काव्यालङ्कारः/पञ्चमपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्थ परिच्छदः काव्यालङ्कारः
पंचम परिच्छदः
भामहः
षष्ठ परिच्छदः →

अथ प्रतिज्ञाहेत्वादि- हीनं दुष्टं च वर्ण्यते ।
समासेन यथान्यायं तन्मात्रार्थप्रतीतये ।। ५.१ ।।

प्रायेण दुर्बोधतया शास्त्राद्बिभत्यमेधसः ।
तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ।। ५.२ ।।

स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटु भेषजम् ।। ५.३ ।।

न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गं अहो भारो महान्कवेः ।। ५.४ ।।

सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।
असाधारणसामान्य- विषयत्वं तयोः किल ।। ५.५ ।।

प्रत्यक्षं कल्पनापोढं ततोऽर्थादिति केचन ।
कल्पनां नामजात्यादि- योजनां प्रतिजानते ।। ५.६ ।।

समारोपः किलैतावान्सदर्थालम्बनं च तत् ।
जात्याद्यपोहे वृत्तिः क्व क्व विशेषः कुतश्च सः ।। ५.७ ।।

तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा ।
अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ।। ५.८ ।।

ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि ।
विज्ञानमात्रसादृश्याद्विशेषोऽस्य विकल्पना ।। ५.९ ।।

अर्थादेवेति रूपादेस्तत एवेति नान्यतः ।
अन्यथा घटविज्ञानं अन्येन व्यपदिश्यते ।। ५.१० ।।

त्रिरूपाल्लिङ्गतो ज्ञानं अनुमानं च केचन ।
तद्विदो नान्तरीयार्थ- दर्शनं चापरे विदुः ।। ५.११ ।।

विवादास्पदधर्मेण धर्मी कृतविशेषणः ।
पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ।। ५.१२ ।।

तदर्थहेतुसिद्धान्त- सर्वागमविरोधिनी ।
प्रसिद्धधर्मा प्रत्यक्ष- बाधिनी चेति दुष्यति ।। ५.१३ ।।

तयैव हि तदर्थस्य विरोधकरणं यथा ।
यतिर्मम पिता बाल्यात्सूनुर्यस्याहमौरसः ।। ५.१४ ।।

अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी ।
धर्मिणोऽस्याप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ।। ५.१५ ।।

शाश्वतोऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ ।
जायते भेदविषयो विवादो वादिनोर्मिथः ।। ५.१६ ।।

स्वसिद्धान्तविरोधित्वाद्विज्ञेया तद्विरोधिनी ।
कणभक्षो यथा शब्दं आचक्षीताविनश्वरम् ।। ५.१७ ।।

सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।
यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ।। ५.१८ ।।

आकुमारमसन्दिग्ध- धर्माहितविशेषणा ।
प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ।। ५.१९ ।।

प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते ।
यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ।। ५.२० ।।

सन्द्वयोः सदृशे सिद्धो व्यावृत्तस्तद्विपक्षतः ।
हेतुस्त्रिलक्षणो ज्ञेयो हेत्वाभासो विपर्ययात् ।। ५.२१ ।।

सन्द्वयोरिति यः सिद्धः स्वपक्षपरपक्षयोः ।
अभिन्नलक्षणः पक्षः फलभेदादयं द्विधा ।। ५.२२ ।।

परपक्षानुपादाने तद्वृत्तेश्चानुदाहृतौ ।
कथमन्यतरासिद्ध- हेत्वाभासव्यवस्थितिः ।। ५.२३ ।।

साध्यधर्मानुगमतः सदृशस्तत्र यश्च सन् ।
अन्योऽप्यसावेक इव सामान्यादुपचर्यते ।। ५.२४ ।।

विपक्षस्तद्विसदृशो व्यावृत्तस्तत्र यो ह्यसन् ।
इति द्वयैकानुगति- व्यावृत्ती लक्ष्मसाधुता ।। ५.२५ ।।

साध्यसाधनधर्माभ्यां सिद्धो दृष्टान्त उच्यते ।
तद्विपर्ययतो वापि तदाभस्तदवृत्तितः ।। ५.२६ ।।

साध्येन लिङ्गानुगतिस्तदभावे च नास्तिता ।
ख्याप्यते येन दृष्टान्तः स किलान्यैर्द्विधोच्यते ।। ५.२७ ।।

दूषणं न्यूनताद्युक्तिर्न्यूनं हेत्वादिनाथ वा ।
तन्मूलत्वात्कथायाश्च न्यूनं नेष्टं प्रतिज्ञया ।। ५.२८ ।।

जातयो दूषणाभासास्ताः साधर्म्यसमादयः ।
तासां प्रपञ्चो बहुधा भूयस्त्वादिह नोदितः ।। ५.२९ ।।

अपरं वक्ष्यते न्याय- लक्षणं काव्यसंश्रयम् ।
इदं तु शास्त्रगर्भेषु काव्येष्वभिहितं यथा ।। ५.३० ।।

अथ नित्याविनाभावि दृष्टं जगति कारणम् ।
कारणं चेन्न तन्नित्यं नित्यं चेत्कारणं न तत् ।। ५.३१ ।।

लक्ष्म प्रयोगदोषाणां भेदेनानेन वर्त्मना ।
सन्धादिसाधनासिद्ध्यै शास्त्रेषूदितमन्यथा ।। ५.३२ ।।

तज्ज्ञैः काव्यप्रयोगेषु तत्प्रादुष्कृतमन्यथा ।
तत्र लोकाश्रयं काव्यं आगमास्तत्त्वदर्शिनः ।। ५.३३ ।।

असिसंकाशमाकाशं शब्दो दूरानुपात्ययम् ।
सदैव वारि सिन्धूनां अहो स्थेमा महार्चिषः ।। ५.३४ ।।

रूपादीनां यथा द्रव्यं आश्रयो नश्यतीति च ।
इष्टकार्याभ्युपगमं प्रतिज्ञां प्रतिजानते ।। ५.३५ ।।

धर्मार्थकामकोपानां संश्रयात्सा चतुर्विधा ।
जरामेष बिभर्मीति प्रतिज्ञाय पितुर्यथा ।
 # ३६अबिन् ।एदं
तथैव पुरुणाभारि सा स्याद्धर्मनिबन्धनी ।। ५.३६ ।।

उपलप्स्ये स्वयं सीतां इति भर्तृनिदेशतः ।
हनुमता प्रतिज्ञाय सा ज्ञातेत्यर्थसंश्रया ।। ५.३७ ।।

आहरिष्याम्यमूमद्य महासेनात्मजामिति ।
कृत्वा प्रतिज्ञां वत्सेन हृतेति मदनाश्रया ।। ५.३८ ।।

भ्रातुर्भ्रातृव्यमुन्मथ्य पास्याम्यस्यासृगाहवे ।
प्रतिज्ञाय यथा भीमस्तच्चकारावशो रुषा ।। ५.३९ ।।

कार्योऽन्यत्र प्रतिज्ञायाः प्रयोगो न कथं चन ।
परित्यागश्च कर्तव्यो नासां चतसृणामपि ।। ५.४० ।।

प्रायोपवेशाय यथा प्रतिज्ञाय सुयोधनः ।
राज्याय पुनरुत्तस्थाविति धर्मविरोधिनी ।। ५.४१ ।।

आहूतो न निवर्तेऽहं द्यूतायेति युधिष्ठिरः ।
कृत्वा सन्धां शकुनिना दिदेवेत्यर्थबाधिनी ।। ५.४२ ।।

अद्यारभ्य निवत्स्यामि मुनिवद्वचनादिति ।
पितुः प्रियाय यां भीष्मश्चक्रे सा कामबाधिनी ।। ५.४३ ।।

अत्याजयद्यथा रामः सर्वक्षत्रवधाश्रयाम् ।
जामदग्न्यं युधा जित्वा सा ज्ञेया कोपबाधिनी ।। ५.४४ ।।

अथाभ्युपगमप्राप्तिः सन्धाभ्युपगमाद्विना ।
अनुक्तमपि यत्रार्थादभ्युपैति यथोच्यते ।। ५.४५ ।।

किमिन्द्रियद्विषा ज्ञेयं को निराक्रियतेऽरिभिः ।
को वा गत्वरमर्थिभ्यो न यच्छति धनं लघु ।। ५.४६ ।।

किमित्ययं तु यः क्षेपः सौकर्यं दर्शयत्यसौ ।
हेतुस्त्रिलक्ष्मैव मतः काव्येष्वपि सुमेधसाम् ।। ५.४७ ।।

अन्वयव्यतिरेकौ हि केवलावर्थसिद्धये ।
यथाभितो वनाभोगं एतदस्ति महत्सरः ।
 # ४८च्दिन् ।एद्B्
कूजनात्कुररीणां च कमलानां च सौरभात् ।। ५.४८ ।।

अन्यधर्मोऽपि तत्सिद्धिं सम्बन्धेन करोत्ययम् ।
धूमादभ्रंकषात्साग्नेः प्रदेशस्यानुमामिव ।। ५.४९ ।।

अपृथक्कृतसाध्योऽपि हेतुश्चात्र प्रतीयते ।
अन्वयव्यतिरेकाभ्यां विनैवार्थगतिर्यथा ।। ५.५० ।।

दीप्रदीपा निशा जज्ञे व्यपवृत्तदिवाकरा ।
हेतुः प्रदीप्रदीपत्वं अपवृत्तौ रवेरिह ।। ५.५१ ।।

तस्यापि सुधियामिष्टा दोषाः प्रागुदितास्त्रयः ।
अज्ञानसंशयज्ञान- विपर्ययकृतो यथा ।। ५.५२ ।।

काशा हरन्ति हृदयं अमी कुसुमसौरभात् ।
अपामभ्यर्णवर्तित्वादेते ज्ञेयाः शरारयः ।। ५.५३ ।।

असौ शुक्लान्तनेत्रत्वाच्चकोर इति गृह्यताम् ।
तुल्यजातावदृष्टत्वात्साधयतचकोरताम् ।। ५.५४ ।।

उक्तस्यार्थस्य दृष्टान्तः प्रतिबिम्बनिदर्शनम् ।
ननूपमानुमैवास्तु न हेत्वनभिधानतः ।। ५.५५ ।।

साध्यसाधनयोरुक्तिरुक्तादन्यत्र नेष्यते ।
मुखं पद्ममिवेत्यत्र किं साध्यं किं च साधनम् ।। ५.५६ ।।

इति प्रयोगस्य यथा कलावपि भवानिह ।
श्रेयान्वृद्धानुशिष्टत्वात्पूर्वे कृतयुगे यथा ।। ५.५७ ।।

यत्र दृष्टान्तमात्रेण व्यज्येते साध्यसाधने ।
तमाहुः शुद्धदृष्टान्तं तन्मात्राविष्कृतेर्यथा ।। ५.५८ ।।

भरतस्त्वं दिलीपस्त्वं त्वमेवैलः पुरूरवाः ।
त्वमेव वीर प्रद्युम्नस्त्वमेव नरवाहनः ।। ५.५९ ।।

कथमेकपदेनैव व्यजेरन्नस्य ते गुणाः ।
इति प्रयुञ्जते सन्तः केचिद्विस्तरभीरवः ।। ५.६० ।।

पदमेकं वरं साधु नार्वाचीननिबन्धनम् ।
वैपरीत्याद्विपर्यासं कीर्तेरपि करोति तत् ।। ५.६१ ।।

अहृद्यमसुनिर्भेदं रसवत्त्वेऽप्यपेशलम् ।
काव्यं कपित्थमामं यत्केषांचित्तादृशं यथा ।। ५.६२ ।।

प्रजाजनश्रेष्ठवरिष्ठभूभृच्- छिरोर्चितांघ्रेः पृथुकीर्तिधिष्ण्य ।
अहिघ्नपद्मस्य जलारिधाम्नस्तवैव नान्यस्य सुतस्य वृत्तम् ।। ५.६३ ।।

अंशुमद्भिश्च मणिभिः फलनिम्नैश्च शाखिभिः ।
फुल्लैश्च कुसुमैरन्ये वाचोऽलंकुर्वते यथा ।। ५.६४ ।।

शुभमरकतपद्मरागचित्रे सफलसपल्लवभूरिचारुवृक्षे ।
बहुकुसुमविभूषिते स तस्थौ सुरमुनिसिद्धयुते सुमेरुपृष्ठे ।। ५.६५ ।।

तदेभिरङ्गैर्भूष्यन्ते भूषणोपवनस्रजः ।
वाचां वक्रार्थशब्दोक्तिरलंकाराय कल्पते ।। ५.६६ ।।

विरुद्धपदमस्वर्थं बहुपूरणमाकुलम् ।
कुर्वन्ति काव्यमपरे व्यायताभीप्सया यथा ।। ५.६७ ।।

एलातक्कोलनागस्फुटबकुललताचन्दनस्पन्दनाढ्यो मुक्ताकर्पूरचक्रागरुकमनशिलास्थासकव्याप्ततीरः ।
शङ्खव्राताकुलोऽन्तस्तिमिमकरकुलाकीर्णवीचीप्रतानो दध्रे यस्याम्बुराशिः शशिकुमुदसुधाक्षीरशुद्धां सुकीर्तिम् ।। ५.६८ ।।

इति निगदितास्तास्ता वाचामलङ्कृतयो मया बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च ।
प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे गुरुतरधियामस्वाराधं मनोऽकृतबुद्धिभिः ।। ५.६९ ।।


इति भामहालंकारे पञ्चमः परिच्छेदः