काव्यालङ्कारसारसङ्ग्रहः/प्रथमः वर्गः

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमदुद्भटभट्टप्रणीतः

काव्यालङ्कारसंग्रहः


प्रथमो वर्गः

श्रीमत्प्रतीहारेन्दुराजविरचितयाकाव्यालङ्कारसारलघुवृत्त्या समेतः।

यल्लक्ष्म्या हसितैः सितैर्धवलितं नर्मोक्तिलीलाजुषः

शौरेः स्फीतगभस्तिकौस्तुभरुचा यच्च क्वचित्पाटलम्।

अन्यत्र च्छुरितं यदम्बररच हेमप्रभादीप्रया

तद्वक्षोऽक्षतशक्रचापशबलव्योमाभमव्याज्जगत्।। 1।।

महिषितवपुषि सुरद्विषि दर्शितभयमभयदं द्युसद्मभ्यः।

नन्दितसुरेन्द्रवन्दितमङ्घ्रियुगं गौरि तव वन्दे।। 2।।

विद्वदग्र्यान्मुकुलकादघिगम्य विवच्यते।

प्रतीहारेन्दुराजेन काव्यालङ्कारसंग्रहः।। 3।।

पुनरुक्तवदाभासं छेकानुप्रास एव च।

अनुप्रासस्त्रिधा लाटानुप्रासो रूपकं चतुः।।

उपमा दीपकं चैव प्रतिवस्तूपमा तथा।

इत्येत एवालङ्कारा वाचां कैश्चिदुदाहृताः।।

अत्रालङ्कारा अष्टावुद्दिष्टाः। तत्रादौ चत्वारः शब्दालङ्कारा निरूपिताः। रूपकादीनां तु चतुर्णामत्र अर्थालङ्कारता। अत्रानुप्रासे रूपके यथाक्रमं त्रिधेति चतुरिति वचनं विप्रतिपत्तिनिरासार्थम्। भामहो हि ग्राम्योपनागरकावृत्तभेदेन द्विप्रकारमेवानुप्रासं व्याख्यातवान्। तथा रूपकस्य ये चत्वारो भेदा वक्ष्यन्ते तन्मध्यादाद्यमेव भेदद्वितयं प्रादर्शयत्। अतः स्वाभिमतभेदोपदर्शनद्वारेण एवंविधविप्रतिपत्तिनिरासार्थमुद्देशावस्थायामेवानुप्रासस्त्रिधेति रूपकं चतुरिति चोक्तम्। रूपकं चतुरित्यत्र

रूपकत्वेन सह एकस्मिन्नर्थे वर्तमाना सत्ता रूपकेदेष्वावर्तमाना प्रतीयते। अतः प्रतीयमाना यासौ रूपकत्वैकार्थसमवेता सत्तात्मिका भवनक्रिया तदभ्यावृत्तावयं "द्वित्रिचतुभ्र्यः सुच्"(पा. अ. 5.4.18) इति सुच्प्रत्ययः। रूपकं चतुर्षु भेदेषु चतुरो वारान् भेदात्मना भवतीत्यर्थः।

तत्र पुनरुक्तवदाभासं प्रोच्यते------

पुनरुक्ताभासमभिन्नवस्त्विवोद्भासिभिन्नरूपपदम्।।

अभिन्नं वस्तु यस्मिन्नुद्भासते तदभिन्नवस्तु। भिन्नं रूपं ययोः पदयोस्ते भिन्नरूपे। अभिन्नवस्त्विव अभीक्ष्णमुद्भासेते भिन्नरूपे पदे यÏस्मस्तदभिन्नवस्त्विवोद्भासिभिन्नरूपपदम्। एवमयं बहुव्रीहिद्वितयगर्भः पञ्चपदोबहुव्रीहिः। तत्रैकोऽभिन्नवस्त्विति बहुव्रीहिः। अपरस्तु भिन्नरूप इति। तद्गर्भश्चायं बहुव्रीहिरभिन्नवस्त्विवोद्भासिभिन्नरूपपदमिति। अनेन च यत्र भिन्नरूपे पदे एकार्थवदाभासेते तत्पुनरुक्ताभासं काव्यमलङ्कार्यं निर्दिष्टम्। यद्यपि। पुनरुक्तवदाभासमित्युद्देशे वतिः प्रयुक्तस्तथापि तस्येह गम्यमानार्थत्वादप्रयोगः। उद्देशे त्वेवमनभिधानमभिधावैचित्र्यप्रदर्शनार्थम्। काचित् खलु गम्यमानार्थन्वयेन अभिधा

प्रवर्तते, काचित्त्वभिधीयमानार्थन्वयेन। तत्रोद्देशे वत्यभिधीयमानसादृश्यान्वयेन अभिधा उपदर्शिता। इह त्वर्थसामथ्र्यवसेयसादृश्यान्वयेन। तदेवमर्थसामथ्र्यावसेयेन वत्यर्थेनान्वितं पुनरुक्ताभासमत्र काव्यमलङ्कार्यं यत्काव्यं तद्धर्मत्वेन पुनरुक्तवदाभासमानयोः पदयोरलङ्कारत्वमुक्तं न तु स्वतन्त्रतया। फलं चैवमभिधानस्य पुनरुक्तवदाभासमानपदसमन्वयस्य अलङ्कारताख्यापनम्। अलङ्कारस्य खल्वलङ्कार्यपरतन्त्रतया निरूपणे क्रियमाणे सुष्ठु स्वरूपं निरूपितं भवति। स्वात्मन्यवस्थितस्य तस्यानलङ्कारत्वात्। समुद्गकस्थितहारकेयूरपारिहार्याद्यलङ्कारवत्। अतः पुनरुक्तवदाभासत्वुस्यालङ्करताख्यापनाय काव्यपरतन्त्रतया निर्देशो युक्त एव।

तस्योदाहरणम्------

तदाप्रभृति निःसङ्गी नागकुञ्जरकृत्तिभृत्।

शितिकण्ठः कालगलत्सतीशोकानलव्यथः।।

तदाप्रभृति सतीवियोगादारभ्य स देवः शितिकण्ठो निःसङ्गः सन् दिवसानतवाहितवानिति वक्ष्यमाणे श्लोके वाक्यार्थपरिसमाप्तिः। कृत्तिश्चर्म। कालवशेन निवर्तमाना (या) सती (तस्याः) वियोगेन जनितो यः शोकवह्निस्तदुद्भवा पीडा यस्य स तथोक्तः। अत्र नागकुञ्जरशब्दौ शितिकण्ठकालगलशब्दौ च पुनरुक्तवदाभासेते। तथाहि। नागकुञ्चरशब्दयोरुपक्तमावस्थायां गजवाचित्वेन एकार्थत्वं प्रतिभाति। पदार्थन्वयपर्यालोचनया तु तद्बाध्यते। नागशब्दः खल्वत्र हस्तिवाची। कुञ्चरशब्दस्तु तत्प्रशंसावगतहेतुः। एवं शितिकण्ठकालगलशब्दयोरपि

वलीविशेषावच्छिन्नशरीरावयवभेदोपेतार्थाभिधायित्वात्पौनरुक्त्यं संभाव्यमानं कालगलदिति तकारावधिपर्यालोचनया चापसार्यते। तेनात्र पुनरुक्ताभासत्वम्।

ननु छेकानुप्रासलक्षणादनन्तरं पुनरुक्तवदाभासोदाहरणं पठ्यते। तत्कथं पुनरुक्तवदाभासलक्षणव्याख्यानसमय एव तस्योपन्यासः कृतः। उच्यते। उदाहरणप्रदर्शनमन्तरेण लक्षणार्थस्य दुरधिगमत्वादिहैव तदुपन्यस्तमित्यदोषः। एवमुत्तरत्रापि प्रमेयशब्दानुसारेण ग्रन्थपाठक्रमविपर्यासेन व्याख्यायां नासूयितव्यम्। पाठक्रमादार्थक्रमस्य बलीयस्त्वात्।

छेकानुप्रासः----

छेकानुप्रासस्तु द्वयोद्र्वयोः सुसदृशोक्तिकृतौ।

द्वयोद्र्वयोरज्झल्समुदाययोः सुष्ठु सदृशे उच्चारणे क्रियमाणे सति छेकानुप्रासो भवति। तथाविधा समुदायास्तत्रालङ्कारतां प्रतिपद्यन्ते। द्वयोद्र्वयोरिति स्वार्थेऽवधार्यमाणे अनेकस्मिन्निति द्विर्वचनं स्वार्थग्रहणेन वीप्साया निरस्तत्वात् न यावन्तोऽत्र द्विकाः संभवन्ति तेषां सर्वेषामेव सुसदृशत्वं कार्यं, किं तर्हि कतिपयानामेव। वीप्सा हि साकल्ये सति भवति। सा चात्र स्वार्थशब्देन निरस्ता। अवधार्यमाणग्रहणाच्च द्वयोद्र्वयोरेवात्र समुदाययोः सदृशत्वं, नतु त्रयाणां त्रयाणामिति द्रष्टव्यम्। अनेकस्मिन्निति वचनाच्च असकृदेवंविधरूपोपनिबन्धे सति छेकानुप्रासता न तु सकृदिति मन्तव्यम्। परस्परमेकरूपान्विता

रसाद्यभिव्यक्त्यनुगुणत्वेन लब्धोत्कर्षा वर्णास्तत्समुदाया वा शोभातिशयहेतुत्वेन काव्ये क्षिष्यमाणा अनुप्रासशब्देनान्वर्थेनाभिधीयन्ते। छेकशब्देन कुलायाभिरतानां पक्षिणामभिधानम्। तदुक्तम्---"छेकान् गृहेष्वभिरतानुशन्ति मृगपक्षिणः"इति। तेषां च कुलायाभिरतत्वादन्येन केनचिदनायास्यमानानामनेनानुप्रासेन सदृशी मधुरा वागुच्चरति। अतोऽयमनुप्रासश्छेकैव्र्यपदिश्यते छेकानुप्रास इति। अथवा छेका विदग्धाः। तद्वल्लभत्वादस्य छेकानुप्रासता। तस्योदाहरणम्----

स देवो दिवसान्निन्ये तस्मिञ्शैलेन्द्रकन्दरे।

गरिष्ठगोष्ठीप्रथमैः प्रमथैः पर्युपासितः।।

कन्दरो गुहा। गरिष्ठा गुरुतमाः। "प्रियस्थिर0"(पा.अ.6.4.157) इतीष्ठनि गुरुशब्दस्य गरादेशः। गोष्ठी विदग्धानामासनबन्धः। प्रथमैः प्रधानैः। प्रमथैर्गणैः। पर्युपासितः सेवितः। अत्र सदेवदिवसशब्दौ इन्द्रकन्दरशब्दौ गरिष्ठगोष्ठीशब्दौ प्रथमप्रमथशब्दौ परिउपासशब्दौ च द्वौ द्वौ अज्झल्समुदायौ सुसदृशावृच्चारितौ तेन छेकानुप्रासता। क्वचित्तु "निन्ये तस्मिन्"इत्यत्र "निन्येऽन्यस्मिन्"इति पाठः। तदा चैतदप्युदाहरणेऽन्तर्भवतीति।

अनुप्रासः। स च त्रिविधो वृत्तिसंश्रयात्। यद्वक्ष्यति-----

"सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु।

पृथक्पृथगनुप्रासमुशन्ति कवयः सदा"इति।

अस्यार्थः----त्रिष्वेतेषु यथायोगं रसाद्यभिव्यक्त्यनुगुणेषु वर्णव्यवहारेषुयः सरूपाणां व्यञ्जनानां पृथक् पृथगुपनिबन्धस्तमनुप्रासं कवयः सदेच्छन्तीति। अतस्तास्तावद्वृत्त्यो रसाद्यभिव्यक्त्यनुगुणवर्णव्यवहारात्मिकाः प्रथममभिधीयन्ते। ताश्च तिस्रः, परुषोपनागरिकाग्राम्यत्वभेदात्।

तत्र परुषा----

शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता।

परषा नाम वृत्तिः स्यात् ह्लह्वह्याद्यैश्च संयुता।।

शकारषकारादियुक्तौ वर्णव्यवहारः परुषाख्या वृत्तिः। रेफोपलक्षिताः संयोगाः क्रर्कादयो रेफसंयोगाः। टकारोपलक्षितो वर्गष्टवर्गः टठडढणेति। अस्यां वृत्तौ योऽनुप्रासः स परुषानुप्रासः। तस्योदाहरणम्----

तत्र तोयाशयाशेषव्याकोशितकुशेशया।

चकाशे शालिकिंशारुकपिशाशामुखा शरत्।।

तोयाशयेषु अशेषं साकल्येन व्याकोशितानि विकासितानि कुशेशयानि पद्मानि यया इति समासः। तथा शालीनां धान्यानां किंशारुभिः शूकैः कपिशानि पिञ्जराणि आशामुखानि दिगवकाशा यस्यामिति समासः। अयं च शकारस्य सारूप्येणोपनिबन्धात्परुषानुप्रासः।

अपनागरिका-----

सरूपसंयोगयुतां मूÐध्नवर्गान्त्ययोगिभिः।

स्पर्शैर्युतां च मन्यन्ते उपनागरिकां बुधाः।।

सरूपाणां वर्णानां ये संयोगाः क्कप्पच्च इत्यादयस्तैर्युक्ता। तथा वर्गान्त्यैर्ङञणनभेः ङ्कञ्चण्टन्तम्प इत्यादिरूपतया उपरि ये युक्ताः कादयो मकारान्ताः स्पर्शास्तैर्युक्ता उपनागरिका वृत्तिः। एषा खलु नागरिकया वैदग्धीजुषा वनितया उपमीयते तत उपनागरिका। नागरिकया उपमिता उपनागरिकेति। "अवादयः ऋष्टाद्यर्थे तृतीयया"इति समासः। तस्यामुपनागरिकानुप्रासः। तस्योदाहरणं च---

सान्द्रारविन्दवृन्दोत्थमकरन्दाम्बुबिन्दुभिः।

स्यन्दिभिः सुन्दरस्पन्दं नन्दितेन्दिन्दिरा क्वचित्।।

अत्र दकाराख्यः स्पर्शो नकारेणोपरि व्यवस्थितेन युक्तः सारूप्येणोपनिबद्धः। सान्द्रा घना अरविन्दवृन्दोत्था मकरन्दाम्बुबिन्दव इति संबन्धः। सुन्दरस्पन्दं स्पन्दिभिरिति सामान्यभूतः स्पन्दः सुन्दरस्पन्दमिति विशिष्टेन स्पन्देन विशेषितो रैपोषं पुष्णातीतिवत्। सुन्दरः स्पन्दोयस्मिन्निति हि सामान्यभूते

स्पन्दने अन्यपदार्थे सुन्दरताविशिष्टं स्पन्दनं वृत्तिपदार्थभूतम्। इन्दिन्दिरा भ्रमराः।।

ग्राम्या-----

शेषैर्वणैर्यथायोगं कथितां कोमलाख्यया।

ग्राम्यं वृर्त्ति प्रशंसन्ति काव्येष्वादृतबुद्धयः।।

परुषोपनागरिकोपयुक्तवर्णावशिष्टैर्वर्णैर्लकारादिभिरुपनिबध्यमाना ग्राम्या। तस्या एव च अपरं नामधेयं कोमलेति। कोमलाख्यया कथितामिति संबन्धः। तस्यां चानुप्रासो ग्राम्यानुप्रासः। तस्योदाहरणम्----

केलिलोलालिमालानां कलैः कोलाहलैः क्वचित्।

कुर्वती काननारूढश्रीनूपुररवभ्रमम्।।

केलिलोलाः क्रीडालम्पटाः। कलैर्मधुरैः। भ्रमो भ्रान्तिर्विपर्ययप्रत्ययः। अत्र लकारककाररेफाः सारूप्येणोपनिबद्धाः। एवमेतास्तिस्रो वृत्तयो व्याख्याताः। तासु च रसाद्यभिव्यक्त्यानुगुण्येन पृथक् पृथगनुप्रासो निबध्यते तदाह----

सरूपव्यञ्जनन्यासं तिसृष्वेतासु वृत्तिषु।

पृथक्पृथगनुप्रासमुशन्ति कवयः सदा।।

अयं श्लोकः सोदाहरणो वृत्तिस्वरूपनिरूपणप्रसङ्गेन व्याख्यातः।

लाटानुप्रासः----

स्वरूपार्थाविशेषेऽपि पुनरुक्तिः फलान्तरात्।

शब्दानां वा पदानां वा लाटानुप्रास इष्यते।।

स पदद्वितयस्थित्या द्वयोरेकस्य पूर्ववत्।

तदन्यस्य स्वतन्त्र (त्वा) त् द्वयोर्वैकपदाश्रयात्

स्वतन्त्रपदरूपेण द्वयोर्वापि प्रयोगतः।

भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च।।

शब्दानामनुपलभ्यमानसुप्तिङां तथा पदानामुपलभ्यमानसुप्तिङां, उभयेषां च शब्दपदानां स्वरूपस्य वर्णात्मनः अभिधेयस्य च निरन्तरशब्दव्यापारगोचरीकृतस्य वाच्यस्यार्थस्याभेदेऽपि फलान्तरात्तात्पर्यभेदात् पुनरुक्तिः सा लाटदेशनिवासिजनवल्लभत्वाल्लाटानुप्रासोऽभिधीयते।

स च प्रथमं तावत्र्रिप्रकारः। द्वयोः स्वतन्त्रयोद्र्वयोः परतन्त्रयोः स्वतन्त्रपरतन्त्रयोश्च भावात्। तत्र यस्यावद्द्वयोः स्वतन्त्रयोः स द्विप्रकारः। एकैकस्मिन् पदे पदसमुदायात्मके च पादे भावात्। तदुक्तम्----

"स्वतन्त्रपदरूपेम द्वयोर्वापि प्रयोगतः।

भिद्यतेऽनेकधा भेदैः पादाभ्यासक्रमेण च।।"इति।

अत्र हि स्वतन्त्रपदात्मकत्वेन द्वयोः प्रयोगादेकैकपदाश्रयो लाटानुप्रासोऽभिहितः। तस्योदाहरणम्-----

काशाः काशा इवोद्भान्ति सरांसीव सरांसि च।

चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः।।

आचिक्षिपुरपत्दृतवन्तः। अत्र काशादयः शब्दा अपरैः काशादिभिः शब्दै एकरूपा एकाभिधेयाश्च। तात्पर्यभेदेन तु तेषां पुनरुक्तिः। तथा ह्यत्र एकेषां काशादिशब्दानां जातिभेदोपरक्तद्रव्यपरतया प्रयोगः। अपरेषां तु अनन्वयालङ्कारच्छायया उपमानान्तरव्यावृत्तिपरतया। अत्र च स्वातन्त्र्यं पदानां, काशादीनामुपलभ्यमानसुप्तिङ्रूपत्वात्। एकैकरूपतया चावृत्तेरुपनिबन्धः।

पदसमुदायात्मकस्य तु पादस्य स्वरूपार्थाविशेषे तात्पर्यभेदेन पुनरुक्तौ पादाभ्यासपरिपाट्या स्वतन्त्रपदाश्रयो लाटानुप्रासो भवति। पादाभ्यासक्रमेण चेति क्रमग्रहणेन सकृद्द्विस्त्रिश्च पादाभ्यासे ये भेदाः संभवन्ति तत्स्वीकारेण पादाभ्यासे लाटानुप्रासस्य प्रवृत्तिः सूचिता। तस्योदाहरणम्----

स्त्रियो महति भर्तृभ्य आगस्यपि न चुक्रुधुः।

भर्तारोऽपि सति स्त्रीभ्य आगस्यपि न चुक्रुधुः।।

महत्यप्यागसीति संबन्धः। तथा च सत्यप्यागसीति भर्तृभ्य इति स्त्रीभ्य इति च "क्रुध द्रुहे"ति संप्रदानता। अत्र एकत्र पादे नायकगतापराधविषयत्वेन स्त्रीकर्तृकः क्रोधाभावः प्रतिपादितः। अपरत्र तु नायिकानां यो भर्तृप्रणयातिक्रमात्मकोऽपराधस्तद्विषयो नायककर्तृकः क्रोधाभावोभिहितः। अतस्तात्पर्यभेदः स्वरूपार्थाविशेषश्च। पदसमुदायात्मकस्य च पादस्याभ्यासः। एवमयं स्वतन्त्रपदाश्रयो लाटानुप्रासो द्विविधोऽभिहितः। एकैकपदाश्रयः पदसमुदायाश्रयश्च स्वतन्त्रपदाश्रयो लाटानुप्रासः।

द्वयोरनुपलभ्यमानसुप्तिडोः परतन्त्रयोः शब्दयोर्यो लाटानुप्रासस्तस्यापि द्वैविध्यं, पदद्वितयाश्रयत्वेन एकपदाधारत्वेन च। तदुक्तम्----"स पदद्वितयस्थित्या द्वयोः"इति। सोऽनेकधा भेदैर्भिद्यते इति संबन्धः। तथा द्वयोर्वैकपदाश्रयादिति।

पूर्वस्योदाहरणम्----

क्वचिटुत्फुल्लकमला कमलभ्रान्तषट्पदा।

षट्पदक्वाममुखरा मुखरस्फारसारसा।।

सारसाः लक्ष्मणाख्याः पक्षिविशेषाः। अत्र कमलषट्पदमुखरशब्दानां स्वरूपार्थभेदेऽपि तात्पर्यभेदेन पुनरुक्तिः पदद्वितयाश्रयित्वं च। तात्पर्यभेदश्चात्र कमलषट्पदशब्दयोः कारकशक्तिभेदात्। तथाहि। पूर्वः कमलशब्दोऽत्र विकासक्रियाकर्तृत्वपरतयोपात्तः, उत्तरस्तु भ्रमणक्रियाकर्तृभूतषट्पदाधारत्वेन। तथा पूर्वः षट्पदशब्दो भ्रमणक्रियां प्रति कर्तृत्वेनोपवर्णितः, उत्तरस्तु क्वाणक्रियासंबन्धित्वेन। मुखरशब्दौ तु

विशेषणभूतं

सशब्दत्वं भिन्नार्थनिष्ठतयावगमयतः। तथाहि। पूर्वेण मुखरशब्देन शरन्निष्ठं मौखर्यमवगम्यते, अपरेण तु सारसनिष्ठम्। एवमयं पदद्वितयपरतन्त्रशब्दद्वयाश्रयो लाटानुप्रासोऽभिहितः।

एकपदाश्रयशब्दद्वितयवर्ति तु "द्वयोर्वैकपदाश्रयात्" इत्युक्तः। तस्योदाहरणम्----

जितान्यपुष्टकिञ्जल्ककिञ्जल्कश्रेणिशोभितम्।

लेभेऽवतंसतां नारीमुखेन्दुष्वसितोत्पलम्।।

अत्र नारीमुखेष्विति वदनानां चन्द्रेणोपमितत्वादसितोत्पलस्य शशकरूपता ध्वन्यते। किञ्जल्कशब्दयोश्चात्र स्वरूपार्थाभेद एकपदाश्रयत्वं तात्पर्यभेदश्च। एकस्य जीयमानतया उपादानात्, अपरस्य जयनक्रियाकर्तृभूतायासौ श्रेणिस्तत्संबन्धित्वेन। एवमयं परतन्त्रयोः शब्दयोर्लाटानुप्रासो द्विविधो निरूपितः।

स्वतन्त्रपरतन्त्रयोस्तु यत्रैकस्य शब्दस्य पदान्तरानुप्रवेशः, अपरस्य तु स्वातन्त्र्येण पदरूपतयावस्थानं तत्र भवति। तदुक्तम्---"एकस्य पूर्ववत्तदन्यस्य स्वतन्त्रत्वात्"इति। एकस्य पूर्ववत्पदान्तराश्रयेणावस्थानादित्यर्थः। तस्योदाहरणम्---

पद्मिनीं पद्मिनीगाढस्पृहयागत्य मानसात्।

अन्तर्दन्तुरयामासुर्हंसा हंसकुलालयात्।।

मानसात् सरोविशेषात्। दन्तुरयामासुः महत्त्वाच्छुक्लत्वाच्च उन्नतदन्ता इव चक्रुः। अत्र स्वरूपार्थाफभेदेऽपि पद्मिनीशब्दयोर्हंसशब्दयोश्च तात्पर्यबेदात्पुनरुक्तिः। एकस्य पदान्तरानुप्रवेशः, अपरस्य च स्पृहाविषयप्रतिपादनार्थत्वात्। तथा एकस्य हंसशब्दस्य दन्तुरणक्रियाकर्तृभूतार्थाभिधायित्वात्, अपरस्य तु कुलसंबन्धित्वात्। एवमयं पञ्चविधो लाटानुप्रासः प्रतिपादितः। स्वतन्त्रपरतन्त्राणां तस्य प्रत्येकं द्विभेदत्वात् स्वतन्त्रपर तन्त्रयोश्च समुदितयोरेकप्रकारत्वात्।।

रूपकम्---

श्रुत्या संबन्धविरहाद्यत्पदेन पदान्तरम्।

गुणवृत्ति प्रधानेन युज्यते रूपकं तु तत्।।

बन्धस्तस्य यतः श्रुत्या श्रुत्यर्थाभ्यां च तेन तत्।

समस्तवस्तुविषयमेकदेशविवर्ति च।।

समस्तवस्तुविषयं मालारूपकमुच्यते।

यद्वैकदेशवृत्ति स्यात्पररूपेण रूपणात्।

पदान्तरस्य गुणवृत्तेरपरेण पदेन योगे रूपकं भवति। नन्वेवं सति नीलमुत्पलमित्यत्रापि नीलशब्दस्य गुणवृत्तेरुत्पलशब्देन योगे रूपकताप्रसङ्ग इत्याशङ्क्योक्तं---श्रुत्या संबन्धविरहादिति। श्रुतिर्निरन्तरार्थनिष्ठः शब्दव्यापारः। तया श्रुत्या अनुपपद्यमानपदान्तरसंबन्धं सत् पदान्तरं गुणवृत्ति यत्रापरेण पदेन युज्यते तत्र रूपकता। यथा----

ज्योत्स्नाम्बुनेन्दुकुम्भेन ताराकुसुमशारितम्।

क्रमशो रात्रिकन्याभिव्र्योमोद्यानमसिच्यत।। इति।

अत्राम्बुशब्दो निरन्तरार्थनिष्ठशब्दव्यापारगोचरीकृते उदकत्वे वर्तमानो ज्योत्स्नाशब्देन सामानाधिकरण्यं नानुभवति। अम्बुत्वज्योत्स्नात्वयोरेकार्थसमवायाभावात्। अतोऽम्बुगताः शौक्ल्याह्लादकत्वप्रसरणशीलत्वादयो ये गुणास्तत्सदृशज्योत्स्नागतगुणवृत्तिः सन्नम्बुशब्दो ज्योत्स्नायां वर्तते। तेनाम्बुशब्दस्य श्रुत्या निरन्तरार्थनिष्ठेन अभिधाव्यापारेण यः पदान्तरेण ज्योत्स्नाशब्देन संबन्धस्तच्छून्यत्वाद्गुणवृत्तिता। अतोऽत्र

रूपकता। नचैवं नीलमुत्पलमित्यादौ श्रुत्या संबन्धविरहाद्गुणवृत्तित्वं, किंतर्हि स्वत एवेति न रूपकताप्रसङ्गः।

ननु विरुद्धार्थाभिधायिनोः समानाधिकरणयोः शब्दयोर्निरन्तरार्थनिष्ठेन अभिधाव्यापारेण अनुपप्द्यमानान्योन्यसमन्वयत्वाद्यद्येकस्य लक्षणया गुणवृत्तित्वमभिधीयते, एवं सति पर्यायेणात्र गुणवृत्तित्वं प्राप्नोति। नियमकरणाभावात्। ततश्च यथाम्बुशब्दस्य ज्योत्स्नाशब्दसामानाधिकरण्याद्गुणवृत्तित्वमुक्तं, तद्वज्ज्योत्स्नाशब्दस्यापि अम्बुशब्दसामानाधिकरण्याद्गुणवृत्तित्वं कथं न स्यादित्याशङ्क्योक्तं प्रधानेनेति। प्रधानार्थानुरोधेन उपसर्जनस्य लक्षणया गुणवृत्तित्वमुपपन्नम्। प्रधानवशवर्तित्वाद्गुणानामित्यभिप्रायः। अतश्च प्राकरणिकार्थाभिधायित्वात्प्रधानार्थविषयो यो ज्योत्स्नाशब्दः तदनुरोधेन अम्बुशब्दस्य अप्राकरणिकार्थत्वादप्रधानार्थस्य गुणवृत्तित्वमुपपन्नमिति न पर्यायेण ज्योत्स्नाम्बुशब्दयोः परस्परानुरोधेन गुणवृत्तित्पप्रसङ्गः।

ननु च ज्योत्स्नाम्बुनेत्यत्र अम्बुनः प्राधान्यं ज्योत्स्नायाश्च गुणभावः। तथा हि। एतस्मिञ्श्लोके तद्भावाध्यवसानेन सेकावच्छादितरूपतया सेकात्मकत्वेन यासौ व्योम्नो व्याप्तिरसिच्यतेति प्रतिपादिता, तया स्वसाधनभूतं यत्तदम्भोऽपेक्षितं तदत्र ज्योत्स्नया विशिष्यते ज्योत्स्नैवाम्ब्विति। यदत्र सेकसाधनत्वेनाम्बु अपेक्षितं तज्ज्योत्स्नैवेत्यर्थः। उक्तं च "उपसर्जनोपमेयं कृत्वा तु समासमेतयोरुभयोः। यच्च प्रयुच्यते तद्रूपकमन्यत्समासोक्तम्"इति। एतयोरुभयोरिति। उपमानोपमेययोरित्यर्थः। तत्कथमिदमुक्तं ज्योत्स्नापदस्य प्राधान्यात्तद्वशेनाम्बुशब्दस्य गुणवृत्तित्वं कल्प्यते इति। उच्यते। अत्र खलु द्वेऽवस्थे विद्येते। एका तावज्ज्योत्स्नाया अम्बूकरणावस्था। अपरा तु अम्बुत्वमापादिताया ज्योत्स्नायाः सेकसंबन्धरूपा। तत्र यदा तावज्ज्योत्स्ना अम्बुरूपत्वमापद्यते तदा प्राकरणिकत्वात् ज्योत्स्ना प्रधानम्। अम्बु च तद्विपर्ययाद्गुणः। तदानीं चाम्बुशब्दो ज्योत्स्नाशब्दानुरोधेनाम्बुगतशौक्ल्यादिगुणसदृशगुणयोगाल्लक्षणया ज्योत्स्नायां वृत्तिमनुभवति। तदा च तस्य प्रधानार्थानुरोधाद्गुणवृत्तित्वेन रूपकत्वमुक्तम्। यदा त्वसौ अम्बुशब्द आपादिताम्बुभावज्योत्स्नाभिधायी सन् सेकक्रियया समन्वयमापद्यमानो यदेतदत्र सेकसाधनत्वेनाम्बु उपयुज्यते तज्ज्योत्स्नैवेति ज्योत्स्नया विशिष्यते तदा तस्य न रूपकावस्था। पूर्वावस्थायामेवानुभूतगुणवृत्तित्वात्। अतस्तस्यामवस्थायामसौ अतिशयोक्तिच्छायां भजते। पूर्वावस्थापेक्षयात्वेतद्रूपकमुक्तम्। प्रधानानुरोधेन तत्र गुणेषु वर्तमानत्वात्। रूपकत्वं चात्राध्यारोप्यमाणगतेन रूपेण अध्यारोपविषयस्य वस्तुनो रूपवतः क्रियमाणत्वादन्वर्थं द्रष्टव्यम्।

अत्र चोपमानवर्तिनो ये गुणास्तत्सदृशगुणदर्शनादुपमेय उ#ुपमानगतयोः शब्दरूपयोरारोपः। तत्र त्रयो दर्शनभेदाः। केचिदत्र शब्दारोपपूर्वकमर्थारोपं ब्रुवते, अपरे त्वर्थारोपपूर्वकं शब्दारोपम्। अन्यैस्तु शब्दारोपार्थारोपयोर्यौगपद्यमभिधीयते। अयमेव च पक्षो युक्त इव दृश्यते। तदाहुः---

"शब्दोपचारात्तद्रूपं रूपके कैश्चिदुच्यते।

ताद्रूप्यारोपतश्चान्यैः शब्दारोपोऽत्र कथ्यते।।

उपमानगुणैस्तुल्यानुपमेयगतान् गुणान्।

पश्यतां तु सकृद्भाति तत्र तच्छब्दरूपता।।"इति।

तत्रेति। उपमेये इत्यर्थः। तच्छब्दरूपतेति। उपमानशब्दारोप उपमानरूपारोपश्च।

तस्य च रूपकस्य द्विप्रकारता। स्वकण्ठेन सकलरूपणाभिधानादेकः प्रकारः। तदुक्त्म्---"बन्धस्तस्य यतः श्रुत्या तेन तत्समस्तवस्तुविषयम्"इति। श्रुतिर्निरन्तरार्थनिष्ठोऽभिधाव्यापारस्तस्योदाहरणं "ज्योत्स्नाम्बुना"इत्याद्युक्तम्। शारितं शबलितम्। अत्र हि सर्वेषामेव रूप्यत्वेनोपात्तानां ज्योत्स्नेन्दुतारारात्रिव्योम्नां यथाक्रममम्बुकुम्भकुसुमकन्योद्यानानि रूपकत्वेन स्वकण्ठेनोपात्तानि, न त्वर्थाक्षिप्तं कस्यचिद्रूपणम्। तेन श्रुत्यैवात्र रूपणा। अतः समस्तवस्तुविषयत्वम्। समग्राणि ह्यत्र रूप्यत्वेनाभिमतानि वस्तूनि स्वकण्ठेनोपात्तस्य रूपकस्य विषयः। अयमसावेकः प्रकारः।

यत्र तु किंचित्स्वकण्ठेन किंचिच्चार्थाद्रषणं भवति, तत्र श्रुत्यर्थाभ्यां रूपणादपरः प्रकारो भवति। तत्र चैकदेशविवर्तित्वम्, एकदेशविशेषेण

स्वकण्ठोक्त्या वर्तनात्। तदुक्तं "यतश्च श्रुत्यर्थाभ्यां तस्य बन्धस्तेन तदेकदेशविवर्ति च"इति। तस्योदाहरणम्----

उत्पतद्भिः पतद्भिश्च पिच्छालीबालशालिभिः।

राजहंसैरवीज्यन्त शरदैव सरोनृपाः।।

पिच्छाल्यः पक्षपङ्क्तयः। राजहंसा रक्तचञ्चुपादा हंसाः। अवीज्यन्तेति। वीजिर्धातुष्वपठितोऽपि शिष्ठप्रयोगात् मिलिखचिक्लविक्षपिवद्धा तुतया द्रष्टव्यः। अत्र द्वे रूपणे स्वकण्ठेनाभिहिते पिच्छालीबालशालिभिरिति सरोनृपा इति च। तथा हि एकत्र पिच्छाल्यो बालरूपत्वेन रूपिताः, अपरत्र तु सरांसि नृपरूपत्वेन। राजहंसानां चामररूपत्वेन रूपणा अर्थाक्षिप्ता, शरदश्च प्रकृताया नायिकात्वेन। शरन्नायिकया कर्तृभूतया राजहंसचामरैः पिच्छालीबालशालिभिः सरोनृपा वीज्यन्ते स्मेति ह्यत्र वाक्यार्थः। एवमेतौ रूपकस्य समस्तवस्तुविषयैकदेशविवर्तिलक्षणौ द्वौ प्रकारावुक्तौ।

यदि वा मालारूपकस्य समस्तवस्तुविषयता तत्र ह्येकस्मिन् रूप्ये समुच्चयेन अस्यन्ते क्षिप्यन्ते बहूनि रूपकाणि। तदुक्तं ----"समस्तवस्तुविषयं मालारूपकमुच्यते।"यद्वेति प्रकारान्तरोपक्षेपार्थः। तस्योदाहरणम्---

वनान्तदेवतावेण्यः पान्थस्त्रीकालशृङ्खलाः।

मारप्रवीरासिलता भृङ्गमालाश्चकासिरे।।

वनान्ता वनैकदेशः। वेण्यः केशपाशाः। कालशृङ्खला अन्तकप्रयुक्ता आकर्षणशृङ्खलाः। मारप्रवीरा मन्मथसंबन्धिनो भटाः। अत्र भृङ्गमालानामेव केवलानां रूप्यत्वेनोपात्तानां तिस्रो रूपणाः कृताः वनान्तदेवतावेण्य इत्येवमादिना। तेनात्र समस्तवस्तुविषयता, एकस्मिन् रूप्ये समुच्चयेन बहूनां रूपणानां क्षिप्तत्वात्-----

एकदेशविवर्ति तु पररूपेण रूपणाद्भवति। तदुक्तं "एकदेशवृत्ति स्यात्पररूपेम रूपणात्"इति। तस्योदाहरणम्।

आसारधाराविशिखैर्नभोभागप्रभासिभिः।

प्रसाध्यते स्म धवलैराशाराज्यं बलाहकैः।।

आसारो वेगवद्वर्षम्। विशिखाः शराः। अत्र प्रसाध्यत इत्ययं शब्दः श्लेषच्छायया द्वयोरर्थयोर्वर्तते भूषणे उपार्जने च। तत्र भूषणं प्रकृतम्। शरत्समयो ह्यत्र प्रस्तुतः। तत्र च शुक्लैर्बलाहकैर्दिशो भूष्यन्ते। यदुपार्जनं तदप्रकृतत्वादत्र परमन्यत्। तस्य च परस्याप्रकृतस्य उपार्जनस्य यत्तद्रूपं कारककदम्बकं येन तद्रूपवत्क्त्रयते नृपविशिखराज्यसंग्रामभूम्यात्मकं तेनात्र यथाक्रमं बलाहकासारधारादिङभोभागानां रूप्यत्वेनाभिमतानां रूपणा विहिता। तेनात्रैकदेशवृत्तित्वम्। एकदेशवृत्तीत्यत्र हि एकदा अन्दा ईशः प्रभविष्णुर्यो वाक्यार्थस्तद्वृत्तत्वं रूपकस्याभिमतम्। विशेषोक्तिलक्षणे च भामहविवरणे भट्टोद्भटेन एकदेशशब्द एवं व्याख्यातो यथोहास्माभिर्निरूपितः तत्र विशेषोक्तिलक्षणम्----"एकदेशस्य विगमे या गुणान्तरसंस्तुति। विशेषप्रथनायासौ विशेषोक्तिर्मता यथा"इति। तेनात्र विशेषोक्तिलक्षणवदेकदेशशब्देन अन्यदा प्रभविष्णुर्वाक्यार्थ उच्यते, अन्यत्र च अन्यदा प्रभविष्णूपार्जनम्। अप्रकृतं हि तत् श्लेषवशेनात्र नीतं, तेनात्रैकदेशवृत्तिता।।

दीपकम्----

आदिमध्यान्तविषयाः प्राधान्येतरयोगिनः।

अन्तर्गतोपमाधर्मा यत्र तद्दीपकं विदुः।।

यत्रान्तर्गतोऽर्थसामथ्र्यावसेयत्वादुपमानोपमेयभावो येषां तथाविधानां धर्मणामुपनिबन्धस्तत्र काव्यदीपकं भवति। तथाविधकाव्यविषयत्वाच्च दीपकस्य तत्काव्यं दीपकमित्युपचारात्सामानाधिकरण्यम्। अत्र च धर्माणामेकवारमुपनिबन्धो द्रष्टव्यः। असकृदुपादाने हि तेषां प्रतिवस्तूपमां वक्ष्यति। अत एव चैकदेशवर्तिनामपि तेषां धर्माणां यौ द्वौ उपमानोपमेयभावेन अवस्थितौ वाक्यार्थौ बहबो वा तथाविधास्तदुद्दीपनहेतुत्वाद्दीपकता। यावच्च तेषां धर्माणामुपमानोपमेयभावसमन्वयेनात्रोपनिबन्धस्तावद्बलात्प्राधान्येतरयोगित्वमापतति। उपमेयस्य। प्राकरणिकतया प्राधान्यादुपमानस्य च तादथ्र्येन

गुणभावात्। एवं च प्राधान्येतरयोगिन इत्ययमत्रानुवादः। प्राप्तार्थत्वात्। प्राधान्यं च इतरच्चाप्राधान्यम्। ताभ्यां योगः संबन्धो विद्यते येषां ते तथोक्ताः।

अस्य च दीपकस्य त्रैविध्यम्, तेषां धर्माणामादिमध्यान्तवाक्यविषयत्वेनोपनिबन्धात्। तदुक्तम् "आदिमध्यान्तविषयाः"इति।

तत्रादिदीपकस्योदाहरणम्----

संजहार शरत्कालः कदम्बकुसुमश्रियः।

प्रेयोवियोगिनीनां च निःशेषसुखसम्पदः।।

अत्र संहरणात्मा धर्मः कदम्बकुसुमशोभाकर्मकत्वेन विरहिणीसुखसम्पत्कर्मकत्वेन च उपनिबध्यमानोऽन्तर्गतोपमः। शरत्समयस्योपवण्र्यमानतया कदम्बकुसुमश्रीसंहरस्य प्राकरणिकार्थनिष्ठत्वादिव्रहिणीसुखसंपत्संहारस्य चाप्राकरणिकार्थविषयत्वात्। तेनात्रान्तर्गतोपमत्वम्, यथा प्रेयोवियोगिनीनां निःशेषाः सुखसम्पदः संजहार तथा कदम्बकुसुमश्रियोऽपीति। शरत्कालशब्दस्य चात्र शरत्समयः श्लेषच्छायया अन्तकानुरञ्चितो वाच्यः। संहारस्यान्तककर्मत्वात्। अत्र च प्रथम एव वाक्ये संजहारेत्यस्योपनिबद्धस्य द्वितीयवाक्ये अनुषङ्गच्छायया उपजीव्यमानत्वादादिदीपकत्वम्।

मध्यदीपकस्योदाहरणम्----

विदेशवसतिर्यातपतकाजनदर्शनम्।

दुःखाय केवलमभूच्छरच्चासौ प्रवासिनाम्।।

यातपतिकाः प्रोषितभर्तृकाः। शरदः प्राकरणिकत्वाद्विदेशवसतियातपतिकाजनदर्शनयोश्चाप्राकरणिकत्वादत्रान्तर्गतोपमता। अत्र च यातपतिकाजनदर्शनं दुःखाय केवलमभूदिति मध्यमे वाक्ये प्रवासिदुः खैकहेतुत्वलक्षणो धर्म उपात्तः सन्नाद्यन्ताभ्यां वाक्याभ्यां पूर्ववदुपजीव्यते। तेन मध्यदीपकता।

अन्तदीपकस्योदाहरणम्----

तदानीं स्फीतलावण्यचन्द्रिकाभरनिर्भरः।

कान्ताननेन्दुरिन्दुश्च कसय नानन्दकोऽभवत्।।

तदानीं शरत्समये। अत्र इन्दुः प्राकरणिकः शरत्समयस्य उपवण्र्यमानत्वात्। कान्ताननेन्दुस्त्वप्राकरणिकः। अन्ते च सर्वसुखहेतुत्वमुपनिबद्धं सत् पूर्वत्र उपजीव्यते। तेनात्रान्तदीपकता। एवमेतद्दीपकं लक्षितमुदाहृतं च।।

ननु उपमाया "उपमा दीपकं च"इति पूर्वमद्दिष्टत्वात् यथोद्देशलक्षणमिति न्यायात्त्स्या एव पूर्वं लक्षणं कर्तव्यम्, पश्चात्तु दीपकस्य। तत्कथमादौ दीपकं लक्षितमिति वक्तव्यम्। उच्यते। अनेन ग्रंथकृता स्वोपरचितकुमारसंभवैकदेशोऽत्र उदाहरणत्वेनोपन्यस्तः। तक्ष पूर्वं दीपकस्योदाहरणानि। तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः। परित्यक्तः। उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात्। एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसारणसमाधिर्वाच्यः।।

उपमा----

यच्चेतोहारिसाधम्र्यमुपमानोपमेययोः।

मिथो विभिन्नकालादिशब्दयोरुपमा तु तत्।।

यथेवशब्दयोगेन सा श्रुत्यान्वयमर्हति।

सदृशादिपदाश्लेषादन्यथेत्युदिता द्विधा।।

संक्षेपाभिहिताप्येषा साम्यवाचकविचुयतैः।

साम्योपमेयतद्वाचिवियोगाच्च निबध्यते।।

उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्।

क्वचित्समासे तद्वाचिविरहेण क्वचिच्च सा।।

तथोपमानादाचारक्यच्प्रत्ययबलोक्तितः।

क्वचित्सा कर्तुराचारे क्यङा सा च क्विपा क्वचित्।।

उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादगतः।

तद्वाच्या सा वतिना च कर्म सामान्यवचनेन।।

षष्ठीसप्तम्यन्ताच्च यो वतिर्नामतस्तदभिधये।

कल्पत्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः।।

सादृश्यसंबन्धित्वेनोपादीयते यत्प्राकरणिकं तदुपमेयम्। न खलु प्राकरणिकस्यापि सादृश्यसंबन्धित्वेन अनुपादीयमानस्योपमेयता, यथा राज्ञः पुरुषमानयेत्यत्र पुरुषस्य। पुरुषो ह्यत्रानीयमानत्वेन चोद्यमानत्वात्सत्यपि प्राकरणिकत्वे सादृस्यसंबन्धित्वेनानुपादीयमानत्वान्नोपमेयः। सत्यपि च सादृश्यसंबन्धित्वेनोपादाने यस्य प्राकरणिकत्वं नास्ति तस्योपमानत्वं, न तूपमेयत्वमिति प्राकरणिकमित्युक्तम्। तदेवं सादृश्यसंबन्धित्वेनोपादीयमानं यत्प्राकरणिकं तदुपमेयम्। तद्ध्युपमानेन सादृश्यप्रतिपादनद्वारेण समीपे क्षिप्यते तस्मादुपमेयम्। अप्राकरणिकं तु तथाविधमेवोपमानम्। तयोरुपमानोपमेययोर्यत्साधम्र्यं समानो धर्मः तेन धर्मेण संबन्धो यः सा उपमानोपमेययोः सादृश्यद्वारेण साभीप्यपरिच्छेदहेतुत्वादुपमा। तस्याश्चालङ्काराधिकाराच्चेतोहारित्वं लब्धमेव। काव्यशोभावहानां धर्माणां गुणव्यतिरिक्तत्वे सत्यलङ्कारत्वात्। गुणाः खलु काव्यशोभाहेतवो धर्माः। ते च माधुर्यौजःप्रसादलक्षणाः येषां तु गुणोपजनितशोभे काव्ये शोभातिशयहेतुत्वं तेऽलङ्काराः। यदवोचद्भट्टवामनः----"काव्यशोभायाः कर्तारो धर्मा गुणाः। तदतिशयहेतवस्त्वलङ्काराः"इति तेनालङकारत्वादेवोपमायाश्चेतोहारित्वं लब्धम्। अतश्चेतोहारीत्यनुवादः। प्राप्तार्थत्वात्। उपमानोपमेयभावश्च नात्यन्तं साधम्र्येण उपादाने सति भवति गौरिवायं गौरिति। अत उक्तं मिथोविभिन्नकालादिशब्दयोरिति। कालादयोऽत्र शब्दप्रवृत्तिनिमित्तभूता विवक्षिताः। केषांचित्खलु शब्दानां स्वार्थे प्रवर्तमानानां कालः प्रवृत्तिनिमित्तम्, यथा वसन्तादीनाम। केषांचित्त दिक्, यथा प्राच्यादीनाम्। केषांचिज्जातिर्यथा गवादीनाम्। शुक्लप्रभृतीनां तु गुणः। गच्छत्यादीनां क्रिया। राजपुरुषादीनां स्वस्वामिभावादिः संबन्धः। एवमन्यदप्यनुसर्तव्यम्। मिथः परस्परं विभिन्नाः कालादयः प्रवृत्तिनिमित्तभूता ययोः शब्दयोस्तथाविधौ शब्दौ वाचकौ ययोरुपमानोपमेययोरिति बहुव्रीहिगर्भो बहुव्रीहिः। गौरिवायं गौरित्यभिधाने तु न प्रवृत्तिनिमित्तभेदः। गोत्वस्यैवैकस्य प्रवृत्तिनिमित्तत्वात्। तेन एवंविध उपमानोपमेयभावो न भवति। "उपमा तु तत्"इत्यत्र वाक्ये तुशब्दोऽलङ्कारान्तरे व्यतिरेके। उपमा पुनरेवंप्रकारेत्यर्थः।

एषा चोपमा द्विधा, पूर्णा लुप्ता च। पूर्णा यत्र चतुष्टयमुपादीयते उपमानमुपमेयं तयोश्च साधारणो धर्मः सौन्दर्यादिरूपमानोपमेयभावस्य द्योतक इवादिः। साच पूर्णा त्रिविधा, वाक्यसमासतद्धितावसेयत्वात्। तत्र वाक्यावसेयायाः श्रौतत्वार्थत्वभेदेन द्वैविध्यम्। अव्ययावसेया श्रौती। अव्ययं हि लुप्तविभक्तिकत्वेन उपमानोपमेययोरेकतरत्राप्यविश्रान्तत्वादुभयोरप्युपमानोपमेययोरुपमितिक्रियाविषयतया यथायोगं कर्मकरणभावात्मकं संबन्धमवद्योतयति। अतस्तत्र श्रौती उपमा। तदुक्तम्-----"यथेवशब्दयोगेन श्रुत्यान्वयमर्हति"

इति। यथेवशब्दौ चात्रोपलक्षणम्। अव्ययान्तरादपि वाशब्दादेः तेन रूपेण उपमानोपमेयभावस्यावगतेः।

यथा-----

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं

दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्।

गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां

जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्।।

तत्र यथाशब्दयोगे तस्या उदाहरणम्-----

क्षणं कामज्वरोत्थित्यै भूयः संतापवृद्धये।

वियोगिनामभूच्चान्द्री चन्द्रिका चन्दनं यथा।।

अत्र चान्द्री चन्द्रिका उपमेया। चन्दनमुपमानम्। कामज्वरोत्थितिहेतुत्वं संतापवृद्धिनिबन्धनत्वं चानवस्थितं साधारणो धर्मः। यथाशब्दश्चाव्ययत्वेन लुप्तविभक्तिकत्वादुपमानोपमेययोरेकतरस्मिन्नर्थे विश्रान्तः श्रौतेन रूपेणोभयाधारमुपमानोपमेयभावमवद्योतयति। तेनेयं संपूर्णा श्रौती च। एवमिवशब्दयोगेऽप्युदाहरणं योज्यम्।

नेत्रैरिवोत्पलैः पद्मैर्मुखैरिव सरःश्रियः।

तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव।।

एवमियमव्ययोपदर्शिता श्रौती संपूर्णा वाक्योपमोक्ता।

या तूपमा सदृशादिभिः पदैः श्लिष्टा तस्यां न श्रौतेन रूपेण उभयानुयायितया उपमानोपमेयभावोऽवगम्यते। अपि त्वर्थात्। सदृशादीनां पदानामुपमानोपमेययोरेकत्रैव विश्रान्तेः। अन्यत्र च तद्गतसादृश्यपर्यालोचनया तत्संबन्धित्वावगतेः। तेनासौ आर्थी। तदुक्तं "सदृशादिपदाश्लेषादन्यथा"इति। अन्यथेति। अश्रौतेन रूपेणेत्यर्थः। तस्या उदाहरणम्----

प्रबोधाद्धवलं रात्रौ किञ्जल्कालीनषट्पदम्।

पूर्णेन्दुबिम्बप्रतिममासीत्कुमुदकाननम्।।

अत्र कुमुदकाननं विकसितं किञ्जल्कालीनषट्पदत्वविशिष्टमुपमेयम्, पूर्णेन्दुबिम्बमुपमानम्, धवलत्वं साधारणो धर्मः। प्रतिमाशब्द उपमानोपमेयभावावगतिहेतुः। स च उपमाने विश्रान्तः। तथाहि। पूर्णोन्दुबिम्बं प्रतिमा प्रतिबिम्बं सदृशमस्येति बहूव्रीहिरत्र क्रियते। तेन प्रतिमाशब्द उपमाने विश्रान्तः। तेन चोपमाने विश्रान्तेनापि अर्थादुपमेयस्य सादृश्यमवगम्यते। सादृश्यस्योभयाधिष्ठानत्वात्। यदापि च पूर्णेन्दुबिम्बेन प्रतिममिति तृतीयातत्पुरुषस्तदाप्युपमेये खकण्ठेनाभिहितं सादृश्यम्। उपमाने च तस्यार्थात्प्रतिपत्तिः। अतो बहुव्रीहौ उपमानगतसादृश्यपर्यालोचनया उपमेयत्वमवगम्यते। तत्पुरुषे तु उपमेयवर्तिसादृश्यविचारेण उममानस्योपमानत्वावगतिरित्यार्थोऽत्रोपमानोपमेयभावः। अत्र च उपमेयवर्तिकिञ्जल्कालीनषट्पदत्वाभिधानसामथ्र्यादपरमपि साधम्र्यमनभिहितमसितोदरत्वलक्षणमाक्षिप्तम्। यथा पूर्णेन्दुबिम्बं शशलाञ्छनत्वादसितोदरमेवं कुमुदकाननमपि किञ्जल्कालीनषट्पदत्वादिति। अतोऽसितोदरत्वलक्षणं धर्ममपेक्ष्य लुप्तैकदेशत्वाल्लुप्तापीयमुपमा। "नेत्रैरिवोत्पलैः"इत्यादौ तु यद्यपि नेत्रोत्पलादीनां समानधर्मा दीर्घत्वनीलत्वादयः स्वशब्देन नोपात्तास्तथापि भान्तित्यभिधीयमानार्थे तेषामनुप्रवेशात्संपूर्णत्वमेवोपमायाः, चतुष्टयोपलम्भात्। नेत्रादीनि ह्यत्रोपमानानि। उत्पलादीन्युपमेयानि। भानं दीर्घत्वनीलत्वादिविशेषणपर्यन्तं साधारणो धर्मः। इवशब्दश्च उपमानोपमेयभावावगतहेतुः। तेनेयमुपमासंपूर्णैव प्रबोधाद्धवलिमितीयं त्वसितोदरत्वापेक्षया लुप्तत्वेनाप्युक्ता। समासोपमा चैषा पूर्णेन्दुबिम्बप्रतिममिति समासस्य विहितत्वात्। यदा त्वत्र वाक्योपमा विवक्षिता भवति तदैतदेवोदाहरणं तदुदाहरणार्थत्वेन "अखण्डेनेन्दुना तुल्यमासीत्सुमुदकाननम्"इत्येवं परिणमयितव्यम्।।

एवमेषा संपूर्णा वाक्यावगम्या द्विविधोपमा प्रतीपादिता श्रौती आर्थी च। समासावगम्या त्वार्थत्वेन एकप्रकारैवोक्ता।।

या तु तद्धितावसेया संपूर्णा तस्या अपि द्वैविध्यं श्रौतत्वार्थत्वभेदेन। तत्र तस्येवेत्यनेन हि यो वतिर्विधीयते तस्य इवार्थे विधीयमानत्वादिवशब्दवच्छ्रौतेन रूपेण उभयानुयायितया

उपमानोपमेयभावावगतिनिबन्धनत्वम्। यः पुनस्तेन तुल्यमिति तुल्यार्थो वतिर्विधीयते ततो ब्राह्मणेन तुल्यमधीते ब्राह्मणवदधीते क्षत्रिय इत्युपमेये यत्तदध्ययनक्रियाद्वारेण विश्रान्तं तुल्यत्वं तत्पर्यालोचनया अर्थादुपमानस्योपमानत्वमवगम्यते। तेनार्थस्तत्र उपमानोपमेयभावः। तदुक्तम्----"वतिना च कर्मसामान्यवचनेन। षष्ठीसप्तमयन्ताच्च यो वतिर्नामतस्तदभिधेये"इति। कर्मसामान्यवचनो वतिः "तेन तुल्यं क्रिया चेद्वतिः" (पा. अ. 5. 1. 115.)

इति क्रियातुल्यत्वेऽभिधानात्। तेन चाभिधीयते उपमा। वाच्येति पूर्वोपक्रान्तमत्रानुषज्यते। षष्ठ्यन्तात्सप्तम्यन्ताच्च नामतो नाम्नः प्रातीपदिकादिति संबन्धः।।

तत्र पूर्वस्या उदाहरणम्-----

अपि सा सुमुखी तिष्ठेद्दृष्टेः पथि कथंचन।

अप्रार्थितोपसंपन्ना पतितानभ्रवृष्टिवत्।।

अप्रार्थितोपसंपन्ना दृष्टेः पथि कथंचन पतिता तिष्ठेदिति संबन्धः। अत्रानभ्रवृष्टिरूपमानम्, सुमुखी उपमेया। अप्रार्थितोपसंपन्नत्वे सति दृष्टिगोचरपतितत्वेनावस्थानं साधारणो धर्मः। वतिश्च क्रियातुल्यत्वे विधीयमान उपमेये क्रियाद्वारेण शब्देन वृत्तेन विश्रान्तः संस्तुल्यत्वपर्यालोचनयोपमानस्योपमानत्वमवगमयति। ततोऽत्रार्थादुपमानोपमेयभावः प्रतीयते। तेनेयं संपूर्णां आर्थीच तद्धितावसेया।

द्वितीयस्या उदाहरणम्-----

किं स्युरुत्कलिका मद्वत्तस्या अपि निरर्गलाः।

अकाण्डोड्डामरानङ्गहतकेन समर्थिताः।।

अकाण्डोड्डामरोऽनवसरे उद्भटः। प्रचण्ड इति पाठान्तरम्। उत्कलिकाः उत्कण्ठाः। अत्रास्मदर्थ उपमानम्। तच्छब्दार्थ उपमेयः। मन्मथेन समर्पिता यास्ता निरर्गलाः उत्कलिकास्तत्कर्तृकं भवनं साधारणो धर्मः। वतिश्चेवार्थे विधीयमानत्वादिवशब्दवदुपमानोपमेययोरेकतरत्राप्यविश्रान्तः श्रौतेन रूपेणोपमानोपमेयभावमेव द्योतयति। तेनेयं संपूर्णा श्रौती च तद्धितावसेया। अत्र तु तस्या अपीति पाठे षष्ठ्यन्ताद्वतर्विधेयः। यदा तु तस्यामपीति पाठस्तदा सप्तम्यन्तात्। यदुक्तम् "उपमाने यः संशयः स उपमेयाद्य्वावर्तत"इति। एवमेषा वाक्यसमासतद्धितावसेया संपूर्णा त्रिविधोपमा प्रतिपादिता। तत्र च वाक्यतद्धितावसेययोरुपमयोः प्रत्येकं श्रौतत्वार्थत्वभेदेन द्वैविध्यमुक्तम्। समासावसेयायास्त्वार्थत्वमेव। अतः पञ्चप्रकारैषा संपूर्णा।

या तु लुप्तैकदेशत्वाल्लुप्तोपमा सा संक्षेपोपमा। तस्याश्च पञ्चविधत्वं वाक्यासमाससुब्धातुकृत्तद्धितावसेयत्वात्। तत्र वाक्ये या संक्षेपोपमा सा पूर्वमुदाहृता "अखण्डेनेन्दुना तुल्यमिति"। अत्र ह्यसितोदरत्वस्य अनुपात्तत्वात्साधारणधर्मानुपादानाल्लुप्तैकदेशत्वमपि विद्यते।

समासावसेया पुनः संक्षेपोपमा त्रिविधा। एकद्वित्रिलोपे भावात्। एकलोपे द्विविधा, साधारणधर्मवाचिन इवादेर्वानुपादानात्। तदुक्तं "साम्यवाचकविच्युते"रिति। "तद्वाचिविरहेणे"ति च। साम्यवाचकः साधारणधर्मवाची। (साधारणधर्मः) सौन्दर्यादिः। तद्वाची उपमानोपमेयभाववाची च इवादिः। अत्र च सर्वत्र प्रकरणे "संक्षेपाभिहिताप्येषा"इति, "क्वचित्, समास"इति, "निबध्यत"इति च त्रयं प्रत्येकं यथोपयोगमनुषज्यते।

तत्र साम्यवाचिवियोगेन समासे या संक्षेपोपमा तस्याः पूर्वमेवोदाहरणमुक्तं "पूर्णेन्दुबिम्बप्रतिममि"ति। अत्र ह्यसितोदरत्वमर्थसामथ्र्यावसेयत्वाच्छबेदेन नोपात्तम्।। इवादिवियोगे तु तस्या उदाहरणम्----

इति काले कलोल्लापिकादम्बकुलसङ्कुले।

त्रिदशाधीशशार्दूलः पश्चात्तापेन धूर्जटिः।।

तां शशिच्छायवदनां नीलोत्पलदलेक्षणाम्।

सरोजकर्णिकागौरीं गौरीं प्रति मनो दधौ।।

कादम्बाः पक्षिभेदाः। सरोजकर्णिकागौरीं गौरीमित्यत्र सरोजकर्णिका उपमानं, गौरी उपमेया, गौरत्वं साधारणो धर्मः। तच्चत्रयं स्वकण्ठेनोपात्तम्। इवाद्यर्थस्तु उपमानस्य साधारणधर्मवाचिना सह "उपमानानि सामान्यवचनैः" (पा. अ. 2।1।55) इति यः समासस्तत्सामथ्र्यदवगम्यते। तेनेयमिवादिशब्दलोपाल्लुप्तैकदेशा।

एवमेकलोपे सति द्विविधा समासोपमोक्ता।

द्वितयलोपे त्वेकप्रकारा भवति, साधारणधर्मवाचिन इवादेश्च युगपदप्रयोगात्। तदुक्तं "उपमानोपमेयोक्तौ साम्यतद्वाचिविच्यवात्"। अत्र

साम्यशब्देन साम्यवाची शब्दो लक्ष्यते। साम्यविच्यवाच्चोपमाया असंभवात्। तस्या उदाहरणं "त्रिदशाधीशशार्दूल"इति, नीलोत्पलदलेक्षणम्"इति च। "त्रिदशाधीशशार्दूलः"इत्यत्र च त्रिदशाधिश उपमेयः, शार्दूल उपमानम्। तच्च द्वयं स्वकण्ठेनोपात्तम्। इवाद्यर्थः साधारणश्च धर्मस्तेजस्वित्वादिः सामथ्र्यादवसीयते। "नीलोत्पलदलेक्षणाम्"इत्यत्र तु नीलोत्पलपलाशानामुपमानत्वं, ईक्षणयोरुपमेयता। एतयोश्च स्वकण्ठेनो पादानम्। नीलत्वदीर्घत्वादिसाधारणो धर्म इवाद्यर्थश्च उपमानोपमेयभावात्मकः स्वशब्देन अनुपात्तोऽपि समासवशेनार्थसामथ्र्यादवसीयते। "त्रिदशाधीशशार्दूल"इत्यस्मात्तु "नीलोत्पलदलेक्षणामि"त्यस्य बहुव्रीहित्वकृतो विशेषः। तत्र हि "उपमितं व्याघ्रादिभिः"इति तत्पुरुषो विहितः। एवमेषा साधारणधर्मवाचिन इवादेश्चाप्रयोगात् द्वितयलोपे समासे संक्षेपोपमोक्ता।

त्रितयलोपे तु साधारणधर्मवाचिन उपमेयाभिधायिन उपमानोपमेयभाववाचिनश्च इवादेर्युगपदप्रयोगात्समासवर्त्तिनी संक्षेपोपमा भवति। तदुक्तं "साम्योपमेयतद्वाचिवियोगाच्च"इति। अत्रापि पूर्ववत्साम्योपमेयशब्दाभ्यां तद्वाची शब्दौ लक्ष्यते। तस्या उदाहरणं "शशिच्छायवदनामि"ति। अत्र हि शशिच्छायातुल्या छाया यस्य तथाविधं वदनं यस्या इति बहुव्रीहिगर्मे बहुव्रीहौ शशिकान्तिरुपमानं, वदनकान्तिरूपमेया। तयोश्च साधारणो धर्म आह्लादकत्वादिस्तुल्यत्वं चेति चतुष्टयमवगम्यते। शब्दस्पृष्टं तूपमानमेव शशिच्छायेति। तदितरस्योपमेयादेस्त्रितयस्य समाससामथ्र्येनार्थावसेयत्वात्। एवमेषा त्रितयलोपे समासवर्तिनी संक्षेपोपमा उदाहृता। तेदवमत्र चतुःप्रकारा लुप्ता समासोपमा प्रतिपादिता। एकलोपे द्वे, द्वितयलोपे एका, त्रितयलोपे चैकेति।

सुब्धातुप्रत्ययावसेया पुनरुपमा त्रिविधा क्यच् क्यङ् क्विपू प्रत्ययावसेयत्वात्। क्यच्प्रत्ययावसेयापि त्रिविधा कर्मोपमानकत्वादधिकरणोपमानकत्वाच्च। तदुक्तं "तथोपमानादाचारे क्यच्प्रत्ययबलोक्तितः"इति। यथा समासे संक्षेपाभिहिता उपमा समाससमथ्र्यादवगम्यमाना निबध्यते तथा कÏस्मश्चिद्विषये उपमानात्कर्मणः अधिकरणाद्वा आचारार्थे यथाक्रमं सौत्र औपसंख्यानिकश्च यः क्यच्प्रत्ययस्तद्बलेन यासौ भणितिस्तत्सामथ्र्यादप्यवसीयमाना निबध्यते। तस्या उदाहरणं----

स दुःस्थीयन् कृतार्थोऽपि निःशेषैश्वर्यसंपदा।

निकामकमनीयेऽपि नरकीयति कानने।।

निःशेषैश्वर्यसंपदा कृतार्थोऽपीति संबन्धः। अत्र दुःस्थमिवात्मानमाचरन्निति दुःस्थः कश्चिद्दारिद्य्राद्युपप्लुत उपमानं, भगवदात्मा उपमेयः, आचाराख्यः साधारणो धर्मः क्यच्प्रत्ययोपात्तः। अत्र चोपमानसाधारणधर्मयोः शब्दस्पृष्टत्वं। उपमेयस्य उपमानोपमेयभावस्य च सामथ्र्यादवगतिः। तेनेयं द्वितयस्य गम्यमानार्थत्वाद्द्वितयलोपे सति सुब्धातूपमा। एवमियं कर्मोपमानिका सुब्धातूपमा उदात्द्#ृता।

अधिकरणोपमानिका तु "नरकीयति कानने"इति। अत्र नरक उपमानम्, काननमुपमेयम्, क्यच्प्रत्ययोपात्त्स्त्वाचारः साधारणो धर्मः। इवादयस्तु क्यच्प्रत्ययसामर्थेनोपमानोपमेयभावस्यावसेयत्वादप्रयुक्ताः। तेनेयं एकलोपे सति सुब्धातुपमा। एवमेषा क्यच्प्रत्ययावगम्या द्विविधा संक्षेपोपमोक्त।

क्यङ्प्रत्ययसामथ्र्यावगम्या तु कत्र्रपमानिका संक्षेपोपमा भवति। तदाह"कर्तुराचारे क्यङा से"ति, "तथे"ति, "उपमानादाचार"इति। क्वचिदिति च पूर्वोक्तस्यात्रानुषङ्गः। कर्तुरुपमानादुत्तरेंणाचारविषयेण क्यङा सा संक्षेपोपमा क्वचिन्निबध्यत इत्यर्थः। तस्या उदाहरणम्----

कृशानुवज्जगत्त्स्य पश्यतस्तां प्रियां विना।

खद्योतायितुमारब्धं तत्त्वज्ञानमहामहः।।

खद्योतो ज्योतिर्मालिका। अत्र खद्योतायितुमित्यादौ खद्योत उपमानम्। तत्त्वज्ञानं पदार्थखरूपयाथातथ्यपरिच्छेदः, तदात्मकं यत्तन्महदुत्कृष्टं महस्तेजस्तदुपमेयम्। क्यङ्कप्रत्ययोपात्तश्चाचारः साधारणो धर्मः। क्यङ्प्रत्ययसामथ्र्यावसेयत्वाच्चात्रेवादेरप्रयोगः। तेनेयमेकलोपेन सुब्धातूपमोपनिबद्धा।

क्वचित् विषये कत्र्रुपमानिका सा संक्षेपोपमा क्विपा निबध्यते। स च क्विप् "सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः"इत्यनेन विधीयते।

तदुक्तं "सा क्विपा क्वचिदि"ति। अत्रापि तथेति, उपमानादाचार इति, कर्तुरिति च त्रयमनुषज्यते। तस्या उदाहरणम्----"कृशानुवज्जगदि"जगदुपमेयम्, आचारश्च साधारणो धर्मः क्विप्सामथ्र्यदवगम्यते। अत्र चोपमानोपमेययोः शब्दोपात्तत्वादिवादीनामाचारस्य च अर्थसामाथ्र्यवसेयत्वात्तद्द्वितयलोपः। न खल्वश्रूयमाणस्य क्विपोऽर्थाभिधायिता वक्तुं शक्या। एवमेषा सुब्धात्ववसेया त्रिविधा संक्षेपोपमा प्रतिपादिता। क्यच्क्यङ्क्विप्परत्ययावसेयत्वात्। क्यच्प्रत्ययसामथ्र्यावसेया तु द्विविधा। कर्माधिकरणोपमानकत्वात्। क्यप्प्रत्ययावसेया त्वेकप्रकारा। क्विप्प्रत्ययावसेयाप्येकप्रकारैव भवति। तदेवमेषा चतुर्विधा सुब्धातुप्रत्ययावसेया संक्षेपोपमोक्ता।

कृत्प्रत्ययसामथ्र्यावसेया संक्षेपोपमा द्विविधा, कर्मोपमानिका कत्र्रुपमानिका च। तदुक्तं "उपमाने कर्मणि वा कर्तरि वा यो णमुल्कषादिगतस्तद्वाच्या से"ति। कषादिगतः कषाद्यनुप्रयोगक इत्यर्थः। कर्मोपमानिकायास्तस्या उदाहरणम्----

तस्येतरमनोदाहमदहत्प्रज्वलन्मनः।

उमां प्रति तपःशक्त्याकृष्टबुद्धेः स्मरानलः।।

अत्र इतरस्य प्राकृतस्य संबन्धि मन उपमानं, भगवन्मन उपमेयं, दह्यमानत्वं साधारणो धर्मः। तच्च त्रयं शब्दस्पृष्टम्। उपमानोपमेयभावस्त्वत्र णमुल्सामथ्र्यादिवादीनामप्रयोगेऽपि गम्यते। तेनेयमेकलोपे संक्षेपोपमा कर्मोपमानिका कृत्प्रत्ययावसेया।

कत्र्रुपमानिकायास्तु तस्या उदाहरणम्----

स दग्धविग्रहेणापि वीर्यमात्रस्थितात्मना।

स्पृष्टः कामेन सामान्यप्राणिचिन्तमचिन्तयत्।।

विग्रहः शरीरम्। अत्र सामान्यभूतः प्राणी गुणातिशयशून्य उपप्रानं, तच्छब्दनिर्दिष्टश्च भगवानुपमेयः, चिन्तयितृत्वं साधारणो धर्मो, णमुल्सामथ्र्याच्च इवादेरप्रयोगेऽप्युपमानोपमेयभावावसायः। तेनेयमेकलोपे सति कत्र्रुपमानिका संक्षेपोपमा कृत्प्रत्ययावसेया। एवमेषा कृत्प्रत्ययावसेया संक्षेपोपमा द्विविधा प्रतिपादता।

या तु तद्धितसामथ्र्यावसेया वतिशब्दादवगम्यते, सा संपूर्णत्वात्पूर्वमुक्ता। अन्या त्वसंपूर्णा कल्पबादेः तद्धित्स्य प्रयोगादवसीयते। तदुक्तं "कल्पप्प्रभृतिभिरन्यैश्च तद्धितैः सा निबध्यते कविभिः"इति। प्रभृतिशब्देनात्र "इवे प्रतिकृतौ"इत्यादिविहितानां कनादीनां परिग्रहः। तस्या उदाहरणम्-----

चण्डालकल्पे कन्दर्पप्लुष्टा मयि तिरोहिते।

संजातातुलनैराश्या किं सा शोकान्मृता भवेत्।।

अत्र चण्डाल उपमानं, मयीत्यस्मदर्थ उपमेयः, कल्पप्प्रत्ययेन च सादृश्यमुपात्त्म्। प्रकृत्यर्थसदृशेऽर्थे भगवत्कात्यायनदृशा कल्पबादीनां विधानात् क्रौर्यादिस्तु धर्मः स्वशब्दानुपात्तोऽपि सामथ्र्यादत्रावसीयते। तेनेयमेकलोपे सति तद्धितावगम्या संक्षेपोपमा। एवमश्वक इत्यत्रापि द्रष्टव्यम्। इवार्थोपलक्षिते सदृशे कनो विधानात्। आयःशूलिक इत्यादौ तु त्रितयलोपेन तद्धितसामर्थादुपमावसायः। तथाहि, अत्रायःशूलेनान्विच्छतीति विगृह्य "अयःशूलदण्डाजिनाभ्या"मिति ठग्वधीयते। अत्र चायःशूलमुपमानं, अर्थान्वेषणोपायः कश्चिदुपमेयः तीक्ष्णत्वादिः साधारणो धर्मः उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते। तन्मध्यात्स्वशब्दस्पुष्टमुपमानमयःशूलेनेति। शिष्टशब्दस्य तु त्रितयस्यात्रार्थसामथ्र्यादवगतिः।

ननु चात्रोपमानेनायःशूलेनार्थान्वेषणोपायस्योपमेयस्य तद्भावाध्यवसानेनापादिताभेदस्य प्रतीयमानत्वादतिशयोक्तिरियं न तूपमा। तत्कथमेतदुपमानोदाहरणम्। उच्यते। यथा "शशिच्छायवदनाम्"इत्यत्र सत्यपि शशिच्छायाप्रच्छादितरूपत्वे वदनच्छायायाः कथञ्चिद्भेदप्रतिपत्तिपुरः-- सरीकारेणोपमाभेदत्वमुपन्यस्तं तथात्रापि भविष्यतीत्यदोषः। तेनायः--शूलिक इत्यत्र त्रितयलोपे सति तद्धितावसेया संक्षेपोपमा भवति एव् श्वा मुमूर्षति कूलं पिपतिपतीत्यादावपि यदि मरणपतनाद्यानुगुण्यस्य उपमेयभूतस्य तद्भावाध्यवसानात्सन्वाच्यया इच्छयोपमानभूतया समापादिताभेदस्य प्रतीयमानस्य भेदावगतिनिबन्धनं किञ्चिद्विद्यते तदोपमाभेदत्वं वाच्यम्।

अन्यथा त्वतिशयोक्तिभेदतास्यावसेया। यदाह सन्विधौ भगवान्कात्यायनः--"आशङ्कायामचेतनेषूपसंख्यानम्""न वा तुल्यकारणात्वादिच्छाया हि प्रवृत्तित उपलब्धिरि"ति, "उपमानाद्वा सिद्धमिति" च। अत्र हि "न वा तुल्यकारणत्वादि"त्यादिना तद्भावध्यवसानं सूचितम्। "उपमानाद्वा सिद्धमि"ति तूपमानोपमेयभावः प्रतिपादितः। इयं च घातोः सनो विधानात्तदन्तस्य च धातुत्वात्सुब्धातूपमावत् धातुधातूपमावसेया। एवं वर्तमानसामीप्यादावप्युपमाभेदत्वमतिशयोक्तिभेदत्वं वा यथाप्रतीति योज्यम्। चूर्णिकारस्य त्वेवमादौ तद्भावाध्यवसानसमाश्रयेम नातिशयोक्तिभेदत्वमेवेष्टम्। यदाह"न तिङन्तेनोपमानमस्ती"ति। अत एव दण्डिना "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता"इत्यादेर्गर्भीकृतातिशयोत्प्रेक्षाबेदत्वमेव महता प्रपञ्चेनाभ्यधायि । तेन कदा देवदत्त ग्रामं गमिष्यसि, एष गच्छामीत्यादावपि वर्तमानसामीप्ये वर्तमानरूपतया भविष्यत्कालस्याध्यवसानादतिशयोक्तिभेदत्वमेव वाच्यम्। एवमन्यत्राप्यूह्यम्। एवमेषा वाक्यसमाससुब्धातुकृत्तद्धितावसेया संक्षेपो पमा पञ्चविधा प्रतिपादिता।

संपूर्णा तु वाक्यासमासतद्धितभेदेन त्रिविधा पूर्वमुक्ता। आसामेव चावान्तरभेदा अन्ये निर्दिष्टाः। तथाहि, संपूर्णयोर्वाक्यतद्धितोपमयोः श्रौतत्वार्थत्वभेदेन प्रत्येकं द्वैविध्यमुक्तम्। संक्षेपोपमायाश्च समासोपमाया एकद्वयत्रयलोपेन चतुर्बिधत्वम्। एकलोपस्य हि तत्र द्वैविध्यमुक्तम्, इवादेः साधारणधर्मवाचिनश्च लोपत् सब्धातूपमायाश्चतुर्विधत्वम्, क्यच्क्यङ्क्विप्प्रत्यायावसेयत्वात्। क्यच्प्रत्यायावसेया हि कर्माधकरणोपमानकत्वेन द्विविधोक्ता। कृत्प्रत्यायावसेयायाश्च कर्तृकर्मोपमानकत्वेन द्विविधत्वम्। तदेवमेषा सप्तदशविधा ग्रन्थकृता उपमा प्रतिपादिता। तदाहुः---

कृत्तद्वितसमासेभ्यः सुब्धातोरथ वाक्यतः।

पूर्णा लुप्तैकदेशा च गम्यते द्विविधोपमा।।

एकद्वयत्रयाणां च लोपात्स्याल्लोपिनी त्रीधा।

पूर्वौ भेदौ द्विधा चात्र तृतीयस्त्वेकरूपकः।। इति

पूर्वौ भेदौ द्विधा चात्रेति साधारणधर्मवाचिलोपाच्चैकलोपस्य द्वैविध्यम्। द्वितयलोपोऽपि साधारणधर्मवाचीवादिवियोगात्तथा उपमेयवाचीवादिवियोगाद्द्विविधः। एषा चोपमा विचित्रभेदत्वे सत्यपि यत्रैव चेतोहारित्वमस्ति तत्रैवालङ्कारतां प्रतिपद्यते न सर्वत्रेत्युक्तम्।।

प्रतिवस्तूपमा---

उपमानसंनिधाने साम्यवाच्युच्यते बुधैर्यत्र।

उपमेयस्य च कविभिः सा प्रतिवस्तूपमा गदिता।।

यत्रोपमानोपमेययोः संनिधाने साम्यवाचिनः पदस्यासकृदुपादानं क्रियते सा परतिवस्तूपमा। ननु यदि साम्यवाचिनः पदस्य तत्रासकृदुपादानं क्रियते ततोऽनेकवाक्यत्वमापतति। न चानेकस्मिन् वाक्ये इवादीनि प्रयुज्यन्ते, एकवाक्यनिष्ठतया तेषामभिधासामथ्र्यावसितत्वात्। अतश्चेवादीनामप्रयोगे कथं तत्रोपमानोपमेयभावावसाय इत्यासङ्क्याह----

प्राकरणिकेतरत्वस्थित्यैकश्चोपमेयतां लभते।

उपमानत्वं चापर इत्युपमावाचिशून्यत्वम्।।

नानावाक्यत्वादिवादीनामप्रयोगेऽपि प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनया अर्थसामथ्र्यादत्रोपमानोपमेयभावोऽवसीयत इत्यर्थः।

तदाहुः----

इवादेरप्रतीतापि शब्दसंस्कारतः क्वचित्।

उपमा लक्ष्यतेऽन्यत्र केवलार्थनिबन्धना।। इति

इह प्रकारत्रयेण उपमायाः प्रतिपत्तिः। क्वचिदवादिशब्दसामथ्र्यादुपमा वाच्यभूता प्रतीयते, यथा चन्द्र इव मुखमस्या इत्यादौ। क्वचित्तु तत्तद्विशिष्टसंस्कारसहायाच्छब्दात्स्वार्थाभिधानमुखेन लक्ष्यमाणायास्तस्याः प्रतिपत्तिः, यथा शस्त्रीश्यामेति। अत्र हि

समासनिबन्धनैकपद्यादिसंस्कारसहिताभ्यां शस्त्रीश्यामाशब्दाभ्यां

स्वार्थाभिधानव्यवधानेन लक्ष्यमाणोपमा गम्यते। क्वचित्तूपमानोपमेयनिबन्धनशब्दसंस्काराभावेऽपि केवलादेवार्थसामथ्र्यात्तस्याः प्रतिपत्तिः, यथा रूपकदीपकप्रतिवस्तूपमादिष्वित्यर्थः। अतश्चास्यां प्रतिवस्तूपमायां केवलेनैवार्थसामथ्र्येनोपमानोपमेयत्वमवगम्यते इत्यदोषः।

तस्या उदाहरणम्----

विरलास्तादृशो लोके शीलसौन्दर्यसंपदः।

निशाः कियत्यो वर्षेऽपि याखिन्दिः पूर्णमण्डलः।।

विरलाः स्वल्पाः। तादृशः पार्वतीवर्त्तिन्यो याः शीलसौन्दर्यसंपदः तत्सदृस्यः। शीलं सुस्वभावता। सौन्दर्यं लावण्यम्। अत्र संवत्सरमध्यवर्तिन्योऽखण्डशशिबिम्बा रात्रयो द्वादश उपमानम्। शीलसौन्दर्ययोः संभाराः सकललोकोत्कृष्टाः कतिपयजनजुष उपमेयाः। साधारणश्च धर्मो विरलत्वम्। तच्चोपमानसंनिधाने कियत्य इत्युपात्तम्। उपमेयसंनिधाने तु विरला इति। इवाद्यनुपादानेऽपि च प्राकरणिकत्वाप्राकरणिकत्वपर्यालोचनयात्रोपमानोपमेयभावावसायः। तेनेयं वस्तुनि वस्तुनि साधारणोपनिबन्धात्प्रतिवस्तूपमा।।

इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ प्रथमो वर्गः।।