काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः/तृतीयाधिकरणम्

विकिस्रोतः तः

॥ श्रीः ।।

काव्यालङ्कारसूत्रवृत्तिः[सम्पाद्यताम्]

सानुवाद ’काव्यालङ्कारकामधेन” व्याख्योपेता[सम्पाद्यताम्]

अथ गुणविवेचनं नाम तृतीयमधिकरणम्[सम्पाद्यताम्]

प्रथमोध्यायः[सम्पाद्यताम्]

यद्विपर्ययात्मानो दोषास्तान् गुणान् विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणा यमकोपमादयस्त्व-लङ्कारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्याह- काव्यशोभायाः कर्त्तारो धर्मा गुणाः ॥ १॥ ये खलु शब्दार्थयोधर्माः काव्यशोभां कुर्वन्ति ते गुणाः । ते चौजःप्रसादादयः । न यमकोपमादयः । कैवल्येन तेषामकाव्यशोभाकरत्वात् । ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति ॥ १ ॥ कामधेनुः- देव्याः कृतिषु दीव्यन्त्या वाचां वैचित्र्यकारिणीम् । चेतोहरचमत्कारां प्रस्तौमि गुणविस्तृतिम् ॥१॥ उक्तवक्तव्यसङ्गतिमुल्डिङ्गयति-यद्विपर्यययात्मानो दोषा इति । निर्वृत्तेदोषनिरूपणे तत्प्रतिभटानां गुणानां निरूपणं लब्धावसरमिति सङ्गतिः । गुणा अलङ्कारेभ्यो विविच्यन्ते । ते च परस्परं विविच्यन्ते विभज्यन्तेऽस्मिन्निति गुणविवेचनं नामाधिकरणमारभ्यते । ’काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः" इति दण्डिमतं खण्डयितुं गुणालङ्कारभेदं दर्शयिष्यन् पीठिका प्रतिष्ठापयति-तत्रेति । काव्यविदां कविकर्ममर्मराम मासादादीनां गुणा इति यमकोपमादीनांमलङ्कारा इति च विभिन्नव्यवहरविषयत्वं व्यवस्थितमित्यर्थः।