काव्यालङ्कारः/तृतीयः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← द्वितोयपरिच्छेदः काव्यालङ्कारः
तृतोयः परिच्छदः
भामहः
चतुर्थ परिच्छदः →

प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।
द्विप्रकारमुदात्तं च भेदैः श्लिष्टमपि त्रिभिः ।। ३.१ ।।

अपह्नुतिं विशेषोक्तं विरोधं तुल्ययोगिताम् ।
अप्रस्तुतप्रशंसां च व्याजस्तुतिनिदर्शने ।। ३.२ ।।

उपमारूपकं चान्यदुपमेयोपमामपि ।
सहोक्तिपरिवृत्ती च ससंदेहमनन्वयम् ।। ३.३ ।।

उत्प्रेक्षावयवं चान्ये संसृष्टिमपि चापरे ।
भाविकत्वं च निजगुरलंकारं सुमेधसः ।। ३.४ ।।

प्रेयो गृहागतं कृष्णं अवादीद्विदुरो यथा ।
अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।। ३.५ ।।

रसवद्दर्शितस्पष्ट- शृङ्गारादिरसं यथा ।
देवी समागमद्धर्म मस्करिण्यतिरोहिता ।। ३.६ ।।

ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः ।
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः ।। ३.७ ।।

पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते ।
उवाच रत्नाहरणे चैद्यं शार्ङ्गधनुर्यथा ।। ३.८ ।।

गृहेष्वध्वसु वा नान्नं भुञ्ज्महे यदधीतिनः ।
न भुञ्जते द्विजास्तच्च रसदाननिवृत्तये ।। ३.९ ।।

समाहितं राजमित्रे यथा क्षत्रिययोषिताम् ।
रामप्रसत्त्यै यान्तीनां पुरोऽदृश्यत नारदः ।। ३.१० ।।

उदात्तं शक्तिमान्रामो गुरुवाक्यानुरोधकः ।
विहायोपनतं राज्यं यथा वनमुपागतम् ।। ३.११ ।।

एतदेवापरेऽन्येन व्याख्यानेनान्यथा विदुः ।
नानारत्नादियुक्तं यत्तत्किलोदात्तमुच्यते ।। ३.१२ ।।

चाणक्यो नक्तमुपयान्नन्दक्रीडागृहं यथा ।
शशिकान्तोपलच्छन्नं विवेद पयसां कणैः ।। ३.१३ ।।

उपमानेन यत्तत्त्वं उपमेयस्य साध्यते ।
गुणक्रियाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ।। ३.१४ ।।

लक्षणं रूपकेऽपीदं लक्ष्यते काममत्र तु ।
इष्टः प्रयोगो युगपदुपमानोपमेययोः ।। ३.१५ ।।

शीकराम्भोमदसृजस्तुङ्गा जलददन्तिनः ।
इत्यत्र मेघकरिणां निर्देशः क्रियते समम् ।। ३.१६ ।।

श्लेषादेवार्थवचसोरस्य च क्रियते भिदा ।
तत्सहोक्त्युपमाहेतु- निर्देशात्त्रिविधं यथा ।। ३.१७ ।।

छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ।। ३.१८ ।।

उन्नता लोकदयिता महान्तः प्राज्यवर्षिणः ।
शमयन्ति क्षितेस्तापं सुराजानो घना इव ।। ३.१९ ।।

रत्नवत्त्वादगाधत्वात्स्वमर्यादाविलङ्घनात् ।
बहुसत्त्वाश्रयत्वाच्च सदृशस्त्वमुदन्वता ।। ३.२० ।।

अपह्नुतिरभीष्टा च किंचिदन्तर्गतोपमा ।
भूतार्थापह्नवादस्याः क्रियते चाभिधा यथा ।। ३.२१ ।।

नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः ।
अयमाकृष्यमाणस्य कन्दर्पधनुषो ध्वनिः ।। ३.२२ ।।

एकदेशस्य विगमे या गुणान्तरसंस्थितिः ।
विशेषप्रथनायासौ विशेषोक्तिर्मता यथा ।। ३.२३ ।।

स एकस्त्रीणि जयति जगन्ति कुसुमायुधः ।
हरतापि तनुं यस्य शम्भुना न हृतं बलम् ।। ३.२४ ।।

गुणस्य वा क्रियाया वा विरुद्धान्यक्रियाभिधा ।
या विशेषाभिधानाय विरोधं तं विदुर्बुधाः ।। ३.२५ ।।

उपान्तरूढोपवनच्- छायाशीतापि धूरसौ ।
विदूरदेशानपि वः सन्तापयति विद्विषः ।। ३.२६ ।।

न्यूनस्यापि विशिष्टेन गुणसाम्यविवक्षया ।
तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ।। ३.२७ ।।

शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः ।
यदलङ्घितमर्यादाश्चलन्तीं बिभृथ क्षितिम् ।। ३.२८ ।।

अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः ।
अप्रस्तुतप्रशंसेति सा चैवं कथ्यते यथा ।। ३.२९ ।।

प्रीणितप्रणयि स्वादु काले परिणतं बहु ।
विना पुरुषकारेण फलं पश्यत शाखिनाम् ।। ३.३० ।।

दूराधिकगुणस्तोत्र- व्यपदेशेन तुल्यताम् ।
किंचिद्विधित्सोर्या निन्दा व्याजस्तुतिरसौ यथा ।। ३.३१ ।।

रामः सप्ताभिनत्सालान्गिरिं क्रौञ्चं भृगूत्तमः ।
शतांशेनापि भवता किं तयोः सदृशं कृतम् ।। ३.३२ ।।

क्रिययैव विशिष्टस्य तदर्थस्योपदर्शनात् ।
ज्ञेया निदर्शना नाम यथेववतिभिर्विना ।। ३.३३ ।।

अयं मन्दद्युतिर्भास्वानस्तं प्रति यियासति ।
उदयः पतनायेति श्रीमतो बोधयन्नरान् ।। ३.३४ ।।

उपमानेन तद्भावं उपमेयस्य साधयन् ।
यां वदत्युपमामेतदुपमारूपकं यथा ।। ३.३५ ।।

समग्रगगनायाम- मानदण्डो रथाङ्गिनः ।
पादो जयति सिद्धस्त्री- मुखेन्दुनवदर्पणः ।। ३.३६ ।।

उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ।
उपमेयोपमां नाम ब्रुवते तां यथोदितम् ।। ३.३७ ।।

सुगन्धि नयनानन्दि मदिरामदपाटलम् ।
अम्भोजमिव वक्त्रं ते त्वदास्यमिव पङ्कजम् ।। ३.३८ ।।

तुल्यकाले क्रिये यत्र वस्तुद्वयसमाश्रये ।
पदेनैकेन कथ्यते सहोक्तिः सा मता यथा ।। ३.३९ ।।

हिमपाताविलदिशो गाढालिङ्गनहेतवः ।
वृद्धिमायान्ति यामिन्यः कामिनां प्रीतिभिः सह ।। ३.४० ।।

विशिष्टस्य यदादानं अन्यापोहेन वस्तुनः ।
अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ।। ३.४१ ।।

प्रदाय वित्तमर्थिभ्यः स यशोधनमाअदित ।
सतां विश्वजनीनानां इदमस्खलितं व्रतम् ।। ३.४२ ।।

उपमानेन तत्त्वं च भेदं च वदतः पुनः ।
ससन्देहं वचः स्तुत्यै ससन्देहं विदुर्यथा ।। ३.४३ ।।

किमयं शशी न स दिवा विराजते कुसुमायुधो न धनुरस्य कौसुमम् ।
इति विस्मयाद्विमृशतोऽपि मे मतिस्त्वयि वीक्षते न लभतेऽर्थनिश्चयम् ।। ३.४४ ।।

यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातस्तमित्याहुरनन्वयम् ।। ३.४५ ।।

ताम्बूलरागवलयं स्फुरद्दशनदीधिति ।
इन्दीवराभनयनं तवेव वदनं तव ।। ३.४६ ।।

श्लिष्टस्यार्थेन संयुक्तः किंचिदुत्प्रेक्षयान्वितः ।
रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ।। ३.४७ ।।

तुल्योदयावसानत्वाद्गतेऽस्तं प्रति भास्वति ।
वासाय वासरः क्लान्तो विशतीव तमोगृहम् ।। ३.४८ ।।

वरा विभूषा संसृष्टिर्बह्वलङ्कारयोगतः ।
रचिता रत्नमालेव सा चैवमुदिता यथा ।। ३.४९ ।।

गाम्भीर्यलावण्यवतोर्युवयोः प्राज्यरत्नयोः ।
सुखसेव्यो जनानां त्वं दुष्टग्राहोऽम्भसां पतिः ।। ३.५० ।।

अनलङ्कृतकान्तं ते वदनं वनजद्युति ।
निशाकृतः प्रकृत्यैव चारोः का वास्त्यलङ्कृतिः ।। ३.५१ ।।

अन्येषामपि कर्तव्या संसृष्टिरनया दिशा ।
कियदुद्घट्टितज्ञेभ्यः शक्यं कथयितुं मया ।। ३.५२ ।।

भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः ।। ३.५३ ।।

चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभिनीतता ।
शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते ।। ३.५४ ।।

आशीरपि च केषांचिदलङ्कारतया मता ।
सौहृदय्याविरोधोक्तौ प्रयोगोऽस्याश्च तद्यथा ।। ३.५५ ।।

अस्मिञ् जहीहि सुहृदि प्रणयाभ्यसूयां आश्लिष्य गाढममुमानतमादरेण ।
विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ।। ३.५६ ।।

मदान्धमातङ्गविभिन्नसाला हतप्रवीरा द्रुतभीतपौराः ।
त्वत्तेजसा दग्धसमस्तशोभा द्विषां पुरः पश्यतु राजलोकः ।। ३.५७ ।।

गिरामलङ्कारविधिः सविस्तरः स्वयं विनिश्चित्य धिया मयोदितः ।
अनेन वागर्थविदामलङ्कृता विभाति नारीव विदग्धमण्डना ।। ३.५८ ।।

इति भामहालङ्कारे तृतीयः परिच्छेदः