काव्यालङ्कारसूत्र-वृत्ति-काव्यालङ्कारकामधेनुः/चतुर्थाधिकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search

चतुर्थमधिकरणम्।।

गुणनिर्वत्र्या काव्यशोभा; तस्याश्वातिशयहेतवोऽलंकाराः। तन्निरूपणार्थमालंकारिकमधिकरणमारभ्यते। तत्र शब्दालंकारौ द्वौ यमकानुप्रासौ क्रमेण दर्शयितुमाह- पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम् ।। 1 ।। पदम् अनेकार्थं भिन्नार्थम् एकमनेकं वा तद्वत् अक्षरमावृत्तं स्थाननियमे सति यमकम्। स्ववृत्त्या सजातीयेन वा कार्त्स्न्यैकदेशाभ्यामनेकपादव्याप्तिः स्थाननियम इति। यानि त्वेकपादभागवृत्तीनि यमकानि दृश्यन्ते, तेषु श्लोकान्तरस्थसंस्थानयमकापेक्षयैव स्थाननियम इति।स्थानकथनार्थमाह-- पादाः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि ।। 2 ।। पादाः, एकस्य च पादस्यादिमध्यान्तभागाः, अनेकस्य च पादस्य त एव स्थानानि। पादयमकं यथा-- "असज्जनवचो यस्य कलिकामधुगर्हितम्। तस्य न स्याद्विषतरोः कलिकामधु गर्हितम्।।" एकपादस्यादिमध्यान्तयमकानि यथा-- "हन्त हन्तररातीनां धीर धीरर्चिता तव। कामं कामन्दकी नीतिरस्या रस्या दिवानिशम्।।" "वसुपरासु परासुमिवोज्झतीष्वविकलं विकलङ्कशशिप्रभम्। प्रियतमं यतमन्तुमनीश्वरं रसिकता सिकतास्विव तासु का।।" "सिदृशो रसरेचकितं चकितं भवतीक्षितमस्ति मितं स्तिमितम्। अपि हासलवस्तवकस्तव कस्तुलयेन्ननु कामधुरां मधुराम्।।" पादयोरादिमध्यान्तयमकानि यथा-- "भ्रमर द्रुमपुष्पाणि भ्रम रत्यै पिबन् मधु। काकुन्दकुसुमे प्रीतिः काकुं दत्त्वा विरौषि किम्।।" "अप्यशक्यं त्वया दत्तं दुःखं शक्यन्तरात्मनि। बाष्पो वाहीकनारीणां वेगवाही कवोलयोः।। " "सपदि कृतपदस्त्वदीक्षितेन स्मितशुचिना स्मरतत्त्वदीक्षितेन। भवति बत जनः सचित्तदाहो न खलु मृषा कुत एव चित्तदाहो।।" एकान्तरपादान्तयमकं यथा-- "उद्वेजयति भूतानि यस्य राज्ञः कुशासनम्। सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम्।।" एवमेकान्तरपादादिमध्ययमकान्यूह्यानि। समस्तपादान्तयमकं यथा "नतोन्नतभ्रूगतिबद्धलास्यां विलोक्य तन्वीं शशिपेशलास्याम्। मनः किमुत्ताम्यसि चञ्चलास्यां कृतीस्मराज्ञा यदि पुष्कला स्याम्।।" एवं समस्तपादादिमध्ययमकानि व्याख्यातव्यानि। अन्ये च संकरजातिभेदाः सुधियोत्प्रेक्ष्याः। अक्षरयमकं त्वेकाक्षरमनेकाक्षरं च। एकाक्षरं यथा-- "नानाकारेण कतान्ताभ्रूराराधितमनोभुवा। विविक्तेन विलासेन ततक्ष ढद्धठ्ठड़14;टदयं नृणाम्।।" एवं स्थानान्तरयोगेऽपि द्रष्टव्यः। सजातीयनैरन्तर्यादस्य प्रकर्षो भवति। स चायं हरिप्रबोधे दृश्यते; यथा-- "विविधधववना नागगद्र्धद्र्धनाना-- विविततगगनानाममज्जज्जनाना। रुरुशशललना नाववन्धुं धुनाना मम हि हिततनानाननस्वस्वनाना।।" अनया च वर्णयमकमाल्या पदयमकमाला व्याख्याता। भङ्गादुत्कर्षः ।। 3 ।। उत्कृष्टं खलु यमकं भङ्गद्भवति। श्रृङ्खला परिवर्तकश्टूर्णमिति भङ्गमार्गः ।। 4 ।। एते खलु श्रृङ्खलादयो यमकभङ्गानां प्रकारा भवन्ति। तान् क्रमेण व्याचष्टे-- वर्णविच्छेदचलनं श्रृङ्खला ।। 5 ।। वर्णानां विच्छेदो वर्णविच्छेदः, तस्य चलनं यत्, साश्रृङ्खला। यथा--कलिकामधुशब्दे कामशब्दविच्छेदे च तस्य चलनम्, लिमवर्णयोर्विच्छेदात्। सङ्गविनिवृत्तौ स्वरूपापत्तिः परिवर्तकः ।। 6 ।। अन्यवर्णसंसर्गः सङ्गः, तद्विनिवृत्तौ स्वरूपस्य अन्यवर्णतिरस्कृतस्य आपत्तिः प्राप्तिः परिवर्तकः। यथा--"कलिकामधुगर्हितम्" इत्यत्र अर्हितमिति पदं गकारस्य व्यञ्जनस्य सढद्धठ्ठड़14;गात् गर्हितमित्यन्यस्य रुपमापन्नम्। तत्र व्यञ्जनसङ्गे विनिवृत्ते स्वरूपमापद्यते--अर्हितम#िति। अन्यवर्णसंक्रमेण भिन्नरूपस्य पदस्य ताद्रूप्यविधिरयमिति तात्पर्यार्थः। एतेनेतरावपि व्याख्यातौ। पिण्डड्डत्ध्;ाक्षरभेदे स्वरूपलोपश्चूर्णम् ।। 7 ।। पिण्डड्डत्ध्;ाक्षरस्य भेदे सति पदस्य स्वरूपलोपः चूर्णम्। यथा-- "योऽचलकुलमवति चलं दूरसमुन्मुक्तशुक्तिमीनां कान्तः। काग्नि बिभर्ति च सलिलं दूरसमुन्मुक्तसुक्तिमीनाङ्कान्तः।।" अत्र शुक्तिपदे क्रीति पिण्डड्डत्ध्;ाक्षरम्, तस्य भेदे शुक्तिपदं लुप्यते, ककारतिकारयोरन्यत्र संक्रमात्। दूरसमुन्मुक्तशुक् अचलकुलम्, तिमीनां कान्तः समुद्रः। अत्र श्लोका :- अशण्डड्डत्ध्;वर्णविन्यासचलनं श्रृङ्खलामला। अनेन खलु भङ्गेन यमकानां विचित्रता।। यदन्यसङ्गमुत्सृज्य नेपथ्यमिव नर्तकः। शब्दः स्वरूपमारोहेत्स ज्ञेयः परिवर्तकः।। पिण्डड्डत्ध्;ाक्षरस्य भेदेन पूर्वापरपदाश्रयात्। वर्णयोः पदलोपो यः स भढद्धठ्ठड़14;गश्चूर्णसंज्ञकः।। अप्राप्तयूर्णभङ्गानि यथास्थानस्थितान्यपि। अलकानीव नात्यर्थं यमकानि चकासति।। विभक्तिपरिणामेन यत्र भङ्गः व्कचिद्भवेत्। नतदिच्छन्ति यमकं यमकोत्कर्षकोविदाः।। आरूढं भूयसा यत्तु पदं यमकभूमिकाम्। दुष्येच्चेन्न पुनस्तस्य युक्तानुप्रासकल्पना।। विभक्तीनां विभक्तत्वं संख्यायाः कारकस्य च। आवृत्तिः सुप्तिङ्न्तानां मिथश्व यमकाद्भुतम्।। शेषः सरूपोऽनुप्रासः ।। 8 ।। पदमेकार्थमनेकार्थं च स्थानानियतं तद्विधमक्षरं च शेषः। सरूपः अन्येन प्रयुक्तेन तुल्यरूपः अनुप्रासः। ननु "शेषोऽनुप्रासः" इत्येतावदेव सूत्रं कस्मान्न कृतम्? आवृत्तिशेषोऽनुप्रास इत्येव हि व्याख्यास्यते; सत्यम्; सिध्यत्येवावृत्तिशेषे; किंत्वव्याप्तिप्रसङ्गः; विशेषार्थं च सरूपग्रहणम्--कार्त्स्न्येनैवावृत्तिः, कार्त्स्न्र्यैकदेशाभ्यां च सारूप्यमिति। अनुल्बणो वर्णानुप्रासः श्रेयान् ।। 9 ।। यो वर्णानुप्रासः, स खलु अनुल्बणः अपीनः श्रेयान्। उल्वणस्तु न श्रेयान्। यथा--"वल्लीबद्धोध्र्वजूटोद्भटमटति रटत्कोटिकोदण्डड्डत्ध्;दण्डड्डत्ध्;ः" इति। पादानुप्रासः पादयमकवत् ।। 10 ।। ये पादयमकस्य भेदाः, ते पादानुप्रासस्येत्यर्थः। तेषामुदाहरयणानि यथा-- "कविराजमविज्ञाय कुतः काव्यक्रियादरः। कविराजं च विज्ञाय कुतः काव्यक्रियादरः।।" "आखण्डड्डत्ध्;यन्ति मुहुरामलकीफलानि बालानि बालकपिलोचनपिङ्गलानि।" "वस्त्रायन्ते नदीनां सितकुसुमधराः श्रीशसंकाश काशाः काशाबा भान्ति तासां नवपुलिनगताः श्रीनदीहंस हंसाः। हंसाभाम्भोदमुक्तः स्फुरदमलरुचिर्मेदिनीचन्द्र चन्द्रश्वन्द्राङ्कः शारदस्ते जयकृदुपगतो विद्विषां काल कालः।।" "कुवलयदलश्यामा मेघा विहाय दिवं गताः कुवलयदलश्यामो निद्रां बिमु#्चति केशवः। कुवलयदलश्यामा श्यामालताद्य विजृम्भते कुवलयदलश्यामं चन्द्रो नभः प्रविगाहते।।" एवमन्येऽपि द्रष्टव्याः। इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे प्रथमोऽध्यायः।। द्वितीयोऽध्यायः।। संप्रत्यर्थालंकाराणां प्रस्तावः; तन्मूलं चोपमेति सैव विचार्यते। उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ।। 1 ।। उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत्, तत् उपमानम्। यदुपमीयते न्यूनगुणम्, तत् उपमेयम्। उपमानेनोपमेयस्य गुणलेशतः साम्यं यत्, असावुपमेति। ननु च उपमानमित्युपमेयमिति च संभन्धिशब्दावेतौ, तयोरेकतरोपादानेनैवान्यतरसिद्धिः। यथा "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इत्यत्रोपमितग्रहणमेव कृतम्, नोपमानग्रहणमिति। तद्वदत्रोभयग्रहणं न कर्तव्यम्; सत्यम्; तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम्। यदेवोपमेयमुपमानं च लोकप्रसिद्धम्, तदेव परिगृह्यते नेतरत्। न हि यथा मुखं कमलमिव इति, तथा कुमुदमिव इत्यपि भवति।। गुणबाहुल्यतश्व कल्पिता ।। 2 ।। गुणानां बाहुल्यं गुणबाहुल्यम्, तत उपमानोपमेययोः साम्यात् कल्पितोपमा; कविभिः कल्पितत्वात् कल्पिता। पूर्वा तु लौकिकी। ननु कल्पिताया लोकप्रसिद्ध्यबावात् कथमुपमानोपमेयनियमः? गुणबाहुल्यस्योत्कर्षाकल्पनाभ्याम्। तद्यथा-- "उद्गर्भहूणतरुणीरमणोपमर्द- भुग्रोन्नतस्तननिवेशनिभं हिमांशोः। बिम्बं कठोरबिसकाण्डड्डत्ध्;कडड्डत्ध्;ारगौरै- र्विष्णोः पदं प्रथममग्रकरैव्र्यनक्ति।।" "सद्योमुण्डिड्डत्ध्;तमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्।" "अभिनवकुशसूचिस्पर्धि कर्णे शिहीषम्।" "इदानीं प्लक्षाणां जरठदलवि श्लेषचतुर- स्तिभीनामाबद्धक्फुरितशुकचञ्चूपुटनिभम्। ततः स्त्रीणां हन्त क्षममधरकाÏन्त तुलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम्।।" तद्द्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ।। 3 ।। तस्या उपमाया द्वैविध्यम्, पदवाक्यार्थवृत्तिभेदात्। एका पदार्थवृत्तिः, अन्या वाक्यार्थवृत्तिरिति। पदार्थवृत्तिर्यथा-- "हरिततनुषु बभ्रुत्वग्निमुक्तासु यासां कनककणसधर्मा मान्मथो रोमभेदः।" वाक्यार्थवृत्तिर्यथा-- "पाण्डड्डत्ध्;्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः।।" सा पूर्णा लुप्ता च ।। 4 ।। सा उपमा पूर्णा लुप्ता च भवति। गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ।। 5 ।। गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा। यथा--"कमलमिव मुखं मनोज्ञमेतत्" इति। लोपे लुप्ता ।। 6 ।। गुणादिशब्दानां लोपे वैकल्ये लुप्ता। गुणशब्दलोपे यथा--"शशीव राजा" इति। द्योतकशब्दलोपे यथा--"दूर्वाश्यामेयम्" इति। उभयलोपे यथा--"शशिमुखी" इति। उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः। स्तुतिनिन्दातत्त्वारख्यानेषु ।। 7 ।। स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः। स्तुतिनिन्दयोर्यथा-- "स्निग्धं भवत्यमृतकल्पमहो कलत्रं हालाहलं विषमिवापगुणं तदेव।" तत्त्वाख्याने यथा-- "तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डड्डत्ध्;ले। यस्तन्वि तारकान्यासः शकटाकारमाश्रितः।।" हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः ।। 8 ।। तस्या उपमाया दोषा भवन्ति--हीनत्वम्, अधिकत्वम्, लिङ्गभेदः, वचनभेदः, असादृस्यम्, असंभव इति। तान् क्रमेण व्याख्यातुमाह-- जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ।। 9 ।। जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या, तत् हीनत्वमिति। जातिन्यूनत्वरूपं हीनत्वं यथा--"वढिद्धठ्ठड़14;नस्फुलिङ्ग इव भानुरयं चकास्ति" उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्, तत् धर्मन्यूनत्वम्; तद्रूपं हीनत्वं यथा-- "स मुनिर्लाञ्छितो मौञ्झ्या कृष्णाजिनपटं वहन्। व्यराजन्नीलजीमूलभागाश्लिष्ट इवांशुमान्।।" अत्र मौञ्जीप्रतिवस्तु तटिन्नास्त्युपमान इति हीनत्वम्। न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम्, मौञ्ज्या व्यर्थत्वप्रसङ्गात्। ननु नीलजीमूतग्रहणेनैव तडिड्डत्ध्;त्प्रतिपाद्यते; तन्न; व्यभिचारात्। अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते; तदाह-- धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ।। 10 ।। धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य धर्मस्य संवित् प्रतिपत्तिर्भवति। कुतः? साहचर्यात्। सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति। तद्यथा-- निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोबिन्दवः। चूडड्डत्ध्;ाबर्बरके निपत्य कणिकाभावेन जाताः शिशो- रङ्गास्फालनभग्ननिद्रगृहिणीचित्तव्यथादायिनः।। अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते; तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति। एतेन "कनकफलकचतुरश्रं श्रोणिविम्बम्" इति व्याख्यातम्। अत्र कनकफलकस्य गौरत्वचतुरश्रत्वयोः साहचर्याच्चतुरश्रत्वश्रुत्यैव गौरत्वप्रतिपत्तिरिति। ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः; कथमयं प्रयोगः-- "सूर्यांशुसंमीलितलोचनेषु दीनेषु पझानिलनिर्मदेषु। साध्व्यः स्वगेहेष्विव भर्तृहीनाः केका विनेशुः शिखिनां मुखेषु ।।" इति? अत्र बहुत्वमुपमेयधर्माणामुपमानात्; न; विशिष्टानामेव मुखानामुपमेयत्वात्, तादृशेष्वेव केकाविनाशस्य संभवात्। तेनाधिकत्वं व्याख्यातम् ।। 11 ।। तेन हीनत्वेन अधिकत्वं व्याख्यातम्--जातिप्रमाणधर्माधिक्यमधिकत्वमिति। जात्याधिक्यरूपमधिकत्वं यथा--विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः। प्रमाणाधिक्यरूपं यथा-- "पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ। वेणीदण्डड्डत्ध्;ः पुनरयं कालिन्दीपातसंनिभः।। " धर्माधिक्यरूपं यथा-- "सरश्म चञ्चलं चक्रं दधद्देवो व्यराजत। सबाडड्डत्ध्;बाग्रिरित्यस्य प्रतिवस्तुन उपमेयेऽभावाद्धर्माधिक्यमिति। अनयोर्दोषयोर्विपर्ययाखघ्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम्। अत एवास्माकं मते षट् दोषा इति। उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ।। 12 ।। उपमानस्योपमेयस्य च लिङ्गयोव्र्यत्यासो विपर्ययो लिङ्गभेदः। यथा--"सैन्यानि नद्य इव जग्मुरनर्गलानि।" इष्टः पुंनपुंसकयोः प्रायेण ।। 13 ।। पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येन इष्टः। यथा--"चन्द्रमिव मुखं पश्यति"इति। "इन्दुरिव मुखं भाति" इत्येवंप्रायं तु नेच्छन्ति। लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ।। 14 ।। लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति। लौकिक्यां यथा--"छायेव स तस्याः""पुरुष इव स्त्री" इति। समासाभिहितायां यथा--"भुजलता नीलोत्पलसदृशी" इति। उपमाप्रपञ्चे यथा-- "शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य। दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः।।" एवमन्यदपि प्रयोगजातं द्रष्टव्यम्। तेन वचनभेदो व्याख्यातः ।। 15 ।। तेन लिङ्गभेदेन वचनभेदो व्याख्यातः। यथा--"पास्यामि लोचने तस्याः पुष्पं मधुलिहो यथा।" अप्रतीतगुणसादृश्यमसादृश्यम् ।। 16 ।। अप्रतीतैरेव गुणैर्यत् सादृश्यम्, तत् अप्रतीतगुणसादृश्यम् असादृश्यम्। यथा--"ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम्।" काव्यस्य शशिना सह यत् सादृश्यम्, तदप्रतीतैरेव गुणैरिति। ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति; मैवम्; काव्यस्य शश्तुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिध्यति; नाप्यर्थानां रश्मीनां च कश्वित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति। तदेवमितरेतराश्रयदोषो दुरुत्तर इति। असादृश्यहता ह्युपमा तन्निष्ठाश्व कवयः ।। 17 ।। असादृश्येन हता असादृश्यहता उपमा। तन्निष्ठा उपमानिष्ठाश्व कवय इति। उपमानाधिक्यात्तदपोह इत्येके ।। 18 ।। उपमानानामाधिक्यात् तस्य असादृश्यस्य अपोह इत्येके मन्यन्ते। यथा--"कर्पूरहारहरहाससितं यशस्ते।" इति। अत्र कर्पूरादिभिरुपमानैर्बहुभिः सादृश्यं यशसः सुस्थापितं भवति, तेषां सुक्लगुणातिरेकात्। नुपुष्टार्थत्वात् ।। 19 ।। उपमानाधिक्यादपोह इति यदुक्तम्, तन्न; अपुष्टार्थत्वात् एकस्मिन्नुपमाने प्रयुक्ते उपामानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति। एतेन "बलसिन्धुः सिन्धुरिव क्षुभितः" इति प्रत्युक्तम्। ननु सिन्धुशब्दस्य द्विःप्रयोगात्पौनरुक्त्यम्; न; अर्थविशेषात्; बलं सिन्धुरिव वैपुल्यात् बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात्। तस्मादर्थभेदान्न पौनरुक्तयम्। अर्थपुष्टिस्तु नास्ति। सिन्धुरिव क्षिभित इत्यानेनैव वैपुल्यं प्रतिपत्स्यते। उक्तं हि--"धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात्" इति। अनुपपत्तिरसंभवः ।। 20 ।। अनुपपत्तिः अनुपपन्नत्वम् उपमानस्य असंभवः। यथा-- "चकास्ति वदनस्यान्तः स्मित्च्छाया विकासिनः। उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिक्रा।।" चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः। नन्वर्थविरोधोऽयमस्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्येष्टत्वात्। कथं तर्हि दोष इत्यत आह-- न विरुद्धोऽतिशयः ।। 21 ।। विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः। तानेतान् षडुड्डत्ध्;पमादोषान् ज्ञात्वा कविः परित्यजेत्। इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे द्वितीयोऽध्यायः।। तृतीयोऽध्यायः।। संप्रत्युपमाप्रपञ्चो विचार्यते। कः पुनरसावित्याह-- प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः ।। 1 ।। प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः। उपमायाः प्रपञ्चः उपमाप्रपञ्च इति। वाक्यार्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह-- उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ।। 2 ।। समानं वस्तु वास्यार्थः, तस्य न्यासः समानवस्तुन्यासः; उपमेयस्य अर्थाद्वाक्यार्थस्योक्तौ सत्यामिति। अत्र द्वौ वाक्यार्थौ; एको वाक्यार्थोपमायामिति भेदः। तद्यथा-- "देवीभावं गमिता परिवारपदं कथं भजत्येषा। न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम्।।" प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह-- अनुक्तौ समासोक्तिः ।। 3 ।। उपमेयस्य अनुक्तौ समानवस्तुन्यासः समासोक्तिः। संक्षेपवचनात् समासोक्तिरित्याख्या। यथा-- "श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः। धिङ्नेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः।।" समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह-- किंचिदुक्तावप्रस्तुतप्रशंसा ।। 4 ।। उपमेयस्य किंचित् लिङ्गमात्रेण उक्तौ समानवस्तुन्यासः अप्रस्तुतप्रशंसा। यथा-- "लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते। उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलिकाण्डड्डत्ध्;मृणालदण्डड्डत्ध्;ाः।।" "यत्रोत्पलानि शशिना सह" इति,"द्विरदकुम्भतटी च यत्र" इति, "यत्रापरे" इति च अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा। अपहुतिरपि ततो भिन्नेति दर्शयितुमाह-- समेन वस्तुनान्यापलापोऽपढद्धठ्ठड़14;नुतिः ।। 5 ।। समेन तुल्येन वस्तुना वास्यार्थेन अन्यस्य वास्यार्थस्य अपलापो निह्रवो यः तत्त्वाध्यारोपणाय, असावपढद्धठ्ठड़14;नुतिः। यथा-- "न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः। तटिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विवर्तते।।" वास्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रुपकम्। तत्तु कीदृशमित्याह-- उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो रूपकम् ।। 6 ।। उपमानेन उपमेयस्य गुणसाम्यात् तत्त्वस्य अभेदस्य आरोपणमारोपो रूपकम्। उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्वोपमायाः प्रकृतित्वमत्र यथा विज्ञायेतेति। यथा-- "इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो पवुषि बहुलश्वन्दनरसः। अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः।।" मुखचन्द्रादीनां तूपमासमासात् न रूपकत्वं युक्तमिति। रूपकाच्छलेषस्य भेदं दर्शयितुमाह-- सध्रमेषु तन्त्रप्रयोगे श्लेषः ।। 7 ।। उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्त्वाध्यारोपः तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः। यथा-- "आकृष्टामलमण्जलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षदृदयप्रोन्माथइनः कर्कशाः। उद्वृत्ता गुरवश्व यस्य वशिनः श्यामायमानानना योधा मारवधूस्तानास्व न ददुः क्षोभं स वोऽव्याज्जिनः।।" यथा च गौणस्यार्थस्यालंकारत्वम्, तथा लाक्षणिकस्यापीति दर्शयितुमाह-- सादृश्याल्लक्षणा वक्रोक्तिः ।। 8 ।। बहूनि हि निबन्धनानि लक्षणायाम्; तत्र सादृश्याल्लक्षणा वक्रोक्तिरिति। यथा--"उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात्।" अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः। "इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम्। मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम्।।" अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षयति। "संस्थानेन स्फुरतु सुभगः स्वार्चिषा चुम्बतु द्याम्।" "आलस्यमालिङ्ति गात्रमस्याः।।" "परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम्।" "प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।" "ऊरुद्वन्दं तरुणकदलीकाण्डड्डत्ध्;सब्रढद्धठ्ठड़14;नचारि।" इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति। असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः। यथा--"जरठकमलकन्दच्छेदगौरैर्मयूखैः।" अत्र च्छेदः सामीप्याद्द्रव्यं लक्षयति, तस्यैव गौरत्वोपपत्तेः। रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह-- अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ।। 9 ।। अतद्रूपस्य अतत्खभावस्य, अन्यथा तत्स्वभावतया, अध्यवसानम् अध्यवसायः; न पुनरध्यारोपो लक्षणा वा। अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम्। सादृश्यादियमुत्प्रेक्षेति। एनां चेवादिशब्दा द्योतयन्ति। यथा-- "स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यो मूÐध्न ज्वलनकपिशे भाति निहितः। स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाढद्धठ्ठड़14;कुर इव ।।" उत्प्रेक्षैवातिशयोक्तिरिति केचित्; तन्निरासार्थमाह-- संभाव्यध्रमतदुत्कर्षकल्पनातिशयोक्तिः।। 10 ।। संभाव्.यस्य धर्मस्य तदुत्कर्षस्य च कल्पना अतिशयोक्तिः। यथा-- "उभौयदि व्योम्नि पृथक्पतेतामाकाशगङ्गापयसः प्रवाहौ। तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।।" यथा वा-- "मलयजरसविलिप्ततनवो नवहारलतानिभूषिताः सिततरदन्तप6कृतवक्त्ररुचो रुचिरामलांशुकाः। शशभृति विताधाम्नि धवलयति धरामविबाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः।।" यथा भ्रान्तिज्ञानस्वरुपा उत्प्रेक्षा, तथा संभयज्ञानस्वरुपः संदेहोऽपीति दर्शयितुमाह-- उपमानोपमेयसंशयः संदेहः ।। 11 ।। उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः, स संदेहः। यथा-- "इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि। न निश्विनोति हृदयं किंतु दोलयते मनः।।" संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह-- विरुद्धाभासत्वं विरोधः ।। 12 ।। अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः। यथा-- "पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि। त्वं तुङ्गस्तनभारमन्थरगतिर्घात्रेषु मे वेपथु- स्त्वन्मध्ये तनुता ममाधृतिरहो प्रेम्णो विचित्रा गतिः।।" यथा वा-- "सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम्। साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम्।।" विरोधाद्विभावनाया भेदं दर्शयितुमाह-- क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्तिर्विभावना ।। 13 ।। क्रियायाः प्रतिषेधे तस्या एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिर्विभावना। यथा-- "अप्यसज्जनसांगत्ये न वसत्येव वैकृतम्। अक्षालितविशुद्धेषु हृदयेषु मनीषिणआम्।।" विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह-- एगस्योपमेयत्वोपमानत्वेऽनन्वयः ।। 14 ।। एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः। यथा-- "गगनं गगनाकारं सागरः सागरोपमः। रामरावणयोर्युद्धं रामरावणयोरिव।।" अन्यासादृश्यमेतेन प्रतिपादितम्। क्रमेणोपमेयोपमा ।। 15 ।। एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेण उपमेयोपमा। यथा-- "खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम्। कुमुदाकारास्तारास्ताराकाराणि कुमुदानि।।" इयमेव परिवृत्तिरित्येके; तन्निरासार्थमाह-- समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ।। 16 ।। समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः। यथा-- "आदाय कर्णकिसहयमियमस्मै चरणमरुणमर्पयति। उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये।।" यथा-- "विहाय सा हारमहार्यनिश्वया विलोलदृष्टिः प्रविलुप्तचन्दना। बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति।।" उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह-- उपमेयोपमानानां क्रमसंबन्धः क्रमः ।। 17 ।। उपमेयानुमुपमानानां चोद्देशिनामनूद्देशिनां च क्रमसंबन्धः क्रमः। यथा-- "तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः। जीयन्ते वल्लकीकुन्दकुमुमेन्दीवरस्रजः।।" क्रमसंबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह-- उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ।। 18 ।। उपमानवाक्येषूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संबध्यमाना दीपकम्। तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात् ।। 19 ।। तत्र त्रिपिधं भवति, आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात्। यथा-- "भूष्यन्ते प्रमदवनानि बालपुष्पैः कामिन्यो मधुमदमांसलैर्विलासैः। ब्रढद्धठ्ठड़14;नाणः श्रुतिगदितैः क्रियाकलापै राजानो विरलितवैरिभिः प्रतापैः।।" "बाष्पः पथिककान्तानां जलं जलमुचां मुहुः। विगलत्यधुना दण्डड्डत्ध्;यात्रोद्योगो महीभुजाम्।।" "गुरुशुश्रूषया विद्या मधुगोष्ठ्या मनोभवः। उदयेन शशाङ्कस्य पयोधिरभिवर्धते।।" दीपकवन्निदर्शनमापि संक्षिप्तमित्याह-- क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ।। 20 ।। क्रिययैव शुद्धया खस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम्। यथा-- "अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत्। आपाण्डुड्डत्ध्; पतति पत्रं तरोरिदं बन्धनग्रन्थेः।।" पततीति क्रिया। तस्याः स्वं पतनम्। तदर्थः अत्युच्चपदाध्यासः। तयोरन्वयः अत्युच्चपदाध्यासः पतनायेति। तस्य ख्यापनम् अर्थशालिनां शंसदिति। इदं च नार्थान्तरन्यासः; स तु यथाभूतस्तमाह-- उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ।। 21 ।। उक्तसिद्धयै उक्तस्यार्थस्य सिद्ध्यार्थं वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः। वस्तुग्रहणात्पदार्थस्य हेतोन्र्यसनं नार्थान्तरन्यासः। यथा--"इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात्" इति। अर्थान्तरस्यैवेति वचनम्। यत्र हेतुव्र्याप्तिगूढत्वात् कथंच#ित्प्रतीयते त6 यथा स्यात्; यद्यत् कृतकं तत्तदनित्यमित्येवंप्रायेषु मा भूदिति। उदाहरणम्-- प्रियेण संग्रथ्य विपक्षसंनिधा- वुपाहितां वक्षसि पीवरस्तने। सजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि।।" अर्थान्तरन्यासस्य हेतुरूपत्वात्, हेतोश्वान्वयव्यतिरेकात्मकत्वात् न ततः पृथग्व्यतिरेक इति केचित्; तन्निरासार्थमाह-- उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ।। 22 ।। उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमानात्, सव्यतिरेकः। यथा-- "सत्यं हरिणशाबाक्ष्याः प्रसन्नसुभगं मुखम्। समानं शशिनः किंतु स कलङ्कविडड्डत्ध्;म्बितः।।" कश्वित्तु गम्यमानगुणो व्यतिरेकः। यथा-- "कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं भग्नं स्वादोः पदं रससंपतः। विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनां चतुरललितैर्लीलातन्त्रैस्तवार्थविलोकितैः।।" व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह-- एकगुणहानिकल्पनायां साम्यदाढ्र्यं विशेषोक्तिः ।। 23 ।। एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत्, तस्य दाढ्र्यं विशेषोक्तिः। रूपकं चेदं प्रायेणेति। यथा-- "भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीयाः।" "द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्।" "इयं ह्यकमला लक्ष्मीः।" "हस्ती हि जङ्गमं दुर्गम्" इति। जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनपरत्वादेकगुणहानिकल्पनैव। एतेन "वेश्या हि नाम मूर्तिमत्येव निकृतिः" "व्यसनं हि नाम सोच्छवासं मरणम्" "द्विजो भूमिबृहस्पतिः" इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता। व्यतिरेकविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह-- संभाव्यविशिष्टकर्माकरणान्निन्दा स्तोत्रार्था व्याजस्तुतिः ।। 24 ।। अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशि,#्टकर्म, तस्य संभाव्यस्य कर्तुं शक्यस्य अकरणान्निन्दा विशिष्टसाम्यसंपादनेन स्तोत्रार्था व्याजस्तुतिः। यथा-- "बबन्ध सेतुं गिरिचक्रवालै- र्बिर्भेद सप्तैकशरेण तालान्। एवंविधं कर्म ततान राम- स्त्वया कृतं तन्न मुधैव गर्वः।।" व्याजस्तुतेव्र्याजोकिं्त भिन्नां दर्शयितुमाह-- व्याजस्य सत्यसारूप्यं व्याजोक्तिः ।। 25 ।। व्याजस्य च्छझनः सत्येन सारूप्यं व्याजोक्तिः; यां मायोक्तिरित्याहुः। यथा-- "शरच्चन्द्रांशुगौरेण वाताविद्धेन भामिन्। काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम्।।" व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह-- विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ।। 26।। विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगः तुल्ययोगिता। यथा-- "जलनिधिरशनामिनां धरित्रीं वहति भूजङ्गविभुर्भवद्धुजश्व।" उपमानाक्षेपश्वाक्षेपः ।। 27 ।। उपमानस्य आक्षेपः प्रतिषेध उपमानाक्षेपः; तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् आक्षेपः। यथा-- "तस्याश्वेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः। किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः।।" उपमानस्य आक्षेपः आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः। यथा-- "ऐन्द्रं धनुः पाण्डुड्डत्ध्;पयोधरेण शहद्दधानाद्र्रनखक्षताभम्। प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार।।" अत्र शरद्वेश्येव, इन्दुं नायकमिव, रवेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति।। तुल्योगितायाः सहोक्तेर्भेदमाह-- वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ।। 28 ।। वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामथ्र्यात् सहोक्तिः। यथा-- "अस्तं भास्वान्प्रयातः सह रिपुभिरयं संहियन्तां बलानि।" अत्रार्थयोन्र्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति। समाहितमेकमवशिष्यते; तल्लक्षणार्थमाह-- यत्सादृश्यं तत्संपत्तिः समाहितम् ।। 29 ।। यस्य वस्तुनः सादृश्यं गृह्यते, तस्य वस्तुनः संपत्तिः समाहितम्। यथा-- "तन्वी मेघजलाद्र्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा। चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डड्डत्ध्;ी मामबधूय पादपतितं जातानुतापेव सा।।" अत्र पुरुपवसो लतायामुर्वश्याः सादृश्यं गृढद्धठ्ठड़14;णतः सैव लतोर्वशीसंपन्नेति। एते चालंकाराः शुद्धा मिश्राश्व प्रयोक्तव्या इति विशिष्टानामलंकारणां मिश्रत्वं संसृष्टिरित्याह-- अलंकारस्यालंकारयोनित्वं संसृष्टिः ।। 30 ।। अलंकारस्य अलंकारयोनित्वं यत्, असौ संसृष्टिरिति। संसृष्टिः संसर्गः संबन्ध इति। तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ।। 31 ।। तस्याः संसृष्टेर्भेदौ--उपमारूपकं चोत्प्रेक्षावयवक्ष्वेति। उपमाजन्यं रूपकमुपमारूपकम् ।। 32 ।। यथा-- "निरवधि चनिराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम्। प्रथम इह भवान्स कूर्ममूर्ति- र्जयति चतुर्दशलोकवल्लिकंदः।।" एवं "रजनिपुरंध्रिलोध्रतिलकः शशी" इत्येवमादयस्तद्भेदा द्रष्टव्याः। उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ।। 33 ।। उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः। अवयवशब्दो ह्यारम्भकं लक्षयति। यथा-- "अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः। कुड्ड्डत्ध्;मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी।।" एभिर्निदर्शनैः स्वीयैः परकीयैश्व पुष्कलैः। शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता।। अलंकारैकदेशा ये मताः सौभाग्यभागिनः। तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः।। इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः।। समाप्तं चेदमालंकारिकं चतुर्थमधिकरणम्।।