काशकृत्स्न-धातुपाठः/चुरादिगणः (९)

विकिस्रोतः तः
Jump to navigation Jump to search
← क्र्यादिगणः (८) काशकृत्स्न----धातुपाठः
चुरादिगणः (९)
[[लेखकः :|]]
../ →

187
अथ चुरादिगणः
[इन्--विकरणः1]
१. चुर स्तेये--मोषणे ( चौर्ये )। चुरादेरिन् स्वार्थे--चुरप्रभृतिभ्यो धातुभ्यः 'इन् विकरणो1 भवति स्वार्थे । चोरयति--मुष्णाति । चोरः, चौर्यम्--द्वौ चुरायाम्।
[हिंसार्थाः ] सर्वे हिंसार्थाश्चुरादौ परस्मैपदिनो ज्ञेयाः2 ।
२. चिति स्मृत्याम्--चिन्तयति--स्मरति । चिन्तन् , चिन्तकः--स्मर्ता ।
३. यत्रि संकोचने--यन्त्रयति--संकुचति (गोपयति)। यन्त्रकः--संकोचकः ( गोपकः) । यन्त्रः, यन्त्रणम् , यन्त्रणीयम्--संकोचनम् ( गोपनम् )।
४. तत्रि3 दर्शनीये--तन्त्रयति--दर्शयति । तन्त्रकः--दर्शकः। तन्त्रम् , तन्त्रणम् , तन्त्रणीयम्--त्रयो दर्शने।
५. अत्रि जीवने--अन्त्रयति--जीवति । अन्त्रकः--जीवकः। अन्त्रम्--शरीरैकदेशः (आँत इति भाषायाम् ) । अन्त्रणम् , अन्त्रणीयम्--जीवनम् ।
६.कत्रि उपाये--चातुर्ये । कन्त्रयति--चतुरो भवति । कन्त्रकः--चतुरः । कन्त्रणम् , कन्त्रणीयम्--द्वौ चातुर्ये ।
७. जत्रि सूचने--जन्त्रयति--सूचयति । जन्त्रकः सूचकः। जन्त्रम्, जन्त्रगम् , जन्त्रणीयम्--सूचना ।

टिप्पणी


१. अयम् 'इन्' न विकरणः, अपितु स्वार्थिकः प्रत्ययः इति पाणिनीयाः प्राहुः। चुरधातावुदाहृतेन सूत्रेणापि तथैव प्रतीयते, तथापि कर्नाटकटीकानुसारमयं निर्देशः कृतः।
२. कर्नाटकटीकायां 'सर्वे..... ज्ञेयाः, पाठः सूत्ररूपेणोदाहृत्य व्याख्यातः। वस्तुतोऽयं वृत्तिपाठः । अत एवानिर्दिष्टमपि सूत्रमस्माभिरूहित्वा [ ] कोष्ठके निर्दिष्टः । पाणिनीयाः 'हन्त्यर्थाः' (क्षीरतरङ्गिणी १०।१६९) इत्येवं सूत्रं पेठुः । कातन्त्रीया अपि उन्तरत्र 'घट संघाते' इत्यनन्तरं 'हन्त्यर्थाश्च' इति सूत्रं पठन्ति । कर्नाटकवृत्तिकारोऽपि तत्रैव (द्र० सूत्रसंख्या १५७) पुनरिमामेवानुपूर्वीमुद्दधार। एतेनेह पाठोऽप्रासङ्गिक इति स्पष्टं प्रतिभाति । अत एवास्माभिरिह सूत्रसंख्या न निर्दिष्टा।
३. इमं धातुं कातन्त्रीयाः पाणिनीयाश्चेह न पेठुः। अग्रे तत्रि कुटुम्बधारणे' इत्येवं पठन्ति । कन्नडवृत्तिकारोऽपि तत्र पठिष्यति ।


188
८. तित्रि आम्लकरणे--अम्लीभावे । तिन्त्रयति--अम्लीभवति । तिन्त्रकः--अम्लः । तित्रिणी--तिन्तिडीका (इमली इति भाषायाम् )।
९. स्फुट परिहासे1--हास्ये । स्फुटयति2--हसति । स्फोटन्--हसिता । स्फोटा--हसनम् ।
१०. लक्ष दर्शनाङ्कनयोः--दर्शने च। लक्षयति--पश्यति, चिह्नयति । लक्षेर्मीमन्मनाः--लक्षेर्धातोः मी मन् मन इत्येते प्रत्यया भवन्ति । लक्ष्मीः--क्षीरसागरकन्या । लक्ष्मन्--चिह्नम् । लक्ष्मणः--एतन्नामा पुरुषः (राम--भ्राता)। लक्षम्--शतसहस्रम् । लक्षणम्--चिह्नम् । लक्षणीयम्--परिचयनीयम् ( पहचानना चाहिए)। लक्ष्यम्--लक्ष्यम् । लक्षितम्--परिचितम् । लक्षयितव्यम्--परिचयनीयम् । अलक्ष्मीः --दारिद्र्यम् ।
११. भक्ष अदने--भक्षयति--अत्ति । भक्षन् , भक्षकः द्वौ अत्तरि । भक्षितम् , भक्षणम् , भक्षणीयम् , भक्ष्यम्--चत्वारः खाद्ये पदार्थे ।
१२. कुक्ष अवकाशे--कुक्षयति--अवकाशमुत्पादयति (रिक्तीकरोति )। कुक्षिः --उदरम् ।
१३. कुडि अनृतभाषणे--असत्यवदने । कुण्डयति--मिथ्यावदति । कुण्डः--जारजः पुत्रः । कुण्डम्--कूपः, अग्निकुण्डम् , मृत्पात्रम् (कूंडा इति भाषायाम् )। कुण्डा--गुदद्वारम् । कुण्डिका--कमण्डलुः। कुण्डलम्--कर्णाभरणम् । कुण्डली--सर्पः । कुण्डलिनी--जीवाधारशक्तिः ।।
१४. लड उपसेवायाम्--कार्यान्त्ये। लड़यति3 --कार्यं समापयति । लडन् , लडः, लडकः--त्रयः कार्यसमापके। लाडः--नगरम् । लाडुः--यवनः । लाडी--लाडी (?)।
१५. मिद तिल स्नेह स्नेहने--मेदयति--स्निह्यति । मेदिनी--पृथिवी । मेदस--मेधा (?; शारीरो धातुविशेषः ) । मेदुरम्--मृदु । मेदिः--संघर्षणम् ( टकराना )। मिदुः--शनैः। मिद्या--गन्तव्यस्थानम् ('मञ्जिल' इति लोके)। तेलयति--स्निह्यति । तिलः--धान्यम् । तिलकः--चिह्नम् । तैलम्--तिलानां स्नेहः ।

टिप्पणी


१. स्फडि परिहासे इति कातन्त्राः । स्फुटि इति दुर्ग इति क्षीरस्वामी (क्षीरत० १०॥४)। स्फुडि इति पाणिनीयाः। इहापि स्फुटि इति शुद्धः पाठः स्यात् । तथोदाहरणे 'स्फुण्टयति, स्फोण्टन् , स्फोण्टा' इत्येवं पाठो द्रष्टव्यः ।
२. अत्र पूर्वा प्रथमा टिप्पणी द्रष्टव्या।
३. 'लाडयति' इति पाणिनीयाः।


189
तैलिकः--तैलोत्पादकः ( तेली इति भाषायाम् )। स्नेहयति--मेदयति । स्नेहः--तैलम् ।
१६. जल अपवारणे--तृषानाशने । जलयति1--तृषां शमयति । जलम्--पानीयम् । जलकम्--स्नानम् । जालम् आनायः (मत्स्यादीनां निग्राहकः)। जालकारः--मत्स्यहा (मछुआ इति भाषायाम् ) । जालः--वृक्षः। जालिः--अवलम्बनम् । जलूकः--(?)( जौंक इति भाषायां प्रसिद्धः क्षुद्रप्राणी)।
१७. ओलडि उत्क्षेपे--ओलण्डयति -- [ उत्क्षिपति ] । ओलण्डः--उत्क्षेपकः] ।
१८. पीड अवगाहने--बलात्कारे । पीडयति--बलात् पीडां ददाति । पीडन् , पीडकः -- द्वौ पीडादातरि । पीडा, पीडनम् , पीडनीयम्--त्रयो बलात्कारे।
१९. णथ अवस्कन्दने2 --कम्पने (?)। नथादेरिनि दीर्घः--नथ प्रभृतीनां दीर्घो भवति इनि परतः। नाथयति--कम्पते । नाथः--कम्पकः । नथनम् , नथनीयम्--द्वौ कम्पने।
२०. श्रन्थ3 प्रतिहर्ष--श्रमे । श्रन्थयति--श्राम्यति ( थकता है)। श्रन्थः, श्रन्थकः--द्वौ श्रमके ( थकने वाले में ) । श्रन्थनम् , श्रन्थनीयम्--द्वौ श्रमे (थकने में)।
| २१. बध संयमने----निश्चये (?)। बाधयति--निश्चिनोति । बद्धम् , बद्धिः--द्वौ निश्चितीकरणे ।
२२. पृ पूरणे--भरणे । पूरयति--भरति । पूरितः, पूर्णः--द्वौ पूरयितरि । पूरणम् , पूरणीयम्--द्वौ--भरणे ( पूरणे )।
२३. ऊर्ज बलप्राणनयोः--बले चैतन्ये च । ऊर्जयति--बलयति (बलयुक्तं करोति )। ऊर्जितः, अर्जितवान् , उर्जस्वी--त्रयो बलवति । ऊर्क् , ऊर्जितम् , ऊर्जन् , ऊर्जनम् , ऊर्जनीयम् , ऊर्जस्--षट् शक्तौ ।
२४. चुट छुट कुट कुठ छेदने--विदारणे । चोटयति--विदारयति । चोटन् , चोटकः--विदारकः। चोटनम् , चोटनीयम्--विदारणम् विभजनम् । पञ्चोटी--प्रावारः ('ओढनी' इति भाषायाम् )। चोटिका--महती कोथली । चोटुः--एका वितस्ता (?)। चोटिः--सन्धानम् (?)। छोटयति विभजति ।

टिप्पणी


१. 'जालयति' इति पाणिनीयाः।
२. 'नट अवस्यन्दने' इति कातन्त्रीया अन्ये च वैयाकरणाः।
३. 'श्रथ' इति कातन्त्रीया अन्ये च ।


190
छोटन् , छोटकः--दौ विभक्तरि । छोटनम् , छोटनीयम्--विभजनम् । कोटयति--मध्यतः पोलयति ( 'खोखला करता है' इति भाषायाम् )। कोटन् , कोटकः--सारहीनः । कोटनम् , कोटनीयम्--सारवर्जितम् । कोटरम्--पक्षिनीडम् । कोटीरम्--(?)। कोटिः--शतलक्षम् । कोटा--दुर्गा । कुटी--कुटीरः । कुटिला--गङ्गा। कुटिलः--(घुंघराले बाल )। कोठयति--विकर्तयति । कोठन् , कोठकः द्वौ विकर्तके । कोठनम् , कोठनीयम्--द्वौ विकर्तने । कुठारः--परशुः ।
२५. पुट्ट चुट्ट अल्पीभावे--अल्पतायाम् । पुट्टयति--अल्पं भवति लघयति । पुट्टः--लघुः । पुट्टी--लघ्वी। पुट्टनम्--('पुड़िया' इति भाषायाम्) | पुट्टा--उदरम् । चुट्टयति--वेष्टयति । चुट्टकः--वेष्टकः । चुट्टः--समीपगमनम्। चुट्टः--बन्धुः । चुट्टा--नीचैरवतरणम् ।
२६. मुट मुट्ट संचूर्णने--मोटयति--चूर्णयति । मोटः--चूर्णयिता । मोटी--चूर्णयित्री। मोटुः--अङ्गहीनः। मोटनम् , मोटनीयम्--चूर्णनम् । मुट्टयति--स्पृशति । मुट्टः--स्पर्शकः । मुट्टुः--सूतिका । मुट्टनम्--स्पर्शनम् ।
२७. स्मिट्ट1 अट्ट षुट्ट अनादरे--स्मेटयति1--अनादरयति । स्मेटन्1, स्मेटकः1, स्मेटः1 --त्रयोऽनादरके। स्मेटनम् , स्मेटनीयम्--द्वौ अनादरे । अट्टयति--अस्वादु भवति । अट्टम्--अस्वादु--भवनम् । सुट्टयति--रोचते । सुट्टम्--शाकम् ।
२८. घट्ट, छुट्ट चलने--कम्पने। घट्टयति--कम्पते। घट्टः--मेघः। घट्टनम्, घट्टनीयम्--कूपोपरि परितो निर्मितं स्थलम् । छुट्टयति--शुष्यति । छट्टः,2 छट्टा,2 छट्टिः, छट्टिः2--कूपं परितो भित्तिः ।
२९. छद् संवरणे--आच्छादने । छादयति--संवृणोति । छदन् , छादकः--द्वौ संवारके । छदः--लघुः (?, आवरकः)। छदन्--कपटम् । छत्रकम्--राज्ञः श्वेतं छत्रम् । छात्रः--शिष्यः । आच्छादनम् , आच्छादनीयम्--द्वौ संवरणे । छत्रम्--क्षेत्रम् (?), वर्षातपनिवारकम् । छत्रिका--शाकविशेषः (अहिछत्रिका ?)।
३०. शठ श्वठ संस्कारगत्योः--अनृतभाषणे गतौ च । शाठयति--वचनं विघातयति । शठन् , शठकः--वचनविघातकः। शठा, शठनम् , शठनीयम् ,

टिप्पणी


१. वृत्तौ 'स्मेटयति स्मेटन् स्मेटकः' इत्यादीनामुदाहरणानां दर्शनात् 'स्मिट' इत्येवं धातुः स्यादित्यनुमीयते । परन्तु कातन्त्रे 'स्मिट्ट' इत्येव दर्शनात् वृत्तिपाठो भ्रष्टः स्यादित्यनुमीयते । कोऽत्र शुद्धः पाठ इति न शक्यते वक्तुम् ।।
२. इह 'छुट्टः, छुट्टा, छुट्टिः, छुट्टिः' इति शुद्धाः पाठा ज्ञेयाः ।


191
शाठ्यम्--चत्वारोऽनृते । श्वाठयति--अपराध्यति ( गलती करता है)। श्वठन् , श्वठकः--द्वावपराधके । श्वठनम् , श्वठनीयम् , श्वाठ्यम् , श्वठा--चत्वारोऽपराधने ।
३१. खट्ट संवरणे--आवेष्टने ( लपेटने में )। खट्टयति--संवृणोति । खट्टः, खट्टन् , खट्टकः--त्रय आवेष्टके । खट्टनम् , खट्टनीयम्--आवेष्टनम् ।
३२. षट्ट तुजि पिजि पिसि हिंसाबलदान1 निकेतनेषु--मारणे, बले, दाने, निवासे च । सट्टयति--विदारयति । सटा (?, सट्टा )--विदीर्णो भागः । तुञ्जयति--बलवान् भवति । तुञ्जा--शक्तिः । पिञ्जयति--ददाति । पिञ्जारः--(?)। पिञ्जारी--दण्डिकोर्ध्वाच्छादनम् । पिंसयति--निवसति । पिंसा--छाया ।
३३. शुल्क वल्क भाषणे--वचने । शुल्कयति--वदति । शौल्किकः--शुल्कशालायाः करस्य संग्राहकः (चुंगी उगाहने वाला)। शुल्कम्--शुल्कशालाकरः, मांसम् । वल्कयति--परिदधाति । वल्कलम्--वृक्षत्वक् ।
३४. श्वर्त छपि पथि गतौ--श्वर्तयति--गच्छति । श्वर्तन् , श्वर्तकः, श्वर्तः--त्रयो गन्तरि । श्वर्तनम् , श्वर्तनीयम्--द्वौ गमने। छम्पयति--कूर्दते । छम्पन् , छम्पः, छम्पकः--त्रयः कूर्दके । छम्पनम् , छम्पनीयम्--कूर्दनम् । छम्पा--सम्पाफलम् ,2 वृक्षः । पन्थयति--गच्छति । पान्थः, पथिकः3, पन्थन्--त्रयो गन्तरि ( पथिके ) । पन्थनम् , पन्थनीयम्--द्वौ गमने । पथिन्3--मार्गः ।
३५. क्षपि पपि कपि चपि सपि क्षान्तौ4 --सहने। क्षम्पयति--सहते । शम्पन् , क्षम्पः, क्षम्पक:--त्रयः सोढरि । क्षपनम् , क्षपनीयम्--द्वौ सहने । क्षम्पा, क्षपा5 --रात्रिः । पम्पयति--सहते। पम्पः, पम्पकः, पम्पन्--त्रयः सहनशीले । पम्पा--विरूपाक्षक्षेत्रम् । कम्पयति--भयेन कम्पते । कम्पा--क्षेत्रावरणम् (मेंड़ इति. भाषायाम्)। कम्पिलम्--रामेश्वरक्षेत्रम् । कम्पम्--महापक्षम् (बड़ा पंख )। चम्पयति--रक्षति । चम्पा--रामेश्वरक्षेत्रम् । चम्पकः--वृक्षविशेषः ('चम्पा' इत्येव लोके प्रसिद्धः) । सम्पयति--फलति । सम्पा--वृक्षः ।

टिप्पणी


१. 'हिंसादाननिकेतनेषु' इति कातन्त्राः। क्षीरस्वामी तु हिंसाबलादाननिकेतनेषु (क्षीरत १०।२७) इति पपाठ। तत्र 'आदान' इति छेदो ज्ञेयः। कर्नाटकवृत्तिकारस्त्विह यथाक्रममर्थनिर्देशमाह । तत्र प्रमाणं मृग्यम् ।
२. द्र० उत्तरसूत्रवृत्तौ 'सम्पा' पदम् ।
३. 'पथिकः, पथिन्' इत्यनयोरनुनासिकलोपः कथमिति नोक्तं वृत्तिकृता। वस्तुत एतौ पथधातोः प्रयोगौ, न पन्थयतेः। पाणिनीयास्तु 'पन्थानं गच्छति पथिकः' इति तद्धितान्तमाहुः ।
४.'कान्तौ' इति कातन्त्रपाठः, स च प्रामादिकः प्रतीयते ।
५. अनुनासिकलोपः कथमिति नोक्तम् ।


192
३६. पिछि पुछ पछ पिछ कुट्टने--विभागे । पिञ्छयति--रागयुक्तो भवति ( रंगीन होता है )। पिञ्छम्--मयूरपिच्छम् । पुच्छयति--विभजति । पुच्छम्--'पूंछ' इति प्रसिद्धम् । पुच्छी--योनिः । पच्छयति--रजति । पच्छा--हरितः । पच्छी--(?)। पिच्छयति--तञ्चति ( जमता है)। पिच्छा--तञ्चनम् । पिच्छिलम्--पङ्कवत्स्थानम् ।
३७. तट तड आघाते--छिद्रकरणे । ताटयति--छिद्रयति । तटाकः--तडागः ('तालाब' इति प्रसिद्धः)। तटिनी--तटयुक्ता । तटित्--विद्युत् । तटित्वान्--मेघः । तटम्--तीरम् । तटतटा--जलधारा । ताटकम्--कर्णाभरणम् । ताटकः--तणडुकः (?)। ताटकी--एतन्नाम्नी [ राक्षसी] । ताटिः, ताटः--द्वौ तालवृक्षे । ताडयति--घर्षयति । तडः, तडिः--पङ्कजं कन्दम् (?)। तडादः--नद्या बन्धः । तडी--नदी । तडः--अलसः। तडा--बन्धनम् । ताडः, ताडकः--कशा (चाबुक )। ताडुः--रज्जुः । ताडा--तालवृक्षः।
३८. खड खडि कड कडि भेदे--पृथक्करणे । खाडयति--पृथग्भवति । खडन् , खडकः---- पृथग्भविता । खड्गम्--असिः । खाडा, खाडी--युद्धम् । खडितम् , खडनम् , खडनीयम् , खडम्, खाडम्--पञ्च पृथग्भवने । खण्डयति--त्रोटयति । खण्डितम् , खण्डम, खण्डनीयम् , खण्डिः--चत्वारस्त्रोटने । खण्डेयम्--असिः । काडयति--भिनत्ति । कडन्, कडकः द्वौ भेदके । कडम्--उदारः (?)। कडिः--अर्धम् । काडः--अरण्यवासी । काडी--अरण्यवासिनी । काडुः--आरण्यकः आरण्यः । कण्डयति--पवते ( छानता है)। कण्डम्--मांसम् । कण्डिः--रन्ध्रः। काण्डः--परिच्छेदः, तीरम् , जलम् । कण्ड--अरे इत्यर्थे निपातः। कडः (?)आर्तनादः।
३९. णष्क धष्क1 पशिः पश नाशे--नष्कयति--नश्यति । नष्कन् , नष्ककः--नष्टा । नष्कम्, नष्कणम् , नष्कणीयम्--त्रयो नाशने । धष्कयति--भर्त्सयति । धष्कन् , धष्ककः--भर्त्सकः । धष्कम् , धष्कणम्, धष्कणीयम्--त्रयो भर्त्सने । पंशयति--त्रोटयति । पंशन् , पंशकः--त्रोटकः । पंशम् , पंशनम् , पंशनीयम्--त्रयः त्रोटने। पांशुः--धूलिः । पांशुला--वेश्या । पांशा--(?)। पांशलः--विकर्तनसाधनम् । पाशयति--नानाप्रकारकेषु देहेषु कष्टं भुङ्क्ते । पशुः--जीवः । पाशः--रज्जुः, इन्द्रियम् । पशिः--आमम् ( कच्चा )। पाशी--वरुणः । पशम्--हंसः।

टिप्पणी


१.'नक्क धक्क' इति कातन्त्रीयाः। ‘णक्क धक्क' इति पाणिनीयाः । काशकृत्स्नपाठेऽपपाठः प्रतीयते, तथैव वृत्तावपि ।


193
४०. चष्क चुष्क1 व्यथने--चष्कयति--व्यथयति । चष्कम् , चष्ककः--व्यथकः । चष्का--भागः । चष्कुलिः--भक्ष्यविशेषः ( 'पूरी' इति भाषायाम् )। चष्कुः--(?)। चुष्कयति--निगूढं पश्यति ( झांकता है)। चुष्कन् , चुष्ककः--निगूढं पश्यकः2 ( झांकनेवाला) । चुष्का--बिन्दुः । चुष्कम्--बिन्दुः । चुष्किः--बिन्दुः।
४१. पुस्त आदरानादरयोः--पुस्तयति--हितं भवति । पुस्तम् , पुस्तकम्--द्वौ ग्रन्थे । पुस्तिः--ग्रहणम् ।
४२. मस्तु धारणे--सहने । मस्तयति--सहते । मस्तम् , मस्तकम्--द्वौ शिरसि । मस्तुः--मदः । मास्ती--मदवती ।
४३. मुस्त गन्धे--मुस्तयति--गन्धयति । मुस्ता--वृक्षविशेषः ।
४४. बिस्त जलोत्तरणे--जलप्रक्षेपणे । बिस्तयति--जलं प्रक्षिपति । बिस्तः--जलप्रक्षेपकः।
४५. कस्त आमोदने----गन्धने, अल्पीभावे3 । कस्तयति--अल्पीभवति । कस्तूरी--एतन्नामकं गन्धद्रव्यम् ।
४६. अस्त नाशने--अस्तयति--नाशयति । अस्तम्--निकृष्टम् ।
४७. हस्त आदाने--दाने ग्रहणे च । हस्तयति--ददाति आदत्ते च । हस्तः--करः। हस्ती--करी।
४८. शिस्त मर्यादायाम्--शिस्तयति--नियमितो भवति । शिस्तुः--नियमः।
४९. रस्त सामग्रीवृद्धौ--द्रव्यसम्पदायाम् । रस्तयति--द्रव्यं संगृह्णाति । रस्तुः4--द्रव्यसम्पत्तिः।
५०. दस्त विकारे--दस्तयति--विकारो जायते । दस्तुः5--विकारः ।
५१. क्षल शौचे--शुद्धौ । क्षालयति--शोधयति । क्षालकः--शोधकः । क्षालनम्--शोधनम्।

टिप्पणी

{{{1}}}

194
५२. तल प्रतिष्ठायाम--वपने । तालयति--वपति ( सस्यम्)। अतलः, वितलः, सुतलः, महातलः, रसातलः, तलातलः, पातालः--सप्ताधोलोकाः । तळम्--अधोभागः । ताळम्--वाद्योपकरणम् , तालवृक्षः। ताला--पुष्पविशेषः । ताली, तालीयम्--द्वौ तालफले । ५३. घुषिर् विशब्दे--घोषयति--विशेषेण ( उच्चैः ) शब्दयति । घोषन् , घोषकः--विशब्दयिता । घुष्टिः, घोषः, घोषणम् , घोषणीयम्--चत्वार उच्चैःशब्दने, घोषणायाम् ।
५४. तुल उन्माने--तोलयति----उन्मानं करोति । तुला--उन्मानसाधनी ( तराजू इति प्रसिद्धा), उड्डयनशीलः कश्चित् क्रिमिः । तूलः--कार्पासः, आवेशः1। तोळः--वृकः । तोलुः--स्कन्धादवरो हस्तभागः, बाहुः। तुल्यम् , तुलनम् , तुलनीयम्--त्रयः तोलने ।
५५. दूल2 उत्क्षेपे--दोलयति--उत्क्षिपति । दोलन् , दोलकः--द्वावुत्क्षेपके । दोलनम् , दोलनीयम्--द्वा उत्क्षेपणे । दोला--'झूला' इति भाषायाम् । आन्दोलम्--शिविका (डोली)। ५६. पृथु3 प्रक्षेपणे--पर्थयति--प्रकटयति । पार्थः--अर्जुनः, राजा। पार्थिवः--राजा । पृथुः--वैन्यो राजा । पृथुकालः--हिमालयात् पौर्वकालिकं यवनद्वीपम् । पृथ्वी, पृथिवी--द्वौ भूम्याम् । पृथक्--विभागः । पर्थनम् , पर्थनीयम्--द्वौ प्राकट्ये।
५७. सम्ब बुल संबन्धे4 --निपातने (?) ( उड़ेलने में )। सम्बयति--निपातयति (उड़ेलता है)। सम्बः, सम्बन् , सम्बकः--त्रयो निपातके । सम्बनम् , संबनीयम्--द्वौ निपातने । बोळयति--मुण्डयति । बोळः--मुण्डः । बोळुः--मुण्डनम् । बोळी--विधवा।
५८. षूप समुच्छ्राये------उद्धारे । सूपयति--उद्धरति उद्गृह्णाति । सूपकः--उद्ग्राहकः । सूपम्--पाकशास्त्रम् , दाल इत्येवं प्रसिद्धम्।
५९. मूल प्रतिरोहणे--मूलोत्पत्तौ ( जड़ निकलने में ) । मूलयति--प्रतिरोहति । मूलम्--'जड़' इति प्रसिद्धम् । मूलकम्--मूलीनाम शाकम् । मूली--

टिप्पणी


१. आवेशार्थे हिन्दीभाषायामपि प्रयुज्यते--'छोटी सी बात को तूल दे दिया।
२. 'दुल' इति कातन्त्रा अन्ये च ।
३. 'प्रथ' इति कातन्त्रीयाः, पर्थ इति क्षीरस्वामी (क्षीरत० १०।१९ )।
४. शम्ब संबन्धे, षम्ब च, कुलनिमज्जने इति कातन्त्रीयाः ।


195
एतन्नाम्नैव प्रसिद्धं द्रव्यम् । मूळः--कर्णहीनः । मूळी--कर्णहीना स्त्री। मूळुः--कर्णहीनता । मूळा--कर्णहीना । मोळः--मार्जारः । उत्पारमूळा--(?)।
६०. क्षजि कृच्छ्रजीवने--सकष्टे प्राणधारणे । क्षञ्जयति--दुःखेन जीवति । क्षञ्जः, क्षञ्जकः द्वौ दुःखिनि । क्षञ्जनम् , क्षञ्जनीयम्--द्वौ सकष्टे जीवने ।
६१. सान्त्व सामप्रयोगे--शमने । सान्त्वयति--शाम्यति । सान्त्वन् , सान्त्वकः -- द्वौ शान्तरि । सान्त्वनम् , सान्त्वनीयम्--द्वौ शमने ।
६२. मान पूजायाम्--श्रेष्ठतायाम् । मानयति--श्रेष्ठो ज्येष्ठो वा भवति । मानी, मानकः, मान्यः--त्रयो ज्येष्ठे श्रेष्ठे । माननम् , माननीयम्--द्वौ ज्येष्ठतायाम् । मानिनी--पतिव्रता।
६३. चुद संचोदने--प्रेरणे । चोदयति--प्रेरयति । चोदन्--चोदकः -- द्वौ प्रेरके । चोदनम् , चोदनीयम्--द्वौ प्रेरणायाम् ।
६४. कल पिल डीप विल क्षेपे--गत्याम् । कलयति--गच्छति । कालः--यमः, काळः। काली--कलस्य पर्वतस्य पुत्री । कलिः--तिष्ययुगः, पापम् , ज्ञानम्1 । कलकलः--कलकलध्वनिः । कलकलम्2--मिश्रणम् । कलिका, उत्कलिका--उदाहरण--गद्य--भेदः । कालम् , कालिमम्--कृष्णवर्णम् । कालकालः--महाकालः शिवः । कलम् , कलनम् , कलनीयम्--गतिः । पेल[य]ति--शरणं गृह्णाति आप्नोति वा । पेलन् , पेलकः -- द्वौ शरणग्रहीतरि । पेलनम् , पेलनीयम्--द्वौ शरणग्रहणे । डीपयति--कूर्दते । डीपन् , डीपकः द्वौ कूर्दितरि । डीपनम् , डीपनीयम्--द्वौ कूर्दने । वेलयति--त्वरयति । वेलन् , वेलकः -- द्वौ त्वरितरि । वेला, वेलनम् , वेलनीयम्--त्रयस्त्वरणे।
६५. कुडि जसि पल रक्षणे--पालने । कुण्डयति--रक्षति । कुण्डम्-- रक्षकम् । जंसयति--पालयति । जंसः--पालकः । पालयति--रक्षति । पालकः--रक्षकः । पालः, पालनम् , पालनीयम्--त्रयः पालने ।
६६. श्लिष श्लेषणे--श्लिषयति (?, श्लेषयति )--मिलति3 । श्लेषकः--मेलकः । श्लिष्टम् , शिलष्टिः, श्लेषः, श्लेषणम् , श्लेषणीयम्--पञ्च मेलने ।

टिप्पणी


१. अत्र 'अज्ञानम्' इति शुद्धः पाठः स्यात् ।
२. अत्र संभवतः 'कललम्' इति शुद्धः पाठः स्यात् । द्र०--एकरात्रोषितं कललं भवति (निरुक्त अ० १४।६)।
३. अत्र सर्वत्र संपीडनार्थः ( दबाना ) कर्नाटकवृत्तौ निर्दिष्टः ।


196
६७. लूष ब्रूष बर्ह हिंसायाम्--मारणे । लूषयति--मारयति । लूषकः--घातकः । लूषणम् , लूषणीयम् । द्वौ घातने । ब्रूषयति--ताडयति । ब्रूषकः--ताडकः । ब्रूषणम् , ब्रूषणीयम्--द्वौ ताडनकर्मणि । बर्हयति--लुञ्चयति ( नोचता है)। बर्हिः--मयूरः । बर्हम्--मयूरपक्षम् ।
६८. शुक्ल सर्जने--त्यागे । शुक्लयति--त्यजति । शुक्लः--रजतम् । शुक्लम्--वीर्यम् ।
६९. ज्ञप ज्ञेये--ज्ञाने । ज्ञापयति1--जानाति । ज्ञप्तः--ज्ञाता। ज्ञपनम् , ज्ञप्तिः, ज्ञापकम्--त्रयः स्मारके ।
७०. ज्ञीस विवेके–ज्ञीसयति--विवेकी भवति । ज्ञीसकः--विवेकी । ज्ञीसनम्--विवेकः।
७१. यम रम परिवेष्टने2--आवरणे । यमयति--आवृणोति । यमी--यतिः। यमळम्--युग्मम् । रमयति--आत्मानमावेष्टयति । रामः--एतन्नामा पुरुषः।
७२. चप कल्कने--चूर्णने । चापयति--चूर्णयति । चपलः--चञ्चलः । चपला--विद्युत् । चापम्--धनुः ।।
७३. नाय हेतौ--कारणे । नाययति--हेतुर्भवति । नायः, नायकः--हेतुः, कर्ता । नायनम् , नायनीयम्--कारणम् ।
७४. व्यय क्षये--नाशे । व्यययति--व्ययं करोति । व्ययः--द्रव्योपयोगः ।
७५. स्फुट बुधि हिंसायाम् । स्फोटयति--हिंसयति । स्फोटम्--महारोगः । बुन्धयति--दुःखयति । बुन्धम्--दुःखम् ।
७६. पुण पिडि संघाते--सहभावे । पूणयति--साहाय्यं करोति । पुणम्3 -- तीरम् । पिण्डयति--संघातयति । पिण्डम्--सङ्घातम् ।
७७. पुंस अभिमर्दने--अभिभवे । पुंसयति--मर्दयति । पुंसः, पुंसकः--द्वौ पुरुषे । नपुंसम् , नपुंसकम्--द्वौ षण्ढे नपुंसके।
७८. टकि बन्धने--कीलने । टङ्कयति--कीलयति । टङ्कः--कीलम् , सुवर्णमुद्रा, रजतमुद्रा ।

टिप्पणी

{{{1}}}

197
७९. धूश, धूस्र कान्तीकरणे--प्रकाशे । धूशयति--प्रकाशयति । धूशः--प्रकाशकः । धूशनम् , धूशनीयम्--द्वौ प्रकाशे। धूसयति--समीपं भवति । धूलिधूसरः--स्वशरीरे धूलि प्रक्षेपकः1 । धूसनम् , धूसनीयम्--धूलिप्रक्षेपणे ।
८०. टीकृ बन्धने--प्रचारे ( ? ) टीकयति--प्रचारयति (?)। टीककः--प्रकारकः (?) टीका--प्रचारः (?)।।
८१. चुण2 संकोचे--पूरणे। चूणयति--पूरयति । चुणकः--पूरकः। चुणनम्, चुणनीयम्--समापने ।
८२. पूज पूजायाम्--अर्हणे । पूजयति--अर्हयति । पूजकः, पूजारी, पूजाकारः--त्रयः पूजके ।
८३. अर्क ईड स्तुतौ--प्रशंसने । अर्कयति--प्रशंसति । अर्कः--सूर्यः, मुनिः, वृक्षविशेषः । ईडयति--प्रशंसति । ईडकः, ईडनम् , ईडनीयम्--त्रयः प्रशंसायाम् ।
८४. शुठ आलस्ये--शोठयति--अलसो भवति । शुठः, शोठकः, शोठन्--अलसः । शोठनम् , शोठनीयम्--आलस्ये ।
८५. शुठि शोषे--शुष्कीभावे । शुण्ठयति--शोषयति । शुण्ठः--मूर्खः । शुण्ठनम् , शुण्ठनीयम्--द्वौ निरर्थकवचने । शुण्ठी--'सोंठ' नाम्ना प्रसिद्धं द्रव्यम् ।
८६. जुड व्यभिचारे--जोडयति--व्यभिचरति । जोडः--व्यभिचारी । जोडा--व्यभिचारिणी । जोडुः--साहाय्यम् । जोडी, जोडनम्--उपायः।
८७. जूल रक्षणे--जोलयति--रक्षति । जोलः--'मक्का' नाम्ना प्रसिद्धं धान्यम् ।
८८. चूर्ण प्रेरणे3--चूर्णयति--प्रेरयति । चूर्णितः--प्रेरितः । चूर्णम्--'चूना' इति प्रसिद्धम् ।
८९. गर्ज कलकलध्वनौ--गर्जति--कलकलं ध्वनति । गर्जन् , गर्जकः, गर्जितः--त्रयः शब्दयितरि । गर्जनम् , गर्जनीयम्--द्वौ शब्दने ।

टिप्पणी


१. धूलिधूसरः--धूलिना लिप्त इत्यर्थः ।
२. 'चूण' इति कातन्त्रीयाः। वृत्तिकारोऽपि चूणयति इति दीर्घत्वमुदाहरति, परन्तु 'चुणकः चुणनम् चुणनीयम्' इत्यत्र ह्रस्वत्वमेव निदर्शयति । 'चुण' इति पाठे गुणः कथं न, इत्यपि नोक्तम् ।
३. कातन्त्रे 'जुड चूर्ग प्रेरणे' इति पाठः । काशकृत्स्ने पठितः 'जुड व्यभिचारे' इति तत्र न पठ्यते ।


198
९०, मार्ज शुद्धौ--मार्जयति--शोधयति । मार्जन् , मार्जकः--शोधकः । सम्मार्जनम्--लेपनम् । सम्मार्जनी--लेपनकर्त्री ( बुहारी--झाड़ू इति नाम्ना प्रसिद्धमपि )।
९१. पचि विस्तारे----पञ्चयति--विस्तारयति । पञ्चन्--संख्या । पञ्ची--(?)। पञ्चमः--अन्त्यवर्णः1 । विपञ्ची--वीणा, गृहबहिर्वेदिः । पञ्चास्यः--शिवः, सिंहः । पञ्चकम्--अश्वकण्ठम् । पञ्चनम् , पञ्चनीयम्--विस्तारः।
९२. रिचि विस्तारे2--रिञ्चयति--विस्तारयति । विरञ्चः--ब्रह्मा ।
९३. तिज निशातने----प्रभावे । तेजयति--प्रभावयति । तेजस्वी--प्रभावजनकः । तेजस्--प्रभावः।
९४. कॄत संशब्दे--वर्णने । कीर्तयति--वर्णयति । कीर्तन् , कीर्तकः = द्वौ वर्णके । कीर्तनम् , कीर्तनीयम् , कीर्तिः--त्रयो वर्णने ।
९५. कुबि छादने--कुम्बयति--आच्छादयति ( ओढ़ता है )। कुम्बन् , कुम्बकः--द्वावाच्छादके । कुम्बनम् , कुम्बनीयम्--द्वावाच्छादने ।
९६. वृधु वर्धने3----वर्धयति--एधते (? )। वर्धकिः--तक्षकः। वर्धनम्--एधनम् (?)।
९७. लुबि तुबि अर्दने--प्रापणे (?)। लुम्बयति--प्राप्नोति । लुम्बन् , लुम्बकः -- द्वौ प्रापके । लुम्बनम् , लुम्बनीयम्--द्वौ--प्रापणे । तुम्बयति--कथयति । तुम्बरः--गन्धर्वः। तुम्बा--द्रोणः (?)। तुम्बिका--शाकविशेषः ( गोल लौकी इति भाषायाम् )। तुम्बुः--तटाकफलवृत्तम् (?) । तुम्बिः--भ्रमरः।
९८. ह्लप व्यक्तायां वाचि--शोभने वाक्ये । ह्लापयति--शोभनं वदति । ह्लपन् , ह्लपकः--साधु वक्ता । ह्लपनम् ह्लपनीयम्--साधु भाषणे ।
९९. म्लेच्छ चुटि छेदने--छिद्रकरणे (?)। म्लेच्छयति4 --छिद्रयति ।

टिप्पणी


१. तुलनीयम्--चत्वारो वर्णाः, निषादः पञ्चमः । निरुक्त ३ । ८ ॥
२. पूर्वो धातुरपि विस्तारे पठ्यते। इहाऽपि स एवार्थः । उभौ सह कथं नैव पठितौ ? यद्वा 'रिचि च' इत्येव कथं नोक्तम् ? कातन्त्रीया इमं धातुं न पठन्ति । तस्मादपीहाऽर्थनिर्देशे सन्देह एव ।
३. 'वर्ध छेदनपूरणयोः' । 'प्राङ्नाभिवर्धनात् पुंसः' ( मनु २।२९ ) इति मनुवचने छेदनार्थं एव दृश्यते । वर्धकिप्रयोगेऽपि स एवार्थोऽभिप्रेतः । अतः काशकृत्स्नपाठे लेखकप्रमादात् पाठो भ्रष्टः स्यात्, यद्वा वर्धनशब्दस्य छेदन एवात्रार्थो ग्रहीतव्यः ।
४. कातन्त्रपाठे 'म्लेच्छ च' 'चुडि छेदने' इति पठ्यते। चाद् 'व्यक्तायां वाचि' इत्यनुकृष्यते। म्लेच्छोऽव्यक्तवाग् इति सार्वलौकिकोऽर्थः । तस्मात् कातन्त्रपाठोऽपि दूषित एव ।


199
म्लेच्छः--यवनः । म्लेच्छनम्, म्लेच्छनीयम्--द्वौ छिद्रकर्तरि । चुण्टयति--विदारयति, रिङ्गति । चुण्टः--रिङ्गकः। चुण्टनम् , चुण्टनीयम्--निशामनम् ( तीक्ष्णीकरणम् = धार लगाना)।
१००. म्लक्ष म्रक्ष क्षरणस्निग्धार्थे--नाशने । म्लक्षयति--नाशयति1 । म्लक्षः--नाशकः । म्लक्षणम्--नाशनम् । म्रक्षयति--नाशयति । म्रक्षः--नाशकः । म्रक्षणम्--नाशकम् ।
१०१. इल प्रेरणे--एलयति--प्रेरयति । एलापत्रः--चित्रवर्णः सर्पः । एलाकः --सर्पविशेषः। इला--भूमिः ।
१०२. लुण्ट स्तेये--लुण्टयति--चोरयति । लुण्टः, लुण्टन् , लुण्टकः, लुण्टाकः चत्वारश्चोरे । लुण्टनम् , लुण्टनीयम्--दौ चोरणे ।
१०३. छर्द वमने----छर्दयति--वमति । छर्दन् , छर्दकः द्वौ वमके । छर्दिः, छर्दनम् , छर्दनीयम्--त्रयो वमने।
१०४. शूर्प माने--शूर्पयति--मापयति2 । शूर्पकः--मापकः। शूर्पम्( धान्यादिनिष्पावसाधनम् ) । शूर्पणखी----एतन्नाम्नी राक्षसी । ___
१०५. गुडि वेष्टने--गुण्डयति--वेष्टयति । अमरगुण्डम्--देवानां परिभ्रमणम् । चन्द्रगुण्डम्--चन्द्रमसः परिभ्रमणम् । गुण्डी--गर्तः । गुण्डुः--शिलाशिखरम् । गुण्डारम्--(?)।
१०६. बल भृतौ--रक्षणे । बालयति--रक्षति । बाला--कन्या । बालकः--कुमारः । बालकी3--कन्या । बलम्--बलम् , सैन्यम् , वीर्यम् ।
१०७. गर्ध अभिकाङ्क्षायाम्--गर्धयति--गृध्यति अभिकांक्षति । गर्धः--गर्धकः--अभिलाषुकः । गर्धनम्--अभिकाङ्क्षा लोभः।
१८८. पूर्व निकेतने-- गृहे । पूर्वयति--निकेतयति । पूर्वः--निकेतकः ।

टिप्पणी


१. कन्नडवृत्तेः हिन्दी--अनुवादकर्त्रा 'म्लक्षः' इत्यस्य 'मिटानेवाला ( रबर )' इत्यनुवादः प्रदर्शितः । यद्यत्र लिखितपाठस्य नाशनमेवाभिप्रेतं स्यात् तर्हि प्राचीनकाले अपपाठम्रक्षणाय प्रयुज्यमानः पीतगोदन्ती द्रव्यो (हड़ताल ) ग्राह्यः । अयमेव लिखितपाठम्रक्षणाय प्रयुज्यमानो गोदन्तीद्रव्यवाचको 'हड़ताल' शब्दो लक्षणया क्रियमाणकार्यावरोधनार्थे लोके प्रायेण प्रयुज्यते--------'आज हड़ताल है'।
२. हिन्दी--अनुवादकर्त्राऽत्र 'मान' शब्दः पूजार्थे गृहीतः । यद्वा कन्नडवृत्तिकृता तथैव व्याख्यातः स्याद् भ्रान्त्या। वस्तुतस्तु शूर्पशब्दः परिमाणवाची । तस्मात् मानमिह परिमाणमभिप्रेतम् ।
३. पाणिनीयमतानुसारं 'बालिका' इति साधु ।


200
१०९. रुष रोषे--रोषयति--कुप्यति । रोषकः--कोपकः । रोषणम् , रोषणीयम्--द्वौ क्रोधे ।
११०. मडि भूषायाम--भूषणे । [ मण्डयति--भूषयति ।] मण्डूकः--भेकः । मण्डाशिरः । तिलमण्डिका--तिलैर्निर्मितो भक्ष्यविशेषः। मण्डी--जानोरधःशरीरावयवः । मण्डुः--ऋषिः । माण्डव्यः--मण्डुपुत्रः । मण्डोदरी--रावणपत्नी । मण्डनम् , मण्डनीयम्--द्वावाभरणे ।
१११. श्रण दाने--श्राणयति--ददाति । श्रणन् , श्रणकः--द्वौ दानिनि । श्रणनम् , श्रणनीयम्--द्वौ दाने ।
११२. भडि कल्याणे--शुभे । भण्डयति--शुभं भवति । भण्डारम्--सुवर्णकोशः, हरिद्राचूर्णम् ।
११३. वज मार्गणसंस्कारे--शस्त्र निर्माणे । वाजयति--इषुं निर्मिमीते । वजनम् , वाजकः द्वौ तीरनिर्माणकर्तरि । वाजम्--तीरम्, इषुः । वजा--सस्यविशेषः ।
११४. घुष उत्सर्ग--सामान्ये ( ? )। घोषयति--सामान्यं भवति (?)। घोषः--गोशाला। ११५. जस1 हिंसायाम्--जासयति--हिनस्ति । जसकः--घातकः । जसनम् , जसनीयम्--द्वौ हिंसने ।
११६. तत्रि कुटुम्बधारणे--तन्त्रयति--कुटुम्बं पोषयति । तन्त्रकः--कुटुम्बपोषकः । तन्त्रणम्--कुटुम्बधारणम् ।
११७. मत्रि गुप्तभाषणे--मन्त्रयति, रहसि वदति । मन्त्री--सचिवः । मन्त्रणम्--विचारणा।
११८. वस्त गन्ध अर्दने--प्रेरणे । वस्तयति--प्रेरयति । वस्तकः, वस्तन्--द्वौ प्रेरणे । वस्तु, वस्तुकम्--द्वौ प्रेरणायाम् । गन्धयति--दुर्गन्धमायाति । गन्धन् , गन्धी--द्वौ परिमले। गन्ध्यम् , गन्धनीयम् , गन्धनम् , गन्धः--परिमलम् । गन्धकम्--द्रव्यविशेष एतन्नाम्नैव प्रसिद्धः। सुगन्धिः--पुष्पविशेषः । गन्धा--(?)। ___
११९. हिष्क हिक्क हिंसायाम्--पीडायाम् । हिष्कयति--पीडयति । हिष्का--पीडा । हिक्कयति--कष्टयति । हिक्का--कष्टम् ।
१२०. निष्क परिमाणे--निष्कयति--परिमापयति । निष्कम्--एतन्नामकं परिमाणम् ।

टिप्पणी


१. जस धातुरग्रे चुरादौ ( ९ । १५३ ) ताडनार्थे पठिष्यते । अतोऽत्रापपाठः प्रतीयते । कातन्त्रे तु 'जज हिंसायाम्' इति पठ्यते ।


201
१२१. लल ईप्सायाम्--लालयति--इच्छति । लालनम् , लालनीयम्--इच्छा । ललना--स्त्री । ललितम्--कोमलम् , रागः, आगमः । लाला मुखस्थं जलम् । लालः--राक्षसः । लाळि--( गड्डी ?)।
१२२. चित सन्देहे--संशये । चेतयति--शङ्कते । चित्तम्--क्रमः । चितिः--ज्ञानम् ।
१२३. दशि दशने--दंशयति--दशति । दंशन् , दंशकः --द्वौ कर्तके (काटने वाले में) । दष्टम् , दष्टिः, दशनम् , दंशनीयम्--चत्वारो दशनक्रियायाम् ।
१२४. दश1 दर्शने--दाशयते2--दर्शयति । दाशः--धीवरः ( मछुआ)। दशा--अवस्था ।
१२५. कुण3 संकोचे--पूरणे । कुणयते3 --समापयति । कुणिः--[ एतन्नामाऽऽचार्यः] । १२६. डप डिप संघाते----सहभावे । डापयते--सहयोगी भवति । डपन् , डपकः द्वौ सहगन्तरि । डेपयति--शृङ्गारयति । डेपन् , डेपकः द्वौ शृङ्गारके । डेपनम् , डेपनीयम्--द्वौ शृङ्गारे।
१२७ तूण पूरणे--भरणे । तूणयते--भरति । तूणीरम्--तूणीरनाम्नैव प्रसिद्धम् यत्रेषवः रक्ष्यन्ते तद् ।
१२८. तर्ज भर्त्स संतर्जने--भये । तर्जयते--भीषयते । तर्जन् , तर्जकः--द्वौ भयप्रदे। तर्जनम् , तर्जनीयम्--द्वौ भये । भर्त्सयते--निन्दति । भर्त्सन् , भर्त्सकः द्वौ निन्दके । भर्त्सनम् , भर्त्सनीयम्--द्वौ निन्दायाम् ।
१२९. त्रूण आशायाम्--इच्छायाम् । त्रूणयति4--इच्छति । त्रूणन् , त्रूणकः, त्रूणः--त्रय इच्छुके । त्रूणनम् , त्रूणनीयम्--द्वौ इच्छायाम् ।

टिप्पणी


१. 'दसि दर्शने च' इति कातन्त्रीयाः ।
२. इहोत्तरत्र च कतिपयधातुरूपेषु परस्मैपदक्रमे आत्मनेपदनिर्देशः कथमिति न जानीमो वयम् । काशकृत्स्नधातुपाठानुसारं तु 'तत्रि कुटुम्बधारणे' (९ । १२२) इत्यारभ्य आत्मनेपदिनः पठ्यन्ते । तदनुसारं तत्रि--धातोरारभ्य परस्मैपदोदाहरणं चिन्त्यमिति प्रतीयते।
३. 'कूण' इति कातन्त्रीयाः । तथा सति कूणयति कूणिः इत्युदाहरणे द्रष्टव्ये। कुणयति इत्यत्र गुणाभावः कथमिति न व्यक्तीकृतं वृत्तिकृता।
४. इत आरम्य कतिपयधातुरूपेषु परस्मैपदमुदाह्रियते तच्चिन्त्यम् ।


202
१३०. यक्ष पूजायाम्--श्रैष्ठ्ये। यक्षयति--श्रेष्ठो भवति । यक्षः--(श्रेष्ठः)1 । यक्षिणी--( श्रेष्ठा)।
१३१. शठ श्लाघायाम्--श्रैष्ठये (?, प्रशंसायाम् )। शाठयति--श्रेष्ठो भवति । शठन् , शठकः, शठः--श्रेष्ठः पुरुषः, मिथ्याभाषकः । शठा, शठनम् , शठनीयम्--त्रयो मिथ्या[ भाषणे ] |
१३२. श्यम2 वितर्के----विवादे । श्यामयति--विवदते । श्यामलः--कृष्णः, रक्तवर्णश्च । श्यामला--चञ्चगौरी (?) । श्यामा--श्यामवर्णा । श्यामः--श्यामवर्णकः।
१३३. गुरी3 उद्यमने--उद्योगे । गूरयते--उद्योगं करोति, प्रयतते । गुरुः--उद्योगी । गुर्वी--उद्योगिनी ।
१३४. शम लक्ष आलोचने--विचारणे । शमयते--विचारयति । शामाकः (?)----विचारकः । शामा--कृष्णवर्णा, शाकविशेषः । लक्षयते--अङ्कयति । लक्षितः--चिह्नितः । लक्षम्--शतसहस्रम् , लक्ष्यम् , ध्येयम् , चिह्नम् । लक्षणम्--चिह्नम् । लक्षिकः--लक्ष्यकर्ता । लाक्षा--'लाख' नाम्ना प्रसिद्धं द्रव्यम् ।
१३५. कुत्स अवक्षेपे--निन्दायाम् । कुत्सयते--निन्दयति । कुत्सन् , कुत्सकः--द्वौ निन्दके। कुत्सनम् , कुत्सनीयम् , कुत्सितम् , कुत्सा--चत्वारो निन्दायाम् ।
१३६. भल आमण्डने--स्वीकारे । भालयति (?)--स्वीकरोति ( पसन्द करता है)। भलनः, भालकः--द्वौ स्वीकर्तरि । भली, भला, भलला--त्रयः स्वीकारे । भालः--फालः ( शस्त्रविशेषः ? )
१३७. कूट प्रमादे4--वञ्चने । कूटयते--वञ्चयते । कूटः--शृङ्गम् । कालकूटः--विषम् । कूटस्थः--परमात्मा ।
१३८. वञ्चु प्रलम्भने--वञ्चयते--प्रलम्भयति । वञ्चकः, वञ्चानः वञ्चन्--त्रयः प्रलम्भने । वञ्चनम् , वञ्चनीयम्--द्वौ प्रलम्भने । परिवञ्चन्--परिवञ्चना ।

टिप्पणी


१. इह हिन्दी--अनुवादकर्त्रा यक्षः--गाडरी करने वाला, यक्षिणी--गारडी दिखाने वाली' इत्यर्थो निर्दिष्टः स न ज्ञायते ।
२. 'स्यम' इति कातन्त्रीयाः।
३. 'गूरी' इति अन्य वैयाकरणाः कातन्त्रीयाश्च । इह वृत्तौ तु 'गूरयते' इत्यत्र दीर्घत्वमुकारस्य, 'गुरुः' 'गुर्वी' इत्यत्र ह्रस्वत्वम् , उभयथा दृश्यते तत्कथम् ?
४. 'अप्रसादे' इति कातन्त्रीयः । ।


203
१३९. धृषु शक्तिसम्बन्धे--वञ्चनया ग्रहणे ।1 धृष्टुः, धृष्टः, धर्षकः, धर्षाणः--चत्वारो वञ्चके । धृष्टिः, धर्षणम् , धर्षणीयम् , धर्षः--परिवञ्चनया--ग्रहणे ।
१४०. मद तृप्तियोगे--------मादयते--तृप्तो भवति । मत्तः, मदी, मदानः--तृप्तः । मदम्--तृप्तम् ।
१४१. दिवु परिकूजने--गाने । देवयते--गायति । देवता--शक्तिः । देवनम् , देवनीयम्--द्वौ गाने ।
१४२. गॄ विज्ञाने2--वैभवे । गरयति--वैभवयुतो भवति । गराणः--वैभवी । गारणम्--वैभवम् ।
१४३. विद वेतना3ख्याननिवासेषु--भृतौ, नाम्नि, निवासे च। वेदयति (?)--भृतिं करोति । वेदानः--भृतिः । वेदकः--प्रसिद्धः । वेदी--निवसिता । वेदनम् , वेदनीयम्--द्वौ भृतौ।
१४४. मन स्तम्भे--स्थित्याम् । मानयति--उत्तिष्ठते । मनानः--उत्थायकः । मनस्--क्रमः । मननम्--स्मरणम् । मननीयम्--स्मर्तुं योग्यम् ।
१४५. युजु4 जुगुप्सायाम्--घृणायाम् । योजयते--घृणां करोति । यजोः (?, चजोः) कगौ--चकारजकारयोः ककारगकारौ भवतः । योगी--योगयुक्तः । योजनम्--अध्वपरिमाणविशेषः ।
१४६. कुस्म कुस्मयने--कुत्सिते हास्ये। कुस्मयते--निन्दितं हसति । कुस्मानः, कुस्मकः -- द्वौ निन्दितहासके। कुस्मम् , कुस्मनम् , कुस्मनीयम् , कुस्मितम्--चत्वारो निन्दितहसने।
१४७. चर्च अध्ययने--चर्चयति--पठति । चर्चन् , चर्चकः--पाठकः । चर्चनम् , चर्चनीयम्--द्वौ पाठे । चर्चा चर्चिका--द्वौ विचारणायाम् ।
१४८. बुक्क भषणे--निन्दायाम् । बुक्कयति--निन्दति । बुक्कन् , बुक्क:--द्वौ निन्दके । बुक्कनम् , बुक्कनीयम्--द्वौ निन्दायाम् ।
१४९. शब्द उपसर्गादाविष्कारे--प्रादिभ्यः प्रभवे । विशब्दयति--ध्वन

टिप्पणी


१. आख्यातोदाहरणं नास्ति वृत्तौ।
२. 'निगरणे' इति कातन्त्रीयाः।।
३. 'वेदनाख्यान०' इति कातन्त्रीयाः ।
४. 'यु' इत्येव कातन्त्रीयाः पठन्ति । तेनानुमीयते यु जु इति द्वौ धातू काशकृत्स्नमते । वृत्तिकारस्य युजु एकीकृत्य व्याख्यानं प्रामादिकं स्यात् ।


204
यति । विशब्दन् , विशब्दितः--अतिभाषकः । विशब्दः, विशब्दनम् , विशब्दनीयम्--त्रयो भूरिध्वनौ ।
१५०. कण निमीलने--दृष्टिमान्द्ये । काणयते--न पश्यति । काणः--एकाक्षिः। कणिः--दैवशक्त्या दर्शनम् । कणनम् , कणनीयम्--द्वौ दृष्टिमान्द्ये । काणिः--मुद्राविशेषः । कणा--अरेऽर्थे । काणिका--कप्प कर (?)।
१५१. जभि नाशे--ताडने । जम्भयति--ताडयति । जम्भः--राक्षसः । जम्भा--वृक्षः । जम्भे--ताडयति (?) । जम्भनम् , जम्भनीयम्--द्वौ ताडने ।
१५२. सूद आश्रये--सूदयति--आश्रितो भवति । सूदः--आश्रितः।
१५३. जस ताडने--जासयति--ताडयति । जस्यति1--ताडयति । जासः, जसः, जसकः, जसन्--चत्वारस्ताडके । जसनम् , जसनीयम्--द्वौ ताडनक्रियायाम् ।
१५४. पष पश बन्धे--पाषयति--बध्नाति । पाषः--पाशः। पाशयति --आवेष्टयति । पाशः--बन्धनकर्त्री रज्जुः ।
१५५. अम रोगे--पीडायाम् । आमयति--पीडयति । आमन्--उदर--पीडा । आमयम्--पीडा।
१५६. चट स्फुट भेदे--विभागे। चाटयति--विभजति । चाटः--सूपः। चटकः--पक्षिविशेषः । चाटका (?, चटका)--चटकस्य स्त्री। चाटुः--अतिभाषी। स्फोटयति--विभजति । स्फुटम्--विभजनम् ।
१५७.घट संघाते--सहभावे संग्रामे । घाटयति--सह भवति, युध्यते वा । घटः--पात्रम्, एकादशो राशिः (कुम्भः)।
१५८. सर्वे हिंसार्थाश्चुरादौ परस्मैपदिनो ज्ञेयाः ।2
१५९. तर्द हिंसायाम्--तदर्यति--हिंसयति । तर्दुः --हिंसकः ।
१६०. दिवु अर्दने--वृद्धौ । देवयति--वर्धयति । देवनम्--वर्धनम् ।
१६१. अर्ज प्रतियत्ने--द्रव्योपार्जने । अर्जयति--उपार्जयति । अर्जुनः--एतन्नामा पुरुषः । अर्जनम् , आर्जनम्, अर्जनीयम् , आर्जनीयम्, अर्जितम्--पञ्चोपार्जने ।

टिप्पणी


१. किं णिजभावपक्षं द्योतयितुमिच्छति वृत्तिकारः ? ।
२. कर्नाटकवृत्तौ कस्यचिद् गणसूत्रस्य वृत्तिरेव सूत्रत्वेन पठित्वा कर्नाटकभाषायां व्याख्यायते । कातन्त्रीयास्त्वत्र 'हन्त्यर्थाश्च' इति गणसूत्रं पठन्ति । कर्नाटकवृत्तिकारः पूर्वत्र चुरधात्वनन्तरमपीमामानुपूर्वीं पपाठ।


205
१६२. घुषिर् विशब्दे--ध्वनौ । घोषयति--घोषणां करोति । घोषा--उच्चैर्वदनम् ।
१६३. बुब्ब बिब्ब बुम्ब भुम्भ आर्भटे--गर्जने । बुब्बयति--गर्जति । बुब्बा--गर्जनम् । बुब्बोकः--गर्जकः। बिब्बयति--उच्चैर्धनति । बिब्बोकः--उच्चैर्व्--निता । बुम्बयति--गायति। बुम्बालः--गायकः--रागालापकः । भुम्भयति--मुखेन ध्वनति । भुम्भकः--मुखेन ध्वनिता । भुम्भूः--मुखेन ध्वननम् ।
१६४. आङः क्रन्द सातत्ये--आक्रन्दयति--निरन्तरं भवति । आक्रन्दः--नैरन्तर्येण भविता । आक्रन्दनम्--नैरन्तर्येण भवनम् ।
१६५. लश शिलायोगे1--पाषाणयोगे। लाशयति--पाषाणं श्लिष्यति । लाशकः--पाषाणस्य योजको विभाजको वा । लशुनम्--रसोनम् ।
१६६. भष अलङ्कारे--भूषयति--अलङ्करोति । भूषणम् , भूट् , भूषा, भूषणीयम्--चत्वारः शृङ्गारे ।
१६७. मोक्ष असने--त्यागे । मोक्षयति--त्यजति । मोक्षुः--यतिः । मोक्षः--मुक्तिः।
१६८. अर्ह पूजायाम--योग्ये । अर्हयति--योग्यो भवति । अर्हन्--नाभिराज्ञो मेरुदेव्याः पुत्रः । अर्हणम् , अर्हम् , अर्हणीयम्--त्रयो योग्यतायाम् ।
१६९. ज्ञा नियोजने--प्रेरणायाम् । ज्ञापयति--प्रेरयति । ज्ञपकम्, ज्ञापकम्--द्वौ स्मारके।
१७०. शृधु प्रहसने--किञ्चिद्धसने । शर्धयति--स्मयते । शर्धकः--स्मायकः । शर्धनम्--स्मयनम् ।
१७१. भजे विश्राणने--दाने । भाजयति--ददाति । भाक्--दाता । अन्यत्रभजते--सेवते, भाजकः--सेवकः ।
१७२. यत खेदबिम्बाच्छादनेषु2--दुःखे, छायायाम् , आच्छादने च । यातयति दुःखितो भवति । यातकः--दुःखी । यातना--दुःखम् ।

टिप्पणी


१. कातन्त्रीया अन्ये च 'लस शिल्पयोगे' इति पठन्ति । कर्नाटकवृत्तिकृता 'शिल्पयोगे' इत्येव 'शिलायोगे' इत्येवं पठित्वा तथा व्याख्यातः स्यात् । यद्वा ततः पूर्वमेव लेखकप्रमादात् पाठो भ्रष्टः स्यात् ।
२. 'निकारोपस्कारयोः' इति कातन्त्रा अन्ये च वैयाकरणाः ।


206
१७३. [ निरश्च प्रतिदाने1----] निरः परो यतिः प्रतिदानधनधान्यविषयाव्यतिहारार्थ चुरादौ वर्तते1--निरःपरो यतधातुरादाने, धने, धान्ये, विषये, अतिक्रमे च चुरादौ वर्तते । निर्यातयति--धनं धान्यं वा गृह्णाति, उपभुङ्क्ते । निर्यातः--प्रतिग्राहकः । निर्यातनम्--मूल्यम् ।
१७४. वस स्नेहनच्छेदावहरणेषु2-- स्नेहने, छेदने वर्तने च । वासयति--स्निह्यति । वसुः--देवजातिः । वासुः--त्रुटितः । वासना--कर्तनम् ।
१७५. चर असंशये----निश्चये । चारयति--निश्चिनोति । चरादन्तिन्--चरधातोः 'अन्तिन्' प्रत्ययो भवति । चरन्ती3--देशान्तरवासी ।
१७६. च्यव4 हसने----च्यावयति--हसति । च्यवनः--मुनिः [ एतन्नामा ] ।
१७७. भू क्लृप अव अवकल्पने5----कल्पनायाम् । भावयति--कल्पयति--कल्पनां करोति । भावना--कल्पना । कल्पयति--भावयति । कल्पना--भावना । आवयति--निरूपयति । अवना--निरूपणम् ।
१७८. रक लक आस्वादने--रुच्याम् । राकयति--आस्वदते । राका--पूर्णिमा । लाकयति--आच्छादयति । लाका--कम्बलम् । ।
१७९, अञ्चु विशेषणे--अञ्चयति--श्रेष्ठो ( विशिष्टो) भवति । अञ्चनम्--विशिष्टम् ।
१८०. लिगि वैचित्र्ये6 ------ ज्ञाने । लिङ्गयति--विचित्रणं करोति (ज्ञापयति) लिङ्गम्--विचित्रम् । स्त्रीपुम्नपुंसकलिङ्गे विचित्रीकरोति--स्त्रीलिङ्ग--पुँलिङ्ग--नपुंसकलिङ्गप्रत्ययभेदेन धातुर्बहुप्रकारो भवति ( ? )।

टिप्पणी

{{{1}}}

207
१८१. मुद संसर्ग--मोदयति--मिलति । मोदकम् -- एतन्नामकं खाद्यम् ।
१८२. त्रस धारणे1--त्रासयति--सहते । त्रासुः--तुला ( तराजू)।
१८३. उद्ध्रस उत्क्षेपे2--उड्डयने । ध्रासयति3--उड्डीयते । ध्रसन् , ध्रसकः, ध्रासः = त्रय उड्डयितरि । ध्रसनम् , ध्रसनीयम्--द्वा उड्डयने ।
१८४. मुच प्रमोचने4 ------त्यागे। मोचयति--त्यजति । मोचकः--वृक्षविशेषः ।
१८५. ग्रस ग्रहणे--ग्रसयति5--गृह्णाति । ग्रासः--ग्रहणम् ।
१८६. पुष धारणे--सहने । पोषयति--सहते । पोषणम्--सहनम् ।
१८७. दळ विदारणे--दाळयति--विदारयति । दलः--( द्वयोः समयोरेकतरो भागः )।
१८८. पट पुट लुट तुजि पिजि लुजि भजि6 लघि त्रसि पिशि कुसि दशि कुशि घट घटि बृहि बृह बल्ह गुप धूप विछ चीवृ षुघ (१, पुथृ ) लोछ ( १, लोचृ) लोकृ णद कुप तर्का वृतु वृधु भाषार्थाः –पाटयति--शब्दयति । पटुः--वीरः । पटोली--शाकविशेषः (चचींड़ा ) । पटलः--सन्धिः । पटः--वस्त्रम् (= दुपट्टा)। द्विपटी--(दो दुपट्टे) । पटिकम्--औषधम् । पाटवम्--वीरत्वम् । पटली--कुलम् । पटीरः--चन्दनम् । पटनम् , पटनीयम् , पट्यम् , पाट्यम्--चत्वारः शब्दे । पोटयति--सामान्यं भवति । पोटा--समानता7। पुटम्--रागः । पोटनम् , पोटनीयम् , पोट्यम् , पौट्यम्--चत्वारः सामान्ये । लोटयति--पदा ताडयति । लोटुः, लोटनम् , लोटनीयम् , लोट्यम् , लौटयम्--पदा ताडनम् । तुञ्जयति--निन्दति । तुञ्जकः--निन्दकः । तुञ्जनम् , तुञ्जनीयम्--निन्दा । तञ्जयति--? तञ्जकः--? तञ्जनम् , तञ्जनीयम् ? | पिञ्जयति--हिक्कति । पिञ्जारः--हिक्का ( 'हिचकी' इति भाषायाम् ) | पिञ्जरी--उपरिस्था ग्रन्थिः । पिञ्जनम् , पिञ्जनीयम्--हिक्कनम् । लुञ्जयति--आकर्षति । लुञ्जकः--आकर्षकः ।

टिप्पणी


१. 'वारणे' इति कातन्त्रीयाः।
२. 'उञ्छे' इति कातन्त्रीया अन्ये च ।
३. इह आख्याते कृदन्तेषु च रूपेषु धातुसंनियोगेन पठित उदुपसर्गः कथं न प्रयुक्त इति न ज्ञायते ।
४. अस्माद्धातोरग्रे कातन्त्रपाठे 'आस्वदः सकर्मकात्' इति गणसूत्रं पठ्यते । इदं सूत्रमिह काशकृत्स्नवृत्तौ स्वद धातोः ( ९।१९१) अनन्तरं पठ्यते । परन्तु तत्र स्वदधातुसम्बन्धेनैव व्याख्यायते।
५. 'ग्रासयति' इति युक्तः पाठः स्यात् ।
६. वृत्तावयं धातुर्न व्याख्यातः ।
७. पोटा एकवारं प्रसूता। काशिका २।१ ।


208
लुञ्जनम् , लुञ्जनीयम्--आकर्षणम् । लङ्घयति--कूर्दते । लङ्घकः--कूर्दकः । लङ्घनम् , लङ्घनीयम् , लङ्घ्यम्--त्रयः कूर्दने । त्रंसयति--बिभेति । त्रंसः, त्रंसकः -- द्वौ भेतरि । त्रंसम् , त्रंसनम् , त्रंसनीयम्--भयम् । पिंशयति--? पिंशः, पिंशकः--? पिंशनम् , पिंशनीयम्--?। कुंसयति--रोदिति । कुंसः, कुंसकः--रोदकः। दंशयति--कृन्तति । दंशकः--दंशः । उपदंशकः--शुक्तम् ('अचार' इति भाषायाम् ) दंष्ट्रा--दशनम् । दंशनम् , दंशनीयम्--द्वौ कर्तने । कुंशयति--? कंशः, कुंशकः--? कुंशनम् , कुंशनीयम् ? । घाटयति--अल्पी भवति । घटना--घटना, कुलम् । घटिका--घटी । घटः--देहः । घटकः--घटम् । घटनम् , घटनीयम् घट्यम् , घाट्यम् , उद्घाटः--पञ्च घटनायाम् । घण्टयति--कथयति । घण्टा--घण्टा इत्येव प्रसिद्धम् । देवघण्टा--मन्दिरस्था घण्टा । क्षुद्रघण्टिका--नूपुरम् । घटनम् , घटनीयम्--द्वौ कथने । बृंहयति--वर्धते । बृंहणम्--वर्धनम् | ब्रहयति1--अधिकं भवति । ब्रह्मौ--ब्रह्म । बल्हयति--दृढो भवति । बल्हः--नगरम् । बाल्हीकः--अश्वः, घोटकः । गोपयति, गोपायति--रक्षति । गोपः--रक्षकः । गोपनम् , गोपनीयम्--रक्षणम् । धूपयति, धूपायति--परिमलयति । धूपः--'धूप इत्येव नाम्ना प्रसिद्धं द्रव्यम् । विच्छयति--? विच्छकः--? विच्छा ? चीवयति--पीडयति । चीवरः--पक्षी । पोथयति--अतिशब्दयति । पोथः--महिषः। लोचयति--पश्यति । लोचनम्--चक्षुः । लोकयति--पश्यति । लोकः--पृथिव्यादिः, मनुष्यः । नादयति--झङ्करोति । नादः--झङ्कारः । कोपयति--क्रुद्धो भवति । कोपः--क्रोधः । तर्कयति--ऊहयति । तर्कः--ऊहः, विवादः। वर्तयति--व्यवहरति । वर्तनम्--प्रवर्तनम् । वर्धयति--एधते । वर्धनम्--एधनम्, वृद्धिः ।
१८९. पूरि (?, पूरी ) आप्यायने--तृप्तौ । पूरयति--तर्पयति । पूरणम्--तृप्तिः ।
१९०. रुज हिंसायाम्--रोजयति--मारयति । रोजकः--घातकः । रोजनम्--हिंसा ।
१९१. ष्वद आस्वादने--स्वादयति--आस्वदते । आस्वादी--आस्वादकः । आस्वादनम्--आस्वादः।
१९२. आस्वदः सकर्मकात्--आङ्पूर्वकात् सकर्मकात् स्वदधातोरिन् प्रत्ययो भवति2 । आस्वादयति--आस्वादं पश्यति (गृह्णाति)। आस्वादयन् , आस्वादकः--आस्वादयिता ।

टिप्पणी


१. धातु सूत्रे 'बृह' पठ्यते, तत्र 'ब्रह' युक्तः पाठः स्यात् ।
२. अन्य वैयाकरणाः 'मुच मोचने' (९।१८४) इत्यारभ्य 'स्वद आस्वादने' ( ९।१९१) इत्यन्ता धातवः सकर्मका 'णिच्' (इन् ) प्रत्ययमुत्पादयन्ति इत्यर्थमाहुः ।


209
१९३. कथ1 वाक्यप्रबन्धे--सम्यग्भाषणे । कथयति--वदति। कथकः--वक्ता । कथा, कथनम् , कथनीयम्--त्रयो वचने । नादन्तात् सन्2--अकारान्ताद्धातोः सन् प्रत्ययो न भवति ।
१९४. वर ईप्सायाम् ----वरयति--इच्छति । वरः--वरणीयः (दूल्हा)।
१९५. गण संख्याने--गणनायाम् । गणयति--संख्यायति । गणकः--संख्यायकः । गणिका--वेश्या । गणः--शिवशरणः । गणनम्--गणितम् ।
१९६. शठ श्वठ सम्यगाभाषणे--शठयति--सम्यग्वदति । शठः--चतुरः। श्वठयति--हास्यं करोति । श्वठः--हासकः ( मजाक करने वाला )।
१९७. भट वट ग्रन्थे--प्रारम्भकरणे ( वीरतायाम् )। भटयति--प्रारभ्यते । भटः--प्रारम्भकः । वटयति--आवर्तयति । वटुः--पटुः ।
१९८. रह त्यागे--रहयति--त्यजति । राट् , राड् , रहः, रहकः--चत्वारस्त्यागे । राहुः--एतन्नामा ग्रहः।
१९९. स्तन गद देवशब्दे--मेघध्वनौ । स्तनयति--शब्दयति गर्जति । स्तनयित्नुः--मेघः । स्तनः--उरोजः, कुचः । गदयति--अव्यक्तं वदति ( तुतलाता है)। गद्गदः--( स्खलितवाक् )।
२००. पत गतौ--पतयति--गच्छति । पतिः--यजमानः ।
२०१. पष अनुपसर्गात् गतौ--उपसर्गरहितात् पषधातोरिन् प्रत्ययो भवति गतौ। पषयति--गच्छति । पाट् , पाङ , पषः, पषकः,--चत्वारो गन्तरि ।
२०२. स्वर आक्षेपे----कथने । स्वरयति--स्वातन्त्र्येण कथयति । स्वरः-- अच्।
२०३. चर प्रतियत्ने--वीरकार्ये प्रतियत्ने। चरयति--पुनःकार्यं करोति । चरः--वीरः।
२०४. कल गतौ संख्याने च--कलयति--गच्छति । कालः--समयः । कलना--गणना।
२०५, चह परिकल्कने--औषधगुटिकायाम् । चहयति--गुटिका भवति । चहनम्--गुटिका।

टिप्पणी


१. इत: पूर्व कातन्त्रे 'इतोऽदन्ताः ' इति निर्देश उपलभ्यते ।
२. नायं नियमः पाणिनीय तन्त्रेऽन्येषु चोपलभ्यते ।


210
२०६. मह पूजायाम्--महत्त्वे । महयति--पूज्यो भवति । महादेरन्तः--महप्रभृतिभ्यो धातुभ्य 'अन्त' प्रत्ययो भवति । महन्तः--पूज्यः ।
२०७. स्वार कृप श्रथ दौर्बल्ये--बलाधिक्ये (?)1 । सारयति--अधिकबलो भवति । सारः--सेतुः । कृपयति--दयते । कृपाळुः--दयालुः । कृपा--दया ।
२०८. स्पृह ईप्सायाम--स्पृहयति-- इच्छति । स्पृहन्--इच्छुकः । स्पृहा--इच्छा ।
२०९, भाम क्रोधे--भामयति--क्रुध्यते । भामा, भामिनी--दौ क्रुद्धायाम् ।
२१०. सूच पैशुन्ये--सूचयति--पैशुन्यमाचरति । सूचः--सूचकः । सूचनम्--सूचना।
२११. खेट भक्षणे--खेटयति--खादति । खेटकम्--रिङ्गणम् (रेंगना )।
२१२. खोट्ट2 क्षेपे--कथने (?)। खोट्टयति--कथयति (?) । खोट्टकः--कथकः । खोट्टनम्--कथनम् ।
२१३. गोम उपलेपने--संश्लेषणे । गोमयति--उपलिपति । गोमनम्--लेपनम् ।
२१४. कुमार क्रीडायाम्---- खेलने । कुमारयति--क्रीडते । कुमारः--षण्मुखः ।
२१५. शील उपधारणे--शीलयति--वर्तयति । शीलम्--स्वभावः । सुशीला--कामधेनुः ।
२१६. साम सान्त्वने--साधने । सामयति--साध्नोति । सामन्तः--साधकः । सामन्--वेदः ।
२१७. वेल कालोपदेशे--काले सन्दर्भे च । वेलयति--त्वरयति । वेलः--समयः।
२१८. पल लवनपवनयोः--छेदने उड्डयने च । पलयति--लुनाति, उड्डयते । पलायनम्--लवनम् , उड्डयनम् ।

टिप्पणी


१. दुर दुःखं बलं यस्य स दुर्बलः, अल्पबलान् प्रति बाधको दुःखरूपः । दुर्गतं बलं यस्मात् इत्यर्थे बलहीनः । धातुपाठेऽन्यत्रापि एकेन शब्देन विरुद्धावर्थौ द्योत्येते । यथा--संघातपदेन 'एकीभावः, सम्यग्घातो नाशः, उभा उच्येते ।
२. कातन्त्रपाठे 'खोट' इत्येव पाठः । हिन्दीभाषायां प्रयुज्यमानः सुवर्णादिषु धात्वन्तरप्रक्षेपार्थकः खोटशब्द एतद्धातुज एव । यद्वा खोट्ट इत्यस्यापभ्रंशरूपः ।


211
२१९. वात गतिसुखसेचनयोः1 --गतौ सुखसमाप्तौ (?) च । वातयति--गच्छति । वातः--वायुः ।
२२०. गवेष मार्गणे--अन्वेषणे । गवेषयति--अन्वेषयति । गवेषयन्--अन्वेषकः । गवेषणम्--अन्वेषणम् ।
२२१. वास उपसेवायाम्--गौणकार्ये (?)। वासयति--अप्रधानं कार्यं करोति । वासयन्--गौणकार्यकर्ता । वासना--गौणं कार्यम् ।
२२२. निवास आच्छादने--निवासयति--आच्छादयति । निवासयन्--आच्छादकः । निवासनम्--आच्छादनसाधनम् ।
२२३. भाज पृथक्कर्मणि--पृथक् कार्यकरणे । भाजयति--पृथक्कार्यं करोति । भाजयन्--पृथक् कार्यकर्ता । भाजनम्--घटः ।
२२४. समाज प्रीतिसेवनयोः--प्रेम्णि कार्ये च । सभाजयति--प्रीतिकरोति । सभाजयन्--प्रीतिकर्ता । सभाजनम्--प्रीतिः ।
२२५. ऊन परिहरणे--न्यूने । ऊनयति--अल्पं भवति । ऊनयन्--अल्पं भावुकः । ऊनम्--अल्पम् ।
२२६. ध्वन शब्दे--ध्वनयति--शब्दयति । ध्वनयन्--शब्दकः । ध्वनिः, ध्वानः द्वौ शब्दकर्तरि ।
२२७. कूट2 दाहे----तृषायाम् । कूटयति--उष्णं करोति । काष्ठकूटः--कालाग्निः रुद्रः । २२८. केत श्राम कुण गुण आमन्त्रणे--अभिमुखं भूत्वा वार्ताकरणे । केतयति--अभिमुखमायाति । केतुः--ध्वजः । निकेतनम--गृहम् । श्रामयति--श्रमं करोति । श्रमणः--तपस्वी । कुणयति--नृत्यति । कुणयन्--नर्तकः । कुणनम् , कुणनीयम् , कुणकम्--त्रयः क्रीडने । गुणयति--गुणनं करोति । गुणयन्--गुणनकर्ता । गुणनम् , गुणनीयम् , गुणकम्--त्रयो गणनायाम् ।
२२९. स्तेन चौर्ये--स्तेनयते3 --चोरयति । स्तेनानः--चौरः । स्तेनम् , स्तेननम् , स्तेननीयम्--त्रयश्चुरायाम् ।

टिप्पणी


१. 'गतिसुखसेवनयोः' इति कातन्त्रीयाः ।
२. 'कुट' इति कातन्त्रीयाः ।
३. कातन्त्रे धातुनिर्देशानन्तरम् “परस्मैमाषाः” इति पठ्यते । तेनायं धातुः परस्मैपदीति ब्यक्तम् । तदनन्तरं च 'आगर्वादात्मनेपदी' इति गणसूत्रं पठ्यते, तेन पदधातो( ९।२३० ) रारभ्य गर्वधातु--( ९।२३८) पर्यन्तमात्मनेपदं विहितम् ।


212
२३०. पद गतौ--पदयते--गच्छति । पदानः--गमकः । पदम् , पदनम् , पदनीयम् , पद्यम्--चत्वारो गमने ।
२३१. गृह ग्रहणे--गृहयते--गृह्णाति । ग्रहः (?, गृहः)--प्रमत्तः ।
२३२. मृग अन्वेषणे--गवेषणे । मृगयते--गवेषयति । मृगः--एतन्नामा श्वापदः।
२३३. कुह विस्मापने -- कृत्रिमे । कुहयते--कृत्रिमं करोति । कुहानः, कुहकः--(ऐन्द्रजालिकः)।
२३४. शूर वीर विक्रान्तौ--वीरतायाम् । शूरयति1--अग्रे गच्छति । शूरः--वीरः। वीरयति1--उपद्रवे युद्धे गच्छति । वीरः--शूरः ।
२३५. स्थूल परिब्रहाणे (?, परिबृंहणे)--स्थूलयते--स्थूलो भवति । स्थूलानः--स्थूलः । स्थूलम् -- बृंहणम् ।
२३६. अर्थ उपयाञ्चायाम्--ग्रहणे । अर्थयते--धनं याचते । अर्थानः--याचकः । अर्थः--सारः।
२३७. सत्र संतानक्रियायाम्--धर्मसंघाते । सत्रयते--सततं धर्ममाचरति । सत्रम्--धर्मसन्तानम् ।
२३८. संग्राम युद्धे--संग्रामयते--युध्यते । संग्रामः--युद्धम् ।
२३९. गर्व माने--श्रेष्ठतायाम् । गर्वयते--मानं करोति । गर्वितः, गर्वाणः--द्वौ अहंकारयुक्ते । गर्वः, गर्वणम् , गर्वणीयम्--त्रयोऽहंकारे ।
२४०. सूत्र अवमोचने--योजने। सूत्रयति--संयुनक्ति । सूत्री, सूत्रकः, सूत्रन्--त्रयः संयोजके। सूत्रम्, सूत्रितम् , सूत्रणम् , सूत्रणीयम्--चत्वारः संयोजने।
२४१. मूत्र प्रस्रवणे--( जलस्य ) पतने । मूत्रयति--( दूषितजलं) स्रवति । मूत्रम् , मूत्रणम् , मूत्रणीयम्--त्रयः (दूषितस्य जलस्य ) प्रस्रवणे ।
२४२. रूक्ष पारुष्ये--कठोरतायाम् । रूक्षयति--कठोरमाचरति । रूक्षवान् , रूक्ष्मी, रूक्षकः--त्रयः कठोरव्यवहर्तरि । रूक्षम् , रूक्षणीयम् , रूक्षणम्--कठोरव्यवहारः।
२४३. पार तीर कर्मसमाप्तौ--कार्यान्ते । पारयति--पूरयति । पारयन् ,

टिप्पणी


१. आत्मनेपदप्रकरणात् 'शूरयते वीरयते' इति शुद्धः पाठः ।


213
पारकः --द्वौ पूरके । पारम् , पारायणम् , पारणीयम् , पारणम्--चत्वारः कर्मसमापने । तीरयति--समापयति । तीरयन् , तीरकः द्वौ पूरके। तीरम् , तीरणम् , तीरणीयम्--त्रयः समापने।
२४४. पुट संसर्गे--संमिश्रणे । पुटयति--मिश्रयति । पुटयन् , पुटः, पुटकः--त्रयो मिश्रके । पुटनम् , पुटनीयम्--द्वौ मिश्रणे ।
२४५. कध्र1 शैथिल्ये--शिथिलभावे । कध्रयति--शिथिलो भवति । कध्रः, कध्रकः, कध्रयन्--त्रयः शिथिलभावुके । कध्रणम्, कध्रणीयम्--द्वौ शैथिल्ये।
२४६. अंश समाघाते--सहभावे । अंशयति--सह गच्छति । अंशकः--सह गन्ता । अंशुमान्--सूर्यः । अंशुः--किरणः । अंश:--बलिः । अंशनम् , अंशनीयम्--सहभावे।
२४७. चित्र विचित्रदर्शनयोः2--ज्ञाने दर्शने च । चित्रयति--जानाति । • चित्री, चित्रकः द्वौ ज्ञातरि । चित्रम् , चित्रणम् , चित्रणीयम्--त्रयो ज्ञाने।
२४८. वट विभाजने--हस्तशिल्पे ( दस्तकारी में )। वटयति--हस्तेन कार्यं करोति । वटः--हस्तेन कार्यकारको बालकः । वटनम् , वटनीयम्--द्वौ हस्तशिल्पे । वटः--एतन्नामा वृक्षविशेषः । वाटी--मार्गः, उद्यानं च । वटा--?। वटकः--बालकः । अवटम्--गहनम् । अवट्यः--गर्ते निवसिता।
२४९. ज्वल3 प्रकाशने--ज्वलयति--प्रकाशयति । ज्वलयन्--अग्निः । ज्वालः, ज्वाला--द्वौ प्रज्वलने । ज्वालुः--कीलकम् ।
२५०. मिश्र संपर्के--मेलने । मिश्रयति -- संपर्कयति । मिश्रापणम्--मिलितम् (?)।
२५१. स्तोम श्लाघायाम--पूज्ये । स्तोमयति--पूज्यो भवति । ज्योतिष्टोमेन स्वर्गकामो यजेत--स्वर्गकाङ्क्षी स्फटिकलिङ्गेन पूजां कुर्यात्4 ।
२५२. छिद्र कर्णभेदे--कर्णछेदे5 । छिद्रयति--कर्णं वेधयति । छिद्रकः--कर्णवेधकः।
२५३. अन्ध दृष्ट्यपसंहारे --अन्धयति--दृष्टिरहितो भवति । अन्धकः--राक्षसः। अन्धकारः--तमः। अन्धतामिस्रम्--नरकविशेषः।

टिप्पणी


१. 'कर्त्र' इति कातन्त्रीयाः ।
२. 'चित्रीकरणे कदाचिद् दर्शने च' इति कातन्त्रीयाः।
३. 'लज प्रकाशने' इति कातन्त्रीयाः।
४. वृत्तिकारः शैवमताग्रहेण ज्योतिष्टोमशब्दस्य विचित्रां कल्पनामुद्भावयांचकार ।
५. कर्णवेध इत्यर्थः।
६. 'दृष्ट्युपसंहारे' इति कातन्त्रीयाः।


214
२५४. दण्ड दण्डनिपातने--दण्डयति--दण्डं ददाति । दण्डकः, दण्डयन्--दण्डप्रदाता। दण्डम्--दण्डम् , काष्ठम् (यष्टिका), सेना। दण्डी--संन्यासिविशेषः, राजा, यमः, भिक्षुः।
२५५, अङ्क लक्षणे--चिह्ने । अङ्कयति--चिह्नयति । अङ्ककः, अङ्कवान् , अङ्किः--त्रयः परिचायके । अङ्कः--( गोद ) युद्धम् , चिह्नम् । अङ्कनम् , अङ्कनीयम्, अङ्कितम् -- त्रयश्चिह्नकरणे । अङ्का--गुरुनाथपत्नी, श्मशानम् , अज्ञेयः (?)। __ २५६. सुखदुःखे1 तत्क्रियायाम्--सुखे दुःखे च । सुखयति--सुखं भुङ्क्ते । सुखी--सुखयुक्तः । सुखम्--अनामयम् । दुःखयति--दुःखं भुङ्क्ते । दुःखी--दुःखयुक्तः।
२५७. रस आस्वादनस्नेहनयोः--रसयति--स्वदयति । रसिकः--स्वदिता। रसः । तैलम् ( ?)। रसज्ञा, रसना--जिह्वा ।
२५८, व्यय वित्तसमुत्सर्गे--धनव्यये । व्यययति--वित्तमुत्सृजति । व्ययः--धनोत्सर्गः । अव्ययम्--धनोत्सर्गाभावः ।
२५९. रूप रूपक्रियायाम्--रूपयति--रूपं निर्माति । रूपकः--अलङ्कारः । रूपम्--आकृतिः । निरूपम् , निरूपणम् , निरूपितम्--त्रयो गुरुवाक्ये । रूपिणी--रूपजीवना--द्वौ वैश्यायाम् । रौप्यम्--रजतम् । महारौप्यम्--सुवर्णम् ।
२६०. छेद द्वैधीकरणे--एकस्य द्वित्वे । छेदयति--द्वैधीकरोति ( विदारणेन द्वित्वमापादयति)। छेत्ता, छेदकः, छेदी--त्रयो विदारके । छेदनम् , छेदनीयम् , छेद्यम्--त्रयो विदारणे ।।
२६१. व्रण गात्रविचूर्णने--शरीरस्य विदारणे । व्रणयति--शरीरं विदीर्यते । व्रणम्--विदारणम् ।
२६२. वर्ण वर्णक्रिया विस्तारगुणवचनेषु--रागे विस्तारे प्रशंसायां च । वर्णयति--रजति, विस्तारयति, प्रशंसयति । वर्णम्--रागः । वर्णकम्--रागः, पद्यम् । वर्णनम् , वर्णनीयम्--द्वौ वर्णने । वर्णी--जातिवान् (?)।

टिप्पणी


१. 'दु:खे' इत्यत्र एकारः किमनुबन्ध उत द्विवचनमिति सन्दिह्यते । एकारानुबन्धस्यात्र फलविशेषस्यादर्शनात् कातन्त्रपाठे तदभावाच्च नायमनुबन्ध इति प्रतीयते । 'सुखदुःखे इति द्विवचनरूपं सम्भवति, परन्तु न क्वाप्यन्यत्रैतादृशो निर्देश उपलभ्यते । तस्माद्विवचनरूपमपि सन्दिह्यते।


215
२६३. पर्ण हरितभावे--पर्णयति--हरितो भवति । पर्णम्--पत्रम् । पर्ण्यम्--पत्रवान् । पर्णशाला--पर्णमयी कुटी । अपर्णा--गौरी ।
२६४. लाभ प्रेरणे--धनागमे । लाभयति--धनागमो भवति । लाभम् (?), लाभनम् , लाभनीयम्--त्रयो धनागमे ।
२६५, क्षिप प्रेरणे1--नियामने । क्षिपयति--नियामयति । क्षिप्तम् , क्षिप्तिः, क्षेपणम् , क्षेपणीयम्--चत्वारो नियामे । क्षेपणी--? ( नौदण्डः )।
२६६, अघ पापकरणे--अघयति--दुर्व्यवहारं करोति । अघम्--पापम् । अघवान्--पापी।
२६७. मृष क्षान्तौ--सहने । मृषयति--सहते । मृषा--अनृतम् । मृष्टान्नम्--पारामान्नम् ।
२६८. 2नाम्न इन्निरस्यति3--नाम्नः इन् भवति निरस्यति (प्रक्षिपति विस्तारयति ) इत्यस्मिन्नर्थे । हस्तौ निरस्यति--हस्तयति--हस्तौ विस्तारयति । पादौ निरस्यति--पादयति--पादौ विस्तारयति । मस्तकयति--शिरो विस्तारयति 4(?)। जिह्वयति--जिह्वां विस्तारयति5 (?)। मेढ्रयति--मेढ्रं विस्तारयति ।
२६९, प्रकाशयत्यपि6 ----प्रकाशने उद्घाटनेऽर्थेऽपि नाम्न इन् भवति । नेत्रयति--चक्षुषी उद्घाटयति । मुखयति मुखमुद्घाटयति । गुदयति--गुदमुद्घाटयति7 ।
२७०, शृण्वत्यपि8 --नाम्नः शृणोत्यर्थेऽपि इन् भवति । वेदयति--वेदं शृणोति । तन्त्रयति--तन्त्रं शृणोति । पुराणयति--पुराणं शृणोति ।
२७१. श्वेताश्वतरगालोडिताह्वरकाणां तरेतकलोपाश्च चक्षणे9 --श्वेताश्वतर गालोडित अह्नरक शब्दानां तर इत क इत्येतेषां लोपो भवति चक्षणे

टिप्पणी


१. कातन्त्रे तु 'लाभ क्षिप प्रेरणे' इत्येकं सूत्रम् ।
२. कातन्त्रपाठे इतः पूर्वम् 'बहुलमेतन्निदर्शनम् । इत्यदन्ताः समाप्ताः । अथ गणसूत्रम्' इति वचनान्युपलभ्यन्ते । तेषु प्रथमं वचनं त्वत्राप्यपेक्षते। उत्तरसूत्राणि तस्यैव प्रपञ्चरूपाणि ।
३. 'इनङ् अङ्गनिरसनेऽपि' इति कातन्त्रपाठः ।
४ अतिविचारयतीत्यर्थः ।
५. अतिभाषत इत्यर्थः ।
६. सूत्रमिदं कातन्त्रे नास्ति । तत्र पूर्वसूत्रेऽपिनाऽयमर्थः संगृहीतः स्यात् ।
७. अपानवायुं त्यजतीत्यर्थः ।
८. कातन्त्र इदमपि सूत्रं नास्ति । अयमप्यर्थस्तत्र प्रथमसूत्रस्थेनाऽपिना संगृहीतः स्यात् ।
९. कातन्त्रे तु 'श्वेताश्वाश्वतरगोलोडितह्वरकाणामश्वतरेतकलोपश्च' इति पाठः । इतोऽग्रे च 'मन्तुवन्तुविनां वुक् च' इत्यधिकं सूत्रं पठ्यते ।


216
कथनेऽर्थे [ इन् प्रत्ययश्च ] श्वेताश्वतरमाचष्टे--श्वेताश्वयति, श्वेताश्वतरविषये कथयतीत्यर्थः । गालोडितमाचष्टे = गानसारं कथयति (?)--गालोडयति । सामवेदमुच्चारयतीत्यर्थः । आह्वरकमाचष्टे--मारणमन्त्रं ब्रवीति--आह्वरयति ।
२७२. प्रशस्तस्य श्रा1--प्रशस्तशब्दस्य 'श्रा' आदेशो भवति । श्राययति--प्रशस्तो भवति ।
२७३. वृद्धस्य च ज्या2--वृद्धशब्दस्य ज्या आदेशो भवति । ज्याययति वृद्धो भवति ।
२७४. अन्तिकबाढयोर्नेदसाधौ--अन्तिकबाढशब्दयोर्नेद साध आदेशौ भवतः । अन्तिकमाचष्टे--अन्तयति । बाढमाचष्टे साधयति, शीघ्रं कथयतीत्यर्थः ।
२७५, युवाल्पयोः कन् वा--युव अल्प इत्येतयोः 'कन्' वाऽऽदेशो भवति । युवानमाचष्टे--युवयति, कनयति । अल्पयति कनयति ।
२७६. स्थूलदूरयुवक्षिप्रक्षुद्राणाम् अन्त्यस्वरादेर्लोपो गुणश्च नामिनाम्--स्थूल दूर युव क्षिप्र क्षुद्र इत्येतेषाम् अन्त्यस्वरादेर्वर्णस्य लोपो भवति गुणश्च नामिनां = इ उ ऋ लृ इत्येतेषां स्वराणाम् । स्थूलमाचष्टे--स्थवयति । दूरमाचष्टे--दवयति । युवानमाचष्टे यु( ? य )वयति । क्षिप्रमाचष्टे--क्षेपयति । क्षुद्रमाचष्टे--क्षोदयति ।
२७७. बहोरि[न् ] यादिर्भू च--बहोः परतः इन् यादिर्भवति भू च बहोः स्थाने आदेशः । बहुमाचष्टे3 भूययति ।
२७८. प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घह्रस्ववृद्धवृन्दारकाणां प्रास्थास्फावरागराबृंहात्रपद्राघह्रसवर्षवृन्दाः--प्रिय स्थिर स्फिर उरु गुरु बहुल तृप्र दीर्घ ह्रस्व वृद्ध वृन्दारक इत्येतेषां स्थाने प्रा स्था स्फा वरा गरा बृंहा त्रप द्राघ ह्रस वर्ष वृन्द इत्येते आदेशा भवन्ति ।
4 प्रियमाचष्टे--प्रापयति । स्थिरमाचष्टे--स्थापयति । स्फिरमाचष्टे--स्फाययति । उरुमाचष्टे--वरयति । गुरुमाचष्टे--गरयति । बहुलमाचष्टे--बृंहयति ।

टिप्पणी


१. कातन्त्रे 'श्रः' अकारान्तादेशो विधीयते । पाणिनीया अपि तथैवामनन्ति ।
२. कातन्त्रे 'ज्यः' इत्यकारान्तादेशः, तथैव पाणिनीया अप्याहुः।
३. पाणिनीयास्तु भावयति रूपमाहुः यिडागमस्य प्रत्ययाङ्गत्वात् । अपरे पुनः यिट्सन्नियोगेनैव भू आदेशस्य विधानमाश्रित्य 'बहयति' रूपं युक्तं मन्यन्ते । अत्र विशेषो माधवीयायां धातुवृत्तौ नामधातुप्रकरणे द्रष्टव्यः ( पृष्ठ ४२८ चौखम्बा सं०)।
४. इमान्युदाहरणानि कर्णाटकवृत्तौ २८० सूत्रानन्तरं पठितान्यासन् अस्माभिर्यथास्थानं नीतानि ।


217
तृप्रमाचष्टे--त्रपयति । दीर्घमाचष्टे--द्राघयति । ह्रस्वमाचष्टे--ह्रसयति । वृद्धमाचष्टे--वर्षयति । वृन्दारकमाचष्टे--वृन्दयति ।
२७९. तद्वदिष्ठेमेयस्सु बहुलम्--यथा इन् प्रत्यये कार्यमुक्तं तथा इष्ठ इमन् ईयस् इत्येतेष्वपि भवति बहुलम् ।
1 नेदिष्ठा, नेदिमा, नेदीयान् । साधिष्ठः, साधिमा, साधीयान् । यविष्ठः, यविमा, यवीयान् । कनिष्ठः, कनिमा, कनीयान् । अल्पिष्ठः, अल्पिमा, अल्पीयान् । कनिष्ठः, कनिमा, कनीयान् । स्थविष्ठः, स्थविमा, स्थवीयान् । दविष्ठः, दविमा, दवीयान् । क्षेपिष्ठः, क्षेपिमा, क्षेपीयमान् । क्षोदिष्ठः, क्षोदिमा, क्षोदीयान् । भूयिष्ठः, भूयिमा, भूयान् । प्रायिष्ठः, प्रायिमा, प्रेयान् । स्थायिष्ठः, स्थायिमा, स्थेयान् । स्फायिष्ठः, स्फायिमा, स्फेयान् । वरिष्ठः, वरिमा, वरीयान् । गरिष्ठः, गरिमा, गरीयान् । बृंहिष्ठः, बृंहिमा, बृंहीयान् । त्रपिष्ठः, त्रपिमा, त्रपीयान् । द्राघिष्ठः, द्राघिमा, द्राघीयान् । ह्रसिष्ठः, ह्रसिमा, ह्रसीयान् । वर्षिष्ठः, वर्षिमा, वर्षीयान् । वृन्दिष्ठः, वृन्दिमा, वृन्दीयान् । ज्येष्ठः, ज्येमा, ज्येयान् । श्रेष्ठः, श्रेमा, श्रेयान् ।
२८०. सत्यार्थवेदना अष्टकारित एव (?, सत्यार्थवेदानाम् आप् तु कारित एव)--सत्य अर्थ वेद एतेषाम् आप् आगमः कारिते प्रयोज्ये कर्तर्येव भवति ।2
२८१. गुणवचनात्3--विशेष[णे] निघ्नेभ्य इन् प्रत्ययो भवति । इष्ठ, इमा, ईयान् परतोऽपि ।4
पटयति--सारवाक्यं वदति । पटिष्ठः, पटिमा, पटीयान् । लघयति--लघुर्भवति । लघिष्ठः, लघिमा, लघीयान् । पापयति--पापी भवति । पापिष्ठः, पापिमा, पापीयान् । एवमन्येऽपि ज्ञेयाः।
२८२. एकस्वरा अदन्ताश्च कैश्चिच्चुरादिषु पठ्यन्ते ।5

टिप्पणी


१. इमान्युदाहरणानि २८० सूत्रानन्तरं पठितान्यासन् । अस्माभिर्यथास्थानं पठितानि ।
२. कर्नाटकटीका पाठोऽत्र महान् भ्रष्टः । अस्माभिस्तु यथाप्रकरणं सूत्रं व्याख्यातम् । अस्योदाहरणानि वृत्तौ न दीयन्ते ।
३. सूत्रमिदं कातन्त्रपाठे नास्ति ।
४. अत्र कर्नाटकवृत्तिपाठो भ्रष्टः प्रतीयते। प्रकरणानुसारम् 'गुणवचनात्' सूत्रानन्तरम् इनि इष्ठेमेयस्सु परतोऽन्त्यस्वरस्य च लोपविधायकेन सूत्रेणापि भाव्यम् । अन्यथाप्रकृतोदाहरणसंगतिर्न भवति।
५. इदं न सूत्रम् , अपितु वृत्तिग्रन्थः। कर्नाटकायां तु सूत्रत्वेनोदाहृत्य पुनर्व्याख्यातः। कातन्त्रे तु 'एकस्वराणाम् अदन्तानां च' इति सूत्रमुपलभ्यते।
इतोऽग्रे कातन्त्रपाठे 'इति गणसूत्रं समाप्ताः (?) इतिपाठ उपलभ्यते । तदनन्तरं च 'अथ विकल्पेनेनन्ताः' इति वचनं पठ्यते ।


218
२८३. युच पृच संयमने--तपस्यायाम् । योजयति--तपस्यति । योगी--तपस्वी । पर्चयति--व्रतमाचरति । पर्चकः--व्रती।
२८४. षह मर्षणे----सहने । तुरां सहयति ( = कोलाहलं सहते) तुराषाट--इन्द्रः ।
२८५. ईर क्षेपे----कालक्रमणे । ईरयति--कालक्षेपं करोति । ईरः--कालक्षेपकः।
२८६. लाली द्रवीकरणे--लालयति--द्रवी भवति । लाला--मुखस्थं जलम् ।
२८७. वृजी वर्जने--त्यागे । वर्जयति--त्यजति । वर्जकः--त्यागी। वर्जनम्--त्यागकरणम् । २८८. जॄ वयहानौ--जरयति--वृद्धो भवति । जरा--वृद्धत्वम् ।
२८९. चिर वियोजनसंपर्चनयोः--वियोगे कूटे (? ) च । चेरयति--मिलति । चेरमः----शिवभक्तः । चिरम्--बहुकालः ।
२९०. शिष आसर्वोपयोगे1 ----आसमन्तात् प्रयोगे। शेषयति--प्रयोजयति । शेषः--सर्पराजः । शिष्टकः, शिष्यः--द्वौ शिष्ये ।
२९१. विपूर्वोऽतिशये----विपर्वो शिषधातुरतिशयेऽर्थे वर्तते । विशेषः अतिशयः।
२९२. तृप प्रीणने--शीतीभावे । तर्पयति--शीतीभवति । तृप्तः, तर्पकः--द्वौ शीतयुक्ते । तर्पणम् , तृप्तिः, तर्पणीयम्--शीतीकरणे ।
२९३. छद अपवारणे--कपटे । छदयति--कपटं करोति । छद्मन् , छदकः -- द्वौ कपटिनि ।
२९४. मी गतौ--माययति--गच्छति । माया--गन्त्री (नष्ट्री)। मायी, मायावी--द्वौ मायायुक्ते । अनाकौ णानुबन्धवत्--अन आक प्रत्ययौ णकारानुबन्धप्रत्ययवत् कार्यं लभेते । मायनम्, मायकम्--द्वौ मनसः चाञ्चल्ये ।
२९५. क्रथ हिंसायाम्--क्राथयति--हिनस्ति । क्रथकः--घातकः । क्रथनम् , क्रथनीयम्--द्वौ हिंसायाम् ।

टिप्पणी


१. कातन्त्रे 'असर्वोपयोगे' इति पाठः । अयमेव च शुद्धः पाठः ।


219
२९६. श्रथ बन्धने--श्राथयति--बध्नाति । श्रथकः--बन्धकः । श्रथनम्, श्रथनीयम्--द्वौ बन्धने ।
२९७. चीक सीक आमर्षणे--विमर्श । चीकयति--विचारयति । सीकयति--विचारयति ! चीका, सीका--द्वौ मूल्ये (?)।
२९८. आङः परः सदिर्गत्यर्थ--आङ् परः सदधातुर्गत्यर्थे [प्रयुज्यते] । आसादयति--आगच्छति । आसादनम्--आगमनम् । आसादी--मृत्युदेव्याः पूजकः ।
२९९. जुष परितर्के--विवेके । जोषयति--विवेचयति । जोट् , जोड् , जोषकः--त्रयो विवेकिनि । जोषणम् , जोषणीयम् , जोष्यम्--त्रयो विवेचने ।
३००. श्रन्थ ग्रन्थ सन्दर्भ--मेलने (?)। श्रन्थयति--मेलयति । श्रन्थः, श्रन्थकः द्वौ मेलके । श्रन्थनम् , श्रन्थनीयम्--द्वौ मेलने । ग्रन्थयति--अतिहसति (?) । ग्रन्थन् , ग्रन्थकः-- द्वौ अतिहासके । ग्रन्थः, ग्रन्थनम् , ग्रन्थनीयम्--त्रयोऽतिहासे।
३०१. आपृ लम्भने--अवलम्बने । आपयति--अवलम्बयति । आपन् , आपकः-- द्वौ अवलम्बिनि । आपनम् , आपनीयम्--दौ अवलम्बने ।
३०२. तनु शब्दोपकरणयोः--शब्दे उपकरणे च । तानयति--शब्दयति । तानन् , तानकः, तान्--त्रयः शब्दके । तानम्--रोगगतिः ( रोगविशेषः) । तानकम्--शास्त्रसाधकसन्धानम् (?)।
३०३. वच सन्देशे--साधुवाक्ये । वाचयति--साधु वदति । वाचन् , वाचकः द्वौ साधुवदितरि । वचनम् , वाच्यम् , वाचनीयम्--त्रयः साधुवाक्ये ।
३०४. भू प्राप्तावात्मनेपदी--भू धातुर्गत्यर्थे आत्मनेपदी भवति । इनानुबन्धवत् (?, इन् णानुबन्धवत् )--इन् प्रत्ययः णकारानुबन्धवद् भवति (णकारानुबन्धकार्यं लभत इत्यर्थः) । वृद्धिरादौ सणे--धातोरादिभूतानां नामिसंज्ञकानां1 स्वरणां वृद्धिर्भवति सणे = णानुबन्धे प्रत्यये परतः । भावयते--गच्छति । भावनम् , भावनीयम्--गतिः।
३०५, मान पूजायाम--मानयति--पूज्यो भवति ? | मान्यः--पूज्यः ।

टिप्पणी


१. इह सूत्रे 'नामि' पदं कुतोऽनुवर्तत इति न ज्ञायते । नामिसंज्ञा अकारवर्जितानां स्वराणां भवति (द्र० 'स्वरोऽवर्णवर्जो नामी' कातन्त्र १।१।७) तथा सति पाचयतीत्यादिषु अकारस्य वृद्धिर्न प्राप्नोति ।


220
३०६. गर्ह निन्दायाम्--गर्हयति--निन्दयति । गर्हन् , गर्हकः -- द्वौ निन्दके । गर्हणम् , गर्हणीयम्--द्वौ निन्दायाम् ।
३०७. छदी (?, छृदी) सन्दीपे--कथने (?) । छर्दयति--उद्गिरति । छर्दकः--उद्गारकः । छर्दिः, छर्दनम्--द्वौ उद्गारे ।।
३०८. दॄ भये--दारयति--भापयति । दारकः--एतन्नामा शिवाचार्यः । दारुणम्--भयम् । दारुः--वृक्षः । दाराः पुंसि भूम्नि1--दारशब्दः पुँल्लिङ्गे बहुवचने प्रयुज्यते । दाराः--पत्नयः । देवदारुः--एतन्नामा वृक्षविशेषः।
३०९. दृभ सन्दर्भे----संमिश्रणे । दर्भयति--मिश्रयति । दर्भकः--मिश्रकः । दर्भः--बर्हिः । दर्भळम्--दर्भल इत्येव (?)। दर्भणम् , दर्भणीयम्--द्वौ मिश्रणे ।
३१०. मार्ग अन्वेषणे--गवेषणे । मार्गयति--अन्वेषयति । मार्गन् , मार्गी, मार्गकः--अन्वेषकः । मार्गणम्--इषुः । मार्गः--अश्वा ।
३११. कठि शोके--दुःखे। कण्ठयति--दुःखितो भवति । कण्ठीरवः--दुःखी । कण्ठः--गलम् । ३१२. मृजू शौचालङ्कारयोः--शोधनेऽलङ्करणे च । मार्जयति--शोधयति । मार्जन् , मार्जकः -- द्वौ शोधके । मार्जनम् , मार्जनीयम्--द्वौ स्वच्छतायाम् ।
३१३. धृष प्रसहने--हसने । धर्षयति--स्मयते। धर्षन् , धर्षकः द्वौ स्मायके । धृष्टम् , धृष्टिः, धर्षणम् , धर्षणीयम् --चत्वारः स्मयने ।
३१४. मृष तितिक्षायाम्--सहने । मर्षयति--सहते। मर्षन् , मर्षकः, मृष्टः, मृष्टवान्--चत्वारः सोढरि । मर्षणम् , मर्षणीयम्--द्वौ सहने ।
३१५. तप दाहे--तृषायाम् । तापयति--तर्षयति । तपन् , तापकः --द्वौ तर्षके । तापः, सन्तापः--द्वौ तृषायाम् । तापिनी--नदी। आतपम्--धूपः। आतपत्रम्--छत्रम् ।
३१६. वद भाषणे----कथने । वादयति--कथयति । वादयन् , वादी, वादकः--वक्ता । वादः, वादनम् , वादनीयम्--वचने । वाद्यम्--संगीतसाधनम् ।
३१७. अर्च पूजायाम्--अर्चयति--पूजयति । अर्चः, अर्चकः द्वौ पूजके । अर्चनम् , अर्चनीयम्--द्वौ पूजने ।

टिप्पणी


१. एतत्सूत्रं 'दॄ भयै' (१।६१३) इत्यत्राप्युद्धृत्य व्याख्यायते, तत्रास्माकीना टिप्पणी द्रष्टव्या ( पृष्ठ १०२, टि०१)।


221
३१८. अर्द हिंसायाम्--जनान् अर्दयति = मनुष्यान् हिनस्ति जनार्दनः--कालाग्निः, रुद्रः । अर्दनम् अर्दनीयम्--द्वौ हिंसायाम् ।
३१९. शुन्ध शुद्धौ--शुन्धयति--शुद्धिं करोति । शुन्धन् , शुन्धकः --द्वौ शोधके । शुन्धनम् , शुन्धनीयम्--द्वौ शोधने । शुन्धन्तां पितरः--शोधकानां
पूर्वजाः ।2
३२०. वृञ् आवरणे--आच्छादने । वारयति--आवृणोति (घेरता है )। वारम्--दिनम् । वारणः--हस्ती। वरुणा--वरुणा ( एतन्नाम्नी नदी ? )। वार्, वारि--द्वौ जले । वारुणी--मद्यम्, वरुणपाशा ।
३२१. धूञ् कम्पने–धावयति--कम्पते। धावन् , धावकः--द्वौ कम्पके । धावनम् , धावनीयम्--द्वौ कम्पने ।।
३२२. प्रीञ् तर्पणे--तृप्तौ । प्रापयति--तर्पयति । प्रायन् , प्रापकः --द्वौ तर्पके । प्रापः, प्रापणम् , प्रापणीयम्--त्रयस्तर्पणे । प्रायशः--आधिक्येन ।

[इति इनविकरणश्चुरादिः समाप्तः ]

टिप्पणी


१. आप० श्रौत १।७।१३॥
२. कर्नाटकवृत्तिकारस्यार्थश्चिन्त्यः । शुन्धन्तामिति तत्र क्रियापदम् । तेन 'पितरः पूर्वजाः शोधयन्तु' इत्यभिप्रायोऽस्य मन्त्रस्य ।