काव्यालङ्कारसारसङ्ग्रहः/तृतीय वर्गः
अथ तृतीयो वर्गः।
यथासंख्यमथोत्प्रेक्षां स्वभावोकिं्त तथैव च।
अपरे त्रीनलङ्कारान् गिरामाहुरलङ्कृतौ।।
यथासंख्यम्----
भूयसामुपदिष्टानामर्थानामसधर्मणाम्।
क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते।।
पूर्वमुद्दिष्टानामर्थानां यदा क्रमेणार्थान्तराण्यनुनिर्दिश्यन्ते तदा यथासंख्याख्योऽलङ्कारः। तत्र हि संख्योपलक्षितक्रमानतिक्रमेण शब्देनानुपात्तोऽपि पदार्थानामन्वयः समाश्रीयते। अतो यथाक्रमं पदार्थानामन्वयध्वननादेतस्यालङ्कारस्य यथासंख्यता। स चालङ्कारो बहूनामल्पशोऽप्युपनिबध्यमानो यतः शोभाबद्धो भवति अतो भूयसामित्युक्तम्। द्वयोर्हि तस्योपनिबध्यमानस्य यावच्चतुर्गुणत्वादिरूपतयोपनिबन्धो न कृतः तावच्छोभोपेतत्वं न भवति। भूयसां पुनरर्थानां तद्यथासंख्यमल्पेनैव प्रयासेनरम्यं भवति। तत्र हि तस्य द्विगुणस्य त्रिगुणस्य वोपनिबन्धे शोभातिशयो जायते।
तदुक्तम्---
तद्द्विगुणं त्रिगुणं वा बहुषूद्दिष्टेषु जायते रम्यम्।
यत्तेषु पथैव ततो द्वयोस्तु बहूशो निबध्नीयात्।। इति।
ननु "मृणालहंसे"त्यादावुपवर्णयिष्यमाणे उदाहरणे मृणालादिभ्य उपमानेभ्यो बाह्वादीनामुपमेयानां विशेषख्यापनाद्य्वतिरेकालङ्कारेण सहृदयहृदयाण्यावज्र्यन्ते, न तु यथासंख्येन। तत्कथं यथासंख्यमलङ्कार इत्याशङ्क्योक्तम्--"असधर्मणामिति"। यत्रापि हि साधम्र्यभावादुपमानोपमेयभावाभावेन व्यतिरेकादेरुपनिबन्धाभावस्तत्राप्ययं शोभातिशयमावहतीत्यर्थः। यथा----
कज्जलहिमकनकरुचः सुपर्णवृषङंसवाहनाः शं नः।
जलनिधिगिरिपद्मस्था हरिहरचतुरानना ददतु।। इति।
अत्र हि हरिप्रभृतीनां त्रयाणामुद्दिष्टानां कज्जलरुक्त्वसुपर्णवाहनत्वजलनिधिस्थत्वादयो धर्माः क्रमेणानुनिर्दिष्टाः। न च तत्र परस्परसाधम्र्यं विद्यते। अथ च क्रमपर्यालोचनया अर्थानामानुरूप्येण समन्वयप्रतीतेः शोभातिशयो विद्यते। तेनास्य साधम्र्याद्यभावेऽपि पृथगलङ्कारताप्रतिलम्भाद्यत्र साधम्र्यादि विद्यते तत्राप्यलङ्कारत्वं दुर्निवारम्। अतो "मृणालहंसे"त्यादिके उदाहरणे यथासंख्यमङ्गभूतं व्यतिरेकालङ्कारस्य द्रष्टव्यम्। तेनायमङ्गाङ्गिभावे सङ्करः। यद्वक्ष्यति "परस्परोपकारेण यत्रालङ्कृतयः स्थिताः। स्वातन्त्र्येणात्मलाभं नो लभन्ते सोऽप सङ्करः"।। इति । अतो यथासंख्यं पृथगलङ्कारत्वेनोपदेष्टव्यम्। तस्योदाहरणम्-----
मृणालहंसपद्मानि बाहुचङ्क्रमणाननैः।
निर्जयन्त्यानया व्यक्तं नलिन्यः सकला जिताः।।
अत्र बाहुचङ्क्रमणाननानामुद्दिष्टानां यथाक्रमं मृणालहंसपद्मान्यनुनिर्दिष्टानि। तद्वशेन च शब्दानुपात्तस्यापि तदन्वयस्य गर्भीकृतत्वेन वक्रभणितिसद्भावाद्यथासंख्यमलङ्कारः।।
उत्प्रेक्षा---
साम्यरूपाविवक्षायां वाच्येवाद्यात्मभिः पदैः।
अतद्गुणक्रियायोगादुत्प्रेक्षातिशयान्विता।।
यत्रेवादिपदनिबन्धः साम्यस्य च रूपं न विवक्ष्यते तत्रोत्प्रेक्षाख्योऽलङ्कारः। नन्वेवं सत्यसंभवो नाम लक्षणदोषः प्राप्तः। द्योत्यस्योपमानोपमेयभावस्याभावे सति इवादीनामप्रयोगप्रसङ्गादित्याशङ्क्योक्तं "अतद्गुणक्रियायोगादि"ति। द्रव्यधर्मः सिद्धो गुणः। साध्यस्वभावस्तु क्रिया। इदं खलु विश्वं
स्वतन्त्रपरतन्त्रपदार्थात्मकत्वाद्द्वविधम्। यश्च स्वतन्त्रः पदार्थः स धर्मीत्यभिधीयते। तच्च इदं तदिति सर्वनामप्रत्यवमर्शयोग्यत्वाद्द्रव्यम्। परतन्त्रस्य पदार्थस्य धर्मरूपता। तस्य च द्वैविध्यम्। सिद्धसाध्यताभेदात्। तत्र यः सिद्धो धर्मः स गुणः। यस्तु साध्यः सा क्रिया। एतावन्तश्च लौकिकाः पदार्थाः। सामान्यादीनामत्रैव प्रतीतिकेन रूपेणान्तर्भूतत्वात्। अत्र असौप्रकृतो योऽर्थस्तस्य ये क्रियागुणा अनन्तरोक्तलक्षणास्तद्योगात्साम्यरूपाविवक्षायामपि इवादिशब्दप्रवृत्तिरवरद्धा। यत्र किलोपमानोपमेयभावेन साम्यं तत्रोपमानसादृश्यादुपमानवर्तिनां क्रियागुणानां उपमेयप्रतीतिर्भवति। उत्प्रेक्षायामपि च योऽसावसः अप्रकृतस्तस्य ये क्रियागुणास्ते तस्मिन्नप्रकृते वस्तुन्युपमानतयानुल्लिङ्गितेऽपि प्रकृते वस्तुन्यासज्यन्ते। तेनातद्गुणक्रयायोगादस्या इवादिवाच्यत्वम्। अत एवान्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावद्यभिव्यक्तयनुगुणतयावस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणादियमुत्प्रेक्षा। नन्वेवमपि सुतरामसंभवः। न हि वस्त्वन्तरधर्मा वस्त्वन्तरे समासक्तुं शक्या इत्याशङ्क्योक्तम्---अतिशयान्वितेति। पुराणप्रजापतिवहितरूपवपर्यासेन कविवेधसा पदार्थस्य गुणातिशयविवक्षया रूपान्तरमप्यासक्तुं शक्यत इत्यर्थः।
इयं चोत्प्रेक्षा बहिरसंभवतः पदार्थस्य संभवद्रूपतयोपवर्णनाल्लोकातिक्रान्तविषया संभावना। तस्याश्च द्वैविध्यम्, भावस्याभावस्य च बहिरसंभवत उपवण्र्यमानत्वात्। तदाह----
लोकातिक्रान्तविषया भावाभावाभिमानतः।
संभावनेयमुत्प्रेक्षा
येयं लोकातिक्रान्तविषया संभावना उत्प्रेक्षा सा भावस्याभावस्य चाभिमानात् द्वैविध्यं भजत इत्यर्थः। नन्विवाद्युपनिबन्धे सति यद्युत्प्रेक्षा भवतत्युच्यते। एवं सति "चन्दनासक्तभुजगनिश्वासानिलमूÐच्छतः। मूच्र्छयत्येष पथिकान्मधौ मलयमारुतः"।। इत्येवमादाविवादेरप्रयोगादुतप्रेक्षात्वाभावप्रसङ्ग इत्याशङ्क्याह-----
वाच्येवादिभिरुच्यते।
द्विविधा खलूत्प्रेक्षा। काचिदिवादिप्रयोगे सति भवति, काचित्त्वप्रयुज्यमानेष्वपीवादीष्वर्थसामथ्र्यादगम्यमानेषु। तत्र या वाच्या स्वकण्ठेनेवादिभिर्वक्तव्या सा इवादीभिरुच्यते। या त्वर्थसामथ्र्यक्षिप्तैरिवादिभिरवगम्ते तत्रेवादीनामप्रयोगः। "चन्दनासक्तभुजग"इत्यादौ च मलयमारुतस्य यदेतन्मन्मथाविर्भावनिबन्धनत्वात्पथिकमूच्र्छाहेतुत्वं तत्र भुजगनिश्वासमूÐच्छतत्वे कारणत्वेनोत्प्रेक्ष्यमाणे इवाद्यर्थोऽर्थसामथ्र्यादवगम्यते। तेनेवादीनामप्रयोगः। इवादिशब्दसामथ्र्यावसेयायामेवोत्प्रेक्षायामिवादीनां प्रयोगात्। तत्र भावाभिमानेनोत्प्रेक्षायां तस्या गुणयोगाध्यासेन प्रवृत्ताया उदाहरणम्---
अस्याः सदार्कबिम्बस्थदृष्टिपीतातपैर्जपैः।
श्यामिकाङ्केन पतितं मुखे चन्द्रभ्रमादिव।।
अस्या मुखे जपैर्हेतुभूतैः श्यामिकाङ्केन पतितमिति संबन्धः। अत्र जपासक्ता भगवती अर्कमवलोकयतीति तस्याः शशाङ्कसदृसे मुखे श्यामिका संजाता। तच्चात्र तस्याः श्यमिकाया जन्म अतिशयोक्त्या पातरूपतया प्रतिपादितं पतितमिति। सा चात्र श्यामिक शशिलाञ्छनेन शशेन तुल्या। अतस्तस्याः शशिलाञ्छनशशतुल्यत्वादुपसर्जनोपमेयंरूपकं श्यामिकैवाङ्क इत्युपनिबद्धम्। तस्य चाङ्कस्य श्यामिकोपरक्तस्य भगवतीवदननिपाते कारणत्वेनेन्दुभ्रान्तिरुत्प्रेक्षिता। यदेतच्छशिनो लाञ्छनं श्यामिकारूपं तद्भगवतीवदन इन्दुभ्रान्त्येव निपतितमिति। इन्दुभ्रान्तिश्च गुणः। सिद्धरूपत्वे सति द्रव्यधर्मत्वात्। एवं चात्र शशसदृशी श्यामिका चैतन्यशून्यत्वेन भगवतीवदनमिन्दुभ्रान्त्या न गोचरीकरोति। अथ च तस्याः शशभावमापादिताया इन्दुभ्रमलक्षणेन चेतनधर्मेण संबन्धो निबद्धः। तेनात्र तस्य वस्त्वन्तरस्य चेतनस्य योऽसौ गुणो भ्रमलक्षणस्तद्योगादिवादेः प्रवृत्तिः। इन्दुभ्रमश्च भावरूपो गुणः शशीकृतश्यमिकाकर्तृकतया कविनिबद्धेन वक्त्रा भगवताभिमानेनाध्यवसितः। तेनेयमतद्गुणयोगेन भावाभिमानेन उत्प्रेक्षा।
एवं क्रियायोगाध्यासाद्भावाभिमानेन योत्प्रेक्षा तस्यामुदाहार्यम्। अभावविषयायाः पुनः क्रियाध्यासेन प्रवृत्तायास्तस्या उदाहरणम्----
कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ।।
अत्र कपोलफलकयोस्तपोवशात् क्षामत्वमापन्नयोः परस्परादर्शनमभावरूपं साध्यत्वात् क्रियारूपक्षामतायां कारणतयोत्प्रेक्षितम्। तेनेयमतक्त्रियायोगादभावाभिमानेनोत्प्रेक्षा। एवमतद्गुणयोगादभावाभिमानेन या उत्प्रेक्षा तस्यामुदाहार्यम्।
स्वभावोक्तिः----
क्रियायां संप्रवृत्तस्य हेवाकानां निबन्धनम्।
कस्यचिन्मृगडिम्भादेः स्वभावोक्तिरुदाहृता।।
भृगबालादेः स्वसमुचिते व्यापारे प्रवृत्तस्य ये हेवाकाः स्वजात्यानुरूप्येणाभिनिवेशविशेषास्तदुपनिबन्धः स्वभावोक्तिः। तस्याश्चालङ्कारत्वमसाधारणपदार्थस्वरूपध्वननात्। तस्या उदाहरणम्-----
क्षणं नंष्ट्वार्धवलितः शृङ्गेणाग्रे क्षणं नुदन्।
लोलीकरोति प्रणयादिमामेष मृगार्भकः।।
नंष्ट्वंति। "जान्तनशां विभाषा"इत्यनुनासिकलोपस्य विकल्पितत्वादप्रवृत्तिः। अत्र मृगपोतकस्य मातरमिव वत्सलां भगवतीं प्रणयनिर्भरेण चेरसा व्याकुलीकुर्वतः स्वभावो निबद्धः क्षणमपरिदृश्यमानत्वमर्धकायेन परिवृत्तिः शृङ्गेण च नोदनमित्येवमात्मा।।
इति श्रीमहाप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुविवृत्तौ तृतीयो वर्गः।।