काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/आमुखम्

विकिस्रोतः तः
SRI VANI VILAS

SASTRA SERIES

. . . No. 5. . .
 




Kavyalankarasutra Vritti


with the commentary


KAMADHENU



SRIRANGAM:
SRI VANI VILAS PRESS.
1909.

॥ श्रीः॥

॥ काव्यालंकारसूत्रवृत्तिः ॥


वामनविरचिता

श्रीगोपेन्द्रतिप्पभूपालविरचितया

कामधेन्वाख्यया व्याख्यया

समुद्भासिता

अभिनवभट्टबाणशब्दतर्कालंकारविद्याभूषण
बिरुदभाजा वात्स्यचक्रवर्तिना
श्रीकृष्णसूरिणा
सम्यक्परिशोधिता

श्रीरङ्गनगरस्थ
श्रीवाणीविलासमुद्रायन्त्रालये
समुद्रिता।

१९०९

PREFACE.


When it was first proposed to include this book in the Sri Vani Vilas Sastra Series two considerations weighed in my mind. The first was there was no good and accurate edition of the work. The Kavyamala Series contained the text of the Sutras and the Vritti but unfortunately this edition left much to be desired. The Sutras were mistaken for the Vritti in several places and vice versa. Hence a correct edition was a necessity.The second consideration was to publish the rare commentary called Kamadhenu by Gopendra Tippa Bhupala. Two fine manuscripts of this commentary were obtained through the kindness of Sri Addanki Kumaratatachariar of Madras and Sri Srisailatatachariar of Little Conjeeveram. With the aid of these, this edition was begun and while it was in the press, there appeared in the Chowkamba Sanskrit Series this same work with this very commentary. A perusal of it clearly showed that I need not delay this edition and accordingly with the co-operation of Pandit R. V. Krishnamachariar, to whom my thanks are due, I have been able to complete this work and I leave it to the readers to judge how far I was justified in having pushed on this edition when others existed already in the field.

       J. K. Balasubrahmanyam.

॥ विषयानुक्रमणिका ॥


 पृष्ठम्
 भूमिका   ix
प्रथमाधिकरणम्      १-३८
 प्रथमोऽध्यायः      १-१२
 प्रयोजनसमीक्षा        
 द्वितीयोऽध्यायः       १३-२५
 अधिकारिचिन्ता       13
 रीतिनिश्चयः       15
 तृतीयोऽध्यायः       २६-३८
 काव्याङ्गानि       २६
 काव्यभेदः       ३४
द्वितीयमधिकरणम्      ३९-६८
 प्रथमोऽध्यायः      ३९-५२
 पददोषाः       ३९
 पदार्थदोषाः       ४३
 द्वितीयोऽध्यायः       53-६८
 वाक्यदोषाः       ५३
 वाक्यार्थदोषाः        ५८
तृतीयमधिकरणम्       ६९-९७
 प्रथमोऽध्यायः      ६९-८३
 गुणालंकारविवेकः        ६९
 शब्दगुणनिरूपणम्      ६९
 द्वितीयोऽध्यायः     ८४-९७
 अर्थगुणनिरूपणम्      ८४
चतुर्थमधिकरणम्     ९८-१४७
 प्रथमोऽध्यायः     ९८-११०
 शब्दालङ्कारविचारः      ९८
 द्वितीयोऽध्यायः     १११-१२४
 उपमानिरूपणम्      १११
 उपमादोषकथनम्       ११५
 तृतीयोऽध्यायः     १२५-१४७
 उपमाप्रपञ्चनिरूपणम्      १२५
पञ्चममधिकरणम्     १४८-१९२
 प्रथमोऽध्यायः     १४८-१५५
 काव्यसमयः      १४८
 द्वितीयोऽध्यायः     १५६-१९२
 शब्दशोधनम्      १५६

॥ श्रीः ॥

॥ भूमिका ॥


 साहित्यकलायामलंकारनिबन्धनेषु प्राचीनमत्युत्तमं चेदं सवृत्ति काव्यालं- कारसूत्राख्यं वामनीयं निबन्धरत्नम् । पुरा हि सर्वेष्वपि दर्शनेषु स्मृतिपथारोपणसौकर्याय ते ते महर्षयः परे च मेधाविनः प्रायः सूत्रात्मनैव विषयानुपनिवबन्धुरिति स्पष्टमिदं पुरातनचरितपरिशीलिनाम् । अतोऽपि सुकरमस्य वामनीयस्य प्राचीनत्वमवगन्तुम् । वामनात्पूर्वे च भामहप्रभृतयो यद्यप्यलंकारदर्शने निबन्धारः, तथापि ते किल कारिकारूपेणैव कलयामासुर्विषयानिति नात्र वामनेन ते तुलामधिरोढुं प्रभवन्ति । अलंकारदर्शनपरमतत्त्वस्य रसस्य स्वरूपादिविचारपराणि सूत्राणि महर्षिणा भरतेन प्रणीतानीति श्रूयते । परं तु बहुभिर्बहुधा 'व्याख्यायमानम् ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इत्येकं विहाय नान्यत्किंचिदपि संप्रति भरतप्रणीतमुपलभामहे सूत्रम। सांप्रतमधिगम्यमानं बर्थप्रतिपादकं भरतप्रणीततया व्यवह्रियमाणं नाट्यशास्त्रं तु प्रायेण कारिकात्मना क्वचित्क्वचित्सूत्रविलक्षणगद्यरूपेण चोपनिबद्धमेव सर्वतः समुपलभ्यते । पश्यामश्च वयं पूर्वोक्तं सूत्रमस्मिन्नाट्यशास्त्रेऽपि । किं तु नास्माकं निर्णयः, यदित एवेदं सूत्रमुद्धृत्य तैस्तैर्मेधाधनैरन्यथा चान्यथा च व्याख्यायत इति । यत इहैव एकतमपक्षावलम्बनपर्याप्ता ग्रन्थकृतैव प्रदर्शिता कापि विवृतिः । उक्तं हि भरतेन' इति प्रकाशं व्याचक्षाणो हि महेश्वरः 'तदीयग्रन्थान्तरोक्तकारिकाकथने च तस्य प्रकृतग्रन्थकृत्त्वाभावात् ग्रन्थकृतेति नोक्तम्' इति विलिखन्, मानवधर्मसूत्रमनुस्मृत्योरिव भरतसूत्रनाट्यशास्त्रयोः परस्परसंबन्धमभिप्रेतीत्यवगम्यत इति तदिदं मन्यामहे युक्तमभिहितं विमृश्यवादिना । अथवा एतदेव नाट्यशास्त्राभिहितं सूत्रमालंकारिकैरनेकधा व्याख्या-


. दृश्यतां काव्यप्रकाशरसगङ्गाधररादिषु व्याख्याभेदः । यत इत्यभ्युपगच्छाम' । क्वचित्वचित्सूत्रविलक्षणमपि वाक्यं श्रद्धाजाड्येन सूत्रमित्यङ्गीकुर्मः । तदेतदस्माकं सर्वात्मना भवति भूषणम् , नांशतोऽपि किमपि दूषणम् । एतदेव खलु वयमभिधातुमभिलषामः-- न खल्वस्ति संप्रति समुपलभ्यमानेषु अलंकारदर्शननिबन्धेषु, विहाय वामनीयम् , प्राचीनं किमपि संपूर्ण सूत्रात्मना समुपनिबद्धं निबन्धनमिति । परस्ताच्च वामनमनुकुर्वाणा राजानकरुय्यकप्रभृतयः कतिपये सूत्राणि निर्ममिर इत्यन्यदेतत् ॥

 अलंकारनिबन्धनानां च भिन्नभिन्नानि प्रस्थानानि दृश्यन्ते । ध्वन्या- लोकादिषु हि प्राधान्येन ध्वनिविचार एव कृतः । काव्यप्रकाशादयस्तु नाटका- दिलक्षणनिरूपणादिकमंशतोऽपि न विरचयन्ति । दशरूपकादिकर्तारस्तु प्राधा- न्येन नाटकलक्षणादिकं संक्षेपेण रसांश्च निरूपयन्ति । रसचन्द्रिकादीनां तु रसनिरूपणं परं विषयः । अलंकारसर्वस्वकारादयस्तु अलंकारनिरूपणं परमा- द्रियन्ते । आचार्यदण्डिनापि प्राचीनेन काव्यादर्शे काव्यमार्गविभागार्थालंकार- शब्दालंकारा एव प्रतिपादिताः । साहित्यदर्पणादिकृतः कतिपये परमर्वाचीनाः प्रायेणालंकारदर्शनस्य सर्वा अपि गमनिकाः संक्षेपेण सम्यङ निरूपयामासुः । तन्नैतदाश्चर्यमसंभावितं वा, यदनेनापि वामनेन अलंकारदर्शनस्य कतिपये पर विषयाः प्रतिपादिताः, न पुना रसनिरूपणादिषु रम्यतरेप्वपि विषयेषु स्वात्मना कोऽपि समदर्शि समादर इति ॥

 अत्र हि पञ्च अधिकरणानि, द्वादश अध्यायाश्च सन्ति । प्रायेण हि ब्रह्मसूत्रादिषु अध्यायस्य प्राधान्येन अन्तर्गतानामधिकरणव्यपदेशो दृश्यते । इह तु भिन्नैव विपरीतेयं रीतिरिति न जानीमः किं वाभिमतं वामनस्य ॥

 प्रथमे खल्वधिकरणे आदितः काव्यस्य दृष्टादृष्टार्थत्वम् , पश्चाच्च अधि- कारिणं निरूप्य, आत्मत्वेन स्वाभिमता रीतिः परस्तात्प्रतिपादिता। शब्दार्थ- युगलात्मकस्य हि काव्यस्य आत्मानं प्रति बहूनामभिप्रायभेद उपलक्ष्यते । अर्वाचीनाश्च तदिदं वामनमतं नाभिनन्दन्ति । विशिष्टपदरचनात्मिकायाश्च रीतेः कथं वा आत्मत्वमभ्युगम्यतां तैः । यद्यपीदं मतं - गुणोद्देशसूत्रे व्याख्यात्रा महता संरम्भेण समर्थितम् ; अथापि व्याख्यातृवचनं तदद्याप्यप्रतिष्ठितनैवेति ध्वनिवादिमतमिव न सहृदयानां हृदयेन संवदति वामनमतमित्येतावदेव संप्रति क्तुं वाञ्छामः । ‘सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति' इति वामनः । अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् । तत्र वैदर्भगौडीयो वर्ण्येते प्रस्फुटान्तरौ' इत्याचार्यदण्डी । ‘सा पुनः म्याच्चतुर्विधा । वैदर्भी चाथ गौडी च पाञ्चाली लाटिका तथा' इति दर्पणकृदादयः । भोजराजस्तु 'वैदर्भी चाथ पाञ्चाली गौडीयावन्तिका तथा । लाटीया मागधी चेति पोढा रीतिर्निगद्यते' इत्याह । रसावस्थानसूचिकानामन्यैरभिहितानामपि कैशिक्यादिवृत्तीनामिहानिरूपणं तु, रीतेर्गुणविशेषलक्षितत्वात् गुणस्य च अन्योक्तविधया प्रतिरसनियतत्वात् रीतिनिरूपणेनैव गतार्थं तन्निरूपणमिति, अत्रैवोक्तरीत्या अन्तर्भावान्न ताः पृथग्व्यपदेशमहन्तीति वा अभिप्रायेण स्यादिति मन्यामहे । ततश्च 'लोको विद्या प्रकीर्णे च काव्याङ्गानि' इत्युपक्रम्य, अनितरसाधारणमतिविशदं काव्याङ्गानि प्रतिपाद्य, 'काव्य गद्यं पद्य च' इत्यादिना काव्यभेदः सलक्षणं निरूपितः । अन्यैरभिदार्शितो ध्वन्यादिकाव्यभेदप्रकारस्तु 'नानेनादृतः ॥

 द्वितीये त्वधिकरणे प्रथमतः पदपदार्थदोषनिरूपणं परस्ताच्च वाक्यवाक्या- र्थदोषनिरूपणमारचितम् । अत्र च प्रकरणे परिमिता एव दोषाः प्रदर्शिताः प्राचा वामनेन । प्रकाशादिषु तु महता प्रघट्टकेन दोषाणामवान्तरभेदा अपि बहवो निरूपिताः । संज्ञाया एकत्वेऽपि वामनमम्मटादीनां लक्षणभेदेन एकस्य लक्षणम- परस्य इतरस्य लक्षणमन्यस्येत्येवमापतितमिति सुगममेवेदं बहुग्रन्थपरिशीलिनाम् । इदमस्माकमत्र प्रतिभाति--- कालानुसारेण तात्तत्कालिकव्युत्पित्सुसमुदायानुरोधेन च खलु दोषाणामुचितं परिगणनम् । पूर्वे हि परीक्षका व्युत्पत्तिदार्ढ्यात्कठिनमपि पदजातमर्थतोऽवगन्तुमलमभूवन् । रसप्रतीतिः परं यत्र स्थगिता भविष्यति, तत्रैव दोषबुद्धिं कलयामासुः । तथा च तदानीं रसप्रतीतिस्थगनपराणामेव, न तु अर्थप्रतीतिस्थगनकारिणां दोषाणां दोषत्वमिति संख्यया तेषां न्यूनता स्वाभाविक्येव । क्रमेण च साहित्यपरिश्रमस्येव व्युत्पत्तेरपि परिक्षीणतया अर्थप्रतीति- स्थगनपराणामपि क्लेशानां कालानुरोधेन दोषगणना अवश्यकतव्या संवृत्तेति तदिदमेव स्यात्कारणमर्वाचीनानामालंकारिकाणामधिकाधिकं दोषनिरूपणे कारणमिति ।।

1. 'वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चित् ध्वनिभेदोऽलकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मत्वेनोक्ता' इति सर्वस्वकारः।  तृतीये चाधिकरणे ओजःप्रसादादयः काव्यशोभायाः कर्तारो दश गुणाः शब्दार्थाश्रिता निरूपिताः । “काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते' इत्याचार्यदण्डिमतमनभिनन्दतेव वामनेन 'काव्यशोभायाः कर्तारो धर्मा गुणाः' 'तदतिशयहेतवस्त्वलंकाराः' इति तयोर्विवेकः प्रदर्शितः । मम्मटादयस्तु 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतुवस्ते स्युरचलस्थितयो गुणाः' - उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनु- प्रासोपमादयः' इत्याहुः । आचार्यदण्डिनेव वामनेनापि दशैव गुणा अङ्गीकृताः । भरतेनापि दशैव ते स्वीकृताः । प्रकाशकारादयस्तु केषांचिद्गुणानां दोषाभावत्वमभ्युपेत्य, 'माधुर्योजःप्रसादाख्यास्त्रयस्ते न पुनर्दश' इत्यातिष्ठन्ते । सति चैवं वैपरीत्यं विनिगमकाभावश्च कुतो न स्यादिति त एते प्रष्टव्या भव- न्ति । दोषगुणविवेचकाभ्यां चैताभ्यां द्वितीयतृतीयाभ्यामधिकरणाभ्यां कीदृशीं कोटिमधिरूढः पूर्वेषामाचार्याणां विमर्शविभव इति ननु नव्यशिक्षितैरवश्यमिद- मालोचनापथमधिरोपणीयम् ॥

 चतुर्थे त्वधिकरणे प्रथमतः शब्दालंकारविचारः, पश्चादुपमाविचार , परस्ताच्च उपमाप्रपञ्चविचारः कृतः । शब्दालंकारौ च यमकानुप्रासौ द्वावेव निरू- पितौ । अर्वाचीनैस्तु वक्रोक्तिपुनरुक्तवदाभासानुप्रासयमकश्लेषचित्राण्यपि शब्दालंकारतया प्रकाशितानि । भरतस्तु यमक्रमेकमेव स्वयमाद्रियते । अर्थालंकारनिरूपणावसरे च सर्वेऽप्यालंकारिका उपमामेवादौ निरूपयन्ति । उपमायाः प्रकृतित्वादुपजीव्यत्वात्तन्निरूपणमेव प्रथमतः सांप्रतमिति उपमैका शैलूषी-' इत्यादि लिखन्तः समर्थयन्ते व्याख्यातारः । प्रदर्शयन्ति च ते प्रायः सर्वेष्वपि अलंकारेषु उपमाया अनुगममुदाहरणमुखेन । वयं पुनर्बहुधा श्राम्यन्तोऽपि विभावनाविरोधाभासादिषु बहुषु अलंकारेषु उपमानुगममपश्यन्त उपमाया. प्रकृतित्वं प्रायोवादेनेति ब्रूमः । इदमत्र वक्तव्यमस्माकमाभाति- आस्तां नाम शास्त्रीयसंप्रदायानुसारेण अलंकाराणां काव्यशरीरभूषकत्वप्रयोजनाभ्युपगमनिर्बन्धः। एतदेव पुनरलंकारयोजनस्य परमं प्रयोजनम् --- यद्वक्तव्यार्थस्य स्फुटप्रतीत्या श्रोतुर्मनसि दृढं संलगनम् । निर्विवादमेवेदमभ्युपगम्यते हृदयालुभिर्विद्वद्भिर्भा- षान्तरेष्वलंकारप्रयोगस्य प्रयोजनम् । अस्य च फलस्य स्वप्रयोगेण सुविशदं 1, नाट्यशास्त्रे षोडशे अध्याये ९२. पद्यूं दृश्यताम् । निर्वाहको नूनमुपमालंकार एवेति ननु जानाति यथाजातोऽपि । सोपमानमभि- हितोऽर्थः स्फुटं मनसि संक्रामतीति को नु खल्बनुन्मत्तो नाभ्युपैप्यति ? यथा चोपमायाः, तथा तदुपजीविनामपि परेषां भवति तदिदं फलमलंकाराणामिति न खलु दुरवगाहोऽयमर्थः सहृदयानाम् । इत एव च, मन्यामहे, कारणादागतं स्यादन्यतः प्राधान्यमुपमाया इति । अत एव चादिकाव्ये श्रीमति रामायणे भगवान्वाल्मीकिः, तदुपजीवनेन कृतार्थ परिपूतं चात्मानमभिमन्यमानो महाकविः कालिदासश्च सर्वेष्वपि स्वकीयेषु प्रबन्धरत्नेषु भूयसा उपमां तत्संनिकृष्टांश्च अलंकारान् लेशेन च तदितरान्प्रयुक्ते । परिशील्यन्तां कालिदासीयानि गद्यानि पद्यानि च । कति नाम तत्र उपमास्तदुपजीविनश्च विद्यन्ते अलंकारा इति पर्यालोच्यताम् । शते पञ्चसप्तत्यधिकानि किल वाङ्मयान्येवमुपारूढकान्तीनि प्रकाशन्ते । को हि नाम महामना अलंकारतत्त्वमुपमावैभवं च जानानो विहायैतां रीतिमन्यामेव कांचिज्जातुचिदाद्रियेत । 'उपमा कालिदासस्य' इति प्रथापि निपुणं निरूप्यमाणे, विश्वसिमः, इत एवं जगति सर्वतः समुपारूढा । एतदेव च सर्वात्मना संदर्शयितुं महाकविरयम् ‘वागर्थाविव संपृक्तौ' इति प्रथमपद्ये प्रथमत एव उपमाशिरस्कमात्मनः साहित्यशिल्पमनल्पमाविश्चक्रे । शब्दे उच्चारिते अर्थप्रतीतिः संभवति विना विलम्बमिति प्रतिकलमनुभवेन जानतां शब्दार्थसंबन्धस्य नित्यत्वमजानतामपि बालानां स्वानुभवसाक्षिक एव शब्दार्थयोः परस्परमतिनिबिडः संबन्ध इति काव्यारम्भ एव साधीयसीमिमामुपमामुपनिबध्नतो महाकवेरस्य मतिमहिमानं कथं वयं वर्णयितुं प्रभवामः । एतदेव किल महाकवेरन्यविलक्षणं लक्षणम् , यदत्र विचारेण शब्दार्थ- संबन्धनित्यत्वमवगच्छतां पण्डितानामिव अनुभवेन शब्दार्थयोर्निबिडं कमपि संबन्धमूहमानानां बालानामप्यनुग्रहाय तदुभयसाधारण्येनोपमायाः समुपनिबन्धो नाम । एतत्सर्वमालोच्यैव भरतेनापि 'उपमा रूपकं चैव दीपकं यमकं तथा । काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः' इत्यर्थालंकारास्त्रय एव स्वीकृताः । वामनश्चात्र आदित उपमा तदोषांश्च निरूप्य अनन्तरम् 'प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः' इति प्रतिज्ञाय प्रतिवस्तुप्रभृतीन् शुद्धान्.सप्तविंशतिमलंकारान् लक्षणतो लक्ष्यतश्च निरूपयति । परस्ताच्च · अलंकारस्यालंकारान्तरयोनित्वं संसृष्टिः' इति लक्षयित्वा तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ' इति द्वावाह । अर्वाचीनास्तु अलं- 6 कारस्यालंकारान्तरयोगे संसृष्टिसंकरतद्भेदान्बहूनभ्युपगच्छन्ति । उपमाप्रपञ्चत्वं च विरोधादीनां कथमित्येतदतिनिगूढ रहस्यम् । अपि नाम समासोक्त्यादिन्यायेन उभयोरर्थयोरुपमानोपमेयभावकल्पनं सहृदयहृदयसंवादि ? इत्थं च वामनमते त्रिंशदर्थालंकारा इति सिद्धम् | काव्यादर्शे तु ' स्वभावाख्यानमुपमा--' इत्यादिना पञ्चत्रिंशदर्थालंकारा अभ्युपगता. । पर तु 'ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति' इति परिगणनस्य प्रायिकत्वं तत्रैवाभिहितम् । रुद्रटस्तु 'अर्थस्थालंकारा वास्तवमौपम्यमतिशयः श्लेषः । एषामेव विशेषा अन्ये तु भवन्ति निःशेषाः' इति प्राधान्येन चतुर एवालंकारानभ्युपगच्छति । मम्मटः पुनः संसृष्टिसंकराभ्यां सह उपमादीनेकषष्टिमलंकारानभिप्रैति । सर्वस्वकारमते तु'द्वासप्ततिरर्थालंकाराः । कुवलयानन्दकारः परम् ‘इत्थं शतमलंकारा लक्ष- यित्वा निदर्शिताः । प्राचामाधुनिकानां च मतान्यालोच्य सर्वतः' इत्युक्त्वा, रसवदादिकांश्चतुरः भावोदयादींस्त्रीन् , प्रमाणालंकारानष्टौ, संसृष्टिसंकरौ च द्वावङ्गीकरोतीत्याहत्य तन्मते सप्तदशाधिकशतमर्थालंकारा इति सिध्यति । अर्वाचीनाश्च केचिन्मम्मटमतमाद्रियन्ते; अपरे च सर्वस्वसरणिम् , कतिपये च कुवलयानन्दरीतिम् । चमत्कारैकजीवातुत्वादलंकाराणां यत्र चमत्कारविशेष उपलक्ष्यते, तत्र भिन्न एवालंकार इत्यातिष्ठमानाः, अत्र चमत्कारभेदोऽस्ति नास्तीति विवादेन तत्र तन्नान्तर्भाव पार्थक्यं च स्वस्वानुभवबलेन स्वेच्छया वा स्थापयन्त्यर्वाचीना आलंकारिकाः । स्वस्वानुभवसाक्षिके शपथैकनिर्णेयेऽस्मिन्विचारे पुनरस्मादृशामन्यतमपक्षावलम्बनं सर्वथा दुःशकमिति तत्तन्मताभिनन्दनमेव सांप्रतमिति प्रतिभाति । अर्थालंकारविषये च वामनादारभ्यैव प्राचामर्वाचां च लक्षणभेदेन एकम्य मते एकोऽलंकारः, स एव परस्य मते पर एव भवतीति स्पष्टमिदं विमर्शकानाम् ।

 पञ्चमे त्वधिकरणे वामनोऽयं द्वाभ्यामधिकरणाभ्यां काव्यसमयं शब्दशुद्धिं च निरूपयति । काव्यसमयनिरूपणं च नितरां संकुचितं न खलु तद्वयपदशमहंतीति प्रतिभाति । अर्वाचीनास्तु ' सतामप्यनुपनिबन्धः । असतां चोपनिबन्धः' इत्यारभ्य सुस्पष्टं बहून् काव्यसमयानभिदर्शयामासुः । शब्दशुद्धिविवेक-

1. अतिशयोक्तिभेदान्तरस्य गणने त्रयःसप्ततिः । 2. दृश्यन्तां वामनीयानि समासोक्त्यप्रस्तुतप्रशसादिलक्षणानि । प्रकरणे च प्रायेण वैयाकरणैः समर्थितान् शब्दान् तथैव समर्थयति । अगत्या च तत्र तत्र चिन्दतामप्याविर्भावयति । धातुपाठादिविषये च क्वचिक्वचिदाधुनिक- वैयाकरणग्रन्थमताभ्यामस्ति दृश्यते वामनस्य विरोधः । आनुनामिक्यप्रतिज्ञान्या- येन संप्रदायागतांस्तांस्तान्विशेषानतिदृढं विश्वसन्तो वयं न खल्वत्र किमपि कारणमात्मना जानीमः । प्रायोगिकाधिकरणद्वितीयाध्यायस्य वैयाकरणकृत्यत्वमाकलयन्तः प्रत्यवस्थातारः, काव्यशरीरशब्दशोधनमपि नालंकारिकस्य नानुगुणमिति परं निवेदनीया भवन्ति ।

 अथास्य वामनस्य जीवितसमयं विमृशामः । अत्र केचित्---- " अयं ख्रिस्तीयसप्तमशतकोत्तरार्धान्न प्राचीनः; यतोऽयं भवभूतिप्रणीतोत्तररामचरिता- दिश्लोकानुदाहृतवान् । भवभूतिः ख्रिस्तीयसप्तमशतकोत्तरार्धे कान्यकुब्जमही- पालस्य यशोवर्मणः सभायामासीदिति सुप्रसिद्धमेव । अथ च ध्वन्यालोकलोचने प्रथमोद्रयोते 'वामनाभिप्राणायमाक्षेपः । भामाहाभिप्रायेण तु समासोक्तिरित्य- मुमाशयं हृदये गृहीत्वा समासोक्त्याक्षेपयोरेकमेबोदाहरणं व्यतरद्ग्रन्थकृत्' इति वदन्तः श्रीमदाचार्याभिनवगुप्तपादा ध्वन्यालोककर्तुः श्रीमदानन्दवर्धनाद्वामनस्य प्राचीनत्वं प्रकटयन्ति । कश्मीरेषु अवन्तिवर्मराज्यसमये नवमशतकोत्तरार्धे श्री- मदानन्दवर्धन आसीदिति राजतरङ्गिण्याः प्रतीयते । तस्मात् ख्रिस्ताब्दीयनवमश- तकोत्तरार्धानाधस्तनो वामनः । भाति चायं काश्मीरकः । अष्टमशतके कश्मीरमही- पतेर्विपश्चिद्वरस्य श्रीजयापीडस्य मन्त्री कश्चन वामनाभिध आसीत् । 'मनोरथं शङ्खदत्तश्चटकः संधिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः' इति राजतरङ्गिणी । स एवायं काव्यालंकारसूत्रप्रणेतेत्यपि केचन काश्मीरका वदन्ति । काशिकावृत्तिकारो वामनस्त्वस्माद्भिन्नः प्राचीनश्च । चीनदेशात्तीर्थयात्रार्थ भारतवर्षे सप्तमशतकपूर्वार्धे कश्चन ह्यून्सङ्गनामा पुरुषः समागतः । तदात्र वामन- प्रणीतायाः पाणिनिसूत्रव्याख्यायाः (काशिकायाः) पठनपाठनेषु प्रचार आसी- दिति हि तदीययात्रावर्णनपुस्तकात्पाश्चात्त्यैः पण्डितैरधिगतम्” इति विलिखन्ति ।

 परे त्वत्र प्रत्यवतिष्ठन्ते---- चीनयात्रिकेण खलु तदा काशिकायाः प्रचार आसीदित्येव विलिखितम् ; न तु संपूर्णाया इति, न वा वामनप्रणीताया इति । तच्च तदीयं वचनं जयादित्यकृतं भागमादायैव कुतो नात्मलाभमधिगच्छतु । अत एव केचन विमर्शकाः “प्रायशः ख्रिस्ताब्दीये अष्टमे नवमे वा शतके काशिकावृत्तेः पूर्तिरासीदिति नवीनविचारणाविशारदानां मतम्' इत्यभि- प्रयन्ति । नापि पूर्वोक्तेन लोचनवाक्यमात्रेण वामनस्य ध्वन्यालोककर्तुः प्राची- नत्वमभ्युपगन्तुं शक्यते; यत इयं शैली व्याख्यातॄणाम्-- यत्स्वापेक्षया प्राचीन मतं खव्याख्येयग्रन्थाभिप्रायादपि पूर्वत्वं प्रापय्य तत्र तत्रावतारिकादान- भाववर्णनादिष्वप्रतिबन्धं प्रवर्तनं नाम। इदं चात्रालोचनीयम् , यदत्र वृत्तौ माघो भट्टनारायणश्च पद्याभ्यामुदाहृताविति । माघस्य च कालो नवमशतकोत्तरार्ध इति (८६०) डवप्रभृतयो वदन्ति सहेतुकम् । भट्टनारायणश्च अष्टमशतकोतरार्धे नवमशतकारम्भे वा स्यादिति श्रीवैद्यप्रभृतिभिः सप्रमाणं निर्धारितम् । उदाहरणतया ग्रन्थकृद्भिरुपादानस्य च ग्रन्थावतारात्परं कतिपये वत्सरा अपेक्षणीया इति सर्वसंप्रतिपन्नमिदम् । ध्वन्यालोकलोचनकर्ता अभिनवगुप्तपादाचार्यश्च ख्रिस्तीयदशमशतकोत्तरभागे एकादशशतकारम्भे च कश्मीरेषूवात्सीदिति तत्कृतबृहप्रत्यभिज्ञाविमर्शनीसमाप्तिस्थपद्यादवगम्यत इति श्रीमान् दुर्गाप्रसादः । इत्थं च वामनोऽयं ख्रिस्तीयदशमशतकोत्तरार्धान्नार्वाचीनः, नवमशतकान्न प्रा- चीन इति प्रमाणमार्गागतमिति प्राहुः ।

 इदं च वयं विमर्शकानां दृष्टौ कुर्म:- काव्यादर्शकर्ता आचार्यदण्डी तावद्वामनादिभ्यः प्राचीन आलंकारिक इति निर्विवादमिदम् । तेन च काव्यादर्शे ” द्वितीयपरिच्छेदान्ते 'उपमारूपकं चापि रूपकेष्वेव दर्शितम्' इति, 'उत्प्रेक्षा- भेद एवासावुत्प्रेक्षावयवोऽपि च' इति वदता 'तद्भेदावुपमारूपकोत्प्रेक्षावयवौ' इति वामनमतं निराकृतमिव प्रतिभाति । तत्कथमिदमुपपद्यताम् । वामनादन्येन च प्राचीनेनालंकारिकेण तावभ्युपगतौ स्यातामिति वा समूहनीयम् । एवमपि प्राचीनेनालंकारिकेण खण्डितस्य विषयस्यार्वाचीनेन विनैव युक्तिप्रदर्शनमभ्युपगम- व्यसनं कथं नाम संगच्छतामिति तु संशयः प्रादुर्भवति । परस्परवार्तानभिज्ञौ ताविति कल्पनं त्वतिसाहसमेव सहृदयानाम् ।

 अस्य च प्राचीनस्यालंकारनिबन्धनस्य नैतावता समीचीनं परिशोधितं मुद्रापणमासीत् । मूलमात्रं च. चिराद्बहोस्तैस्तैर्मुद्रापितमपि न व्युत्पित्सुनामुपकाराय तावते समकल्पत, वस्तुतो यावते भाव्यमेतेन । शोधकाश्च आलस्याद्वा 1. दृश्यतां मद्रपुरमुद्रापितरूपावतारभूमिकासप्तमपुटः । प्रमादाद्वा अन्यैर्वा कारणैः सूत्रवृत्तिविवेकमनाकलयन्त एवं सूत्राणि वृत्तीवृत्तीश्च सूत्राणि तत्र तत्र विद्यार्थिभिर्विलिख्यमाना ग्रन्थाद्बहिर्भूताश्च टिप्पणीर्ग्रन्थाक्षराणि च मन्यमानास्तथैव मुद्रापयित्वा काव्यालंकारसूत्रवृत्तिमिमां प्राचीनां बहुधा आकुल्यकार्युः । तिप्पभूपालकृतव्याख्यानेन सह वृत्तिमिमां मुद्रापितवन्तश्च केचित् मुद्रितपूर्वमूलग्रन्थपाठादिप्रामाण्यभ्रमेण व्याख्याक्षराण्येवा- न्यथयन्तः, क्वचित्कचिच्च व्याख्यानपक्तीरेव मुद्रितमूलग्रन्थविसंवादिनीः परित्यजन्तः तत्रैव पुस्तके निर्दिष्टानि पाठान्तराणि व्याख्यानेन संवदन्तीत्यालोच- यितुमप्यलसा बह्वाकुल्यभावयन्भूयोऽपि वृत्तिमेनाम् । तदेतत्सर्वमालोच्य व्याख्यानग्रन्थस्येव मूलग्रन्थस्याप्यादर्शान्तराण्यानीय व्याख्यामूलग्रन्थयोः संवादं सम्यक् परीक्ष्य व्याख्यानानुगुणं तत्र स्थितं पाठमादृत्य सयुक्तिप्रमाणं सूत्राणि वृत्तीश्च शृङ्गग्राहिकया निर्धार्य यावन्मतिबलं परिष्कारमाधाय सव्याख्यानामेनां काव्यालंकारसूत्रवृत्तिं बहिरिदानीमवतारयामः । यदि च व्युत्पित्सूनां विदुषां चायमस्मत्परिश्रमो विमर्शनावसरे लेनाप्यभिनन्दनमर्हति, तदा ससंतोषमस्मदीय- प्रयासस्य चारितार्थ्यमाकलयामः ।।