काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः/प्रथमाधिकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search

काव्यालंकारसूत्रवृत्तिः ।। कामधेनुसहिता ।।

प्रथममधिकरणम् ।।

प्रणम्य परमं ज्योतिर्वानेन कविप्रिया । काव्यालंकारसूत्राणां स्वेषां वृत्तिर्विधीयते ।।

कल्याणानि करोतु नः सा भगवन्क्रीडड्डत्ध्वराहाकृतिर्देष्ट्राग्रेण नवप्ररोहपुलकां देवीं दरामुद्वहन् ।

यस्याङ्गेषु वहन्ति लोमविवरालग्ना महाम्भोधयः कान्तास्पर्शसुखादिव प्रकटितां स्वेदोदबिन्दुश्रियम् ।। 1 ।।

दरोन्मीलत्फालद्युतिमदमृतस्यन्दिशुभिकं भ्रमन्मीनोष्णीषं पदसरणिपारीणवलयम ।

विरजध्दंभावव्यत्करितपुंभावसुभगं पुरस्तादाविः स्ताभ्दुवनपितरौ तन्मम महः ।। 2 ।।

औंकारमणिघण्टानुरणन्निगमबृंहितम् । चित्ते श्रृङ्खलितं भक्त्या चिन्तेय चिन्मयं गजम् ।।3 ।।

करुणामसूणालोकप्रवणा शरणार्थिषु । प्रगुणाभरणा वाणी स्मरणानुगुणास्तु मे ।। 4 ।।

उन्मीलत्प्रतिभावनकन्दमुदयत्संदर्भनालं लसच्छलेषाद्याकुलशब्दपत्रमतुलं बन्धारविन्दं सदा ।

अध्यासीनमलंक्रियापरिलसद्गन्धं वचोदैवतं वन्देरीतिविकासमाशु विगलन्माधुर्यपुष्पासवम् ।।5 ।।

नमस्कुर्वे खर्वेतरविविधविद्याविलसितान्पवाचः प्राचो हं प्रथितयशसो भामहमुखान् ।

कृता यैरर्थानां कृतिषु म्यचर्चा सदसतां प्रभवाभिव्यकिं्त प्रजनयति भसामधिपतेः ।। 6 ।।

पावनी वामनस्येयं पदोन्नतिररिष्कृता । गम्भीरा राजते वृत्तिर्गङ्गेव कविहर्षिणी ।।7 ।।

प्रबन्धं तालानां भवनुतिमिषेणातनुत यः शिवाक्लृप्ताकारा नटनकरणानामपि भिदाः ।

स वृत्तेव्र्याख्यानं सरलरचनं वामनकृतेर्विधत्ते गोपेन्द्रत्रिपुरहरभूपालतिलकः ।। 8 ।।

पावनपदविन्यासा समग्ररसदोहशालिनी भजताम् । घटयति कामितमर्थं काव्यालंकारकामधेनुरियम् ।। 9।।

यत्रोपयुज्यते यावत्तावत्तत्र निरुप्यते । प्रसङ्गानुप्रसङ्गेन नात्र किंचित्प्रपञ्च्यते ।। 10 ।।

अभ्यर्थके मय्यनुकम्पया वा साहित्यसर्वस्वसमीहया वा । मदीयमार्या मनसा निबन्धममुं परीङध्वममत्सरेण ।। 11 ।।

अध्याये प्रथमे काव्यप्रयोजमनपरिक्षणम् । अधिकारिविचारश्च द्वितीये रीतिनिश्चयः ।। 12।।

काव्याङ्गकाव्भेदानां तृतीये प्रतिपादनम् । तुर्ये पदपदार्थानां दोषतत्वविवेतचनम् ।। 13 ।।

वाक्यवाक्यार्थदोषाणां पञ्चमे तु प्रपञ्चनम् । गुणालंकारभेदस्तु षष्टे शब्दगुणास्तथा ।। 14 ।।

सप्तमे र्थगुणाः शब्दालंकाराः पुमरष्टमे । उपमा मवमे तस्याः प्रपञ्चो दशमे भवेत् ।। 15 ।।

काव्यस्यैकादशे संवलिध्दादशे शब्दशोधानम् । इत्येष द्वादशाध्यायीप्रमेयाणामनुक्रमः ।। 16 ।।

अथ ग्रन्थकारः स्वकर्तुकाणि सूत्राणि व्याकर्तुकामः प्रारम्भ एव प्राचीनाचार्यपरंपरासमाचारपरिप्राप्तकर्तव्यभावोतिकर्तव्यताविशेषरूपमङ्गलानुष्टानेन स्वयं प्रारिप्सितग्रन्थपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहप्रितहननुप्रगल्भसमग्रदेवतानुग्रहसंपन्नोपि व्याख्यातृश्रोतृ़णामविघ्नव्याख्यानश्रणलाभाया ग्रन्थदौ तन्मङ्गलनिबन्धनपूर्वकं तत्प्रवृतिसिध्दये विषयप्रयोजनादि निर्दिश्यदर्शयन्नाद्येन पद्येन कर्तव्यं प्रतिजानते-प्रणम्येति । भक्तिश्रध्दातिशयलक्षणः प्रर्कषः पर्शब्देनात्र प्रकाश्यते , ताद्गणव हि मङ्गलमन्तरायसंतानषाÏन्त संतनोति । अन्यथा कृतायामपि नतौ प्रारिप्सितग्रन्थपरिसमाÏप्त न संपादयेत् ,किरणावल्यादौ तथा दर्शनात् । अथ कथमिह नमि #ः सकर्मकः स्यात् , प्रढद्धठ्ठड़14;वीभाववृत्तेरस्याकर्मकत्वात् नमन्ति शाखानवमञजरीभिः इत्यादिपर्गदर्शनाञ्च । न चायमुपसर्गवशातेसकर्मकः प्रशब्दस्य प्रकर्षमात्रार्थत्वेन कर्मसंबन्धोपपादकत्वायोगात् नमामि देवम् इत्यादावुपसर्गस्याप्यभावात् । न चायमन्तर्भावितण्यर्थः अनौचित्यप्रसङ्ग#ादिति तदेतत्पाणिनिफणितिपारायणपरिणतान्तः करणानामस्माकं चेतलि चोद्यं न चातुरीमाचरति । तथा हि। यथा जयतिरकर्मकः प्रकर्षेण वर्तने, पराजये तु सकर्मकः तथा नमिधातुः क्विचित्पढद्धठ्ठड़14;वीभावार्थः, क्वचिन्नमस्कारार्तश्च भवति । तत्र यदाप्रढद्धठ्ठड़14;वीभावमात्रवीवक्षया प्रयुज्यते , तदामनीमेषो कर्मकः । यदा नमस्कारर्थविवक्षयाप्रयुज्यते, तदा सकर्मक इतिविवेकः । यद्येवं तर्हि देवं प्रणतः इत्यत्र कर्तरिक्तप्रत्ययो न सिध्येत् , सकर्माकर्मकाध्दातोः क्तो भवेतेकर्मभवायोः इति सकर्मकाध्दातोः कर्मणि क्तविधानात् गत्यर्थाकर्मकादिषु नमेः परिगणनाभवाञ्चेत्यपि न चोदनीयम् । व्यवसितादि षु क्तः कर्तरि चकारात् इतीहैव वक्ष्यमाणेन सूत्रेण नमे रपि कर्तरि क्तप्रत्ययसंभा-वात् । व्यवसितः प्रितपन्न इत्यादिषु गत्यर्थादिसूत्रैण चकारदनुक्तसमुञ्चयार्थात्कर्तरि क्तप्रत्ययो भवतीति हि तस्य सूत्रस्यार्थ। परमं परिदृश्यामतानज्योतिः परिपाटीमतिवर्तमानम् ज्योतिः चिन्मयम् । परमं ज्योतिः प्रमम्य इत्यत्र वाक्यार्थसामथ्रयेन ,निखिलनिगमनीजराजिराजहंसस्य परमहंसभावनपदवीयसः परस्य ब्रह्मणो यत्पारमार्थिकं रूपम् ,तदेव प्रणिधानबलेन प्रमुषितविषयान्तरप्रसङ्गे प्रहर्षतरङ्गि तेन्तः करणे पत्यक्षतो नुभवन्प्रणामप्रचयेन पर्यचरदिति प्रतीतेः परमयोगित्वमस्य प्रबन्धुः प्रत्याय्यते । वामनेनेति । निजनामर्निर्देशो यशःप्रकाशनाय । कवीन प्रीणातीति कविप्रीः अन्येभ्यो पि दृश्यते इति क्विप्प्रत्ययः । तेन कविप्रियेति तृतीयान्तं कर्तृविशेषणम् , कवीनां प्रियेति प्रथमान्तं वा कर्मविशेषणम् । काव्येति । कवनीयकाव्यम् इति काव्यं ग्राह्यमलंकारात् ।। 1 ।। काव्यं खलु ग्राह्यमुपादेयं भवति, अलंकारात् । काव्यंशब्दो यं गुणालंकारसंस्कृतयोः शब्दर्थयोर्वर्तते । भक्त्या तु शब्दार्थमात्रवचनो त्र गृह्यते ।। लोचनकारः । कवयति इति कविः तस्यकर्म काव्यम् इति विद्याधरः । कौतिशब्दायते विमृशति रसभावान् इतिकविः तस्य कर्म काव्यम् इति भट्टगोपामः । लोतोच्चकलर्णनानिपुणकविकर्म काव्यम् इति काव्यप्रकाशकारः । भाममहो पि प्रज्ञानिनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाज्जीवेद्वर्णनानिपुणः कविः ।। तस्य क4म स्मृतं काव्यम् इति । तदेतत्काव्यशब्दव्युत्पत्तिकथनम् । चारुताशालिशब्दार्थयुगलं काव्यमिति रूढो र्थः । तस्यअलंकारः अलंकृतिः । भावे घञ् । दोषहानगुणालंकारादानाभ्यामाधीयमानं सौन्दर्यमिति यावत् । तत्प्रतिपादकानिसूत्राणि ,तेषाम् । सूत्रलक्षणमुक्तं भामहेन , अल्पाक्षारमसं दिग्धं सारवद्विश्चतो मुखम् । सम्यक्संसूचितार्थं यत्तत्सूत्रम्क् कथ्यते ।। इति । स्वेषामिति । सूत्रवृत्त्योरेककर्तृकत्वप्रतिपादनेन सत्रकाराभिमतार्थप्रतिपादिनी वृत्तिः वृत्तेरन्यकर्तृकत्वशङ्काविरहश्चेत्युभयमप्युपक्षिप्यते । वर्तते अस्यां सूत्राणां यथावत्पदपदार्थविवेक इति वृत्तिः । अधिकरणार्थे क्तिन्प्रत्ययः । वत्तिल- क्षाणामुक्त भामहेन सूत्रमात्रस्य या व्याख्या सा वृत्तिरभिधीयते । इति काव्यालं कारसूत्राणां वृत्तिः इत्यनेन विषयसंबनधौ सूचितौ । कविप्रिया इत्यनेन अधिकारिप्रयोजने सीचिते । तदेतदनुबन्धचतुष्टयमुतेतरत्र विस्तरेण प्रतिपादयिष्यते । ननुकाव्यस्य कः पुनरलंकारादुपकारः येन प्रतिज्ञायमानं तत्सूत्रवृत्तिविधानं सफलं स्यादिति शङ्कामपनेतुमलंकारप्रयोजनप्रतिपादकमादिमं सूत्रमुपादत्ते -काव्यमिति । खलु शब्दो वाक्यासंकारे । यद्वक्ष्यति वाक्यासंकारप्रयोजनं तु नानर्थकम् , यथा-खलु हिहन्त इति । काव्य#ोपदाननिदानत्वादलंकारो भवत्युपयोगीतिभावः । ननु काव्यमेव तावदुपादेयं चेत्, अलंकारस्यापि तदुपादानहेतुत्वमुपपद्येत । तत्सूत्रवृत्तिविधानं च सफलं स्यात् । तस्योपादेयतवमेव कुतइति चेत् - अत्र वक्तव्यम् यत्काव्मुपादेयं न भवतीति , तत्कस्यहेतोः न तावदृषिप्रणीतत्वाभावादनुपादेयत्वम् वाल्मीकिबोधायनप्रभृतिभिरपि महर्षिभिः काव्यस्य प्रणयनात् । नापि पुरुषप्रणीतत्वात् ,शास्त्रनिबन्धनानामपि तथात्वेनानुपदेयत्वप्रसङ्गात् । न च काव्यत्वात्, रामायणादावनैकान्तिकत्वात् । तस्यापि पक्षसमत#्वशङ्कायामेकैकाक्षरोञ्चारणे पि फलविशेषवचनविरोधः । नापि दृष्टप्रयोजनाभावात् ,दृष्टप्रयोचजनानां बहूनामुपदिष्टत्वात् । तथा चोक्तं काव्यप्रकाशे ,काव्यं यशसे र्थकृते व्यवहरविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंनिततयोपदेशयुजे ।। इति । नाप्यदृष्टप्रयोजनाभावात् , स्वर्गापरर्गलक्षणस्यादृष्टप्रयोजनस्य शिष्टैरनुशिष्टत्वात्, यदाहः , धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर#्तिं प्रीतिंच साधुकाव्यनिषेवणम् ।। इति । काव्यादर्शे पि चतुर्वर्गफलायत्तं चतुरोदात्तनायकम् ।इति । इहापि काव्यं सत् ... इति वक्ष्यमाणत्वाच्च । अथ मन्यसे काव्यालापंश्च वर्जयेत् इति निषेधवचनादनुपादेयत्वं काव्यस्यति , तदप्यनालोचितचतुरम् । काव्यलापनिषेधवचनस्यासत्काव्यविषयत्वेन व्यास्थापनात् । यदहविद्यानाथः यत्र पुनरुत्तमपुरुषेचरितं न निबध्यते तत्काव्यं परित्याज्यमेव ष तद्विषया चस्मृतिःकाव्यालापांश्च वर्जयेदिति इति । न केवलं विषयवैगुण्येनासाधुत्वं काव्यस्य, किंतु प्रबन्ध प्रतिभादौर्बल्यकुल्याब्यामपि भवति । तदुक्तं काव्यदर्शे ,तदल्पमपि नोपेक्ष्यं काव्ये दुष्यं कथंचन । स्याद्वपुः सुदरमपिश्चित्रेणैकेन दुर्भगम् । इति कविगजाङ्कुशे,शुनीदुग्धमिव त्याज्यं पद्यं शूद्रकृतं बुधैः । गवामिव पयोग्रह्यं काव्यं विप्रेण निर्मितम् ।। इति। उत्तमपुरुषकथाकथनं तु काव्यं ग्राह्यमेव ।तदुक्तंभमाहेन , उपश्लोक्यस्यमाहात्म्यादुज्जवलाः काव्यसंपदः । इति । भट्टोभ्दटेनापि फणितम् , गुणालंकारचारुत्वयुक्तमप्यधिकोज्ज्वलम् । काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः ।। इति । भोजराजेनापि कथितम्,कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति । नायको यदि वण्र्येत लोकोत्तरगुणोत्तरः ।. इति । किं बहुना । प्रतिपाद्यमहिन्मा प्रबन्धप्रशस्तिरितिशास्त्राणामपि समानमेतत् । तथा हि । न्यायवैशेषिकशास्त्रयोरीश्चप्रतिष्टापकतया पूर्वोत्तरमीमांसयोर्धर्मब्रह्यप्रतिपादकतया च महनीयत्वम् । तत्त्व -चिन्यां तु शास्त्राणामपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्यपनिषत् । यदाहः स्वादुकाव्यरसोन्मिश्रंशास्त्रमप्युपयुञ्ञते । प्रथमालीढमझवः पिबन्ति कटु भेषजम् ।।इति । किंच शास्त्रकाव्ययोरियान्विशेषः , यत्प्रभुसंमिततया दुर्लभो नुप्रवेशः शस्त्रे, कान्तासंमिततया तु सुलभो नुप्रवेशः काव्य इति । यदाहुः कटुकौषदवच्छास्त्र मिवद्याव्याधिनाशनम् । आढद्धठ्ठड़14;लाद्यमृतवत्काव्मविवेकगदापहम् ।। इति । साहित्यचूडड्डत्ध्;ामणावप्युक्तम् , तदिदं पुण्ड्रेड्डत्ध्;क्षुभक्षणाद्वेतनवित्तलाभः यत्काव्यश्रवणाद्वयुत्पतिसिध्दि इति । तस्मादृष्टादृष्टानेकोपकारकारितया काव्यमुपादातव्यम् ,ततश्चसफलो यमलंकारसू सूत्रवृत्तिविधानयत्न इति सिध्दम् । अथ काव्यशब्दस्यानेकार्थत्वेन विप्रतिपत्तौ स्वसिध्दान्तसिध्दं मुख्यार्थ तावत्प्रख्ययापयति-- काव्यशब्दे यमिति । लिलक्षयिषितगुणासंकारसंस्कृतशब्दार्थयुगलवाची नपुंसकलिङ्गः काव्यशब्द इत्यर्थः । गुणालंकारसस्कृतयोरिति । गुणाः ओजःप्रमुखैः अलंकारैः यमकोपमादिभिश्च संस्कृतयोः अलंकृतयोरित्यर्थः । अत्र शब्दार्थौ द्वौ सहितावेवकाव्यमिति काव्यपदार्थकथनात् , कमनीयताशली शब्द एव काव्यम् , अखवा अर्थ एवेति पृकक्पक्षद्वयं प्रत्यक्षेपिः यतो द्वयोः संभीयाढद्धठ्ठड़14;लादनिबन्धनत्वमिति । नाप्यर्थस्य इति । यद्यपि काव्यपदं गुणालंकारसंस्कृतशब्दार्थयुगलं स्वभावत अत्रेदमवधेयम् । काव्यमुञ्चेः पठ्यते,काव्यादर्थौ वगम्यते , काव्यं श्रुतमर्थौ न ज्ञात इत्यादिविश्वजनीनव्यवहारतः शब्दविशेषस्यैव काव्यपदार्थत्वम् । तथा च रमणीयार्थप्रतिपादकः शब्दः काव्यम् इति तल्लक्षणं युक्तमिति पण्डिड्डत्ध्;तराजः । वाक्यं रसात्मकं काव्यं इति लक्षयन्दर्पणकृदप्येनमेव पक्षं कटाक्षयति । प्राचीनपक्षपातिनस्तु,अर्थस्यापि शब्दद्वारा प्रतीतिविषयत्वान्न पूर्वौक्तव्यवहारानुपपत्तिः । इत्थमेव हि आत्मश्रवणवाक्यं समर्थितं सर्वैः । इदं च काव्यत्वं न व्यासज्यवृत्ति, एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्याप्यापत्तेः । अर्थज्ञाने पि शव्दावलीमात्रे काव्यत्वानुभवानुपपत्तेश्च । व्यासज्यवृत्तिधर्मप्रकारकनिश्चयस्य यावदाश्रविषयकत्वनियमात् । नापि प्रत्येकपर्याप्तम् एकस्मिन् काव्यद्वयव्यवहारापत्तेः । शब्दानुपनिबध्दार्थतदनिबन्धकशब्दयोरतिव्यप्तेश्च । परं तु परस्परविशिष्टयोः शब्दार्थयोरेव काव्यत्वम् । तत्र च क्वचिच्छब्दविशिष्टे र्थः क्वचित्त्वर्थविशिष्टः शब्दः काव्यमिति बोध्यम् । न त्वेकश्लोक एव द्विधा काव्यत्वम्,एकधा काव्यत्वेनैव व्यवहारोपपत्तेः। यत्रार्थी व्यञ्जना, तदभावे प्यर्थतलंकारमात्रं वाः तत्रार्थौ विशेष्यः । यत्र तु शाब्दी व्यञ्जना, तदभावेपि शब्दालंकारमात्र वातत्र शब्दो विशेष्य इत्येवं विनिगमनावधेया । उभयालंकारसत्त्वे तु तत्तञ्चमत्कारतातम्यं विनिगमकमवसेयमिति प्राहुः। को सावलंकार इत्यत आह-- सौन्दर्यमलंकारः ।। 2 ।। अलंकृतिरलंकारः । करणव्युत्पत्त्या पुनरलंकारशब्दो यमुपमादिषु वर्तते । एवाचष्टे, तथाप्यस्मिन्सूत्रे मुख्यार्थस्यानुपयोगलक्षणं बाधं पश्यन् शब्दार्थयुगलमात्र तदुपचर्यत इत्याह --भक्त्येति । भक्तया उपचारेण । गुणालंकारसंस्कृतत्वस्य पृथक्करणं मात्रचो र्थः । ननु मुख्यार्थबाधे तद्योगे रूढितो थ प्रयोजनात् । अन्यो र्थो लक्ष्यते यत्स#ा लक्षणारोपिता क्रिया ।। इत्यक्तरीतेया मुख्यार्थबाधादौ सत्येवोपचारो वक्तव्यः । तथा च गुरुरभिवाद्यो गुरुत्वात् इत्यत्र यथा गुरुशब्दपरिगृहीतस्यैव गुरुत्वस्य तदभिवादनहेतुत्वं दृष्टम् तथैव एत्रापि अलंकारस्य काव्यग्रहणहेतुत्वमुपपद्यत इति कथं मुख्यार्थबाधः । चारुताशालिशब्दार्थयोः शब्दार्थमात्रस्य च वस्तुत एकत्वाभ्देदनिबन्धनो दुर्घटः संबन्धः । काव्यं ग्राह्यमलंकारात् इति भेदनिर्देशेनैव गुणालंकारवैशिष्टयं तद्वयुत्पत्तिरूपं प्रयोजनं च संभवतीति कथमुपचारः अत्रोच्यते-- यथा गुरुत्वादभिवाद्यः इत्युक्ते गम्यत एव गुरुरिति, तथापि गुरुरित्युच्यमानमतिरिच्यतेः एवमिहापि अलंकारढद्धठ्ठड़14;वाह्यम् इत्युक्ते काव्यमिति गम्यत एव ,तथापि काव्यमित्युच्यमानमतिरिच्यत इति पुनरुक्तप्रायत्वादनुपयुक्तमिति मुख्यार्थभङ्गः । न च अनुपयुक्तत्वे प्यनुपपत्तेरभावात्कथं मुख्यार्थाबाध इति चोदनीयम् । यतो योग्यताविरहबत् आकाक्ष्ङावैकल्यम् , अनुपपत्तौ तु योग्यतावैकल्पमित्यवगन्तव्यम् । चारुताशालिशब्दार्थयोः शब्दार्थमात्रस्य च गुणभेदाभ्देदे सति सादृस्यलक्षणः संबन्धः । गुरुपदोपलक्षिते पुंसि हितानुशासनकौशलादिप्रतिपत्तिवत्, शब्दार्थयोर्गुणालंकारवैशिष्टयप्रतिपत्तिः प्रयोजनं च संभवतीत्युपपन्न एवोपचार इत्यलमतिविस्तरेण । अलंकारशब्दो यं किं भावसाधनः ,उत करणसाधन इति संदेहात्पृच्छति--- को साविति । तत्रोत्तरं वक्तुमुत्तरसूत्रमवतारयति--अत आहोति । वृत्तिकारदशातः सूत्रकारदशान्यैवेति कर्तृभेदमाश्रित्योक्तम् आह इति । अत्र भावव्युत्पत्तेर्विव क्षितत्वादलंकारशब्दो भावार्थमाचष्ट इत्याह--अलंकृतिरलंकार इति । अलंकारशब्दस्य करणव्युत्पत्तिपक्षे तु न गुणानं काव्यग्रहणहेतुत्वमिति, युवतेरिव रूपमङ्ग काव्यं स्वदते शुध्दगुणम् इत्यादि वक्ष्यमाणं नोपपद्यत इत्यर्थासंगतिः , न क्तल्युट्तुमुन्खलर्थैषु वासरूपविधिरिष्यते इति करणे ल्युट एव प्रप्तेः शब्दासंगतिश्चेत्याशयः।.... ननु अलंकारशब्दस्य कटकमुकुटादाविव यमकोपमादिष्वविगीतशिष्टप्रयोगदर्शनात् अध्यायन्याय इत्यदिसूत्रे चकारादनुक्तसमुञ्चयार्थाद्वा कृत्यल्युटो बहुलम् इति बहुलग्रहणाद्वा करणसाधनो प्यलंकारशब्दः संगच्छत इति चेन्मतम्, तत्तु नानिष्टमित्यभ्युपगम्यानुवदति--- करणव्यत्पत्त्या पुनरिति । कथंचित्कल्पितायामपि करणव्युत्पत्तौ न गुणानां काव्ग्रग्रहणहेतुत्वमिति स दोषस्तदवस्थ इत्याशायः । ननु करणसाधनो यमलंकारशब्दो यमकोपमादिषु वर्तमानो गुणानपि गृण्हाति, सौन्दर्यहेतुत्वाविशेषादुभयेषामिति -- तदेतदविचारितरमणीयम् । न हि व्युत्पत्तिरस्तीति शब्दः सर्वत्र प्रयुक्तुं शक्यते,किंतु शिष्टप्रयोगे दृष्टे व्युत्पत्तिरन्विष्यते, अन्यथ पङ्कजादयः शब्दाः पद्मादिष्विव कुमुदादिषु प्रयुजयेरन्, पङ्कजाननाविशेषादितिस्यादतिप्रसङ्गः । तस्मात्पद्मादिषु पङ्कजादिशब्दवत् , अलंकारशब्दः कटकमुकुटादिष्विव यमकोपमादिषु योगरूढ इत्यवगन्व्यम् । एवं चसति यमकोपमादेरलंकामित्यापद्येत । न चैवं वक्तुं युक्तम्, एलंकारविरहे पि शुध्दगुणमेव काव्यास्वाद्यमिति वक्ष्यमाणत्वात् । न केवलमियमस्य ग्रन्थकृतः प्रक्रिया, अन्यैरप्यालंकारिकैरनलंकारस्य शब्दार्थयुगलस्य सगुणस्य काव्यत्वे लक्षणोदाहरणयोर्दर्शितत्वात् । तथा चोक्तं काव्यप्रकाशे, तददोषौ शब्दार्थौसगुणावनलंकृती पुनः क्वापि इति । अत्र व्याचष्ट भट्टगोपालः , निर्दोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यमिति घण्टापथः । किंतु सर्ववाक्यं सावधारणम् इति युक्तया यथा दोषशून्यावेव गुणवन्ताव#ेव शब्दार्थौ काव्यमित्यवधारणम्, तथा सालंकारावेवेति न पार्यते नियन्तुम् । वयं हि काव्यशोभासंभावनया स्वैरमसंकारान् सहामह्, अलंकानैयत्यं तु न सहामहे । उक्तं हि , दोषहानं गुणादानं स दोषगुणालंकारहानादानाभ्याम् ।।3।। स खल्वलंकारो दोषहानात्, गुणालंकारादानाञ्च संपाद्यः कवेः । कर्तव्यं नियमात्कृतौ । कामाचारः पुनः प्रोक्तोऽलंकारेषु । मनीषिभिः ।। इति । उदाहरणं तुयः कौमारहरः स एवहिवरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । साचैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौरेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।। इति । अत्र स्फुटो न कश्चिदलंकारः । काशकुशावलंम्भनाद्विशेषोक्तिविभावनयोरन्यतरालंकारोभ्दावनायामलंकारनैयत्यपक्षनिर्वाह इत्यलं दूराभिनिवेशया दुराशया, कविसंरम्भगोचराणामलंकारणां न कस्यचिदुपलम्भ इति । तथापि न काव्यत्वभङ्गः । विशेषोक्तिविभावनयोः स्वस्वविरुध्दार्थमुखेन कथंचिदुभ्दावनेऽपि न स्फुटत्वम्, कण्ठोक्त्या विषेध्ययोःकार्यकारणयोर्भावान्तरमुखेनाभावाभिधानात् । अथ साधकबाधकप्रमाणाभावाद्वयोः संदेहरूपसंकर एवेति, तत्राप्यस्फुटतानुवृत्तिर्दुष्परिहरैवेत्यलं प्रशक्तानुप्रसक्तार्थप्रपञ्चनेन । यद्यपि काव्यं ग्राह्यं सौन्द्रर्यात् तद्दोषगुणालंकारहानादानाभ्याम् इति विन्यासान्तरे लाघवलं भवति ।तथापि , योऽयमकालंकारः काव्यग्रहणहेतुत्वेन उपन्यस्यते, तद्वयुत्पादकत्वाच्छास्त्रमपि अलंकारनाभ्नाव्यपदिश्यत इति शास्त्रस्य अलंकारत्वेन प्रसिध्दिः प्रतिष्टिता स्यादिति सूचयितुमय#ं विन्यासः कृतः काव्यं ग्रह्यमलंकारात् इति । इत्थंमलंकारपदार्थ समथ्र्य तस्य कारणं वक्तुमुत्तरसूत्रमुपक्षिपति -- स दोषेति । प्रक्रान्तप्रसिध्दानुभूताद्यनेकार्थत्वात्तच्छब्दोऽत्र प्रक्रान्तार्थपरामर्शीत्याह ---स खल्विति । गुणाश्चालंकाराश्च गुणालंकारा इति प्रथमं समस्य, पश्चात् दोषाश्च ते दोषगुणालंकारहानादाने शास्त्रागदस्मात् । शास्त्रतो हि ज्ञात्वादोषाञ्चह्यात् , गुणालंकारवता काव्येन,येनैतदर्थोऽयं यत्न इत्यतट आह ---- काव्यं सद्दटष्ठाद्दष्टार्थं प्रीतिकीर्तिहेतुत्वात् ।।4।। गुणालंकारश्चेति द्वन्द्वः कर्तव्यः । हानं च आदानं च हानादाने । दोषगुणालंकाराणां हानादाने इति विग्रहः । ततश्च दोषाणां हानम् , गुणालंकाराणामादानमिति यथासंख्यं संबन्धः संपत्स्यते । इष्टानुवर्तनात्कुर्यात्प्रागनिष्टनिवर्तनम् । इति नीत्या गुणालंकारादानात् पूर्व दोषहानमेव कविना कर्तव्यमितिसूचयितुं दोषहानस्य प्रथमतो निर्देशः कृतः । गुणालंकारादानाञ्च इत्यत्रेदमनुसंधेयम् ---गुणविवेचानाधिकरणप्रमेयपर्यालोचनायां नित्यत्वानित्यत्वभेदेन गुणालंकारव्यवस्थामास्यमानेन ग्रन्थकृता, अत्र दोशहानवत् गुणादानवञ्चनालंकारादानं नियतम् किंतु गुणकृतशोभातिशयाधायकत्वसंभावनयैवेति विवक्षितम्--इति । एवं च सति सौन्दर्यमलंकारः इत्यत्रापि , यागुणैराधीयते शोभायश्चालंकारैस्तदतिशयः ,तदुभयमपि सौन्दर्यपर्यायेण अलंकारपदेन संगृहीतमितिव्याख्येयम् । अतो न पूर्वापरप्रमेयविरोध इति सर्वमनवद्यम् । कवेरिति । कृत्यानां कर्तरि वा इति षष्टी । ननु दोषहानगुणालंकारादाने किंनिबन्धने इति जिज्ञासमान प्रत्याह ---शास्त्रत इति । ननु सालंकारं काव्यं फलवञ्चेत् अलंकारस्य निरूपमाय शास्त्रारम्भउ#ुपपद्यते। अतस्तदुपपत्तये फलं वक्तव्यम् । किं पुनस्तत्फलमिति प्रश्नपूर्वकमुत्तरसूत्रमुपन्यस्यति----किं पुनरिति । सच्छब्दस्य विवक्षितमर्थमाह--- काव्यं सत् चारु दृष्टप्रयोजनम् , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् , कीर्तिहेतुत्वात् । अत्र श्लोकाः---- प्रतिष्टां काव्यबन्धस्य यशसः सरणिं विदुः । अकीर्तिवर्तनीं त्वेवं कुकवित्वविडड्डत्ध्;म्बनाम् ।। कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः । अकीर्तिं तु निरालोकनरकोद्देशदूतिकाम् ।। चार्विति । सालंकारतया सुन्दरमित्यर्थः । दृष्टादृष्टौ ए#ोहिकामुष्मिकौ अर्थौ यस्येति विग्रहः । अत्र यथासंख्यं संबन्धं दर्शयति ---दृष्टप्रयोजनमिति । अत्र प्रीतिशब्देन श्रवणसमनन्तरमेव राहृदयहृदयेसषु जायमाना या रसास्वादलक्षणा, या चपुनरिष्टप्राप्त्यनिष्टपरिहारनिबन्धना, सेयमुभयविधा प्रीतिर्विवक्षिता । तथा च सति, साक्षात्परंपरया चेहिकप्रीतेः साधनत्वात्कवायं दृष्टार्थमित्यर्थः । ननु कीर्ति रपि स्वर्गसाधनतया प्रयोजनमिति वक्तव्यम् । स्वर्गपदार्थोऽपि प्रीतिरेव । तथा च सति, प्रीतिहेतुत्वादित्युक्ते विवक्षितार्थसिध्देः किं हेत्वन्तरोपादानगौरवेणेति चेत् , स्वर्गपदास्पदम् ।। इत्युक्तलक्षणाया दृष्टप्रीतिविलक्षणाया अदृष्टप्रीतेः पृथङ्-- निरूपणीयत्वात्वकाव्यस्य तन्मूलतया लोकातिशयवत्त्वं प्रकटितमिति हेत्वन्तरमुपात्तमिति द्रष्टव्यम् । अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तोक्तिसंवादेन समर्थयते--- अत्र श्लोका इति । प्रतिष्टा सहृदायानुपञ्जकतया लोकोत्कर्षेणस्थितिः । सरणिः पध्दतिः । अकीर्तिवर्तमीम् इत्यत्र नञ् तद्विरोधिनमर्थमाचष्टे । यथा अनृताधर्माविद्यादयः ऋतधर्मविद्यादीनां प्रतिपक्षाःतथा अकीर्तिरपिकीर्तेर्विरोधिनी तस्या वर्तनी एकपदी । सरणिः पध्दति#ः पद्या वर्तन्येकपदीति च । इत्युभयत्राप्यमरः । आसंसारं यावन्न मोक्षः कीर्तिर्यावत्प्रसरणं वा । निरालोकः तेजोमात्रशून्यः तमोमय इति यावत् । मरकः दुर्गतिः । स्यान्नारकस्तु नरको दुर्गतिः स्त्रियम् । इत्यमरः तस्य उद्देशः प्रदेशः , तस्यदूतिका प्रापयित्रीति यावत् । प्रसाद्यः विशेषतचो विमर्शेन विशदीकर्तव्यः। तस्मात्कीर्तीमपादातुमकीर्तिं च ल्यपोहितुम् । काव्यालंकाशास्त्रार्थः प्रसाद्यः कविपुंगवैः ।। इति काव्यलंकारसूत्रवृत्तौ शारीरे प्रथमेऽधिकरणे प्रखमोऽध्यायः । अस्यालंकारशास्त्रस्य सौन्दर्र्यापरपर्याये अलंकारे परमप्रतिपाद्ये साक्षात्प्रतिपाद्यत्वेन दोषगुणालंकारा विषयाः ,हेयोपादेयताय तद्वयुत्पादनं प्रयोजनम्, तस्य च प्रयोजनं सत्काव्यकरणम्,तस्यच कीत्र्यादयः,तत्र कवीनां प्रीतिः । शास्त्रस्यविषयस्य च प्रतिपाद्यप्रत#िपादकभावः संबन्धः काव्यस्य कीत्र्यादेश्च कार्यकारँभाव इति प्रथमाध्यायप्रमेयसंग्रहः । शारीर इति । प्रथमं काव्यसरीरम्, तदनु दोषाः, गुणाः तदनन्तरमलंकारः, ततः शब्दप्रयोगशैलिति क्रमेण पञ्चाधिकरणानि । तत्र काव्यशरीरमधिकृत्य कृतमिति शारीरमधिकरणम् । अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्रमेयात्मनीत्यधिकरणं प्रमेयविरतिस्थानम् । अध्यायः अवान्तरप्रमेयविरामस्थानम् । प्रमेयविरतिस्थानमध्यायश्च प्रपाठकः । इति वैजयन्ती ।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्तिव्याख्यायां काव्यलंकारकामधेनौ शारीरे प्रथमेऽधिकरणे प्रथमोऽध्यायः।।


द्वितीयोऽध्यायः ।।


प्रयोजनस्थापना।अधिकारिनिरूपणार्थमाह-- अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ।।2।। इह खलु द्वयेकवयः संभवन्ति --अरोचकिनः , सतृणाभ्यवरहारिणश्चेति । अरोतकिसतृणभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः विवेकित्वमविवेकित्वं चेति ।

यदाह--- पूर्वे शिष्या विवेकित्वात् ।। 2 ।। पूर्वे खल्वरोचकिनः , शिष्याः शासनीयाः । विवेकित्वात् विवेचनशालत्वात् । नेतरे तद्विपर्ययात् ।।3 ।। इतरे सतृणाभ्यवहारिणाः न शिष्याः । तद्विपर्ययात् अविवचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् । नन्वेवं न शास्त्रं सर्वानपग्राहि स्यात् , को वा मन्यते । तदाह ---- न शास्त्रमद्रव्येष्वर्थवत् ।। 4 ।। न खलु शास्त्रं अद्रव्येषु अविवेकिषु अर्थवत् । निदर्शिनमाह --- न कतकं पङ्कप्रसादनाय ।।5 ।। नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति । अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह --- रीतिरात्मा काव्यस्य ।।6 ।। रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः । किं पुनरियं रीतिरित्यत्रह--- विशिष्टा पदरचना रीतिः ।।7।। विशेषवती पदानां रचना रीतिः । कोऽसौ विशेष इत्यत आह---- विशेषो गुणात्मा ।।8 ।। वक्ष्यमाणगुणरूपो विशेषः ।


सा त्रेधा वैदर्भी गौडड्डत्ध्;ीया पाञ्चली चेति ।। 9।। सा चेयं रीतिस्त्रिधा भिद्यते ---- वैदर्भी ,गौडड्डत्ध्;ीया,पाञ्चाली चेति । किं पुनर्देशवशद्रव्यवद्गुणोत्पत्तिः काव्यानाम् , येनायं देसविषेषव्यपदेशः। नैवम् । यदाह--- विदर्भादिषु दृष्टत्वात्तत्समाक्या ।। 10 ।। विदर्भगौडड्डत्ध्;पाञ्चलेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वाद्देशसमाक्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम्। तासां गुणभेदाभ्देदमाह ---- कमहग्रगुणोपेता वैदर्भी ।।11।। समग्रैः ओजःप्रसादप्रभृतिभिः गुणैः उपेता वैदर्भी नाम रीतिः । अत्र श्लोकः --- अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्भिता । विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ।।

तामेतामेवं कवयः स्तुववन्ति --- सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिस्रवति वाङ्मधु ।। उदाहरणम् --- गाहन्तां महिषा निपानसलिलं श्रृङ्गैर्मुबहुस्ताडिड्डत्ध्;तं छायाबध्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।

विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्राÏन्त लभतामिदं च शिथिलज्याबन्धमस्मध्दनुः ।। ओजः कान्तिमती गौडड्डत्ध्;ीया ।।12।। ओजः कान्तिश्च विद्येते यस्यां सा ओजःकान्तिमती गौडड्डत्ध्;ीया नामरीतिः । माधुर्यसौकुमार्यरभावात् समासवहुला अत्युलल्बणपदा च । अत्र श्लोकः--- समस्तात्युभ्दटपदामोजःकान्तिगुणान्विताम् । गौडड्डत्ध्;ीयामपि गायन्ति रीतिं रीतिविचक्षणाः ।। उदाहरणम् --- दोर्दण्डड्डत्ध्;ाञ्चितचन्द्रशेखरधनुर्दण्डड्डत्ध्;ावभङ्गद्यत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिड्डत्ध्;ण्डिड्डत्ध्;मः ।

द्राक्पर्यस्तकपालसंपुटमितब्रह्माण्डड्डत्ध्;भाण्डड्डत्ध्;ोदर-- भ्राम्यत्पिण्डिड्डत्ध्;तचण्डिड्डत्ध्;मा कथमहो नाद्यापि वाश्राम्यति ।। माधुर्यसौकुमार्यापपन्ना पाञ्चाली ।।13 ।। माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः । ओजः कान्यभावात् अनुल्बणपदा विच्छाया च । तथा च श्लोकः --- ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते रात्रावत्र विहरमण्डड्डत्ध्;पतले पान्थः प्रसुप्तो युवा ।

तेनोत्थाय खलेन गर्जति घने स्मृत्वला प्रियां तत्कृतं येनाद्यापि करङ्कदण्डड्डत्ध्;पतानाशङ्की जनस्तिष्टति ।। एतासु तिसृषु रीतिषु रेखास्विव चित्रं काव्यं प्रतिष्टितमिति ।

तासं पूर्वा ग्राह्या गुणसाकल्यात् ।। 14।। तासां तिसृणां रीतीनां पूर्वा#ा वैदर्भी ग्राह्या , गुणानां साकल्यात् न पुनरितरे स्तोकगुणत्वात् ।।15 ।। इतरे गौडड्डत्ध्;ीयपाञ्चाल्यौ न ग्राह्ये, स्तोकगुणत्वात् । तदारोहणार्थमितराभ्यास इत्येके।।16।।


तस्या वादभ्र्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येते मन्यन्ते । तञ्च न । अतत्वशीलस्य तत्त्वानष्पत्तेः ।।17।। नह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते ।

निदर्शनार्थमाह---- न शणसूत्रवानाभ्यासे त्रसरसूत्रवानवैचित्र्यवलाभः ।।18।। नहि शणसूभवानमभ्यस्यन्कुविन्दस्त्रसरतन्तुवानवैचित्र्यं लभते । सापि समासाभावे शुध्दवैदर्भी ।।19।। सापि वैदर्भी रीतिः शुध्दवैदर्भी भण्यतेः यदि समासवत्पदं न भवति । तस्यामर्थगुणसंपदास्वाद्या ।। 20।। तस्यां वादभ्र्यामर्थगुणसंपत् आस्वाद्या भवति ।


तदुपरोहादर्थगुणलेशोऽपि ।। 21।। तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपत् । तथा चाहुः ---

किं त्वस्ति काचिदररैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवाभाति ।। वचसि यमधिशय्य स्यन्दते वाचकश्रीर्वितथमवितथत्वं यत्र वस्तु प्रयाति ।

उदयति हि स तदृक्क्वापि वैदर्भीरीतौ सहृदयहृदयानां कोऽपि पाकः ।। सापि वैदर्भी तात्स्थ्यात् ।।22।। सारीयमर्थगुणसंपद्वैदर्भीत्युच्यते । तात्स्त्यादित्युपचारचारतो व्यवहारंदर्शयति ।

इति काव्यालंकारसूत्रवृत्तौ शारीरे प्रतमे ऽधिकरणे द्वितीयोऽध्यायः ।

टीका---- कवीन्द्रकैरवानन्दसुधास्यन्दपटीयसीम् । विभिन्दानां तमःस्पन्दं वन्दे वाङ्मयचन्द्रिकाम् ।। प्रयोजने काव्यस्य प्रतिष्टापिते तदर्थितया अधिकारिमो निरूपणीया इत्यध्यायद्वयसंगतिमधिगमयति---प्रयोजनेति ।काव्यप्रयोजन्स्य स्थापना,कृतेति शेषः । तिष्टतेण्यन्तात् ण्यासश्रन्थो युचू इति युच्प्रत्ययः । अधिकारीति । अधिकारः प्रयोजनस्वाम्यम्, तद्वान् अधिकारी। तदुक्तं दशरूपते अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः । इति। अरोचकिन इति। कृष्णसर्पवदरण्यम् इतिवत् अरोचकिनः इतिप्रयुक्तं न त्वरोचका इति । अतः न कर्मधारयान्मत्वर्थीयः इति निषेधस्यानवकाशः । अरोचको नाम व्याधिविशेषः । यदाह वाग्भटः अरोचको भवेद्दोषैर्जिढद्धठ्ठड़14;वाहृदयसंश्रितैः । इति । सत-णमिति, अव्ययं विभक्ति इत्यदिना सकाल्यार्थेऽव्ययीभवः । सतृणमभ्यवहरन्तीति सतृणाभ्यवहारिण । द्वय इति । प्रखमचरम इत्यादि सूत्रे तयापः परिगणनात् द्वित्रिभ्यां तयस्यायज्वा इति तत्स्थानिकायजन्तोऽपि स्थानिवभ्दावात्सर्वनामसंज्ञां भजते अतः प्रथमाबहुवचनान्तं द्वयो इति रूपम् । ननु किमनेन प्रकृतानुपयोगिना अरोचकित्वादिविचारेंणेति चेदत आह----अरोचकीति। गौणार्थाविति । सादृश्यमूलक्षणाव्यपारेण लक्षीतार्थावित्यर्थः । गौणार्थस्वरूपंजिज्ञासुः पृच्छति ---कोऽसाविति। पृष्टमर्थं स्पष्टमाचष्टे---- विवेकित्वम#िति ।

उक्तस्य गौणार्थस्य उपादकमधिकारिनिश्चायकं सूत्रमवतारयति । यदाहेति । अथ नेतरे इति सूत्रारम्भः किमर्थः । विवेकिनः शिष्या इत्युक्ते अविवेकिनः पुरशिष्या इति गम्यत एव, तथाप्यासूत्र्यमाणं पुनरुकिं्त पुष्णाति अर्थादापन्नस्य पुनर्वचनं पुनरुक्तिः इति न्यायादिति-- सत्यम् --यथा धूमध्वजाभवे धूमाभावः इति यावद्यतिरेको न दर्शितः तावत् सति धूमध्वजे धूमः इति साहचर्यमात्रदर्शनान्न कार्यकारणाभावनिश्चयः तथैवात्रापि व्यतिरेकदर्शनमन्वयदाढर्यायेति युज्यत एव सूत्रारम्भः । वृत्तिः स्पष्टार्था। ननु शीलितं शास्त्रमविवेकमपाकरोति, तत्त्वविवेकस्य तज्जन्यत्वात् अतः कथमविवेकिनो न शिष्या इति शङ्क शकलयति न चेति । यद्येवं विलस्तर्हि विद्ययोपयोग इति शङ्कते --नन्वित । अभ्युपगमेनपरिहरति--- को वा मन्यत इति। शास्त्रं सर्वानुग्राहीत्यनुषज्यते । न कश्चिदपि तथा मन्यत इति फलतोऽर्थः । विधीयमानोऽपि विवेकविधुरेषु वद्योपदेशो विपिनविलापवद्विफल इत्याह--न शास्त्रमिति । शास्त्रोपदेशद्वारा यत्र सभ्दिराधीयमाना गुणाः संक्रामन्ति तद्रव्यमिह विवक्षितम् । तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत् । अत्र गाथा, अयं बस्मनि होमः स्यादियं वृष्टिर्मरुस्थले । इदमश्रवणेगानं यज्जडेड्डत्ध्; शास्त्रशिक्षणम् ।।इति ।. प्रतिपादितं प्रथमे प्रसिध्ददृष्टान्तेन स्पष्टयितुमाह --- निदर्शननमिति । कतकं अम्भःप्रसादमबीजम् । कतकं मेदमनीयं च श्लक्ष्णं वारिप्रसादनम् । इति वैद्यानिघण्टुः । प्रकरणोचितां संगतिं प्रकटयन्नुत्तरसूत्रमवतारयति --- अधिकारिण इति । कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगतिः । व्याचष्टे---रीतिर्नामेति । रिणन्ति गच्छन्ति अस्यां गुणा इति, रीयते क्षरत्यस्यां वाङमधुधारेति वा रीतिः । अधिकरणर्थे क्तिन्प्रत्ययः । करङ्कगात्रकल्पकर्कशतर्कवाक्यवैलक्षण्यप्रकटनप्रगल्भस्फुरत्ताहेतुः कश्चन स्वभावोऽत्रात्मेत्युच्यते । ननु काव्यस्य कआत्मेत्ये तत् कथमुपपद्यते अशरीरभूतस्य आत्मावच्छेदकत्वासंभवादित्याशङ्कय, शब्दार्थयुगलं शरीरम्, तस्याधिष्चटाता रीतिर्नाम आत्मेत्युपपत्तिमुन्ममीलमय#ितुम् आकाङिकतंपदमापूरयति -- शरीरस्येवेति वाक्यशेष इति । अत्र रीतेरात्मत्वमिव, शब्दार्थयुगलस्य शरीरत्वमौपचारिकमिति मन्तव्यम् । रितेः काव्शरीरं प्रत्यात्मत्वेनोक्तमुत्कर्षमुपश्रुत्य, कोतुकोत्कलिकाकरम्बितान्तः करणस्तां प्रतिपित्सुः पृच्छति -- किं पुनरिति । किमित्यव्ययं प्रश्नार्थेकिमव्ययं च कुत्सायं विकल्पप्रश्नयोरपि । इति नानार्थरत्नमाला । इयं रीतिर्नाम किंपुनः किंलक्षणेत्यर्थः । प्रतिपित्सितमर्थं प्रतिपादयितुमनन्तरसूत्रमवतारयति--- आहोति। विशिष्टा इति पदंव्यचष्टे---विशेषवतीति। पदानामिति अर्थेष्वौपचारिकी रीतिरङ्गीकर्तव्याः अन्था अर्थानामात्मभूतरीतिवैधुर्ये काव्यशरीरान्तः पातो दुष्करः । यद्वक्ष्यति, तस्यामर्थगुमसंपदास्वाद्या सापि वैदर्भीतात्स्थ्यात् इति । किमयं वैशेषिकपरिभाषितः पञ्चमः पदर्थो विशेषः अनेयो वेति संदिहानः पृच्छति---कोऽसाविति। विवक्षितं विशषं विवरीतुं सूत्रमवतारयति --आहेति । गुणात्मा ओजः प्रसादादिगुणस्वभव इत्यर्थः।