काव्यालङ्कारसारसङ्ग्रहः/पञ्चमः वर्गः

विकिस्रोतः तः
Jump to navigation Jump to search

अथ पञ्चमो वर्गः।

अपह्नुतिं विशेषोकिं्त विरोधं तुल्ययोगिताम्।

अप्रस्तुतप्रशंसा च व्याजस्तुतिविदर्शने।।

उपमेयोपमां चैव सहोकिं्त संकरं तथा।

परिवृतिं्त च जगदुरलङ्कारान्परे गिराम्।।

अपह्नुतिः-----

अपह्नुतिरभीष्टा च किञ्चिदन्तर्गतोपमा।

भूतार्थापह्नवेनास्या निबन्धः क्रियते बुधैः।।

यत्र भूतं विद्यमानमुपमेयलक्षणमर्थमपह्नुत्योपमानरूपारोपेणोपमानोपमेयभावो.......................... तिरलङ्कारः। अत्र च प्राकरणिकस्य

विद्यमानस्यार्थस्य ...............................यद्विद्यमानोऽस्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीत्युक्तम्----किञ्चिदन्तर्गतोपमेति। तस्या उदहरणम्-----

एतद्धि न तपः सत्यमिदं हालाहलं विषम्।

विशेषतः शशिकलाकोमलानां भवादृशाम्।।

अत्र प्राकरणिकस्य तपसः स्वरूपमपह्नुत्य हालाहलविषविशेषरूपताध्यारोपेण तत्सादृश्यमवगमितम्। तच्चात्र हालाहलविषसादृश्यमुपमेयस्यापह्नुतत्वान्न स्फुटरूपम्। हालाहलाख्यो विषभेदो यः शीघ्रं व्यापादयति।

विशेषोक्तिः-----

यत्सामग्र्येऽपि शक्तीनां फलानुत्पत्तिबन्धनम्।

विशेषस्याभिधित्सातस्तद्वशेषोक्तिरुच्यते।।

शक्तीनां कारकाणां सामग्र्येऽपि अविकलत्वे यः क्रियाफलस्य किञ्चिद्विशेषमवगमयितुमनुत्पत्तेरुपनिबन्धः सा विशेषोक्तिः। तस्याश्च द्वौभेदौ। क्वचित्खलु कारणसामग्र्येऽपि यत्कार्यं नोत्पद्यते तस्यानुत्पत्तौ स्वकण्ठेन निमित्तमुपादीयते, क्वचित्त्वर्थसामथ्र्यादवगम्यते तदाह---

दर्शितेन निमित्तेन निमित्तादर्शनेन च।

तस्या बन्धो द्विधा लक्ष्ये दृश्यते ललितात्मकः।।

अदर्शनमनुपादानम्। तत्र द्वितीयस्य भेदस्योदाहरणम्-----

महर्द्धिनि गृहे जन्म रूपं स्मरसुहृद्वयः।

तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः।।

अत्र धनसंभारयोगः सुरूपत्वं यौवनं चेति यान्येतानि सुखप्राप्तौ कारणान्यविकलानि तत्सद्भावेऽपि क्रियाफलभूतायाः सुखप्राप्तेरनुत्पत्तिरुपनिबद्धा। पूर्वोक्तानां सुखहेतूनां विस्मयविभावनात्मकविशेषख्यापनाय। अत्र च निमित्तं खकण्ठेनानुपात्तमप्यर्थसामथ्र्यादवगम्यते। विधिवैधुर्यादिरूपशब्दोऽत्र शरीरस्य रूपमात्राव्यभिचारित्वाद्रूपप्रकर्षतात्पर्येणोपात्तः। स्मरसुहृद्वयो यौवनम्। यौवने हि मन्मथाभिमुखीभवति। आद्यभेदोदाहरणं तु----

इत्थं विसंष्ठुलं दृष्ट्वा तावकीनं विचेष्टितम्।

नोदेति किमपि प्रष्टु सत्वरस्यापि मे वचः।।

अत्र प्रश्नत्वरालक्षणकारणसद्भावेऽपि प्रश्नवचसोऽनुत्पत्तिरुपनिबद्धा। तया च प्रश्नवचनकारणस्य विस्मयविभावनाख्यो विशेषोऽवगम्यते। अत्र च निमित्त्#ं भगवतीगतिविसंष्ठुलचेष्टितदर्शनं स्वकण्ठेनोपात्तम्।।

विरोधः-----

गुणस्य वा क्रियाया वा विरुद्धान्यक्रियावचः।

यद्विशेषाभिधानाय विरोधं तं प्रचक्षते।।

यत्र कविना गुणस्य वा क्रियाया वा अथवा द्विर्वाशब्दस्योपात्तत्वात् द्रव्यस्य विरुद्धोऽन्यः पदार्थः सजातीयो विजातीयो वा वचसा स्वप्रतिभाप्रसूतेन वर्णनिकात्मना क्रियते कञ्चिद्विशेषमवगमयितुं स विरोधाख्योऽलङ्कारः। गुणक्रियाद्रव्याणामुत्प्रेक्षालङ्कारलक्षणव्याख्यानसमये स्वूरूपमुक्तम्। क्रिया कारणमुत्पादनं, त्त्प्रधानं वचः क्रियावचः। कविप्रतिभया खलु पुराणप्रजापतिनिर्मितशुष्कपरुषपदार्थविलक्षणाः सरसाः पदार्थाः अभिनवा एव निर्मीयन्ते। अतः क्रियावच इत्युक्तम्। तस्योदाहरणम्----

यद्वा मां किं करोम्येष वाचालयति विस्मयः।

भवत्याः क्वायमाकारः क्वेदं तपसि पाटवम्।।

अत्र यदेतत्पूर्वमुपक्रान्तं वचो मे नोदेतीति तस्याक्षेपो यद्वेतिकृतः। किंवा करोमि विस्मयवाचालितः सन् ब्रवीमि भवत्याः क्वते। एष विस्मयो मां वाचालयतीति संबन्धः। अत्राकृतेः सुकुमारायाः पाटवस्य च कठिनकायसाध्यस्य विरोधो भगवतीनिष्ठत्वेनोपनिबद्धः। तेन च विस्मयविभावनाख्यो विशेषोऽत्र ख्याप्यते। अयं चासिद्धस्वभावधर्मनिष्ठत्वाद्गुणविरोधः। एवं साध्यस्वभावधर्मनिष्ठेऽपि क्रियाविरोधे उदाहार्यम्। तथा द्रव्यविरोधे गुणक्रियाविरोधे गुणद्रव्यविरोधे क्रियाद्रव्यविरोधे च।।

तुल्ययोगिता-----

उपमानोपमेयोक्तिशून्यैरप्रस्तुतैर्वचः।

साम्याभिधायि प्रस्तावभाग्भिर्वा तुल्ययोगिता।।

अप्रस्तुतानामेव वा यत्र साम्यमभिधीयते सा तुल्ययोगिता। अत एव प्राकरणिकाप्राकरणिकोभयार्थनिष्ठत्वाभावात्तत्रोपमानोपमेयोक्तिशून्यत्वं प्रस्तावभाग्भिः प्रस्तुतैः साम्याभिधायि वच इति संबन्धः। तस्याः पूर्वभेदस्योदाहरणम्-----

त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते।

मालतीशशभृल्लेखाकदलीनां कठोरता।।

त्वच्छरीरसौकुमार्यदर्शिनः कस्येव चेतसि मालत्यादीनां काठिन्यं न भासत इत्यर्थः। अत्र मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरत्वलक्षणं साम्यमुपनिबद्धम्। द्रष्टुरिति तृन्। तद्योगे च त्वदङ्गमार्दवमिति "न लोकाव्ययनिष्ठे"ति षष्ठीनिषेधः।

द्वितीयभेदस्योदाहरणम्----

योगपट्टो जटाजालं तारवीत्वङ्मृगाजिनम्।

उचितानि तवाङ्गस्य यद्यमूनि तदुच्यताम्।।

अत्र प्राकरणिकानमपि योगपट्टादीनां भगवतीशरीरे संस्पर्शनौचित्यलक्षणः समानो धर्मो निबद्धः। तारवीत्वक् वल्कलम्। अङ्गस्य शरीरस्य।

अप्रस्तुतप्रशंसा----

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः।

अप्रस्तुतप्रशंसेयं प्रस्तुतार्थनुबन्धिनी।।

अधिकारादुपवर्णनावसरादपगतस्य प्राकरणिकादपरस्य वस्तुनो यत्रोपनिबन्धः सा अप्रस्तुतप्रशंसा। न चैवमपि तस्या उन्मत्तप्रलापप्रख्यता, यतः सा केनचित्स्वाजन्येन प्रस्तुतमर्थमनुबध्नति। तदुक्तम्---प्रस्तुतार्थानुबन्धिनीति। तस्या उदाहरणम्-----

यान्ति स्वदेहेषु जरामसंप्राप्तोपभोक्तृकाः।

फलपुष्पर्द्धिभाजोऽपि दुर्गदेशवनश्रियः।।

अत्र कृच्छ्रेण गन्तुं शक्यते यस्मिन्देशे तद्गतकाननानां शोभा अप्राकरणिक्य एव स्वदेहजर्जरतयोपवर्णिताः। ताभिश्च सादृश्यं स्वाजन्येन भगवतीचेष्टितमुपमेयभूतं एवंविधरूपतयावगम्यते। दुर्गेति "सुदुरोरधिकरण"इति डप्रत्ययः।।

व्याजस्तुतिः----

शब्दशक्तिस्वभावेन यत्र निन्देव गम्यते।

वस्तुतस्तु स्तुतिश्चेष्टा व्याजस्तुतिरसौ मता।।

यत्र शब्दानामभिधायकानां या शक्तिरर्थप्रत्यायनौत्सुक्यं तस्या यः स्वभावो नियतार्थनिष्ठत्वात्मकस्तेन निन्दा गम्यते इव नत्वसौ निन्दैव।

पदार्थपर्यालोचनसामथ्र्योत्थायां स्तुतौ वाक्यार्थीभूतायामवान्तरवाक्यार्थत्वात्। अत एवाह----वस्तुतस्तु स्तुतिश्चेष्टेति। वस्तुत इत्यर्थसामथ्र्यादित्यर्थः। तत्र व्याजस्तुतिर्नामालङ्कारो भवति।

निन्दाव्याजेन हि सा स्तुतिः। अतो व्याजस्तुतिः। तस्या उदाहरणम्-----

धिगनन्योपमामेतां तावकीं रूपसंपदम्।

त्रैलोक्येऽप्यनुरूपो यद्वरस्तव न लभ्यते।।

अत्र यदेतद्धिग्वादोपहतत्वं रूपसंपदः साक्षाच्छब्दव्यापारेण स्पृष्टं न तत्स्वात्मपर्यवसितं, अर्थसामथ्र्योत्थलोकोत्तरभगवतीरूपोत्कर्षप्रतिपादनपर्यवसितत्वात्। अतस्तस्यावान्तरवाक्यार्थता। तेनेयं व्याजस्तुतिः। निन्दाव्याजेन रूपोत्कर्षस्य स्तूयमानत्वात्। धिगनन्योपमामि "त्युभसर्वतसोः कार्ये"ति द्वितीया।।

विदर्शना----

अभवन्वस्तुसंबन्धो भवन्वा यत्र कल्पयेत्।

उपमानोपमेयत्वं कथ्यते सा विदर्शना।।

यत्र पदार्थानां संबन्धः स्वयमनुपपद्यमानः सन्नुपमानोपमेयभावे पर्यवस्यति अथवा उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तत्र विदर्शना, विशिष्टस्यार्थस्य उपमानोपमेयभावात्मकस्योपदर्शनात्। तस्या उदाहरणम्----

विनोचितेन पत्या च रूपवत्यपि कामिनी।

विधुवन्ध्यविभावर्याः प्रबिभर्ति विशोभताम्।।

विधुश्चन्द्रः। विभावरी रात्रिः। अत्र रजनिकररहितविभावरीविशोभत्वस्य यदेतत्कर्मत्वं तत्कामिनीकर्तृकायां भरणक्रियायां न समन्वयं गच्छति। न ह्यन्यस्य संबन्धिनीं विशोभामन्यो बिभर्ति। अतः पदार्थसमन्वयस्यात्रानुपपत्तिः। उपमानोपमेयभावस्त्वत्र वाक्यार्थविश्रान्तिस्थानं कृष्णरात्रिवद्विशोभतां बिभर्तिति। एवमेतद्भवति वस्त्वसंबन्धे उपमानोपमेयभावकल्पनायामुदाहरणम्। यत्र तु पदार्थसमन्क्य उपमानोपमेयभावकल्पनया स्वात्मानमुपपादयति तस्य विदर्शनाभेदस्योदाहरणमुद्भटपुस्तके न दृश्यते। तस्य तु भामहोदतमिदमुदाहरणम्---

अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति।

उदयः पतनायेति श्रीमतो बोधयन्नरान्।। इति

तत्र प्रथमोदयसमयविजृम्भमाणस्वकान्तिरहितसय भास्वतो यदेतदस्तमयौन्मुख्यं तदुपेतस्य श्रीमतः प्रयोज्यकतर्ॄन् प्रति पातावसानोदयकर्मकेऽवबोधे तत्समर्थाचरणलक्षणं हेतुकर्तृत्वमुपनिबद्धम्। तथाविधं खलु भास्वन्तं पश्यन्तः श्रीमन्तो बुध्यन्ते भास्वत इव सर्वस्योदयः पातावसान इति। तांश्चासौ तथावबुध्यमानान् स्वावस्थोपदर्शनेन प्रयुङ्क्ते यथा ममायमुदयः पातावसानस्तथा भवतामपीति। अत्र च प्रेषणाध्येषणयोरभावात्तत्समर्थाचरणलक्षण एव प्रयोजकव्यापारः कारीषोऽध्यापयति भिक्षा वासयतीति यथा। तेन च प्रयोज्यप्रयोजकभावेन स्वात्मानमुपपादयितुमुपमानोपमेयभाव आक्षिप्तः हे श्रीमन्तो यथा ममायमुदयः पतनाय तद्वद्भवतामपीति यूयं बुध्यध्वमिति। तेनात्र प्रयोज्यप्रयोजकभावलक्षणेन पदार्थसमन्वयेन स्वात्मोपपादनायोपमानोपमेयभावस्याक्षेपात् द्वितीयो विदर्शनाया भेदः।।

संकरः----

स च चतुर्विधः संदेहशब्दार्थवत्र्यलङ्कारैकशब्दाभिधानानुग्राह्यानुग्राहकभेदेन। तत्र संदेहसंकरस्तावत्---

अनेकालङ्क्रियोल्लेखे समं तद्वृत्त्यसंभवे।

एकस्य च ग्रहे न्यायदोषाभावे च संकरः।।

अनेकस्यालङ्कारस्योल्लेखे चेतस्युपारोहे संदेहसंकरो भवति, न त्वेकशब्दाभिधानसंकरादावपि अनेकालङ्कारोल्लेखः संभवति। यथा---

मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी।

तवापि मूÐघ्न गङ्गेव चक्रधारा पतिष्यति।।

अत्र ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुश्च श्लेषोऽनेकालङ्कार उल्लिख्यते। उपमानोपमेयभावे तावत्

गङ्गोपमानम्। चक्रधारा उपमेया। मुरारिनिर्गतत्वं साधारणो धर्मः। श्लेषस्त्वत्र नरकप्रतिपन्थिशब्दादात्मानं लभते। एकत्र हि नरको दानवः। अपरत्र त्ववीच्यादिः। एतौ च द्वावलङ्कारावेकस्मिन्निवशब्देऽनुप्रविशतः। न ह्युपमानोपमेयभावस्तत्प्रतिभाहेतुर्वा श्लेषः समासाद्यभावे इवशब्दादिमन्तरेण स्वरूपं प्रतिलभते। तेनात्र द्वावलङ्कारा वेकस्मिन्वाचके इव शब्देऽनुप्रविषौ। यदि चानेकालङ्कारोल्लेखे सति संदेहसंकरस्तत एवमादावप्यनेकालङ्कारोल्लेखस्य संभवात्संदेहसंकरप्रसङ्ग इत्याशङ्क्योक्तम्---समं तद्वृत्त्यसंभव इति। तस्यानेकस्यालङ्कारस्य समं युगपद्यदि वृत्तिव्र्यापारोऽलङ्कार्यालङ्करणात्मको न संभवतीत्यर्थः। पूर्वोक्ते तूदाहरणे मुरारिनिर्गतेति साधारणधर्मोपादानान्नरकप्रतिपन्थिनीति च श्लेषपदोपदर्शनान्नानेकस्यालङ्कारस्य युगपद्वृत्तेरसंभवः। तेन तत्र न संदेहसंकरता।

ननु यद्यनेकालङ्कारोल्लेके युगपद्वृत्त्यसंभवे च संदेहसंकरत्वम्। एव सति यत्र प्रतिभामात्रेणानेकस्मिन्नलङ्कारे उल्लिख्यमाने यस्य साधकं प्रमाणमस्ति स उपादीयते। यस्य तु बाधकं प्रमाणं विद्यते स त्यज्यते। तत्राष्यनेकालङ्कारोल्लेखस्य समं तद्वृत्त्यसंभवस्य च संभवात्संदेहसंकरत्वं प्रसज्जतीत्याशङ्क्योक्तम्---एकस्य च ग्रहे न्यायदोषाभावे चेति। न्यायः साधकं प्रमाणम्। दोषो बाधकं प्रमाणम्। यत्रानेकालङ्कारोल्लेखे युगपद्वृत्त्यसंभवे च एकतरस्य ग्रहणे साधकबाधके प्रमाणे समस्तव्यस्ततया न विद्येते तत्र संदेहसंकरः। तेन नानिष्टप्रसङ्गः। तथाहि---यत्र साधकबाधके प्रमाणे सामस्त्येन विद्यते तत्र यस्य साधकं प्रमाणमस्ति तस्योपादानाद्बाधकस्य प्रमाणोपेतस्य च त्यागादेकस्य ग्रहणं भवति। यत्रापि साधकबाधकप्रमाणयोर्वैयस्त्येनान्यतरस्य विद्यमानता तत्रापि प्रतिभोल्लिख्यमानानेकालङ्कारमध्यात्साधकप्रमाणोपेतस्योपादानात्प्रमाणशून्यस्य चोपेक्ष्यत्वात्, तथा बाधकप्रमाणोपेतस्य परित्यागात्त्दितरस्य च पूर्वोल्लिखितस्य पारिशेष्येणोपादानादेकस्य ग्रहो भवति। यत्र तु साधकबाधकप्रमाणाभावस्तत्र संदेह एव। एवमयं संदेहसंकरो लक्षितः। तस्योदाहरणम्----

यद्यप्यत्यन्तमुचितो वरेन्दुस्ते न लभ्यते।

तथापि वच्मि कुत्रापि क्रियतामादरो नरे।।

अत्र वरेन्दुरिति वर एव इन्दुः, वर इन्दुरिवेति रूपकसमासोपमयोद्र्वयोरलङ्कारयोरुल्लेखः। न च तस्यानेकस्यालङ्कारस्य युगपद्वृत्तिः संभवति। एकालङ्कारसंश्रयेणैवालङ्कारस्य कृतकृत्यात्वात्। न चात्र द्वयोर्मध्यादेकतरस्य ग्रहणाय साधकबाधकप्रमाणयोगः. साधकं हि प्रमाणं विद्यमानं विधिमुखेनालङ्कारं ज्ञापयेत्। तथा बाधकमपि प्रहातव्यालङ्कारनिषेधमुखेनोपादेयमलङ्कारं पूर्वोल्लिखितं पारिशेष्यादुपादेयतया प्रतिपादयति। अत्र तु द्वयोः साधकबाधकप्रमाणयोरभावात्संदेहः। तेन संकरोऽलङ्कारः।

शब्दार्थवत्र्यलङ्कारस्तु-----

शब्दार्थवत्र्यलङ्कारा वाक्य एकत्र भासिनः।

संकरो वा

यत्रैकस्मिन्वाक्ये शब्दवर्तिनोऽर्थवर्तिनश्चालङ्काराः संसर्गमुपयान्ति स शब्दार्थालङ्कारः। तस्योदाहरणम्----

इत्थं स्थितिर्वरार्था चेन्मा कृथा व्यर्थमर्थिताम्।

रूपेण ते युवा सर्वः पादबद्धो हि किङ्करः।।

वरार्था भत्र्रर्था। किङ्करो दासः। अत्र थकारोपनिबद्धोऽनुप्रासात्मकः शब्दालङ्कारः। अर्थालङ्कारश्चार्थान्तरन्यासो विद्यते। तथाहि---अत्र माकृथा व्यर्थमर्थितामित्युपादित्सितेऽर्थेऽर्थित्वस्याकरणं यदुपनिबद्धं तदनुपपद्यमानतया संभाव्य तत्समर्थनायोक्तं "रूपेण ते युवा सर्वः पादबद्धो हि किङ्कर"इति। यो गुणोत्कर्षशाली स नार्थयते, अपित्वथ्र्यते यथा रत्नादि। त्वं च रूपवत्त्वाद्गुणोत्कर्षशालिनी। तस्मादुपादित्सितेऽर्थे

तवार्थित्वमयुक्तमिति। तेनायं शब्दार्थवत्र्यलङ्कारसंकरः।।

एकशब्दाभिधानसंकरस्तु------

एकवाक्यांशप्रवेशाद्वाभिधीयते।

एकस्मिन्वाक्यांशे वाक्यैकदेशे यत्रानेकस्यालङ्कारस्यानुप्रवेशः स एकशब्दाभिधानसंकरः। तस्योदाहरणम्----

मैवमेवास्स्व सच्छायवर्णिका चारुकर्णिका।

अम्भोजिनी चित्रस्था दृष्टिमात्रसुखप्रदा।।

अत्रोपमालङ्कार उपमाप्रतिभोत्पत्तिहेतुभूतश्च श्लेष इत्येतौ द्वावलङ्कारावेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ। तथाहि---अम्भोजिनी उपमानम्, गौरी उपमेया, दृष्टिमात्रसुखप्रदत्वं साधारणो धर्मः इत्युपमा। सच्छायवर्णिका चारुकर्णिकेति श्लेषः। अम्भोजिन्यां हि वर्णा राजवर्तादयः गौर्यां तु गौरत्वम्। अम्भोजिन्यां कर्णिका कमलमध्वर्त्तिबीजकोशः। गौर्यां तु चारू कर्णौ। कपूचात्र समासान्तः। तेनायं श्लेषः। एतौ च द्वावलङ्कारा वेकस्मिन्वाक्यांशे इवशब्देऽनुप्रविष्टौ। तेनायमेकशब्दाभिधानसंकरः।।

अनुग्राह्यानुग्राहकसंकरस्तु----

परस्परोपकारेण यत्रालङ्कृतयः स्थिताः।

स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽपि संकरः।।

यत्रोभयोरुपमानोपमेययोः परस्परमुपमानोपमेयभावस्तत्रोपमेयोपमा। उपमेयेनोपमानस्योपमानात्। ननु च प्राकरणिकं साम्याभिधानसंबन्धि उपमेयं। अप्राकरणिकं उपमानं। यदि चात्रोपमेयस्योपमानत्वमभिधीयते, एवं

सति तस्य प्राकरणिकत्वं व्याहन्यते इत्याशङ्क्योक्तम्---पक्षान्तरहानिगामिति। नात्रोपमानोपमेयभावे तात्पर्यं किन्तु एतदेव द्वयमेवंविधं विद्यते, न त्वन्यदेतयोः सदृशं वस्त्वन्तरं विद्यते इति। अतश्च एतत्पक्षद्वितयव्यतिरिक्तस्य पक्षान्तरस्यात्र हानेर्विवक्षितत्वात् परस्परमुपमानोपमेयभावो न दुष्यतीति तस्य पक्षान्तरहानौ प्रतपाद्यायामवान्तरवाक्यार्थत्वेनावस्थानात्, वरं विषं भक्षय मा चारस्य गृहे भुङ्क्थाः इतिवत्। अत्र हि विषभक्षणं न विधीयते। दुर्जनगृहे भोजनपरिवर्जनतात्पर्यात्। एवमिहाप्युपमानोपमेयभावस्याविवक्षापक्षान्तरहानौ तात्पर्यात्। तस्या उदाहरणम्---

शिरांसि पङ्कजानीव वेगोत्पातयतो द्विषाम्।

आजौ करोपमं चक्रं यस्य चक्रोपमः करः।।

अत्र यस्येत्युपात्त्स्य त्वत्कृते सोऽपि वैकुण्ठ इत्यत्र तच्छब्दसमन्वयेना काङ्क्षाविच्छेदो भविष्यते। उत्तरेष्वपि च श्लेकेषु तेनैव यच्छब्दार्थो निराकाङ्क्षी कार्यः। अत्र करचक्रयोः परस्परमुपमानोपमेयभावः। साधारणश्चात्र धर्मः अतित्वरितत्वेन शत्रुशिरोऽवकर्तनम्। एष चात्रोपमानोपमेयभावः उपमानान्तराभावे पर्यवसितः। यदि परमेतयोरेव परस्परमुपमानोपमेयभावः स्यादन्यत्वे तयोरुपमानं नास्तीति।।

सहोक्तिः---

तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रिते।

पदेनैकेन कथ्येते सा सहोक्तिर्मता सताम्।।

यत्र वस्तुद्वयसमवेते द्वे क्रिये पदेनैकेन तन्त्रवृत्त्या कथ्येते तत्र सहोक्तिर्नामालङ्कारो भवति। ननु "संजहार शरत्कालः"इत्यादावपि दीपके पदेनैकेन वस्तुद्वयसमवेते द्वे क्रिये कथ्येते। अतश्च तत्रापि सहोक्तित्वं प्राप्नोतीति आसङ्क्योक्तम्---तुल्यकाले इति। यत्र सहादिना पदेन तुल्यकालतामवगम्य वस्तुद्वितयसमाश्रिते द्वे क्रिये कथ्येते तत्र सहोक्तित्वम्। न चैवं दीपक इति नातिव्याप्तिः। सहादिना च शब्देन युगपत्कालतायामवद्योत्यमानायां द्वय गतिः। कदाचित्खलु ययोः क्रिययोस्तुल्यकालता ते क्रिये तुल्यकक्षतया स्वाश्रयविश्रान्तत्वेनाभिधीयेते, यता देवदत्त्यज्ञदत्तौ सह भुञ्जाते इति कदाचित्त्वेकाश्रयविश्रान्तायां क्रियायामभिहितायां सहाद्यर्थपर्यालोचनासामथ्र्यादपरस्याश्रयस्य क्रियासंबन्धोऽवगम्यते,

यथा देवदत्तो यज्ञदत्तेन सह भूङ्क्त इति। तत्रेह द्वितीया गतिराश्रीयते। शाब्देन रूपेणैकत्र क्रियासंबन्धस्य प्रतीतस्यापरत्रार्थेन रूपेणोन्नीयमानत्वेन वक्रभणिते सद्भावात्। एवंविधस्य यत्रैव शोभातिशयविधायित्वं तत्रैव सहोक्तेरलङ्कारता न सर्वत्रेति द्रष्टव्यम्। तस्या उदाहरणम्----

द्युजनो मृत्युना सार्धं यस्याजौ तारकामये।

चक्रे चक्राभिधानेन प्रैष्येणाप्तमनोरथः।।

यस्य प्रैष्येण इति संबन्धः। अत्र मृत्योद्र्युजनस्य च मनोरथावाप्तिकरणलक्षणे द्वे क्रिये पदेनैकेनोक्ते चक्रेऽवाप्तमनोरथ इति। यद्यप्यवाप्तमनोरथ इति चक्र इति च सुप्तिडन्तत्वभेदेन पदद्वित्वं तथापि क्रियापदद्वितयोपादानव्यावृत्तेर्ववक्षितत्वात्पदेनैकेनेति न विरुध्यते। अथवा चक्रे इति करोति क्रिया सामान्यभूता विशेषमन्तरेणापर्यवस्यन्ती मनोरथावाप्तिलक्षणं विशेषं गर्भीकरोति। अतश्चात्र सत्यप्यनेकपदत्वे एकपदीभाव इव प्रकाशते। तेन एकेन पदेनेत्युक्तम्। सार्धं शब्दश्चात्र तुल्यकालतामवद्योतयति। यस्य प्रैष्येणाज्ञाकारिणा चक्रसंज्ञकेन कर्तृभूतेन मृत्युना सार्धमपृथक्कालतया द्युजन आप्तमनोरथः कृत इति। अनेकलोककवलीकरणान्मृत्योर्मनोरथावाप्तिः, द्युजनस्य च शत्रुविनाशात्।।

परिवृत्तिः-----

समन्यूनविशेष्टैस्तु कस्यचित्परिवर्तनम्।

अर्थानर्थस्वभावं यत्परिवृत्तिरभाणि सा।।

कस्यचिद्वस्तुनो वस्त्वन्तरेण परिवर्तनं परिवृत्तिः। सा च त्रिविधा। परिवर्तनकारकाणां परिवर्तनीयेन सह समत्वान्न्यूनत्वादधिकत्वाच्च। तदिदमुक्तम्--समन्यूनविशिष्टैरिति। तत्र यस्याः समोऽर्थः परिवत्र्यते तस्या अनर्थस्वभावता। अर्थशब्देन हि उपादेयोऽप्थोऽभिधीयते,ऽथ्र्यतेऽसाविति कृत्वा। यत्र च साम्यं तभार्थनीयत्वं नास्ति। तेनाथ्र्यत्वाभावानुगमात्तत्रानर्थत्वमभिधीयते। अतस्तत्रानर्थस्वभावं परिवर्तनम्। यत्राप च निकृष्टपरिग्रहेणोत्कृष्टपरित्यागः क्रियते, तत्राप्यनर्थस्वभावता। उपादेयविपरीतस्योपादानात्। अर्थप्रतिपक्षो ह्यत्रानर्थः। अधर्मानृतवत्। यता ह्यधर्मानृतशब्दाभ्यां नोत्तरपदाथ्र्राभावमात्रमभिधीयते, नाप्युत्तरपदार्थतुल्योऽर्थः, किं तर्हि एतत्प्रतिपक्षस्यैवाभिधानं, एवमिहाप्यनर्थशब्देन अर्थप्रतिपक्षस्यैवाभिधनम्। यथा अनर्थो वैरिणामापतित इत्येवमादौ। तेन यत्रोत्कृष्टेन निकृष्टः परिगृह्यते तत्र दुःखहेतुत्वादरह्थप्रतिपक्षत्वेनानर्थखभावता। यत्र तु निकृष्टेनोत्कृष्टः परिगृह्यते तत्रोत्कृष्टस्य सुखहेतुत्वेनोपादेयत्वादर्थस्वभावता। तदिदमुक्तम्---अर्थानर्थस्वभावमिति। तत्र समपरिवृत्तेरुदाहरणम्---

उरो दत्वामरारीणां येन युद्धेष्वगृह्यत।

हिरण्याक्षवधाद्येषु यशः साकं जयश्रिया।।

अत्र उरोदानेन उत्साहो लक्ष्यते यश्चात्र लक्ष्यमाणास्यार्थस्योत्साहस्योपायतया प्रतीयते। अभिधेयोऽर्थो वक्षसो दानं नाम यो हि यत्र वक्ष उद्यमयति स तत्रोत्सहत इति तत्प्रतिभावच्छादितस्योतसाहस्य प्रतितिः तदपेक्षया समेन समस्य परिवर्तनम्। उरोयशसोः समत्वात्।

न्यूनपरिवृत्तेस्तूदाहरणम्----

नेत्रोरगबलभ्राम्यन्मन्दराद्रिशिरश्च्युतैः।

रत्नैरापूर्य दुग्धाÐब्ध यः समादत्त कौस्तुभम्।।

नेत्रभूत उरगो वासुकिः। अत्र--कौस्तुभस्योत्कृष्टस्य निकृष्टरत्नपरत्यागेन ग्रहणान्निकृष्टेनोत्कृष्टस्य परिवर्तनम्।

विशेष्टपरिवृत्तेस्तूदाहरणम्----

यो बलौ व्याप्तभूसीम्न मखेन द्यां जिगीषति।

अभयं स्वर्गसद्मभ्यो दत्वा जग्राह खर्वतम्।।

भूसीमा पृथिव्या अवधिः। मखो यज्ञः। अत्र अभयेनोत्कृष्टेन निकृष्टस्य खर्वत्वस्य ह्रस्वत्वस्य परिवर्तनं अभिधेयापेक्षया

पूर्वतरोदाहरणवत्प्रतिभाति। तात्पर्यार्थापेक्षया तु नेयं परिवृत्तिः। चत्तद्देवेभ्यः अभयं प्रतिज्ञातं तदुपायभूताया वामनवेषेण स्वर्वतायाः परिगृहीतत्वात्।

इति माहश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलधुवृत्तौ पञ्चमो वर्गः।।