काव्यालङ्कारसारसङ्ग्रहः/चतुर्थः वर्गः

विकिस्रोतः तः
Jump to navigation Jump to search

अथ चतुर्थो वर्गः।

प्रेयोरसवदूर्जसव पर्यायोक्तं समाहितम्।

द्विधोदात्तं तथा श्लिष्टमलङ्कारान्परे विदुः।।

प्रेयोरसवदिति समुदायान्मतुप्। श्लिष्टमिति। तथा उदात्तवद्द्वविधं श्लिष्टमित्यर्थः। विप्रतिपत्तिनिरासार्थं चात्र श्लिष्टस्य द्वैविध्यमुक्तम्। भामहो हि "तत्सहोक्त्युपमाहेतुनिर्देशात्र्रिविधं यथा"इति श्लिष्टस्य त्रैविध्यमाह। अतो विप्रतिपत्तिनिरासाय तथेत्युक्तम्। उदात्ते तु द्विधेत्ययमनुवादो दृष्टान्तत्वार्थः। यथा उदात्तस्य द्वैविध्यं प्रमाणोपपन्नत्वादङ्गीकृतं तथा श्लिष्टस्यापि तदङ्गीकर्तव्यमित्यर्थः।।

प्रेयस्वत् तावत्----

रत्यादिकानां भावानामनुभावादिसूचनैः।

यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम्।।

रत्यादयो भावास्त्रिविधाः स्थायिनो व्यभिचारिणः सात्विकाश्च। तत्र"रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा। जुगुप्साविस्मयसमाः स्थायिभावाः प्रकीर्तिताः।। निर्वेदगलानिशङ्काख्यास्तथासूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः।। व्रीडा चपलत हर्ष आवेगो जडता तथा। गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च।। सुप्तं विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता। मतिव्र्याधिस्तथोन्मादस्तथा मरणमेव। च।। त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः। त्रयÏस्त्रशदमी भावाः।। स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः। वैवण्र्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः"।। एतेषां पञ्चाशत्संख्यानां भावानां सूचकाश्चत्वारोऽनुभावादयः। ते चानुभावो विभावो व्यभिचारी स्वशब्दश्च।

तत्रानुभावश्चतुर्विधः। आङ्गिको वाचिकः सात्त्विक आहार्यश्च। आङ्गिको हस्ताभिनयादिः। वाचिकः काक्वादिप्रयोगः। सात्विकः स्तम्भादिः। आहार्यस्तु प्रतिशीर्षकञ्चुकादिः। एवमयमनुभावश्चतुःसंख्यः कार्यत्वात्कारणभूतान्मभावान् गमयति।।

विभावस्तु द्विविधः। आलम्बनोद्दीपनरूपत्वात्। तत्रालम्वनविभावो यदाश्रयेण रत्यादीनामुदयः, यथा रामादेः सीतादिः। उद्दीपनविभावस्तु यद्वशेन रत्यादीनां भावानामतिशयेन दीप्तता भवति, यथा ऋतुमाल्यानुलेपनादिः। एवमेष द्विविधो विभावो रत्यादीनां कारणभूतः। स च कारणत्वात्कार्यभूतान् रत्यादीन्

गमयति यथातिबहलनीलजलदोदयो वृष्टिम्। यथा हि कार्यस्य सुविवेचितस्य कारणं प्रत्यव्यभिचारिता एवं कारणस्यापि सुविवेचितस्य कार्यं प्रत्यव्यभिचारिता व्यवहारे बाहुल्येन दृश्यते। अतो विभावः कारणत्वात् रत्यादीन्कार्यभूतान् गमयति। व्यभिचारी तु रत्यादिकानां स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः। स च सहचारित्वात् स्थायिनां भावानामवस्थाविशेषरूपो निर्वेदादिः। स च सहचारित्वात् स्थायिनो भावान्प्रतपादयति रथस्यैकमिव चक्रं चक्रान्तरम्। स्वशब्दस्तु रत्यादिः। स च वाचकत्वाद्भावान् गमयति। रत्यादीनां च शब्दानां यद्यप्यनुभावैकगोचरस्वलक्षणस्वभावरत्याद्यवगतिनिबन्धनत्वं नोपलभ्यते, तथाप्यंशेन रत्याद्यवगतिनिबन्धनत्वमनुभावादिवद्विद्यत एव। यथा खल्वनुभावादयो न स्वलक्षणतया भावानवगमयन्ति अपितु सामान्यरूपतया तद्वत्स्वशब्दा अपीत्यास्ताम्।

एवमेते भावानामवगतिहेतवश्चात्वारः। यदुक्तं भट्टोद्भटेन "चतूरूपा भावा"इति। तदेषां रत्यादिकानां भावानां पञ्चाशत्संख्यानां यान्यनुभावादिभिश्चतुःसंख्यैः समस्तत्वेन व्यस्तत्वेन च यथायोगं सूचनानि स्वलक्षणस्वरूपाणां सामान्यावस्थापादितानां प्रतिपादनानि तैः काव्यमुपनिबध्यमानं प्रेयस्वत्। प्रेयःशब्दवाच्येन प्रियतरेण रत्यालम्बनेन विभावनेन रतिरुपलक्ष्यते। तया च साहचर्याद्रत्यादयो भावाः पञ्चाशदवगम्यन्ते। एवं च भावकाव्यस्य प्रेयस्वदिति लक्षणया व्यपदेशः। अत्र च भावानामलङ्कारता, काव्यमलङ्कार्यम्। तस्योदाहरणम्----

इयं त सुतवात्सल्यान्निर्विशेषा स्पृहावती।

उल्लापयितुमारब्धा कृत्वेमं क्रोड आत्मनः।।

आत्मनः क्रोडे कृत्वेति संबन्धः। अत्रात्मनो वक्षसि निधानमाङ्गीकोऽभिनयः, उल्लापनं सान्त्वनं वाचिकः। इममिति इदंशब्देन परामृष्टो यो मृगार्भकः स आलम्बनविभावः। वात्सल्योन्मीलितश्चौत्सुक्यात्मा व्यभिचारीभावः। सुतवाल्लभ्यनिर्विशेषत्वेन हि स्पृहाया

रतेरौत्सुक्यभेदाभिसंबन्धः प्रतीयते। स्वशब्दस्तु स्पृहेति। एवमयं रत्यात्मको भावो वात्सल्यस्वभावश्चतुर्भिरनुभावादिभिरत्रावगमितः। अन्येष्वपि भावेष्वेवमुदाहार्यम्।

रसवत्---

रसवद्दर्शितस्पष्टशृङ्गारादिरसादयम्।

स्वशब्दस्थायिसंचारिविभावाभिनयास्पदम्।।

शृङ्गारहास्यकरणरौद्रवीरभयानकाः।

बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः।।

एते च शृङ्गारादयो नव यथायोगं चतुर्वर्गप्राप्त्युपायतया तदितरपरिहारनिबन्धनतय च रत्यादीनां स्थायिनां नवानां भावानां यः परिपोषस्तदात्मकाः। अतस्तथाविधेन रूपेणास्वाद्यत्वादास्वादभेदनिबन्धनेन तान्त्रिकेण रसशब्देनाभिधीयन्ते। निर्वेदादौ तु तथाविधस्यास्वाद्यस्याभावात्प्रवृत्तिनिमित्तभेदनिबन्धनस्य तान्त्रिकस्य रसशब्दस्याप्रवृत्तिः। आस्वाद्यत्वमात्रविवक्षया तु तत्रापि मधुराम्लादिवद्रसशब्दप्रवृत्तिरविरुद्धा। यदुक्तं शृङ्गारादीन् रसाननुक्रम्य---"रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः। निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः"इति।। तदाहुः----

चतुर्वर्गेतरौ प्राप्य परिहार्यौ क्रमाद्यतः।

चैतन्यभेदादस्वाद्यात्स रसस्तादृशो मतः।। इति

स इति। चैतन्यभेद इत्यर्थः। तादृश इत्यनेन आस्वादविशेषनिबन्धनत्वं शृङ्गरादिषु तान्त्रिकस्य रसशब्दस्योक्तम्। एषां च शृङ्गारादीनां नवानां रसानां स्वशब्दादिभिः पञ्चभिरवगतिर्भवति। यदुक्तं भट्टोद्भटेन--"पञ्चरूपा रसा"इति। तत्र स्वशब्दाः शृङ्गारादेर्वाचकाः शृङ्गारादयः शब्दाः। स्थायिनो रसानामुपादानकारणप्रख्या रत्यादयो नव भावाः। संचारिणस्तु निर्वेदादयो रसानामवस्थाविशेषरूपाः। विभावास्तु तेषां निमित्तकारणभूता योषिदादयः ऋतुमाल्यानुलेपनादयश्च। आङ्गिकादयस्तु चत्वारो रसानां कार्यभूता अभिनयाः। एतेषां च स्वशब्दादीनां पञ्चानां समस्तव्यस्ततया आस्पदत्वाद्येन काव्येन स्फुटरूपतया शृङ्गारादिरसाविर्भावो दश्र्यते तत्काव्यं रसवत्। रसाः खलु तस्यालङ्काराः। तस्योदाहरणम्----

इति भावयतस्तस्य समस्तान्पार्वतीगुणान्।

संभृतानल्पसंकल्पः कन्दर्पः प्रबलोऽभवत्।।

स्विद्यतापि स गात्रेण बभार पुलकोत्करम्।

कदम्बकलिकाकोशकेसरप्रकरोपमम्।।

क्षणमौत्सुक्यगर्भिण्या चिन्तानिश्चलया क्षणम्।

क्षणं प्रमोदालसया दृशास्यास्यमभूष्यत।।

कदम्बकलिकाकोशः कदम्बकलिकाभ्यन्तरम्। अत्र भगवत आभिलाषिकविप्रलम्भशृङ्गारो निबद्धः। तस्य स्वशब्दः "कन्दर्पः प्रबल"इति। स्थायी तत्रैव स्वशब्देनोन्मीलितः कन्दर्प इति। रतिपरिपोषात्मको हि शृङ्गारो रसः। रतिश्च यूनां मन्मथात्मिका। अतो रतिविशेषस्य वाचकत्वात्कन्दर्पशब्दः स्थायिनोऽत्र स्वशब्दः। संचारिणश्चौत्सुक्यचिन्ताहर्षाः स्वशब्देनोन्मीलिताः. स्वेदरोमाञ्चौ च सात्विकौ स्वशब्दोपात्तौ। तयोरपि च संचारित्वम्। सात्विकानां स्थायिभावावस्थाविशेषत्वेन निर्वेदादिवत्संचारित्वात्। विभावस्तु "इति भावयतस्तस्य"इति निर्दिष्टः। भगवती हि तत्तद्गुणोपेतत्वेन विभाव्यमाना विभावः। अभिनयस्त्वत्रापाङ्गाभिनयो निर्दिष्टो "दृशा"इति। अतोऽत्राभिलाषिकः शृङ्गाररसः स्वशब्दादिभिः पञ्चभिरभिव्यज्यते। एवमन्येऽपि रसा उदाहार्याः। रसानां भावानां च काव्यशोभातिशयहेतुत्वात् किं काव्यालङ्कारत्वमुत काव्यजीवितत्वमिति न

तावद्विचार्यते ग्रन्थगौरवभयात्। रसभावस्वरूपं चात्र न विवेचितमप्रकृतत्वाद्बहुवक्तव्यत्वाच्च।।

ऊर्जस्वि-----

अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात्।

भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते।।

क्वचित्खलु रसभावानां शास्त्रसंविदविरुद्धेन रूपेणोपनिबन्धः क्रियते, क्वचित्तु तद्विरुद्धेन। तत्र यत्र शास्त्रसंविदविरुद्धेन रूपेण तेषामुपनिबन्धस्तत्र प्रेयोऽलङ्कारो रसवदलङ्कारश्चाभिहितः। यत्र तु तद्विरुद्धत्वं तन्मूलकलोकव्यवहारविरुद्धत्वं च तद्विषयाणां रसभावनामुपनिबन्धे सत्यूर्जस्विकाव्यं भवति। तत्र हि रागद्वेषमोहकारणका अनौचित्येन रसभावा उपनिबध्यन्ते। अत एव तत्र स्वकल्पनापरिकल्पितत्वेन ऊर्जसो बलस्य विद्यामानत्वादूर्जखिव्यपदेशः। "ज्योत्स्नातमिस्रे"त्यत्र उर्जस्विशब्दः (पा. अ. 5/2/114)।। तस्योदाहरणम्।

तथा कामोऽस्य ववृधे यथा हिमगिरेः सुताम्।

संग्रहीतुं प्रववृते हठेनोपास्य सत्यथम्।।

अत्र सकललोकातिशायिनो भगवतोऽकृतविवाहकमारीविषयतया हठसंग्रहः शास्त्रसंविद्विरुद्धः प्रवृद्धरागकारणकु उपनिबद्धः। तेन ऊर्जस्तिता। तत्र कामो ववृधे इत्ययं शृङ्गारस्य स्वशब्दः। तस्य रतिपरिपोषात्मकत्वेन कामवृद्धिस्वभावत्वात् कामशब्दस्त्वेतदन्तर्गतः। शृङ्गारस्य यासौ स्थायिभूता रतिस्तस्याः स्वशब्दः हिमगिरेः सुतामित्यालम्बनविभावः। हठेनेत्यनेनावेगलक्षणो व्यभिचारीभावः प्रतिपादितः। अपास्य सत्पथमिति तु मोगः, संग्रहीतुं प्रवृत्त इति आङ्गकोऽनुभावः। एवमयमत्र पञ्चभिः स्वशब्दादिभिरुर्जस्विलक्षणः शृङ्गारः सूचितः। एवमन्येष्वपि रसभावेषूर्जस्वि उदाहार्यम्।

पर्यायोक्तम्----

पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते।

वाच्यवाचकवृत्तिभ्यां शून्येनावगमात्मना।।

वाचकस्याभिधायकस्य स्वशब्दस्य वृत्तिव्र्यापारो वाच्यार्थप्रत्यायनम्। वाच्यस्य त्वभिधेयस्य व्यापारो वाच्यान्तरेण सहाकाङ्क्षासंनिधियोग्यतामाहात्म्यात्संसर्गगमनम्। एवंविधश्च यो वाच्यवाचकयोव्र्यापारस्तमन्तरेणापि प्रकारान्तरेणार्थसामथ्र्यात्मनावगमस्वभावेन यदवगम्यते तत्पर्यायेण स्वकण्ठानभिहितमपि सान्तरेण शब्दव्यापारेणावगम्यमानत्वात् पर्यायोक्तं वस्तु। तेन च स्वसंश्लेषवशेन काव्यार्थोऽलङ्कियते। तस्योदाहरणम्----

येन लम्बालकः सास्रः करघातारुणस्तनः।

अकारि भग्नवलयो गजासुरवधूजनः।।

सोऽप येन कृतः प्लुष्टदेहेनाप्येवमाकुलः।

नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे।।

अत्र लम्बालकत्वादयः कार्यरूपत्वात् कारणभूतं गजासुरवधं वाच्यवाचकव्यापारास्पृष्टमपि गमयन्ति। तेन च तथाविधया विच्छित्त्या अवगम्यमानेनार्थेन ते लम्बालकत्वादयोऽर्था अलङ्कियन्ते। तस्मात्पर्यायोक्तमलङ्कारः।।

समाहितम्-----

रसभावतदाभासवृत्तेः प्रशमबन्धनम्।

अन्यानुभावनिःशून्यरूपं यत्तत्समाहितम्।।

इह रसभावानां शास्त्रसमयाविरुद्धेन तद्विरुद्धेन च रूपेण द्वैविध्यमुक्तम्। तत्र ये शास्त्रसमयाविरुद्धा रसभावाः ते रसभावशब्देनात्र

विवक्षिताः। तद्विरुद्धास्तु तदाभासाः। तेषां रसभावानां तदाभासानां च या वृत्तिः स्वाश्रयसंबन्धात्मिका तस्याः प्रशमे निबध्यमाने समाहितालङ्कारो भवति। तत्र हि तेषां रसभावानां समाधानं समाधिः परिहारो भवति। समाहितमिति भावे क्तः।

ननु यदि तस्मिन्काव्ये रसादीनां वृत्तिः परिह्नियते, एवं सति पूर्वरसादिनिवृत्त्या रसाद्यन्तरोपनिबन्धाद्रसवदाद्यलङ्कारानुप्रवेशः प्रसक्त इत्याशङ्क्योक्तं---अन्यानुभावनिःशून्यरूपमिति। अन्यस्य रसाद्यन्तरस्य येऽनुभावादयः तैर्निःशेषेण शून्यं रूपं यस्य तत्तथोक्तम्। यत्र पूर्वेषां रसादीनां वासनाया दाढ्र्येन तेषूपशान्तेष्वपि रसाद्यन्तराणां न स्वरूपमाविर्भवति, आविर्भवदपि वा कार्यवशेन केनचित्तिरोधीयते, तत्र समाहितालङ्कारो भवति। तस्योदाहरणम्----

अथ कान्तां दृशं दृष्ट्वा विभ्रमाच्च भ्रमं भ्रूवोः।

प्रसन्नं मुखरागं च रोमाञ्चस्वेदसंकुलम्।।

स्मरज्वरप्रदीप्तानि सर्वाङ्गानि समादधत्।

उपासर्पद्गिरिसुतां गिरिशः स्वस्तिपूर्वकम्।।

समादधन्निजे रूपेऽवस्थापयन्। समादधदित्यभ्यस्तत्वान्नुमोऽप्रवृत्तिः। अत्र भगवता शृङ्गारस्य येऽनुभावाः कान्तदृष्ट्यादयस्तेषामवहित्थेन आकारप्रच्छादनात्मकेन भावेन तिरोधानं विहितम्। यदुक्तं---स्वस्तिपूर्वकमिति। अनेन ह्याकारतिरोधानमुपदर्शितम्।

उदात्तम्---

उदात्तमृद्धिमद्वस्तु चरितं च महात्मनाम्।

उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतम्।।

ऋद्धिः सुवर्णादिधनसंपत्तिः। तद्युक्तं वस्तूदात्तम्। तेन च काव्यार्थोऽलंक्रियते। तस्योदाहरणम्----

उवाच च यतः क्रोडे वेणुकुञ्जरजन्मभिः।

मुक्ताफलैरलङ्कारः शबरीणामपीच्छया।।

पृष्ट्येन्द्रनीलवैडूर्यपद्मरागमयैर्वियत्।

शिरोभिरुल्लिस्वद्यत्र शिखरं गन्धमादनम्।।

उत्तरोपत्यका यस्य प्रधानस्वर्णभूमयः।

महान्मरकतोर्विन्ध्रः पादोपान्तं च संश्रितः।।

बभूव यस्य पातालपातिन्यां संक्षये क्षितौ।

पतनं न तया सार्धमायामस्तु प्रकट्यभूत्।।

यस्य एवंविधरूपता हिमाद्र्रेर्भवती सुतेति संबन्धः। क्रोडः सूकरः। पुष्ट्यो मणिविशेषः। गन्धमादनं पर्वतविशेषः। उपत्यकाः पर्वताधारवर्तिनो भूमिभागाः। प्रधानं स्वर्णं कार्तस्वरादि। अर्विन्ध्रः पर्वतः। संक्षयः

कल्पान्तः। भूमेरधोगमनाद्भूम्याश्लिष्टस्य प्रदेशस्य भूमिविविक्तत्वाद्धिमवतः कल्पान्ते आयामः प्रकटीभूतः। अत्र रत्नादिसंभारो निबद्धः। तेनेदमुदात्तम्। तस्य चालङ्कारत्वं लोकातिशायिरत्नादिकार्यध्वननात्। एवमेतदृद्धिमद्वस्तुनिबन्धनेनैकमुदात्तमुक्तम्।

न केवलमृद्धिमद्वस्तूदात्तं यावदर्थप्राप्तावनर्थपरिहारे चोद्यतानां विपुलाशयानां चेष्टितमपि, तदुक्तम्----चरितं च महात्मनामिति। न च विपुलाशयचेष्टिते उपनिबध्यमाने तस्य शृङ्गारादिरसप्रतिपत्तिहेतुत्वाद्रसवदलङ्कारानुप्रवेशोऽत्र सुभणः। विपुलाशयचेष्टतस्यात्र वस्त्वन्तरोपलक्षणत्वेनावान्तरवाक्यार्थीभूतत्वात्। न खल्पत्र महापुरुषचेष्टितं वाक्यतात्पर्यगोचरतामनुभवति। अरथान्तरोपलक्षणपरत्वात्। यत्र च रसास्तात्प्रयेणाव गम्यन्ते तत्र तेषां वाक्यविश्रान्तिस्थानत्वेन चतुर्वर्गतदितरप्राप्तिपरिहारोपायभूतस्थायिभावपरिपोषात्मनास्वाद्यमानत्वाद्रसवदलङ्कारो

भवति। तेन कुतोऽत्र रसवदलङ्कारगन्धोऽपि। तदुक्तम्---उपलक्षणतां प्राप्तं नेतिवृत्तत्वमागतमिति। तस्योदाहरणम्-----

तस्यादिक्रोडपीनांसनिघर्षेऽपि पुनः पुनः।

निष्कम्पसय स्थितवतो हिमाद्र्रर्भवती सुता।।

अत्र हिमवतः स्थैर्ये वाक्यार्थीभूते भगवतो वराहवपुषस्त्रैलोक्योद्धरणोद्युक्तस्य चेष्टितं वीररसप्रतिपत्तिहेतुभूतमवान्तरवाक्यार्थत्वादुपलक्षणीभूतम्। आदिक्रोड आदिवराहः। एवं रसान्तरेष्वप्युपलक्षणीभूतेषूदाहार्यम्।।

श्लिष्टम्-----

एकप्रयत्नोच्चार्याणां तच्छायां चैव बिभ्रताम्।

स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिहोच्यते।।

अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः।

द्विविधैरर्थशब्दोक्तिविशिष्टं तत्प्रतीयताम्।।

इह खलु शब्दानामनेकार्थानां युगपदनेकार्थविवक्षायां द्वयी गतिः अर्थभेदेन तावच्छब्दा भिद्यन्ते इति भट्टोद्भटस्य सिद्धान्तः। तत्रार्थभेदेन भिद्यमानाः शब्दाः केचित्तन्त्रेण प्रयोक्तुं शक्याः केचिन्न। येषां हलस्वरस्थानप्रयत्नादीनां साम्यं ते तन्त्रेण प्रयोक्तुं शक्यन्ते। यत्र तु हलामेकत्वानेकत्वरूपत्वात्स्वराणां चोदात्तत्वानुदात्तत्वादिना स्थानानां चौष्ठ्यदन्त्यौष्ठत्वादिना प्रयत्नानां च लघुत्वालघुत्वादिना भेदस्तेषां तन्त्रेण प्रयोगः कर्तुमशक्यः। साधारणरूपत्वात्तन्त्रस्य। तदुक्तम्----"साधारणं भवेत्तन्त्रम्"इति। एवं चावस्थिते ये तन्त्रेणोच्चारयितुं शक्यन्ते ते एकप्रयत्नोच्चार्याः। तद्बन्दे सत्यर्थश्लेषो भवति। तदुक्तम्----एकप्रयत्नोच्चार्याणामिति। तथा ये तेषामेवैकप्रयत्नोच्चार्याणां शब्दानां छायां सादृश्यं बिभ्रति तदुपनिबन्धे च शब्दश्लिष्टम्। शब्दान्तरे उच्चार्यमाणे सादृश्यवशेनानुच्चारितस्यापि शब्दान्तरस्य श्लिष्टत्वात्। तदुक्तम्---तच्छायां चैव बिभ्रताम्। स्वरितादिगुणैर्भिन्नैर्बन्धः श्लिष्टमिति। तथा---शब्दोक्तिविशिष्टं तत्प्रतीयतामिति। एतच्च श्लिष्टं द्विविधमप्युपमाद्यलङ्कारप्रतिभोत्पादनद्वारेणालङ्कारतां प्रतिपद्यते। अतोऽनेनानवकाशत्वात् स्वविषयेऽलङ्कारान्तराण्यपोद्यन्ते, तेषां विषयान्तरे सावकाशत्वात्। तदुक्तम्----अलङ्कारान्तरगतां प्रतिभां जनयत्पदैः। द्विविधैरिति। अलङ्कारान्तराणामत्र प्रतिभामात्रं न तु पदबन्ध इत्यर्थः। तदेवं शब्दश्लिष्टमर्थश्लिष्टं च लक्षितम्। तस्योदाहरणम्---

स्वयं च पल्लवाताम्रभास्वत्करविराजिनी।

प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा।।

इन्दुकान्तमुखी स्निग्धमहानीलशिरोरुहा।

मुक्ताश्रीस्त्रीजगद्रत्नं पद्मरागाङ्घ्रिपल्लवा।।

अपारिजातवार्तापि नन्दनश्रीर्भुवि स्थिता।

अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका।।

न केवलं त्वं हिमाद्रेरेवंविधस्य सुता यावत्स्वयं चैवंप्रकारेति च शब्दः। अत्र भगवती किसलयवदाताम्रौ

भास्वन्तौ दीप्तिमन्तौ यौ करौ हस्तौ ताभ्यां विराजते। प्रभातसन्ध्या तु पल्लववदाताम्रैर्भास्वत आदित्यस्य करैर्मयूखैर्विराजते। अत्र चोभयत्रापि हलादनां साम्यम्। अतस्तन्त्रेणोच्चारणसंभवादयमर्थश्लेषः। अस्वापफललुब्धे हितप्रदेत्यत्र तु भगवतीपक्षे अस्वापं सुखेनाप्तुं यन्न शक्यते फलं तत्र ये लुब्धास्तेभ्य ईहितमीप्सितं प्रददातीत्यर्थः। प्रभातसन्ध्यापक्षे तु स्वापस्य निद्रानुभवस्य यत्फलं श्रमनिवृत्तिलक्षणं तत्र यो न लुब्धः सन्ध्योपासनप्रवृत्तत्वात्तद्विषयं हितमदृष्टं समर्पयतीत्येवंविधेत्यर्थः। अत्र च पूर्वस्मिन्पक्षे ऐकपद्यात् (पा. अ. 6/2/144) थाथादिस्वरेणान्तोदात्तत्वम्। उत्तरत्र पुनरस्वापफललुब्धे इति हितप्रदेति च अनयोर्भिन्नपदत्वान्नानास्वरत्वम्। अस्वापफललुब्ध इत्यस्य "तत्पुरुषे तुल्यार्थेति"(पा. अ. 6/2/2)

पूर्वपदप्रकृतिस्वरेणाद्युतात्तत्वात्। हितप्रदेत्यस्य तु (पा. अ. 6/2/144) यथादिस्वरेणान्तोदात्तत्वात्। तेनात्र स्वरभेदः। अस्वापेति अकारस्य फललुब्धे इति च एकारस्य उभयोः पक्षयोर्यथायोगं लाघवालाघवाभ्यां प्रयत्नभेदोऽपि। अतस्तन्त्रेणोच्चारयितुमशक्यता। एकÏस्मस्त्वत्र शब्दे समुच्चरिते शब्दान्तरस्य तत्सादृश्यात्प्रतिपत्तिः। अतोऽयं शब्दश्लेषः।

एतयोश्च द्वयोरप्यर्थश्लेषशब्दश्लेषयोरुपमाप्रतिभोत्पत्तिहेतुत्वम्। प्रभातसन्ध्या ह्यत्रोपमानम्। भगवती उपमेया। इवशब्दश्चोपमानोपमेयभावं द्योतयति। शब्दव्यतिरेकेण तु साधारणो धर्मोऽर्थाधिकरणोऽत्र न विद्यते। तेन नेयमुपमा अपितु श्लेष उपमाप्रतिभोत्पत्तिहेतुः।

इन्दुकान्तमुखीत्यत्र भगवती चन्द्रवत्सुन्दरं मुखं यस्याः सा तथाविधा। तथा स्निग्धदीर्घकृष्णकेशी। मुक्ता परित्यक्ता अश्रीरशोभा यया सा तथाविधा। त्रैलोक्योत्कृष्टा च। तथा पद्मवत् कमलवत् रागो लौहित्यं ययोस्तथाविधौ पादपल्लवौ यस्यासतद्रूपा। यदा त्वसौ भगवती रूपकप्रतिभोत्पत्तिनिबन्धनेन श्लेषेण त्रैलोक्योदरवर्तिमाणिक्यसंभाररूपतया रूप्यते तदा प्रकृतोऽर्थश्चन्द्रकान्तेन्द्रनीलमौक्तिकशोभापद्मरागैरवच्छादितरूपतया प्रतीयते, साक्षादेवंविधरत्नमयावयवयोगित्वात् त्रिभुवनोदरान्तर्गतरत्नसमृद्धिरूपेति। अत्र च मुक्ताश्रीरित्यत्र स्वरभेदो विद्यते। बहुव्रीहिपक्षे"बहुव्रीहौ प्रकृत्येति"पूर्वपदप्रकृतिस्वरत्वात्। तत्पुरुषे तु समासान्तोदात्तत्वात्। शिष्टानां तु शब्दानां स्वरभेदो नास्ति। प्रयत्नगुरुत्वागुरुत्वे तु त्रिजगद्रत्नशब्दव्यतिरिक्तेषु तत्तद्वर्णविषयतया विद्येते। तेन तत्र शब्दश्लेषता। त्रिजगद्रत्नशब्दस्य तूभयत्रापि कस्यचिद्विशेषस्याविद्यमानत्वादर्थश्लेषत्वम्। अपारिजातवार्तापीत्यत्र भगवत्यजातशत्रुत्वादपगतशत्रुसमूहवार्ता तदीया च शोभा सर्वस्य चित्तमावर्जयतीत्यतो नन्दना श्रीर्यस्यास्तथाविधा। उदकमध्यवर्तितया च योऽसौ अप्सु उदके प्रतबिम्बित इन्दुस्तद्वत्सुन्दरी। नित्यं च गलल्लावण्यप्रवाहा। यदा त्वसौ भगवती नन्दनश्रीशब्दस्य देवोद्यानशोभालक्षणार्थान्तराभिधायत्वाद्रूपकप्रितिभोत्पत्तिनिबन्धनेन श्लेषेणैतद्भावमापद्यते तदा तत्समाश्रयत्वेन अपारिजातवार्तापीत्यादिपदपर्यालोचनया विरोधप्रतिभाहेतोरपरस्यापि श्लेषस्याविर्भावो भवति। न खलु देवोद्यानशोभा अविद्यमानपारिजाताख्यवृक्षविशेषवृत्तान्ता भवति। न चासौ भूमौ तिष्ठति। अबिन्दुसुन्दरीत्यत्र तु बिन्दुभिर्यस्याः सौन्दर्यं नास्ति तस्याः कथं लावण्यबिन्दवः प्रसरेयुरिति विरोधप्रतपत्तिहेतुः श्लेषः। अपारिजातवार्तापीत्यत्राप्यपगता अरिजातवार्तेति बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम्। तत्पुरुषपक्षेत्वन्तोदात्तत्वम्। अबिन्दुसुन्दरीत्यत्र अबिन्दुवत्सन्दरीत्युपमानत्वा "तत्पुरुषे तुल्यार्थो"त्यबिन्दुशब्दस्य प्रकृतिस्वरः। तस्य च सप्तम्यन्तपूर्वपदत्वादनेनैव सूत्रेण प्रकृतिस्वरेणाद्युदात्तत्वम्। अबिन्दुसुन्दरीत्यत्र त्वव्ययत्वान्नञः पूर्वपदप्रकृतिस्वरत्वेन तदेव। तेनात्र स्वरभेदस्याभावः। प्रयत्नभेदकृतात्तु चकारवैचित्र्याच्छब्दश्लेषता।।

इति महाश्रीप्रतीहारेन्दुराजविरचितायामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ चतुर्थो वर्गः।।