सामग्री पर जाएँ

काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/तृतीयाधिकरणम्/प्रथमोऽध्यायः

विकिस्रोतः तः

तृतीयमधिकरणम् ॥

 यद्विपर्ययात्मानो दोषाः, तान्गुणान्विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्यत्राह--

काव्यशेभायाः कर्तारो धर्मा गुणाः ॥ १ ॥

 ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति, ते गुणाः; ते चौजःप्रसादादयः, न यमकोपमादयः, कैवल्ये तेषामकाव्यशोभाकरत्वात् ।

   देव्याः कृतिषु दीव्यन्त्यां वाचां वैचित्र्यकारिणीम् ।
   चेतोहरचमत्कारां प्रस्तौमि गुणविस्तृतिम् ॥ १ ॥

 उक्तवक्तव्यसंगतिमुल्लिङ्गयति -यद्विपर्ययात्मानो दोषा इति । निर्वृत्ते दोषनिरूपणे तत्प्रतिभटानां गुणानां निरूपणं लब्धावसरमिति संगतिः । गुणा अलंकारेभ्यो विविच्यन्ते, ते च परस्परं विविच्यन्ते विभज्यन्तेऽस्मिन्निति गुणविवेचनं नामाधिकरणमारभ्यते । 'काव्यशोभाकरान् धर्मानलंकारान्प्रचक्षते । काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः ॥' इति दण्डिमतं खण्डयितुं गुणालंकारभेदं दर्शयिष्यन् , पीठिका प्रतिष्ठापयति-- तत्रेति । काव्यविदां कविकर्ममर्मविदाम् ओजःप्रसादादीनां गुणा इति, यमकोपमादीनामलंकारा इति च विभिन्नव्यवहारविषयत्वं व्यवस्थितमित्यर्थः । प्रश्नपूर्वकमुत्तरसूत्रं प्रसञ्जयति- तेषामिति । तेषां गुणालंकाराणां भेदस्य किं निबन्धनं कारणमिति प्रश्नः । व्याचष्टे- ये खल्विति । गुणा वस्तुतो रीतिनिष्ठा अपि उपचाराच्छब्दधर्मा इत्युक्तम् । एतच्च गुणोद्देशसूत्रे कुशलमुपपादयिष्यामः । गुणशब्दप्रवृत्तिनिमित्तमयोगान्ययोगव्यवच्छेदाभ्यां परिच्छेत्तुं प्रक्रमते-- ते चेति । अन्ययोगव्यवच्छेदं तावदाख्याति- कैवल्य इति । तेषामलंकाराणां कैवल्ये गुणसाहचर्याभावे काव्यशोभाकलनाक्षमत्वादित्यर्थः । अयोगं व्यवच्छिनत्ति--- ओजः ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति ॥

तदतिशयहेतवस्त्वलंकाराः ॥ २ ॥

 तस्याः काव्यशोभाया अतिशयः तदतिशयः, तस्य हेतवः । तुशब्दो व्यतिरेके । अलंकाराश्च यमकोपमादयः ।

अत्र श्लोकौ-

  'युवतेरिव रूपमङ्गं काव्यं स्वदते शुद्धगुणं तदप्यतीव |
  विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥
  यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।
  अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥'

पूर्वे नित्याः ॥३॥

प्रसादादीनां त्विति । केवलानाम् अलंकारासहचरितानाम् । अस्त्येवेति संबन्धः ।  अलंकारपदप्रवृत्तिनिमित्तमावेदयितुमाह-तदतिशयहेतव इति । जडबुद्धिषु जातानुग्रहो विग्रहमाह- तस्या इति । तुशब्द इति । व्यतिरेको भेदः । 'तुः स्याद्भेदेऽवधारणे' इत्यमरः ।  अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तसंवादेन द्रढयति- अत्र श्लोकाविति । शुद्धाः अलंकारासंकलिता गुणाः ओजःप्रसादादयो लावण्यादयश्च यस्य तत् । गुणमात्रविशिष्टमपि काव्यं युवते रूपमिव । स्वदते रोचते रसिकेभ्य इति शेषः । निरन्तराभिः निबिडाभिः । अलंकाराः यमकोपमादयः, कटकादयश्च, तेषां विकल्पाः विच्छित्तयः, तेषां कल्पनाभिः रचनाभिः । विहितप्रणयं रचितानुबन्धं सत् काव्यं युवते रूपमिव अतीवातिमात्रं स्वदते इत्यन्वयमुक्त्वा व्यतिरेकमाह--- यदीति । वचः काव्यात्मकं गुणेभ्यश्च्युतं यदि, तद्वचो यौवनवन्ध्यं लावण्यशून्यम् अङ्गनाया वपुरिव भवति । तदा जनदयितान्यपि लोकप्रियाण्यपि अलंकरणानि नियतमवश्यं दुर्भगत्वं सौन्दर्यवैधुर्यादनादरणीयत्वं संश्रयन्ते इति श्लोकद्वयार्थः ।  पूर्वे गुणा नित्याः, तैर्विना काव्यशोभानुपपत्तेः ।

 एवं गुणालंकाराणां भेदं दर्शयित्वा शब्दगुणनिरूपणार्थमाह--

ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्यो-

दारतार्थव्यक्तिकान्तयो बन्धगुणाः ॥ ४ ॥

 बन्धः पदरचना, तस्य गुणाः बन्धगुणाः ओजःप्रभृतयः ।

 'विरुद्धधर्माध्यासो भावं भिन्द्यात्' इति न्यायेन नित्यत्वानित्यत्वाभ्यामपि गुणालंकारभेदः सिद्ध इति दर्शयितुमाह-पूर्वे नित्या इति । पूर्वे गुणा नित्या इत्युक्ते अन्ये पुनरलंकारा अनित्या इति गम्यत एव । गुणानां नित्यत्वे हेतुः - तैर्विनेति । गुणान्वयव्यतिरेकानुविधायित्वात् काव्यशोभाया इत्यर्थः।

 एवमभेदमतं खण्डितम् । अथोक्तानुवादपूर्वकमुद्देशसूत्रमुदीरयति- एवमिति । शब्दगुणेति । शब्दनिष्ठा गुणाः शब्दगुणाः । वस्तुतो रीतिधर्मत्वेऽपि गुणानामात्मलाभस्य शब्दार्थाधीनत्वात् तस्य निरूप्यत्वाच्च शब्दार्थधर्मत्वमुपचारादुक्तम् । अथेदानीं मुख्यया वृत्त्या रीतिधर्मत्वमिति आत्मसिद्धान्तमाविष्कुर्वन् सौत्रं पदं व्याकरोति- बन्धः पदरचना, तस्य गुणा इति । न तु शब्दार्थयोरिति शेषः । एवं च सति उपक्रमोपसंहारलिङ्गैराचार्यतात्पर्यपर्यालोचनायामात्मभूतरीतिनिष्ठाः गुणाः, तच्छरीरभूतशब्दार्थनिष्ठाः पुनरलंकारा इति निश्चीयते । अतो मन्यामहे- गुणत्वादोजःप्रभृतीनामात्मनि समवायवृत्त्या स्थितिः, अलंकारत्वाद्यमकोपमादीनां शरीरे संयोगवृत्त्या स्थितिरिति ग्रन्थकारस्याभिमतम् -इति । न ह्यविपश्चिदपि कश्चिदभिजानीयादभिवदेद्वा-- गुणानामात्मनि रीताविव, अलंकाराणां शरीरभूते शब्दार्थयुगले समवायवृत्त्या स्थितिरिति । एवं च गुणालंकाराणामुभयेषामपि समवायवृत्त्या स्थितिरित्यभिमन्यमानैः, 'भेदाभिधानं गण्ड्डरिकाप्रवाहनयेन इति यदुक्तम् , तन्निरस्तम् । किंच, 'रीतिरात्मा


1. गड्डलिकेति पाठान्तरम् । 'गडलिका मेषी काचिदेका केनचिद्धेतुना पुरो गच्छति । इतरास्तु विनैव निमित्तविचार तामनुगच्छन्ति । तथा केनाप्यालंकारिकेण गुणालंकारौ काव्यस्य' इति शब्दार्थयुगलकाव्यशरीरस्य रीतिमात्मानमुपपाद्य, 'विशिष्टा पदरचना रीतिः' इति रीतिं लक्षयित्वा, 'विशेषो गुणात्मा' इति गुणमात्रस्यैवात्मभूतरीतिनिष्ठत्वे प्रतिष्ठापिते यमकोपमादीनामलंकाराणां तच्छरीरभूतशब्दार्थनिष्ठत्वमर्थात्समर्थितं भवति । अत एवौजःप्रसादादीनां गुणत्वं यमकोपमादीनामलंकारत्वमिति च व्यपदेशभेदोऽप्युपपद्यते । एवञ्च सति 'पूर्वे नित्याः' इति सूत्रे गुणानां नित्यत्वम् अलंकाराणाम् अनित्यत्वमासूत्रयता सूत्रकृता गुणानां काव्यव्यवहारप्रयोजकत्वमुक्तं भवति । यथा च परमते व्यङ्गयस्य प्राधान्ये ध्वनिरुत्तमं काव्यम् , गुणभावे गुणीभूतव्यङ्गयं मध्यमं काव्यम् , संभावनामात्रे चित्रमवरं काव्यमिति काव्यभेदाः कथिताः ; तथात्रापि गुणसामग्र्ये वैदर्भी, अविरोधिगुणान्तरानिराधेन ओजःकान्तिभूयिष्ठत्वे गौडीया, माधुर्यसौकुमार्यप्राचुर्ये पाञ्चालीति काव्यभेदाः कथ्यन्ते । रीतिध्वनिवादमतयोरियांस्तु भेदः- तत्र प्रथमे रीतिरात्मा काव्यस्य; तद्व्यवहारप्रयोजका गुणाः । चरमे तु ध्वनिरात्मा; स एव तद्व्यवहारप्रयोजक इति । उभयत्राप्यात्मनिष्ठा गुणाः । शब्दार्थयुगलं शरीरम् ; तन्निष्ठा अलङ्कारा इति च सर्वमविशिष्टम् । ततश्च ‘किं समस्तैर्गुणैः काव्यव्यवहारः ? उत कतिपयैः ? यदि समस्तैस्तत्; कथमसमस्तगुणा गौडीया पाञ्चाली वा रीतिः काव्यस्यात्मा । अथ कतिपयैः; ‘अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः' इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः । ‘स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनि । अस्या रदच्छदरसो न्यक्करोतितरां सुधाम्' इत्यादौ गुणनैरपेक्ष्येण विशेषोक्तिव्यतिरेकालङ्कारयोरेव काव्यव्यवहारप्रयोजकत्वं च दृश्यते' इति स्वसंकल्पमात्रकल्पितविकल्पानां नावश्यमवकाशं पश्यामः । अथापि यदि पाण्डित्यकण्डूलवैतण्डिकचण्डिम्ना चिखण्डयिषा परस्य, तर्हि स्वमतं पृष्टः स्वयमेवाचष्टाम् ; 'तददोषौ शब्दार्थौ सगुणावनलंकृती पुनःक्वापि' इति काव्यसामान्यलक्षणे शब्दार्थयोर्गुणसाहित्यमिष्यते । 'काव्यस्यात्मा रसः' इति चोच्यते । तत्र किं गुणसमष्टिविशिष्टं काव्यम् ? तद्व्यष्टिवि-

केनचिदभिप्रायेण भिन्नतयोक्तौ । इतरे तु हेतुविचारं विनैव तदनुसारेण तद्भेदं वदन्तीति’ तस्याभिप्रायः । "गड्डरिका अज्ञातप्रवाहागमस्थानो धारावाहिकप्रवृत्तो नदीविशेष इति केचित् । मेषयूथैरनुगम्यमाना मेषीत्यन्ये । तन्न्यायेन भ्रान्तपरम्परैव भेदो व्यवह्रियते’ इति तु चक्रवर्तिप्रभृतयः ।  तान् क्रमेण दर्शयितुमाह--

गाढबन्धत्वमोजः ॥ ५॥

 बन्धस्य गाढत्वं यत् , तत् ओजः ।

 यथा--'विलुलितमकरन्दा मञ्जरीर्नर्तयन्ति' । न पुनः 'विलुलितमधुधारा मञ्जरीर्लोलयन्ति ।'

शैथिल्यं प्रसादः ॥ ६ ॥

 बन्धस्य शैथिल्यं शिथिलत्वं प्रसादः ।

 नन्वयमोजोविपर्ययात्मा दोषः, तत् कथं गुण इत्यत आह--

गुणः संप्लवात् ॥७॥


शिष्टं वा? नाद्यो निरवद्यः, एकैकगुणोदाहरणेषु काव्यत्वाभावप्रसङ्गात् गुणसमष्टिवैशिष्ट्याभावात् । न द्वितीयः, वस्त्वलंकारध्वनिषु गुणिनो रसस्याभावेन गुणस्यैवाभावात् । किंच, किं सर्वे रसाः संभूय काव्यात्मीभवन्ति ? उत एको रसः? आद्ये न कुत्रापि काव्यात्मसंभावना, विरोधिरसानामैकाधिकरण्यासंभवात्। द्वितीये वस्त्वलंकारध्वनिषु रसासंभवात् आत्मविधुरेषु काव्यव्यवहाराभावप्रसङ्ग इत्यलं परमतदोषोद्घाटनपाटवप्रकटनेन । प्रकृतमनुसरामः ।

 उद्देशक्रमादमीषां गुणानामसाधारणधर्मानाख्यातुमारभते--तान् क्रमेणेति । बन्धस्य पदरचनायाः गाढत्वं कनकशलाकावयवघटनवन्निबिडत्वम् । तत्र हेतवः- संयुक्ताक्षरत्वम्, निरन्तररेफशिरस्कैर्वर्गाणां प्रथमद्वितीयैस्तृतीयचतुर्थैः प्रथमैस्तृतीयैश्च संयोगाः, विसर्जनीयजिह्वामूलीयोपध्मानीयाः, गुर्वन्तता, समासाश्व, इत्येवमादयस्तरतमभावेनावस्थिताः। तत्रोदाहरणप्रत्युदाहरणे दर्शयति- यथेति । उभयत्र गाढत्वशैथिल्ये स्फुटे ।

 शैथिल्यमिति । अस्य वृत्तिः स्पष्टार्था ।

 शिथिलत्वमोजोगुणविपर्ययरूपम् । तदात्मकत्वे प्रसादस्य दोषत्वमेव स्यादिति परशङ्कां प्रस्तुत्य तां पराकर्तुमनन्तरसूत्रमवतारयति-- नन्विति । संप्लवो 10  गुणः प्रसादः, ओजसा सह संप्लवात् । शुद्धस्तु दोष एवेति ।

 ननु विरुद्धयोरोजःप्रसादयोः कथं संप्लव इत्यत्राह---

स त्वनुभवसिद्धः ॥ ८॥

 स तु संप्लवस्तु अनुभवसिद्धः तद्विदां रत्नादिविशेषवत् ।

 अत्र श्लोकः--

  'करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः ।
  यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥'

साम्योत्कर्षौ च ॥९॥

 साम्यमुत्कर्षश्चौजःप्रसादयोरनुभवादेव ।  साम्यं यथा- 'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।'

मेलनम् । प्रसादो गुणो भवत्येव, ओजसा गुणेन सह संप्लवात् । तदमिश्रं तु शैथिल्यं दोष एवेत्याह- शुद्धस्त्विति

 ननु गाढत्वशैथिल्ययोस्तमःप्रकाशवद्विरुद्धस्वभावयोः संप्लव एव न संभवतीति शङ्कामनूद्यानन्तरसूत्रेणापवदितुमाह--नन्विति । व्याचष्टे-स तु संप्लव इति । रत्नविशेषवत्परीक्षानुभवसाक्षिक इत्यर्थः ॥

 विरुद्धयोरपि क्वचित्संप्लवः संभवतीत्यभियुक्तोक्तिमभिदर्शयति--करुणेति । यानि करुणानि कारुण्यावहानि यानि मनोज्ञानि च वस्तूनि, तेषु युगपदनुभूयमानेषु समसमयसमुत्पन्नयोः सुखदुःखयोः संप्लवो यथा अनुभवतः स्वसंवेदनात् सिद्धः, तथा ओजःप्रसादयोरपि संप्लवः स्वसंवित्संवेद्यतया सिद्ध इति श्लोकार्थः।

 अत्र ओजःप्रसादयोः साम्ये पर्यायतः प्रकर्षे च प्रसादस्त्रिप्रकारो भवति । ते च प्रकारा अप्यनुभवगम्या इति दर्शयितुमाह- साम्योत्कर्षौ चेति । क्रमेण त्रिविधं प्रसादमुदाहृत्य दर्शयति--- साम्यं यथेति । 'विषयव्यावृत्ता क्वचिदोजः प्रसादादुत्कृष्टम् । यथा- 'व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।'

 क्वचिदोजसः प्रसादस्योत्कर्षः। यथा- 'कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ।'

मसृणत्वं श्लेषः ॥ १०॥

 मसृणत्वं नाम तत् , यस्मिन् सति बहून्यपि पदान्येकवद्भासन्ते।

 यथा- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।'

 न पुनः 'सूत्रं ब्राह्ममुरःस्थले ।' 'भ्रमरीवल्गुगीतयः ।' 'तटित्कलिलमाकाशम्' इति । एवं तु श्लेषो भवति 'ब्राह्मं सूत्रमुरःस्थले ।' 'भ्रमरीमञ्जुगीतयः ।' 'तटिज्जटिलमाकाशम् ।' इति ।

मार्गाभेदः समता ॥ ११ ॥


त्मा--' इत्यादावोजः, 'यथाविधि सूनवे' इत्यादौ प्रसादः। भिन्नदेशयोरप्योजःप्रसादयोः परस्परच्छायानुकारितया संप्लवः । उभयोरत्र साम्यं वेदितव्यम् । ओजसः प्रसादादुत्कर्षमुदाहरति---व्रजतीति । भल्लातकी नाम वीरवृक्षः। 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । 'कुसुमशयनम्' इत्यत्र प्रसादस्योत्कर्षो द्रष्टव्यः ।

 श्लेषं विशदयितुमाह--- मसृणत्वं श्लेष इति । मसृणत्वं विशिष्य दर्शयति-यस्मिन्निति । यत्र हि व्यासेऽपि समासवदवभासः स श्लेषः । 'अस्त्युत्तरस्याम्' इति सामान्येनोदाहरणमुक्त्वा श्लेषस्य व्यतिरेकमुखेनान्वयमाविष्करोति-न पुनरिति । 'सूत्रं ब्राह्ममुरःस्थले', 'भ्रमरीवल्गुगीतयः', 'तटित्कलिलमाकाशम्' इत्यत्र श्लेषः पुनर्नास्तीति संबन्धः । सूत्रं ब्राह्ममित्यत्र परसवर्णेऽपि परुषाक्षरोत्थानान्न श्लेषः । तर्हि कीदृशि विन्यासे श्लेषो भवतीत्यत आह- एवं त्विति । अस्य गुणस्य विपर्ययो विसन्धेर्वाक्यदोषस्य विश्लेषात्मा भेदः ।

 समतां समाख्यातुमाह-मार्गाभेद इति । आदिमध्यावसानेष्वैकरूप्यं  मार्गस्य अभेदः मार्गाभेदः समता । येन मार्गेणोपक्रमः, तस्य अत्याग इत्यर्थः, श्लोके प्रबन्धे चेति । पूर्वोक्तमुदाहरणम् ।

 विपर्ययस्तु यथा--

  'प्रसीद चण्डि ! त्यज मन्युमञ्जसा
   जनस्तवायं पुरतः कृताञ्जलिः।
  किमर्थमुत्कम्पितपीवरस्तन-
   द्वयं त्वया लुप्तविलासमास्यते ॥'

आरोहावरोहक्रमः समाधिः ॥ १२॥

 आरोहावरोहयोः क्रम आरोहावरोहक्रमः समाधिः परिहारः । आरोहस्यावरोहे सति परिहारः, अवरोहस्य वा आरोहे सतीति ।

 तत्रारोहपूर्वकोऽवरोहो यथा-

 'निरानन्दः कौन्दे मधुनि परिभुक्तोज्झितरसे ।'

 अवरोहपूर्वकस्त्वारोहो यथा-'नराः शीलभ्रष्टा व्यसन इव मज्जन्ति तरवः ।'


समतेत्यर्थः । तस्या विषयं दर्शयति- श्लोके प्रवन्धे चेति । किमत्रोदाहरणमिति चेदाह- पूर्वोक्तमिति । अस्त्युत्तरस्यामित्यादि । प्रत्युदाहरणमाह-विपर्ययस्त्विति । प्रसीद त्यजेति कर्तृवाचितया प्रक्रान्तस्य मार्गस्य आस्यत इत्यत्र त्यागान्न समता ।

 पञ्चमं गुणं प्रपञ्चयितुमाह- आरोहावरोहक्रम इति । अत्र स्वाभिमतं तावदेकमर्थं लक्षणवाक्यस्य समर्थयते- समाधिः परिहार इति । अवरोहे प्रवर्तमाने सत्यारोहस्य प्रवृत्तस्य परिहारः परित्यागः; आरोहे च सत्यवरोहस्य परिहारः; आरोहावरोहयोर्विरुद्धत्वेन यौगपद्यासंभवादिति भावः । दीर्घादिगुर्वक्षरप्राचुर्ये आरोहः । लघ्वादिशिथिलप्रायत्वे चावरोह इति द्रष्टव्यम् । तथा च आरोहपूर्वकोऽवरोहः, क्वचिदवरोहपूर्वक आरोह इति समाधेर्द्वैविध्यमुक्तं भवति । तत्राद्यमुदाहरति-आरोहपूर्वक इति । 'निरानन्दः कौन्दे' इत्यत्र गुर्वक्षरबाहुल्यादारोहः । मधुनीत्यत्र लघ्वक्षरप्राचुर्यादवरोहः । द्वितीयमुदाहरति----अवरोहपूर्वक  आरोहस्य क्रमः अवरोहस्य च क्रमः, आरोहावरोहक्रमः ; क्रमेणारोहणमवरोहणं चेति केचित् ।

 यथा- 'निवेशः स्वःसिन्धोस्तुहिनगिरिवीथीषु जयति ।'

न पृथगारोहावरोहयोरोजःप्रसादरूपत्वात् ॥ १३ ॥

 न पृथक् समाधिर्गुणः, आरोहावरोहयोरोजःप्रसादरूपत्वात् । ओजोरूपश्चारोहः, प्रसादरूपश्चावरोह इति ।

नासंपृक्तत्वात् ॥ १४ ॥

 यदुक्तमोजाप्रसादरूपत्वमारोहावरोहयोः, तन्न; असंपृक्तत्वात् । संपृक्तौ खल्वोजःप्रसादौ नदीवेणिकावद्वहतः ।

अनैकान्त्याच्च ॥ १५ ॥

 न चायमेकान्तः नियमः ; यदोजस्यारोहः ; प्रसादे चावरोह इति ।


इति । नरा इत्यत्र शैथिल्यादवरोहः । शीलभ्रष्टा इत्यत्र गुर्वक्षरप्रचुरत्वादारोहः । अस्यैव लक्षणवाक्यस्यान्यैरभिहितमर्थमभ्यनुजिज्ञासुरनुवदति --आरोहस्य क्रम इति । निःश्रेणिकारोहावरोहन्यायेन क्रमेणारोहणम् , क्रमेण चावरोहणमिति लक्षणवाक्यार्थः । उदाहरति-निवेश इति । 'निवेशः स्वःसिन्धोः' इत्यत्र निःश्रेणिकाक्रमेणारोहः । 'तुहिनगिरि--' इत्यत्रावरोहः ।

 ननु लक्षणवाक्यार्थपर्यालोचनया समाधेरोजःप्रसादानतिरेकान्न पृथक्त्वमिति शङ्कामङ्कुरयितुमुत्तरसूत्रमुपक्षिपति- न पृथगिति । व्याचष्टे ---- न पृथक् समाधिरिति ।

 आरोहावरोहावोजःप्रसादरूपौ न भवतः, असंपृक्तत्वात् । अतः परस्परच्छायानुकारितया संपृक्तयोरोजःप्रसादयोर्न समाघिरन्तर्भवतीत्यभिसंधाय सिद्धान्तसूत्रं व्याचष्टे--यदुक्तमिति । संपृक्तत्वं सदृष्टान्तमुपपादयति-संपृक्तौ खल्विति । संपृक्तसरिद्द्वयसलिलन्यायेन संपृक्तावोजःप्रसादाविति तद्विलक्षणयोरारोहावरोहयोः संपृक्तत्वव्यतिरेकादसंपृक्तत्वहेतोरसिद्धिरुद्धृता ।

ओजःप्रसादयोस्तीव्रावस्था ताविति चेदभ्युपगमः ॥ १६ ॥

 ओजःप्रसादयोः क्वचित्तीव्रावस्था । सा च आरोहावरोहाख्येत्येवं चेन्मन्यसे ; अभ्युपगमः न विप्रतिपत्तिः ।

विशेषापेक्षित्वात्तयोः ॥ १७ ॥

 स विशेषो गुणान्तरमेव ।


 ननु न केवलं नदीद्वयवेणिकान्यायेनौजःप्रसादयोः साम्येनावस्थितिः, किंतु 'साम्योत्कर्षौ च' इत्युक्तत्वात्समुद्रकस्थमणिप्रभासमूहन्यायादुच्चावचभावेन स्थितिः । तस्मिन् पक्षे कथमयं समाधिः पृथग्गुण इति शङ्कामपनेतुमाह-- अनैकान्त्याच्चेति । ओजःप्रसादयोरारोहावरोहसाहचर्यनियमो न संभवति, व्यभिचारात् । व्यभिचारस्तु, 'उद्गच्छदच्छसुभगच्छविगुच्छकच्छम्' इत्यादौ, 'यतो यतो निवर्तते ततस्ततो विमुच्यते' इत्यादौ च आरोहशून्यस्यौजसः, अवरोहशून्यस्य प्रसादस्य च स्थितत्वादित्यभिप्रायः ।

 नन्वारोहावरोहावोजःप्रसादयोरवस्थाविशेषौ स्याताम् ; अतो न पृथक् समाधिरिति यदि चोद्येत, तर्हि समाधेर्दत्तो हस्तावलम्ब इति दर्शयितुमनन्तरसूत्रमवतारयति--- ओजःप्रसादयोस्तीव्रावस्था ताविति । शङ्कांशं संकलय्य दर्शयति-- ओजःप्रसादयोः क्वचिदिति । सा चेति । सा च तीव्रावस्था । आरोहावरोहाख्येति । कारणे कार्यत्वमुपचर्योक्तम् ; यद्वक्ष्यति--- 'विशेषापेक्षित्वात्' इति, 'आरोहावरोहनिमित्तम्' इति च । अनुपचारे तु 'विशेषरूपत्वात्' इति, 'आरोहावरोहौ' इति च ब्रूयात् । ओजःप्रसादयोस्तीव्रावस्था आरोहावरोहयोः कारणमित्यर्थः । अनिष्टमापादयन् भवानभीष्टमेवाचष्टे इत्याह--अभ्युपगम इति

 परोक्तस्याभ्युपगमे पर्यवसितमर्थं समर्थयितुमाह-विशेषेति । विशेषः तीव्रावस्थात्मा, तमपेक्षितुं शीलमनयोरिति विशेषापेक्षिणौ तयोर्भावस्तत्त्वं तस्मात् । आरोहावरोहाभ्यामोजःप्रसादयोस्तीव्रावस्था हि स्वनिमित्तत्वेनापेक्षिता । सोऽयमोजःप्रसादव्यतिरेकेण समाधिरन्यो गुण इति सूत्रार्थः ।

आरोहावरोहनिमित्तं समाधिराख्यायते ॥ १८ ॥

आरोहावरोहक्रमः समाधिरिति गौण्या वृत्त्या व्याख्येयम् ।

क्रमविधानार्थं वा ॥ १९ ॥

 पृथक्करणमिति । पाठधर्मश्च न संभवतीति 'न पाठधर्माः सर्वत्रादृष्टेः' इत्येवं वक्ष्यामः ।

पृथक्पदत्वं माधुर्यम् ॥ २० ॥

 बन्धस्य पृथक्पदत्वं यत् , तत् माधुर्यम् । पृथक् पदानि यस्य स पृथक्पदः, तस्य भावः पृथक्पदत्वम् । समासदैर्घ्यनिवृत्तिपरं चैतत् । पूर्वोक्तमुदाहरणम् ।  विपर्ययस्तु यथा---'चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः।'


 नन्वमुमर्थमभिधातुं समाधिलक्षणवाक्यं न क्षमत इत्याशङ्क्य गौणवृत्तिराश्रयणीयेत्याह-आरोहावरोहेति । क्रमपदेन तन्निमित्तं लक्ष्यत इत्यर्थः ॥

 ननु अवस्था पुनरवस्थावतो यदा न भिद्यते, तदा तीव्रावस्था ओजःप्रसादात्मिकैव भवति । यद्यपि यद्यत् ओजः, तत्तत् आरोह इति नास्ति नियमः; तथापि यो य आरोहः, तत्तत् ओज इति भवति । ततः सत्यं न समाधिना प्रसादः स्वीक्रियते, प्रसादेन च समाधिः संगृह्यत एवेति किमर्थमस्योपादानमित्यत आह- क्रमविधानार्थं वेति । नात्र क्रमः परस्परम् ; अपि तु क्रमेणारोहणं क्रमेणावरोहणमित्येवंरूपः क्रमो ज्ञेयः । नन्वारोहावरोहक्रमः पाठधर्मः किं न स्यादिति चोद्यं वक्ष्यमाणयुक्त्या विघटितमित्याह--- पाठधर्मश्चेति

 माधुर्यमवधारयितुमाह- पृथक्पदत्वमिति । सूत्रार्थं विविङ्क्ते-बन्धस्येति । अव्याप्तिं परिहरति--- समासदैर्घ्यनिवृत्तिपरमिति । पूर्वोक्तमिति । 'अस्त्युत्तरस्याम्' इत्याद्युदाहरणम् । प्रत्युदाहरणमाह-- विपर्ययस्त्विति । समासपददैर्ध्यात् विपर्ययः । दत्तं धृतम् ।

अजरठत्वं सौकुमार्यम् ॥ २१ ॥

 बन्धस्य अजरठत्वम् अपारुष्यं यत् । तत् सौकुमार्यम् । पूर्वोक्तमुदाहरणम् ।

 विपर्ययस्तु यथा- 'निदानं निर्द्वैतं प्रियजनसदृक्त्वव्यवसितिः सुधासेकप्लोषौ फलमपि विरुद्धं मम हृदि।'

विकटत्वमुदारता ॥ २२ ॥

 बन्धस्य विकटत्वं यत् , असौ उदारता । यस्मिन् सति नृत्यन्तीव पदानीति जनस्य वर्णभावना भवति, तत् विकटत्वम् , लीलायमानत्वमित्यर्थः।

 यथा- 'स्वचरणविनिविष्टैर्नूपुरैर्नर्तकीनां झणिति रणितमासीत्तत्र चित्रं कलं च ॥

 न पुनः-- 'चरणकमललग्नैर्नूपुरैर्नर्तकीनां झटिति रणितमासीन्मञ्जु चित्रं च तत्र ।'

अर्थव्यक्तिहेतुत्वमर्थव्यक्तिः ॥ २३ ॥

 यत्र झटित्यर्थप्रतिपत्तिहेतुत्वम् , स गुणः अर्थव्यक्तिरिति । पूर्वोक्तमुदाहरणम् । प्रत्युदाहरणं तु भूयः सुलभं च ।


 सौकुमार्यं पर्यालोचयितुमाह- अजरठत्वं सौकुमार्यमिति । बन्धस्य अजरठत्वं कोमलत्वम् , श्रुतिसुखत्वमिति यावत् । पूर्वोक्तमिति । अस्त्युत्तरस्याम्' इत्याद्युदाहरणम् । प्रत्युदाहरणमाह--विपर्ययस्त्विति । सौकुमार्यस्य विपर्ययः कष्टत्वभिन्नवृत्तत्वे । निर्द्वैतं संशयाभावः । अत्र निर्द्वैतमिति कष्टम् ।

 उदारतामुदीरयितुमाह--विकटत्वमिति । क्रमशो वर्धमानाक्षरपदत्वम् , पदप्रथमाद्यक्षराणां पदान्तरप्रथमाद्यक्षरैः सादृश्यं च । उदाहरणप्रत्युदाहरणे दर्शयति- यथेति

 अर्थव्यक्तिं समर्थयितुमाह--अर्थव्यक्तीति । वृत्तिः स्पष्टार्था । पूर्वोक्तम् 'अस्त्युत्तरस्याम्' इति । सुलभं चेति । 'सपदि पङ्क्तिविहङ्गमनाम्' इत्यादि ।

औज्ज्वल्यं कान्तिः ॥ २५ ॥

 बन्धस्योज्ज्वलत्वं नाम यत् , असौ कान्तिरिति ; तदभावे पुराणच्छायेत्युच्यते ।

 यथा- 'कुरङ्गीनेत्रालीस्तबकितवनालीपरिसरः।'

 विपर्ययस्तु भूयान् सुलभश्च ।

 श्लोकाश्चात्र भवन्ति-

 पदन्यासस्य गाढत्वं वदन्त्योजः कवीश्वराः ।

 अनेनाधिष्ठिताः प्रायः शब्दाः श्रोत्ररसायनम् ॥

 श्लथत्वमोजसा मिश्रं प्रसादं च प्रचक्षते ।

 अनेन न विना सत्यं स्वदत्ते काव्यपद्धतिः ॥

 यत्रैकपदवद्भावः पदानां भूयसामपि ।

 अनालक्षितसंधीनां स श्लेषः परमो गुणः ॥

 प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः।

 दुर्बन्धो दुर्विभावश्च समतेति मतो गुणः ॥


अव्यवहितान्वयप्रसिद्धार्थपदत्वे हि भवत्यर्थव्यक्तिः । अस्य च विपर्ययः- असाध्वप्रतीतानर्थकान्यार्थनेयार्थगूढार्थयतिभ्रष्टक्लिष्टसंदिग्धायुक्तानि । असाधुत्वे हि भवति नार्थव्यक्तिः । यत्र च भवति, तत्र 'असाधुरनुमानेन वाचक: कैश्चिदिष्यते' इत्युक्तत्वादसाधुशब्द साधुशब्दानुमानद्वारेणार्थबोधक इति नार्थव्यक्तिः । पूरणार्थमव्ययं च कस्मादस्य प्रयोग इति संदेहावहत्वादर्थव्यक्तिं व्यवदधाति । यतिभ्रंशे च अर्थव्यक्तिहतिः । एवमन्यत्रापि द्रष्टव्यम् ॥

 कान्ति कथयितुमाह-- औज्ज्वल्यमिति । पत्रमिति वक्तव्ये किसलयमित्यादि, जलधाविति वक्तव्ये अधिजलधीति, राज्ञीति वक्तव्ये राजनीति, कमलमिवेति वक्तव्ये कमलायत इत्यादिः कान्तिहेतुः । विपर्ययस्य विषयं दर्शयति- तदभाव इति । अत्र संवादं संदर्शयन् , अमून् गुणान् अन्यश्लोकैरुपश्लोकयति- पदन्यासस्येत्यादि । श्लोकाः स्पष्टार्थाः ।

11

  आरोहन्त्यवरोहन्ति क्रमेण यतयो हि यत् ।
  समाधिर्नाम स गुणस्तेन पूता सरस्वती ॥
  बन्धे पृथक्पदत्वं च माधुर्यमुदितं बुधैः ।
  अनेन हि पदन्यासाः कामं धारामधुश्च्युतः॥
  बन्धस्याजरठत्वं च सौकुमार्यमुदाहृतम् ।
  एतेन वर्जिता वाचो रूक्षत्वान्न श्रुतिक्षमाः ॥
  विकटत्वं च बन्धस्य कथयन्ति ह्युदारताम् ।
  वैचित्र्यं न प्रपद्यन्ते यया शून्याः पदक्रमाः॥
  पश्चादिव गतिर्वाचः पुरस्तादिव वस्तुनः ।
  यत्रार्थव्यक्तिहेतुत्वात्सोऽर्थव्यक्तिः स्मृतो गुणः ॥
  औज्ज्वल्यं कान्तिरित्याहुर्गुणं गुणविशारदाः।
  पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः ॥
  यथा विच्छिद्यते रेखा चतुरं चित्रपण्डितैः ।
  तथैव वागपि प्राज्ञैः समस्तगुणगुम्फिता ॥

नासन्तः संवेद्यत्वात् ॥ २६ ॥

 न खल्वेते गुणा असन्तः, संवेद्यत्वात्तद्विदाम् ।

 संवेद्यत्वेऽपि भ्रान्ताः स्युरित्यत आह--

न भ्रान्ता निष्कम्पत्वात् ॥ २७ ॥


 नन्वेते गुणाः स्वसंकल्पनामात्रसाराः, रूपरसादिवदपरोक्षतया अधिगन्तुमशक्यत्वादिति शङ्कामुट्टङ्कयितुमाह--- नासन्त इति । अयमर्थः-- ओजःप्रमुखा एते गुणाः, असन्तः तुच्छा न भवन्ति । कुतः? संवेद्यत्वात् । सहृदयसंवेदनस्य विषयत्वात् ।

 असर्वजनीनत्वादियं प्रतीतिर्भ्रान्तिरेव किं न ‘स्यादिति शङ्कामङ्कुरयित्वा समुन्मूलयितुमाह--- न भ्रान्ता इतिनिष्कम्पत्वात् असर्वजनीनत्वेऽप्यबाधितत्वादित्यर्थः ॥  न गुणा भ्रान्ताः, एतद्विषयायाः प्रवृत्तेर्निष्कम्पत्वात् ।

न पाठधर्माः सर्वत्रादृष्टेः ॥ २८ ॥

 नैते गुणाः पाठधर्माः, सर्वत्र अदृष्टेः । यदि पाठधर्माः स्युः, तर्हि विशेषानपेक्षाः सन्तः सर्वत्र दृश्येरन् । न च सर्वत्र दृश्यन्ते । विशेषापेक्षया विशेषाणां गुणत्वाद्गुणाभ्युपगम एवेति ।

  इति काव्यालंकारसूत्रवृत्तौ गुणविवेचने
  तृतीयेऽधिकरणे प्रथमोऽध्यायः ॥


 ओजःप्रमुखा गुणाः पाठधर्मा इति प्रत्यवस्थातारं प्रत्याह-- न पाठधर्मा इति । व्याचष्टे-- नैते गुणा इतिसर्वत्र उदाहरणे प्रत्युदाहरणे च। पाठधर्मत्वे बाधकमाह-- यदि पाठधर्माः स्युरिति । सहृदयसंविदालम्बनतया विशेषाः केचिदपेक्षणीयाः त एव विशेषा गुणा इत्यभ्युपगन्तव्या इति ।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ गुणविवेचनं नाम

तृतीयेऽधिकरणे प्रथमोऽध्यायः॥