातूनां 'यु' आगमो भवति । आतः पुरिनि--आकारान्तानां धातूनां 'पु' आगमो भवति इन् परे।
६१६. मारणतोषणनिशामनेषु ज्ञा--'ज्ञा अवबोधने4 मारणे, प्रसन्नतायां, उपवेशने5 [मानुबन्धो] भवति । क्र्यादिषु पठितो ज्ञा घटादिषु पठितो भवति । ज्ञाजनोर्जा--ज्ञा--जनधात्वोर् 'जा' [ आदेशो] भवति । क्र्यादेर्ना -- क्र्यादिभ्यो धातुभ्यो 'ना' विकरणो भवति सार्वधातुके परतः। जानाति –

टिप्पणी


१. बहुत्वं प्रायिकम् , एकवचनान्तस्यापि दर्शनात् । तद्यथा--'श्रोत्रियस्य दारेण' ( बृ० उ० ६।४।१२); 'आचार्यदारे' (आप० धर्म० ११२।७।२७ ); 'दारे' ( तन्त्राख्यायिका, पृष्ठ ६७, श्लोक १५७ ) इत्यादयो बहवः प्रयोगा दृश्यन्ते ।
२, 'श्राययति श्रायति श्रापयति' इत्येवं व्युत्क्रमेण कन्नडटीकायां पाठः ।
३. अत्र सूत्रे 'अनि', 'इनि' वा पाठ इति संदिग्धः । अस्यार्थनिर्देशे कस्यापि प्रत्ययस्योल्लेखो न क्रियते । 'अनि' पाठे 'श्रायति' इत्यत्र यकारागमो ज्ञेयः । तथा सति श्राययति इत्यत्र केन यकारागम इति न ज्ञायते । 'इनि' पाठे 'श्राययति' इत्यत्र यकारागमः सिद्ध्यति । 'श्रायति' इत्यत्र पूर्वनिर्दिष्टेन ( पृष्ठ ५० ) 'आतो युः' सूत्रेण यकारागमो भवत्येव । वयं तु पश्यामः--इह श्राययति पाठः श्रापयति पाठश्चोभावपि प्रमादजौ। यतः श्रा पाके घटादिषु पठ्यते, स च मानुबन्धः, मानुबन्धस्य च वृद्धिर्न भवतीत्युक्तं पुरस्तात् ( पृष्ठ ९८, टि०२) तेनेह 'श्रपयति' इत्येव युक्तः पाठः । पाकादन्यत्र श्रापयतीत्येव भवति ।
४. कन्नडवृत्तौ 'ज्ञा अवबोधने मारणतोषणनिशामनेषु ज्ञा' इत्येवं पूर्वापरं पठ्यते । अस्माभिः प्रकरणानुसारं शोधनं विहितम् ।
५. निशामनस्य उपवेशनरूपोऽर्थः कन्नडटीकायामुच्यते, स चिन्त्यः ।

103
अवबुध्यते । ज्ञपयति--मारयति, नृत्यति,1 विवदति1। मारणतोषणनिशामनेभ्योऽन्यत्र--जायति । शमादर्शने मानुबन्धः--ज्ञाधातो शमो लोपे मकारानुबन्धो भवति2 । जयति--विवदति । मारणादेरन्यत्र ज्ञापयति--स्मारयति ।
६१७. कम्पने चलिः--ज्वलादिषु पठितश्चलिः कम्पनेऽर्थे मानुबन्धः । तरुर्लतां चलयति--वृक्षो लतां कम्पयतीत्यर्थः । कम्पनादन्यत्र चालयति--अवलम्बयति ।
६१८. अर्जने छदिः----'छद षद संवरणे' इति चुरादौ पठ्यते । स बले प्राणने वर्तमानो मानुबन्धो भवति । स्वार्थे यिन्--स्वार्थे यिन् आगमो भवति । छदति छादयति (?, छदयति)। अन्यत्र छादयति गृहम् । ]
६१९. जिह्वोन्मथने लडि:--'लड विलासे' इत्ययं जिह्वोन्मथनेऽर्थे मानुबन्धः । दन्तैर्जिह्वां लडयति घर्षयतीत्यर्थः।।
६२०. हर्षग्लपनयोर्मदिः--'मदी हर्षे दिवादिषु परस्मैपदी, स हर्षग्लपनयोर्मानुबन्धः । मित्रं मदयति--हर्षयतीत्यर्थः । रिपुं मदयति--विनाशयतीत्यर्थः ।
६२१. ध्वन शब्दे -- ध्वनयति, ध्वानयति--शब्दं करोति,4 करोति ।
६२२. जनीजॄष्न््य पुरोञ्जोमन्ताश्च--जनी प्रादुर्भावे, जॄष् वयोहानौ, क्नसु5 ह्वरणदीप्त्योः , रञ्ज रागे' [ इत्येते धातवः, अम् अन्ते येषां ते अमन्ताश्च मानुबन्धा भवन्ति ] । जनयति--उत्पादयति । जरयति--केशान् श्वेती करोति । क्नसयति--कलरवो भवति, प्रकाशयति । रञ्जयति--प्रसन्नयति । रमयति--आनन्दयति । भ्रामयति (?, भ्रमयति) भ्रान्तं करोति ।

टिप्पणी


१. 'नृत्यति विवदति' इत्येतौ कस्यार्थौ इति न ज्ञायते, सूत्रे तु 'तोषणनिशामन' शब्दौ निर्दिष्टौ । तस्मादयं पाठः प्रमादज एव । _
२. कन्नडटीकायां 'शमादर्शने मानुबधः' इत्यस्य योऽर्थः कृतस्तस्येयं संस्कृतच्छाया वर्तते, परन्त्वर्थोऽस्य न व्यक्तीभवति । वस्तुतस्तु 'शमोदर्शने' इति धातुसूत्रम् । एतच्चोत्तरत्र (१।६२५) स्ययं वृत्तिकृता सम्यग् व्याख्यातः। इहास्योपन्यासो व्याख्या च प्रमादजा। प्रकृतस्य मारणतोषणादिसूत्रस्य प्रायेण सर्वाऽपि कन्नडव्याख्या अशुद्धा वर्तते । किमत्र कारणमिति तु न जानीमः ।।
३. इत आरभ्य अग्रे पठ्यमानानां धातुसूत्राणामर्थः कन्नडवृत्तावस्पष्टः, अस्माभिरिह प्रकरणानुसारं कन्नडटीकामधिकृत्य स्पष्टीकृतः।
४. प्रथमोऽर्थों मित्संज्ञकस्य ध्वनयतीत्यस्य, अपरोऽमितो ध्वानयतीत्यस्य ज्ञेयः ।
५. कन्नडवृत्ताविह 'क्रसु' इत्येवं पठ्यते, तथैव चोदाह्रियते, परन्तु दिवादौ 'क्नसु ह्वरणदीप्तयोः' पाठदर्शनाद् अस्माभिरिह तथैव शोधनं विहितम् ।

104
६२३. ज्वलह्वलह्मलनमोऽनुपसर्गाद्वा--ज्वल ह्वल ह्मल [ नम ] इत्येते उपसर्गरहिता वा मानुबन्धा भवन्ति । ज्वलयति, ज्वालयति--प्रकाशते1 । ह्वलयति, ह्वालयति--कलरवो भवति । ह्मलयति, ह्मालयति--स्वप्नं पश्यति । नमयति, नामयति--नमस्कारं करोति ।
६२४. ग्लास्नावनुवमश्वनकम्यमिचमः--एते मानुबन्धाः विकल्पेन भवन्ति । ग्लपयति ग्लापयति--म्लायति (मुरझाता है)। स्नपयति स्नापयति--स्नाति । वमयति, वामयति--वमनं करोति । वनयति वानयति--अङ्कुरितो भवति । श्वनयति, श्वानयति--भषते (भूंकता है)। कमयति--कामयति--इच्छति । अमयति, आमयति--क्षुधितो भवति । चमयति, चामयति--गण्डूषं करोति ।
६२५. शमोऽदर्शने--शमधातुरदर्शने मानुबन्धः। शमयति रोगम्--पीडां निवर्तयति । दर्शने--निशामयति रूपम्--परिचिनोति रूपमित्यर्थः ।
६२६. यमोऽपरिवेषणे--वेषहीनतायां2 'यम उपरमे' धातुर्मानुबन्ध भवति । यमयति--नाशयति । यमः--अन्तकः । यमी--यतिः। यमलम्--युग्मम् । यन्ता--प्रेरकः । यामः--घटित्रयकालः । यामिनी--रात्रिः । यमुना--सूर्यपुत्री एतन्नाम्नी नदी। यन्त्रम्--उद्धरणिः । आयामम्--दीर्घता । संयमयति--संयमं करोति । संयमी--यतिः । नियमयति--नियमं करोति । नियमः--व्रतम् । नियमी--व्रती। वेषे--यामयति--सहते3।
६२७. स्खदिर अवत्यां च--रक्षणे चात् अपरिवेषणे4 स्खदिर धातुर्मानुबन्धो भवति । स्खधयति (?, स्खदयति )--रक्षां करोति, रूपयति ।
६२८. फण गतौ--फणयति--रिङ्गति ( रेंगता है ) । फणी--सर्पः। फणा--सर्पस्य शिरः।
६२९. वृत् , घटादयो मानुबन्धा एकत्वे--एकत्वे5 घटादयो मानुबन्धाः समाप्ताः।

टिप्पणी


१. इह प्रकरणे बहूनां ण्यन्तानां धातुनां स्वार्थरूप एवार्थो निर्दिश्यते, न प्रयोजकव्यापाररूपः।
२. नाश इत्यर्थः । उदाहरणस्य तथैवार्थदर्शनात् । ।
३. अन्ये तु 'परिवेषणे' इत्यस्य भोजनप्रस्तुतीकरणरूपोऽर्थ इत्याचक्षते ('परोसना' इति भाषायाम् )।
४. कन्नडटीकायाम् 'परिवेषणे' इत्येव पठ्यते, स च चिन्त्यः पाठः ।
५. 'एकत्वे' इत्यस्याभिप्रायो न व्यक्तीकृतो वृत्तिकृता । कदाचिद् धात्वर्थस्यैकत्वे, अर्थात् 'स्वार्थे' इत्यर्थोऽभिप्रेतः स्यात् (द्र० पृ० १०४, टि० १)।

105
परस्मैभाषाः--सप्त1 परस्मैभाषाः ।।
उभयतोभाषः
६३०. राजृ दीप्तौ--राजति, राजते--प्रकाशते । राट् , राजा, राजन् , राजमानः--चत्वारो राज्ञि । राजानां (?)--धान्यम् । राज्यम्--राजाधीनो प्रदेशः । राजितम् , राजितव्यम् , राजनम् , राजनीयम्--चत्वारः प्रकाशे। राजिः--श्रेणिः । राज्ञी--राज्ञः पत्नी।
[आत्मनेभाषाः]
६३१. भ्राजृ, टुभ्रासृ टुभ्लासृ दीप्तौ--प्रकाशे । भ्राजते--प्रकाशयति । भ्राट् , भ्राजमानः--प्रकाशयिता । भ्राजिः, भ्राजम् , भ्राजनम् , भ्राजनीयम्--चत्वारः प्रकाशे। भासते--प्रकाशते, दीप्यते । भ्राः, भ्रासमानः--दीपिता । भ्रासम्, भ्रासिः, भ्रासितम् , भ्रासनम् , भ्रासनीयम्--पञ्च दीपने । भ्लासते--दीप्यते । भ्लाः, भ्लासमानः--दीप्यमानः । भ्लासम् , भ्लासनम्, भ्लासनीयम्--प्रकाशे।
आत्मनेभाषाः -- एते आत्मनेपदिनः ।

[परस्मैभाषाः]
६३२. स्यमु स्वन ध्वन शब्दे----ध्वनौ। स्यमति--शब्दयति । स्यमः, स्यमन् , स्यमकः, स्यमः--चत्वारो2 ध्वनितरि। स्यमनम् , स्यमितव्यम् , स्यमनीयम् , स्यम्यम् , स्याम्यम्--षट् ध्वनौ । स्वनति--ध्वनति । स्वनन् स्वनकः--शब्दयिता । स्वनः, स्वानः--शब्दः । ध्वनति--अनर्गलं वदति ( बकता है )। ध्वनन् , ध्वनकः--वाचालः । ध्वनिः, ध्वानः--अनर्गलशब्दनम् ।
६३३. षम ष्टम वैक्लव्ये--श्रमे । समति--विभजति (बाँटता है)। समन् , समकः--विभजकः। समम् , समनम् , समानम्, समनीयम् , साम्यम् ,

टिप्पणी


१. 'सप्त' इत्यनेन केषां संग्रह इति न ज्ञायते। परस्मैपदनिर्देशस्तु 'ज्वर रोगे' (१।५८६ ) इत्यारभ्यैव वृत्तिकृता कृतः । यद्वा पाणिनीये यथा फणादयः सप्त 'फणां च सप्तानाम्' (अ० ६।४।१२५) इत्यत्र स्मर्यन्ते तथैव काशकृत्स्नीयेऽपि तन्त्रे फणादीनां सप्तानामवान्तर्गणः कार्यविशेषार्थं स्मृतः स्यात् । तथा सति 'परस्मैभाषाः' इत्यत्रैकवचनम् स्यात्, उत्तरा च व्याख्या प्रामादिका इत्यपि संभाव्यते ।
२. 'स्यमः' द्विः पठ्यते, तथा सति 'चत्वारः' इति प्रमादपाठः, यद्वा एकत्र 'स्यामः' इत्येवं कल्पनीयम् ।

106
सम्यम् , सम् , समि, समु, सामु, सामम्--एकादश समाने । सामन्--वेदविशेषः । सामकः--सामवेदः । स्तमति--प्रतिनिवर्तयति (चुकाता है)। स्तम् , स्तमकः--प्रतिनिवर्तकः। स्तमनम् , स्तमितव्यम् , स्तमनीयम् , स्तम्यम्, स्ताम्यम् , स्तामम् , स्तमिः, स्तमुः, स्तामुः, स्तामु1--एकादश प्रति निवर्तने (चुकाने में)।
६३४. ज्वल दीप्तौ--द्योतने । ज्वलति--द्योतते । ज्वलः, ज्वालः, ज्वलन् , ज्वलकः--चत्वारो द्योतके । ज्वाला, ज्वलनम्, ज्वलनीयम् , ज्वल्यम् , ज्वाल्यम्--[ पञ्च] द्योतने।
६३५. चल कम्पने--चलति--कम्पते । चलन् , चलकः--कम्पिता। चलि, चालि, चलु, चालु, चलनम्, चलितम्, चलितव्यम्, चलनीयम् , चल्यम् , चाल्यम्, चालम्--एकादश कम्पने ।
६३६. जल धान्ये--आर्द्रीभावे । जलति--आर्द्री भवति । जलन् , जलिता--आर्द्रीकर्ता । जलम्--पयः। जलकम्--स्थानम् । जालम्--आनायः। जालन्ध्रम्--गवाक्षम् । जालु--कीलकम् । जालिः--संयोजकः । जलारी--जलमार्गः । जलिनी--लघुजलाश्रयः । जलनम् , जलनीयम, जल्यम् , जाल्यम्--चत्वारः स्रोतसि ।
६३७. टल ट्वल वैक्लव्ये--दुःखे श्रमे । टलति--दुःख्यति । टलन् , टलः, टलकः--श्रमी। टलिः, टलनम् , टलनीयम् , टलितव्यम् , टल्यम् , टाल्यम् , टालम्--षट् श्रमे । ट्वलति--चूर्णयति । ट्वलः, ट्वलकः, ट्वलन्--चूर्णयिता । ट्वलनम् , ट्वलनीयम् , ट्वल्यम् , ट्वाल्यम् , ट्वालम्--पञ्च चूर्णने ।
६३८. ष्ठल स्थाने--स्थितौ । स्थलति--स्थिरो भवति । स्थलम्--स्थानम् । स्थाली--पाकाधिकरणी।
६३९. हल विलेखने--कर्षणे । हलति--कर्षति । हलम्--क्षेत्रकर्षणसाधनम् । हली--कृषकः । हलायुधः--राजा, बलरामः, शिवशरणः ।
६४०, णल गन्धे--दुर्गन्धे । नलति--दुर्गन्धयति । नलः--कुबेरपुत्रः, एतन्नामा महाराजः, वानरविशेषः । नळिनम्--कमलम् । नाळम्--छिद्रम् । नाळी--जलादिसंचरणी।
६४१. बल प्राणने--चेतने । बलति--चेतयति । बलम्--चेतनम् । बलिः--एतन्नामा चक्रवर्ती राजा । बालः, बालकः--कुमारः। बाला, बालका

टिप्पणी


१. लिङ्गभेदेन पुनः पाठः । तमपेक्ष्यैव 'एकादश' इति संख्या ज्ञेया।

107
(?, बालिका)--कुमारी । बललूः, बलीयान् , बलिष्ठः, बलवान्--चत्वारो बलवति । बलाहकः1--मेघः ।
६४२. पुल महत्त्वे--पूजने । पोलति--पूज्यो भवति । पुलस्त्यः--ब्रह्मणः पुत्रः। पुलस्तिः--( ? )। पुलहः--ब्रह्मणः पुत्रः। पुलिः--व्याघ्रः । पुळी--अम्लम् (?)। पुलम्--क्षेत्रम् । पुलि, पुली--व्याधिः। पुळिनम्--प्रमत्तता ।
६४३. कुल संख्याने--गणनायाम् । कोलति--गणयति । कुलम--समीपम । कुळकम्--कोलग (?) काव्याङ्गनापादः, सर्पः। कुळिः--निम्नभूमिः । कुळुत्थम्--धान्यविशेषः ('कुलथ' इति भाषायाम् )। कुली--पर्वतः । कुलीन--उत्तमकुलजः । कुलम्--सम्पूर्णम् , जलाश्रयः ।।
६४४. हुल हिंसासंवरणयोः----हिंसायाम् , कवितायां (?) च । होलति--मारयति । हुलिः--व्याघ्रः । हुलम्--क्षेत्रम् ।
६४५. पल हुल (?, शल) पतृ2 पथा गतौ च--गत्यामपि । पलति--फलं ददाति पुष्पितो भवति । पलाशः--एतन्नामा वृक्षः। पललम्--म्लानता। पलायनम्--धावनम् । फलितम् (?, पलितम् )--केशानां श्वैत्यम् । पालिः--श्रेणी । पलारिः--(?) । पाळु--शून्यम् । पाल्--दुग्धम् । पल्--फलम् । पळिः--निन्दा, विचारः । शलति--विस्मरति । शला--अवरोधकः, सत्यम् । शलिलम्--जलम् । शालूरः--मण्डूकः । शलाका--शलूकम् , लोहयष्टिः । शाला--गृहम् । शलभः--एतन्नामा कीटविशेषः । शल्यम्--अस्थि । शाल्यम्--तण्डुलम् । शालु--(दुशाला) । शालः--एतन्नामा वृक्षः । पतति--अधो गच्छति (गिरता है)। पतन् , पतितः, पतकः--अधोगन्ता । पतिता अञ्जलिः यस्य--पतञ्जलिः ऋषिः । पतिः--शासकः । पताका, पताकी--ध्वजा । पत्यम् , पात्यम् , पतनम् , पतनीयम्--चत्वारोऽधोगमने । पथति--गच्छति । पथन् , पथकः--गन्ता। पथिः, पथः--मार्गः । पाथेयम्--पथि भक्षितुं योग्यं द्रव्यम् । पथनम् , पथनीयम् , पथ्यम् , पाथ्यम्--चत्वारो गमने ।
६४६. क्वथे पाके--क्वथति--पचति ( उबलता है )। क्वथकः, क्वाथकः--पाचकः । क्वथम् , क्वथि, क्वथु, क्वाथम् , क्वाथु, क्वथ्यम् , क्वाथ्यम् , क्वथनम् , क्वथनीयम् , क्वथितव्यम्--दश--पाके (उबालने में)।
६४७, गथे विलोडने--गथति--विलोडयति । गथन् , गथकः--विलोड--

टिप्पणी

{{{1}}}

108
यिता । गथम् , गथा, गथि, गथु, गाथु, गथितम् , गथितव्यम् , गथनम् , गथनीयम् , गथ्यम् , गाथ्यम् , गथ् , गाथ्--त्रयोदश विलोडने ।
६४८. डुवम1 उद्गिरणे--वमने । वमति--उद्गिरति । वमन् , वमकः--उद्गरिता । वामनः--लघुपरिमाणः (नाटा), विष्णोरवतारः। वमनम् , वमनीयम् , वान्तिः, वम्यम् , वाम्यम्--पञ्च वमने । वामम्--उत्तरपार्श्वम् ।
६४९. भ्रमु चलने--गतौ । भ्रमति--चलति । भ्रमन् , भ्रमकः, भ्रामकः, भ्रान्तः--चत्वारः चलितरि । भ्रमरः--षटपदः, राक्षसः । भ्रमरका--(?) । भ्रमरा--श्रीशैलमल्लिकार्जुनपत्नी । भ्रमणम् , भ्रामणम् , भ्रमणीयम् , भ्रान्तिः, भ्रमा, भ्रमितव्यम् , भ्रम्यम् , भ्राम्यम्--अष्टौ पेषण्याम् ('चक्की' इति भाषायाम्)।
६५०. क्षर संचलने--क्षरति--( नश्यति)। क्षरन् , क्षरकः--नष्टा । क्षारम्--लवणम् । क्षरणम् , क्षरणीयम् , क्षरितव्यम्--नाशे।
एते परस्मैभाषाः।
६५१. षह मर्षणे--सहते--मर्षयति । साढ्, सहन् , सहकः, सोढा--मर्षयिता। सह--सहभावे । सहि--प्रत्यर्पणम् । सहनम्, सहनीयम्--मर्षणम् । सह्यः--पर्वतविशेषः।
६५२. रमु क्रीडायाम--रमते--क्रीडति । रमणः--शासकः । रमा--लक्ष्मी । रामा--स्त्री। रम्यकः--पर्वतः। रम्यम्--सौन्दर्यम् । रन्ता, रममाणः--क्रीडकः । रामः--गर्दभरक्षकः, परशुरामः, दशरथपुत्रो रामः, मैथुनरामः, सिद्धरामः, एकान्तरामः। आरामम्--सुन्दरमुद्यानम् । रामठम्--हिङ्गुः ।
एतावात्मनेभाषौ।
६५३. षद्लृ विशरणगत्यवसादनेषु--विकर्तने, गतौ, स्थाने । सदेः सीदः--सदधातोः स्थाने सीद--आदेशो भवति । सीदति--विकृन्तति । प्रसन्नः--मुदितः। आसन्नः--समीपवर्ती । आसादी--महापूजकः । प्रसादः--चन्द्रिका। प्रसादः, प्रासादः--गृहोपरिभवः छदः ('छत' इति भाषायाम् )। प्रसादनम्--आभरणम् । सद्यः--तत्कालम्, साह्नः । सदस् , सदर् , सदस्यः--सदस्यः ।
६५. शद्लृ शातने--आसने2 । शदेः शीयः--शदधातोः स्थाने शीयआदेशो भवति । शीयति3--आस्ते । शदन् , शदकः--आसकः । शदनम् , शदनीयम् , शादम्--आसने ।

टिप्पणी


१. 'टुवम' इति शुद्धः पाठः स्यात् ।
२. शातनं तनूकरणमित्यन्ये धातुवृत्तिकाराः ।
३. 'शदेः शितः' ( अष्टा० १।३।६०) इत्यनेनात्मनेपदमिति पाणिनीयाः ।

109
६५५. क्रुश आह्वान्--शब्दने। क्रोशति--आह्वयति । क्रोष्टा--शृगालः । क्रोशः--योजनार्धम् ('कोस' इति भाषायाम्--दो मील ) । क्रुशम्--दीनता, श्रमः । क्रुष्टम् , क्रुष्टिः--आह्वानम् ।
६५६.कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु--असंवरणे (?,मिश्रणे), कौटिल्ये, रोधने, कर्षणे (क्षते) च । कोचति--संवृणोति ( लपेटता है), स्पृशति, कुटिलयति, अभ्यागच्छति, लिखति । कुचन् , कुचकः--संवरिता। कुचः--स्तनः। कोचा--भीरुता।
६५७. बुध अवगमने--ज्ञाने । बोधति--जानाति । बुध् , बुधः, बोधकः--ज्ञाता । बोधनम् , बोधा, बुधिः--ज्ञानम् । बुद्धः--विष्णोरवतारः ।
६५८. रुह जन्मनि--प्रसवे। रोहति--प्रसूते । रुह् , रुहम् , रोहणम् , रोहणीयम्--चत्वारोऽङ्कुरे । रोहिणी--दक्षपुत्री, चन्द्रमसः पत्नी। रौहणेयः--बुधः । आरूढः--उपरिवर्तमानः । आरोहणम्--अधिगमनम् , उपरिगमनम् ।
[एते परस्मैभाषाः।]
६५९. कस गतौ--कसति, कसते5--चलति । कसन् , कसकः--चलिता । कसम्--पांशुः । कसा--पांशुः । कासु--पणम् (पैसा इति भाषायाम् ), मुद्रा । कसकलम्--(?) । कसनम् , कसनीयम् , कस्यम् , कास्यम्--चत्वारोऽपगमने ।
६६०. हिष्क2 गतौ--संतोषगत्याम् । हिष्कति, हिष्कते--संतोषेण गच्छति । हिष्कन् , हिष्ककः, हिष्कमानः--सन्तोषेण गन्ता। हिष्कणम् , हिष्कणीयम् , हिष्कम्--सन्तोषगतौ।
६६१. धावु गतिशुद्ध्योः--शीघ्रगत्याम् , शब्दे (?, शुद्धौ) धावति धावते--शीघ्रं गच्छति (दौड़ता है), वृत्तं ददाति (?)। धावन् , धावकः, धावमानः--शीघ्रगन्ता । धावनम् , धावनीयम्, धावितः, धविः, धावः, धावा, धाव्यम्--सप्तैते शीघ्रगमने (दौड़ने में )।
६६२, अञ्चु व्ययगतौ--अञ्चति, अञ्चते--शनैर्गच्छति । अञ्चन् , अञ्चकः, अञ्चानः, अञ्चमानः--चत्वारो व्ययगतिमति । अञ्चनम् , अञ्चनीयम् , अञ्च्यम् , आञ्च्यम्--चत्वारो व्ययगतौ । अञ्चुः--तटम् । अञ्चा--प्रयाणस्थानम् । गतौ नलोपः--गत्यर्थेऽञ्चतेर्नकारस्य लोपो भवति । अचति, अचते--मरति3 । अचन् , अचकः, अचानः, अचमानः--मर्ता । आचः--वृक्षः । आचा--तस्मिन्

टिप्पणी


१. पाणिनीयाः परस्मैपदिनमेनं स्मरन्ति, उपरितनान् हिक्कादीन् उभयपदिन आहुः । २. 'हिक्क' इति पाणिनीयाः ।
३. द्र० काशकृत्स्नधातुसूत्रम् ( १।२२४ ) । 'म्रियते' इत्यन्यमते प्रयोगः ।

110
दिशि । अच् , आच् , अचिः, अचुः, अचम् , अच्यम् , आच्यम् , आचनम्1 , आचनीयम्1--नव मरणे ।
६६३, अस अष दीप्त्यादानयोश्च--प्रकाशे, आदाने, गतौ च । असति असते--प्रकाशते, आदत्ते, चलति । असन् , असकः, असानः, असमानः--प्रकाशकः, ग्रहीता, चलिता । असुः--जीवः । असुः--खड्गः, लवित्रम् (चाकू इति भाषायाम् ), कान्तिः । असकः--(?) असती--(?) । असिः--जीवनम् , क्षुरम् । अस्थि--(हड्डी इति भाषायाम्) । अस्तिः--प्रकाशकः । अस्मत्--सर्वनाम । असा--(?)। असुरः--हन्ता। आसनम् , आसन् , आसुरम् , अः--चत्वारः प्रकाशे। अषति, अषते--प्रकाशयति । अषन् , अषकः, अषाणः, अषमाणः--चत्वारः प्रकाशके । अट् , आट् , अषम् , अषणीयम् , अष्यम् , आष्यम् , अषम् (?, आषम् ), अषि, (?, आषि), अषु, आषु, अषा, आषा--त्रयोदशप्रकाशने । अष्टु--तावत् (?) । अष्टम् , अष्टन्--द्वौ अष्टसंख्यायाम् । अष्टि--काष्ठम् । आषाढः--दण्डम् । आषाढा -- नक्षत्रम् ।
६६४. वीणृ ज्ञानचिन्तानिशामनेषु--ज्ञाने चिन्तायां श्रवणे च । वेणति वेणते२--शृणोति । वीणा, वीणी--वाद्यविशेष । वेणी--स्त्रीजटा । वेणु:--वंशवृक्षः । वीणः, वीणकः, वीणन् , वीणानः, वीणमानः, वीण्--षडेते बुद्धिमति । वीणनम् , वीणनीयम् , वीण्यम् , वैण्यम्--पञ्च श्रवणे ।
६६५. टुयाचृ याञ्चायाम्--याचनायाम् । याचति, याचते--भिक्षति । याचन् , याचकः, याचमानः याचिता--भिक्षुकः । याञ्चा, याचनम्, याचनीयम् , याच्यम् , याच् , याचितम्--षट् भिक्षायाम् ।
६६६. रेडृ परिभाषणे----अतिभाषणे । रेडति, रेडते--अतिभाषते । रेड् रेडः, रेडकः, रेडन् , रेडमानः--पञ्चातिभाषके ।
६६७. चते चदे याचने च--याञ्चायां [चात् परिभाषणे] च । चतति, चतते--याचते। चत् , चात् , चतन् , चतकः, चतमानः--पञ्च याचके । चातकः--एतन्नामा पक्षी। चतम् , चातम्, चत्यम्, चात्यम्, चतनम् , चतनीयम्--षट् याञ्चायाम् । चतुरः, चत्वरः, चत्वारः--चतुरे पटौ। चदति, चदते--

टिप्पणी


१. दीर्घत्वमादौ कथमिति न व्यक्तीकृतम् ।
२. अत्र वृत्तौ वेणति वेणते, वीणः वीणकः आद्युदाहरणेषु एकारवन्तो दीर्घेकारवन्तश्च प्रयोगा दृश्यन्ते । तेन विज्ञायते 'वेणृ वीणृ' द्वौ स्वतन्त्रौ धातू । पाणिनीया 'वेणृ' इति पठन्ति, काशकृत्स्नीयास्तु 'वीणृ' इति ।

111
प्रशंसयति । चदन् , चदकः, चदमानः--त्रयः स्तावके । चदनम् , चदनीयम् , चद्यम् , चाद्यम् , चदम् , चादम्--षट् स्तुतौ।
६६८. प्रुथृ, पृथृ, पृतृ व्याप्तौ--प्रोथति, प्रोथते--शरणं गृह्णाति । प्रुथु--राजा । प्रुथुलम् , प्रुथक्--प्रत्येकम् । प्रुथुवी, प्रुथ्वी--पृथ्वी। प्रुथ , प्रोथः, प्रोथकम्, प्रोथन्, प्रोथमानः--पञ्च आश्रयितरि। प्रोथनम्, प्रोथनीयम्, प्रोथ्यम्, प्रौथ्यम्--चत्वार आश्रयणे । पर्थति, पर्थते--प्रशास्ति । पार्थः--अर्जुनः । पार्थिवः--राजा । पर्थनम् , पर्थनीयम् , पर्थ्यम् , पार्थ्यम्--चत्वारः शासने । पर्तति पर्तते--बलान्निस्सारयति । पर्तन् , पर्तकः, पर्तमानः--त्रयो बलात्कर्तरि । पृतना--बलम् ।
६६९. मिदृ मेदृ मेथृ1 गतिहिंसयोः--मेदति, मेदते--चलति, हिंसयति । मिद् , मेदकः, मेदमानः--त्रयो गन्तरि । मिदिः, मेदुः, मिन्नम् , मिद्यम् , मैद्यम् , मिदुळम्--षड् गतौ । मेदति, मेदते--मारयति । मेत्, मेदकः, मेदन् , मेदमानः--चत्वारो मारयितरि। मेदस्--एतन्नामा धातुविशेषः (चर्बी इति प्रसिद्धः) । मेदिनी--पृथिवी । मेदुरः--स्थूलव्यक्तिः । मेदनम् , मेदनीयम्, मेद्यम्--मेदः । मेथ्यति2, मेथ्यते--गर्वति (स्थूलो भवति )। मेथ्यः, मेथ्यकः, मेथ्यन् , मेथ्यमानः--चत्वारो गर्वके । मेथ्यनम् , मेथ्यनीयम्--गर्वे, अहंकारे।
६७०. मेधृ संगमे च--मेधति मेधते--परस्परं मिलति । मेध्, मेधन्, मेधकः, मेधमानः--चत्वारो संगन्तरि । मेधा--दृढबुद्धिः। मेधावान्--बुद्धिमान् । मेधनम् , मेधनीयम् , मेध्यम् , मध्यम्--चत्वारः संगमे ।
६७१. णिदृ णेदृ कुत्सासंन्निकर्षयोः--निन्दने सामीप्ये च । नेदति, नेदते--निन्दति । निद् , नेदः, नेदन् , नेदकः, नेदमानः--पञ्च कुत्सके । निदिः, निदा, नेदनम् , नेदनीयम् , निद्यम् , नैद्यम्--षड् निन्दायाम् । नेदति, नेदते--संबन्धयति । नेद्, नेदकः, नेदुरः, नेदमानः--पञ्च संबन्धयितरि । नेदिः, नेदुः, नेदनम् , नेदनीयम्--चत्वारः सन्निकर्षे ।
६७२. सृधु मृधु रुन्धे--मर्दने। [सर्धति,] सर्धते--मर्दयति । सृध् , सर्धकः, सर्धमानः--मर्दकः । सर्धनम् , सर्धनीयम्--मर्दनम् । मर्धति, मर्धते--संपीडयति ( दबाता है)। मृध् , मर्धन् , मर्धमानः--संपीडकः । मर्धनम् , मर्धनीयम्--संपीडनम् ।

टिप्पणी


१. अस्य धातोरुदाहरणेषु मेथ्यतिप्रभृतिषु थकारयकारयोः संयोग उपलभ्यते । तेनेह 'मेथ्यृ' इति पाठः स्यात् । यद्वोदाहरणेषु थकारयकारसंयोगवान् पाठः सर्वत्र प्रामादिकः स्यात् ।
२. द्रष्टव्या प्रथमा टिप्पणी।

112
६७३. बुधिर् बोधने--ज्ञाने । बोधति, बोधते--जानाति । बुधः, बुधन् , बुध्नः, बुधानः--चत्वारो ज्ञानिनि । बोधिनी, बोधिका--ज्ञानदात्री।
६७४. चुदिर्1 निशामने--श्रवणे । चुन्दति1, चन्दते--शृणोति ।
६७५. खनु अवदारणे--खनने । खनेः खा--खनेर्धातोः खा--आदेशो भवति2 । परिखा, खेयम्--अवदारणम् । खातम्--वैरी । खननम् , खननीयम् , खन्यम् , खान्यम् , खनम् , खानम्, खनिः, खनुः, खानुः, खन् , खान् , खननम् --एते द्वादश अवदारणे ।
६७६. कष चीवृ संवरणादानयोः--आच्छादने (ओढ़ने में) ग्रहणे च । कषति, कषते--संवृणोति । कषा, कषणम् , कषणीयम् , कष्यम् , काष्यम् , कट्, काट्--सप्त संवरणसाधने । कषायः--रसः । काषायम्--रागविशेषः । कषन् , कषमाणः, कषः, कषकः--चत्वारः संवारके ( ओढ़नेवाले में )। चीवति, चीवते--मारयति । चीवन् , चीव्यः, चीवः, चीवकः--चत्वारो घातके। चीवनम् , चीवनीयम्--हिंसा।
६७७. याचृ पूजानिशामनयोः--अर्चने, श्रवणे च । चायति, चायते--अर्चति । चायन् , चायमानः, चायकः--अर्चकः (पुजारी)। चाय् , चायम् , चायनम् , चायनीयम् , चाय्यम्--पञ्च पूजने निशामने च ।
६७८. दाशृ दासृ दाने--दाशति, दाशते--ददाति । दाशः--धीवरः ( मछुआ इति भाषायाम् )। दाशनम् , दाशनीयम् , दाश्यम्--दाने । दासति, दासते--दास्यं करोति । दासः--दास इत्येव प्रसिद्धः। दासी--[दासस्य स्त्री, स्वयं वा दास्यकर्मकर्त्री] । दासनम् , दासनीयम् , दास्यम्--त्रयो राजपरिषदि (?) ( दरबार में )। दिवोदासः--एतन्नामा सूर्यवंशप्रभवो राजा।
६७९. भेषृ भये--भेषति, भेषते--बिभेति । भेट् , भेषन् , भेषमाणः,

टिप्पणी


१. अस्योदाहरणे चुन्दति चुन्दते इत्येवं पठ्येते । कथमत्र नकारागम इति न ज्ञायते । चान्द्रधातुपाठे तु 'उचुन्दिर्' इति सनकार एव पठ्यते (द्र० १।६००) कातन्त्रपाणिनीयास्तु 'उबुन्दिर्' इत्येवं पठन्ति । तस्मात् काशकृत्स्नेऽपि 'चुन्दिर्' इत्येव युक्तः पाठः ।
२. खनेः खादेशः कुत्र भवतीति न स्पष्टीकृतं कन्नडटीकाकृता। पाणिनीयनियमानुसारं तु झलादौ सनि झलादौ क्ङिति च खनेर्नकारस्याकारादेशे 'खा' रूपं भवति (द्र० ६।४।४२), यकारादौ क्ङिति च विकल्पेन आकारादेशो भवति (द्र० ६।४।४३)। एवं 'परिखा' इत्यत्र पाणिनीयमतेऽप्रत्यये टिलोपे च रूपं निष्पद्यते । खेयमित्यत्र 'ई च खनः' (३।१।१११) इति नकारस्य ईकारादेशे गुणो भवति । काशकृत्स्नस्तूभयत्र खनेः खादेशं शास्ति ।

113
भेषकः, भेषः--पञ्च भीरौ । भेषिः, भेष्टिः, भेषा, भेषणम् , भेषणीयम् , भेष्यम् , भैष्यम्--सप्त भये ।
६८०. भ्रषृ चलने--भ्रेषति, भ्रेषते--कम्पते । भ्रेट् , भ्रेषः, भ्रेषकः, भ्रेषन् , भेषमाणः--पञ्च कम्पके। भ्रेषिः, भ्रेष्टिः, भ्रेषणम् , भ्रेषणीयम् , भ्रेष्यम् , भ्रैष्यम्--षट् कम्पने चलने।
६८१. पषा बाधनस्पर्शयोः--बाधायाम् , स्पर्शने च । पषति, पषते--बाधते, स्पृशति । पट् , पाट् , पषः, पाषकः, पषन् , पषमाणः--षट् बाधके स्पर्शके । पषिः, पष्टिः, पषणम् , पषणीयम् , पष्यम् , पाष्यम् , पाषम्--सप्त1 बाधायां स्पर्शे ।
६८२. लष कान्तौ--इच्छायाम् । लषति, लशते--काङ्क्षति । लषः, लट् , लाट्, लषन् , लषमाणः, लषकः, लाषकः--सप्त कामयितरि । लषिः, लष्टिः, लषणः, लषणीयम् , लष्यम्, लाष्यम् , लाषम्--सप्त कामनायाम् । अभिलाषः--इच्छा ।
६८३. चष भ्लक्ष भक्षणे--खाद्ये । चषति, चषते--भक्षयति । चाषः--एतन्नामा लघुपक्षी । चषण्2, चषाणः, चट्, चाट्--चत्वारो भक्षयितरि । चषकः--[ पानपात्रम् ] । चषिः, चष्टिः, चषणम्, चषणीयम्, चष्यम्, चाष्यम्--षट् खाद्ये। भ्लक्षति, भ्लक्षते--खादति । भ्लक्षन् , भ्लक्षमाणः, भ्लक्षकः-- अतिभक्षयितरि।
६८४. छष हिंसायाम्--छषति, छषते--मारयति । छट्, छाट् , छषः, छाषः, छषकः, छषण, छषमाणः--हिंसकः । छषणम् , छषणीयम्--हिंसनम् ।
६८५. माहृ माने--(वर्तने )3 । माहति, माहते--(वर्तयति)। माहः, माहकः, माहमानः, माहन्--चत्वारः ( वर्तके ) । माहनम् , माहनीयम्( वर्तनम् )।
६८६. गुहू संवरणे ----आच्छादने । गुहो दीर्घः--गुहधातोरादेर्दीर्घो भवति4 । गूहति, गूहते--आच्छादयति । गुहा--कन्दरा ( गुफा इति भाषायाम् ) । गूहन् , गूहकः, गूहमानः--आच्छादकः । गुह्यम्--रहस्यम् । गुह्यकः --यक्षः । गुहः षण्मुखः । उपगूहनम्--आलिङ्गनम् ।

टिप्पणी


१. 'षट्' इति मूलपाठः ।
२. पाणिनीयमते पदान्ते वर्तमानस्य नस्य णत्वं न भवति (द्र. ८।४।३७)। इह उत्तरसूत्रवृत्तौ ( छषण् ) च णत्वं निर्दिष्यते । तत्कथमिति विचारणीयम् ।
३. मानं वर्तनमिति क्षीरस्वामी ( १।६२३ )।
४. पाणिनीयमतानुसारमजादौ प्रत्यये यत्र 'गोह' इति रूपं प्राप्नोति तत्रैव ऊकारादेशो भवति ( अ० ६।४।८९ )। इदमेव च कातन्त्रमतम् ( ३।६।६३ )।

114
६८७. हृञ् हरणे--नाशने (पाप काटने में )। हरति, हरते--पापं नाशयति । हरः--शिवः । हरिः--विष्णुः। हारः--माला । हरिणः--कार्पासः, रागः ( मृगः )। हरिणी--मृगी । विहारिणी--विहारकर्त्री । आहारः--भक्ष्यम् । उपाहारः ( उपहार इति भाषा)। संहारः--नाशः । अध्याहारः--अर्थपूर्त्यर्थकं बाह्यं पदम् , येन वाक्यादेरर्थः परिपूर्णो भवति । उदाहरणम्--दृष्टान्तः । प्रत्याहारः--संकोचः। प्रतिहारः--प्रतिहारी। परिहारः--समाधानम् । नीहारः--अवश्यायः। व्यवहारः--वर्तनम् , युद्धम् । प्रहारः--प्रहरणम् । हर्ता--नाशयिता। हर्त्री--नाशयित्री । हृत् , हृतिः, हृतम् , हर्तव्यम् , हरणम् , हरणीयम् , हर्यम् , हार्यम्--एतेऽष्टौ नाशने।
६८८. भृञ् भरणे--धारणे । भरति, भरते--धारयति । भृ, भृत्--राजा, पर्वतः। भृतिः--वेतनम् । भृतम् , भर्तव्यम् , भरणम् , भरणीयम् , भर्यम्, भार्यम्--षट् धारणे । भरणी--एतन्नाम नक्षत्रम् । भर्ता--शासकः । भार्या--पत्नी । भारम्--(भार, वजन इति भाषायाम् ) । भरम्--तीव्रम् । भारि--(?)। भारिणी--तुला । भृत्यः--भटः।
६८९. अलञ् भूषणपर्याप्तिवारणेषु--आभूषणे, व्याप्तौ, निवारणे । अलति, अलते--परिदधाति । अलन् , अलमानः--परिधारकः । अलम्--पर्याप्तम् । आलः--वटवृक्षः । आळः--गह्वरम् । आळुः--भृत्यः । आळी--दासी। अळिः --भ्रमरः। अळा--तोलनम् । अलकाः--(घुंघराले बाल इति भाषा)। अलका--कुबेरस्य प्रधाना नगरी ( राजघानी)। आळवीरि--आलवीरी (?)। अट्टालः--दुर्गः । आळवम्-- (?)। अलाळम्--मूलबन्धः । निराळम्--निराकारः।
६९०. धृञ् धारणे--सहने । धरति, धरते--सहते । धृत् , धरन् , धरमाणः, धारकः--चत्वारः सोढरि । धरा, धरित्री, धरिणी, धारिणी--चत्वारः पृथिव्याम् । धरः--पर्वतः। गङ्गाधरः--शिवः, मेघः, श्रीफलवृक्षः। धृतिः--सारः। धरणम्--निष्कचतुर्थः । धारणम् , धारणा, धरणीयम् , धर्मम् , धार्यम् , धृतम् , धर्तव्यम्--सप्त सहने ।
६९१. णीञ् प्रापणे--गतौ । नयति, नयते--चलति (प्रापयति )। सेनानीः--सेनानायकः । ग्रामणीः--ग्रामनायकः, ग्राममुख्यः । नयनम्--चक्षुः। नायकः--नेता। नायकी1--नेत्री । नेता--राजा । नेत्री--रानी । नेत्रम्--नयनम् । नयः--नर्म (मुलायम), धर्मः, न्यायः । नायः--मलयाली, श्वा । नायी--शुनी। (मलियालिन--नायर इति प्रसिद्धा), ग्राममुख्या । नीतव्यम् (?, नेतव्यम् )

टिप्पणी


१. एतादृशरूपाण्यन्यत्राप्युलभ्यन्ते । पाणिनीयास्तु 'नायिका' इत्याहुः ।

115
नेयम् , नयनीयम् , नीतम् , नीतिः, नय्यम् , नाय्यम्--सप्त ( पश्वादीनां) नयने (हांकने में)।
६९२. दान अवखण्डने--खण्डकरणे, विभजने । दानादीनां सन् सार्वधातुके--दानादीनां धातूनां सन् आगमो भवति सार्वधातुके परतः1 । द्विः सनि--दानादीनां द्विर्वचनं भवति सनि परतः। दानयति, दानयते--विभजति (चीरता है)। दीदांसति2, दीदांसते--विभजति । दीदांसन् , दीदांसमानः, दीदांसकः--विभजितारः । दीदांसा, दानम् , दाननम् , दाननीयम्--चत्वारो विभजने ।
६९३. शान अवतेजने--धारास्थापने3 (धार रखने में)। शीशांसति, शीशांसते; शानयति, शानयते----तीक्ष्णीकरोति । शीशांसकः, शानन् , शानमानः--त्रयोऽवतेजके । शीशांसा, शानम् , शाननीयम्--तीक्ष्णीकरणे (धार रखने में )।
६९४. डुपचष् पाके--पचति पचते--पाकं करोति । पचन् , पचमानः पाचकः, पक्, पाक्, पचकः, पक्ता--सप्त पक्तरि । पक्वम् , पक्तव्यम्, पचनम्, पचनीयम् , पच्यम् , पाच्यम् , पाकम्--सप्त पाके। पाकः--राक्षसः। पकालम्--मलकुण्डम् ।
६९५. भज श्रीञ् सेवायाम्--सेवने । भजति, भजते--सेवते । भक्तः, भजकः, भाजकः, भजन् , भजमानः--षट् सेवके, भक्ते । भक्तम्--आहारः। भक्तिः--विश्वासः। भजनम्--सेवनम् । भाजनम्--घटम् , पात्रम् । भक्तव्यम् , भज्यम् , भाज्यम् , भजनीयम्--चत्वारः सेवने । श्रयति, श्रयते--सेवते । श्रयन् , श्रयमाणः--सेवकः । श्रीः--लक्ष्मी। श्रयणम् , श्रयणीयम् , श्रयम्, श्रायम्--सेवा । श्रेयस्--मङ्गलम् । निःश्रेयसम्--मुक्तिः।
६९६. रञ्ज रागे--वर्णे ( रक्तवर्णे )। रञ्जति4 रक्तं भवति । रक्ता, रञ्जन् , रञ्जमाणः--रञ्जकः। रक्तिः, रक्तिमा, रागः--रक्तं वर्णम् , प्रेम । रक्तम्--लोहितम् । रजस्--स्पर्शः । रजकः--वस्त्रधावकः (धोबी)। रजकः, रञ्जकः--औषधम् । रागी--आसक्तः । विरक्तः, विरागी, वैरागी--संन्यासी । निरञ्जनः--मायातीतः । रजनी--रात्रिः । रजस्--धूलिः ।

टिप्पणी


१. पाणिनीयास्तु निशानेऽर्थे विशेषेण सनमाहुः । द्र० ३।१।६ ॥
२. अभ्यासस्य दीर्घत्वं कथमिति नोक्तं वृत्तिकृता ।
३. द्र०--क्षुरस्य धारा निशिता दुरत्यया । कठो० ३।१४ ।
४. पाणिनीयास्तु 'रजेश्च' (अ० ६।४।२६) इति अनुनासिकलोपं स्मरन्ति--रजति ।

116
६९७. शप आक्रोशे--कोपे । शपति, शपते--निन्दति । शपन् , शपमानः, शपकः, शापकः, शप्ता--पञ्च निन्दके । शपम् , शापम् , शपनम् , शपनीयम् , शप्तव्यम्, शप्यम् , शाप्यम् , शप्तम् , शप्तिः, शपथः--दशैते निन्दायाम् ।
६९८. त्विष दीप्तौ--प्रकाशे । त्वेषति, त्वेषते--प्रकाशते । त्विषन्1, त्विषमाणः--प्रकाशकः । त्विट्, त्विषिः, त्विषा, त्विषणम्, त्विषणीयम् , त्विष्यम् , त्वैष्यम् , त्विष्टिः, त्विष्टम्--नवैते प्रकाशे।
६९९. यज देवपूजासंगतिकरणदानेषु--देवपूजायाम् , धारणे, करणे, दाने च । यजति, यजते--पूजयति, ददाति, धारयति, करोति । यट् , याट् , याजी, यजन् , यजमानः, यक्ता2, यायजूकः--षट् पूजके । इष्टम् , इष्टिः3, यष्टिः3, यजनम् , याजनम् , यज्ञः, यागः, इष्टव्यम्4 , यज्यम् , याज्यम्--दशैते देवपूजने । यजुस्--यजुर्वेदः।
७००. डुवप बीजतन्तुसंताने--वपने, घर्षणे, तन्तुनिर्माणे च । वपति--क्षेत्रे धान्यमाकिरति ( बोता है)। वपते--योजयति (?)। वपन् , वपमानः, वपकः, वापकः, चत्वारो बीजवापके । वपा--नाभेः श्वेतं मांसम् (चर्बी)। वापिः--कतसोपानको कूपः। वपनम्--बालकर्त्तनम् , क्षौरकर्म। उप्तव्यम,5 उप्तम् , उप्तिः, वपनीयम् , वप्यम् , वाप्यम् , वापम् , वप् , वाप्--नव वपने योजने, तन्तुसन्ताने (बुनने में)।
७०१. वह प्रापणे--धारणे। वहति, वहते--धारयति । वहन् , वहमाणः, वोढा, वहकः, वाहकः--भारवाही । वहिः, वाहः, वहनम् , वहनीयम् , वह्या, वाह्यम् , ऊढम् , ऊढिः, ऊढव्यम्--नव वहने । प्रौढिः--बुद्धिमत्ता । प्रौढः--बुद्धिमान् । प्रौढा--बुद्धिमती । ७०२. वेञ् तन्तुसन्ताने -- तन्तुयोजने (वस्त्रवयने )। वयति, वयते--तन्तुन् योजयति । तन्तुवायः--वस्त्रनिर्माता ( जुलाहा इति भाषायाम् )। वयनम् , वयनीयम् , वीतिः, वीतम् , वयितव्यम् , वय्यम् , वाय्यम्--सप्त तन्तुसंयोगे।

टिप्पणी


१. इत आरभ्योदाहरणेषु गुणाभावश्चिन्त्यः ।
२. यष्टेति पाणिनीयाः।
३. पूर्वपठितः 'इष' घातुरप्यत्र द्रष्टव्यः ( १।२९१ ) तत्रस्था टिप्पणी च ।
४. 'इष्टव्यम्' इजेरेव, न यजेः।
५. उप्तव्यम्--कृतसम्प्रासारणस्य 'उप' धात्वन्तरस्य रूपम् । उभयोः समानार्थकत्वादिहैव निर्दिष्टम् । द्रष्टव्या एतत्पृष्ठस्था तृतीया टिप्पणी।

117
७०३. व्येञ् संवरणे--उपयोगितायाम् । व्ययति, व्ययते--व्ययं करोति, व्यवहरति । व्ययम् , व्ययमानः--व्ययकर्ता, व्यवहर्ता । व्ययम् , व्ययनम् , व्ययनीयम्--उपयोगिता।
७०४. ह्वेञ् स्पर्धायां वाचि--विवादवाक्ये । ह्वयति, ह्वयते--निन्दति । ह्वयन् , ह्वयानः--द्वौ निन्दके । आह्वानम्--शब्दनम् । ह्वा, ह्वायनम् , ह्वायनीयम् , ह्वाय्यम्--चत्वारो विवादशब्दे ।
७८५. वस निवासे--वसति, वसते1 --निवासं करोति । वसन् , वसानः--द्वौ आच्छादके2 । वसनम् , वस्त्रम् , वासस्--त्रयः प्रावारे ( चादर में )। वस्तु--द्रव्यम् । वस्तिः--शरीरैकदेशः । वसतिः--निवासस्थानम् , जैनमन्दिरम् । वासः, आवासः, निवासः--गृहम् । अधिवासः--निवसनम् । वस्तव्यम् , वसनीयम् , वस्यम् , वास्यम् , उष्टम्3 , उष्टिः--षण्निवासे । वासना--दैवाधीना, दुर्वासना । वास्तु--गृहस्वामी। वास्तव्यः--निवासयोग्यं गृहम् ।
७०६. वद् व्यक्तायां वाचि--व्यक्तवाक्ये । वदति, वदते--भाषते । वक्ता4, वदन् , वदान्यः, वादकः, वादी, वावदूकः--षट् वक्तरि। वदनम् , वक्तम्4 -- मुखम् । उक्तिः4, उक्तम्4, वक्तव्यम्4 , वदनीयम्--चत्वारो वाक्ये ( भाषणे)। वादनम् , वाद्यम् , वादित्रम्--गानसाधने ( बाजे में)। प्रतिवादः--प्रतिवदनम् ( प्रत्युत्तरम् ) । परीवादः--हास्योक्तिः । संवादः--सहभाषणम् । अनुवादः--पश्चात् वादः ( भाषान्तरकरणमपि )।
७०७. टुओश्वि गतिवृद्ध्योः--श्वयति, श्वयते--चलति, वर्धते । श्वयन् , श्वयानः--गन्ता । श्वेतः--वर्णविशेषः, शिवभक्तिः । श्वितिः, श्वितम् , श्वयनम् , श्वितव्यम् (?), श्वित् , श्वित्यम्--षट चलने वृद्धौ च ।
॥ अन्विकरणो भ्वादिः समाप्तः ॥

टिप्पणी


१. वस वद श्वि त्रय एते परस्मैपदिन इति पाणिनीयाः । तत्र वदतेरर्थविशेष आत्मनेपदमपि स्मरन्ति (द्र० १।३। ४७--५०)।
२. अयमर्थश्चिन्त्यः, 'निवासकर्ता' इति तूचितः । आच्छादनार्थस्तु 'वस आच्छादने' इत्यादादिकस्य ज्ञेयः। एवमेव 'वसनम्' आद्युदाहरणार्था ज्ञेयाः। यद्वा निवासशब्दस्य उभाम्यां धातुभ्यां प्रयोगसम्भवादुभावर्थौ निर्दिष्टौ ।
३. अयं धातुः सेट् , तेन 'उषितम्' इति पाणिनीयाः ।
४ वदप्रकरणे 'वच' धातो रूपाणि कथमुदाहरति वृत्तिकार इति न ज्ञायते ।