काव्यालङ्कारः/प्रथमपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
काव्यालङ्कारः
प्रथमपरिच्छेदः
भामहः
द्वितोयपरिच्छेदः →

प्रणम्य सार्वं सर्वज्ञं मनोवाक्कायकर्मभिः ।
काव्यालंकार इत्येष यथाबुद्धि विधास्यते ।। १.१ ।।

धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ।। १.२ ।।

अधनस्येव दातृत्वं क्लीबस्येवास्त्रकौशलम् ।
अज्ञस्येव प्रगल्भत्वं अकवेः शास्त्रवेदनम् ।। १.३ ।।

विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ।। १.४ ।।

गुरूपदेशादध्येतुम् शास्त्रं जडधियोऽप्यलम् ।
काव्यं तु जायते जातु कस्यचित्प्रतिभावतः ।। १.५ ।।

उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ।
आस्त एव निरातङ्कं कान्तं काव्यमयं वपुः ।। १.६ ।।

रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ।। १.७ ।।

अतोऽभिवाञ्छता कीर्तिं स्थेयसीमाभुवः स्थितेः ।
यत्नो विदितवेद्येन विधेयः काव्यलक्षणः ।। १.८ ।।

शब्दश्छन्दोऽभिधानार्था इतिहासाश्रयाः कथाः ।
लोको युक्तिः कलाश्चेति मन्तव्याः काव्यहेतवः ।। १.९ ।।

शब्दाभिधेये विज्ञाय कृत्वा तद्विदुपासनम् ।
विलोक्यान्यनिबन्धांश्च कार्यः काव्यक्रियादरः ।। १.१० ।।

सर्वथा पदमप्येकं न निगाद्यमवद्यवत् ।
विलक्ष्मणा हि काव्येन दुःसुतेनेव निन्द्यते ।। १.११ ।।

नाकवित्वमधर्माय व्याधये दण्डनाय वा ।
कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ।। १.१२ ।।

रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनितामुखम् ।। १.१३ ।।

रूपकादिमलंकारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ।। १.१४ ।।

तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालंकार- भेदादिष्टं द्वयं तु नः ।। १.१५ ।।

शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्द्विधा ।
संस्कृतं प्राकृतं चान्यदपभ्रंश इति त्रिधा ।। १.१६ ।।

वृत्तदेवादिचरित- शंसि चोत्पाद्यवस्तु च ।
कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः ।। १.१७ ।।

सर्गबन्धोऽभिनेयार्थं तथैवाख्यायिकाकथे ।
अनिबद्धं च काव्यादि तत्पुनः पञ्चधोच्यते ।। १.१८ ।।

सर्गबन्धो महाकाव्यं महतां च महच्च यत् ।
अग्राम्यशब्दमर्थ्यं च सालंकारं सदाश्रयम् ।। १.१९ ।।

मन्त्रदूतप्रयाणाजि- नायकाभ्युदयैश्च यत् ।
पञ्चभिः सन्धिभिर्युक्तं नातिव्याख्येयमृद्धिमत् ।। १.२० ।।

चतुर्वर्गाभिधानेऽपि भूयसार्थोपदेशकृत् ।
युक्तं लोकस्वभावेन रसैश्च सकलैः पृथक् ।। १.२१ ।।

नायकं प्रागुपन्यस्य वंशवीर्यश्रुतादिभिः ।
न तस्यैव वधं ब्रूयादन्योत्कर्षाभिधित्सया ।। १.२२ ।।

यदि काव्यशरीरस्य न स व्यापितयेष्यते ।
न चाभ्युदयभाक्तस्य मुधादौ ग्रहणस्तवौ ।। १.२३ ।।

नाटकं द्विपदीशम्या- रासकस्कन्धकादि यत् ।
उक्तं तदभिनेयार्थं उक्तोऽन्यैस्तस्य विस्तरः ।। १.२४ ।।

संस्कृतानाकुलश्रव्य- शब्दार्थपदवृत्तिना ।
गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ।। १.२५ ।।

वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम् ।
वक्त्रं चापरवक्त्रं च काले भाव्यार्थशंसि च ।। १.२६ ।।

कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता ।
कन्याहरणसंग्राम- विप्रलम्भोदयान्विता ।। १.२७ ।।

न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छासवत्यपि ।
संस्कृतासंस्कृता चेष्टा कथापभ्रंशभाक्तथा ।। १.२८ ।।

अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते ।
स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः ।। १.२९ ।।

अनिबद्धं पुनर्गाथा- श्लोकमात्रादि तत्पुनः ।
युक्तं वक्रस्वभावोक्त्या सर्वमेवैतदिष्यते ।। १.३० ।।

वैदर्भमन्यदस्तीति मन्यन्ते सुधियोऽपरे ।
तदेव च किल ज्यायः सदर्थमपि नापरम् ।। १.३१ ।।

गौडीयमिदमेतत्तु वैदर्भमिति किं पृथक् ।
गतानुगतिकन्यायान्नानाख्येयममेधसाम् ।। १.३२ ।।

ननु चाश्मकवंशादि वैदर्भमिति कथ्यते ।
कामं तथास्तु प्रायेण संज्ञेच्छातो विधीयते ।। १.३३ ।।

अपुष्टार्थमवक्त्रोक्ति प्रसन्नमृजु कोमलम् ।
भिन्नं गेयमिवेदं तु केवलं श्रुतिपेशलम् ।। १.३४ ।।

अलंकारवदग्राम्यं अर्थ्यं न्याय्यमनाकुलम् ।
गौडीयमपि साधीयो वैदर्भमिति नान्यथा ।। १.३५ ।।

न नितान्तादिमात्रेण जायते चारुता गिराम् ।
वक्राभिधेयशब्दोक्तिरिष्टा वाचामलंकृतिः ।। १.३६ ।।

नेयार्थं क्लिष्टमन्यार्थं अवाचकमयुक्तिमत् ।
गूढशब्दाभिधानं च कवयो न प्रयुञ्जते ।। १.३७ ।।

नेयार्थं नीयते युक्तो यस्यार्थः कृतिभिर्बलात् ।
शब्दन्यायानुपारूढः कथंचित्स्वाभिसन्धिना ।। १.३८ ।।

मायेव भद्रेति यथा सा चासाध्वी प्रकल्पना ।
वेणुदाकेरिति च तां नयन्ति वचनाद्विना ।। १.३९ ।।

क्लिष्टं व्यवहितं विद्यादन्यार्थं विगमे यथा ।
विजह्रुस्तस्य ताः शोकं क्रीडायां विकृतं च तत् ।। १.४० ।।

हिमापहामित्रधरैर्व्याप्तं व्योमेत्यवाचकम् ।
साक्षादरूढं वाच्येऽर्थे नाभिधानं प्रतीयते ।। १.४१ ।।

अयुक्तिमद्यथा दूता जलभृन्मारुतेन्दवः ।
तथा भ्रमरहारीत- चक्रवाकशुकादयः ।। १.४२ ।।

अवाचोऽव्यक्तवाचश्च दूरदेशविचारिणः ।
कथं दूत्यं प्रपद्येरन्निति युक्त्या न युज्यते ।। १.४३ ।।

यदि चोत्कण्ठया यत्तदुन्मत्त इव भाषते ।
तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते ।। १.४४ ।।

गूढशब्दाभिधानं च न प्रयोज्यं कथंचन ।
सुधियामपि नैवेदं उपकाराय कल्पते ।। १.४५ ।।

असितर्तितुगद्रिच्छित्स्वःक्षितां पतिरद्विदृक् ।
अमिद्भिः शुभ्रदृग्दृष्टैर्द्विषो जेघ्नीयिषीष्ट वः ।। १.४६ ।।

श्रुतिदुष्टार्थदुष्टे च कल्पनादुष्टमित्यपि ।
श्रुतिकष्टं तथैवाहुर्वाचं दोषं चतुर्विधम् ।। १.४७ ।।

विड्वर्चोविष्ठितक्लिन्नच्- छिन्नवान्तप्रवृत्तयः ।
प्रचारधर्षितोद्गार- विसर्गहदयन्त्रिताः ।। १.४८ ।।

हिरण्यरेताः सम्बाधः पेलवोपस्थिताण्डजाः ।
वाक्काटवादयश्चेति श्रुतिदुष्टा मता गिरः ।। १.४९ ।।

अर्थदुष्टं पुनर्ज्ञेयं यत्रोक्ते जायते मतिः ।
असभ्यवस्तुविषया शब्दैस्तद्वाचिभिर्यथा ।। १.५० ।।

हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः ।
पतनं जायतेऽवश्यं कृच्छ्रेण पुनरुन्नतिः ।। १.५१ ।।

पदद्वयस्य सन्धाने यदनिष्टं प्रकल्पते ।
तदाहुः कल्पनादुष्टं स शौर्याभरणो यथा ।। १.५२ ।।

यथा.अजिह्लददित्यादि श्रुतिकष्टं च तद्विदुः ।
न तदिच्छन्ति कृतिनो गण्डमप्यपरे किल ।। १.५३ ।।

सन्निवेशविशेषात्तु दुरुक्तमपि शोभते ।
नीलं पलाशमाबद्धं अन्तराले स्रजामिव ।। १.५४ ।।

किंचिदाश्रयसौन्दर्याद्धत्ते शोभामसाध्वपि ।
कान्ताविलोचनन्यस्तं मलीमसमिवाञ्जनम् ।। १.५५ ।।

आपाण्डुगण्डमेतत्ते वदनं वनजेक्षणे ।
संगमात्पाण्डुशब्दस्य गण्डः साधु यथोदितम् ।। १.५६ ।।

अनयान्यदपि ज्ञेयं दिशा युक्तमसाध्वपि ।
यथा विक्लिन्नगण्डानां करिणां मदवारिभिः ।। १.५७ ।।

मदक्लिन्नकपोलानां द्विरदानां चतुःशती ।
यथा तद्वदसाधीयः साधीयश्च प्रयोजयेत् ।। १.५८ ।।

एतद्ग्राह्यं सुरभि कुसुमं ग्राम्यं एतन्निधेयं धत्ते शोभां विरचितमिदं स्थानमस्यैतदस्य ।
मालाकारो रचयति यथा साधु विज्ञाय मालां योज्यं काव्येष्ववहितधिया तद्वदेवाभिधानम् ।। १.५९ ।।

इति भामहालङ्कारे प्रथमः परिच्छेदः