काव्यालङ्कारसारसङ्ग्रहः/द्वितीयः वर्गः

विकिस्रोतः तः
Jump to navigation Jump to search

अथ द्वितीयो वर्गः।

आक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना।

समासातिशयोक्ती चेत्यलङ्कारान्परे विदुः।।

"समासातिशयोक्ती चे"त्यत्र समासातिशययशब्दयोरुक्तिशब्दः प्रत्येकमभिसंबध्यते।

आक्षेपः।

प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया।

आक्षेप इति तं सन्तः शंसन्ति कवयः सदा।।

इह काचिद्वक्रभणितिस्तथाविधा संभवति यस्यां विधित्सितोऽर्थो निषेधव्याजेन संस्क्रियते, न तु निषिध्यते। तत्र विधित्सितस्यार्थस्य यः प्रतिषेधः क्रियते स प्रतिषेध इव भवति, न तु प्रतिषेध एव। अवान्तरवाक्यार्थत्वेन तत्र वाक्यस्यापर्यवसानात्। अवान्तरवाक्यार्थता च तत्र निषेधस्य विधित्सितार्थविरोधाद्भवति। तत्र हि विधित्सितोऽर्थः पूर्वोपक्रान्तत्वेन स्थेम्नावतिष्ठमानः स्वविरूद्धत्वेन निषेधं निषेधतात्पर्यात्प्रच्याव्यस्वगतविसेषाभिधानायावान्तरवाक्यार्थीकरोति। अतोऽनन्तरोक्तेन प्रकारेणेष्टस्यार्थस्य विशेषमभिधातुं यत्र निषेध इव न तु निषेध एव, असाविष्टार्थनिराकरणस्य लेशेन संभवदाक्षेपसंज्ञकोऽलङ्कारः सत्कविभिरभिधीयते। सन्तः कवय इति संबन्धः। तस्य भेदद्वितयोपदर्शनायाह---

वक्ष्यमाणोक्तविषयः स च द्विविध इष्यते।

वक्ष्यमाणमुक्तं चेष्टमाश्रित्य निषेधाभिधानादाक्षेपो द्विविध इत्यर्थः।

ननु "प्रतिषेध इवेष्टस्य"इत्याक्षेपलक्षणमुक्तम्। इष्टत्वं चेच्छाकर्मता। यस्य च वस्तुन इच्छाकर्मता तस्य नावश्यमुक्तिक्रियां प्रति कर्मत्वं भवति। इष्यमाणं हि कदाचिदुच्यते कदाचिन्न। अतश्चेष्टस्योक्तिकर्मतामाश्रित्य यदेतदाक्षेपस्य वक्ष्यमाणोक्तविषयतया द्वैविध्यमुक्तं तन्न संगच्छते इत्याशङ्क्याह----

निषेधेनेव तद्बन्धो विधेयस्य च कीर्तितः।।

विधेयस्य विधातुं ज्ञापयितुमभिमतस्य यो निषेध इव तेनायं वक्ष्यमाणोक्तविषय आक्षेपो निबध्यते। एतदुक्तं भवति----विधानकर्मताद्वारेणैवात्र इष्टत्वमवसीयते। निबन्धनान्तराभावात्। विधानकर्मता च विधानात्मिकाया उक्तेः कर्मता। साच द्विविधा, आर्थी

शाब्दी च। यत्र स्वशब्दव्यापारमन्तरेणापि शब्दान्तरव्यापारसहायनिषेधमुखेनैव विधित्सितोऽर्थोऽवगम्यते तत्रार्थी। तत्र च वक्ष्यमाणविषय आक्षेपः। यत्र तु विधिमुखेनैव वक्तुमिष्टस्यार्थस्योपादानं क्रियते तत्र शाब्दी। तत्र चोक्तविषयता आक्षेपस्य। एवं चानन्तरोदितय नीत्या शाब्देनार्थेन च विधिना यदंवसितमिष्टं तस्योक्तिक्रियाकर्मत्वसंभवादुक्तिक्रियायाः कर्मभूतो योऽर्थस्तदाश्रयं

वक्ष्यमाणविषयत्वमुक्तविषयत्वं चाक्षेपस्य निबध्यते।

तत्र वक्ष्यमाणविषयस्याक्षेपस्योदाहरणम्----

अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशी।

इयदास्तां समुद्राम्भः कुम्भैर्माने तु के वयम्।।

अहो इति विस्मये। अत्र मन्मथमाहात्म्यं तदवस्थाविशेषसंस्पर्शेन प्रतिपादयितुमिष्टम्। तच्च तस्य तथाप्रतिपादनमियदास्तामित्यादिना निषिद्धम्। निषेधश्चात्राभिधेयत्वविरोधात्। अभिधेयत्वेन च विरोधं वक्ति। आनन्त्येन तस्य तथाविधस्य वक्तुमशक्यत्वात्। रुद्रेऽपि नाम ईदृशी दशेति हि सामान्यरूपत्वेन मन्मथमाहात्म्यं प्रतिपादितं न तु विशेषरूपतया। अतो वक्तुमिष्टानां स्मरमाहात्म्यावस्थाविशेषाणामयमानन्त्येनाभिधाननिषेध इव नतु निषेध एव। विवक्षितार्थविरोधेनावान्तरवाक्यार्थत्वात्। तथाहि, अत्र समुद्राम्भसः कुम्भैर्मातुमशक्यत्वं यदस्मदर्थकर्तृकमभिहितं तत्सादृश्येनानन्त्यविशिष्टत्वेनोत्कर्षयितुमिष्टानां मन्मथमाहात्म्यावस्थाविशेषाणां पूर्वं प्रतिपिपादयिषितत्वेन लब्धप्रतिष्ठानां वाक्यार्थत्वम्। अतश्च तदभिधाननिषेधस्य तद्विरोधादत्रावान्तरवाक्यार्थता। न चावान्तरवाक्यार्थो वाक्यविश्रान्तिस्थानतया वक्तुं शक्यः। न खलु रक्तः पटो भवतीत्यत्र रक्तत्वावच्छिन्नपटभवनपरत्वाद्वाक्यस्य पटभवनपर्यवसानमात्रत्वं सुभणम्। अतोऽत्रापि निषेधस्यावान्तरवाक्यार्थत्वेन वाक्यविश्रान्तिस्थानत्वाभावान्निषेधरूपत्वमिव न तु निषेधरूपता। स च निषेधोऽत्रावान्तरवाक्यत्वात्प्रधानवाक्यार्थानुगुण्येन प्रवर्तमानः खकण्ठेनाभिधानं मन्मथमाहात्म्यावस्थविशेषाणां निषेधति, न पुनरर्थसामथ्र्यावसेयमपि। अतश्च समुद्राम्भसः कुम्भैप्र्तातुमशक्यत्वमस्मदर्थकर्तृकं स्वकण्ठेनाभिहितं यत्तत्सादृश्येनावसिते संविज्ञानपदशून्ये स्मरमाहात्म्यावस्थाविशेषाणामानन्त्यलक्षणे विशेषे वाक्यस्य पर्यवसानं तेनायमिष्टमर्थं प्रतिषेधव्याजेन विशेषेऽवस्थापयति तस्मादाक्षेपः। अत्र च "अहो स्मरस्य माहात्म्यं यद्रुद्रेऽपि दशेदृशी"इत्येतच्छब्दव्यापारसहायेन"इयदास्ताम्"इति निषेधेनैव स्वकण्ठेनानुपात्तानामपि मन्मथमाहात्म्यावस्थाविशेषाणां वक्ष्यमाणतया सूचनम्। तेषां च तथा सूचितानां निषेधव्याजेन संविज्ञानपदशून्यानन्त्यभेदप्रतिपादनम्। अतो वक्ष्यमाणविषयता आक्षेपस्य।

उक्तविषयस्य तु तस्योदाहरणम्---

इति चिन्तयतस्तस्य चित्रं चिन्तावधिर्न यत्।

क्व वा कामविकल्पानामन्तः कालस्य चेक्षितः।।

अत्र चित्रत्वस्योक्तस्योक्तिः क्व वेति प्रसिद्धत्वादाक्षिप्यते। पूर्वत्र खलु विरुद्धत्वमाक्षेपनिबन्धनमुक्तम्, इह तु प्रसिद्धत्वम्। द्वाभ्यामेव च प्रकाराभ्यामाक्षेपो भवति विरुद्धत्वेन प्रसिद्धत्वेन च। उक्तंच---"वस्तु प्रसिद्धमिति यद्विरुद्धमिति वास्य वचनमाक्षिप्य। अन्यत्तथात्वसिद्य्धै यत्र ब्रूयात्स आक्षेपः"इति। प्रसिद्धत्वं चात्र समर्थयितुं कालसादृश्यसमुक्तम्। यथा कालस्यान्तो नेक्ष्यते तद्वत् कामविकल्पानाम्। अतो नैवात्र चत्रत्वम्। अन्यत्राप्यस्य रूपस्य परिदृष्टत्वादिति। कालतुल्यतया चात्र कामविकल्पानामानन्त्यात्मको विसेषः संविज्ञानपदशून्योऽभिधित्सितः। तस्य च चित्रतया सामान्येन पूर्वमुपक्रान्तस्याधुना निषेधवशेन संविज्ञानपदशून्येन विवक्षितेन रूपेण वाक्यार्थींभूतत्वान्निषेधस्य पूर्ववदवान्तरवाक्यार्थता। तेन क्ववेत्ययं निषेध इव नतु निषेध एव। तेनात्रोक्त विषयता आक्षेपस्य। तदाहुः----

शब्दस्पृष्टेऽथवाप्यार्थे वक्तुमिष्टे निषिद्धता।

तदङ्गं तद्विरोधेन यत्राक्षेपो भवेदसौ।। इति।

शब्देन स्पृश्यते (स्पृष्टे?) वक्तुमिष्टे उक्तविषये आक्षेपे। वक्ष्यमाणविषये तु विवक्षितस्य आर्थता। शब्दान्तरव्यापारसहायनिषेधमुखेन

तस्योपस्थाप्यमानत्वात्। यश्चात्रोभयत्रापि निषेधः क्रियते स विवक्षितार्थविरोधात्स्वतात्पर्यं त्यक्त्वा विवक्षितमेवार्थं संकुर्वंस्तदङ्गतां प्रतिपद्यते। अतोऽत्र द्विविध आक्षेपो भवतीत्यर्थः।

अर्थान्तरन्यासः।

समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः।

विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा।।

ज्ञेयः सोऽर्थान्तरनयासः

यत्र समथ्र्यसमर्थकभावः सोऽर्थान्तरन्यासः। तत्र हि समर्थकस्य समर्थकतावगतिहेतुं व्याÏप्त पक्षधर्मत्वं चानुपन्यस्यार्थान्तरस्येवोपन्यासः क्रियते। व्याप्तिपक्षधर्मत्वयोः स्वशब्देनानुपात्तयोरपि गर्भीकृतत्वात्। अतोऽसावर्थान्तरन्यासः। स च चतुर्विधः। तत्र समर्थके पूर्वमभिहिते समथ्र्यस्य यत्र पश्चादभिधानं तत्र द्वौ प्रकारौ भवतः। हिशब्दाभिव्यक्तत्वं समथ्र्यसमर्थकभावस्यैवकः प्रकारः। तदुक्तं "समर्थकस्य पूर्वं यद्वचोऽन्यस्य च पृष्ठतः"। इति, "हिशब्दोक्त्ये"ति च। तस्योदाहरणम्----

तन्नास्ति यन्न कुरुते लोको ह्युत्पन्नकार्यिकः।

एष शर्वोऽपि भगवान् बटूभूय स्म वर्तते।।

बटूभूय अचिरकृतोपनयनत्वमापद्य। अत्र शर्वस्य सर्वलोकातिशायिनो बटूभावेन वृत्तिमनुपपद्यमानतयाशङ्क्य तत्समर्थनाय समर्थकं पूर्वमेवोपन्यस्तं "तन्नास्ति यन्न कुरुते"इति। अत्यन्तकार्यिकत्वादनुचितमपि रूपमनुभूतवान्। शर्वस्तदन्यैवंविधपुरुषवदिति। अत्र च हिशब्देनाभिव्यक्तः समथ्र्यसमर्थकभावः।

यत्र पूर्वेणैव क्रमेण समथ्र्यसमर्थकयोरुपन्यासे हिशब्दश्चार्थसामथ्र्यवसेयार्थत्वान्न प्रयुज्यते तत्र द्वितीयोऽर्थान्तरन्यासभेदो भवति। तदुक्तं "अन्यथापि च"इति। हिशब्दोक्तिमन्तरेणापीत्यर्थः। तस्योदाहरण्---

प्रच्छन्ना शस्यते वृत्तिः स्त्रीणां भावपरीक्षणे।

प्रतस्थे धूर्जटिरतस्तनुं स्वीकृत्य बाटवीम्।।

भावः आशयः। बाटवीं ब्रह्मचारिसंबन्धिनीम्। अत्र धूर्जटेर्बटुवेषालम्बनेन प्रच्छन्ना शस्यते वृत्तिः"इत्यादिना। योषिदाशयपरीक्षणप्रवृत्तत्वाद्धूर्जटिः प्रच्छन्नां वृत्तिमाश्रितवानिति। हिशब्दश्चात्रातःशब्दसामथ्र्येन यस्मादित्यस्यार्थस्यावगतत्वान्नोपात्तः। एवमेतौ समर्थकपूर्वोपन्यासावर्थान्तरन्यासौ द्वावेवोक्तौ। यत्रापि चैतद्विपर्ययेण सामथ्र्यस्य पूर्वमुपन्यासः पश्चात्समर्थकस्य, तत्रापि समथ्र्यसमर्थकभावे हिशब्दावगतेऽर्थाक्षिप्ते च सति द्वैविध्यम्। तदुक्तं "विपर्ययेण वा यत्स्याद्धिशब्दोक्त्यान्यथापि वा"इति। पूर्वस्योदाहरणम्----

हरोऽथ ध्यानमातस्थौ संस्थाप्यात्मानमात्मना।

विसंवदेद्धि प्रत्यक्षं निध्र्यातं ध्यानतो न तु।।

अत्र हरस्य व्यवहिताद्यर्थविषयत्वेनाप्रतिहतबाह्येन्द्रियवृत्तित्वात् सति बाह्येन्द्रियजन्यप्रत्यक्षसंभवे ध्यानाश्रयणमयुक्तत्वेन संभाव्यं तत्समर्थनायोक्तं "विसंवदेद्धि प्रत्यक्षम्"इत्यादि। अत्यन्ताविसंवादकोपलब्ध्युपायार्थित्वाद्य्धानमास्थितवान् हर इति।

हिशब्दानभिव्यक्ते तु समथ्र्यसमर्थकभावे यत्र समथ्र्यस्य पूर्वमुपन्यासस्तत्रोदाहरणम्----

अपश्यच्चातिकष्टानि तप्यमानां तपांस्युमाम्।

असंभाव्यपतीच्छानां कन्यानां का परा गतिः।।

बहूनामभिमतवरप्राप्त्युपायानां प्रार्थनादीनां संभवे कस्माद्भगवती तपसा शरीरमायासितवतीत्याशङ्क्य तत्समर्थनायाभिहितं "असंभाव्यपतीच्छनाम्"इति। दुःप्रापभत्र्रभिलाषित्वात्तपः समाश्रितवती। तपांसि भगवतीं खेदयन्ति। तानि पुनः सा तथाविधान्युपार्जयति।

अतस्तपस्तप्यते तपस्तपःकर्मकस्यैवेति कर्तुः कर्मवद्भावः। एवमेव चतुर्विधोऽर्थान्तरन्यासोऽभिहितः।

ननु यदि समथ्र्यसमर्थकभावे सत्यर्थान्तरन्यासो भवति। एवंसत्यप्रस्तुतप्रशंसादृष्टान्तयोरपि समथ्र्यसमर्थकभावसद्भावादर्थान्तरन्यासताप्रसङ्गः। तथाहि। "प्रीणितप्रणयि स्वादु काले परिणतं( च यत्) विना पुरुषकारेम फलं पश्यत शाखिनाम्"इत्यास्यामप्रस्तुतप्रंशसायां विशेषात्सामान्यस्य प्रतिपत्तिर्यथा सेचनादिकं पुरुषव्यापारमन्तरेण वनशाखिनां विविधगुणोपेतस्य फलस्य प्रसूतिर्दैवप्रधाना एवमेतत्सर्वं जगति दैवप्रधानमिति। अत्र च समथ्र्यसमर्थकभावो विद्यते। सर्वं जगच्चेष्टितं दैवप्रधानं पुरुषकारान्वयव्यतिरेकाननुविधायित्वाद्वनशाखिफलवदिति। ततश्च

तत्राप्यर्थान्तरन्यासत्वप्रसङ्गादलक्ष्यव्याप्तिर्लक्षणदोषः। दृष्टान्तेऽपि च (समथ्र्य) समर्थकभावो विद्यते। तथाहि "त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्। आलोके हि सितांशोर्विकसति कुमुदं कुमुद्वत्याः"।। इत्यत्र यथा चन्द्रगुणपक्षपातित्वेन कुमुदिन्याश्चन्द्रालोके कुमुदं विकसति, तद्वद्गुणपक्षपातित्वात्त्स्यास्त्वद्दर्शने मनो मन्मथाग्निप्रज्वलितमुपशाम्यतीति समथ्र्यसमर्थकभावोऽवगम्यते। तेन दृष्टान्तेऽप्यर्थान्तरन्यासताप्रसङ्ग इत्याशङ्क्याह----

प्रकृतार्थसमर्थनात्।

अप्रस्तुतपरशंसाया दृष्टान्ताच्च पृथक्स्थितः।।

सत्यमप्रस्तुतप्रशंसायां दृष्टान्ते च समथ्र्यसमर्थकभावोऽवगाम्यते। न तु तत्रार्थान्तरन्यासवत्समथ्र्यसमर्थकभावस्य संभवः। अर्थान्तरन्यासे हि सथ्र्यस्य यथायोगं पूर्वोत्तरकालभावित्वेन स्वकण्ठेनोपात्त्सय समर्थनम्, अप्रस्तुतप्रशंसायां त्पप्रकृतसामथ्र्येन प्रकृतमाक्षिप्यते, न तु स्वकण्ठेनोपादीयते, यथा पूर्वोपवर्णिते उदाहरणे। तत्र हि वनशाखिनां फलदर्शनेनाप्रकृतेन दैवप्रधानेन समग्रजगद्गोचरं दैवप्राधान्यं प्रकृतमाक्षिप्यते, न तु तस्यार्थान्तरन्यासवत्स्वकण्ठेनोपादानम्। अतश्च तत्र सत्यपि समथ्र्यसमर्थकभावे शब्दोपक्रान्तप्रकृतार्थनिष्ठत्वाभावान्नार्थान्तरन्यासत्वम्। दृष्टान्तेऽपिच द्वयोरपि समथ्र्यसमर्थकयोः स्वकण्ठेनोपात्तत्वात्सत्यपि स्वकण्ठोपात्तप्रकृतार्थनिष्ठत्वे दृष्टान्तस्य समथ्र्यसमर्थकभावपुरःसरीकारेण प्रवर्तमानत्वान्न भवत्यर्यान्तरन्यासत्वम्। न खलु तस्य समथ्र्यसमर्थकभावपुरःसरकारेण प्रवृत्तिः। बिम्बप्रतिबिम्बभावमात्रस्य शब्दस्पृष्टत्वात्। अर्थाद्धि तत्र समथ्र्यसमर्थकभावावसायः। अर्थान्तरन्यासे तु समथ्र्यसमर्थकभावेनैवोपक्रमः। तेन यत्र समथ्र्यसमर्थकभावोपक्रममर्थान्तरोपादानं तत्रार्थान्तरन्यासत्वाद्दृष्टान्तस्यार्थान्तरन्यासताप्रसङ्गो न भवति। तदिदमुक्तं "प्रकृतार्थसमर्थनादि"ति। अत्र प्रकृतशब्दः स्वकण्ठोपात्तप्रकृतार्थनिष्ठो द्रष्टव्यः। समर्थनं चात्रोपक्रमावस्थावत्त्र्युपात्तम्।।

व्यतिरेकः---

विशेषोपादानं यत्स्यादुपमानोपमेययोः।

निमित्तादृष्टिदृष्टिभ्यां व्यतिरेको द्विधी तु सः।।

उपमानोपमेययोः परस्परं यत्र विशेषः ख्याप्यते स व्यतिरेकः। तत्र ह्युपमानादुपमेयस्योपमेयादुपमानस्य वा केनचिद्विशेषेणातिरेक आधिक्यं तस्माद्य्वतिरेकः। स च द्विविधः। तत्र विशेषख्यापननिमित्तस्यार्थसामथ्र्यादाक्षेपादेकः प्रकारः। अपरस्तु तस्य स्वशब्देन प्रतिपादनात्। तदुक्तं "निमित्तादृष्टिदृष्टिभ्यां द्विधा"इति। एतावपि च भेदौ प्रत्येकं द्विविधौ। क्वचिद्धि अर्थसामाथ्र्यात्प्रतीयमाने उपमानोपमेयभावे पूर्वोक्तेन प्रकारद्वयेन व्यतिरेकः ख्याप्यते, क्वचित्तु इवादिभिरुपातैः।

तत्रार्थसामथ्र्येन यत्रोपमानोपमेयभावोऽवगम्यते तत्र पूर्वस्मिन्प्रकारद्वये पूर्वभेदस्योदाहरणम्----

सा गौरीशिखरं गत्वा ददर्शोमां तपःकृशाम्।

राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम्।।

राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य स तथोक्तः। अत्र

राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम्। तच्च स्वकण्ठेनानुपात्तमपि पदार्थत्वरूपपर्यालोचनया लभ्यते। एवमिवाद्यभावेऽप्युपमानोपमेयभावस्यात्र सामथ्र्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः। तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न स्वकण्ठेनोपात्तं, अर्थसामथ्र्यात्तु तदवगम्यते। राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतोऽपि तपःसातिशयत्वमुपमानादुपमेयस्य विशेषनिमित्तमत्रावगम्यते। एवमयमनुपात्तनिमित्तो व्यतिरेकः। उपात्तनिमित्तस्तु----

पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम्।

राहुपीतप्रभस्येन्दोर्जयन्तीं दूरतस्तनुम्।।

राहुणा पीता द्रवद्रव्यस्योदकादेः स्वगलबिलान्तर्भावनं यत्तद्वदात्माभ्यन्तरीकृता प्रभा यस्य त तथोक्तः।

अत्र राहुपीतप्रभत्वविशिष्टस्येन्दोस्तनुरुपमानं, तपःकृशा पार्वत्युपमेया, अनयोः साधारणो धर्मः स्वभावतः सौन्दर्ये सति निमित्तवशाद्विच्छायत्वम्। तच्च स्वकण्ठेनानुपात्तमपि पदार्थस्वरूपपर्यालोचनया लभ्यते। एवमिवाद्यभावेऽप्युपमानोपमेयभावस्यात्र सामथ्र्यात्प्रतिपत्तिर्जयन्तीमिति च उपमानादुपमेयस्य विशेषः ख्यापितः। तस्य च विशेषस्य ख्याप्यमानस्य निमित्तमत्र न स्वकण्ठेनोपात्तं, अर्थसामथ्र्यात्तु तदवगम्यते। राहुरिन्दुप्रभापाने तथा न समर्थः यथा तपःसातिशयत्वात्पार्वत्याः क्षामत्वे इति राहुतोऽपि तपःसातिशयत्वमुपमानादुपमेयस्य विशेषनिमित्तमत्रावगम्यते। एवमयमनुपात्तनिमित्तो व्यतिरेकः। उपात्तनिमित्तस्तु-----

पद्मं च निशि निःश्रीकं दिवाचन्द्रं च निष्प्रभम्।

स्फुरच्छायेन सततं मुखेनाधः प्रकुर्वतीम्।।

मुखमुपमेयम्। पद्ममिन्दुश्चोपमानम्। तच्चात्र द्वयं स्वकण्ठस्पृष्टम्। तयोस्तु साधारणो धर्मः कान्तिमत्तादिरुपमानोपमेयभावश्चेत्यतदुभयं सामथ्र्यादवगम्यते। न खल्वत्र वक्ष्यमाणव्यतिरेकवदुपमानोपमेयभावस्य द्योतका इवादय उपात्ताः। अधःप्रकुर्वतीमिति चोपमानादुपमेयस्य विशेषः ख्यापितः। तत्र च निमित्तमुपात्तमुपमानोपमेयोभयाधारत्वेन। उपमानयोस्तावत्पद्मचन्द्रयोर्निशि दिवा च यथाक्रमं निःश्रीकत्वनिष्प्रभत्वे, उपमेये तु रात्रिन्दिवं स्फुरच्छायता। अतो विशेषे निमित्तदर्शनेनायं व्यतिरेकः।

तदेवं यत्रेवादिनोपमानोपमेयभावो नावद्योतितस्तत्र द्विविधो व्यतिरेको दर्शितः। इवाद्युपाते तूपमानोपमेयभावे यो व्यतिरेकस्तमाह----

यो वैधम्र्येण दृष्टान्तो यथेवादिसमन्वितः।

व्यतिरेकोऽत्र सोऽपीष्टो विशेषापादनान्वयात्।।

"यो वैधम्र्येण दृष्टान्त"इति "विशेषापादनान्वयाद"ति च व्यतिरेकलक्षणं योजितम्। वैधम्र्यं ह्युपमेयधर्मस्योपमाने विगमः। यथेवादिसमन्वित इत्यनेन यथेवाद्यवद्योतितत्वमुपमानोपमेयभावस्याह। तस्योदाहरणम्-----

शीर्णपर्णाम्बुवाताशकष्टेऽपि तपसि स्थिताम्।

समुद्वहन्तीं नापूर्वं गर्वमन्यतपस्विवत्।।

शीर्णपर्णाम्बुवातानामाशो भक्षणम्। अत्रान्यतपस्विन उपमानं, भगवत्युपमेया, साधारणश्च धर्मः कष्टे तपस्यवस्थितत्वाच्चेतसः सोल्लासता। वतिश्चात्र गर्वोद्वहननिबन्धनं यत्तच्चेतसः सोल्लासत्वं तन्निबन्धनमुपमानोपमेयभावमवगमयति। गर्वं न समुद्वहन्तीमित्युपमानादुपमेयस्य विशेषः पिरतिपादितः। अन्ये किल तपस्विनः सातिशयतपोवशात्समुल्लसितचित्ताः सन्तो गर्वं समुद्वहन्ति, भगवती त्वत्यन्तमुपशान्तचित्तत्वान्न तथा। एवं चात्र गर्वोपक्रमावस्थापेक्षमुपमानोपमेययोः सादृश्यं, तदनिर्वाहात्तूपमानादुपमेयस्य व्यतिरेकः। अनिर्वाहे च निमित्तमत्र स्वकण्ठेनानुपात्तमप्यर्थसामथ्र्यादवगम्यते अत्यन्तोपशान्तचित्तत्वं नाम। एवमयं निमित्तादर्शने बत्युपात्तोपमानोपमेयभावो व्यतिरेक उदाहृतः। निमित्तोपादाने तु तस्योदाहरणमुन्नेयम्। एवमेते चत्वारो व्यतिरेकाः प्रतिपादिताः। निमित्तदर्शनादर्शनाभ्यां यौ व्यतरेकौ तयोः

प्रत्येकमुपमानोपमेयभावस्य इवाद्युपादानानुपादानाभ्यां द्विभेदत्वात्। एषामपि चतुर्णां व्यतिरेकाणां श्लिष्टोक्तियोग्यशब्दोपादाने सति पुनरपरे पूर्वोपक्रान्तेनैव रूपेण चत्वारो भेदा भवन्ति। तदाह-----

श्लिष्टोक्तियोग्यशब्दस्य पृथक्पृथगुदाहृतौ।

विशेषापादनं यत्स्याद्य्वतरेकः स च स्मृतः।।

"एकप्रयत्नोच्चार्याणामि"त्यादिवक्ष्यमाणलक्षणं श्लिष्टम्। श्लिष्टालङ्कारसमुचितं यदुच्चारणं तत्समुचितस्य शब्दस्य यदा तन्त्रेण सदृशशब्दान्तरोपादानहेतुतया वा प्रयोगो न क्रियते अपि तु पृथक् पृथगुच्चारणं, तदा विशेषापादने सति व्यतरेको भवति। तस्योदाहरणम्----

या शैशिरी श्रीस्तपसा मासेनैकेन विश्रुता।

तपसा तां सुदीर्घेण दूराद्विदधतीमधः।।

अत्र शिशिरशोभा उपमानं, भगवती उपमेया, तयोश्च साधारणो धर्मस्तपोयुक्तत्वं नाम। एकत्र तपा

माघो मासः, अपरत्र त्वभ्युदयहेतुः कृच्छ्राचरणम्। इवादयश्चात्रानुपात्ता अपि सामथ्र्यादवगम्यन्ते। व्यतिरेकस्तु दूराद्विदधतीमध इति। तस्य च निमित्तं मासैक्यं दीर्धत्वं च तपसोः। तच्च यथाक्रममुपमानोपमेयगतत्वेनोपात्तम्। तत्र च वत्यादिना अनुपात्ते उपमानोपमेयभावे निमित्तदर्शनेन व्यतिरेक उदाहृतः। एवमनया दिशाअन्यदपि श्लिष्टोक्तियोग्यशब्दनिबन्धे सति व्यतरेकस्य पूर्वोक्तनयेन भेदत्रयमुदाहार्यम्।।

विभावना-----

क्रियायाः प्रतिषेधे या तत्फलस्य विभावना।

ज्ञेया विभावनैवासौ समाधौ सुलभे सति।।

इह यÏत्कचिज्ज्ञायते तत्सर्वं क्रियाफलम्। क्रियामुखेन कारणेभ्यः कार्योत्पत्तेः प्रातीतिकेन रूपेण परिदृश्यमानत्वात् सर्वेषां फलभूतानां क्रियैवाव्यवहतं कारणम् यत्र च क्रिया प्रतिषिध्यते अथ च क्रियाफलस्योत्पत्तिरुपदिश्यते तत्र विभावनाख्योऽलंकारः। कारणविगमे किलकार्यस्य तत्रोत्पत्तिरुपवण्र्यते। अतो विरुद्धाभासा भावना उत्पादना, तेन विभावना। नन्वेवं सति व्यर्थदोषत्वप्रसङ्गः "विरुद्धार्थं मतं व्यर्थम्"इति अत आह---समाधौ सुलभे सतीति। समाधिः परिहारः। यत्र विरोधस्य सुलभः परहार इत्यर्थः। तस्या उदाहरणम्-----

अङ्गलेखामकाश्मीरसमालम्भनपिञ्चराम्।

अनलक्तकताम्राभामोष्ठमुद्रां च बिभ्रतीम्।।

अङ्गलेखा शरीरयष्टिः। कारमीरं कुङ्कुमम्। येयं पीतच्छायता शरीरस्य सा नायिकानां कुङ्कुमसमालम्भनलक्षणक्रियाकार्या प्रार्यण परिदृश्यते, भगवत्यास्तु शरीरे पीतच्छायत्वं न कुङ्कुमसमालम्भनेनोत्पादितम्। अतः कुङ्कुमसमालम्भनलक्षणायाः क्रियाया विगमे फलस्य पीतच्छायत्वस्यात्रोपदेशः। परिहारश्चात्र स्वाभाविकतया तच्छायत्वमिति। तेनेयं विभावना। अनलक्तकताम्राक्षामित्यत्रालक्तककारणिकाया रागक्रियाया निषेधे तत्फलस्य लौहित्यस्य उत्पत्तिः स्वाभाविकी निर्दिष्टा। अतो विभावना। अत्र च कुङ्कुमादिसंपाद्येन पिञ्चरत्वादिना उपमानभूतेन स्वाभाविकस्य पिञ्जरत्वादेरुपमेयभूतस्याभेदाध्यवसायोऽतिशयोक्त्या द्रष्टव्यः।।

समासोक्तिः----

प्रकृतार्थेन वाक्येन तत्समानैर्विशेषणैः।

अप्रस्तुतार्थकथनं समासोक्तिरुदाहृता।।

यत्र प्रस्तुतार्थनिष्ठं वाक्यं तत्समानैर्विशेषणैस्तेनाप्रकृतेनार्थेन तुल्यानि यानि विशेषणानि तद्द्वारेण सादृश्यवशादप्रस्तुतमर्थमुपमानभूतं कथयति, सा संक्षेपेणोपमानोपमेयलक्षणार्थद्वतयाभिधानात्समासोक्तिः। तस्या उदाहरणम्----

दन्तप्रभासुमनसं पाणिपल्लवशोभिनीम्।

तन्वीं वनगतां लीनजटाषट्चरणावलिम्।।

अत्र दन्तप्रभापाणिजटा भगवतीविशेषणभूता यथाक्रमं लतागतसुमनःपल्लवषट्चरणरूपेण आरोपेण व्या(प्ताः) (?) तद्भावमापद्यन्ते। तनुत्वं तु भगवतीलतयोः साधारणो धर्मः। वनशब्देन च रूपकप्रतिभोत्पत्तिहेतुना श्लेषेण भगवतीतपश्चर्याधारभूतमुदकं लताधारेण काननेन रूप्यते। अत एतान्यत्र प्रकृताया भगवत्या अप्रकृतया लतया समानानि विशेषणानि। तत्सामथ्र्येन च प्रकृतया भगवत्या उपमेयभूतया लता उपमानत्वेनाक्षिप्यते। तेनेयं समासोक्तिः।

अतिशयोक्तिः---

निमित्ततो यत्तु वयो लोकातिक्रान्तगोचरम्।

मन्यन्तेऽतशयोकिं्त तामलंकारतया बुधाः।।

भेदेऽनन्यत्वमन्यत्र नानात्वं यत्र बध्यते।

तथा संभाव्यमानार्थनिबन्धेऽतिशयोक्तिगीः।।

कार्यकारणयोर्यत्र पौर्वापर्यविपर्ययात्।

आशुभावं समालम्ब्य बध्यते सोऽपि पूर्ववत्।।

यद्वचनं किंचित्कारणमाश्रित्य लोकातिक्रान्तगोचरमुपनिबध्यते सातिशयोक्तिः। तस्याश्च चत्वारो भेदाः यत्र भेदे अन्यत्वे अनन्यत्वमैक्यं स एकः। अन्यत्राभेदे ऐक्ये नानात्वं भेदो यत्र स द्वितीयः। तथा बहिरविद्यमानस्यार्थस्य संभावनामात्रेणोपनिबन्धे तृतयः। कार्यकारणयोस्तु कार्यस्य शीघ्रमेवोत्पादात्पौर्वापर्यविपर्ययेण चतुर्थो भेदः। तत्राद्यसय भेदस्योदाहरणम्----

तपस्तेजःस्फुरितया निजलावण्यसंपदा।

कृशामप्यकृशामेव दृश्यमानामसंशयम्।।

अत्र यासावकाश्र्यावस्था भगवत्याः पूर्वमभूत्ततो भिन्नमपि तपोजनितं काश्र्यं तदभेदेनोपनिबद्धमकृशामेवेति। तत्र च निमित्तं तपस्तेजसा सविशेषत्वमापादितः सौन्दर्यसंभारः। अतो निमित्तवशेन लोकातिक्रान्तो गोचरोऽस्य वाक्यस्य। तेनेयमतशयोक्तिः।

द्वितीयस्य तु भेदस्योदाहरणम्----

अचिन्तयच्च भगवानहो नु रमणीयता।

तपसास्याः कृतान्यत्वं कौमाराद्येन लक्ष्यते।।

अत्र भगवती कुमारीभावेऽपि वर्तमाना तदुत्तरकालभाविनी यासौयौवनावस्था तद्युक्तत्वेनोपनिबद्धा कौमारादन्यत्वमिति। निमित्तं चात्र तपोजनिता रमणीयता। तेनायमभेदे भेदोपनिबन्धः।

तृतीयस्य पुनर्भेदस्योदाहरणम्----

पतेद्यदि शशिद्योतच्छटा पद्मे विकाशिनि।

मुक्ताफलाक्षमालायाः करेऽस्याः स्यात्तदोपमा।।

शशिद्योतच्छटा चन्द्रप्रकाशप्रकारः। अस्याः करे मुक्ताफलाक्षमालायास्तदा उपमा स्यादिति संबन्धः। अत्र रजनिकरकरसंपर्के सति कमलस्य संकोचावलोकनाद्विकाशित्वं बहिरसंभवदपि कविप्रजापतिना प्रतिभोपजनितेन स्वव्यापारेण संभवद्रूपतया प्रदर्शितम्। अतोऽत्र संभाव्यमानार्थनिबन्धः। तस्य च लोकातिक्रान्तगोचरस्यार्थस्य संभावनाया निमित्तं भगवतीकराधारतया मुक्ताफलाक्षमालावलोकनम्। तथाहि-अयं तावल्लोकातिक्रान्तोऽपरिदृष्टपूर्वोऽस्माभिः गौरीकरमुक्ताफलाक्षमालयोराधाराधेयभावोऽवलोकितः। तत्सजातीयस्य पद्मस्य विकाशिनश्चन्द्रकराणां च यद्याधाराधेयभावः स्यात्तदात्रोपमानोपमेयभावो भवेदिति संभावना प्रवृत्ता। अतोऽत्र सजातीयपदार्थदर्शनाद्बहरसंभवदपि वस्तु संभवद्रूपतयोपवण्र्यते।

एकस्मिन् खलु पदार्थे परिदृष्टे अन्यस्मिन्ननवलोकितेऽपि तत्सजातीयसंभावना प्रवर्तते। यथा दाक्षिणात्यस्यैकस्मिन्नुष्ट्रे परिदृष्टे सत्यपरिदृष्टोष्ट्रान्तरसंभावना। अतोऽत्र संभावना सनिमित्ता। अनेन च प्रकारेणात्रोपमानाभावः प्रकृतस्य वस्तुनः प्रदश्र्यते नास्त्यन्यÏत्कचिदस्योपमानमिति। अत एव संभाव्यमानतयार्थस्योपनिबद्धस्य निराचिकीर्षया यदिशब्दः प्रयुक्तः। यदिशब्देन ह्यत्राशङ्का द्योत्यते। आशङ्का चानिश्चितसद्भावे वस्तुनि भवति। यच्चानिश्चितसद्भावं कविवेधसा संभवद्रूपतयोपदर्शितं वस्तु तस्य पुराणप्रजापतिनिर्मितपदार्थविषयाया तद्विरुद्धया लोकप्रतीत्या यान्निराक्रियमाणत्वं तावन्निरुपमत्वं प्रतीयते। एवमयं तृतीयो भेदः।

चतुर्थस्तु----

मन्ये च निपतन्त्यस्याः कटाक्षा दिक्षु पृष्ठतः।

प्रायेणाग्रे तु गच्छन्ति स्मरबाणपरम्पराः।।

अत्र दिक्षु कटाक्षपातः कारणम्। स्मरबाणपरम्परागमनं तु कार्यम्। कार्यकारणयोस्तु कारणस्य नैसर्गिकं प्राग्भावित्वं कार्यस्य तु पश्चाद्भावित्वम्। इह तु विपर्ययः। कार्यस्य प्राग्भावेनोपनिबन्धनात्। पश्चाद्भावितत्वेन च कारणस्य कटाक्षा दिक्षु पृष्ठतः पश्चात् पतन्ति अग्रे स्मरबाणपरम्परा गच्छन्तीति अत्र निमित्तं (अनु) कार्यस्य शीघ्रमेवोत्पादः। तेनेदं निमित्ततो लोकातिक्रान्तगोचरं वचनम्। अतोऽतशयोक्तिः।।


इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ द्वितीयो वर्गः।।