काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः/द्वितीयाधिकरणम्

विकिस्रोतः तः

== अथ द्वितीयाधिकरणे प्रथमोऽध्यायः। ==

निष्कलङ्कनिशाकान्तगवंसर्वकषप्रभाम्। कविकामगवीं वन्दे कमलासनकामिनीम् ॥ दोषदर्शनं द्वितीयमधिकरणमारभ्यते । अधिकरणद्वयसम्बन्धमेव बोधयति- काव्यशरीरे स्थापिते काव्यसौन्दर्याक्षेपहेतवस्त्यागाय दोषा विज्ञातव्या इति दोषदर्शनं नामाधिकरणमारभ्यते दोषस्वरूपकथ- नार्थमाह- गुणविपर्ययात्मानो दोषाः ॥१॥ गुणानां वक्ष्यमाणानां ये विपर्ययास्तदात्मानो दोषाः॥१॥

कामधेनुः-काव्यशरीर इति सौन्दर्यस्य गुणालङ्कारघटितचामत्वस्याऽक्षेप स्वस्थानात प्रच्यावनं तस्य हेतवस्तथाविधा दोषाः कविना ज्ञातव्या इत्यनेन दोषज्ञानस्यावश्यकर्तव्यतोक्ता । तेषामज्ञाने परित्यागात्मनः फलस्य दुर्लभत्वादिति भावः । दृश्यन्तेऽस्मिन् दोषा इति दोषदर्शनम् । अधिकरणार्थे ल्युट । दोषसामान्यलक्षणं वक्तुं सूत्रमवतारयति-दोषस्वरूपेति । गुणानामिति । विपरीयन्त इति विपर्यया विपरीताः । कर्मार्थेऽच् प्रत्ययः । त एवात्मानो येषां ते विपर्ययात्मानो विपरीतस्वरूपाः, न त्वभावरूपा इत्यर्थः । अनेन गुणविपरीतस्वरूपत्वं दोषसामान्यलक्षणमुक्तं भवति ॥ १॥

अर्थतस्तदवगमः ॥ २॥ गुणस्वरूपनिरूपणात्तेषां दोषाणामर्थादवगमोऽर्थसिद्धिः॥२॥