काव्यादर्शव्याख्या हृदयङ्गमा/तृतीयः परिच्छदः

विकिस्रोतः तः
Jump to navigation Jump to search

तृतीयपरिच्छेदः

द्वितीयपरिच्छेदे "काव्यशोभाकरान् धर्मान् अलङ्कारान् प्रचक्षते" इत्यनेन शब्दार्थालङ्कारसामान्यलक्षणमभिधाय शब्दस्य प्रथमबुद्धिविषयत्वेन प्रथमं लक्षयितुमुचितानपि शब्दालङ्कारान् अतिवैचित्र्याधायकत्वाभावात् अनिरूप्य वैचित्र्यातिशयचाधायकाः अर्थालङ्कारा एव दर्श#िताः। सम्प्रति प्रथमपरिच्छेदे प्राप्तावसरतया अनुप्रासभिन्नान् तद्विशेषान् निरूपयिष्यन् दोषलक्षणञ्चाभिधायस्यन् उक्तलक्षणमपि यमकनूद्य तद्भेदमनुवदति , अव्यपेतेति। -अव्यपेतः अव्यवहितः, व्यपेतः व्यवहितश्च, आत्मा स्वरूपं यस्यास्तथाभूता, वर्णसंहतेः स्वरव्यञ्जनस#्ङ्घातस्य, व्यावृत्तिः विशेषेण पुनरावृत्तिः यमकम्। (अस्य विशेशलक्षणं पूर्वमेवोकितमिति नात्रोक्तम्। यमकघटकपदानामव्यवहितव्यवहित्वेन भेदप्रदर्शनाय उक्तमव्यपेतेत्यादि, पूर्वोच्चारितवर्णसङ्घस्य क्वचिदव्यधान्न क्वचित् व्यवधानेन च पुनारवृत्तिरिति प्रथमं भेदद्वयम् अभिहितम्। उक्तञ्च सरस्वतीकण्ठाभरणे,-"विभिन्नार्थैकरूपाया याऽऽवृत्तिर्वर्णसंहतेः। अव्यपेतव्यपेतात्मा यमकं तन्निगद्यते।।" इति)। यमकस्य तस्य स्थीननिरूपणार्थमाह, तच्चेति। -तच्च पादानाम् एक-द्वि-त्रिचतुरात्मकानां श्लोकचरणानाम्, आदिश्च मध्यश्च अन्तस्च गोचरः विषयः यस्य तत्। झ्र्ततश्च प्रथमपादस्यादिभागगतं मध्यभागगतम् अन्तभागगतञ्चेति विभागप्रकारः, एवं द्वितीयादिपदानामपि आदिगतं मध्यगतम् अन्तगतञ्च। ततश्च पादानां खण्डड्डत्ध्;त्रयगतत्वमेव यमकस्येति स्थाननियमस्तु नाशङ्क्यः, मध्यपदेन सम्भवत्खण्डड्डत्ध्;मात्रस्य प्राप्तेः चतुरादिखण्डेड्डत्ध्;ष्वपि अस्य नियमः ज्ञातव्यः, यदुक्तं प्रकाशकारेण, -"त्रिखण्डेड्डत्ध्; तिं्रशतं चतुःखण्डेड्डत्ध्; चत्वारिंशत्" इति। एतदुपलक्षणं, तेन पादगतमपि बोध्यम् उक्तञ्च वामनेन, -"पादः पादस्यैकस्यानेकस्य चादिमध्यान्तभागाः स्थानानि" (का. सू. वृ. 4अधि. 1अ. 2सू.) इति। अत्रापि पाद इत्य#ुपलक्षणं, तेन पादः पादखण्डड्डत्ध्;ाः पद्याद्र्धं समस्तपद्यञ्च यमकस्य स्थानानीति बोध्यम्। कण्ठाभरणेऽपि, -"तदव्यपेतयमकं व्यपेतयमकन्तथा। स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते। तत्र पादादिमध्यान्ताः स्थानं तेषूपकल्पाते।।"इतिट।।1।। स्थानभेदेन यमकभेदमभिधाय पादगतं भेदं दर्सयन् क्रमेण तत्तद्भेदान् निर्दिशति, एकेत्यादि। -एकद्वित्रिचतुष्पाद यमकानाम् अविमिश्राणामिति भावः, विकल्पनाः " पादानामादिमध्यान्तगोचरम्" इत्यनेन अनन्तरमेव सामान्यत उक्ताः प्रभेदाः, ज्ञातव्या इति शेषः, पदचतुष्टयात्मकस्य पद्यस्य प्रतिपादम् आदिमध्यान्तगतत्वेन त्रिधा बिन्नस्य तस्य पुनः द्वादशविधत्वं ज्ञातव्यम् इत्यर्थः। (ते च अमिश्रयमेक एव वेदितव्याः। तथा हि, अमिश्रितं प्रथमपादादिगतं द्वितीयपादादिगतं तृतीयपादादिगतं चतुर्थपादादिगतञ्चेति चतुर्विधमादिबागयमकम्, एवं प्रथमादिपादमध्यान्तभागगतयमकमपि, ततश्च मिलित्वा द्वादशविधत्वमविमिश्रितयमकस्य इति सङ्क्षेपः। अयञ्च भेदः अव्यपेतव्यपेतसाधारणः। केचित्तु एकद्वीत्यादि श्लोकाद्र्धमेवं व्याख्यानयन्ति,तद्यथा,-"पद्यस्य चतुष्पादात्मकत्वात् प्रतिखण्डंड्डत्ध्; चत्वारश्चत्वारो भेदा ज्ञातव्या इत्थर्थः, यथा अविमिश्रितमादिभागयमकं प्रथमपाद एव द्वितीयपाद एव तृतीयपाद एव चतुर्थपाद एवेति चतुर्विधं, तथा मध्यादिभागयमकमपि प्रत्येकं चतुर्विधमिति"इति)। अभिश्रभेदं दर्शयित्वा मिश्रयमकभेदं दर्शयति, आदीति।-सम्भेदः सजातीययमकानामन्योन्यसम्मिश्रणं योनिर्येषां तादृशः विमिश्रा इत्यर्थः, तेषां यमकानां,भेदाः आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः स्थितत्वेन अत्यन्तबहवः अतिविस्तराः,ज्ञेया इति शेषः। (पदच्छेदस्तु आदिमध्यान्त मध्यान्त मध्याद्य आद्यन्त सर्वतः इत्यवंरूपेणेत्। सर्वत्र मध्यपदस्य द्वितीयतृतीयपादबोधकः, शेषमादिपादानां चतुर्थपादस्य पूवस्थितत्वेनादित्वात्; ततश्च आदिमध्यान्तेच्यत्र मध्यपदस्य द्वितीयतृतीयपादद्वयात्मकत्वात् आदिमध्यगतत्वेन द्वौ आद्यन्तगतत्वेनैकः इति मिलित्वा त्रयो भेदाः ज्ञेयाः ; ते च त्रयः प्रथमद्वितीय (आदिमध्य) पादगतत्वेन, प्रथमतृतीय (आदिमध्य) प#ादगतत्वेन, प्रथमचतुर्थ(अद्यान्त) पादगतत्वेन चेति बोद्धव्यम्। मध्यान्तेत्यत्रापि मध्यपदस्य द्वितीयतृतीयपादद्वयबोधंकत्वात्भेदत्रयमेव बोध्यम्; तद्यता, द्वितीयत-तीयपादयोः (मध्यमध्ययोः) एकः, द्वितीयचतुर्थपादयोः तृतीयचतुर्थपादयोश्च मध्यान्तत्वेन द्वौ इति मिलित्वा त्रयः प्राकारः। मध्याद्येत्यत्र द्वितीयतृतीयपादयोर्मध्यत्वात् प्रथमद्वितीयततीयपादगतत्वेनैक एव भेदः। अत्र आद्यश्च मध्यौ चेति विग्रहे धर्मार्थादिपाठात् आद्यशब्दस्य परनिपातः। आद्यन्तेत्यत्र आदिपदस्य प्रथमद्वितीयतृतीयपादपरत्वात् त्रय एव भेदाः सम्भवन्ति, यथा, प्रथमद्वितीयचतुर्थपादगतः प्रथमतृतीयचतुर्थपादगतः, द्वितीयतृतीयचतुर्थपादगतश्चेति तत् प्रकाराः। सर्वत इत्यत्र च प्रथमद्वितीयतृतीयचतुर्थपादगतत्वेनैक एव भेदः। एवं मिलित्वा व्यामिश्रयमकस्य एकादशभेदाः बोद्धव्याः, अन्ये च अस्थानस्थूलसूक्ष्मादियमकभेदाः भोजादौ द्रष्टव्याः। सर्वत इति सप्तमीबहुवचनान्तपदं, सर्वेषु पादेषु इत्यर्थः)।ते च सुकराः सुसाध्याः सुबोधाश्च, दुष्कराश्चैव दुःसाध्याः दुर्बोधाश्चैव, कवीनां बोद्धृणाञ्चेति शेषः, अतः अत्र केचन दश्र्यन्ते उदाह्रियन्ते इत्यर्थः,न तु सर्वे इति भावः। ("तेऽत्र" इत्यत्र " तत्र" इति भोजोक्तपाठः)।।2।।3।। तत्र प्रथमपादस्थमव्यवहितममिश्रम् आदिभागयमतं निर्दिशति,मानेनेति।- हे सखि!प्रिये जने प्रणयिनि, अनेन ईदृशेन, अतिप्रबलत्वादस्माकमपि पीडड्डत्ध्;ाजनकेनेति भावः, मानेन ईष्र्याकोपेन सह, ("मानः कोपः स तु द्वेधा प्रणयेष्र्यासमुद्भवः" इति लक्षणात्) प्रणयः परिचयः, तवेति शेषः, मा भूत्, प्रियजनं प्रति एतादृसं मानं मा कुरु इत्यर्थः, खण्डिड्डत्ध्;ता,-"पाश्र्वमेति प्रियो यस्या अन्यसम्भोगचिढद्धठ्ठड़14;नतः। सा खण्डिड्डत्ध्;तेति कथिता धीरैरीष्र्याकषायिता।।" इत्युक्तलक्षणा, अपि त्वमिति शेषः, कण्ठमाश्लिष्य आलिङ्ग्य, तं प्रियमेव, सत्रपं सलज्जं, कुरु, अपकारिण#ि प्रणयप्रदर्शनमेव तस्य लज्जाकरत्वात् गुरु शासनमिति भावः।( अतिमानीनीं खण्डिड्डत्ध्;तां प्रति तत्सख्या उक्तिरियम् अत्र "मानेन मानेन" इति अव्यवहितमादिदगतमादिभागयमकं, तच्च पादान्तरासढद्धठ्ठड़14;कीर्णत्वादमिश्रम्। यत्र तु पादान्तरमतत्वं तत्र मिश्रत्वमन्यत्र शुद्धत्वमिति भेदो।#़पि व्यपेताव्यपेतवत् सवयमूहनीयः इति)।।4।। द्वितीयपादगतं तदेव निर्दिशति, मेघनादेनेतिष -मदनः कामः रत्या स्वपत्न्या अनुरागेण च , सह हंसानां मदनोदिना गर्वमपनयता, मेघनादेन मेघगर्जितेन, वर्षासु हंसानां निर्मदत्वप्रसिद्धेरिति भावः, नुन्नः अपनीतः, मानो यस्मात् तथोक्तं, स्त्रीणां मनः चित्तं, विगाहते आलोडड्डत्ध्;यति व्यकुलयतीत्यर्थः, मेघगर्जनस्य उद्दीपकत्वात् वर्षासु प्रमदानां मनः सानुरागं सकामञ्च भवतीति भावः। (अत्र"मदनो मदनो" इति द्वितीयपादगतमविमिश्रमव्यवहितमादिभागयमकम्)।।5।। तृतीयपादगतं तदेवोदाहरति, राजन्वत्य इति। -चतुरम्भोधिरसनायाः चत्वारः अम्भोधयः सागरा एव, रसनाः काञ्चीदामान्, कटीभूषणविशेषा इत्यर्थः, यस्याः तस्याः, चतुःसागरपरिच्छिन्नाया इति यावत्, उव्र्याः पृथिव्याः, करग्रहे षष्ठांशरूपराजग्राह्यभागग्रहणे पाणिग्रहे च, चतुरम् निपुणम्,आसमुद्रकरग्राहिणमित्यर्थः, भवन्तं सत्पतिं सुरक्षकं सुभत्र्तारञ्च, प्राप्य प्रजाः राजन्वत्यः सुनृपतियुक्ताः, ("सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान्" इत्यमरः) जाताः। (अत्र" चतुरं चतुरम्" इति तृतीयपादगतमव्यवहितमादिभागयमकं शिद्धम्)।।6।। चतुर्थपादगतं तदेव निर्द्दिशति, अपण्यमिति। -तव कैश्चित् अहितैः शत्रुभिः, पलायित्वा जीवद्भिरिति भावः, पदातिरथनागाश्वरहितैः चतुरङ्गबलाविहीनैः सद्भिरित्यर्थः, ("हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्" इत्यमरः) अरण्यं, पलायित्वा जीवितां लोकालये अवस्थानासम्भवादिति भावः, तथा केश्चिच्च अहितैः, सम्मुखसङ्ग्रामेण मृतैरिति भावः, (अत्रापि पदात्यादिरहितैरिति योजनीयम्) दिवौकसां सद्म सुरलोकः, आक्रान्तम् आश्रितमित्यर्थः, युद्धे मरणस्य स्वर्गप्रापकत्वादिति भावः, ("हती वा प्राप्सासि स्वर्गं जित्वा वा भोक्ष्यसे महीम्" इति गीतायां भगवदुक्तेः। अत्र "रहितैरहितै" इति चतुर्थपादगतमव्यवहितममिश्रमादिभागयमकम)।।7।। अथ सम्बेदयोनीनव्यपेतयमकभेदान् विवरीतमादिमध्यान्तेत्यादिनोक्तं प्रथमद्वितीय-प्रथमतृतीय-प्रथमचतुर्थपादगतभेदत्रयेषु आदौ प्रथमद्वितीय(आदिमध्य) पादगतमादिमागमयमकमुदाहरति, मधुरमिति।- हे अम्भोजवदने! पद्ममुखि! मधुः वसन्तः, ते तव, नेत्रयोः भ्रमरभ्रान्त्या भ्रमपाव#िमौ इति भ्रमेण, मुखाम्बोजोपरि नेत्रयोर्वत्र्तमानत्वात् अम्भोजो भ्रमरयुगलावस्थानस्य सम्भवाच्च भ्रमो युज्यते इति भावः, मधुरं विभ्रमं शोभां, विडड्डत्ध्;म्बयति, विशेषेण प्रेरयति, समर्पयतीत्यर्थः, ("डड्डत्ध्;न्व प्रेरणे"इत्यस्य चौरादिकस्य रीपम्) नु इतचि वितर्के, किम्? वद कथय; नेत्रयोस्ते ईदृशो विभ्रमः भ्रमरभ्रान्तिमता वसन्तेनैव किं समुत्पादितः? इति भावः। (वसन्तोदये ममुत्पन्ने अम्भोजे भ्रमरविलाससम्भवात् नु इति वितर्कबोधकं पदमत्र युज्यत एव। केचित्ति अम्भोजवदने इति सप्तम्यन्तमुक्तवा तत्र वत्र्तमानयोर्नेत्रयोरिति योजयन्ति। "नु" इत्यत्र "न" इति पाठे-न बिडड्डत्ध्;म्बयति किम्? अपि तु विडड्डत्ध्;म्बयत्येव्त्यर्थः। अत्र "मधुरं मधुरम्" इति "वदने वदने" इति च यमकघटकपदानां प्रथमद्वितीय (आदिमध्य) पादयोरादिभागस्थिततया आदिभागलक्षणं, पादद्वयमिश्रणाच्च मिश्रसंज्ञकं, तथा पदानामव्यवधानातया अव्यपेतं ततश्चेदं प्रथमद्वितीय (आदिमध्य) पादगतमिश्राव्यपेतादिभागयमकम्)।।8।। तदेव प्रथमतृतीय(आदिमध्य) पादगतमुदाहरति, वारण इति। -हे स्मर! यतः यस्मात्, तव रणोद्दामो युद्धदुर्मदः, वारणः हस्ती वा, दुद्र्धरः दुद्र्धर्षः, हयः अश्वो वा,न, अस्तीति शेषः, तत् तस्मात् युद्धोपकरणाभावादपीत्यर्थः, नः अस्मान्, विरहिणः इत्यर्तः, अन्तं नाशं नयतः प्रापयतः, तव विक्रमः अहो आश्चय्र्यभूत इत्यर्थः। (अत्र "वारमो वारणो" "नयतो नयतो" इति यमकघटकपदानां प्रथमतृतीय (आदिमध्य) पादयोरादिगतत्वात् प्रथम्तृतीय (आदिमध्य) पादगतं मिश्रमव्यवहितमादिभागयमकमिति बोध्यम्)।।9।। तदेव प्रथमचतुर्थ (आद्यन्त) पादगतमुदाहरति, रजितैरिति। -आजिः युद्धं, तत्र तैक्ष्णेतया, युद्धदुर्मदत्वेन इत्यर्थः, राजितैः शोभितैः, त्वादृशैः भवादृशैः, नृपैः वसुधा पृथिवी, तत्रत्यो जन इति भावः, जीयते जयेन आदौ वशीक्रियते, युद्धव्यापारेण पौडड्डत्ध्;्यते इति भावः, पुनः जयानन्तरमित्यर्थः, वसुधारया वसकूनां धनानां, धारया धारावर्षणेन, अविरतदानेनेत्यर्थः, तृÏप्त सन्तोषं, नीयते च। (अत्र "राजितै राजितै"" वसुधा वसुधा" इति च यमकघटकपदानां प्रथमचतुर्थ (आद्यन्त) पादयोरादिगतत्वात् पादद्वयमिश्रणात् अव्यवधाननिशाच्च प्रथमचतुर्थ (आद्यन्त) पादगतं मिश्रमव्यहितमादिभागयमकमिति संज्ञा ज्ञातव्या। मधुरमित्यादिना क्रमेण आदिमध्यन्तेत्यनेन निरूपितास्त्रयो भेदा उदाहृताः)।।10।। इत्थमादिमध्यान्तभेदं दर्शयति मध्यान्तेत्यनेन प्रतिपादितं मध्यमध्यं मध्यान्तं मध्यान्तञ्चेति तस्य प्रकारत्रयं कत्रमेण दर्शयन् प्रथमं द्वितीयतृतीय (मध्यमध्य) पादगतमव्यपेतादिभागयमकमुदाहरति, करोतीति। -सहकारस्य आम्रस्य, कलिका मुकुलं, तथामन्मनः,- "सुरते कर्णम#ूले तु निजदेशीयभाषया। दम्पत्योः कथनं यत्तु मन्मनं तं पर्चक्षते।।" इत्युक्तलक्षणः कर्णमूले रहस्यालापः, इवेति अध्याहाय्र्यम्; एष मत्तानां वसन्तागमनेन उन्मदानां, कोकिलानां निस्वनोऽपि, मन्मनः मम मानसम्, उत्कलिकोत्तरम् उत्कण्ठाकुलमित्यर्थः, करोति, आम्रकलिकाय#ा#ः कोकिलालापस्य च अतीवोद्दीपकत्वादिति भावः। (विरहिण उक्तिरियम्। अत्र "कलिको कलिको""मन्मनो मन्मनो"इति यमकघटकपदानां द्वितीयतृतीयपादादिगतत्वेन द्वितीयतृतीयपादयोश्च मध्यत्वेनाभिधानात् द्वितीयतृतीय (मध्यमध्य) पादगतमव्यपेतादिभागयमकं पादद्वयमिश्रणाच्च मिश्रमित्यवधेयम्। किञ्च "कलिकोत्कलिका" इतियत्र तकारस्य मध्यपातित्वेऽपि स्वशून्यत्वात् श्लोकीयाक्षरसङ्ख्याऽपूरकतया व्यवधानमध्ये अगणनात् यमकस्य न अव्यपेतत्वहानि), सस्वरस्यैव व्यञ्जनस्य व्यवधायकत्वाभ्युपगमात् इति बोध्यम्)।।11।। तदेव द्वितीयचतुर्थ(मध्यान्त) पादगतमुदाहरति, कथमिति। -इह अस्मिन् प्रदेशे, तव उपलम्भः प्राप्तिः, तस्य आशा प्रत्याशा, तस्याः विहतौ विनाशें, अङ्गनाशिनी शरीरनिकृन्तनी, तादृशी अनुभूयमाना, अवस्था स्मरदशाविशेषः, अङ्गनाम् अबलां, मामिति शेषः, आरोढुम् आक्रमितुं, कथं न अलं न समर्था? अपि तु समर्था एव, त्वद्विरहे अहं मृतप्राया जाताऽस्मीति तात्पय्र्यार्थः। (अत्र "विहता विहता""मङ्गनामङ्गना" इति यमकघटकपदानां द्वितीय चतुर्थपादादिगतत्वेन द्वितीयपादस्य मध्यत्वाच्चतुर्थपादस्य अन्तत्वाच्च द्वितीयचतुर्थ (मध्यान्त) पादगतं मिश्रमव्यवहितमादिभागयमकम्। केचदिमं युक्पादयमकमाहुः; तल्लक्षणं यथा, -"द्वितीये च चतुर्थे च यमकं यत्र दृश्यते। युक्पादयमकं तत्तु विज्ञेयं कविपुङ्गवैः।।" इति। उदाहरणान्तरं यथा भट्टिकाव्ये, -"रणपण्डिड्डत्ध्;तोऽग्र्यविबुधारिपुरे कलहं स राममहितः कृतवान्। ज्वलदग्नि रावणगृहञ्च बलात् कलहंसराममहितः कृतवान्।।"इति)।।12।। तदेव तृतीयचतुर्थ (मध्यान्त)पादगतमुदाहरति, निगृह्येति। -नलिनेषु पद्मेशु, उनमुखाः पतनाभिमुखाः, आलिनः भ्रमराः बालपल्लवैः नवपल्लवैः, शोभते इति तथोक्तेन, तरुणा यूनः, नेत्रे निगृह्य बलेन गृहित्वा, कर्षन्ति, निजदर्शनोत्सुकनयनान् कुर्वन्तीत्यर्थ। (अत्र "तरुणा तरुणा" "नलिनो नलिनो"इति पदानां तृतीयचतुर्थपादादिगततया तृतीयपादस्य मध्यत्वेन चतुर्थपादस्य अन्तत्वेन च तथा पादद्वयमिश्रणाजिलक्षणतया च तृतीचतुर्थ (मध्यान्त) पादगतमव्यवहितमिश्रादिभागयमकम्। ततश्च मध्यान्तत्वेन निरूपितं प्रकारत्रयमेवोदाहृतं भवति इति दिक्)।।13।। मध्याद्येत्यनेन, प्रतिपादितं प्रथमाद्वितीयतृतीयपादगतमेकप्रकारमाह, विशदेति। - विशन्तः प्रवेशं कुर्वन्तः, आमत्ताः उन्मदाः, सारसाः जलपक्षिविशेष यस्मिन् तादृसे, सारसे जले सरोवरजले, विशदा शुभ्रवर्णा, इयं हंसी राजहंसीत्यर्थः, कुरुतेन कुत्सितरवेण, रवस्य कुत्सितत्वमुद्दिपकत्वेन विरहिणामसह्यत्वात् इति भावः, मां विरहिणमिति यावत्, अन्तकस्य यमस्य, आमिषं भोग्यवस्तु, ("आमिषं पुंनपुंसकम् भोग्यवस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च" इति मेदिनी)। कुरुते मां हन्तुं यतते इत्यर्थः। (अत्र विशदा विशदा" "सारसे सारसे" "कुरुते कुरुते" इति पदानां प्रथमाद्वितीयतृतीयपादागतत्वेन द्वितीयतृतीयपादयोर्मध्यत्वेन च प्रथमद्वितीयतृतीय (मध्याद्य) पादगतं मिश्रमव्यवहितमादिभगायमकम्; तच्चैकविधमेवेति बोध्यम्)।।14।। आद्यन्तेयतनेन निरूपितं भेदत्रयं क्रमेण दर्शयन् प्रथमं प्रथमद्वितीयटचतुर्थ (आद्यन्त) पादगतमुदाहरणेन स्फुटयति, विषममिति। -अपोढमलया परित्यक्तमालिन्यया, हिमात्ययादिति भावः, इन्दुकलया चन्द्रखण्डेड्डत्ध्;न सह, मलयानिलः मदनन्दनः मां विरहिणं न नन्दयतीति तथोक्तः मदप्रीत#िजननः सन् इत्यर्थः, विषमम् असह्यं, विषं विषरूपं, मदनं कामम्, अन्वेति अनिगच्छति, उद्दीपयतीत्यर्थः, इन्दुकलामलयानिलयोः कामोद्दीपकत्वेम विरहिपीडड्डत्ध्;कत्वादिति भावः। (अत्र "विषम विषम" "मदन मदन" "मलया मलया" इति पदानां प्रथमद्वितीयचतुर्थपाददिगततया प्रथमद्वितीययोराद#्यत्वेन चतिर्थस्य पादस्यान्तत्वेन च प्रथमद्वितीयचतुर्थ (आद्यन्त) पादगतं मिश्रमव्यवहितमादिङागयमकम्। "विषमं विषमन्वेति" इत्यत्रयाम्यमानपदयोरेकस्य सानुस्वारत्वेन असन्तोषश्चेत् "विषमं विषमं क्ष्णौति" इति प्रथमपादः पठनीयः। द्वितीयविषममित्यस्य वषेण मा उपमा यस्य इति व्युत्पत्त्या विषसदृशमित्यर्थः। क्ष्णौति तीक्ष्णं करोति" इति केचित् पठन्ति)।।15।। प्रथमतृतीयचतुर्थ (आद्यन्तः पादगतं तदेव उदाहरति, मानिनौति। -हे अनङ्ग! मा मां, ते तव, निषङ्गत्वं तूणत्वम्, अनवरतशरसम्पातेन तदाधारत्वमिति भावः, निनीषुः प्रापयितुमिच्छ, तथा हारिणी हारालङ्कारभूषिता, अत एव हारिणौ मनोहारिणी, मानिनी मानवती इयं नारी, तनुतां क्षीणतां, यतः गच्छतः, प्राप्नुवतः इत्यर्थः, एतत्कृतप्रत्याख्यानजनितदचिन्तया इति भावः, मे मम, शर्म सुखं, तनुतां विदधातु इत्यर्थः, यथेयं मानिनी मानं विहाय मामाश्रयति तथा अनुग्रहः काय्र्य इति भावः। (अत्र "मानिनी मानिनी" "हारिणी हारिणी" "तनुतां तनुतां" इति पदाना#ं प्रथमतृतीयचतुर्थपादादिगततया तृतीयपादस्यापि आदित्वेम चतुर्थपादस्यान्तत्वेन च प्रथमतृतीयचतुर्थपादादिगततया तृतीयपादस्यापि आदित्वेन चतुर्थपादस्यान्तत्वेन च प्रथमातृतीयचतुर्थ (आद्यन्त) पादगतं मिश्रमव्यवहितमादिभागयमकम्)।।16।। द्वितीयतृतीयचतुर्थ (आद्यन्त) पादगतं तदेवोदाहरति, जयतेति। -हे मत्प्रिये!ममप्रेयसि! अस्मान् जयता वशीकुर्वता, तव मुखेन कं जलम्,अलंकुर्वत् शोभयत्, तथा अलिमद्दलि अलिमन्ति भ्रमरयुक्तानि, दलानि पत्राणि अस्य सन्तीति तथाभूतं, कमलं पद्मम्, अकथं कथारहितं, निर्विवादं यथा तथा इत्यर्थः, यद्वा, -अकथमिति कमलविशेषणत्वेन योजनीयं, कथारहितमित्यर्थः, कथनाक्षमत्वादचेतनमिति भावः, कथं किं, न जितम्? अपि तु जितमेवेत्यर्तः, अस्मातं चेतनानामपि जयिना ते मुखेन अचेतनानि तादृशानि कमलानि जितनीति का कथेति भावः। (अत्र "नकथं नकथं" "कमलंकमलं" "दलिमत् दलिमत्" इति यमकघटकपदानां द्वितीयतृतीयचतुर्थ (आद्यन्त) पादादिगतत्वात् द्वितीयतृतीयपादयोरादित्वेनाभिधानाच्च द्वितीयतृतीयचतुर्थ (आद्यन्त) पादगतं मिश्रमव्यवहितमादिभागयमकम्। एवञ्च आद्यन्तेत्यनेनाभिहितदास्त्रयः भेदाः उदाहरणेन दर्शिताः)।।17।। तदेव सर्वतः इत्यनेन प्रतिपादितं चतुष्पादगतमुदाहरति, रमणीति। - पाटलावत् तदाख्यतरुकुसुमवत्, पाटलं श्वेतरक्तम्, अंशुकं वसनं यस्याः तादृशी, तथा सौरभास्पदं सौरभस्य सौगन्ध्यस्य, आस्पदं स्थानं शोभनगन्धि इत्यर्थ, पद्मिनीजातीयेति भावः, रमणी काचितं कान्ता, अरुणीभ#ूता आरक्तीभूता, सौरी सूय्र्यसम्बन्धिनी, भा दीप्तिर्यस्याः तथाभूता, वारुणीव सुरेव, मे मम रमणीया रतिप्रिया, भवत्विति शेषः। (अत्र "रमणी रमणी" "पाटला पाटला" " वारुणी वारुणी"" सौरभा सौरभा " इति यम्यमानपदानां सर्वपादगतत्वात् प्रथमाद्वितीयतृतीयचतुर्थ (सर्व) पादगतं मिंश्रमव्यवहितमादितमादिभागयमकम्। इत्थमादिमध्यान्तेत्यादिना निरूपतस्याव्यपेतादिभागयमकस्यैकादसप्रकाराः उदाहरणै र्दर्शिताः)।।18।। इतीति। -इति उक्तरूपेण, अव्यपेतम् अव्यवहितं, पादादिगतं यमकं विकल्पितं सप्रभेदम् उदाहृतम्। तस्य पूर्वोक्तस्य व्यपेतस्य व्यवहितस्यच यमकस्य केचन विकल्पाः भेदाः क्रमप्राप्ताः वण्र्यन्ते।।19।। अव्यपेतपाददिभागयमकं दर्शयित्वा व्यपेतादिभागयमकस्य एकस्मिन् पादे असम्भवत्वात् आदौ प्रथमद्वितीयपादगतं तत् उदाहरति, मधुरिति। -मधुर्वसन्तः, मधुरेण मनोहरेण, सुगन्दिना सहकारोद्रमेनैव आम्रमुकुलोदयेनैव उद्रताम्रमुकुलेनवेत्यर्थः, एणदृशं हरिणाक्षीणा, मानम् ईष्र्य#ाकोपं प्रणयकोपं वा, शब्दशेषं मानेति शब्दमात्रावशिष्टं, करिष्यति, न तु अर्थतो रक्षिष्यतीति भावः। (अत्र "मधुरेण मधुरेण" इति प्रथमद्वितीयपादादिगतयमकघटकपदयोः "दृशां मानम्" इति पदद्वयेन व्यवहितत्वात् प्रथमाद्वितीयपादगतं व्यवहितं मिश्रमादिभागयमकम्)।।20।। तदेव प्रथमतृतीयपादगतमुदाहरति, कर इति।-रामाणां रमणीनाम्, अतिताम्रः अतिरक्तः, करः पाणिः, तन्त्रोताडड्डत्ध्;नविभ्रमं वीणावादनरूपं सविलासं कम्र्म, तथा कान्ते प्रणयिनि, सापराधे इति भावः, सेष्र्यम् ईष्र्याकोपसहितं यथा तथा, श्रवणोत्पलताडड्डत्ध्;नञ्च कर्मोत्पलाभ्यां प्रहारमपि, करोति। (अत्र "करोति करोति" इति प्रथमतृतीयपादादिगतत्वात् व्यवहितमिति व्यपेतयमकलक्षणसमन्वयः, ततश्च पूर्ववत् प्रथमतृतीयपादगतं व्यवहितं मिश्रम् आदिभागयमकमिति ज्ञेयम्)।।21।। तदेव प्रथमचतुर्थपादगतमुदाहरति, सकलापेति। -वातैः नर्त्तिता चालिता इत्यर्थः, सकला मेघाली घनश्रेणी, अपः जलानि, विमुञ्चति वर्षति, अनु पश्चात्, अनन्तरमेव इत्यर्थः, सकलापोल्लसनया कलापस्य पिच्छस्य, उल्लसनेन विस्तारीकरणेन सह वत्र्तमानया, कलापिन्या मयूय्र्या, नृत्यते। (वर्षावर्णनमिदम्। अत्र "सकलापो सकलापो" इति यमकपदयोः प्रथमचतुर्थपादादिगतत्वेन व्यवहिततया प्रथमचतुर्थपादगतं मिश्रं व्यवहितमादिभागयमकम्)।।22।। तदेव द्वितीयतृतीयपादगतमुदाहरति, स्वयमिति। -हे कामिनि। स्वयमेव कान्तानुनयं विनैव, गलन् अपगच्छन्, मानरूपः, कलिः कलहः यस्मात् तादृसं, ते तव, मनः इह वर्षासु इत्यर्थः, नीपस्य कदम्बस्य, कलिकां कोरकं, दृष्ट्वा कां दशाम् अवस्थां, न स्पृशेत्? अपि तु सर्वामेव स्मरदशां गमिष्यतीत्यर्थः, वर्षासु अतिकोमलत्वात् धैर्य्यविरहितं ते मनः विरहे कथं सान्त्वयिष्यसीति भावः। (अत्र "कलिकामि कलिकामि" इति यमकपदयोः द्वितीयतृतीयपादादिगतत्वेन व्यवधानात् द्वितीयतृतीयपादगतं मिश्रं व्यवहितम् आदिभागयमकमिति बोध्यम्)।।23।। तदेव द्वितीयचतुर्थपादगतमुदाहरति, आरिह्येति। - आक्रीडेड्डत्ध्; उद्याने, यः शैलः क्रीडड्डत्ध्;ापर्वतः तस्य, इमां चन्द्रकान्तमणिविशेषनिर्मितां स्थलीं स्थानम्, आरुह्य एष शिखाबलः मयूरः, चलन् इतस्ततो गच्छन्, ("लसत्" इति पाठान्तरम्) चारुः मनोज्ञः, यः चन्द्रकः मेचकः, तेन अन्तः रमणीयः, मनोहरः सन् इत्यर्थः, यद्वा,-चारुचन्द्रकस्य अन्तः प्रान्तदेशो यस्य तादृसः सन्, नृत्यति। (अत्रह "चन्द्रकान्त चन्द्रकान्त" इति यमकपदयोः द्वितीयचतुर्थपादादिगतत्वेन व्यवधानमिति द्वितीयचतुर्थपादगतं मिश्रं व्यवहितम् आदिभागयमकमं ज्ञेयम्)।।24।। तृतीयचतुर्थपादगतं तदिदहरति, उद्धृत्येति। - हे राजन्! या असौ उर्वी पृथिवी, वराहेण शूकरमूर्त्तिना भगवता विष्णुना, उद्धृता एकार्णवादुत्थापिता सती, वराहेः श्रेष्ठमागस्य वासुकेः, उपरि स्थिता, पुरा इति शेषः, अद्य सम्प्रति, ते तव, भुजेन सा उर्वी राजकात् राजसमूहात्, उद्धृत्य ध्रियते। (अत्र "वराहे वराहे" इति यमकपदयोः तृतीयचतुर्थपादादिगतत्वेन व्यवधानतया तृतीयचतुरिथपादगतं मिश्रं व्यवहितमादिभागयमकम्)।।25।। प्रथमद्वितीयतृतीयपादगतं तदेवोदाहरति, करेणेति। -हे राजन्! रणेषु द्विषतां शत्रुणाम्, अन्तकरेण विनाशकेन, ते तव, करेण हस्तेन, हताः ताडिड्डत्ध्;ताः, अत एव क्षरद्रक्ताः रक्तस्रविणः, करेणवः गजेन्द्राः, ("करेणुरुभ्यां स्त्री नेभे" इत्यमरः) सन्ध्याघना इव सायन्तनमेघा इव, भान्ति शोभन्ते। (अत्र "करेण करेण करेण" इति यमकपदानां प्रथमद्वितीयतृतीयपादादिगतत्वेन व्यपेततया प्रथमद्वितीयतृतीयपादगतं मिश्रं व्यवहितमादिभागयमकम्)।।26।। तदेव प्रथमतृतीयचतुर्थपादगतमुदाहरति, परागेति।-हे राजन्! वातैः ध्वस्ता निक्षिप्ता, उत्पाटिता इत्यर्थ-, अगस्य पर्वतस्य, तरुराजीव वृक्षश्रेणीव, भटैः सैनिकैः, तव इति शेषः, परा शत्रुपक्षीया, चमूः सेना, ध्वस्ता नाशिता, (अकम्र्मकस्यापि ध्वंसधातोरन्तर्भतण्यर्थत्वात् सकम्र्मकत्वमत्र विवक्षणीयम्) अतश्च परागैः रजोभि), ध्वंसावशिष्टानां पलायमपराणा शत्रुसैनिकानां पदोत्थापितरेणुभिरित्यर्थः, ततं व्यप्तम्, अम्बरमाकाशं, क्वापि कुत्रापि देशान्तरे, परागतमिव पलायितमिव, धूलिभिरम्बरतलस्यादृश्यत्वादिति भावः। (अत्र "परागत परागत परागत" इति यमकरदानां प्रथमतृतीयचतुर्थपादादिगतत्वेन व्यवहिततया प्रथमतृतीयचतुर्थपादगतं मिश्रं व्यवहितमादि-भागयमकम्)।।27।। तदेव द्वितीयतृतीयचतुर्थपादगतमुदाहरति, पात्विति। -नवघनद्युतिः नवीनमेघश्यामः, दानवकुलध्वंसी दैत्यवंशघाती, सदानः समदः, यः वरदन्ती श्रेष्ठहस्ती, कुवलयापीडड्डत्ध्;ाक्यः इति भावः, तं हतवान् इतचि तथोक्तः सदानवरदन्तिहा, सः प्रसिद्धः, भगवान् विष्णुः वः युष्मान्, सदा पात#ु। (अत्र"सदानव सदानव सदानव" इति यमकपदानां द्वितीयतृतीयचतुर्थपादादिगतत्वेन व्यपेततया द्वितीयतृतीयचतुर्थपादागतं मिश्रं व्यवहितमादिभागयमकम्)।।28।। तदेव सर्वपादगतमुदाहरति, कमितिष -हे प्रिये! ते तव, कं शिरः, ("कं वारिश्रसोः" इति शाश्वतः) अलेः भ्रमरस्य, समाः सदृशाः, निविडड्डत्ध्;कृष्णा इति भावः, केशा यत्र तादृसं, तथा मुकं कमलेष्र्याकरं कमलस्य द्वेषकरं, पद्मविजयीत्यर्थः, अतस्त्वं कमलेव ल7#्मीरिव, कं जनम्, उन्मदिष्णुषु उन्मत्तेषु मध्ये, अलेख्यम् अगण्यं, करोषि? अपि तु सर्वानेव उन्मादयसीति भावः। ( अत्र "कमले" इति यमकघटकपदस्य सर्वपादादिस्थत्वात् व्यवहितत्वाच्च सर्वपादगतं मिश्रं व्यवहितमादिभागयमकम्)।।29।। एवमव्यपेतव्यपेतयोर्भेदमुदाहृत्य सम्प्रति व्यपेतस्यव सजातीयविजातीयत्वेन प्रकारभेदं दर्शयितुं प्रथमं प्रथमद्वितीययोरेकविधं तृतीयचतुर्थयोश्चान्यविधं तदिदाहरति, मुदाति। -उदाराः उत्कृष्टाः, मणयः रत्नानि, भूषणम्; उदाराणि बहुमूल्यानि, मणिभूषणानि रत्नाभरणानि इत#ि वा, यासां ताः, मदेन मद्यपानजेन सौभाग्यादिजन्यविकारविशेषेण वा, भ्रमन्त्यः घूर्णन्त्यः, दृशो नयनानि यासां तथोक्तः, तथा अदभ्रं विशालं , जघनं यासां तथाभूताः, प्रमदाः इति शेषः, ("जघनाः" इत्यत्र "मन्मथा" "मनसः" इति वा पाठकल्पाना सङ्गता,प्रथमद्वितीयपादयोः चतुरक्षरघटितयमकवत्तया अत्रापि तदौचित्यात्) मुदा हर्षेण, रमणं प्रियम्, अन्वीतम् अनुगतम्, अधीनमीत्यर्थः, रमणं मुदा अन्वीतं हर्षयुक्तमिति वा, कत्र्तुं क्षमाः शक्ताः। (अत्र प्रथमद्वितीयपादादौ "मुदारम मुदारम" इति तृतीयचतुर्थपादादौ च "मदभ्र मदभ्र" इति यमकघटकपदाना#ं विजातीयत्वेन व्यवहितत्वेन च निर्देशात् प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च विजातीयं मिश्रं व्यवहितमादिभागयमकम्)।।30।। प्रागक्तप्रकारमेव प्रथमतृतीययोरेकविधं द्वितीयचतुर्थयोश्चान्यविधमुदाहरति, उदितैरिति।-हे दूति! अन्यपुष्टानां कीकिलानाम्, उदितैः उत्थितैः, आरुतैः आकूजितैः, समन्तात् उद्रझङ्कारैरित्यर्थः, तथा ते तव, उदितैः कथितैरपि, प्रियाक्लेशसूचकैर्वचनैरपीत्यर्थः, तथा दक्षिणैः मारुतैः मलयानिलैरपि, मे मम, मनः हतं व्यथितमित्यर्थः। (अत्र प्रथमतृतीयपादादौ "उदितै उदितै" इति द्वितीयचतुर्थपादादौ च "मारुतै मारुतै" इति यम्यमानपदानां विजातीयत्वात् पादादिबागस्थात्वात् व्यवहितत्वाञ्च प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च विजातीयं मिश्रंव्यवहितमादि- भागयमकम्)।।31।। प्रागुक्तमेव प्रथमचतुर्थपादयोरेकविधं द्वितीयतृतीययोश्चान्यविधमुदाहरति, सुरेति। - तनु क्षीणं, मध्यं कटिदेशः यासां ताः, क्षरद्भिः सात्त्विकभावोदयेन गलद्भिः, स्वेदैः घर्मोदविन्दुभिः, सुराजिताः सुशोभिताः, मुखेन्दवः मुखचन्द्रा यासां तादृश्यः, स्त्रियः कामिन्यः, सुरया मद्यपानेन, जिता- पराभूताः, अपगता इति यावत्, ह्रोर्लज्जा यासां तथाभूताः सत्यः, यूनां तरुणानां, तनुं शरीरम्, अध्यासतचे अधितिष्ठति। (अत्र प्रथमचतुर्थपादादौ "सुराजित सुराजित" इति द्वितीयतृतीयपादादौ च "तनुमध्या तनुमध्या" इति यमकघटककपादानां विजातीयत्वात् व्यवहितत्वाच्च प्रथमचतुर्थयोर्द्वितीयतृतीययोश्च विजातीयं मिश्रं व्यवहितमादिभाग- यमकम्)।।32।। प्राक् अव्यपेतं व्यपेतञ्च यमकं पृथक् उदाहृत्य सम्प्रति तयोरेकत्रमिश्रणात् अपरान् भेदान् दर्शयन्नाह, इतीति।- इति उक्तप्रकारेणम, एषः व्यपेतानां व्यवहितानां, यमकानां प्रभेदो।ञपि (अपिकारेण प्राक् अव्यपेतयमकप्रभेदः दर्शित इति समुच्चीयते) दर्शितः उदाहृतः; अव#्यपेतः अव्यवहितः व्यपेतः व्यवहितश्च, आत्मा स्वरूपं यस्य तादृसः, उभयमिश्र इत्यर्थः, विकल्पः प्रभेदः अपि, अस्ति। तत् यथेति उदाहरणार्थम्।।33।। तत्र प्रथमद्वितीयपादे एकविदं तृतीयचतुर्थपादे चान्यविधमव्यपेतव्यपेतात्मकमादिभागयमकमुदाहरति, सेति। -सा आली मम सखी, स#ालम्बा आलम्बेन सम्यक् लम्बमानत्वेन सह वत्र्तमानाः, लम्बमाना इत्यर्थः, याः कलिकाः कोरकाः, ताः सलति चलति, आन्दोलते इत्यर्थः, यस्य तादृशं, यद्वा,-ताभिः सलति शोभते इति तथोक्तं, सालं वृक्षमात्रं सर्जवृक्षं वा, ("सालः पादपमात्रेऽपि प्राकारे सर्जपादपे" इति मेद#ीनी) वीक्षितुं द्रष्टुं, न अलं न शक्ता, कलिकायाः उद्दीपकत्वादिति भावः, तथा आलीनवकुलान् आलीनाः सम्यक्तया आश्रिता इत्यर्थः, वकुलाः वकुलवृक्षा यैस्तथाविधान् वकुलसक्तान् इत्यर्थः, (आलीयन्ते अत्र इति अधिकरेण क्त-प्रत्ययः) अलीन् भ्रमरान्, अपीति शेषः, न, वीक्षितुम् अलमिति पूर्वतो योजनीयम्; तथा अलीकं मिथ्यवाक्यं, विद्यते यासां तादृशीः अलीकिनीरपि मिथ्यावादिनीरपि, प्रियस्ते आगमिष्यत्यचिरेणेत्यादिना मिथ्यावचनेन सान्त्वयन्तीरपि इतिबावः, सखीरिति शेषः, न, वीक्षितुम् अलम् इति अत्रापि पूरणीयम्। (विदेशस्य नायकं प्रति नायिकाप्रेरिताया दूत्या उक्तिरियम्। अत्र प्रथमद्वितीयपादादौ "सालं सालं सालं सालं" तृतीयटचतुर्थपादादौ च "नाली नाली नाली नाली" इति यम्यमानपदानाम् अव्यवधानत्वेनाव्यपेतत्वं, तथा मध्ये "वकलिका" "नवकुला" इत्यक्षराणां व्यवधानत्येन व्यपेतत्वच्चेति उभयात्मकं, पादान#ामादिगतत्वाच्चादिभागसंख्यकं, पूर्वाद्र्धापेक्षया पराद्र्धस्य विभिद्यतया च विजातीयत्वमिति प्रथमद्वितीयपादगतं तृतीयचतुर्थपादगतश्च उभयात्मकं विजातीयमिश्रादिभागयमकमिति बोध्यम्)।।34।। तदेव प्रथमचतुर्थपादयोरेकविधं द्वितीयतृतीययोश्चान्यविधमुदाहरति, कालमिति। -का, विरहिणी रमणीति शेषः, अनालक्ष्य मेघाच्छन्नत्वाददृश्याः, तारा महत्वः, समुज्ज्वलाइत्यर्थः, तारका न7त्रापि यत्र तथोक्तं, तथा तारतया अत्युञ्चत्वेन, अरम्याणि श्रोत्रविरसानि, रसितानिमेघगर्जितानि यस्मिन् तादृशं, तथा कालाः कृष्णवर्णाः, महन्तः प्रगाढाः, घना मेघा यस्मिन् तथाभूतं, कालं विरहिणां प्राणनाशकत्वात् यमस्वरूपं, कालं वर्षाकालम् इक्षितुं द्रष्टुम्, अलं समर्था? न काऽपीत्यर्थः। (अत्र प्रथमचतुर्थपादादौ "कालं कालं कालं कालम्"इति द्व#ितीयतृतीयपादादौ च "तारतार तारतार" इति यम्यमानपदानां पूर्ववदव्यवहितव्यवहितत्वेन उभयात्मकं विजातीयं मिश्रमादिभागयमकम्। "कालं कालमानालक्ष्य"इत्यत्र "कालं कालंकृतं घनैः" इति पाठं केचित् सम्यङ्यन्यन्ते, कालं कालम् इति प्रथमपादे द्वयोरपि सानुस्वारत्वेन चतुर्थपादेऽपि तदौचित्यात्। घनैः कालंकृतं कुत्सितालङ्कारवन्तं कृतमिति तत्रार्थः)।।35।। तदेव पादचतुष्यगतमुदाहरति, यामेति। -यामत्रयस्य प्रहरत्रितयस्य, अधीनः आयत्तः, आयामो दैध्र्यं यस्याः तादृश्या सुदीर्घप्रहरत्रयव्यापिन्या,("त्रियामां राजनीं प्राहुस्त्यक्तवाद्यन्तचतुष्टयम्" इति वचनात् निशायाः त्रियामात्मकत्वं बोध्यम्) निशा रजन्या हेतुना, मरणं याम मृत्युं प्राप्नुम, वयमिति शेषः, (प्रर्थनायां लोट्) निशायाः सातिशयविरहोद्दीपकत्वादिति भावः।ननु किमित्येवममङ्गलमाशास्यते इत्याह, यामिति।- धिया मनसा, यां कान्ताम्, अयाम अगच्छाम, यस्याश्चिन्तया कालमयापयाम इत्यर्थः, यां जीवितसव्र्वस्वाभिमानमोचरमकुम्र्म इत्यर्थो वा, सा आयामया अतिदीर्घतया, कल्पकोटिशतवत् दीर्घतरया अनया रजन्या इत्यर्तः, अस्वत्तर्या असूनां प्राणानाम्, अर्त्तिः पीडड्डत्ध्;ा तया द्वारभूतया, मथितैव प्रायेण विनाशितैव, ऊविश्चतीति शेषः ; यया निशया मद्वियोगेन सुकुमारतरायाः कान्तायाः प्राणा अवश्यमेव यास्यन्ति, अतो मम मरणमेव श्रेय इति भावः। यद्वा, -मरणं याम इति (सम्बावनायां लोट्) वयं मरिष्याम इति सम्बालयाम इत्यर्थः ;अस्तु अस्माकं मृत्यिः, न तत्र किमपि दुःखं, किन्तु धिया याम् अयाम (या-धातोर्लङि उत्तमपुरुषवबहुवचनस्य रूपमिदम्) अस्वत्त्र्याया अस्वर्तिं मद्विरहेण प्राणव्यथाम्, आयाति प्राप्नोतिति तादृशी, (आङ्पूर्वकात् या-धातोः क्विपि रूपम्) सा मयैव मथिता नासिता, विदेशागतस्य ममैव प्रणयिनो विरहे दीना सा म्रियते इत्येव मे महद्दुःखमितिभावः। (निसायां प्रदीपोक्तिरियम्। अत्र "याम याम" इति यमकपदस्य पादचतुष्टयस्यादौ स#्थितत्वेन अव्यवहितव्यवहितत्वेन च सर्वपादगतं मिश्रमुभयात्मकमादिभागयमकम्)।।36।। आदिभागयमकस्य भेदानभिधाय तत् उपसंहरति, इतीति।-इति उक्तरूपस्य, पादादिस्थयमकानां विकल्पस्य भेदस्य, ईदृशी एवम्प्रकारा, गतिः नियमः ; इतराणि पादमध्यान्तभागगतानि अव्यपेत-व्यपेत- तन्मिश्रितानि च, यमकानि अपि, एवमेव प्रागुक्तप्राकारेणैव, एकद्वित्र्यादिरूपेण तथा आदिमध्यान्तेत्यादिरूपेणैव च इत्यर्थः विकल्प्यानि भेद्यानि।।37।। निखिलयमकभेदा मयैव ग्रन्थकृता कथं न दर्शितास्तत्राह, नेति। -प्रपञ्चभयात् विस्तारभयात्, कात्स्र्नेयन साकल्येन, भेदाः आख्यातुं न ईहिताः न चेष्टिताः, ये तु भेदाः, दुष्करत्वेन अभिमताः स्वीकृताः, अन्येषामितिशेषः, अत्र ते केचन, वण्र्यन्ते उदाह्रियन्ते, केचन एव भेदा मया दर्शयिष्यन्ते, न तु क्वत्स्नाः, अपरे तु प्रागक्तादिबागयमकरीत्या स्वयमेव वेदितव्या इति भावः।।38।। तत्र सर्वपादगतमव्यपेतात्मकं मध्ययमकमुदाहरति, स्थिरायते इति। -स्थिरा चिरस्थायिनी, आयतिरुत्तरकालो यस्य तत्सम्बुद्दौ, ("उत्तरः काल आयतिः" इत्यमरः) हे स्थिरायते! अक्षव्यसुखभाजन!, भवान् यतेन्द्रियः जुतेन्द्रियः, अतः यतेः संयमात्, समाधेरित्यर्थ, न हीयते च्युत#ो न भवति, इन्द्रियसंयमाभावे हि समाधेः स्थिरत्वं न सम्भवतीति भावः, (यदुक्तं,-"बलवानिन्द्रियाग्रामो विद्वांसमपि कर्षति" इति) ते तव, अमायताऽपि अमायित्वमपि,मायाराहित्यमपीत्यर्थः, इयते एतत्परिमाणाय, परिच्छेत्तुमशक्याय इत्यर्थः, तथा क्षयं नाशम्, अयते अगच्छते, अक्षयाय इत्यर्तः, सुखाय परान्दाय, अभूत्। (अत्र सर्वेषु पादेषु "यते यते" इति पदं पादमध्ये आवृत्तं, तच्च एकस्मिन् पादे पुनरावत्र्तने अव्यपेतं पादान्तरापेक्षया च व्यपेतमिति अव्यपेतव्यपेतमि8सर्वपादगतमध्यभागयमकम्)।।39।। प्रतिपादं केवलव्यपेतमध्यमध्ययमकमुदाहरति, सभास्विति। -हे राजन्! महीसुराणां भूदेवानां, ब्राह्मणानामित्यर्थः, असुराहतैः सुरापानेन अहतैः अनाशितैः, मदिरापानपराङमुखतया पवित्रैरिति यावत्, वसुना तेजसा भवहत्तधनवलाभेन वा, राजितैः शोभितैः प्रफुल्लैर्वा, मुकैः सभास#ु स्तुताः कीर्त्तिताः, भासुराः समुज्ज्वलाः, तथा रागात्मसु अनुरागपरासु, प्रजासु जनेषु, राशितां बहुलीभावं, गताः, प्रभूतसमादरं प्राप्ता इत्यर्थः, ते तव, गुणा- सुरान् देवान्, न यान्ति न प्राप्नुवन्ति, इति न, अपि तु यान्त्येवेत्यर्थः, सुरा एव एतादृग्गुणवन्तःसन्तीति भावः। (अत्र "सुरा" इति पदं प्रतिपादमेव व्यवहिततया पादमध्यस्थितत्वाच्च मिश्रं व्यपेतञ्च मध्यमध्यबागयमकम्)।।40।। प्रतिपादं व्यपेतमध्यमध्ययमकमुदाहृत्य सम्प्रति सर्वपादगतं तादृशमेवान्तयमकमुदाहरति, तवेति।-हे असच्चरित। धूत्र्त!, हे प्रमत्त! अनवहित!, इह अस्मिन् समये, सम्प्रतीत्यर्थः या तव प्रिया प्रणयानि, जनसमाजे अधुना या त्वया प्रेमास्पदत्वेन कीत्त्र्यमाना इत्यर्थः, तया, एवेति शेषः, रतोत्सवेन यः आनन्दविशेषः, तेन मत्तया आसक्तया सत्या इत्यर्थः, अंशुमत् समुज्ज्वलं, विभूषणम् आभरणं, धाय्र्यं, तथा च विभूषणधारणस्य रतोत्सवानन्दविधायकताप्रयोजनं, न तु त्वयि अन्यासक्ते मम सख्याः तत् सम्भवति, अतः किमिति तया तत् धाय्र्यम्? तवाधुन#िकप्रिययैव तत् धत्र्तुं युज्यते इति भावः। ननु शोभार्थमपि सख्या ते विभूषणं ध्रियतां तत्र आह, प्रयोजनमितिष- हि तथा हि, कान्तिमत्तया स्वाभाविकसौन्दय्र्यवत्तया हेतुना, मत्सख्या इति शेषः, प्रयोजनम् आवश्यकं, विभूषणधारणस्येति शेषः, नास्ति न विद्यते एवेत्यर्थः,. नैसर्गिकी विलक्षणा कान्तिरेवास्याः शोभां जनयति, किं पुनरलङ्कारान्तरधारणेनेति भावः। (अन्यासक्तं शठनायकमलङ्कारधारणे कथमस्या विराग इति पृच्छन्तं प्रति सख्या उक्तिरियम्। "असच्चरित प्रमत्त" इत्यत्र " सञ्चरिताप्रमत्त" इति क्वचित् पाठः। अत्र "मत्तया" इति पदस्य प्रतिपादान्तगतत्वात् व्यवहितात्वाच्च सर्वपादगतं मिश्रं व्यपेतमन्तभागयमकम्)।।41।। पादचतुष्टयगतमव्यपेतव्यपेतमन्तभागयमकमुदाहरति, भवादृसा इति।-हे नाथ! प्रभो!, भवादृशाः त्वादृशा जनाः, नतेः नतभावस्य, रसम् आस्वादं, न जानते न विदन्ति, यतः सन्नतं सम्यक् नतिभावश्च, इनता प्रभुता च सन्नतेनते नतिः प्रभुता चेत्यर्थः, विरुद्धे विपरीते, खलु निश्चये,नैकाधारे वत्र्तते इति भावः, ये जनाः दीनाः दरिद्राः, ते एव केवलं, तेन प्रसिद्धेन, दैन्यरसेन दैन्यरूपेण विषेण हेतुना, (रसो गन्धरसे जले। श्रृङ्गारदौ विषे वीय्र्ये तिक्तादौ द्रवरानयोः। देहधातुप्रभेदे च पारदास्वादयोः पुमान्।।" इति मेदिनी) नतेन शिरसा ते तव, (तवेति कर्मणि षष्ठी) अलम् अत्यर्थं, चरन्ति अतिशयेन त्वां सेवन्ते इत्यर्थः। (अत्र सर्वेषु पादेषु अन्तगतं "नते नते" इति पदं पुनरावृत्तं, तच्च न प्रतिपादं व्यवहितं किन्तु पादान्तरे व्यवहितमिति मिश्रमुभयात्मकम् अन्तबागयमकम्)।।42।। प्रतिपादगतव्यपेतमध्यान्तयमकमुदाहरति, लीलेति। -सा नायिका, शुचिना निर्मलेन, लीलास्मिचेन सविलासेषद्धसितेन, मृदुना कोमलेन, उदितेन वचनेन, लघुना इष्टेन प्रार्थितेनेत्यर्तः, लघुना अल्पेन इति वा, असम्पूर्णेनेत्यर्थः,("त्रष्विष्टेऽल्पे लघुः" इत्यमरः) व्यलोकितेन अपाङ्गदर्शंनेनेत्यर्थः, गुरुणा नितम्बादिङरमन्थरेण,गतेन गमनेन, व्याजृम्भितेन विशेषतो जृम्भया, (जृम्भायाश्च अनुरागव्यञ्जकत्वमुक्तं यथा, -"जृम्भते स्फोटयत्यङ्गं बालमासिलष्य चुम्बति " इति) तथा दर्शितेन जघनेन च केनचित् व्याजेन जघानप्रदर्शनेनेत्यर्थः, हन्ति व#्यथयति, मामिति शेषः, तेन च हेतुना, मम जीवितेन जीवितेन, गलितं गतं विनष्टप्रायमिवेत्यर्थः। (भावे क्तप्रत्ययः। अत्र "तेन" इति पदं प्रतिपादं मध्येषु अन्तेषु च पुनः पुनरावृत्तं, तच्च व्यवहितमिति मिश्रं व्यवहितं मध्यान्तयमकम्)।।43।। प्रतिपादगतमव्यपेतव्यपेतमध्यान्तयमकमुदाहरति, श्रीमानिति। -(अत्रैवं पदविभागः, -श्रीमान्, अमान्, अमरवत्र्मसमानमानम्, आत्मानम्, आनतजगत्प्रथमानमानम्, भूमानम्, आनमत,यः, स्थितिमान्, अमाननामानम्, आनमतम्, अप्रतिमानमानम् इति) हे भक्तः! अमरवत्र्म आकाशं, तस्य समानं मानं परिमाणं यस्य तथोक्तम् आकाशवत् सर्वव्यापिनमित्यर्थः, आनतेषु प्रढिद्धठ्ठड़14;वभूतेषु, उपासनार्थं नम्रीभूतेषु वा, जगस्तु प्रथमानः विस्तारं गतः, मानः सम्मानः, पूजनमित्यर्थः, यस्य तादृसं, सर्वजगत्पूज्यमानमित्यर्थः, भूमानं महान्तम्, अमानम् अपरिमितम्, असङ्ख्यमित्यर#्थः, नाम यस्य तथाभूतं, तथा आ ईषत्, अनन्ति प्राणन्ति,श्वसन्तीत्यर्थः, ये ते आनाः प्राणायामपरायणा योगिन इत्यर्थः, तैः मतं पूजितं योगेन ज्ञातमित्यर्थो वा, आनमतं योगिपूजितं योगिगम्यं वा इत्यर्थः, तथा अप्रतिमानः असदृशः, मानो यस्य तादृशं सर्वाभिमतमित्र्थः, यद्वा,-अप्रतिमानम् अनुपमं, मानं ज्ञानं यस्य तं केवलं मनः संयमेन ज्ञायमानमित्यर्थः, एवम्भूतम् आत्मानं परमात्मानं. ब्रह्म इत्यर्थः,आनमत नमस्तुकुत,यूयमिति शेषः। नन्वेवम्भूतसेय चार्वाकादिभिरनङ्गीकृतस्यात्मनोऽङ्गीकारे किं प्रमामित्यत आह, यइतचि।-यः आत्मा, श्रीमान् स्वयं प्राकाशमानः, तता अमान् अपरिमितः, विभूत्वात् क्वचिदपि न परिमात्रीचि भावः, तथा स्थितिमान् सच्चिदानन्दरूपतया सततस्थायी, जगतमुत्पत्तिस्थितिलयकारित्वेन नित्य इत्यर्थः। (अत्र सर्वेषामेव पादानां मध्येष्वन्तेषु च "मानमान" इति पदस्य अव्यवधानेन पुनः पुनरावत्र्तनात् अव्यपेतं, तथा "मरवत्र्मस" इत्यादिवर्णानां व्यवधानतयाव्यपेतञ्च मध्यान्तयमकम्। एकवर्णात् परं मान इत्यस्यावृत्तेः कथं मध्ययमकत्वमित्यपि न शङ्कनीयम्, आद्यान्तवर्णयोरन्तरालस्यैव मध्यत्वेनाभिधानात्)।।44।। प्रतिपादगतं व्यपेतादिमध्यमकमुदाहरति, सारयन्तमिति। -उरुसाराणि स्वर्णभूषणानि धरतीति तथोक्ता, ("उरुसारं सुवर्णं स्यात्" इति व्याङिः) तथा अनुकृतः सारसः पक्षिविशेषः, सारसकूजितमिति भावः, यया सा, सारसकूजितसंवादिनीत्यर्थः, झ्र्"जातिकालसुखादिभ्यः परा निष्ठा वाच्या" (वा.) इति निष्ठान्तस्य परनिपातःट सारसा सशब्दा, काञ्ची मेखल यस्यास्थाभृता, सा रमणी, सारयन्तम् आश्लिष्यन्तं ("सृआस्तरणे" इत्यस्य चौरादिकस्य रूपम्) सारयन्तम् आत्मानमभिसारयन्तिमिति वा, सारभूतं जगत्सु उत्कर्षतवेन गणितं, तं जीवितसर्वस्वतामापन्नं पतिमित्यर्थः, उरसा वक्षः स्थलेन, रमयन्ती प्रीणयन्ती, प्रत्यालिङ्गनेन सुखयन्ती सतीति यावत्, रसायनं जराव्याधिहरं भेषजमपि, जराव्याध्याक्रान्तुप्रतिरोधकत्वेन अमृतमपीति भावः, असारं तुच्छम्, अवैति जानाति, प्रियालिङ्गनसुखादमृतमपि तुच्छमवगच्छतीत्यर्थः। (अत्र प्रत्येकपादेषु आदिमध्ययोः "सारसार" इति यमकघटकीभूतपदस्य व्यवधानेन पुनः पुनरावृत्तेः मिश्रं व्यवहितमादिमध्ययमकम्)।।45।। प्रथमतृतीयपादयोरव्यपेतव्यपेतमाद्यन्तयमकं द्वितीयचतुर्थयोस्तादृसमादिमध्ययमकञ्च एकत्र दर्शयति, नयेतिष -(अत्र पदविच्छेदप्रकार एवं द्रष्टव्यः, -नयानयालोचनया, अनया, अनयान्; अयानयान्. अयान्, तान्, जनय, अनयाश्रितान् इति) हे अनयायते! न अयते गच्छतीति अनया अपायरह#िता, आयतिः उत्तरकालः यस्य तत्सम्बोधनम्; हे अस्खलितशासन प्रभो! अनया एवंविधया, परिदृस्यमानयेत्यर्तः, अनयान् नयनहितान्, अत एव अयस्य शुभावहविधेः, ("अयः शुभावहोविधिः" इत्यमरः) आनये आनयेन, अनुष्ठाने इत्यर्थः, अन्धान् आत्महितमपश्यत इत्यर्थः, जनान् इति शेषः, विनय विनीतान् कुरु, यथा ते नीतिमार्गानुसारिणः भवेयुः तथा विधेहि इत्यर्थः, किञ्च जिनयानं जैनमार्गं, यान्तीति तथोक्तान् बौद्धमतावलम्बिनः, अत एव अयानम् अमार्गं, विरुद्धपन्थानमित्यर्थः, यान्तीति तादृशान् अपथगामिनः, अत एव अनयाश्रितान् दुर्नयानुसारिमः, स्वस्याशुभमवलम्बमानानित्यर्थः, यान् जनान्, त्वं न अयासौः न गतवानसि, यैः सङ्गं त्वं न कृतवानसि इत्यरक्थः, तान् बौद्धमतावलम्बिनो जनान्,अं विष्णुं यान्तीति तथाभूतान् वैष्णवधर्मावलम्बिनः, जनय कुरु। (अत्र प्रथमाद्वितीयपदयोः "नयानया" इत्यस्य आदावन्ते चाव्यवधानेन पुनरावर#्त्तनात् तृतीयचतुर्थपादयोश्चादौ मध्ये चाव्यवधानेनावृत्तेः क्रमेण अव्यपेतम् आद्यन्तयमकम् आदिमध्ययमकञ्च एकत्रैव दर्शितमिति दिक्)।।46।। व्यपेतं सर्वपादगतमाद्यन्तयमकमुदाहरति, रवेणेति।-भौमः भूमिसुतः नरकासुरः इति यावत्, ध्वजवर्तिनः श्रीकृष्ण रथध्वजस्थितस्य, वीरस्य वीय्र्यशालिनः, वेः पक्षिणः, गरुडड्डत्ध्;स्य इत्यर्थः, रवेण नादेन, अतुलम् अनुपमम्, अस्त्राणां गौरवं गुरुत्वं बहुत्वं वा यस्मिन तादृशे, भ#ैरवे भयङ्कारे, संयति सङ्ग्रामे, अवेजि उद्वेजितः त्रासित इत्यर्थः, तथा हि, रवेः सूय्र्यस्येव, उग्रस्य तेजोराशेः इत्यर्थः, अस्य हरेः श्रीकृष्णस्य सिंहस्य च, पुरः अग्रे, रिपुं शत्रुं, नरककमिति यावत्, अवेर्मेषस्य, तुल्यं सदृशम्, अवेत जानीत, यूयमिति शेषः। (श्रीकृष्णस्य नरकासुरेण युद्धवर्णनमिदम्। अत्र चतुर्णामेव पादानामादावन्ते च"रवे" इति पदस्य व्यवधानतया पुनःपुनरावत्र्तनात् मिश्रं व्यवहितमाद्यन्तयमकम्)।।47।। अव्यपेतव्यपेतं चतुष्पादगतमाद्यन्तयमकमुदाहरति, मयेति। -(अत्रायं पदविभागः,-मयामयालम्ब्यकलामयामयाम्; अयाम्, अमया; अमय, आमय, अमूं, करुणामय, आमया इतइ)हे अमय!मिनोति क्षिपति, त्यजति दूरमिति यावत्, इति मयः स न भवतीत्यमयः सर्वास्ववस्थासु मामनुवत्र्तमानः, तत्सम्ब#ोधनं, ("डुड्डत्ध्; मिञ् क्षेपणे" इत्यस्य कत्र्तरि डड्डत्ध्; प्रत्ययः)यद्वा,- हे अमय! नास्ति माया यस्य तत्सम्बुद्धौ, हे अकपट! इत्यर्थः, (आकारलोपो महाकविप्रयोगादविरुद्धः)अत एव हे करुणामय! दयामय! सखे! ति शेषः, (एतेन सम्बोधनपदद्वयेन स्वप्रार्थनायाम् अवश्यमेवानुकूल्यं करिष्यतीति सूचुतम्)आमं रोगं, कामपीडड्डत्ध्;ामिति यावत्, याति प्राप्नोतीति आमयाः तेन आमया कामत्र्तेन इत्यर्थः, झ्र्"आतो धातोः" (6/4/140 पा.)इतिआकारलोपःट मया सह, मयः अपचयः, कलाक्षया इति यावत्, ("मय गतौ" इत्यस्य रूपम्)अमयः उपचयः कलावृद्धिशीलत्वात्त इति भावः, आलम्ब्य आश्रयणीयः, यः कलामयः कलात्मकश्चन्द्रः, तस्मात् आमयः रोगः कामपीडड्डत्ध्;ा इत्यर्थः, यस्याः तादृशीं, चन्द्रस्य कामोद्दीपकत्वादिति भावः, अमं रमणीयम्, यतः अहम् अयातव्यः अप्राप्तव्यः, विरामः अवसानं येषां तादृशाः, यामाः प्रहरा यस्यास्तादृश्या दीर्घयामया इत्यर्थः, अत एव नास्त#ि मा परिमाणं यस्यास्तथाभूतया अमया सुदीर्घया इत्यर्थः अत एव अमया नास्ति मा शोभा यस्याः तथोक्तया अतिकुत्सितया इत्यर्थः, विरहणामिति भावः, निशया रजन्या हेतुना, मयः गमनं, प्राप्तिरित्यर्थः, ("सर्वे गत्यर्थाः प्रकाप्त्यर्थाः"इति नियमात्)तद्वैपरीत्यम् अमयः तेन अमयेन अप्राप्त्या, तस्या इति भावः, अर्तिं्त पीडड्डत्ध्;ां, तदप्राप्त्या सातिशयां कामपीडड्डत्ध्;ामिति#ि यावत्, अयां प्राप्नवम्। (" या गतौ" इत्यस्य रूपम्। कस्यचित् विरहिणः सखायं प्रत्युक्तिरियम्। ("अत्र प्रत्येकपादानामादावन्ते च "मया मया" इति पदस्य पुनः पुनः सान्निध्यप्रयुक्ततया अव्यवहितं तथा "लम्ब्यकला" इत्यादिवर्णामां मध्यास्थतया व्यवहितञ्च मिश्रमाद्यन्तयमकम्)।।48।। व्यपेतादिमध्यान्तयमकमुदाहरति, मतामितिष -(पदविभागश्चैषः, -मतां, धुनाना, आरमताम्, अकामताम्; अतापलब्धा, अग्रिमतानुलोमता ; मतौ, अयती, उत्तमताविलोमतचाम्; अताम्यतः, ते, समता, न, वामता इति) हे सधो! इति सम्बोधनपदम् अत्र अध्याहत्र्तव्यम्; अताम्यतः कदाऽपि अखिद्यतः, सदा प्रसन्नमनस इत्यर्थः, ते तव, मतौ चित्ते, आरमताम् आत्मन्येव रममाणानां, विषयव्यावृत्तानां योगिनामित्यर्थः, मतां सम्मतां, योगिभिरादृतामित्यर्थः, अकामतां निःस्पृहताम्, अपीति शेषः, धुनाना कम्पयन्ती, उत्कर्षवत्तया तामपि तिरस्कुर्वतीत्यर्थः, तथा अतापेन अक्लेशेन, लब्धा प्राप्ता, स्वाभाविरकीत्यर्थः,तथा अग्रिमतायाः श्रेष्ठतायाः, अनुलोमता आनुकूल्यं यया तादृशी श्रेष्ठत्वसम्पादिनीत्यर्थः, तथा उत्तमताया गुणवत्तायाः, विलोमतां प्रतीकूलताम्, अयती अगच्छन्ती गुणवत्त्वसमानाधिकरणा इति भावः, समता अपक्षपातित्वं, सर्वत्र मसदर्शित्वमित्यर्थः, विद्यते इति शेषः, वामता प्रतिकूलता तु, न, विद्यते इति शेषः। (कस्यचित् सधोर्गुणकीत्र्तनमिदम्। अत्र प्रतिपादानामादौ मध्ये अन्ते च "मता" इति पदस्य पुनः पुनव्र्यवहितत्वेनावृत्तेः व्यवहितमादिमध्यान्तयमकम्)।।49।। सम्प्रति अव्यपेतव्यपेतात्मकमादिमध्यान्तयमकमुदाहरति, कालेति। -(पदच्छेदस्त्वयम्; -प्रथमपादे एकं पदम्; कालकालघनकालकालपनकाल, काल; कालकालसितकालका, ललनिका, अलकालकालका, अलगतु, कालकाल, कालिकाल, काल इति) हे कालकालगलकालकालमुखकालकाल! कालस्य संहारकस्य, शिवस्य इत्यर#्थः, ("कलनात् सर्वभूतानां स कालः परिकीर्त्तितः" इति वचनात्)यः कालगलः नीलवर्णः कण्ठः, तथा कालः यमः, तथा कालमुखः वानरविशेषः ते (एतेषां द्वन्द्वः) कालकालगलकालकामुखाः, तेषां कालकं कृष्णत्वम्, आलाति आदत्ते इति तत्सम्बुद्धौ, हे शिवकण्ठादिवत् कृष्णवर्ण!, तथा हे कालकालघनकालकालकालपनकाल! कं जलम्, आलाति गृढद्धठ्ठड़14;णाति, बिभत्र्तीत्यर्थः, इति कालः सजलः, अत एव कालः कृष्णवर्णः, यो घनः मेघः, तस्य काले समये, वर्षास्वित्यर्थः, कायन्तचि शब्दायन्ते इति कालकालघनकालकाः मयूरा इत्यर्थः, ("कै शब्दे"इत्यस्य क्विपि रूपम्) तेषाम् आलपनान#ि मुखानि, कालकालघनकालकालपनानि, तद्वत् कलते शब्दयते इति तत्सम्बुद्धौ, हे मयूर इव षड्ड्डत्ध्;जस्वरेण आलपनशील! इत्यर्थः, ("कालकालपनकालकालघनकाल!"इति पाठे तु-काले वर्षासु, कायन्तीति कालकाः मयराः, तेषाम् आलपनं निनादं, कालयति प्रेरयति, प्रकटयतीत्यर्थः. तादृशः, तथा कालः पूर्वोक्तव्युत्पत्त्या जलपूर्ण इत्यर्थः, यो घनः मेघः, तद्वत् काल! श्यामल! सजलजलदश्याम इत्यर्थः)पुनश्च हे कालकाल! कालस्य यमस्य, कालः ,संहारकः तत्सम्बुद्धौ, यमभयनिवत्र्तक! इत्यर्थः. यद्वा,-कालेन समयात्केन आत्मना, कालयति प्रेरयति, भूतानीति शेषः, यस्तत्सम्ब#ुद्धौ, ("कालस्वरूपंम रूपन्तत् विष्णोर्मैत्रेय! वत्र्तते"इति स्मृतेः विष्णोः कालस्वरूपत्वमवगन्तव्यम्)किञ्च, हे कलिकालकाल! कलिकालस्य, कलियुगस्य,कालः मृत्युस्वरूपः, कल्किरूपेण दण्डड्डत्ध्;यिता इत्यर्थः, तत्सम्बुद्धौ, हे काल! हे कृष्ण! कालकालसितकालका कालकेन कृष्णवर्णतया, आलसितं शोभितं, कं शिरः यैः, तादृशाः अलकाः चूर्णकुन्तलाः यस्यास्तादृशी, ("कं जलम्, आलातीति कालं सरः, तत्रक कायन्तीति कालकाः हंसाः, ताषामिव आलसितं लीलागमनं ययोः तादृशौ कालकौ पादौ यस्याः सा इति केचित् व्याख्यायन्ते) अलकालकालका अलकान् चूर्णकुन्तलान्, अलते मुक्तादिभिर्भूषयतीति तादृशी अलकाली, ("अलङ् भूषायाम्"इत्यस्य अणि रूपम्) तथा कलमेव कालं मधुरमित्यर्थः, ततश्च अलकाली चासौ कालका चेति (कर्मधारयः), ललनिका अनुकम्पनीया ललना, राधा इत्यर्थः, आलगतु त्वया सम्मिलिता भवतु इति निर्गलितोऽर्थः। (श्रीकृष्णं प्रति श#्रीराधायाः सख्या उक्तिरियम्। अत्र सर्वेषामेव पादानामादिमध्यान्तेषु "कालकाल" इति पदमव्यवहिततया पुनः पुनरावृत्तमिति अव्यवहितं तथा "गल मुख" इत्यादीनां व्यवहिततया व्यवहितञ्च आदिमध्यान्तयमकम्)।।50।। सम्प्रति सन्दष्टयमकस्थानं निर्दिशति, सन्दष्टेति। -द्वयोः पादयोः ऊङ्र्घाधोभावेन स्थितयोः सन्निहितयोः चरणयोरित्यथः,अन्तादी प्रथमपादस्य अन्तः द्वितीयपादस्य आदिः, तथा द्वितीयपादस्यान्तः तृतीयपादस्यादिः, एवं तृतीयपादस्य अन्तः चतुर्थपादस्यादिश्च, एतौ पादांशौइत्यर्थः, सन्दष्टयमकस्य सन्दंशाकृ-ति-यमकस्य, स्थानं विषयः, सन्दशः यथा उभयभागमाक्रम्य वत्र्तते तथा इदमपि पादयोरन्तदिभागमाक्रम्य वत्र्तते इति निष्कृष्टार्थः; एतत् मन्दष्टयमकम्, उक्तेषु यमकेषुस अन्ततर्गतमपि "रवेण भौमः" इत्यादौ पतितमपीत्यर्थः, अत्र स्वातन्त्र्येणच पृथग्भावेन, कीत्त्र्यते वण्र्यते, विशेषादिति भावः। (एतत् यमकमन्यैरुक्तत्वादत्रोल्लिख्यते, स्वमते तु प्रागुक्तभेदान्तर्गतमेवैतदिति बोध्यम्। केचिदिदं काञ्चीयमकेमित्याहुः ; यथा, -एकस्यान्तेऽपरस्यादौ सदृशं दृश्यते यदि। तत् काञ्चीयमकं नाम व्याहृतं मुनिपुङ्गवैः।।"इति। उदाहरणान्तरं भट्टिकाव्ये यथा, -"पिशिताशिनामनुदिशं स्फुटतां स्फुटतां जगाम परिविढद्धठ्ठड़14;लता। ढद्धठ्ठड़14;वलता जनेन बहुधा चरितं चरितं महत्त्वरहितं महता।।"इति)।।51।। तत्र सन्दष्टयमकमुदाहरति, उपोढेति। -सा अबला मदेन यौवनजनितविकारेण, मद्यपानजेन वा, उपोढः उद्रिक्तः, रागः अनुरागो यस्यास्तादृशी, मय्यनुरागिणी अपि इत्यर्थ-, अत एव योजितः अभिनिवेशिथः, आत्मा मनः यस्यां तथाभूताम्, अनङ्गतापिताम् अनङ्गं कामं, स्वकाय्र्यकरणाक्षममिति भावः, तापयति पीडड्डत्ध्;यतीति तादृशी अनङ्गतापिनौ तस्या भावः तां, गताऽपि मदनिरागिणि मत्कामा च सत्यपीत्यर्थः, मदेनसा ममापराधेन हेतुना, मन्युरसेन क्रोधावेगेन, योजिता संसृष्टा, क्रोधपरवशा सतीत्यर्थः, मम इयते एतत्परिमाणाय, तापाय पीडड्डत्ध्;ायै, न आस न जगाम, इति न, अपि तु जगाम एवेत्यर्त-, सा मम अतीव सन्तापकारणतां प्रापे#ि भावः। ("अस गत्यादानदीप्तिषु" इत्यस्य रूपम्। सखायं प्रतिकस्यचित् मानिन्या प्रत्याख्यातस्य उक्तिरियम्। अतेर प्रथमपादान्ते तृतीयपादादौ च "मदेन सा मदेनसा" तथा द्वितीयपादान्ते तृतीयपादादौ च "न योजिता न योजित#ा" तथा तृतीयपादान्ते चतुर्थपादादौ च "ङ्गतापिता ङ्गतापिता" इत्येतेषां सन्देसाकारेणावस्थानात् संन्दष्टयमकम्)।।52।। इत्थं पादभागयमकानि दर्शयित्वा सम्प्रति समस्तपादगतयमकानि दर्शयन् आदौ समुद्रयमकमाह, अद्र्धाभ्यास इति। -अद्र्धस्य पादद्वयस्य, ( अद्र्धशब्दोऽत्र न केवलं श्लोकीयपूर्वाद्र्धपराद्र्धपरः, किन्तु यत्किञ्चित्पादद्वयपरः इति बोध्यम्) अभ्यासः पुनरावृत्तिः, समुद्रःतदाख्यः, स्यात्; ( समुद्राशब्देन सम्पुटक उच्यते, स यथा भागद्वयात्मकः तथा अयमपि पादद्वयत्मक इति तथा व्यपदेशः ; तदुक्तं रुद्रभट्टेन, -"अद्र्धं पुनरावृत्तं जनयति यमकं समुद्रकं नाम" इति)अस्य समुद्रस्य, त्रयो भेदाः मताः ख्याताः। (तथा च, प्रथमतृतीयौ द्वितीयचत#ुर्थौ च पादौ तुल्यौ इत्येकः, प्रथमद्वितीयौ तृतीयचतुर्थो च तथा इति द्वितीयः, तथा प्रथमचतुर्थौ द्वितीयतृतीयौ च इति तृतीयः)।।- समस्तपादगतयमकेषु पादाभ्यासयमकमाह, पादाभ्यास इति। -पादाभ्यासः एकैकचरणस्य पुनरावृत्तिः अपि, अनेकात्मा अनेकविधः, पादस्य एकद्वित्रिभ्यासत्वेन एकादशविध इत्यर्थः, (तथा च प्रथमो द्वितीये तृतीये चतुर्थे च इति त्रयः ; द्वितीयः तृतीये चतुर्थे चेति द्वौ; तृतीयश्चत#ुर्थे इत्येकः ; पुनश्च प्रथमः द्वितीये तृतीये च, द्वितीये चतुर्थे च, तथा तृतीये चतुर्थे च, द्वितीयस्तृतीये चतुर्थे च इति चत्वारः ; तथा पर्थमो द्वितीये तृतीये चतुर्थे च इत्येकः, इति मिलित्वा एकादशविधाः) सः अद्र्धाभ्यासः पादाभ्यासश्च, निदर्शनैः वक्ष्यमाणैः उदाहरणैः, व्यज्यते व्यक्तीक्रियते।।53।। तत्र समुद्रस्य भेदत्रयं दर्शयिष्यन् प्रथमं पीर्वपादाद्र्धस्योत्तरपादाद्र्धेन समताहेतुकं प्रथमतृतीययोः द्वितीयचतुर्थयोश्च पादयोः तुल्यतालक्षणं यमकं दर्शयति, नेति। -परमायतः अतिदीर्घः, मानो यस्याः तादृश्याऽपि, अस्थेयः न अतिस्थिरं, सत्वं स्वभावः व्यवसायो व#ा यस्याः तथाभूतया, त्वया भवत्या, स ना पुरुषः, प्रियतम इत्यर्थः, न वज्र्यः न प्रत्याख्येयः; परं किन्तु, आयतमानया यत्नवत्या सत्या, आस्थेयः आदत्र्तव्यः, तथा आवज्र्यः सप्रेमव्यवहारेण वशीभूतः काय्र्यश्च, तव स्वभावो व्यवसायो वा न स्थिरतरः, अतः प्रियपरित्यागे पश्चात्ताप एव फलं, तस्मात् यथाऽयं स्ववशे तिष्ठेत् तथा यत्नः क्रियतामिति भावः। ( मानिनीं प्रति तत्सख्य उक्तिरियम्। अत्र प्रथमतृतीयौ द्वितीयचतुर्थौ च तुल्याविति समुद्रभेदः। उदाहरणान्तरं यथा भट्टिकाव्ये, -"समिद्धशरणा दीप्ता देहे लङ्का मतेश्वरा। समिद्धशरणादीप्ता देहेऽलङ्कामतेश्वरा।।" इति)।।54।। प्रथमद्वितीयपादयोस्तृतीयचतुर्थयोश्च पादयोः समतालक्षणं समुद्रस्य भेदान्तरमुदाहरणेन दर्शयति, नरा इति। -माननया सम्मानेन, समेत्य, स्थितेन इति अध्याहाय्र्यं, मानवतेत्यर्थः, भवता अयनेन गमनेन, शङ्ग्रामयात्रयेत्यर्थः, जिताः पराभूताः, नराः रिपव इत्यर्थः, माननययो#ः सम्माननीत्योः, आसं क्षेपम्, अभावमित्यर्थः, एत्य प्राप्य, न राजिताः न शोभिताः, भवत्सकाशात् पलाय्य कथञ्चित रक्षितजीवनानां शत्रूणां सम्माननीतिशून्यतया अतीव दुर्दशा जातेत्यर्थः। पलायमानानामेषा गतिरुक्ता, ये तु साहसिका न तथा, तेषां गतिमाह, विनाशिता इति। -वैभवं विभत्वं, तायति विस्तारयति इति तथोक्तेन, (" तायृञ पालनविस्तारयोः" इत्यस्मात् नन्द्यादित्वात् ल्यु-प्रत्ययः) भवता विनाशिता वै निहतास्तु, रिपवः इति शेषः, विना पक्षिणा, गृध्रेण इत्यर्थः, अशिताः भक्षिताः। (राज्ञः स्तुतुरियम्। अत्र पर्थमद्वितीयौ तथा तृतीयचतुर्थो च तुल्यौ इति समुद्रभेदः)।।55।। प्रथमचतुर्थपादायोर्द्वितीयतृतौयपादयोश्च तुल्यतालक्षणं समुद्रभेदान्तरमाह, कलापिनामितिष -लापेन केकाध्वनिना, ऊढः प्राप्तः, घनकालः सम्प्राप्त इति प्रकटित इति भावः, घनागमः वर्षाकालः यैः तादृशानां, कलापिनां मयूराणां,वृन्दानि समूहाः, चारुतया शोभया, वर्षाकालजनितया इति भावः, उपयान्ति सङ्गच्छन्ते, शोभां प्राप्नुवन्तीत्यर्थः ; तथा वृन्दनिलेन वारषिकसङ्घातवायुना, अपोढः निरस्तः, घनः नृत्यविशेषः, ("घनं स्यात् कास्यातालादिवाद्यमध्यमनृत्ययोः"इति मेदीनि) तद्विशिष्टः आगमः आगमनं, सविलासागमनमित्यर्थः, येषां तादृशानां, परित#्यक्तसविलासगतिकानाम् इत्यर्थ-, के जले, लपन्ति नन्दन्तीति तथोक्तानां, कलम् अव्यक्तमधुरध्वनिम्, आप्नुवन्ति इति तथोक्तानां वा कलापिनां हंसानां च आरुतयः मधुरस्वराः अपयन्ति अपगच्छन्ति, प्रतिरुद्धा भवन्तीत्यर्थः, वर्षासु हंसानां मदराहित्यादिति भावः। (वर्षावर्णनमिदम्। अत्र प्रथमचतुर्थौ तथा द्वितीयतृतीयौ तुल्यौ इति समुद्रभेदः)।।56।। समुद्रयमकभेदमभिधाय सम्प्रति अनेकविधं पादाभ्यासयमकमुदाहरिष्यन्, प्रथमं प्रथमद्वितीयपादगतं तदुदाहरति, नेति। -मन्दया मूढया, तत्कालोचितप्रतिपत्तिविधुरया इत्यर्थः, अवनर्जिते अत्यक्ते माने प्राणयजन्ये ईष्र्यीजन्ये वा कोपे, सात्मया सयत्नया, यत्नवत्या इत्यर्थ-, यत्नेन मानं रक्षन्त्या इति यावत्, ("आत्मा पुंसि स्वभावे च प्रयत्नमनसोरपि" इति मेदिनी) यद्वा, -आवर्जितः अनुकूलं मत्वा स्वीकृत इत्यर्थः, मानः ईष्र्यारोषलक्षणो यया सा, तथा सात्मा आत्मवती तया, (अनयोः कर्मधारयः)तथा दयया वर्जितौ प्रियस्य मलिनमुखं दृष्ट्वाषपि कृपाविरहितौ, मानसम् आत्मा स्वभावश्च तौ यस्याः तथाभूतया, मया नमन् कृतापराधतया पादयोः पतन्, अपीति शेषः, जीवितेश्वरः प्राणनाथः, उरसि वक्षसि, प्रियस्येति भावः, उपास्तीर्णम् अर्पितं, पयोधरद्वयं स्तनयुग्लं यस्मिन् तद्यथा तथा, न समालिङ्ग्यत नाश्लिष्यत। ("सात#्मया" इत्यत्र "सार्थया"इति पाठे-एकत्र-अपरित्यक्तमानसमूहया, अन्यत्र-दयावर्जितमानसप्रयोजनयेत्यर्थः। नायकं निराकृत्य गलितमानाया मानिन्या अनुतापोक्तरियम्। अत्र प्रथमद्वितीयौ पादावभ्यस्तौ इति पादाभ्यासयमकम्)।।57।। तदेव प्रथमतृतीयपादगतमुदाहरति, सभेति। -हे राजन्! मृणालनिम्र्मलैः मृणालवत् परिशुद्धैः, तव गुणैः शौय्र्यादिभिः, अबला बलासुररहिता, इन्द्रेण निहतत्वात् बलासुरोत्पातविहीना इत्यर्तः, तथा विभूषिता देवभोग्यद्रव्यजातैः विशेषेण सज्जिता, यद्वा,-विभोः प्रभोः, ब्रह्मणः विष्णोः शङ्करस्य इन्द्रस्य वा इत्यर्थ-, उषितं वसतिः यस्यां तादृशी, सुराणां देवानां, सभा सुधम्र्माख्या4, आरोहि आरूढा, बलासुरविनाशादधुना देवसभास्था निर्भयाः सन्तः तव गुणान् गायन्तीत्यर्थः, स त्वं, विभूषिताः विशेषेण अलङ्कृताः, अबलाः सुन्दय्र्यः, विहारयन् रमयन् सन्, भासुराणां दीप्यमानानां, समृद्धानाम् इत्यर्थः, पुरां नगराणां, सम्पदः ऐश्वय्र्याणि, निर्विश उपभुङ्क्ष्व। (रजानं प्रति वैतालिकस्योक्तिरियम्। अत्र प्रथमतृतीयौ अभ्यस्ताविति पादाभ्यासयमकम्)।।58।। तदेव प्रथमचतुर्थापादगतमुदाहरति, कलमिति। -कलं मधुरम्, उक्तं वचनं, विलासिनीनामिति अध्याहाय्र्यम्; तथा तनु क्षीणं, मद्ध्यं कटिदेशं, नमयतीति तथोक्ता पृथुतरेत्यर्तः ; यद्वा -तनोर्मद्ध्यास्य नामिका, निजभरेण इति भावः, ("अजादिहलन्तोऽदीर्घात्" इति क्वचित् पाक्ष#िको मध्यशब्दस्य धकारद्विर्भावः) स्तनद्वयी च, त्वट्टते त्वां विना, कं जनं, न हन्ति? न पीडड्डत्ध्;यति? अपि तु त्वां परित्यज्य सर्वमेव इत्यर्थः, अतः कारणात्, भवन्मुखे भवदादिविषये, गणने सङ्ख्याने, भवाट्टशां जितेन्द्रियाणां गणनायामित्यर्थः, हि निश्चितम्, अनामिका अङ्गुष्ठतश्चतुर्थी अङ्गुलिः, कलङ्कमुक्तं निर्दोषं, तनुमत् शरीरि, भूतम् अपरं प्राणिनं, न याति न गच्छति, त्वां विना अन्यं न गणयति इत्यर्त-, जगत्यस्मिन् के के जितेन्द्रियाः सन्तीति गणनप्रस्तावे कनिष्ठाङिगुल्या प्रथमं त्वां गणयित्वा अनामिकया अन्यं कमपि गणयितुंन शन्कोति भवादृशजितेन्द्रियान्तराभावादिति भावः। (कमपि महान्तं प्रत्युक्तिरियम्। अत्र प्रथमचतुर्थौ पादावभ्यस्ताविति पादाभ्यासयमकम्। अत्रेदमवधेयं, -चतुर्थपादे "तनुमद्ध्यानामिका"इति पदस्य तनुमत् हि अनामिका एवं विश्लेषं कृत्वा व्याख्याने तनुमद्ध्यनामिकेति धक#ारस्य दकारयुक्तत्वं भवति, ततश्च प्रथममध्यशब्दस्यापि द्विर्भावः व्याख्यातृभिरङ्गीकृतः, परन्तु मध्यशब्दस्य धकारस्य द्विर्भावः अप्रसिद्धः, अतः वयमत्रेदं मन्यामहे यत्, चतुर्थपादे -कलङ्कमुक्तं तनुमधि शरीरमधिकृत्य, शरीरधारि इत्यर्थः, भूतं न याति एवं व्याख्यीने प्रथम-मध्यपदस्य धकारस्य द्विर्भावरूपकष्टकल्पनां विनाऽपि व्याख्यानसङ्गतिरिति सुधीभिर्विभाव्यम्)।।59।। द्वितीयतृतीयपादगतं पादाभ्यास.मकमुदाहरतिस यश इति।-हे अजोपम्! अजराजसदृश! नारायणसम्! इति वा, हरसम!इति वा, ("अजा विष्णुहरच्छागाः"इत्यमरः) दंशिताः सन्नाहवन्तः, शितानि तीक्ष्णानि, आयुधानि अस्त्राणि येषां ते तथोक्ताः, तथा तरस्विनः महावेगाः, अप्रतिहतवेगा इत्यर्थः, ते तव, सैनिकाः योद्धृपुरुषाः, युधा सङ्ग्रामेण, दिक्षु यशश्च तथा रजश्च पांशुञ्च, वितन्वते विस्तारयन्ति; तथा द्विषां शत्रूणां, कुलञ्च समूहञ्च, वितुन देहरहितम्, अतेजः तेजोहीनं, तथा अपमदं निरहङ्कारञ्च, कुर्वन्ति विदधति। (विजिगीषुस्तुतिरियम्। अत्र द्वितीयतृतीयवभ्यस्ताविति पादाभ्यासयमकम्)।।60।। तदेव द्वितीयचतुर्थपादगतमुदाहरति, बिभत्र्ताति। -हे राजन्! भुजङ्गमो वासुतिः, ते तव, भुजेन अमा सह, त्वद्भुजवलसाहाय्येनेत्यर्थः, भूमेर्वलयं भूमण्डड्डत्ध्;लं, बिभर्तति धत्ते। एतावता गर्वो न विधेय इत्याह, स्मरत इति। -स्मरतः पूर्ववृत्तं विजानत इत्यर्थः, मत् मत्तः, मत्सकाशादित्यर्थ, अञ्चितं पूजितं, सर्वजनसम्मतम् इत्यर्थः, एकम् उक्तं वचनं, श्रृणु आकर्णय; किन्तदित्याह, -स्वं स्वकीयं, भुजं भूधरं भूधारणक्षमम्, अवेत्य ज्ञात्वा, रतः प्रीतः सन्, चितं प्रवृद्धम्, अत्यन्तमित्यर्थः, मदं गर्वं, मास्म गमः न गच्छ, गर्वं मा कुरु इत#्यर्थः। (राजानं प्रत्येपदेशगर्भस्तुतिरियम्। अत्र द्वितीयचतुर्थावभ्यस्ताविति पादाभ्यासयमकम्)।।61।। तदेव तृतीयचतुर्थपादगतमुदाहरति, स्मरानल इति। -हे तामरसेक्षणे! पद्मलोचने!, ("अथ तामरसं पद्मे ताम्रकाञ्चनयोरपि"इति मेदिनी)रक्तोत्पलनयने! इति वा, मानजनितकोपेनेति भावः, ("रक्तोत्पलं तामरसम्" इति कोषः)हे अरसे! अरसिके!, मानेन विवर्द्धितः विशेषण वृदिं्ध गतः, ते तव, यः स्मरानलः कामाग्निः, स ततः विस्तारं गतः सन्, क्षणेन उत्सवेन, समं सह, समन्ततः सर्वतोभावेनेत्यर्तः, तां पूर्वानुभूतां, नुवृतिं्त सुखं, किं न अपाकरोति? न निरस्यति? अपि तु रिनस्यत्येवेत्यर्थः, नितरां कामपीडिड्डत्ध्;ताऽसि अत इदानीमेव मानं मुञ्च विलम्बेनालमिति भावः। (मानिनीं प्रति तत्सख्युक्तिरियम्। अत्र तृतीयचतुर्थावभ्यस्ताविति पादाभ्यासयमकम्)।।62।। पादत्रयाभ्यासं क्रमशो दर्शयितुमादौ प्रथमद्वितीयतृतीयपादगतं दर्शयति, प्रभावत इत्यादि। -हे प्रभावतः प्रभावात्, स्वतेजसा इतयर्थः, प्रभावतः प्रभा दीप्तिः तत्सम्पन्नस्य, वासवस्य इन्द्रवस्य इन्द्रस्यापि, नामन! नामयति नतं करितीति तत्सम्बुद्धौ, यज्ञभङ्गपारिजातहरणादिना इन्द्रस्यापि गर्वहरणादिति भावः, नामेति प्रसिद्धौ, हे अनामएॅ नास्ति आमो रोगो यस्य यस्माद्वा तत्सम्बुद्धौ, त्वयि विष्टपस्य भुवनस्य, प्रभौ अधिपे सति दुर्वृत्तदमनादिना जगत् पालयति सतीत्यर्थः, अतोऽस्मात् कर्मणः, कंसासुरादिनिधनादित्यर्थ-, नवासवस्य नवस्य आसवस्य सुरायाः, सवस्य वा यज्ञस्य च, विच्छित्तिर्विच्छेदः, नासीत् न अभवत्, भोगिनां सुरापानोत्सवः धर्मिष्ठानां यज्ञादिकञ्च सततं प्रववृते इत्यर्थः। (श्रीकृष्णस्तुतिरियम्। अत्र पर्थमद्वितीयतृतीयपादानामभ्यासात्पादत्रयाभ्यासयमकम्)।।63।। तदेव पर्थमद्वितीयचतुर्थपादगतमुदाहरति, परमिति। -(अत्र पदच्छेदप्रकारो यथा, -परं, परायाः, बलवाः, रणानाम्; परम्परायाः बलवारणानाम्; परं, पराय! अबलवारणानाम् इति) हे पराय! परः उत्कृष्टः, अयः शुभावहविधिर्यस्य तत्सम्बुद्धौ, हे परमकल्याणिन्नित्यर्थः, हे बलवा! बलेन शक्त्या, वारयति निवारयति, शत्रूनिति शेषः, तत्सम्बुद्धौ, (वारयतेः क्विपि रूपम्) त्वं बलमेषामस्तीति बलाः बलवन्तः, (अर्शआदित्वादच् प्रत्ययः) वारणां हस्तिनः येषु तथोक्तानां, तथा अबलान् दुर्बलान्, वारयन्ति विमुखीकुर्वन्तीति अबलवारणाः तेषां, रणानां युद्धान#ा#ं, परम्परायाः समूहस्य, स्थलीः रणभूमीरित्य्र्थः, धूलीर्विधाय रेणुमयीः कृत्वा, प्रभूतरथाश्वसैन्यानां पादताडड्डत्ध्;नेनेति भावः, व्योम आकाशं, रुन्धन् आच्छादयन् सन्, धूलीभिरिति भावः, परं श्रेष्ठं, बलिनमिति यावत्, परं शत्रुं, परायाः गतवान्, जितवान् असीत्यर्थः,(परापूर्वकात् याधातोः लडड्डत्ध्;ः मध्यमपुरुषैकवचनम्। राज्ञः स्तुतुरियम्। अत्र प्रथमद्वितीयचतुर्थाः पादा अभ्यस्ता इति पादत्रयाभ्यासयमकम्)।।64।। द्वितीयतृतीयचतुर्थपादगतं पादत्रयाभ्यासमुदाहरति, न्ति। -हे अलज्ज! निस्त्रप! असमाहितानाम् अनवहितचित्तानाम्, अन्यासक्तत्त्वात् असयतात्मनाम् इत्यर्थः, तथा असमा असदृशाः, अतिबहुला इत्यर्थः, अहिताः शत्रवः येषाम्, अधिकशत्रूणामित्यर्थः, भवद्विधानां त्वत्सदृशानां धूत्र्तानां, मिथ्याभवत् असत्यम्भवत्, विधानं काय्र्यं यस्यास्तां काय्र्येषु अपरिणतामित्यर्थः, ता असमः विषमः, अतिदारुण इत्यर्#ाथः, यः अहिः सर्पः, तस्ये#ेव तानो विस्तालसररः, वक्रगतिरिति यावत्, यस्याः तादृशीम्, अतिवक्रदारुणामित्यर्थः, पुनश्च भवे उत्पत्तौ, श्रवणमात्र एवेत्यर्थः, द्विधा द्विविधः, अनः प्राणः, अर्थरूपः इति यावत्, यस्याः तथाभूताम्, अर्थानामेव वाचां प्राणत्वत्वात् इति भावः, यद्वा, - भवे द्वे द्विप्रकारे, धाने धारणे, अर्थग्रहणे इत्यर्थः, यस्या तां, श्रवणसमकालमेव द्व्यर्तबोधिकामित्यार्थ-, वाचं न श्रदधे न विश्वसिमि। ( शठनायकं प्रति नायिकाया उक्तिरियम्। अत्र द्वितीयतृतीयचतुर्थपादानामभयासात् पादत्रयाभ्यासयमकम्)।।65।। पादत्रयागतं द्वरभ्यासतुदाहृत्य इदानीं पादचतुष्टयगतंत्रिरभ्यासमुदाहरति, सन्निति। - ह् सन्! साधो!, हे आहितोमानमराजसेन! न नमन्तीति अनमाः ब्राह्मणाः, (पचादित्वादच्) अनमानां राजा अनमराजश्चन्द्रः,(चन्द्रस्य द्विराजापरपय्र्यायत्वात्) उमा पार्वती च, अनमराजश्च त#ौ उमानमराजौ, आहितौ स्वाङ्गे धृतौ, उमानमराजौ पार्वतीद्विजराजौ येन सः आहितोमानमराजः शिवः, तेन सेनः इनः प्रभुः, उपास्य इति यावत्, ("इनः सूय्र्ये प्रभौ"इत्यमरः) तेन सह वत्र्तमान) सश्वरः इत्यर्थः, तत्सम्बुद्धौ, हे शिवभक्त! इत्यर्थः, तथा हे अमानम! अमाना अपरिमाणा, मा लक्ष्मीः, सम्पदित्यर्थः, यस्य तत्सम्बुद्धौ, हे प्रभुतसम्पत्तिमन्!, पुनश्च हे राजसेन रजोगुणजक्रोधादिविकारेण, मानम! मा नम्यते न वशीक्रियते इति तत्सम्बोधनं, हे क्रोधलोभाद्यमायत्तीकृत! इत्यर्थः, किञ्च हे अमानमराजसेन! मानः सम्मानः, मा लक्ष्मीः ते मानम#े, न विद्यते मानमे यस्याः सा अमानमा सम्मानसम्पद्विहीना, राजसेना विपक्षराजचमूर्यस्य तत्सम्बुद्धौ, सन्नहितः कृतयुद्धौद्योगः सन्, न राजसे न शोभसे, त्वमिति शेषः, यतस्त्वं सन्नाहितः सन्ना अवसादं गताः, अहिताः शत्रवो यस्य तथोक्तः, तथा सन्ना सत्पुरुषः, साधुः इत्यर्थः ततश्च हितः सर्वेषां हिते रत इत्यर्थः, अतस्तव युद्धयात्रा न युज्यते इति भावः। ( शैवं राडड्डत्ध्;जानं प्रति युद्धनिवर्तकवचनम्। अत्र सर्व एव पादा अभ्यास्ताः) ।।66।। सम्प्रति पादाभ्यासमुपसंहृत्य श्लोकाभ्यासं निर्दिशति, सक्वदिति। -एवम् उक्तप्रकारेण, पादस्य सक्वत् एकवारं, द्विः वारद्वयं, त्रिश्च वारत्रयञ्च, यःअभ्यासः पुनरावृत्तिः, सः प्रदर्शितः उदाहृतः।(तत्र सकृदभ्यासः पादद्वयगतः, द्विरभ्यासः पादत्रयगतः, त्रिरभ्यासःपादचतुष्चयगत इतचि बोद्धव्यम्)। युक्तः सङ्गतः, अर्थोऽभिधेयः यस्य तं सङ्गतार्थम्, एकवाक्यतापन्नमित्यर्थः, श्लोकद्वयं समानानुपूर्वपदर्णघटितं पद्यद्वितयं, श्लोकाभ्यसः श्लोकभ्याससंज्ञकः, स्मृतः कथितः। यथेति वक्ष्यमाणोदाहरणार्थम्।।67।। तमेव श्लोकाभ्यासमुदाहरति, विनायकेनेतिष -हे राजन्! विनायकेन विनेत्रा, दुर्जानानां शासित्रा इत्यर्थः, तथा वृत्तौ वत्र्तुलौ उपचितौ पीनौ च, बाहू भुजौ यस्य तथोक्तेन, महाभुजेनेत्यर्थः, स्वमित्राणां सु शोभनानाम्, अमित्राणां शत्रुणां, शौय्र्यादिसम्पन्नानामपि रुपूणामित्यर्थः, उद्धारिणा विनाशकेन, तथा अतुलाश्रिता तुलां तो#ुलनाम्, आश्रयतीति तुलश्रित, स न भवतीति अतुलाश्रित् तेन, केनापि सादृस्यं नभजता इत्यर्थः, निरुपमेण इति यावत्, (श्रयतेः क्विप्) भवता हेतुना, इयं पृत्वी वसुधा, अभीता दुर्जनेभ्यो भयरहिता जाता इत्यर्थः।।68।। विनायकेनेति।-किञ्च अभीता युद्धाय भवदभिमुखमागच्छता, (अभिपूर्वादिण्धातीः क्विपि तृतीयैकवचनम्) अरिणा शत्रुणा, तवेति शेषः, विनायकेन नायकरहितेन, तथा वृत्तौ जातौ, उपचितौ चितामुपगतौ, श्माशानस्थचितामारुढौ इत्यर्तः, झ्र् उपगतौ चितामिति विग्रहेण "अत्यादयओः क्रान्ताद्यर्थे द्वितीयया" (वा.) इति तत्पुरुषःट बाहू यस्य तथोक्तेन, तथा स्वमित्राणि निजबन्धून्, स्वानि धनानि, मित्राणि बन्धूश्च इति वा, उज्जहाति परित्यजतीति स्वमित्रोद्धाः तादृशेन, परित्यक्तस्वजनेन परित्यक्तधनबान्धवेनेत्यर्थः वा, झ्र्स्वमित्रशब्दात् उत्पूर्वकस्य जह#ातेः क्विपि तृतीयैकवचनम् "आतो धातोः" (6/4/140 पा.) इति धातोराकारलोपःट भवता पूर्वोक्तप्रकारेण सता, पृथ्वी गुर्वी, यमतुला यमस्य अन्तकस्य, तुला परिमाणसन्त्रं, विचारस्थानम् इति भावः, ( मानयन्त्रे न्यूनाधिकत्वनिश्चयवत् कृतान्तविचारलयेऽपि पुण्यपापस्चयकरणात् तस्य तुलासन्त्रतुल्यमवगन्तव्यम्) आश्रिता प्राप्ता, यमसदनं गतम् इत्यर्थः। (राज्ञः स्तुतिविषयकं श्लोकाद्वयमिति। समानवर्णादिघटितश्लोकद्वयस्य युक्तार्थत्वात् श्लोकाभ्यासोऽयम्। केचित्तु श्लोकद्वयावृत्तिरूपं श्लोकाभ्यासयमकं महायमकमाहुः ; उदाहृतञ्च यथा, - "अभिय#ाता वरं तुङ्गं भूभृतं रुचिरं पुरः। कर्कशं प्रथितं धाम ससत्त्वं पुष्करेक्षणम्।।" पुनरपि- " अभियाऽतावरम्-" इत्यादिपठनरूपं श्लोकद्वयम्)।।69।। पादचतुष्टयगतस्य त्रिरभ्यासरूपयमकस्य प्रतिचरण- मवान्तराभ्यासे वैचित्र्याविशेषसम्भवात् महायमकसंज्ञामाह, एककरोति। - एकाकाराः अभिन्नाः, चत्वारः पादा यत्र तादृशं, तत् यमकं, महायंकाढद्धठ्ठड़14;वयं महायमकसंज्ञं, ज्ञेयमिति शेषः ; तत्रापि एकाकारचतुष्पादरूपमहायमकस्य पादमध्येऽपि, अभ्यासः पुनरावृत्तिः, पादखण्डड्डत्ध्;स्येति भावः, दृश्यते, अतः सा परा श्रेष्ठा, यमकक्रिया यमनप्रकारः, यमकवत्पद्यानुष्ठानमित्यर्थः, पादचतु,#्टयाभ्यासे यत्र पादखण्डड्डत्ध्;स्यापि अभ्यासः तत् महायमकमिति निष्कर्षः। (महायम्कत्वञ्च ईदृशयमनविधेः वैचित्र्याधायकतया उत्क#ृष्टत्वात् बोध्यम्। ननु पादचतष्टयाभ्यासयमते यथा चतुष्पादानां तुल्यावृत्तिस्तथैवात्रापि, किं ततो महायमके वैचित्र्यम् इत्यतो भेदप्रदर्शनाय पादखण्डड्डत्ध्;ाभ्यासवैचित्र्यमेव महायमकलक्षणमित्युक्तं, ततश्च चतुष्पादानामुभयत्रैव एकाकारत्वेऽपि प्रतिपादखण्ढस्य पुनरावृत्त#िपुरसरं चतुष्पादानामैकरूप्यन्तु महायमकत्वम् इति निष्कर्षः। उक्तञ्च कण्ठाभरणे, -"एकाकारचतुष्पादं महायमकमुच्यते। श्लोकाभ्यासश्च तत्राद्यं पुनरभ्यासमर्हति।।" इति। केचित्तु चतुष्पादानामेकरूपात्मकमिदं महायमकं सर्वपादयमकमाहुः ; यथा, -"बभौ मरुत्वान् विकृतः समुद#्रो बभौ मरुत्वान् विकृतः समुद्रः। बभौ मरुत्वान् विकृतः समुद्रो बभौ मरुत्वान् विकृतः समुद्राः" इति)।।70।। उदाहरति, समानेति। - (अत्रायं पदच्छेदः, समानयास, मा, अनया; समानय, असमानया; समानया, समानया; समान, या, समानया इति) हे समानयास। समानः एकरूपः, यास यत्नः यस्यतत्सम्बुद्धौ, सर्वत्र तुल्यप्रयत्न इत्यर्थः, तथा समान! समदर्शिन्! सर्वत्र आत्मवद्दर्शन इत्यर्थः, यद्व#ा, -समः अभिन्नः, आनः प्राणः यस्य सः, अभिन्नद्धदय! सखे! इति भावः, या नायिका, समानया मा लक्ष्मीः, शोभा इत्यर्थः, नयः नीतिः, विद्या इत्यर्थः, यद्वा, -समानयासमानया इत्येकं पदं, यासः यत्नः, मानः ईष्र्यरोषः, तौ समानौ यस्यास्तया इत्यर्थः, अनया नायिकया, मा मां,समानय सङ्गमय, अस्याः सङ्गमस्य अतीवादरणीयत्वात् अतीवपीडड्डत्ध्;ादायकमेतन्मानं शीघ्रं सान्त्वयन् अनया मां संयोजय इति भावः। ( मन्मथोन्माथाविष्टस्य कस्यचित् वयस्यं प्रति प्रार्थनेयम्। अत्र पादचतुष्टयाभ्यासे पादखण्डड्डत्ध्;स्यापि अभ्यासात् महायमकम्)।।71।। "अत्यन्तबहवस्तेषाम्" इत्यादिना प्रतिपादितेषु बहुषु भेदेषु पूर्वं सजातीयसम्मिश्रणजनितप्रभेदाः दर्शिताः, इदानीं विजातीयमिश्रणोदाहरणं दर्शयति, धरेति। - धराधराकारधराः धरायाः पृथिव्याः, धरः धारणकत्र्ता, नागराजः इत्यर्थः, तस्य आकारं सादृश्यं धरन्तीति तादृशाःधाराधाराकारधराः अतिदीर्घा इत्यर्थः, अहीनविक्रमाः अहीनः अनल्पः विक्रमः वीय्र्यं येषां ते अथवा, - अहीनस्य अहीनां प्रभोः, नागाधिपस्यानन्तस्येत्यर्थः, विक्रम इव विक्रमो येषां तादृशाः, तथा सहसा बलात्, हतारयः हताः नाशिताः, अरयः शत्रवो यैः तथोक्ताः, तथा रयोद्धुराः रयेण वेगेन, उद्धुराः उत्कटाः, अतिवेगवन्त इत्यर्थः, तथा मानधुरावलम्बिनः मानस्य धुरां भारम्, अवलम्बन्ते इति तथाभूताः, सम्मानरक्षका इत्यर्थः, धराभुजां राज्ञां,भुजाः बाहवः, क्रमात् शत्रोराक्रमणात्, शक्तित इति वा, स्वसामथ्र्यादित्यर्थः, ("क्रमश्चानुक्रमेशक्तौ कल्पे चाक्रमणेऽपि च "इति मेदिनी) महीं पृथ्वीं, पातुं रक्षितुं, पालयितुं वा, सहन्ते क्षमन्ते। ( अत्र प्रथमे पादे अव्यवहितमादियमकं, पादानाञ्च सन्धिषु अव्यवहितमन्तादियमकं सन्दशयमकञ्च, द्वितीयपादे पुनः वर्णद्वयव्यवहितं "मही मही" इति व्यपेतं मध्ययमकं,तृतीये च पादे एकवर्णव्यवहितं "सह सह" इति , चतुर्थे च वर्णद्वयव्यवहितं "धुरा धुरा" इति मध्यमकम्। इत्थं बहूनां विजातीयानां सम्मिश्रणमत्र इत्यवधेयम्)।।72।। इत्थम् अनुलोमयकभेदानुक्तवा इदानीं प्रतिलोमभेदान् द#ौपौह, आवृत्तिरिति। -प्रातिलोम्येन वैपरित्येन, पादाद्र्धश्लोकगोचरा पादाद्र्धश्लोकागोचरा विषया यस्याः सा पादगोचरा, श्लोकाद्र्धगोचरा, श्लोकगोचरा च एवं त्रिविधा इत्यर्थः, आवृत्ति अभ्यासः, प्रतिलोमत्वात् वैपरीत्येनावृत्तत्वात्, प्रतिलोमं प्रतिलोमाख्यं, यमकम् इति स्मृतम्। (तथा च यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः भवति, उत्तरपादस्यापि विलोमेनावृत्त्या पूर्वपादः सम्भवति, तत् पादगोचरं प्रतिलोमयमकम्; तथा अद्र्धगोचरं प्रतिलोमवृत्त्या श्लोकपीव्र्वार्द्धं चेत् भवति तदा अद्र्धगोचरं प्रतिलोमयमकम् ; तथा एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं श्लोकान्तरस्यापि तथावावृत्त्या पूर्वश्लोको भवति चेत् तदा श्लोकगोचरं प्रतिलोमयमकमिति निष्कर्षः। तस्य चोक्तरीत्या त्रैविध्यम्)।।73।। प्रतिलोमयमकस्य त्रैविध्यं दर्शयन् प्रथमं पादगोचरमुदाहरति, येति। -हे मताश! मता ज्ञाता, आशा अन्यसङ्गविषयिणीं तृष्णा यस्य तत्सम्बुद्धौ, या कृशता क्षीणता, कृतायासा कृतः जनितः, आयासः क्लेशः, ममेति भावः, यया तथोक्ता, ममात्यर्थं क्लेशदायिनीत्यर्थः सा या आयाता प्राप्ता, तव दुश्चेष्टितेन पूव्र्वमेव मया महती कृशता अधिगतो, इदानीमपि सैव भविष्यति, काऽधिका? अतः यथारुचि क्रियतामिति भावः, हे रमण!सन्तोषजनक! हे स्तुतेत! स्तुतं स्तवम्, इति प्राप्त, स्तवार्ह! इत्यर्तः अथवा, -स्तुतं प्रशस्तम्, इतं गतिः, आचरणमिति यावत्, यस्य सः तत्सम्बिद्धौ, यद्वा, -स्तुतात् इतः च्युतः अस्तवार्हः, नुन्दिताचरणात् अप्रशंसनीय इत्यर्थः, तत्सम्बुद्धौ, तथा हे अकरणामर! अकरणे अकाय्र्यानुष्ठाने, अमरः देवसदृश इत्यर्तः, देववत् अकाय्र्यमननुष्ठन्निति, देववत् अकाय्र्यानुष्ठाननिरत इति वा भावः, तत्सम्बुद्धौ, (देवानामकारय्यकरणमहल्याजारत्वादिकमिति बोध्यम्। सर्वमेतत् सम्बोधनपदं सोल्लुण्ठनपरमवगन्तव्यं, प्रकृतानुपयोगित्वात्) ते तव, आरकता ऋच्छतीति आरकः, ("ऋण्गतौ" इत्यस्मात् णकप्रत्ययः)तस्य भावः आरकता गन्तृत्वं, यथेच्छगामिता इत्यर्थः, अस्तु भवतु, त्वं यां कामयसे तामेव व्रज नात्र त्वया स्थातव्यमिति भावः। (मानिन्या नायकं प्रति सकोपोक्तिरियम्। अत्र प्रथमपादस्य प्रतिलोमावृत्त्या द्वितीयपादस्तथा द्वितीययस्य प्रतिलोमावृत्त्या प्रथमपादः, एवं तृतीयचतुर्थयोरपि, तेनात्र पादविषयं प्रतिलोमयमकम्)।।74।। श्लोकाद्र्धविषयमुदाहरति, नादिन इति। -नादिनः नादरूपं ब्रह्म अस्यास्तीति तथोक्तस्य, नादब्रह्मानुध्यानरतस्य इत्यर्थः, मे मम, मदनाधी मदनश्च आधिश्च तौ कामः कामजनिता मानसी व्यथा चेत्यर्तः, तथा स्वा निजा, काचन काऽपि, कामिता विषयाभिलाषश्च, न, नादब्रह्मानुभवतोमे कामः तज्जनितमानसी व्यथा स्वार्थं विषयानुरागश्चैते न विद्यन्ते इत्यर्थः, तथा दमः वाह्योन्द्रियसंयमः, तं नुदतदि निरस्यतीति तथोक्तेन इन्द्रियसंयमध्वंसकारिणा, कामेन मदनेन हेतुना, स्वाधीना स्वः आत्मा, अधीनः आयत्ती यस्यास्तादृशी आत्मव्याकुलारिणीत्यर्थः, ताम#िका च ग्लानिरपीत्यर्थः, (ताम्यति अनयेति तमधातोर्भावे णकाप्रत्ययः स्त्रीत्वञ्च;) न नास्ति, ममेति शेषः। (नादोत्पत्तिश्च प्राणायामाभ्यासजा, तथा चोक्तं सुरेश्वराचाय्र्येण यथा, -"सरेचपुरैरनिलस्य कुम्भैः सर्वासु नाडड्डत्ध्;ीषु विशोधितासु। अनाहतादम्बुरुहादुदेति स्वात्म#ावगम्यः स्वयमेव नादः।।" इति। कस्यचित् योगिनो वचनमिदम्। अत्र श्लोकपूर्वाद्र्धस्य प्रतिलोमावृत्त्या श्लोकाद्र्धान्तरं तथा श्लोकोत्तराद्र्धस्य प्रतिलोमावृत्त्या च पूर्वाद्र्धं निष्पन्नमिति प्रतिलोमयमकं श्लोकाद्र्धविषयम्)।।75।। श्लोकगोचरं प्रतिलोमं दर्शयति, यानमिति। -हे सखे! इति अध्याहाय्र्यं, यानं वाहनम्, अश्वाद्यन्यतममित्यर्थः, आनय, त्वमिति शेषः। कथमित्याह, यामिति।-उदाहरताधीनाम् उदाहराणां महतां, धनिनामित्यर्थः, शतम् अधीनं वशीभूतं यस्यास्तादृशीम्, उदारशतस्य अधीनामिति वा, यांवेश्यामित्यर्थः आयां गतवानस्मि, अहम् इति शेषः, माराविकशा मारः काम एव, अविर्मेषः, तस्य कशा ताडड्डत्ध्;नीस कामिनां कामार्त्तिहन्त्रित्यर्थः, तथा ऊनः हीनः, धनाभावादिति भावः, अनः प्राणाः येषां ते ऊनानाः धनहीनतया मृतप्राया इत्यर्थः, ऊनाः हीनाः, धनविहीनाः सन्तोऽपीत्यर्थः, अनन्ति जीवन्तीति तादृशा इति वा, ते च ते जनाश्चेति ऊनानाजनाः, तान् अस्यति निरस्यतीति ऊनानजनासना निर्धनान् वहिष्कृर्वतीत्यर्तः, सा वेश्या, आयम् आगमनम्, अनादि उक्ता, ( अनादि इति कथानार्थस्य नद्धातोः कर्मणि लुङि रूपं, द्विकर्मत्वात् सा इति गौणकर्मणः उक्तत्वञ्च) मयेति शेषः, अद्य तव सन्निधावागमिष्यामीति अभिहिता इत्यर्थः।।76।। साऽपि मय्यनुरागिणीत्याह, सेतु। -अमुया उपस्थितया इत्यर्तः, शरदा शरत्कालेन, उद्दीपन्या इति भावःस अधीता आधिं मनः पीडड्डत्ध्;ां, मद्विरहेणेति भावः, इता प्राप्ता, अत एव दिनामयमायामा, दिने दिवसे, आमयलस्य रोगस्य, मायां छलम्, अमति गच्छति, प्रकाशयतीत्यर्थः, या सा तादृश#ी, दिवसे सखीनां समक्षं रोगच्छलेन विरहदुःखं गोपयन्तीत्यर्थः, किञ्च नासनाजनना नास्ति आसनाया उपवेशनस्य, स्थिरताया इत्यर्थः, जननं क्रिया यस्याः तथोक्ता, अस्थरत्वात् विरहदुःखेन नैकत्र उपविशन्तीत्यर्थः, यातीति तथाक्ता, मदीयगमनवत्र्म निरीक्षमाणा इत्यर्थः, सा वेश्या, शोकविरामा शोकस्य विरहदुःखस्य, विरामः अवसानं यस्याः तादृशीः, न, भवतीति शेषः, यततं विरहदुःखमनुभवतीत्यर्थः। (अनुरागिण्यां वेश्यायामासक्तस्य कस्यचित् सखायं प्रति उक्तिरियम्। अत्र प्रथमश्लोकस्य प्रतिलोमेनावृत्त्या श्लोकान्तरपूरणात् श्लोकान्तरस्यापि तथैव#ावृत्त्या प्रथमश्लोकपूरणाच्च श्लोकगोचरं प्रतिलोमयमकम्)।।77।। अथ चुत्रालङ्कारान् कांशिचत् निरूपयिष्यन् प्रथमं गोमूत्रिकां निर्दिशति,वर्णानामिति। -( अत्रेदमवधेयं-चित्रालङ्कारभेदेषु वक्तव्येषु प्रथममेव किं नाम तल्लक्षणमित्यवश्यं वक्तव्यमपि प्रसिद्धतया ग्रन्थकृता नोक्तम्, अस्माभिस्तु शिष्याणां शिक्षासौकय्र्यार्थं किञ#्चिदुच्यते- चित्रमालेख्यमिति, तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः। तदयक्तुं, ध्वनेः प्राधान्यानङ्गीकारात् प्रतीयमानभावस्य क्विचिदपि असम्भवाच्च तदा आकृतिविशेषयुक्तं चित्रमित्येव भवतु, तदपि न, अव्यापकत्वात्; तस्मात् वर्णादिनियमेन प्रावृत्तमाश्चय्र्यकारितया चित्रमिति चित्रशब्दोऽत्रास्चय्र्यार्थकः इति समाधानम्। तच्च षड्ड्डत्ध्;विधमिति केचित् आहुः ; तथा हि -वर्णचित्रं, स्थानचित्रं, स्वरचित्रम्, आकारचित्रं, गतिचित्रं, बन्धचित्रञ्चेति; यदुक्तं, -"वर्णस्थानस्वराकारगतिबन्धान् प्रतीह यः। नियमस्तद्वुधैः षोढ#ा चित्रमित्यभिधीयते।।" इति। तत्र गतिचित्रं तावत् आदावेवानेन दर्शयित्वा वर्णस्वरस्थानचित्राणि प्रदर्शितानि। आकारबन्धौ तु नैव दर्शितौ। तत्र आकारः पद्माद्याकृतिमुद्रणं, बन्धः विविडिड्डत्ध्;तप्रभृतिः ; एतयोश्च परस्परभेदः दुराधिगमः उभयोरेव आकृतिगतत्वादिति)। अद्र्धयोः श्लोकस्य यथाक्रमं पीर्वोद्र्धोत्तराद्र्धयोः, ऊङ्र्घाधःक्रमेण पङ्क्तिद्वयेन लिखितयोरिति भावः, वर्णानाम् अक्षराणाम्, एकान्तरम् एकाक्षरव्यवहितं, यत् एकरूपत्वम् अभिन्नाकारत्वम्, एकैकाक्षरव्यवधानेन यत् एकविधवर्णविन्यसनमित्यर्थः, तद्विदः चित्रालङ्कारज्ञाः, द#ुष्करं सहसा कत्र्तुमशक्यं, तत्तु तदेव, ("तत्" इत्यत्र "तम्" इति पाठे तम् अलङ्कारमित्यर्थः) गोमूत्रिकेति चलतो गोर्मूत्रधाराकारत्वेन श्लोकबन्धस्य घटितत्वात् गोमूत्रिकासंज्ञं, प्राहुः। (तदुक्तं यथा कण्ठाभरणे, -"गतिरुच्चावचा यत्र मार्गे मूत्रस्य गोरिव। गोमूत#्रिकेति तत् प्राहुर्दुष्करं चित्रवेदिनः।।" इति। गोमूत्रिका च प्रधानतः त्रिविधा, पादगोमूत्रिका, श्लोकाद्र्धगोमूत्रिका, श्लोकगोमूत्रिका च, अन्येऽपि अवान्तरभेदा अस्या विपरीतादयः सन्ति। इदन्तु, लक्षणम् उत्तराद्र्धवर्णानामेकान्तरितत्वेन तादृशपूर्वाद्र्धवर्णै#ः ऐकरूप्यात् अद्र्धगोमूत्रिकायां इति वेदितव्यम्। पादगोमूत्रिका पुनः यत्र प्रथमद्वितयपादयोः तादृशाक्षराणामैकरूप्यं तृतीयचतुर्थयोरपि अन्यविधमैकरूप्यं तत्रैवावगन्तव्या; उदाहरणं यथा, -"काङ्क्षन् पुलोमतनयास्तनताडिड्डत्ध्;तानि वक्षः स्थलोच्छितरयाञ्चनपीडिड्डत्ध्;तानि। पायादपायभयतो नमुचिप्राहारी मायामपास्य भवतोऽम्बुमुचां प्रासरी।।" बन्धप्राकारो यथा- पादगोमूत्रिकाबन्धः। कां नपु म न स्त ता ता क्ष लो त या न डिड्डत्ध्; नि व स्थ छि र ञ्च पो ता पा द य य न चि हा या पा भ तो मु प्र री मा म स्य व ऽम्बु चां सा श्लोकगोमूत्रिकायां पुनः श्लोकद्वयम् ऊङ्र्घाधःक्रमेण स्थापनीयं, ततः प्रथमश्लोकस्य प्रथमपादीयैकान्तरितवर्णानां द्वितीयश्लोकस्य प्रथमपादीयैकान्तरितवर्णैः, तथा द्वितीयादि-पादानामपि एकान्तरितवर्णानां द्वितीयादिपादीयैकान्तरितवर्णैः एकरीप्यमवगन्तव्यम्)। यथेतिउदाहरणार्थम्।।78।। श्लोकाद्र्धगोमूत्रिकामुदाहरति, मदन इति।- अयं मदनः कामः मदिराक्षीणां मत्तखञ्जननयननयनानाम्, अपाङ्गमेव अस्त्रं य्सय तथाभूतः सन्, यदि जयेत् मां प्रहरेत् इत्यर्थः, तत् तदा, मदेनः मम पापं, क्षीणं, स्यादिति शेषः, तदा च अनङ्गाय मदनाय, अञ्जलिं ददे पुष्पाञ्जलि दद#ामि इत्यर्थः, अहम् इति शेषः, यदि अहं कामिनीभिः सकटाक्षमीक्ष्ये तदा कृतार्थो भवामि इति भावः।। (अत्र पूर्वाद्र्धोत्तराद्र्धयोर्विषमवर्णाणि एकरूपाणि, समवर्णानि भिन्नरूपाणि इत्येकान्तरत्वेनैकरूप्यात् गोमूत्रिकाबन्धलक्षणसङ्गतिः। विषम-वर्णैकरूप्ये बन्धलिखितश्ल#ोकोत्तराद्र्धस्य प्रथमाक्षरमारभ्य पूर्वाद्र्धस्य द्वितीयाक्षरं पठनीयं, पुनरपि पराद्र्धतृतीयाक्षरं पठित्वा पूर्वाद्र्धचतुर्थाक्षरमित्येवंतक्रमेण पठने पूर्वाद्र्धं निष्पन्नं स्यात्, ततःपूर्वाद्र्धप्रथमाक्षरमारभ्य उत्तराद्र्ध पठनीयम्। समवर्णानामैकरूप्यस्थलेतु पृर्वाद्र्धप्रथमाक्षरमारभ्य उत्तराद्र्धं निष्पन्नं स्यात्, ततः पूर्वाद्र्धप्रथमाक्षरमारभ्यैव उत्तराद्र्धं पठनीयम्। समवर्णानामैकरूप्यस्थले तु पूर्वाद्र्धप्रथमाक्षरमारभ्यैव पूर्वाद्र्धम् उत्त्राद्र्धप्रथमाक्षरमारभ्य च उत्तराद्र्धं पठनीयं। विषमवर्णानां प#ूर्वोक्तसमवर्णवत् पठनं, तेन च सम्पूर्णश्लोको निष्पद्यते इति अद्र्धगोमूत्रिकि। बन्धलिखमपरकारो यथा,-एतद्विपरीतानि अपि सम्भवन्ति, दिङ्यात्रमेवात्र दर्शितमिति। अद्र्धगोमूत्रिका बन्धः। दम रा णा पा स्त्री ये यम म नो दि क्षी म ङा ज द देय तत् ण न याञ् लिं दे आकारचित्रबन्धचित्रयोस्तु बहवो भेदाः ; ते तु खङ्गमुरजपद्ममुषलशक्तिहलप्रभृतयः अन्यैरुक्ता ज्ञेयाः। तत्र खङ्गबन्धो यथा, -"मारारिशक्ररामेभमुखैरासाररंहसा। सारारब्धस्तवा नित्यं तदार्त्तिहरणक्षमा।।" "माता नतानां संघट्टः श्रियां बाधितसम्भ्रमा। मान्याऽथ सीमा रामाणां शं मे दिश्यीदुमाऽद्रिजा।।" अनेन श्लोकद्वयेन खङ्गबन्धः प्रस्तीय्र्यते। तत्र मुष्टेरुपय्र्यधः शाखाद्वयम्, उपरि शाखाचतुष्पथे प्राथमिक "मा" कारं विन्यस्य तिय्र्यगदः क्रमेण "रारि" इत्यादि "ह"कारान्ताश्चतुर्दश वर्णाने#् न्यसेदित्येका धारा। ततः खङ्गशिखाय#ा#ं श्लिष्टं "सा" इति न्यसेत्, ततस्तिय्र्यगङ्र्घक्रमेण "रारब्ध" इत्यादिवर्णचतुर्दशकं विलिख्य अपरां धारां कुय्र्यात्, "मा"कारः "मा"कारं प्रविष्टः; एवमग्रेऽपि तत्रैव प्रविष्टं कल्पयित्वा दक्षिणशाखायां "ता" इत्यादिवर्णसप्तकं विन्यस्य वामशाखायां तिय्र्यग्विल#ोमेन "श्रि" कारादिवर्णसप्तकं लिखेत्; "मा" कारचतुष्पथे प्राथमिक "मा"कारं प्रविष्टः, ततस्तमेव "मा" कारमारभ्य अधोऽधः "न्याथसी" इति त्रयो वर्णा मुष्टौ लेख्याः। ततोऽधश्चतुष्पथमध्ये तदन्तिम"मा" कारं विन्यस्य तद्दक्षिणशाखायां "रामाणां शं" इति चतुरो वर्णान् विन्यसेत्, ततो वामळाखायां विलोमेन "मे दिश्यादु" इति चतुरो वर्णान् लिखेत्। "मा" कारः अधश्चतुष्पथस्थे "मा" कारं प्रविष्टः। ततो मुष्टेरधः त्सरुके "द्रिजा" इति वर्णद्वयं लेख्यमिति खङ्गनिष्पत्तिः। मुरजबन्धो यथा, -"सा सेना गमनारम्भे रसेनासीदनारता। तारनादजना मत्तधीरनागमनामया।।" अत्र पङ्क्तिचतुष्टयेन लिखितस्य पादचतुष्टयस्याधःक्रमेण यथाक्रमं प्रथमद्वितीयतृतीयचतुर्थानूङ्र्घक्रमेनण पञ्चमषष्ठसप्तमाषटमान् वर्णान् गृहुत्वा प्रथमः पादः। द्वितीयात् प्रथमं प#्रथमात् द्वितीयतृतीयौ द्वितीयात् चतुर्थपञ्चमी प्रथमात् षष्ठसप्तमौ द्वितीयदष्टमं गृहित्वा द्वितीयः पादः। तृतीयात् प्रथमं तुय्र्यात् द्वितीयतृतीयो तृतीयात् तुय्र्यपञ्चमौ तुय्र्यात् षष्ठसप्तमौ तृतीयादष्टमं गृहित्वा तृतीयः पादः। पादचतुष्टयोङ्र्घक्रमेण प्रथमद#्वितीयतृतीयचतुर्थानधःक्रमेण पञ्चमषष्ठसप्तमाष्टमान् गृहित्वा चतुर्थापादः पाठ्यः, एवं मुरजसिद्धिः। तत्र मुरजबन्धप्रकारो यथा,- तथा पद्मबन्धो यथा, -"भासते प्रतिभासार! रसाभाता हताविभा। भावितात्मा शभा वादे देवाभा वत ते सभा।।" अत्राष्टदिक्षु वितताष्टदलं पद्मं लेख्यं, तत्र कर्णिकायामाद्यः "मा" कारः लेख्यः, ततो दले निर्गमप्रवेशरीत्या द्वौ द्वौ वर्णौ लेख्यौ, किन्तु दिग्दलेषु निर्गमः प#्रवेशश्च, तत्र च प्राच्यदले आदौ निगमः श्लोकान्तप्रवेश्च; दक्षिणोत्तरदलयोः निर्गत्यैव प्रवेशः, पश्चिमदले तु प्रविश्यैव निर्गमः। आग्नेयवायव्यदलयोः प्रवेश एव, नैऋतेशानयोस्तु निर्गम एव इति अष्टदलपद्मबन्धः। तथा चोक्तं, -"कर्णिकायां न्यसेदेकं द्वे द्वे दिक्षुविदिक्षु च। प्रवेशनिर्गमौ दिक्षु कुय्यादष्टलाम्बुजे।।" इति। एवमन्येऽपि मुषलादयो वेदितव्या इति दिक्)।।79।। तत्र पद्मबनधनधकारो यथा,- अथ अद्र्धभ्रमं सर्वकोभद्रञ्च निरूपयति, प्राहुरिति। -यदि श्लोकाद्र्धभ्रमणं श्लोकस्य श्लोकीयपादचतुष्टस्येत्यर्थः, अद्र्धेन अद्र्धमार्गेण, अनुलोमविलोमात्मकयोरुच्चारणमार्गयोर्मध्ये केवलमनुलोममार्गेणेति, भावः, भ्रमणं भ्रमणेन पादोपस्थितिरिति यावत्, तदा अद्र्धभ्रमं नाम चित्रं प्राहुः। यदि सर्वतः अनुलोमप्रतिलोमाभ्यां मार्गाभ्याम् इत्यर्थः, भ्रमणं, तत् तदा, सर्वतोभद्रं नाम चित्रम्, इष्टम्। ( तथा हि, द्विविधमिदम् अष्टाक्षरवृत्तिघटितमेव प्रायशो दृश्यते, तत्र प्रथमं चतुःषष्टिकोष्ठानि अष्टपङ्क्तिधटितानि लेख्यानि,ततः आद्यपङ्क्तिचतुष्टये क्रमेण पादचतुष्टयवर्णा निवेशनीयाः, ततश्च निम्नपङ्क्तिचतुष्टये चतुर्थतृतीयद्वितीयप्रथमपादा वैपरीत्येन लेख्याः ; तत्र अद्र्धभ्रमे अधः पङ्क्तिचतुओष्टये परावृत्त्या सर्वतोभद्रे तु परावृत्त्या समावृत्त्या च चतुर्थादिपादलेखनम इति भेदः। आवृत्तिक्रमस्तु अद्र्धभ्रमे चतुष्पादात्मिकायाम् ऊङ्र्घपङ्क्तौ वामात् दक्षिणतः, तथा पादचतुष्टयात्मिकायाम् अधःपङ्क्तौ दक्षिणात् वामतः, एवं वामस्योङ्र्घकोष्ठादधःक्रमेण दक्षिणस्य धः कोष्ठात् ऊङ्र्घक्रमेण च अनुलोमावृत्त्या प्रथमदिपादोपस्थितिः। सर्वतोभद्रे तु दक्षिणात् वामतः वामाद्दक्षिणतश्च ऊङ्र्घदधःक्रमेण अधस्त ऊङ्र्घक्रमेण च अनुलोमप्रतिलोमाभ्यां सर्वत आवृत्त्या पादोपस्थितिरिति बोध्यम्। एवं पठितिभङ्गिविशेषात्मकस्य गतिचित्रस्यैव भेदस्वरूपौ अद्र्धभ्रमसर्वतचोभद्रौ ग्रन्थकृता दर्शितौ, एतस्यैव गतिचित्रस्यान्येऽपि भेदा गतप्रत्यागतादयः ग्रन्थान्तरादवगन्तव्याः। तत्र दिङमात्रं यथा,-" वारणागगभीरा सा साराभीगगणारवा। कारितारिबधा सेना नासेधा वरितारिका।।" इति। अत्र प्रथमतृतीयटपादयोरानुलोम्येन वर्णावलीं गृहित्वा तत्प्रतिलोमरूपौ द्वितीयचतुर्थपादौ गृह्यते, अत- पठितेर#्र्णाद्वर्णान्तरसञ्चारात् गतप्रत्यागताख्यां गतिचित्रम्। तथा श्लोकान्तरं यथा, -" वाहनाऽजनि मानासे साराजावनमा ततः। मत्तसारगराजेभे भारीहावज्ज्नध्वनि।। अत्र प्रातिलोम्येन पठनादपरः श्लोको भवति, यथा,-" निध्वनज्जवहारीभा भेजे रागासात्तमः। ततमानवजारासा सेना मानिजनाहवा।।"इत्यादि)।।80।। तत्राद्र्धममुदाहरति, मनोभवेति।-हे मनोभव! काम!, हे नत! कामिजन नमस्कृत!, तव अनीकं सैन्यरूपा, मानिनी इयं मानवती, उदयाय वृद्धये, विजयायेत्यर्थः, तवेति शेषः, न इति न, अपि तु उदयाययैव। ननु विजयिनां सैन्यम् अपराधिदण्डड्डत्ध्;कं, त्वन्तु नापराधी, तत् तव अत्र किमित्याह, भयादिति। -वयम् एनोमयाः पापिनः अपराधिन इत्यर्तः, मा वा न वा, किन्तु भयात् अमेयामाः अमेयः अपरिमेयः, आमः रोगः येषां तथोक्ताः, यदि च वयमनपराधिनः तथाऽपि भृशं भयात्र्ता जाताः स्मेत्यर्थः। (अस्योदाहरणान्तरं यथा, -"ससत्वरतिदे नित्यं सदरामर्षनाशिनि। त्वराधिककसंनादे रमकत्वमकर्षति।।" इति)।।81।। सर्वतोभद्रमुदाहरति, सेति। -(अत्रायं पदविभागः, -सा, अमायामामाया, मासा; मारानायायानारामा; यानावारारावा, अनाया; माया, रामा, मारायस अमा इति) अमायामामाया अमायस्य अकपटस्य, अमस्य अपरिमितस्य, आमस्य रोगस्य, कामपीडड्डत्ध्;ाया इत्यर्थः, आः आगमनं यया तथोक्ता, तथा मारानायाय#ानाराना मारः काम एव, आनायः जालं, बन्धनहेतुत्वात् इति भावः, तस्य आयानेन आगमनेन, आरामः प्रीतिः यस्याः तादृशी, सततकामव्यापारवती इत्यर्थः, किञ्च यानावारारावा यानं विदेशगमनम्, आवारयति निषेधयतीति यानावारः विदेशगमनप्रतिषेधकः, आरावः, वचनं यस्याः तथाभूता, मधुरभाषणेन मम विदेशगमनं वारितवतीत्यर्थः, किञ्च अनाया नास्ती नायः नयः, नीतिरित्यर्थः, ("नयो नाये" इत्यमरः) यस्याः तादृशी, मम प्रवासाकरणे काय्र्यहानिः भवेन्न वेति विवेकरहिता इत्यर्थः, तथा माया मां लक्ष्मीं यातीति तथोक्ता, अतिसुन्दरीत्यर्थः, सा स्मृत्युपस्थिता इत्यर्थः, रामा रमणी, मत्प्रेयसीति शेषः, मासा चन्द्रेण, ("छायामृगधरो राजा माः" इति चन्द्रपय्र्याये त्रिकाण्डड्डत्ध्;शेषः) अमा सह, ("अमा सह समीपे च" इत्यमरः) माराय मम विनाशाय, तस्याः स्मरणं चन्द्रोदयश्च सम्प्रति मां भृशं व्याकुलयतीत्यर्थः। (कान्तामनुस्मरतो विरहिणो विलारवचनमिदम्। उदाहरणान्तरं यथा, -" दे वा का नि नि का वा दे वा हि का स्व स्व का हि वा। का का रे भ भ रे का का नि स्व भ व्य व्य भ स्व नि।।" इति। अत्र पङ्क्तिचतुष्टयेन लिखनम्, अनुलोमविलोमाभ्यामुपय्र्यधःक्रमेण अधः उपरिक्रमेण च पाठः। किञ्च पादाद्र्धमात्रं लिखित्वा प्रतिलोमेन पठनेऽपि सम्पूर्ण एव पादो निष्पद्यते इति सर्वत आवृत्या श्लोकनिष्पत्त्#ेरयं सर्वतोभद्रबन्ध इत्यवगन्तव्यम्)।।82।। प्राचीनैश्चित्रालङ्कारत्वेनङ्गीकृतस्य स्वरादिनियमस्य बहुभेदस्यापि दुष्करं भेदचतुष्टयं प्रत्येकशो दर्शयन्नाह, य इति। -स्वरस्थानवर्णानां स्वरा अकारादयः, स्थानानि कण्ठादीनि, कण्ठ्यादिवर्णा इत्यार्थः, तथा वर्णाः कण्ठ्यतालव्याद्यविशेषेण व्यञ्जनमात्राणीत्यर्थ#ः, तेषां योऽसौ नियमः चतुर्भिरेव स्वरैः त्रिभिरेव द्वाभ्यामेव एकेनैव तथा तादृशैः स्थानैः वर्णैः वा काव्यं रचयितव्यमित्याद्यवधारणमित्यर्थः, प्राचीनैरलङ्कारतया उक्त इति शेषः, दुष्करेषु आयासकरणीयेष, एषु मध्ये, इष्टः दुष्टकरत्वेन अभिमतः, चतुरादिस्वरस्थानवर्णनियम एव आयासकरतया दर्शयितुमुचित इत्यर्थः, चतुःप्रभृति चत्वारः चतुश्चतुःसङ्ख्याकाः स्वरस्थानवर्णाः, प्राभृतयः आदिभूता यत्र तद्यथा तथा, ( क्रियाविशेषणमिदं, चतुरदित्वञ्च एकाद्यपेक्षया इति बोध्यम्)ततश्च चतुःस्वराद्यारभ्य एकस्वरादिपय्र्यन्तम् इत्यर्त-, नियम#ः इति शेषः, दश्र्यते, चतुस्त्रिद्व्येकरूपत्वात् चत्वारो भेदा दश्र्यन्ते इत्यर्थः, परः अन्यः पञ्चादिः, सुकरः अनायासनिष्पाद्यः, अतस्तदुदाहरणं यथायथं मृग्यं, दुष्करसाधनार्थमेव प्रायासः, ग्रन्थबाहुल्यभिया सुकराणां प्रदर्सनं प्रात्याख्यातमिति भावः। ( अत्रेदमवधेयं यत्, -षड्ड्डत्ध्;भेदेषु चित्रालङ्कारेषु मध्ये गतिचित्रं कियत् दर्शयित्वा स्वरचित्रं स्थानचित्रं वर्णचित्रमिति त्रिविधचित्रं तथा तेषाञ्च प्रात्येकशश्चतुर्भेदतया द्वादशविधत्वञ्च श्लोकेनानेन सूचितमिति)।।83।। तत्र प्रथमं दीर्घचतुःस्वरमुदाहरति, आम्नायानामिति।--आम्नायानां श्रुतिनाम्, अन्त्या चरमास, वाक् उपनिषदिति यावत्, गीतिः गानानि, ईतीः अतिवृष्ट्याद्युपप्लवरूपाः, चित्तक्षोभजनकत्वादिति भावः, तथा प्रीतिः पुत्रदारादिषु प्राणयान्, भीतिः भयङ्करीरित्यर्तः, पुत्राद#ीनां वियोगादिना दुःखजननादिति भावः, आह ब्रवीति, अतः कारणात् भोगः सङ्गीतादिविषयोपभोगः, रोगः व्याधिस्वरूपः, तथा मोदः वैषयिकानन्दः, मोहः अज्ञानमेव इत्यप्याह इति शेषः, गीतिः ईतीः, प्रीतिः भीतीः केवलमेतदेव न आह, परं भोगः रोगः मोदः मोहः इत्यप्याह तस्मात् एतत् सर्वं हेयमिति भावः ; तर्हि किं कत्र्तव्यमित्याह, -क्षेमे देशे पुण्यभूमौ, ध्येये परमात्मनि, धेच्छे धानमिति धाः धारणा, मनःसमाधानम् इत्यर्थः, इच्छा तत्प्रप्त्यभिलाषश्च ते, विधेये इत शेषः। ( अत्र "धेच्छे" इत्यादौ "चेच्छेत् क्षेमे देशे" इति पाठान्तरे- ध्येये ध#्यातव्य, क्षेमे क्लेशरहिते, देशे विषये, मोक्षलक्षणे इत्यर्थः, इच्छेच्च इच्छां किय्र्यात् इति।। " धेच्छे" इत्यत्र " ध्येच्छे" इति पाठे-ध्या ध्यानमित्यर्थः। अत्र आ ई ओ ए इति चतुर्भिरेव दीर्घस्वरैः पद्यबन्धः। विद्युन्माला वृत्तमिदम् )।।84।। ह्रस्वत्रिस्वरमुदाहरति, क्षितीति। -क्षितेः पृथिव्याः, विजितिः विजयः, स्थितेर्मय्र्यादायाः, वर्णाश्रमलक्षणाया इति भावः, विहितिः विधानं, ते एओव व्रते नियमौ, क्षितिविजितिस्थितिविहितिव्रते, तयोः रतिः अनुरागः येषां तथोक्ताः, तथा परा उत्तमा, गतिज्र्ञानं, ("गत#ि#ः स्त्री मार्गदयोः ज्ञाने यात्राऽभ्युपाययोः" इति मेदिनी) येषां तादृशाः, कुरवः कुरुवंशजा नृपाः, युधि युद्धे, स्वं निजम्, अरिकुलं शत्रुसमूहम्, उरु अत्यर्थं यथा तथा, रुरुधुः प्रतिरुद्धवन्तः, तथा गुरु अतिशयं यथा तथा, दुधुवुः कम्पितवन्तः। (अत्र इ अ उ इति त्रिभिरेव ह्रस्वस्वरैः पद्यबन्धः। त्वरितगतिर्वृत्तमिदम्)।।85।। दीर्घद्विस्वरमुदाहरति, श्रीदीप्ती इति। -श्रीः लक्ष्मीः, दीप्तीः कान्तिश्च ते, ह्रीः लज्जा, कार्त्तिः यशश्च ते,धीर्बुद्धिः, नीतिः नयश्च ते, गोः वाक्, वागमिता इति मधुरवाक् इति वा भावः, प्रीतिः सन्तोषश्च ते, द्वे द्वे एतत् द्वयं द्वयं, ते एव, एधेते वद्र्धेते, ये इमे द्वे द्वे, देवेशे देवानामूश्वरे, इन्द्रेऽपि इत्यर्तः, न, विद्यते इति शेषः। (अत्र ई ए इति द्वाभ्यामेव दीर्घस्वराभ्यां पदाबन्धः। वाणीवृत्तमिदम्। ह्रस्वद्विस्वरोदाहरणं यथा, -" क्षितिस्थितिमितिक्षिप्तिविधिविन्निधिसिद्धिलिट्!। मम त्र्यक्ष! नमद्दक्ष! हर! स्मरहर!स्मर।।" इति)।।86।। दीर्घैकस्वरमुदाहरति, सेति। -पद्यमिदं सर्वतोद्रोदाहरणत्वेन पूर्वं लिखितं व्याख्यातञ्च। (अत्र आ इत्यनेनैकस्वरेण पद्यबन्धः। उदाहरणान्तरं यथा, -"वैधैरैनैरैशैरैन्द्रैःरैजैरैलैर्जैनैः सैद्धैः। मैत्रैर्नैकैर्धैय्र्यैर्वैरैदैः स्वैः स्वैरैर्दैवैस्तैस्तैः।।" इति। ढद्धठ्ठड़14;लस्वैकस्वरं यथा, -" उरुगुं द्युगुरु युत्सु चुक्रुशुस्तुष्टुवुः पुरु। लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नुमुहुर्मुहुः।।" इति)। इत्थं स्वराणां चत्वारो भेदा दर्शिता इति बोध्यम्।।87।। अथ स्थाननियम् दर्शयितव्ये प्रथमं निरौष्ठ्यं चतुःस्थानं दर्शयति, नयनेति ।-हे नयनानन्दजनने! नेत्रोत्सवदायिनि!, अङ्गने! सुन्दरि! अघने मेघरहिते, अत एव नक्षत्रगणशालिनि तारानिकरभूषिते, गगने आकाशे, सकृत् एकवारं, दृष्टिः नेत्रं, दीयतां निक्षिप्यताम्। (नयनानन्दजनने इति गगने इत्यस्यापि विशेशणं सङ्गच्छते। मानिनीं सान्त्वयतो नायकस्य तादृशगगने दृष्टिपोतोक्तेः कामोद्दीपकत्वात् तादृशगगनस्य अनायासेनैव मानभङ्गः स्यादिति तात्पय्र्यम्। अत्र दन्त्यतालव्यकण्ठ्यमूद्र्धन्यैरेव वर्णैः पद्यनिबन्धनात् चतुः स्थानत्वमवगन्तव्यम्षमूद्र्धन्यविरहितं चतुःस्थानं यथा, -" शलभा इव धावन्तः सायकास्तस्य भूभुजः। निपेतुः सायकच्छिन्न्स्तेन संयुगसीमनि।।" इति। निष्कण्ठ्यं यथा, -" भूरभितिं पृथिप्रीतिमुरुमूर्तिं्त परुस्थितिम्। विरिÏञ्च सूचिकुचिधीः! शुचिभिर्नुचुभिर्दिनु।।" इति। निस्तालव्यं यथा, -" स्फुरत्कुण्डड्डत्ध्;लरत्नौघमघवद्धनुकर्बुरः। मेघानादोऽथ सङ्गमे प्रावृट्कालवदाबभौ।।" इति। निर्दन्त्यं यथा, -" पाम्पापहारी सणकर्मशौण्डड्डत्ध्;श्चण्डड्डत्ध्;ीशमिश्रो मम चक्रपाणिः। भूयाच्छ्रियापश्रमयेक्ष्यमाणो मोक्षया मुख्यामरपूगपूज्यः।।" इति)।।88।। त्रिस्थानं निरौष्ठ्यमूद्र्धन्यं दर्शयति, अलीति। -हे घमस्तनि! निविडड्डत्ध्;पयोधरे!, अवलय इव भ्रमरा इव, नीलाः कृष्णवर्णाः, अलकलताः लतावद्विन्यस्ताश्चूर्णकुन्तला यत्र तत्, नलिनच्छाये पद्मसदृशे, नयने यत्र तादृसं, तथा शशिनः कान्तिरिव कान्तिर्यस्य तथाभूतं, ते तव, आननं वदनं, कं जनं, न हन्ति? नाकुलयति? अपि तु सर्वमेवेत्यर्त-। ( अत्र कण्ठ्यदन्त्यतालव्यैरेव वर्णैः पद्यबन्धः इति त्रीणि स्थानानि मद्र्धन्यौष्ठ्यवर्णरहितानीति ज्ञेयम्। एवं निरौष्ठ्यदन्त्यं त्रिस्थामं यथा, -"जीयाज्जगज्ज्येष्ठगरिष्ठचारस्चक्राÐच्चषा कृष्णकहाकायः। हरिर्हिरण्याक्षशरीरहारी खगेशगः श्री श्रयणीयशय्यः।।" इति)।।89।। दनत्यकण्ठ्यैः द्विस्थानचित्रमुदाहरति, अनङ्गेति। -हे सदानघ! सदा अनघ! दुःखविवर्जित!, सर्वावस्तास्वेव व्यथारहित! इत्यर्तः, निश्चिन्त! इति भावः, ("अघन्तु व्यसने दुःखे दुरिते च नपुंसकम्" इति मेदिनी) तथा हे सदानन्दनताङ्ग। सदा आनन्देन गीतवादित्राद्यामोदेन, नतानि वसीकृतानि, व्यापृतानि इति यावत्, अङ्गानि अवयवा यस्य तत्सम्बुद्धौ, सदङ्गमृना साध्वी नारी, अपीति शेष-, असङ्गसङ्गतः नास्ति सङ्गो येषां ते असङ्गाः दिर्जनाः, तेषां सङ्गः सम्पर्कः तस्मात् दुर्जनसम्पर्कात् इत्यर्थः, अनङ्गलङ्घनया कामाक्रमणेन, लग्नाः संसृष्टाः, जाताः इत्यर्त-, नाना विविधाः, आतङ्काः सन्तापाः शङ्काः वा ("आतङ्को रोगसन्तापश्ङ्कासु मुरजध्वनौ" इति मेदिनी) यस्यां तादृसी भवति, भत्र्तुविरहेण सती अपि दुर्जनासङ्गेन भ्रश्यतीति भावः। (तस्मात् भाय्र्यां प्रतिचिन्तय केवलं वृथाऽऽमोदेनालमिति सखायं प्रति कस्यचिदुक्तिः। अत्र दन्त्यकण्ठ्यैरेव पद्यरचना इति द्विस्थानत्वम्। "नताङ्गासङ्गसङ्गतः" इत्यत्र "नताङ्गीमङ्गसङ्गता!" इत्यपि पाठः। तत्र हे सदानन्द! सदैव प्रियालाभेनानन्दयुक्त! इति पृथक् सम्बोधनम्; तथा हे नताङ्ग्याः कस्यश्चिदन्यस्या नायिकायाः सङ्गे सङ्गत! इति सम्बोधनान्तरं, तव सदङ्गना कामाक्रमणाय नानारूपतया वत्र्तते, अतस्तामनुकम्पस्व इति सोपालम्भप्रार्थनमित्यर्थः। पाठोऽयन्तु न मनोरमः, ईकारस्य कालव्यत्वात् केवलं दन्त्यकण्ठात्वहानेरिति)।।90।। कण्ठावर्मैरेकस्थानचित्रमुदाहरति, अगा इति। -(पदविभागो यथा, - आगाः, गां, गाङ्गकाकाकगाहक, अघककाकहा; अहाहाङ्ग, खगाङ्कागकङ्क, अगखगकाकक इति) हे गाङ्गकाकाकगाहक! गङ्गाया इदं गाढद्धठ्ठड़14;गं, यत् कं जलं, तस्य आकाकः सशब्दवक्रगतिः, (आङ्पूर्वात् " कै शब्दे" इत्यस्मात् भावेक्विपि आकाः, "अक कुटुलगतौ" इत्यस्मात् भावे ङप्रत्यते अकः) आका सह अकः आकाकः तरङ्ग इत्यर्थः, तं गाहते इति तथोक्तः, तत्सम्बुद्दौ, हे गङ्गाजलतरङ्गावगाहिन्! इत्यर्थः, ते तथा हे अहाहाङ्ग! हाहां दीनतासूचकध्वनिविशेषम्, अङ्गति गच्छतीति हाहाङ्गः, न हाहाङ्गः अहाहाह#्गः तत्सम्बुद्धौ, हे सदानन्द! इत्यर्थः, किञ्च हे खगाङ्कागकङ्क! खं गगनं गच्छन्तीति खगाः सूय्र्यादयः, ते अङ्काश्चिढद्धठ्ठड़14;नानि यस्य स खगाङ्कः, स च असौ अगः पर्वतश्चेति खगाङ्कागः सुमेरुरित्यर्थः, तं कङ्कते गच्छतीति तथोक्तः, ("ककि गतौ" इत्यस्मात् अणप्रत्ययः) तत्सम्बुद्धौ, पुण्यबलेन सुमेरुपर्वतपय्र्यन्तममनार्ह! इत्यर्थः, पुनश्च हे अगखगकाकक! अगति गच्छति इति अगं नश्वरमित्यर्थः, खानि इन्द्रियाणि गच्छतीति खगम् इन्द्रियविषयं, ततस्च अगं खग़्च यत् कं सुखं, तदर्थं न ककते न इच्छति, न अभिलषतीत्यर्थः, इति अगखगकाककः तत्सम्बुद्धौ, ("कक् गर्वेच्चालौल्यैषु" इत्यस्य रूपम्) इन्द्रियसुखेन अनासक्त इत्यर्थः, (" अहाहाङ्गखगाङ्कागकङ्कागखगकाकक!" इति समस्तापाठे तु, -हानं हाः, न हाः अहाः, तां जिहीते प्राप्नोतीति अहाहं, तादृशमढद्धठ्ठड़14;गं यस्य सः अक्षयशरीर इत्यर्थः, यः खगः गरुडड्डत्ध्;ः सूय्र्यो वा, स अङ्क#ः चिढद्धठ्ठड़14;नभूतो यस्य कादृस-, अगः पर्वतः, समेरुरित्यर्थः, तत्र ये कङ्काः तदाख्याः, अगखगाः वृक्षवासिनः पक्षिण-, तेऽपि काककाः गमनस्पृहयलवो यस्य तत्सम्बुद्धे पतत्रिभिरप्यभिनन्दितगमन इत्यर्थः) त्वम् अघककाकहा अघकानि कुत्सितानि पापानि एव, काकाः वायसाः, अनर्थहेतुत्वादिति भावःस, तान् हन्तीति तथोक्तः अपापः, सन्, गां पृथिवीम्,अगाः गतवानसि, प्रदक्षणीचकर्थेत्यर्थः। यद्वा, -गा स्वर्गं, ("स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणी- भूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः" इत्यमरः) अगाः याया इत्यर्थः। ( आशंसायां भूतप्रत्ययः कस्यचिद्देशपय्र्याटकस्य स्तुतिरियम्। अत्र कण्ठ्यैरेव वर्णैः पद्यरचना)।।91।। अथ चित्रालङ्कारभेदे वर्णनियमे दर्शयितव्ये स्वरस्य पृथक् निर्देशात् वर्णपदेन व्यञ्जनरूपवर्णस्यैव ग्रहणमति व्यञ्जनात्मकं चतुर्वर्णमुदाहरति, रे रे इति। -( रे रे इति नीचसम्बोधनसूचकमव्ययम्) रे रे मामम! मायां लक्ष्म्यां, मम ( इथ्यव्ययं) ममता इत्यर्थः, यस्य स#ः तत्सम्बुद्धौ, कृपण इत्यर्थः, ("मायाम् अमम अममत्वं यस्य सः लक्ष्मीशून्यः" इति केचित्) मां मा मा न न, ( इति निषेधवाचकं, सम्भ्रमाद्यतिरेके द्विरुक्तिरिति) अम गच्छ, मत्समीपं मा गच्छेत्यर्थः, त्वमिति शेषः, यतः काकः वायसः, किं केकाकाकुकः केका मयूरध्वनिः, तस्याः काकुः मदनितविकारः, तं कायति शब्दायते, शब्देन प्राकासयतीत्यर्थः, ("कै शब्दे" इत्यस्मात् डड्डत्ध्;प्रत्ययः) तादृशः भवति? इति शेषः, अपि तु नैवेत्यर्थ-, काको यथा मयूरकेकाभिलाषे व्यर्थमनोरथ एव भवति तथा मत्प्राप्त्यभिलाषो त्वमपीति भावः ; किञ्च रोरूरुरूरोरुगागोगः र#ोरूयते भयेन पुनः पुनरतुशयेन वा रौतचीति रोरूः, (रौतेर्यङ्लुगन्तात् क्विप्) स च असौ रुरुर्मुगविशेषश्चेति रोरूरुरुः, तस्य उरसः वक्षस-, या रुक् शरवेधजनिता व्यथा, सा एव आगः अपराधः, पापमित्यर्थः, तत् गच्छति प्राप्नोतीति तताभूतः, निरीहजीवहिंसकत्वात् प्रापीयानित#्यर्थ-स निचकाय्र्यकारितया त्वं न मे योग्य इति भावः ; पुनश्च त्वम् अगाङ्गगः अगस्य पर्वतस्य, अङ्गम् एकदेशं, गच्छति अधिवसतीत्यर्थः, तथोक्तः पार्वत्य इत्यर्तः, निकृष्टदेशवासित्वाच्च त्वं न मे योग्य इति भावः ; तथा अगगुः न गच्छति न सङ्गच्छते इति अगा असम्बद्धाइत् यर्थः, गौः वाक् ("स्वर्गैषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः" इत्यमरः) य्सय तादृसः, असम्बदधभाषीत्यर्त-, अतोऽपि त्वं न मे योग्य इति भावः। (वाराङ्रनामभिलाषन्तं कञ्चितं व्याधं प्रति तस्याः प्रत्याख्यानोक्तिरियम्। अत्र "र-ग-क-म" इचि चतुर्भिरेव व्यञ्जनवर्णैः पद्यबन्धः। वर्णपदेन च पद्यपूरकवर्णानां ग्रहणं , तेन अङ्गेति ङकारयोगेऽपि न चातुर्वण्र्यव्याघातः, तस्य पद्यपूरकत्वाभावात्ष। ङकारयोगादिदमुदाहरणं केषाञ्चिदशुद्धत्वेनाभिमतं चेत् शिद्धोदाहरणं यथा, -"जजौजोजाजिजिज्जाजी तं तत#ोऽतिततातितुत्। भाभाऽभोभाभिभीभाभूरारारिरिरी ररः।।" इति)।।92।। वर्णचित्रेषु त्रिव्यञ्जनमुदाहरति, देवानामति। -देवानाम् इन्द्रादीनां, नन्दनो दैत्यदमनात् प्रीतिजननः, तथा वेदनिन्दिनो वेदनिन्दकस्य नास्तिकजनस्य इत्यर्थः, ("वेदनिन्दिनः" इत्यत्र " वेदनिन्दिनाम्" इति पाठान्तरम्) नोदनः निरासक), देवः नृसिंहरूपी भगवान्, दानवान#् नन्दयति त्रिभुवनविजयेन सन्तोषयतीति तथोक्तस्य दानवन्दिनः हिरण्यकसिपोः, दाने वक्षोविदारणे, ("दो अवखण्डड्डत्ध्;ने" इत्यस्मात् अनट्प्रात्ययः) नादने सिंहनादेन, दिवम् अन्तरीक्षं. दुदाव तापितवान्। ( अत्र "द-व-न" इति त्रिभिरेव व्यञ्जनैः पद्यबन्धः)।।93।। दिव्यञ्जनात्मकं वर्णचित्रमुदाहरति, सूरिरिति। -सूरिः विद्वान्, तथा सुरासुरासारिसारः सुरान् असुरांश्च आसरति आस्कन्दति इति तथोक्तः सारो बलं यस्य तादृशः किञ्च ससूरुः सु शोभनौ, ऊरू सूरू, ताभ्यां सहितः वामोरुरित्यर्थः, पुनस्च सुरारसी सुरायां मधुपाने, रसः आस्व#ादः, अनुराग इत्यर्तः, विद्यते अस्येति सुरारसो, स प्रसिद्धः, सीरी सीरं लाङ्गसमस्यास्तीति तथोक्तः बलदेवः,. सारससारसाः आरसेन उच्चैः शब्देन सह वत्र्तमानाः सारसाः उच्चैः शब्दं कुर्वाणाः, सरसि भवाः सारसाः पक्षिविशेषाः यासु ताः, सरसोः ताडड्डत्ध्;ागान्, ससार जलक्रीडड्डत्ध्;ार्थ#ं गतवान्। (बलदेवस्य जलक्रीताप्राकरणोक्तं पद्मितम्। अत्र द्वाभ्यामेव "स-र" इति वर्णाभ्यां पद्यबन्धः। यथा वा, -" भूरिभिर्भारिर्भीरौर्भूभारैरभिरेभिरे। भेरीरेभिभिरभ्राभैरभीरुभैरिभाः।।" इति)।।94।। चित्रालढद्धठ्ठड़14;कारबेदमेकव्यञ्जनमुदाहरति, नूनमिति।- अननेन प्रबलेन, अनेन पुरतो दृस्यमानेनेत्यर्तः, एनेन एतेन, झ्र्"द्वितीयाटौस्स्वेनः" (2/4/34 पा.) इति इदमः एतदो वा एनादेशःट रिपुणा इति भावः, यद्वा, -इन- प्रभुः, अ इनः एन- अप्रभुः, तेन प्रभुप्रति7#ेण, शत्रुणा इत्यर्थ#ः आननेन मुखैनैव करणेन, भ्रुकुटिमतेति बावः, नः अस्माकम्, अननानि प्रामाः, नूनं निश्चितं, नुन्ननि अपनीतानि, न इति न, अपि तु नुन्नान्येव, अस्य भ्रुभÏङ्ग दृष्ट्वेव वयं मृतप्रायाः, का कथा सम्प्रहारस्य इति भावः ; परन्तु ननु भोः।, इनः प्रभुः, ना पुरुषः, अस्माकं प्रबुरुत्यरित्यर्थः अनान् प्राणान्, निनीः रक्षितमिच्छुः सन्नित्यर्तः, (नेतुमिटच्छतीति निधातोः सनन्तात् क्विपि प्रथमैकवचनम्) न अनेनाः न अपापः, भवति इति शेषः, शत्रुविजितस्य युद्धे मरणं जीवितादपि वरम् अतोऽनेन यथाशक्ति युद्झं कत्र्तव्यमिति भावः। (रिपुपराजितस्य कस्यचित् नृपस्य सैन्यानां दैन्यक्तिरियम्। अत्र नकाररूपवर्णैरेव पद्यबन्दः। एवं क्रमस्त सर्वव्यञ्जनवर्णैरपि बन्धे वैचित्र्यातिशयात् तदप्यत्र केचित् अङ्गीकुर्वन्ति; तदुदाहरणं यथा, -"कः खगौघाङचिच्छौजा झाञ्ञाटोठीडड्डत्ध्;डंड्डत्ध्;ढणः। तथोदधीन पफर्वाबीर्मयो- रिल्वाशिषा#ं सहः।।" इति। तथा म्यरस्तजभनगलान्ता ये दशवर्णाश्छन्दो- लक्षणसिद्धये निर्णीताः, तैर्निबद्धं छन्दोऽक्षरव्यञ्जनरूपमप्युक्तं, यथा, -"सरत्सरारातिभयाय जाग्रतो जगत्यलं स्तोतृजनस्य जायताम्। स्मितं स्मरारेर्गिरिजास्यनीरजे समेतनेत्रत्रितयस्य भूतये।।" इति। तथा " सरिगामपधानिस्च वर्णाः सप्त स्वरादयः। षड्ड्डत्ध्;जादिकृतसङ्केता दृष्टा गान्धर्ववेदिभिः।।" इत्युनक्तलक्षणमात्रव्यञ्जनमयं षड्ड्डत्ध्;जादिव्यञ्जनं यथा, -" सा ममारिधमनीनिधानिनी सामधामधनिधामसाधिनी। मानिनी सगरिमाऽपपापपा सापगा समसमागमाऽसमा।।" इति। एवमन्येऽपि भेदा ज्ञेयाः)।।95।। चित्रालङ्कारस्य दुष्करतया ग्रन्थबाहुल्यतया च कियन्तं दर्शयित्वा तमुपसंहरन् प्रहेलिकां निर्दिशति, इतीति। इति उक्तप्राकारेण, दुष्करमार्गेषपि चतुस्त्रिद्वेकरूपत्वात् कृच्छ्रसाध्यनियमेऽपि, कश्चित् अल्पमात्र इत्यर्थः, क्रमः नियमः, आदर्शितः उदाहृतः, ( एतावत#ा अन्येऽपि दुष्कराश्चित्रालङ्काराः पद्मबन्धःदयः प्राचीनोक्ताः सन्ति, ग्रन्थविस्तारभयेन ते नात्रोक्ताः, ग्रन्थान्तरतः ज्ञातव्या इति ज्ञापितम्)। पुनः इदानीं, प्रहेलिकायाः प्राकाराणां विशेषाणां, गतुः नियमः, उद्दीस्यते निरूप्यते। (तल्लक्षणन्चु सामान्यत उक्तम्;यथा, -" प्राहेलिका तु सा ज्ञेया वचः संवृतिकारि यत्" इति। ततश्च स्वाभिलषितार्थस्य कथीञ्चित् संवरणात्मकवचनविन्यासः प्राहेलिकेति लक्षणमवगन्तव्यम्)।।96।। " रमस्य परिपन्थित्वात् नालङ्कारः प्राहेलिका" इत्युक्त्या यदि च प्राहेलिकाया यमकादिवत् शब्दार्थोपस्कारकत्वेन रसानगुण्याबावात् नालङ्कारत्वं, तथाऽपि अस्या उपयोगित्वामाह, क्रीडड्डत्ध्;ति। -क्रीडड्डत्ध्;ागोष्ठीषु विहारसभासु, ये विनोदाः प्रामेदाः, यद्वा, -क्रीडड्डत्ध्;ा परस्परवाक्चातुय्र्यरूपकौतुकं, गोष्ठी विदग्धानामासनबन्दः, विनोदः काव्यसमालोचनेन कालयापनं तेषु, तथा तज्ज्ञैः प्रहेलिकाभिज्ञैः सह, आकीर्णे जनसङ्कुले देशं, यत् मन्त्रणं गुप्तभा,णं, परस्परसंलापः इत्यर्थः, तस्मिन्, तथा परस्य बोद्धव्यव्यतिरिक्तस्य जनस्य, व्यामोहने विसेषर#ूपेणअर्थाबोधवशेन मनसः व्याकुलतायाम्, अथवा अवबोधनिराकरणे विषये, प्रहेलिताः सोपयोगाः सप्रयोजनाः, उपकारिण्य इत्यर्थः। (तस्मात् अस्या क्रीडड्डत्ध्;ागोष्ठ्याद्युपयोगित्वे अलङ्कारत्वम् अन्यत्र दोषावहत्वमिति बोध्यम्)।।97।। अस्याः सलक्षणनामानि क्रमेणाह, आहुरिति। -पदसन्धिना पदयोः सुप्तिङन्तादिरूपयोः, सन्धिना सान्निध्यजनितसन्धिकाय्र्येण, गूढः दुर्बोधः अर्थो यस्यास्तादृशीं, प्रहेलिकां समागतां नाम आहुः। वञ्जितेति। -अन्यत्र विवक्षितार्थभिन्ने, यत्र यस्मिन् स्थले रूढेन प्रसिद्धेन, शब्देन या वञ्चना प्रतारणा, सा वञ्चिता वञ्चिताक्या प्रहेलिकेत्यर्त-।।98।। व्यत्क्रान्तेति। -अतिव्यावहितानाम् अतिशयेन दूरवर्त्तिपदानां, प्रयोगात् विन्यासात्, मोहकारिणी अर्तावबोधवैधुय्र्यविधायिनो, प्रहेलिकेति शेषः, व्युत्क्रान्ता नाम। सेति। यस्याञ्च प्रहेलिकायां, पदावकृली पदसमूहः, दुर्बौधः अप्रसिद्दपदप्रयोगात् दुग्र्राह्यः, अर्थो यस्यास्तादृशी, सा प्रहेलिका, प्रमुषिता नाम स्यात् प्रकर्षेण बुद्धेर्मुषितत्वाद्त्यर्तः। (वञ्चितायाम् एकं पदं दुर्बोधार्थमिह तु पदानि, किञ्च वञ्चितायां नानार्तस्य पदस्य अप्रसिद्धार्थे प्रयोगः इह तु एकार्थानामपि पदानामित्यतोऽपि अनयोर्भेदः)।।99।। समानरूपेति।-गौणार्थेन लाक्षणिकार्थेन आरोपितैः उपचरितैः, पदैः ग्रथिता विरचिता, प्रहेलिक्ति शेषः, समानरूपा नाम शक्यार्तलक्ष्यार्थयोः द्वयोः सादृस्यनिबन्धनत्वादिति भावः। परुषेति। -लक्षणस्य सूत्रस्य, अस्तित्वमात्रेण केवलं लक्षणमस्तीति हेतोः, न तु शक्ताशक्तव#िवेचनया इति भावः, व्युत्पादिता श्रुतिः प्रसिद्धिः शब्दः वा यत्र तादृशी, प्रहेलिका परुषा नाम, अशक्तिनिबन्धनत्वेन श्रोत्रयोः पारुष्यावबोधादिति भावः।।100।। सङ्ख्यातेति। -यत्र सङ्ख्यानं वर्णगणना सङ्ख्यावाचकशब्दः वा, व्यामोहस्य विशेषेण अर्तावबोधवैधुय्र्यस्य, कारणं हेतुः, सा सङ्ख्याता नाम प्राहेलिका, सङ्ख्याघटितत्वादिति भावः। अन्यथेति। -यत्र वाक्यार्थः अन्यता भासते आपाततः प्रतीयमानादर्थात् अन्यरूपः प्रतीयते,सा प्रहेलिका, प्रकल्पिता नाम, अर्थान्तरप्रकल्पनादिति भावः।।101।। सेति। - यस्यां प्रहेलिकायां, नाम्नि संज्ञाविषये, नानार्थकल्पना नानार्थानां शब्दस्य विविधरितकत्वात् बहूनामर्थानां, कल्पना विकल्पः, जायते इति शेषः, सा नामान्तरिता नाम, नामान्तरेणान्तरितार्थकत्वादिति भावः। निभृतेति। -यस्याञ्च तुल्यधर्मस्पृशा प्रस्तुताप्रस्तुतयोः साधारणधर्मं स्पृशन्त्या, गिरावाचा, निभृतः गोपितः, अन्यः अपरः, प्रकृत इत्यर्थः, अर्थो यत्र सा निभृता नाम। (अस्याश्च साधारणधम्र्मबलेन विषयस्य सूचनात् समासोक्तिमूलता बोध्येति)।।102।। समानशब्देति। -उपन्यस्तेन उक्तेन, शब्दानां प्राकृतार्थावबोधकपदानां, पय्र्यायेण नामान्तरेण, साधिता विरचिता, प्रहेलिका समानशब्दा नाम। ( अत्र च शब्दपय्र्यायत्वं लक्षणया एकार्थबोधकत्वं, न त्वभिधया एकार्तशक्यत्वं, तथात्वे अर्थस्य संवरणीयत्वाभावने प्राकृकानुपय#ोगित्वात् प्रहेलिकैव न भवेदिति ध्येयम्)। सम्मूढेत्। -या वाक्, साक्षात् अभिधायकब्देन, निर्दिष्टः निरूपितः, अर्थो यत्र तादृशी अपि, वाचकशब्देन कथितार्थाऽपि इत्यर्थः, मूडड्डत्ध्;ये आपाततो व्यामोद्वाय, भवतीति शेषः, सा सम्मूढा नाम।।103।। योगमालेति। -या प्रहेलिका, योगानां यौगिकपदानां, माला समूहः, आत्मा स्वरूपं यस्यां तादृशी, सा यौगिकपदमालया रूढपदप्रतिपाद्यनामेकैकानामर्थानां बोधिका सा प्रहेलिकेत्यर्थः, परिहारिका नाम स्यात्। (परिहरति झटित्यर्तबोधं वारयतीति व्युत्पत्त्या तथा व्यपदेशः, शक्तिलभ्यार्थात् यौगिकार्थस्य नानाकष्टकल्पनामूलत्वेन सहसाऽवबोधविरहादिति भावः)। एकच्छन्नेति। -यस्याम् आश्रितम् आधेयं, व्यक्तं स्फुटम्, आश्रयस्य आधारस्य तु, गोपनं, सा एकच्छन्ना नाम एकः आश्रयः, छन्नः निगूढः यत्र सा इति व्युत्पत्त्या तदाख्या।।104।। सेति।-यस्याम् उभयस्य आधेयस्य आधारस्य च, गोपनं सा उभयच्छन्ना नाम, भवेत्, आधेयाधारयोः उभयोरपि निभृतत्वात् इति निष्कर्षः। सङ्कीर्णेति। -यस्यां नानालक्षणानाम् उक्तानां प्रहेलिकाभेदानां मध्ये द्वित्र्यादिलक्षणानां, सङ्करः साहित्येनावस्थितिः, सा सङ्कीर्णा नाम।।105।। एता इति।- एताः समागताप्रभृतयः, षोडड्डत्ध्;ष प्रहेलिकाः पूर्वाचाय्र्यैः निर्दिष्टाः अदुष्टत्वेन कथिता इत्यर्थ-। दुष्टति। तैः पूर्वाचाय्र्यैरेव, अन्याः अपराः, चतुर्दश दुष्टाः प्रहेलिकाश्च च्युतदत्ताक्षरादिरूपाः अपि इत्यर्थः, अधीताः पठिताः, सदोषत्वेन कीर्त्तिता इत#्यर्थः। (तत्र प्रथमं च्युताक्षरादीनां षड्ड्डत्ध्;भेदा अन्यैरुक्ताः यथा, -"प्रहेलिका सकृत् प्रश्नः साऽपि षोढा च्युताक्षरा। दत्ताक्षरोभयं मुष्टिर्विन्दुमत्यत्र्वत्यपि।।" इति। तासु च्युताक्षरा यथा, -"पयोधरभराक्रान्ता संनमन्ती पदे पदे। पदमेकं न का याति यदि हारेण वÐज्जता" अत्र विहङ्गिका काहारेण वÐज्जता न यातीति वक्तव्ये हारणे वर्जिता इत्युक्तत्वात् का इत्यक्षरस्य च्युतिरिति च्युताक्षरा। दत्ताक्षरा यथा, -" कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः। मृगाणां पृष्ठतो याति शंवरो रूडड्डत्ध्;योवनः।।" अत्र शवर इति वक्तव्ये शंवर इत्युक्तेरनुस्वारो दत्त दत्ताक्षरा। च्युतदत्ताक्षरा यथा, -"विदग्धः सरसो रागी नितम्बोपरि संस्थितः। तन्वङ्ग्यालिङ्गिकः कण्ठे कलं कूजति को विट?"।। अत्र विट इत्यस्मिन् पदे विकारे च्युते घकारे च दत्ते घटः कूजति इत्यायातमिति च्यितदत्ताक्षरा। अक्षरमुष्टिर्यया, -"अतिः अतिः अन्म अलं प्रीद्य रद्य जद्य फद्य। मेला मेला मेलं मेलं फस फस फस फस।।" इयञ्च अक्षाराण #ा#ं मुष्टिरूपत्वात् अक्षरमुष्टिका। अत्र पादशश्चतुष्पङ्क्तौ लिखितायां चतुर्भिर्मुरजबन्धैः श्लोकः उपतिष्ठति, यथा, -"अद्य मे सफला प्रीतिरद्य मे सफला रतिः। अद्य म#े सफलं जन्म अद्य मे सफलं फलम्।।" इति। विन्दुमती यथा, -" तवाववादः प्रत्यब्धि पताकाः प्रतिमङ्गरम्। फलं प्रत्यद्भुतोपायं यशांमि न नु न क्वचित्।।" इत्यनेन श्लोकेनोक्तार्थस्य यथास्थिस्वतस्वरानुस्वारविसज्र्जनीयसंयोगस्य श्लोकान्तरस्य विन्दुभिरेव सूचनाक्रम इति व#िन्दुमती। यथा,- 0#ु00#ा0#ु00#ा0#ा0#ा0#ं0#ु0#े 0#ं0#ु0#े 00#ः। 0#ा00#े0#ा00#े0#ि0#ि#ः00र्र0000#ि0र्र 0#ः।। एतैर्विन्दुभिरयं श्लेकः, -" उदधावुदधावाज्ञा संयुगे संयुगं जयः। साहसे साहसे सिद्धिः तव कीत्र्तयः।।" इति अर्थवती यथा, -"उत्तप्तकाञ्चनाभासं सन्दष्टदशनच्छदम्। सरसं चुम्ब्यते हृष्टैर्वृद्धैरपि किमुज्ज्वलम्?"।। अत्र एवं प्रश्ने यक्वाम्रफलमुत्युत्तरं, तस्य च द#्व्यर्थपदप्रयोगेणानवगतेरियमर्थप्रहेलिका इति। पुनः षड्ड्डित्ध्;वधमाह, -"क्रियाकारकसम्बन्धैः पादाभिप्रायवस्तुभिः। गोपितैः षड्ड्डित्ध्;वधं प्राहुर्गूढं गूढार्थवेदिनः।।" इति। क्रियाकारकसम्बन्धगुप्तादीनामुदाहरणं, तथा अन्तःप्रश्नवहि प्रश्नादिबेदेनास्याः प्राभूततमं भेदञ्च ग्रन#्थबाहुल्यभिया नात्र प्रदर्शितं, भोजादौ तु तानि दृष्टव्यानि)।।106।। यदि च दुष्टाः प्रहेलिकाः पूर्वाचाय्र्यैरुक्तास्तथाऽप्यस्माकं न तास्वभिरुचिरित्याह, दोषानिति। -वयं पुनः दोषान् शाब्दबोधप्रतिबन्धकत्वरूपानित्यर्थः, अपरसङ्ख्येयान् बहून्, मन्यमानाः जानन्तः सन्तः, साध्वोरेव उत्कृष्टा एव, दोषाधिक्याभावात् अलङ्कारत्वं प्राप्ताः समागताप्रभृतीः षोडड्डत्ध्;श एव निर्दोषाः प्रहेलिकाः इत्यर्थ-, अभिधास्यामः उदाहरिष्यामः ; ननु साध्वीः प्रहेलिका एव अभिधास्यन्ति चेत् भवन्तः कथं शिष्याणां दुष्टप्रहेलिकाज्ञानं भवेत् इत्याशयेनाह, ता इति।- यास्तु अलक्षणाः पूर्वोक्तलक्षणानन्तर्भूताः, ताः दुष्टाःसदोषाः, तासामुदाहरणे न मम प्रयास इति भावः।।107।। तत्र समागतामुदाहरति, नेति। -हे आलोहितेक्षणे! आरक्तनयने!, कोपादिति भावः मया ममेत्यर्थः, ( षष्ठ्यर्थेतृतीया) चेतः गोरसस्य दुग्धादेः, अभिज्ञं रसज्ञं, न, दुग्धादिकं मया न हृतमित्यर्थः, यद्वा, -गोरसाभिज्ञं चेतो मया न, धाय्र्यते इति अध्याहृतेन क्रियापदेनान्वय#ः ; कस्मात् प्रकुप्यसि? एभिः ईदृसैः, अस्थानरुदितैः अकारणरोदनैः, अलम्, इति सहजोऽर्थः संवृतिकारकः, संवरणकारित्वप्रयोजनन्तु अनेनास्या दुग्धाद्यपचयः क्वत इति बोधात् कुपिताऽसौ दुःखेन रोदिति इत्येवं साधरणा जानन्त्विति। गूढार्थस्तु-मे चेतः आगसः अपराधस्य, नायिकान्तसङ्गरूपस्य इत्यर्तः, ("आगोऽपराधो मन्तुश्च" इत्यमरः) रसस्य आस्वादस्य, अभिज्ञं न, नाहं त्वहते अन्यां कामये कथं तवेहशो मानः? इति। ( अत्र " मे आगोरसाभिज्ञम्" इति पदच्छेदे सन्धिसूत्रेण एकारस्य अयादेशेन मयागोरसाभिज्ञमिति निष्पन्नत्वात् प्रकृतार्थस्य संवरणं, ततश्च सन्धिना प्राकृतार्थगूढरूपा समागता नाम्नो प्रहेलिकेयम्। काञ्चित् मानिनीं गोपीं प्रति श्रकृष्णस्य जनसमाजे उक्तिरियम्)।।108।। वञ्चितामुदाहरति, कुब्जामिति। -कुब्जां भुग्नपृष्ठां कामपि नारीम्, आसेवमानस्य उपभुञ्जानस्य, ते तव, यथा रतिः सन्तोषः, वद्धते, अमरस्त्रीविडड्डत्ध्;म्बिनीः ते तव, यथा रतिः सन्तोषः, वद्धते, अमरस्त्रीविहम्बिनीः सिरकामिनीसदृशीः, नारीः अन्याः स्तरीः, निर्विशतः उपभुञ्जानस्य, ते इति शेषः, एवं तथा रतिः, न, वद्र्धते इति शेषः, इति सहजोऽर्थः. गूढाथस्तु-कुब्जां कान्यकुब्जनगरीं तत्रत्यनारीं वेत्यादिः। (अत्र कुब्जाशब्दो भुग्नपृष्ठनाय्र्यामेव प्रसिद्धः, अन्यत्र तु न इति प्रसिद्धशब्देनाप्रसिद्धार्थप्रतिपादनरूपेयं वञ्चिताख्या प्रहेलिका। कान्यकुब्जनगरीं वा तत्रत्यनारीं प्रति अनुरक्तजने कस्यचिदुक्तिरियम्)।।109।। व्युत्क्रान्तामुदाहरति, दण्डेड्डत्ध्; इति।-हंसः कर्कशकण्टके परुषकण्टकान्विते, पद्मिन्या दण्डेड्डत्ध्; नाले, अङ्गानि घट्टयन् घर्षयन्, तथा वल्गुरवं मनोज्ञं नादं, कुर्वन् तुण्डेड्डत्ध्;न मुखेन, पद्मिन्या मुकं चुम्बितीत्यन्वयः। (अत्रान्वयबोधघटकपदानामतिव्यवधानसन्निवेशवशात् आसत्तेर्व्येतिक्रमः इति व्युत्क्रान्ता प्रहेलिकता)।।110।। प्रमुषितां दर्शयति, खातय इति। -हे कनि! कुमारि!("कन्या कनी कुमारी च" इति हेमचन्द्रः) ते तव, काल्यते क्षिप्यते इति कालः पादः तस्मिन्, ("कल प्रेरणे" इत्यस्य घङन्तस्य रूपम्) स्फातयः स्फायनं स्फाः वृद्धिरित्यर्थः, तस्य अतिः गतिः यत्र ते, स्फीता इत्यर्थः, बहव इथ यावत्,(" अत् सातत्यगतौ" इत्यस्य इन्प्रत्ययान्तस्य रूपम्) खातयः खम् आकाशं, तस्यायां गुणः खः शब्द इत्यर्थः, (खसब्दादिदमर्थेष्णः) खस्य शब्दस्य, अतिर्गतिः येषु ते, शब्दायमामनूपुरादयोऽलङ्काराः इत्यर्थः, स्फार्हवल्गवः स्फां स्फीतताम् अर्हन्तीति स्फार्हाःप्रभूताः, वल्गवः वल्गनात् चलनात जाताः ध्वनय इत्यर्थ-, ततश्च स्फारहा वल्गवः येषां तथोक्ताः, भवलन्तीति शेषः, तव पादभूषणनूपुरादयः गमनकाले अतिशयं शिञ्जन्तीत्यर्थः, चन्दति आढद्धठ्ठड़14;वादयति इति तस्मिन् चन्द्रे आढद्धठ्ठड़14;लादके, अत्र सशिञ्जितनूपुराद्यलङ्कृते तव पादे इत्यर्तः, साक्षात् प्रत्यक्षीकृते सति इत्यर्थः, मम वायवः प्राणाः, धारिणः अवस्थिताः, सुस्थिराः इत्यर्थः, (" धृ ङ अवस्थाने" इत्यस्य रूपम्) भवन्ति। (अत्र अप्रसिद्धेः बहुभिः पदैः प्रकृतार्थस्य संवरणात् प्रमोषणम् इति प्रमुषिता)।।111।। समानरूपां दर्शयति, अत्रेतिष -अत्र उद्याने मया पञ्चपल्लवा शाखापञ्चकविशिष्टा, वल्लरी लता, दृष्टा, यस्यां लतायां, पल्लवे पल्लवे प्रतिपल्लवमित्यर्थः, ताम्रा आरक्ता, कुसुममञ्जरी पुष्पवल्लरीः, शोभते इति शेषः। (अत्र नायिका काचित् उद्यानत्वेन अध्यारोपिता, तस्या बाहुः वल्लरीत्वेन, अङ्गुलयःपल्लवत्वेन, नखाश्च कुसुममञ्जरीत्वेन, तेषाञ्च ताम्रत्वं रक्ताङ्गुलिप्रभयेति बोध्यम्। इह उद्यानादिपदानां नायिकाद्यर्थाभिधाने गौणीलक्षणया अध्यास एव हेतुरिति समानरूपा प्रहेलिका)।।112।। परुषां दर्शयति, सुरा इति। -ते प्रसिद्धाः, सुरां मद्यं कुर्वन्ति इति सुराः, (नामण्डिड्डत्ध्;न्तात् सुराशब्दात् ङप्रत्यये रूपं) यद्वा, -सुराः एषां सन्तीति सुराः शोण्डिड्डत्ध्;ता इत्यर्थः,(अर्श आदित्वादच्प्रत्ययः) यद्वा-सुरा सु अतिसेन, राः शब्दः, ध्वनिरित्यर्थः, येषां ते, उच्चैः चूत्कुर्वन्तः इत्यर्थः, ("रै शब्दे" इत्यस्य क्विबन्तस्य रूपम्) अस्मिन् पक्षे सुरापा इति कत्र्तुपदमूह्यम्; दशनाÐच्चषा हास्येन विवृतास्यतया दन्तकिरणेनोपलक्षताः सन्तः, सम्प्रति सुराया इदं तस्मिन् सौरे सुरामये, सरसि मज्जन्तः निमग्नीभवन्त इव, मत्ता#ः सन्तः, सुरालयं मद्यगारे, स्वैरं स्वच्छन्दं, भ्रमन्ति। (अत्र सुरा इति पदं देवतावाचकामेव अनुशासनबलात् शौण्डिड्डत्ध्;के सुरापे उच्चैश्चीत्कुर्वति वा प्रयुक्तम् इति प्रयोक्तुः पारुषप्रकाशनात् परुषा नाम प्रहेलिका)।।113।। सङ्ख्यातामुदीहरति, नासिक्यमध्येति। -नासिक्यः नासिकायां भवः, ञकार इत्यर्थः, स मध्ये यस्याः सा मध्यस्थञकारा इत्यर्तः, तथा परितः उभयतः, चतुर्भिः वर्णैः अक्षरचतुष्टयै), विभूषिता विरचिता, आदौ "क-आ" इति द्वौ वर्णौ अन्ते" च-ई" इति द्वौ मध्ये च ञकारः एवंरूपा इत#ि यावत्, काचित् पुरी नगरी, काञ्चीत्यर्थः, (नामनामिनोरभेदोपचारात् नासिक्येत्यादिविशेषणवाक्यद्वयं काञ्चीबोधकमपि पूय्र्यां योजनीयम्) अस्ति, यस्यां पूय्र्यां, नृपां राजानः, अष्टवर्णाढद्धठ्ठड़14;वयाः अष्टाभिवर्णेः अक्षराष्टकैः निबद्धः, आढद्धठ्ठड़14;वयः आख्या येषां तादृसाः, आसन्इति शेषः। (एतेन पुण्ड्रड्डत्ध्;काख्या इत्यायातम; पुण्ड्रड्डत्ध्;कवंशीया राजानः काञ्ची पुरा अशासन् इति प्रसिद्धिः। पुण्ड्रड्डत्ध्;कशब्दश्च प-उ-ण-डड्डत्ध्;-र-अ-क-अ इत्यष्टभिवर्णैर्निबद्ध इति चतुरष्टभिवर्णैः सङ्ख्यावाचकैर्वा मोहनम् इति सङ्ख्याता प्रहेलिका) ।।114।। प्रकल्पितां दर्शयति, गिरेति। -वृद्धे! हे स्थविरे!, स्खालन्त्या भ्रशयन्त्या, वाद्र्धकेनास्पष्टया इत्यर्थः, गिरा वाचा, नम्रेण वाद्र्धकवशादेव अवनतेन, शिरसा, दीनया कातरया, हीनशक्तिकया इत्यर्थः, दृसा चक्षुषा च,उपलक्षितापि त्वं (विशेषणे तृतीय) सोत्कम्पंसवेपथु#ं, भयवशादिति भावः, तिष्ठन्तमपि मां नानुकम्पसे? न दयसे? इति सहजोऽर्थः। गूढार्थस्तु-हे वृद्धें! हे लक्ष्मि! ("ऋद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याढद्धठ्ठड़14;वया इमे" इत्यमरः धनाभावेन स्खलद्निरा, अवनतशिरसा दीनचक्षुषा च उपलक्षितं तथा सोत्कम्पं मां नानुकम्पसे? इति। (अत#्र प्रथमं प्रतीयमानादर्थात् प्रस्तुतत्वेन अपरार्थकल्पानादियं प्रकल्पिता प्रहेलिका)।।115।। नामान्तरितां दर्शयति, आदाविति। -हे अधीराक्षि! चञ्चलनेत्रे!, कोऽपि पार्थिवः पार्थिवशब्दप्रतिपाद्यः, आदौ प्रथमं, राजा, तथा सनातनः नित्यश्च, इति नाम्ना गीयते कीत्त्र्यते, किन्तु असौ पार्थिवः, वस्तुतो नैव राजा भूपतिः, नापि सनातनः नित्यः, अत एव कोऽसौ? इतिप्रश्नार्थः सहजः। उत्तरार्थस्तु राजातनवृक्षरूपः गूढः। तथा हि कोऽपि पार्थिवः पृतिवीवकारजातः, वृक्षविशेषः इत्.यर्थः, आदौ तद्वाचकनाम्नः प्रथमांशं, राजा इति राजा इति शब्दः, गीयते वत्र्तते इत्यर्थः, तथा, स नातनश्च अतनः तनशब्दरहितश्च न भवतीति नातनः, राजा इतिपदानन्तरं तनशब्दोऽप्यस्तीत्यर्तः ;ततश्च राजातनवृक्षः इत्युत्तरभूतोऽर्थः। (राजातनशब्देन पियालवृक्ष उच्यते। यथा, -" राजातनं पियालः स्यात्" इत्यमरः। राजातनं राजातनं राजादनमिति च नामद्वयम्। अत्र राजातनेति नाम्नि वक्तव्ये नानार्थकल्पनम् इति नामान्तरिता प्रह#ेलिका। लक्षणे नामपदं वस्तुमात्रपरत्वेन विवक्षितं, तेन " तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः। गुरुणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः? ।।" इत्यत्र सजलकुम्भरूपवस्तुनि प्रतिपाद्ये नान्र्थकल्पनान्नामान्तरिता इति बोध्यम्)।।116।। निभृतामुदाहरति, हृतद्रव्यमिति।- नानाभाङ्गिभिः बहुविधविलासचेष्टितैः, समाकृष्टाः आयत्तीकृताः, लोकाः याभिः तथोक्ताः, तथा दुद्र्धुराः दुःखेन ध्रियमाणाः, कथञ्चिदपि अवश्याः इत्यर्थः, काः हृतानि विनष्टानि, द्रव्याणि धनानि यस्य तादृसं, नरं त्यक्तवा धनवन्तं धनिन#ं, वज्रन्ति? ईदृशलक्षणवत्यश्च वेश्या एव भवितुमर्हन्तीति तद्वारयितुमाह, -वेश्या न, एतादृशलक्षणा वेश्या मम प्रश्नविषया नेत्यर्थः, अतस्ताः काः? इति प्रश्नः सहजार्थकः। उत्तरभूतः संवरणीयार्थस्तु-पर्वतोत्पन्ना नद्य इति। तथा हि, नाना विविधाः, भङ्गास्तरङ्गः सन्त#्यस्मिन्निति नानाभङ्गि जलं, तेन समाकृष्टाः समीपमानीताः, लोका अवतरणोत्सका जना याभिस्ताः, दुद्र्धराः धरात् पर्वतात्, दुः दुःखेन गताः, कष्टेन निर्गता इत्यर्थः, नद्य इति भावः, हृतानि स्रोतोवेगेन ध्वंसितानि, द्रव्याणि पार्वतीयानि वस्तूनि, द्रुणां वृक्षाणामिमानि द्रव्याणि शाखापल्लवादीनि इत्यर्थो वा, यस्य तं, नरं नरसदृशम् आश्रयभूतं, पर्वतमित्यर्थादायातं, त्यक्तवा धनवन्तं रत्नाकरं, समुद्रमित्यर्थः, व्रजन्ति। ( अत्र विशेषसणसाधारण्यात् एकतरनिषेधेअन्यतरप्रतीतिर्युक्तेति नद्य इति प्रश्नविषयोऽर्थः। अस्य च तुल्यविशेषणप्रतीतौ अपि वाचकशब्दानुपादानात् निभृतात्वमित्यापि बोध्यम् ।।117।।) समानशब्दं दर्शयति, जितेति। -हे कलभाषिणि! मधुरभाषिणि!, प्रकृष्टस्य अत्युत्कृष्टस्य, केशस्य आख्या तत्पय्र्यायकं नाम, प्रबालः इत्यर्थः, यद्वा,-प्रकृष्टो यः केशस्तस्य आख्या तत्पय्र्यीयनाम इव नाम यस्य स इति विग्रहः ; जिताः तिरष्कृताः, प्रकृष्टकेशाख्याः प्राबलाः येन सः, तव यः अभूमिसाढद्धठ्ठड़14;वयः भूमिर्धरा, नास्ति भूमिर्यत्र सः अभूमिः अधरः इत्यर्थः, तत्साढद्धठ्ठड़14;वयः तस्य समाननामा, ओष्ठ इत्यर्थः, सः अद्य मां प्रभूतोत्कम् अत्युत्सुकं, करोति प्रबालसदृशस्तवाधरो मां व्यथयतीत्यर्थः। (अत्र प्रकृष्टकेशाख्यः अभूमिशब्दश्च लक्षितलक्षणया प्रबालाधारौ बोधयतः, तथा हि प्रकृष्टकेशपदस्य प्रबालशब्दे अभूमिपदस्य च अधरशब्दे लक्षणा, तयोश्च लक्षितयोः शक्तिग्रहेण तादृशार्थोपस्थितिः इति प्रकृतस्य समानशब्देनार्थोपस्थितेः समानशब्देयं प्रहेलिका)।।118।। सम्मूढं दर्शयति, शयनीये इति।-कामिनौ क्रुधा कोपेन, शयनीये शय्यायां, परावृत्य विमुखीभूय, शयितौ, तथैव शयितौ परावृत्य शयितावपि इत्यर्थः, रागात् अनुरागात्, स्वैरं स्वच्छन्दं,मुखम् अचुम्बताम्। (अत्र क्रुधा परावृत्य शयितयोः स्वैरं मुखचुम्बनस्य दुर्घटत्वादापातत#ो मोहः, पय्र्यवसाने तु प्रथमं प्रणयकोपेन परावृत्य शयितौ, पश्चात् अनुरागात् तथैव शयितौ पुनओः परावृत्य शयितौ इति परावृत्तयोः पुनः परावत्र्तनात् पाश्र्वान्तरेण शयितयोः सम्मुखीनत्वात् मुखचम्बुनं सुघटमेवेति आपातत एव श्रोतृणां व्यामोहनात् सम्मूढेयम्)।।119।। परिहारिकां दर्शयति विजितेति। -विना पक्षिणा, गरुडेड्डत्ध्;नेत्यर्थः, जितः अमृताहरणकाले पराभूतः, इन्द्र इत्यर्थः, (पुरा किल मातुर्दासीत्वनिष्क्रयं नागादिष्टममृतमाहत्र्तुं सुरलोकं गतेन गरुडेड्डत्ध्;न सुरपतेः प्रबलं सङग्राममभवत्, तत्र च गरुडड्डत्ध्;ः निजपराक्रमेण सुरनाथं विजित्यअमृतं गृहीत्वा प्रातिष्ठत इति वात्र्ता)तस्य आत्मभवः पुत्रः, अर्जुन इत्यर्थः, तस्य द्वेषी शत्रुः, कर्ण इत्यर्तः, तस्य गुरुः पिता, सूय्र्य इत्यर्थः, तस्य पादैः किरणैः, हतः सन्तप्तः, जनः हिमं शैत्यम्, अपहन्तीति हिमापहः अग्निः, तस्य अमित्राः शत्रवः जलानि इत्यर्थः, तेषां धराः अम्भोधराः मेघाः, तैः व्याप्तम् आवृतं, व्योम आकाशम्, अभिनन्दति समादरति इत्यर्थः। (अत्र यौगिकशब्दैः झटिति प्राकृतार्थबोधस्य हरणात् परिहारिका)।।120।। एकच्छन्नां दर्शयति, नेति। -कस्यापि अमनुष्यस्य पुरुषतया अगण्यस्य इत्यर्थः, हस्तः जातु कदाचिदपि,आयुधम् अस्त्रं, न स्पृशति, स्त्रीणां स्तनमण्डड्डत्ध्;लञ्च न स्पृशति, तथाऽपि अयं हस्तः, न अफलः न व्यर्थः, किल अपि तु सफल एव, इति आपाततः प्रतीयते, परन्तु आयुधस्त्रीस्तनस्पर्शाभावेन नायं वीरः न वा विलासीत्यतः कथमस्य हस्तस्य फलवत्त्वमिति विरुद्धवदवभासनात् अमनिष्यशब्देन गन्धर्वो लक्ष्यते, तस्य हस्तः गन्धर्वहस्तः एरण्डड्डत्ध्;वृक्ष इत्यर्तः। (उक्तञ्च हारावल्याम्, -" अमण्डड्डत्ध्;पञ्चाङ्गलवद्र्धमाना गन्धर्वहस्तस्त्रिपुटीफलञ्च" इति तस्य फलं विद्यत एवेति, आश्रितस्य फलस्य स्फुटत्वं न तु आश्रयस्य वृक्षस्येति एकच्छन्नेयम्)।।121।। उभयच्छन्नां दर्शयति, केनेति। -कः पदार्थः, केन पदार्थेन सह, सम्भूय मिलित्वा, सर्वकाय्र्येषु सन्निधिं सामीप्यं, लब्ध्वा प्राप्य च, भोजनकाले तु (तुशब्दोऽवधारणे) भोजनकाले एव, यदि दृष्टः, भवति इति शेषः, तदा निरस्यते निराक्रियते? उत्तरमिदं यथा, -कस्य अयं कःकेशः, (कशब्दादिदमर्थेष्णप्रत्ययः) केन मस्तकेन सह, सम्भूय तथा सर्वपकाय्र्येषु सन्निधिं समादरं, लब्धवा भोजनकाले एव दृष्टो निरस्यते इति। ( अत्र आश्रयाश्रयिणोर्मस्तककेशयोरुयोरेव छन्नतेति उभयच्छन्ना)।।122।। सङ्कीर्णां दर्शयति, सहयेति। -सहया साश्वा, सगजा सहस्तिका, सभटा भटैः योद्धुभिः सह वत्र्तमाना, इयं सेना शात्रवी चमूरित्यर्थः, न जिता चेत् पराभूता न यदि, तदा नः अस्माकम,अयं सुतः अमात्रिकः मात्रं स्वार्थः,तत् वेत्तीतचि मात्रिकः स्वार्थाभिज्ञः, तादृशो न भवतीति अमात्रिकः स्वार्थचिन्तापराङ्मख इत्यर्थः, यद्वा-मात्रा द्रव्यं, धनमित्यर्थः, विषय इति यावत्, ("मात्रं त्ववधृतौ स्वार्थे कार्त्स्न्ये मात्रा परिच्छदे। अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे।। काले वृत्ते च" इति हैमः) तामर्हतीति मात्रिकः न मात्रिकः अमात#्रिकः धनमय्र्यादानभिज्ञः, विषयज्ञानवर्जितः इत्यर्त-, अतः अक्षरज्ञश्च अक्षरं ब्रह्म तज्ज्ञोऽपीत्यर्थः, मूढः मूर्खः, स्यात्, स्वार्थज्ञानाभावात् वेषयिकबुद्ध्यभावात् वा ब्रह्मविदपि मूर्खत्वेनैव गण्यः इति सहजोऽर्थः। गूढार्थस्तु-हकारयकाराभ्यां गकार-जकाराभ्य#ा#ं भकार-टकाराभ्याञ्च सहिता इयं सेना इनः प्रभुः, अधिष्ठाता इत्यर्थः, अक्षरस्रष्टा ब्रह्मा इति यावत्, (यदुक्तं, -"धात्राऽक्षराणि सृष्टानि पत्रारूढान्यतः पुरा" इति) तेन सहिता साधिष्ठातृका वर्णमाला इत्यर्थः, वर्णमाला कीदृशी, का वा तासां अधिष्ठात्री देवता इत#्यादिरूपा इति भावः, न जिता अनभ्यास्ता चेत्, न ज्ञाता चेदित्यर्थः, तदा अमात्रिकः मात्रा स्वरादिवर्णानामुच्चारणकालः, तां वेत्तीति मात्रिकः, न मात्रिकः अमात्रिकः वर्णज्ञानरहित इत्यर्थः, अतः अक्षरं वेदं जानातीति अक्षरज्ञः अभ्यस्तवेदः अपि, मूढः मूर्ख इत्यर्थः, यद्वा, -न जिता लेखितुं न शिक्षिता इत्यर्तः, तदा अमात्रिकः, मात्रा अक्षरावयवः, तां न वेत्तीति अमात्रिकः, कः अक्षरः कीदृशेन आकारेण लेखनार्हः इत्यादिज्ञानरहित इत्यर्थः, अयम् अक्षरज्ञः वर्णज्ञोऽपि, मूर्ख एवेति सङ्कीर्णेति।।123।। अत्र सङ्कीर्णतां घटयति, सेति। -सा पूर्वोक्ता इयं सङ्कीर्णाख्या प्रहेलिका, अत्र नामान्तरितामिश्रा हयादिशब्दानां नानार्थकल्पनात् नामान्तरितानामप्रहेलिकालक्षणसंयुक्ता, तथा वञ्चितारूपयोगिणी सेनाशब्दस्. चमूरूपार्थस्य प्रसिद्धस्य अर्थान्तरकल्पनया वञ्चनात् वञ्चितायाः प्रहेलिकायाः, रूपयोगिणी लक्षणसमन्विता च, तन्मिलिता इत्यर्थः। (अतः उल्लिखिते पद्ये प्रहेलिकायाः सङ्कीर्णतेति ज्ञेयम्)। एवमेव अनेनैव प्राकारेण, इतरासाम् अन्यासामपि प्रहेलिकानां, सङ्करक्रमः परस्परमिश्रणप्रकारः, उन्नेयः स्वयमेव अवगन्तव्य इत्यर्थः।।124।। इत्थं काव्यशोभाकरान् धर्मान् गुणालङ्कारान् निरूप्य काव्यस्य हेयत्वप्रतिपादकानां धर्माणां बढद्धठ्ठड़14;नूनां दोषाणां सविस्तरवर्णने ग्रन्थबाहुल्यभिया प्राध्न्येन नितान्तज्यान् दश दोषानुद्दिशति, अपर्थमित्यादि। -अपार्थं निरर्थकं, व्यर्थं विरुद्धार्थम्, एकार्थम् अभिन्नार्थं, ससंशयं सन्दिग्धम्, अपक्रमं यथाक्रमरहितं, शब्दहीनम् ऊहादिना पूय्र्यं, यतिभ्रष्टं विच्छेदरहितं, भिन्नवृत्तम् असमवृत्तं, विसन्धिकम् अकृतसन्धि, देशादिविरोधि च इति, इति शब्दः वाक्यसमाप्तौ, ईदृशं वाक्यं दुष्टमित्यर्तः, एते अपार्थतादयः, दश एव दोषाः काव्यापकर्षकधर्माः सूरिभिः विद्वद्भिः, काव्येषु वज्र्याः त्याज्याः, शाब्दबोधप्रतिकूलतया प्रयोक्तुरज्ञताप्रकटनात् इति भावः। झ्र्उक्तञ्च, -दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति" इति। एवकारेण किञ्चिद्वैरस्यप्रतिपादकानां श्रुतुकटुप्रभृतीनां व्यवच्छेदः, तेष#ाम् अन्वयबोधाप्रातिकूल्येन नात्यन्तं हेयत्वप्रतिपादकत्वात् इति निष्कर्थः। अत्रेदमवधातव्यम्; -सामान्यलक्षणाभिधानानन्तरमेव विशेषाणामभिधानस्यौचित्येऽपि गुणानां काव्यशरीरस्योत्कर्षाधायकत्वेन सलक्षणोदाहरणप्रदर्शनात् तदवगतेश्च तद्विपय्र्ययात्मनो दोषाः इति तुसामथ्र्यादेव सामान्यलक्षणावगतम् तदप्रदश्र्यैव विशेषः दरिशिता इति। एवमेव चोक्तं वामनेनापि,- "गुणविपय्र्ययात्मनो दोषाः"(2य अधि. 1अ. 1सू.) " अर्थत्सतदवगमः"(2अधि. 1अ. 2सू.) इति। "किमर्थं ते पृथक् प्रपञ्च्यन्ते? इत्याह, -"सौकुमाय्र्याय प्रपञ्च" (2अधि. 1अ. 3सू.) इति । एतेन काव्ये गुणानामुपादेयधम्र्यतया तत्राभिमतप्रतीतिव्यधायकत्वेव ये हेयतामापादयन्ति ते दोषा इति लक्षणमायातम्; तदुक्तं सरस्वतीकण्ठाभरणे, -"दोषाः पदानां वाक्यानां वाक्यार्थानाञ्च षोडड्डत्ध्;श। हेयाः काव्ये कवीन्द्रिर्ये तानेवादौ प्रचक्ष्महे।।" इति। यद्वा,-दुष्यति विकृतं भवति काव्यमनेन इति दोषः इति व्युत्पत्तिबलादेव लक्षणावगतिः। प्रकाशकृताऽपि -"मुख्यार्थहतिः दोषः" इति लक्षणं कृतं , तेनास्यभावसाधनान्तता सूचिता; ततश्च काव्यस्यापकर्षो दोष इति, तच्च हेयत्वञ्चापकृष्टत्वम्, अपकर्षश्च शब्दानामार्थानां वाक्याना#ं वाक्यार्थानां व्यङ्ग्यरसादेश्च सम्भवति इति बहुविधतया कार्त्स्न्येन वक्तुमशक्यमिति दश एवात्र दर्शिताः)।।125।।126।। ननु दशैवेति अवधारणमनुचितं प्रतिज्ञाहान्योदेरपि विवक्षितार्थप्रतिपत्त्या दोषत्वकीत्र्तनात्। उक्तञ्च भगवता गौतमेन, -" प्रतिदष्टान्तधर्मा-भ्युनज्ञास्वदृष्टान्ते प्रतिज्ञाहानिः" इति। अत एव "प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः" इत्यादिसूत्रेण प्रतिज्ञाहान्यादीनां निग्रहस्थानत्वं तनोक्तम्। उदाहृतञ्च यथा भोजराजेन, -"यावज्जीवमहं मौनि ब्रह्मचारी पिता मम। माता च मम बन्ध्याऽऽसीजपुत्रश्च पितामहः।।" इति। भामहादयस्तु तस्य दोषत्वं नाङ्गीकुव्र्वन्ति। यथा, -"प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टञ्च नेष्यते" इति। तदेतं संशयमपाकत्र्तुं स्वमतमाह, प्रतिज्ञेति। -प्रतिज्ञा साध्यनिर्देशः, हेतुः साध्यसाधनं, दृष्टान्तः प्रसिद्धोदाहरणविन्यासः, तेषां हानिः विरोधः अभावश्च, दोषः काव्यस्य हेयत्वप्रतिपादकः, न वा इति संशये, असौ एतत्प्रश्नविषयकः, विचारः निश्चयः, एकपक्षावधारणमित#्यर्थः, प्रायः कर्कशः न्यायशास्त्रीयत्वात् कठिनः, कर्कशः नीरस इत्यर्थः वा, तस्मात् तेन विचारेण, आलीढेन आस्वदितेन, ज्ञातेन इत्यर्थः, किं फलम्? न किमपि फलमस्ति इत्यर्थः। (तथा हि काव्यस्य वैरस्यजनकधर्मतया दोषणामवबोधः बोद्धृणां स्वत एव भवति, न च तदर्थं ग्रन्थबाहुल्यीकरणं युक्तं केवलम् अत्यन्तपरिहाय्र्या एव कतिपये काव्यदोषा अत्र दश्र्यन्ते, प्रतिज्ञादिहानेश्च नात्यन्तपरिहाय्र्याता, अप्रतिज्ञातानाम् अपि प्रसङ्गसङ्गत्या कविभिर्वर्णितत्वं दृश्यते। हेतोरभावश्च प्रसिद्धसाध्ये न वेरस्यमावहति, दृष्टान्तश्च अलङ्कारस#्वरूप एव, तदभावेन न काव्स्यात्यन्तवैरस्यम्, अनलङ्काराणाम् अपि काव्यत्वस्य सर्वैरेवाङ्कीकृतात्वात् ; अतो न्यायसूत्रत्तिकृताऽप्युक्तं, -"दृष्टान्तस्य सामयिकत्वेनासार्वत्रिकत्वेऽपि न क्षतिः" इति। ततश्च रसापकर्षजनकत्वमेव दूषकतावीजमित्यवधेयम्)।।127।। क्रमेण दोषप्रभेदान् लक्षयन् प्रथमम् अपार्थं निरूपयति, समुदायेति। -समुदायस्य वाक्यघटकपदसमूहस्य महावाक्यघाटकवाक्यसमूहस्य च, यः अर्थः शाब्दबोधेन एकतामापन्नाः प्रतिपाद्यः, तेन शून्यं यत वाक्यं, तत् अपार्थम् अपार्थनामदोषान्वितम्, इति इष्यते कथ्यते इत्यर्थः व#ाक्यार्थानां पादार्थानां वा योग्यताकाङ्क्षासत्तिविरहेण शाब्दबोधः बाधितो भवति तत् अपार्थवत् वाक्यमिति निष्कर्षः, तच्च उन्मत्तानाम् उन्मादग्रस्तानां, मत्तानां सुरापानेन विकृतानां, तथा बालानां शिशुनाम्, उक्तेः वचनात्, अन्यत्र दुष्यति, उन्मत्तादिवचने तु अपार#्थत्वादेः न दोषत्वम् इत्यर्थः।।128।। अपार्थत्वं दर्शयति, समुद्र इति। -देवैः सुरैः मेघैर्वा, समुद्रः पीयते, (" देवैः" इत्य्त्र "सोऽयम्" इति पाठश्च दृश्यते) अहं जरातुरः जराक्रान्तः, अस्मि, अमी जीमूता मेघाः, गर्जन्ति, ऐरावणः ऐरावतनामा हस्ती, हरेन्द्रिस्य, प्रियः। (अत्र वाक्यचतुष्टयस्य परस्परकाङ्क्षाभावेन अङ्गाङ्गित्वाभावात् एकवाक्यताया अभाव इत्यतः समुदायस्यार्थो नास्ति। उक्तञ्च, -" स्वार्थबोधसमाप्तानाम् अङ्गाङ्गित्वव्यपेक्षया। वाक्यानाम् एकवाक्यत्वं पुनः संहत्य जायते।।" इति। ततश्चायां वाक्यार्थगत एव दोषः। कण्ठाभरणेऽपि तदेवोक्तं यथा, -" उक#्ता वाक्यार्थजा दोषास्तेषां वक्ष्यामि लक्षणम्ष समुदायार्थशून्यं यत्तदपार्थं वचः स्मृतम्।।" इति। उदाहरणान्तरं यथा, -"जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि। तं ब्राह्मणी पृच्छति पुत्रकामा राजन्! रुमायां लशुनस्य कोऽर्धः?।। इति। इदञ्च बहुवाक#्यगतम् अपार्थत्वं ज्ञातव्यम्। एवं बहुदगतमपि तत् दृश्यते, यथा, -वढिद्धठ्ठड़14;नना सिञ्चतीत्यादौ योग्यताद्यभावेन समुदायार्थशून्यत्वम् इति बोध्यम्"।।129।। इदमिति। -अस्वस्थचित्तानाम् उन्मत्तादीनाम्, इदं पूर्वोक्तं, अभिधानं समुद्रः पीयते इत्यादि वचनम्, अनिन्दितम् अदुष्टत्वेन परिगृहीतं, भवतीति शेषः, इतरत्र अन्यत्र, अस्वस्थचित्तादिभ्य इति शेषः, उन्मत्तादीन् विना इत्यर्थः, को वा कविः एवमादिकं प्रयुञ्जीत? न को।#़पि कविः प्रयुञ्जीतेत्यर्थः। (तदुक्तं कण्ठाभरणेऽपि भोजेन, -"अथ वाक्यार्थदोषाणामदोषः कथ्यतेऽधुनाष। समुदायार्थशून्यं यत् तदपार्थं प्रचक्षते।। तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दुष्यति।। यथा, -क्वाकाय्र्यं शशलक्ष्मणः क्व च कलं भयोऽपि दृश्येत सा, दोषाणामुपशान्तये श्रुतमहो! कोपेऽपि कान्तं मुखम्। किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेकैव साऽन्यादृशी, चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति?"।। इति। अस्य समुदायार्थशून्यतया अपार्थस्यापि उन्मत्तवचनत्वाद्गुणत्वमित्यवधेयम्)।।130।। व्यर्थं निरूपयति, एकवाक्ये इति। -एकवाक्ये एकस्मिन् वाक्ये, वा प्रबन्धे महावाक्ये, विरुद्धार्थतया विपरीतार्थत्वेन, यत् पूर्वापरपराहतं पूर्वापरयोः आद्यन्तभागयोः, पराहतं सङ्गतिरहितं, तत् वाक्यं, व्यर्थंम व्यर्थाख्यदोषान्वितम्, इति दोषेषु मध्ये पठ्यते गणयते। (परस्परविरुद्धार्थत्वेन पूर्वापरयोरसङ्गत्या यत् कस्यचिद्व्यर्थताप्रत्यायनं तत् व्यर्थत्वमिति लक्षणम्। भोजराजस्तु विगतोऽर्थः प्रयोजनमस्येति व्यर्थमिति व्युत्पत्त्या विशब्दः विगतार्तक इत्याहः उक्तञ्च, -" व्यर्थमाहुर्गतार्थं यत् यच्च स्यान्निष्प्रयोजनम्"इति। उदाहरणं यथा, -"आहिंषातां रघुव्याघ्रौ शरभङ्गाश्रमं ततः। स्वामहौषीत्तनुं वढद्धठ्ठड़14;नौ दृष्टवा तौ रामलक्ष्मणौ।।" इति। अर्थविरोधश्च शाब्दबोधानन्तरं पय्र्यालोचनया प्रतीयते, अपार्थे तु आकाङ्क्षादीनाम् अभावेन शाब्दबोध एव नास्तीत्यनयोर्भेदः। अत्र हि विरुद्धमतिकारित्वप्रकाशितविरुद्धत्वामत- परार्थत्वपरिपन्थिर-साङ्गादयो दोषा अन्यैरुक्ता अन्तर्भवितुमर्हन्तीति सुधीभिर्विभाव्यम्)।।131।। व्यर्थतां दर्शयति, जहीति। -कृत्स्नं समग्रं, शत्रुबलं रिपुसैन्यं, जहि नाशय, इमां विश्वम्भरां पृथिवीं, जय, सर्वभूतानुकम्पिनः सर्वभूतेषु दयावतः, तव एकोऽपि विद्वेष्टा शत्रुः, न, अस्तीति शेषः। ( अत्र विद्वेष्ट्रमात्रशून्यस्य समग्रशत्रुहननं सर्वभूतानुकम्पिनश#्च पृथिवीजयः पय्र्यालोचनया विरुद्धतया प्रतीयते, ततश्च पूर्वापरविरुद्धतया पराद्र्धवाक्यार्थानां व्यर्थताप्रत्यायनमिति व्यर्थतादोषः)।।132।। कदाचित् व्यर्थताया गुणत्वमपीत्याह, अस्तीति। -साभिषङ्गस्य वियोगादिदुर्घटनाभिभूतस्य, ("शापे त्वभिषङ्गः पराभवे" इत्यमरः) चेतसः काचित् अनिर्वचनीया इष्टानिष्टशुभादिविचाराक्षमा इत्यर्थः, अवस्था दशा, अस्ति भवति, यस्यां सा विरुद्धार्थाऽपि असङ्गताऽपि, विरुद्धार्थतया व्यर्थाऽपि इत्यर्थः, भारती वाणी, अभिमता समादृता, भवेत्। (अभिमता इत्यनेन अवस्थावशात् अस्य गुणत्वमिति जायते इति सूचितम्)।।133।। अस्या गुणत्वं दर्शयति, परेति। -आय्र्यस्य साधोः, मे मम, परदाराभिलाषः परस्त्रीषु अभिरतिः कथं युज्यते? तस्याः परनाय्र्या, परकीयाया इति भावः, तरलं लज्जाभयनितसम्भ्रमात् सकम्पं, दशनच्छदम् अधरं, कदा नु पिबामि? ( अत्र पूर्वाद्र्धे शान्तभावः उत्ताराद्र्धे तु पुन#ः परदारौत्सुक्यमिति विरोधादुत्तराद्र्धवाक्यं व्यर्थमेव, तच्च प्रयोक्तुर्वियोगाभिभूततया गुणत्वेन सङ्गच्छते। एवं वि-शब्दस्य विगतार्थकत्वे उदाहरणं यथा, -"हृत्कण्ठवक्तश्रोत्रेषु कस्य नावस्थितं तव। श्रीखण्डड्डत्ध्;हारकर्पूरदन्तपत्रप्रभं यशः?"।। अत्रापि एकेनैव उपमानेन शौक्ल्यप्रतीतौ शेषोपमानपदानां व्यर्थत्वेऽपि यशसः स्मय्र्यमाणत्वगीयमाननत्व स्तूयमानत्वश्रूयमाणत्वैः हृदयादिषु श्रीखण्डड्डत्ध्;ादिवदवस्थानस्य प्रतीयमानत्वात् गुणत्वम्। नव्यास्तु विरुद्धानां बाध्यत्वेनोक्तौ गुणतामङ्गीकुर्वन्ति, यदाह,-"सञ्चाय्र्यादेर्विरुद्धस्य बाध्यत्वेन वचो गुणः" इति। तदत्र दोषस्य गुणत्वसम्पादनं सर्वसम्मतम् इति बोध्यम्)।।134।। एकार्थं समर्थयितुमाह, अविशेषेणेति। -यदि पूर्वोक्तं प्रागभिहितम्, अर्थतः शब्दतो वाऽपि अर्थः शब्दश्चेत्यर्तः, (पूर्वोक्तमिति सामान्यत्वान्नपुंसकलिङ्गम्। अर्थतः शब्दतः इति प्रथमान्तं ज्ञेयम्) अविशेषेण अभिन्नतया, भूयोऽपि पुनरपि, कीत्त्र्यते, तत् एकार्थम्एकार्थख्यदोषयुक्तं, मतम्। (एवञ्च दोषोऽयम् अर्थगतः एकार्थकशब्दगतश्चेति, तथा च अर्थस्य एकार्थशब्दस्य वा पुनरुक्तत्वम् एकार्थत्वमिति बोध्यम्। तेन च पुनरुक्ताख्यार्थदोषस्य कथितपदत्वाख्यशब्दोदोषस्य चान्यैरुक्तस्यएकार्थसंज्ञया सङ्गहः। शब्दत इत्यत्र शब्दपदं तदर्थकशब्दपरं ततश्च भिन्नार्थकशब्दपौनरुत्त्यस्य तादृसवैरस्याजनकत्वेन न दोषत्वम् इत्यभिप्रायः सूचितः। तद्यथा, -" सुरा विप्रैः सिरा नीचैः" इत्यादौ सुरा देवाः सुरा मद्यानीति भिन्नार्थत्वान्न दोषः)। यथेति उदाहरणप्रदर्शनार्थम्।।135।। एकार्थं दर्शयति उत्कामिति। -तस्याः बालायाः, एलकानामिव केशानामिव, त्विषः कान्तयः येषां तादृशाः, स्तनयित्नवः गर्जनशीलाः, तडिड्डत्ध्;त्वन्तः सौदामनीसहिताः, गम्भीतराः प्रागाढा इत्यर्थः, एते अम्भोधराः मेघाः, उत्कां विरहेणोत्कण्ठितां, बालाम् उन्मनयन्ति उन्मनसं कुर्वन्ति, उद्दीपकत्वादिति भावः। ( अत्र उत्केन्मन शब्दौ अम्भोधरास्तडिड्डत्ध्;त्वन्तः स्तनित्नवः इत्येते शब्दाश्च स्वरूपतो भिन्ना अपि एकय्र्यायत्वेन एकार्थप्रातीतेः पुनरुक्तार्थाः। एवं येन केनापि पीर्वोक्तार्थास्य पुनः प्रातीतौ दोषोऽयं दृश्यते; यथा दर्शितः विश्वनाथेन, -"सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः।। अत्र द्वितीयाद्र्धव्यतिरेकेण द्वितीयपादस्यैवार्थ इति पुनरुक्तता।" इति। तथा शब्दतोऽर्थतो वा इत्येनेनोक्तदस्य शब्दगतस्य अपि उदाहरणं दर्शितं प्रकाशकृता कथितपदतातां यथा, -"अधिकरतलतत्पं कल्पितस्वापलीला, परिमिलननिमीलतण्डिड्डत्ध्;मा गण्डड्डत्ध्;पाली। सितन! कथय कस्य व्यञ्जयत्यञ्जमैव, स्मरनरपतिलीलायौवराज्याभिषेकम्?"।। अत्र उभयत्र विलासरूपार्थस्यैकलीलापदेनैवोक्तौ तातपय्र्यग्राहकाभावात् लीलापदम् एकार्थम्। शब्दार्थविभागेन एकार्थस्य यत् द्वैविध्यमभिहितं, तस्यायमभिप्रायः, -वाक्यार्थदोषप्रकरणोक्तस्यैकार्थस्य वस्तुतो वाक्यार्थदोषत्वेऽपि शब्दार्थगतत्वेन भेदद्वयकल्पनमकिञ्चित्करमेव, स च भेदः यत्र पय्र्यायान्तरशब्देनार्थस्य पोनरुत्त्यं, तत्रार्थमात्रगतः ; यत्र एकस्यैवैकार्थशब्दस्य तात्पर्य#्याभावोऽपि पुनः प्रयोगस्तत्र शब्दगत् इत्येवंरूपो बोध्यः। नव्यास्तु शब्दगतस्य कथितपदत्वम् अर्थगतस्य पुनरुक्तत्वमिति संज्ञाद्वयमाहुः)।।136।। अस्य प्रतिप्रसवमाह, अनुकम्पेति। -यदि कश्चित् अनुकम्पाद्यतिशयः अनुकम्पादीनाम् अतिशयः, प्रकृतस्येति शेषः, (आदिपदेन विहितानुवादादीनाम् परिग्रहः, यदिक्तं "गुण" इत्यधिकृत्य दर्पणकारेण, -"कथितञ्च पदं पुनः। विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि।। दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने। अर्थान्तरसङ्कमितवाच्ये हर्षेऽलधारणे।।"इति) विवक्ष्यते वक्तुमिष्यते, तदा पुनरुक्तोऽपि न दोषः, प्रत्युत इयं पुनरुक्तिरित्यर्थः, अलङ्किया अलङ्कारः, काव्यशोभाधायकत्वात् इति भावः। एवञ्च रसाक्षिप्तचेतसो वक्तुरुक्तौ च एकार#्थं न दुष्यति; तदुक्त कण्ठाभरणे, -"अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीत्त्र्यते। तदेकार्थं रसाक्षिप्तचेतसां, तन्न दुष्यति।।" उदाहरणं यथा, -"असारं संसारं परिमुषितरत्नं त्रिभुवनं, निरालोकं लोकं मरणशरणं बान्धवजनम्। अदर्पं कन्दर्पं जननयननिर्माणमफलं, जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः?"।। अत्र असारं संसारमित्युक्तवा परिमुषितरत्नं त्रिभुवनं निरोलोकं लोकं जगज्जीर्णारण्यमिति यदुक्तं तस्य विशेषानभिधायकत्वेऽपि रसाक्षिप्तेन वक्रा अभिहितत्वात् गुणत्वम्; तथा उन्मत्ताद्युक्तावपि पौनरुत्त्यं गुण एवेति ज्ञेयम्)।।137।। अनिकम्पायामुदाहरति, हन्यते इति। -सा वरारोहा उत्तमाङ्गना, अकाण्डड्डत्ध्;वैरिणा अकारणरिपुणा, स्मरणे कामेन, हन्यते, सा चारुसर्वाङ्गी हन्यते, सा मञ्जुभाषिणौ मधुरवादिनौ, हन्यते। (अत्र हन्यते इति क्रियावाचकं पदं पुनः पुनरुक्तमपि प्रस्तुताया नायिकाया अनुकम्पनीयत्वादिप#्रकटनात् वैचित्र्यमेव जनयतीति न दोषावहम्। एवमन्यत्रापि उदाहरणानि मृग्याणि)।।138।। ससंशयं निरूपयति, निर्णयार्थमिति। -निर्णयार्थं, श्रोतुः प्रृत्तिनिवृत्त्योरेकतरनिद्र्धारणार्थमिति यावत्, प्रयुक्तानि विन्यस्तानि, वचांसि चेत् यदि, संशयं विषयद्वयात्मकज्ञानं, जनयन्ति उत्पादयन्ति, तदा असौ एव दोषः ससंशयः संसशयाख्यदोषेण लिप्त इत्यर्थः, इति स#्मृतः। (भोजस्तु, -"सन्दिग्धार्थं संसशयम्"इति लक्षणमाह। अस्य च लक्षणस्य सङ्घिप्तत्वेऽपि बोद्धव्यस्य प्रवृत्तिनिवृत्त्यन्यतरनिर्णयार्थं प्रयुक्तं वाक्यं सन्दिग्धार्थं सन्देहजनकञ्चेदित्यर्थः करणीयाः, सन्देहार्थमेव सन्दिग्धवाक्यप्रयोगे तु अस्य गुणत्वमिति स्वयमेव वक्ष्यमाणत्वात्)।।139।। संसशयमुदाहरति, मनोरथेति। -मनोरथप्रियालोकरसलोलेक्षणे! मनोरथप्रियः वाञ्छितवल्लभः, तस्य आलोकः दर्शनं, तस्मिन् यः रसः अनुरागः, तेन लोल चञ्चले, ईक्षणे नयने यस्याः तत्सम्बुद्धौ, हे जारदर्शनव्यापृतनयने! सखि! असौ माता, तवेति शेषः, आराद्वृत्तिः दूरवर्त्तिनीत्यर्थः, अतः ईदृशं तव सानुरागाङ्गनाजनयोग्यं व्यवहारं, द्रष्टुं न क्षमा व्यवहिततया विलोकयितुं न शक्ता, ततो निःशङ्कमवलोकय इति भावः, अथवा, -राद्वृत्तिः समीपवर्त्तिनी, अतस्तव ईदृशं कुलाङ्गनानुचितं चारित्र्यखण्डड्डत्ध्;नरूपं व्यवहारमित्यर्त-, द्रष्टुं न क्षमा न सहिष्णुः,अतो नयनचापलं मा कार्षीरिति भावः। ("आराद्दूरसमीपयोः" इत्यमरः। अत्र सख्याः कत्र्तव्यनिर्णयार्थं दूरसमीपोभयार्थकस्य आरात्-शब्दसेय उल्लेखद्वारा प्रयुक्तेन वाक्येन माता मे दूरवरत्तिनी, अतः ममेदृशं कम्र्म द्रष्टुं न शक्ष्यति तत् निःशङ्कं प्रवत्र्ते इति, किं वा माता में समीपस्था, अतः ईदृशं निन्दितं कम्र्म द्रष्टुं न शक्ष्यति तत् अस्मात् निवत्र्ते इति नायिकायाः प्रवृत्तिनिवृत्त्योः एकतरनिस्चयाभावात् सन्देहपय्र्यवसायित्वेन ससंशयदोषः। अस्य च उभयार्थकशब्दप्रयोगनिबन्धनत्वात् शब्दगतत्वम्। अयञ्च दोषः अर्थगतोऽपि सम्भवति, स च अर्थबोधान्तरं वक्राद्यनिश्चयेन ज्ञायव्यः, उदाहरणं यथा, -" मात्सय्र्यमुत्साय्र्य विचाय्र्य काय्र्यमाय्र्याः समय्र्यादमुदाहरन्तु। सेव्या नितम्बा) किमु भूधराणामुत स्मरस्मेरविलासिनीनाम्?"।। इति। अत्र प्रकाणाद्यभावात् वक्ता शमप्रधानः श्रृङ्गारप्रधानो वा इति निश्चयाभावात् संशयः। जारं साभिलाषमवलोकयन्तीं मातुस्तदाचरणपरिज्ञानशङ्कया च भीतां नायिकां प्रति सख्या उक्तिः)।।140।। अस्य कदाचित् गुणत्वमाह, ईदृशमिति। -यदि वा तु यद्यपि, ईदृशं ससंशयं वाक्यं, संशयाय संशयप्रतिपादनाय एव, प्रयुज्यते व्यवह्रियते, तदा असौ संशयः, अलङ्कार एव स्यात्, तत्र तादृशस्थले, न दोष-, तथा च यत्र संशय एव विवक्षितः तत्र असौ गुण एव, अविवक्षितस्तु दोष एवेति भाव)। तत् तस्य उदाहरणं, यथेति वक्ष्यमाणसूचनार्थम्। ("वा तु" इत्यत्र "जातु" इति पाठो दृश्यते)।।141।। पश्यामीति।-अनिन्दितां सर्वाङ्गसुन्दरीमित्यर्थः, तां तव कान्तामित्यर्थः, अनङ्गजेन कामकृतेन, आतङ्केन रोगेण, कामपीडड्डत्ध्;या इत्यर्थः, लङ्घिताम् आक्रान्ताम्,अत एव कठोरेण निर्दयेन, कालेन मृत्युना, ग्रस्तामेव कविलितामेन, पश्यामि, त्वदाशया तव प्रत्याशया, नः अस्माकं, किम्? किं फलम्? त्वामनासादयन्ती इदानीं कामपीडड्डत्ध्;या सा म्रियते, अतः तव प्रत्याशया प्रयोजनं नास्तीत्यर्थः। अथवा, -अङ्गजेन आतङ्केन शारीरिकपीडड्डत्ध्;या, न लङ्घीतेति अनङ्गजातङ्कलाङ्घिता तां, कठोरे तीव्रेण, कालेन ग्रीष्मेणेत्यर्थः, ग्रास्तां पश्यामि, त्वदाशया नः किम्?तस्याः शरीरिकी पीडड्डत्ध्;ा काऽपि नास्ती, केवलं त्वदप्राप्तिनिमित्तचिन्तीदिभिरपगतनिद्रा ग्रीष्मकालजनितसन्तापेन सा नितरां पीडड्डत्ध्;्यते इति पूर्वोक्तार्थ एवास्य श्लोकस्य प्रतिपाद्यः किं परार्थः इत्येष संशयः। (स च दूत्याविवक्षिता एव। प्रोषितं नायकं प्रति दूत्या उक्तिरियम्)।।142।। अत्र च अस्य गुणत्वमुपपादयति, कामात्र्तेति। -दूती युवानम् आकुलीकत्र्तुं नायिकासमीपगमनाय उत्सुकं कत्र्तुं, नर्मणा भङ्ग्या, कामात्र्ता घर्मतप्ता ग्रीष्मात्र्ता वा, इति अनिश्चियकरं सन्देहसङ्कुलम्, इति पूर्वोक्तरूपं, वचः आह, कामपीडिड्डत्ध्;ता ग्रीष्मपीडिड्डत्ध्;ता वा इति निर्णेतुमशक्यतया युवाऽयम् आकुलीभूय तत्समीपं यास्यतीति मनसिकृत्य दूती तादृशं सन्दिग्धं वचनं प्रोवाच इत्यस्य गुणत्वमिति भावः।।143।। अपक्रमं निरूपयति, उद्देशेति। -अर्थानां वक्तव्यविषयाणाम्, उद्देशानिगुणः उद्देशः आदाविपन्यासः इत्यर्थः, तस्य अनुगुणः अनुकूलऋ, अन्वययोग्य इत्यर्थः, अनु पश्चात्, उद्देशः उपन्यासः, क्रमानुसारेण विन्यास इत्यर्थः चेत् यदि, न कृतः, तदा बुधाः तम् अपक्रमः अभिधानं नाम यस्य तथोक्तं,क्रमलङ्घनात् अपक्रमाख्यं, दोषम् आचक्षते कथयन्ति। (तथा च, काय्र्याकारणभूतानामर्थानां यथाक्रममुपन्यास एव गुमः, तल्लङ्घनन्तु दोष एवेति भावः। अयञ्च दोषः शब्दार्थदोषयोरक्रमत्वदुष्क्रमत्वयोरन्यैरुक्तयोरन्तर्भवति, किन्तु तयोर्नात्यन्तपरिहार्य्यत्वम्; यदुक्तं विश्वनाथेन, -"द्वयं गतं सम्प्रति शोचनीयतां, समागमप्रार्थनया पिनाकिनः। कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकोमुदी।। अत्र त्वमित्यनन्तरमेव चकरो युक्तः"इति। तथा"देहि मे वाजिनं राजन्! गजेन्द्रं वा मदालसम्। अत्र गजेन्द्रस्य प्रथमयाचनमुचितम्" इति। द्वयमित्यादौ परामृष्यमाणवाक्यानन्तरं प्रयोक्तव्यस्य चकारस्यान्यत्र प्रयुक्ततया क्रमो लङ्घितोऽपि व्यवहितस्यापि योजनया अन्वयनिर्बाधात् नातिदोषं भजते। देह् मे इत्यादौ च प्रधानस्य प्रथमप्रार्थनमुचितं, तद्दाने दातुरसामथ्र्ये ततो न्यूनं याचनीयमिति क्रमः, इह तु तल्ल्ङ्घनात् अपक्रमत्वं, किन्तु अन्वयनिर्बाधत्वेन नात्यन्तपरिहाय्र्यत्वम् इत्युभयत्रापि अन्वयस्य बाधाबावान्नात्यन्तपरिहाय्र्यतेति विभाव्यम्। अस्य तु क्रमिकाणां क्रमिकैरेवान्वय इति नियमलङ्घनादन्वयबोधबाधकत्वेनात्यन्तपरिहाय्र्यत्वमिति विशेषः)।।144।। अपक्रमं दर्शयति, स्थितीति। -जगतां स्थितिः पालनं, निर्माणं सृष्टिः संहारः ध्वंस, तेषां हेतवः कारणानि, कत्र्तारः इत्यर्थ-, अमी एते सम्भूनारायणाम्भोजयोनयः शिवविष्णु ब्रम्हाणः, वः युष्मान्, पालयन्तु रक्षन्तु। (अत्र प्रथमोद्दिष्टानां स्थितिनिर्माणसंहाराणांयथाक्रममन्वये कत्र्तव्ये नारायणाम्बोजयोनिशम्भव इति वक्तुमुचितं, परन्तु तद्विपरीतमुक्तमिति शाब्दबोधविघटकत्वात् अपक्रमता)।।145।। अस्यादोषत्वमपि क्वचिदित्याह, यत्न इति। -सम्बन्धस्य अन्वयस्य, विज्ञानं विशेषेणावबोध एव, हेतुर्यस्य तादृशः, यत्नः विशिष्टसम्बन्धबोधायैव तादृशक्रमलङ्घनप्रयास इत्यर्थः, यद्यपि कृतः, कविनेति शेषः, तदा सूरयः विद्वामलसः, क्रमलङ्घनमपि दूषणं दोषावहं, नैव आहुः।।146।। अपक्रमस्यादोषत्व मुदाहरतिस बन्धित्याग इति। -बन्धुत्यागः स्वजनपरिहारः, तनुत्यागः देहाभावः, देशत्यागः विदेषावस्थितिः, इति त्रिषु विषयेषु मध्ये आद्यन्तौ बन्धुत्यागदेशत्यागौ, आयताः दीर्घाः, क्लेशाः ययोः तौ, मध्यमस्तनुत्यागस्तु, क्षणिकज्वरः क्षणमात्रसन्तापकर इत्यर्थः, वरं तनुत्यागः श्रेयान् न च पुनः बन्धुत्यागः देशत्यागो वा इति भावः। (अत्र यथाक्रममुद्दिष्टेषु बन्धुत्यागादिषु आयतक्लेशावित्येन ओआदिपदगृहितस्य बन्धुत्यागस्यान्वयित्वे तदित्तरोद्दिष्टस्य तनु त्यागास्यान्वयायोगात् तमुल्लङ्घ्य तदन्तस्य देशत्यागस्तान्वयित्वमिति क्रमलङ्घनं सम्बन्धविज्ञानहेतुत्वात् युज्यते एव इति न दोषाय, प्रत्युत तनुत्यागात् बन्धुत्यागदेशत्यागयोः गरीयस्त्वेन वक्तुरभिमतत्वात् गुण एव इत्युवधेयम्)।।147।। शब्जहीनं निरूपयति, शब्दहीनमिति।- अनालक्ष्या अदृश्या, अपरिज्ञेया इति यावत्, तस्या अशास्त्रीयत्वादिति भावः, लक्ष्यस्य सजातीयोदाहरणान्तरस्य, तथा लक्षणस्य अनुशासनस्य, सूत्रकोषधातुपाठादिरूपनियामकस्येत्यर्थः, पद्धतिः नियमः यत्र तादृशः अगणितानुशासन इत्यर्थः, तथा अशिष्टानाम् अज्ञानाम्, इष्टः अनवबोधविजृम्भित इत्यर्थः, पदानां पदयोः पदस्य वा प्रयोगः व्यवहारः, कृदभिहितभावत्वात् प्रयुज्यमानं पदमित्यर्थः, शब्दहीनं शब्देन अनुशासनशास्त्रेण हीनं, तदाख्यदोषवान् इत्यर्थः, सुधीभिरप्रयुक्ततया निष्पादकानुशासनाभावाच्च यस्य सजातीयोदाहरणान्तरं नास्ति तादृशपदप्रयोगः शिष्टाव्यवहृतपदप्रयोगश्च शब्दहीनाख्यदोषवानिति निष्कर्षः। (ततश्च यादृशपदस्यानुशासनं सजातीयप्रयोगान्तरञ्च न विद्येते तादृशं पदं तथा सत्यप्यनुशासने तत्तल्लिङ्गादिमत्त्वेन तत्तदर्थकत्वेन वा शिष्टैरप्रयुक्तओञ्च पदं शब्दहीनाख्यदोषवदिति लक्षणम्)। किञ्च शिष्टानामुक्तौ अनुशासनविरुद्धत्वमपि न दोषायेत्याह, शिष्टेति। -शिष्टेष्टस्तु शिष्टैः साधुभिर्बहुभिः इष्टः अभिमततया व्यवहृतस्तु, न दुष्यति न दोषाय भवति। झ्र्पदानां नित्यत्वात् तद्व्यत्पत्त्यर्थमेवानुसासनं पाणिन्यादिभिः कृतमितिशिष्टानामुक्तौ सूत्राणामभावे अनुशासनकारिण एव दण्डड्डत्ध्;नीयाः, न तत्र दोष इतिभावः। गोयीचन्द्रेणापि "नित्यानां पदानां प्रतिपत्त्यर्थं प्रकृतिप्रत्ययविभागपरिकल्पनं शास्त्रेण क्रियते" इत्युक्ततया अनुशासनस्य शिष्टव्यवहृतपदात् परत्वमेव प्रतिपादितम्। ततश्चानुशासनाबाव#ेऽपि बहुभिः प्रयुक्तपदप्रयोगो नास्य दोषस्य विषयः,तथा सत्यप्यनुशासने तादृशः पदप्रयोगो यदि कैरपि न कृतः तत्प्रयोगस्तु दोष एवेति बोध्यम्। शब्दशास्त्रविरुद्धपदप्रयोगे तु अन्यैरसाधुत्वमित्युक्तं, तथा च वामनः, -"शब्दस्मृतिविरुद्धमसाधु"(का. सू. वृ. 2अधि. 1अ.5सू.) इति।अप्रयुक्तासमर्थदोषयोरप्यन्यैरुक्तयोरनेनैव सङ्ग्रहः कृतः इति दिक्ट।।148।। शब्दहीनमुदाहरति, अवते इति। -हे महाराजन्! भवते भवतः बाहुः भुजः, अर्णवः सागरः, शक्करी मेखला यस्याः तां ससागरमित्यर्थः, ("शक्करी छन्दसो भेदे नदीमेखलयोरपि"इति मेदिनी) महीम् अवते पालयति, अजिज्ञासा संशयाभावात् अत्र जिज्ञासा न विद्यते, सत्यमेवैतदित्यर्त, इत्यस#ा#ं प्रागुक्तानामीदृशीनां गिरां वाचां, रसः माधुय्र्यानुगुणः आस्वादः, नास्ति, प्रोक्तपदानामसाधुत्वात् अन्वयबोधप्रातिकूल्येन श्रृङ्गाररसानुप्राणितराजविषयकरतिभावस्यानुद्रमादिति भावः। (अत्र अवते इति परस्मैपदिनः अवधातोरात्मनेपदं, भवते इति षष्ठीस्थाने चतुर्थी,महाराजन्निति कर्मधारयसमासे टच्-प्रत्ययाभावः, अर्णवशक्करीमित्यत्र बहव्रीहिसमासे क-प्रत्ययाभावश्च सर्वमेतते अनुशासनविरुद्धम् अशिष्टैरुपन्यस्तम्। अन्यच्च शक्करीशब्दः मेखलार्थे कैरपि न व्यवहृतः इत्यस्य अप्रयुक्तत्वात् प्रयुक्तमिदं पदं श्रोतृबुदिं्ध व्याकुलयत#् अन्वयबोधव्याघातकं भवति)।।149।। अदूषितं शब्दहीनं दर्शति, दक्षिणाद्रेरित्यादि। दक्षिणाद्रेः मलयपर्वतस्य, उपसरन् समीपं वान्, मलयाचलं गच्छन् इत्यर्थः, मारुतः वायुः, चूतपादपान् तत्त्यान् आम्रतरून्, ललितं सन्दरं यथा तथा, मृदुलतया इत्यर्थः, आधूताः कम्पिताः, ये प्रबालाङ्कुराः नवपल्लवप्ररोह#ा#ः, अभिनवोद्रतपल्ल्वा इत्यर्थः, तैः शोभिनः शोभाशालिनः कुरुते। इत्यादि पूर्वोक्तरूपं वाक्यं, शास्त्रस्य अनुशासनस्य, यत् महात्मां निगूढार्थं इत्यर्थः, तस्य दर्शने अलसं विमुखं, चेतो येषां तथाभूतानाम, आलस्यवशात् व्याकरणादिशास्त्रालोचनापराङ्मुखानां विदुषाम् इत्यर्थः, अपभाषणवत् पशब्दवत्, भाति प्रतीयते, न तु अपशब्दरूपेण इत्यर्थः। झ्र् अयं भावः, -कर्मणि द्वितीयेति अनुशासनबलेन उपसरणक्रियायाः कम्र्मपदस्य दक्षिणाद्रेरित्यत्र द्वितीया भवितुमर्हत्येव, परकं तदकरणेऽपि नातच्र दोषः, सर्वत्र सम्बन्धविवक्षया षष्ठीविधानस्य अदुष्टत्वेन शिष्टानुमोदितत्वात्। उक्तञ्च दीक्षितेन, -"कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव" इति। किञ्च शिष्टैरुक्तेषु प्रयोगेषु अनुशासनाभावेऽपि न दोषः ; यथा-"लज्जालोलं बलन्ती" "चेतः परं बलति शैलवनस्थलीषु" इत्यादौ बलेर्धातोरात्मनेपदित्वात् परस्मैपदित्वामनुसासनविरुद्धमपि म दुष्टम्; अत एव वामनेन तत्सिद्धये क्वचिदनुदात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन समर्थितम्; यथा, -"बलेरात्मनेपदमनित्यं ज्ञापकात्"(का. सू. वृ. 5अधि. 2अ. 3सू.) इतिट द्वितीयाय अभावेऽपि श्रोतॄणां न वैरस्योदय इत्याह, नचेति। सौभाग्यञ्च लालित्यञ्च, शिष्टसम्मतत्वात् प्रयोगसौष्ठवञ्चेत्यर्थः, न उज्झति न त्यजति, तथा च ईदृशस्थले श्रोतृविरागे दोष एवेति भाव। (वायुना कम्पितस्य मलयपर्वतीयचूततरोर्वर्णनमिदम्। दक्षिणाद्रेरुपसर्पन्नित्यस्य दक्षिणाद्रेः मलयाचलात् उपसर्पन् आगच्छन्नित#्यर्थकत्वे न कश्चित् पय्र्यनुयोग इति बोध्यम्)।।150।।151।। यतिं तद्भ्रंशञ्च निरूपयति, श्लोकेष्विति। -श्लोकेषु पद्येषु, न तु गद्येषु इति भावः, नियतं छन्दः शास्त्रज्ञैः निरूपितं, स्थानं यस्य तादृसं, पदस्य सुप्तिङन्तरूपस्य,छेदं विरतिं यतिं विदुः जानन्ति, बुधा इति शेषः, पदान्ते जिढद्धठ्ठड़14;वेष्टविश्रामस्थानं यतिरिति निष्कर्षः ; (उक्तञ्च, -"यतिर्जिढद्धठ्ठड़14;वेष्टविश्रामस्थानं कविभिरुच्यते") तदपेतं तस्यचाः विच्युतम्, अत एव श्रवणयोः श्रोत्रयोः उद्वेजनम् असिखजनकम् इत्यर्थः, यतिभ्रष्टं यतिभ्रष्टाख्यदोषवदित्यर्थः पदमिति शेषः, यत्र विरामे श्रुतिकटुरेव भवति श्लोकः, तत्र दोष इति भावः। झ्र्अत एवोक्तं वामनेन, -"विरसविरामं यतिभ्रष्टम्"(का. सू.वृ. 2अधि. 2अ. 3सू.)इतिट।।152।। स्त्रीणामिति। -अयम् आदित्यवंश्यः सूय्र्यवंशीयः, नरेन्द्रः राजा, शिष्टैः सज्जनैः, अमा सह, अक्लिष्टः मनोज्ञः, रसः स्वादः माधुय्र्यमित्यर्थः, यस्य तादृसं, स्त्रीणां सढद्धठ्ठड़14;गीतविधिं सम्यक् गीतविधानं, नाट्यगीतवाद्यत्रयमित्यर्तः, इह अत्र सभायां, पश्यति, इत्यादि एवमादिकं पद्यं, दुष्टं यतिभ्रष्टत्वादनादरणायमित्यर्थः। झ्र्तथा हि सप्तदशाक्षरे मन्दाक्रान्तावत्ते अस्मिन् आदितश्टचतुर्थे ततः षष्ठे ततः सप्तमे यतिर्निवेशनीयाः ; तथा चोक्तं, -"मन्दाक्रान्ताम्बुधिरसनगैर्मोंभनौ तै गयुग्मम्"इति। अत्र तु चतुर्थादिवर्णानां पदान्तर्गतत्वात् यतिभ्रष्टता। तथा च "स्त्रीणां सङ्गी" इति चतुर्थवर्णे, तथा "मयमा"इति दशमवर्णे च विरत्यभावेन वैरस्यात् यतिभ्रष्टत्वं, तञ्च सङ्गीत इति प्रतिपदिकांशगतमिति वामनोक्तं नामभागभेदोदाहरणमिदमित्यपि बोध्यम्। वामनस्तु धातुनामभागत्वेनास्य द्वैविध्यमाह; यथा, -"तद्धातुनामबागभेदे स्वरसन्ध्यकृते प्रायेण"(का. सू. वृ. 2अदि. 2अ. 4सू.) इति। धातुभागभेदे मन्दाक्रान्तायां, यथा, -"एतासां राजति सुमनसां दाम कण्ठावलम्बि" इत। अत्र "एतासां रा" इत्यत्रराजधातोरंशे प्राप्तस्य विरामस्याभावात् वैरस्यमिति धातुभागभेदत्वम्। लक्षणेऽस्मिन् पदभागभेद इति लाघवं विहाय धातुनामग्रहणेन धातुनामभागव्यतिरिक्ते प्रकृतिप्रत्ययमध्यविरामे यतिभ्रंशो न भवेदिति सूच्यते; तेन "शोभां पुष्यत्ययमभिनवः सुन्दरीणां प्रबाधः" इत्यादौ "शोभां पुष्य" इत्यत्र विरामो न वैरस्यमावहति, धातुभागस्य पुष इत्यन्तत्वात्। कण्ठाभरणे तु "शोभाम्" इत्यादि प्रथमपादः ; "किञ्चिद्भावालसमसरलप्रेक्षितं कामिनीनाम्" इति द्वितीयः पादः, "काय्र्याकाय्र्याण्ययम्" इत्याद्यपराद्र्धमित्येवमुदाहृतम्ट। अस्य च क्वचिददोषत्वमाह, काय्र्येति। -अयं नृपः आगमेनैव नीतिशास्त्रेणैव, न तु स्वेच्छाचारितयेत#ि भावः, काय्र्याकाय्र्याणि कत्र्तव्याकत्र्तव्याणि, अविकलानि अव्याहतानि, पश्यन् वश्यां वशतामापन्नाम्, उर्विं पृथिवीं, वहति पालयति इत्यर्थः, इति एवं प्रयोगश्च अस्ति अदुष्टत्वेन वत्र्तते इत्यर्थः, ("काय्र्याकाय्र्याणि" इत्यत्र काय्र्या इत्यस्य प्रातिपदिकभाग#ान्ततया नामभागभेदगतस्य तस्याप्राप्तेरिति भावः। तदुक्तं कण्ठाभरणेऽपि, -"स्वरसन्ध्यकृते प्रायो धातुबेदे तदिष्यते। नामभेदे च शेषेषु न दोष इति सूरयः।।" इति। किञ्च "ण्य" इत्यादिस्थले स्वरसन्धिश्रयणे पदमध्ये "य्र्या"इत्यादौ यतिभ्रंशस्य अदोषत्वमवगन्तव्यम्; यदिक्तं, -"क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः पदान्ते सा शोभां श्रयति पदमध्ये त्यजति च। पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां, यथा कृष्णः पुष्णात्यतुलमहिमा मां करुणया।।" इति। स्त्रीणां सङ्गीतप्रभृतिषु तु एतल्लक्षणाभावात् दोष एव इति)।।153।। उभयत्रापि पदमध्ये विश्रान्तिरूपस्य उक्तविधयतिभ्रंशस्य एकत्र सदोषत्वम् अन्यत्र अदोषत्वञ्च प्रतिपादयति, लुप्ते इति। -पदस्य सुबन्त तिङन्तरूपस्य, अन्ते शेषवर्णे, लुप्ते मधु पठ इत्यादौ विभक्तिलोपे जाते इत्यर्थः, (अत्र पदान्ते इत्येकवचनमविक्षितं राजा इत्यत्रद्वयोरपि लोपे अवशिष्टस्य राजभागस्य पदत्वस्वीकारात् ) शिष्टस्य अवशिष्टस्य प्रकृतिभागरूपस्य पदांशस्य, यथा पदत्वं निश्चितं सिद्धान्तितं, निःसन्धिग्धं शिष्टैः पदत्वेन स्वीकृतमित्यर्थः, तथा सन्धिः स्वरद्वयसम्मेलनं, तत्कृतो विकारः दीर्घ-य-व-पर्भृतिवर्णान्तरोत्पत्तिरूपः, तादृशविकारयुक्तव्यञ्जनमिति यावत्, अन्ते यस्य तत्, पदमध्यपपीति शेषः, पदमेव पदान्ते एव, इति वण्र्यते कविभिरुच्यते। (ततश्च "काय्र्याकाय्र्याण्ययम्"इत्यादौ "ण्य" इत्यादिस्थले स्वरसन्धिकृतयकारादिविकारयुक्तवर्णान्ते, "य्र्या"इत्यादौ पदमध्येऽपि यतिर#्न दोषावहा। तथा चतुर्थपादेऽपि पादस्य मध्यभागे निविष्टकेवलस्वरत्वात् यतिभ्रंशेऽपि स्वरसन्धिकृतत्वादविभिन्ननामधातुशरीरत्वाच्च न धोषत्वम्। एतदुक्तमेव प्राक्। एतद्वैपरीत्ये दोष एव,यथा स्त्रीणामित्यादि)।।154।। स्वरसन्धावपि क्वचिद्दोषं दर्शयति, तथाऽपीति। -तथाऽपि स्वरसन्धिना पदमध्यस्य पदान्त्त्वस्वीकारेऽपि, कवयः कर्णानां कटु श्रोत्रासुखकरं, तस्य राज्ञः ध्वजिनी सेना, केतुभिः ध्वजैः, उदस्ता उत्क्षिप्ताः, अत्युन्नतत्वादिति भावः, जलदा मेघा यया तादृशी, इत्यदः एवम#िदं पद्यं, न प्रयुञ्जते न व्यवहरन्ति। (प्रकृते च केतूदस्तेत्यत्र "त" इति स्वरसन्धिना कृतदीर्घपदान्तमपि"के" इत्यक्षरं यतिस्थानपातितया श्रोतृवैरस्यं जनयतीति स्वरसन्धावपि श्रुतिकटुर्यतिब्रंश एवेति भावः)।।155।। भिन्नवृत्तं निर्दिशति, वर्णानामिति। -यत्रेत्यूह्यम्, उत्तरत्रह तत्रेति दर्शनात्; यत्र पद्ये वर्णानां वर्णस्य वर्णयोः वर्णानां वेत्यर्थः, न्यूनता अधिक्यं वा, तथा गुरुणां लघुनां वा वर्मानाम्, अयथास्थितिः अनियमेन विन्यासः, तत्र पद्ये, तत् भिन्नवृत्तं भिन्न#ं भग्नं, वृत्तं छन्दः, छन्दोभङ्ग इत्यर्थः, स्यात्, छन्दः शास्त्रलक्षणच्युततया यद्वृत्तं कृतं तत् वृत्तभङ्गदोषवदिति निष्करषः। झ्र्तदुक्तं वामनेन, -"स्वलक्षणच्युतवृत्तं भिन्नवत्तम्" (का. सू. वृ. 2अधि. 2अ. 2सू) इतिट एष वृत्तभङ्गाख्यः दोषः सुनिन्दितः कवयितुच्छन#्दोऽनबिज्ञतया उपहासास्पदत्वज्ञापनादिति भावः।(प्रकासकारादिभिश्च दोषाऽयं हतवृत्तसंज्ञया अभिहितः, तच्च हतवृत्तं लक्षणानुसरणेऽपि अश्रव्यत्वरूपम् अप्राप्तगदुरुभावान्तलघुरूपं, रसाननुगुणरूपञ्चेति त्रिविधं बोध्यम्। तत्रोदाहृतं यथा,-"अमृतममृतं कः सन्देहो मधिन्यपि नान्यथा, मधुरमधिकं चूततस्यापि प्रसन्नरसं फलम्। सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो, वदतु यदिहान्यत् स्वादु स्यात् प्रियारदनच्छदात्।।"इति)।।156।। न्यूनताधिक्ये उदाहरति, इन्दुपादा इति।- शिशिराः शीतलाः, इन्दोश्चन्द्रस्य, पादाः किरणाः, ("पादा रश्म्यढिद्धठ्ठड़14;घतुय्र्यांशाः" इत्यमरः)स्पृशन्ति, इत्यत्र ऊनवर्णता प्राथमे पादे अष्टाक्षरे वक्तव्ये सप्ताक्षराणीति एको वर्णः न्यन इत्यर्थः, सहकारस्य आम्रस्य, किसलयानि पल्लवानि, आद्र्राणि, इति अत्रापि, अधिकाक्षरं ततीये पादे अष्टाक्षरे वक्तव्ये नवाक्षराणीति एको वर्णोऽधिक इत्यर्थः।।157।। गुरुलघ्ववयथास्थितिमुदाहरति, कामेनेति।-कामेन मृगेक्षणासु निशिता बाणा विमुक्ताः, इत्यतच्र, अयथागुरुत्वं "का" इति प्रथमपादस्थप्रथमवर्णस्य लघुत्वनियमेऽपि दीर्घकरणात् इति बोध्यम्।(तथा च, अत्र पूर्वोद्र्धे उपेन्द्रवज्रा वृत्तम्, "उपेन्द्रवज्रा जतजास्तातो गौ"इति लक्षणात्, ततश्च जगणे प्रथमं निवेश्ये काइति गुरुवर्णो निवेशितः, जगणस्च "जो गुरुमद्यगतः" इत्युक्तत्वात् आद्यन्तौ लघू मध्यवर्णो गुरुरित्येवं वर्णत्रयात्मक इति; एवञ्च प्रथमवर्णस्य दीर्घत्वादिन्द्रवज्रालक्षणलक्षितः प्रथमपादः, द्वितीयपादस्तु उपेन्द्रवज्रालक्षणात्मक इति इन्द्रवज्रोपेन्द्रवज्रयोः सङ्करादुपजाति वृत्तमिदम्।तत्र यद्यपि प्रथममिन्द्रवज्रापादाढद्धठ्ठड़14;गीकारे प्रथमवर्णस्य दीर्घत्वमेव युज्यते, न च अयथागुरुत्वदोषोऽपि सम्भवति, तथाऽपि उपजातिवृत्तानां प्रथमपादाक्षराणां लघुत्वनियमादयथागुरुत्वं सम्भवत्येव। उक्तञ्च यथा, -"उपजातिविकल्पानां सिद्धी यद्यपि सङ्करः। तथाऽपि प्रथमं कुय्र्यात् पूर्वपादाक्षरं लघु।। गुर्वक्षरेण संरुद्धं ग्रान्थियुक्तमिवाग्रतः। करोति प्रथमं स्थूलं किञ्चित् कर्णकदर्थनाम्।।"इति। अत एव "अस्त्युत्तरस्याम्" इतियादिमहाकविप्रयोगोऽपि दोषोदाहरणे दर्शितः इति बोध्यम्)। तथा, स्मरस्य निशिता बाणा वामेक्षणासु पततन्ति, इत्यत्र, अयथालघुत्वम्। (तथा च, उत्तराद्र्धे इन्द्रवज्रा वृत्तं "स्यादिन्द्रवज्रा ततजास्ततो गौ" इति लक्षणात्, ततश्च तगणे प्रथमं निवेश्ये "स्म" इति लघुवर्णो निवेशितः, तगणश्च "अन्तलघुस्त" इतियुक्तत्वात् प्रथमद्वितीयौ गुरु अन्त्यश्च लघुरित्येवं वर्णत्रयात्मक इति बोध्यम्। अत्र आदाविन्द्रवज्रा पश्चादुपेन्द्रवज्रा इत्यवमुपजातिच्छन्द इदमिति स्वीकृते नायं दूषणावसरः। वस्तुतस्तु उपेन्द्रबज्राया इन्द्रवज्राया वा उदाहरणमिदमिति प्रकल्प्य वृत्तभङ्गत्वं दर्शितम्। दिङ्मात्रमिदं, शुद्धोदाहरणं यथा, -"यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।।" इति। अ#्त्र पञ्चमवर्णस्य लघोः स्थआने गुरोः करणात् वृत्तभङ्गः। यथा वा, -""अयि! पश्यसि सौधमाश्रितमविरलसुमनोमालभारिणीम#्" इति। वैतालीययुग्मपादे "ताश्च समे स्युर्नो निरन्तराः"इति समपादे लघ्वक्षरषट्कस्य नैरन्तय्र्यं निषिद्धम्, अत्र तु "अविरलसुम" इति षडड्डत्ध्;पि लघ्वक्षराणि प्रयुक्तानि। केचित्तु-द्वितीयादिपादत्रयस्य लघ्वादित्वेन गुर्वादित्वेन वा साम्यमभिप्रेत्य दूषणद्वयप्रदर्शनमिदम्, अन्यथा अयथागुरुत्वोदाहरणे अयथालघुत्वम् अयथालघुत्वोदाहरणे च अयथागुरुत्वमपि सम्भवति, पादद्वयादौ द्वयोरपि गुरुलघ्वोः सत्त्वादिति उक्तवा उप्न्द्रवज्रेन्द्रवज्रयोः सङ्करादुपजात्याख्यं छन्दोऽन्तरं ये न मन्यन्ते तेषां मते दूषणद्वयमिदमित्याहुः ; तथा "कामेन" इत्यत्र "स्वभुवा" "स्मरस्य" इत्यत्र "मदन" इति पाठं प्रकल्प्य पूर्वत्र तृतीयस्य गुरुत्वम् उत्तरत्र द्वितीयस्य लघुत्वमयथाप्रयुक्तमिति सङ्गमयन्ति च। किञ्च नवीनैर्यदुक्तम्-अप्राप्तगुरुभावान्तलघुत्वं, तस्यापि अयथालघुत्वं बोद्धव्यं, यथा, -"विकसितसहकारभारहारपरिमल एष समागतो वसन्तः" इत्यादौ भारङारि इत्यत्र "रि" इत्यस्य लघुवर्णस्य प्रथमपादान्तत्वात् गुरुत्वाभावः इति वृत्तभङ्गः, पादान्तलघोर्गुरुत्वन्तु द्वितीयचतुर्थपादविषयत्वेनाभिहितत्वात् इत्युपि सुधीभिः ध्येयम्)।।158।। विसन्धिकं निर्दिशति, नेति। -संहितां वर्णयोर्मिर्लिनरूपां सÏन्ध, न विवक्षामि न वक्तुमिच्छामि, तद्विधायकसूत्रे सत्यपि न करोमीति भावः, (एतेन "सन्धिस्तु पुरुषेच्छया"इति "सैवान्यत्रविभाषित" इत्यादिकमन्येषां मतं प्रत्युक्तम्)। इति इत्यभिप्रेत्य, पदेषु पदसंयोजकवर्णेषु, यत् असन्धानम् असंयोजनं, तत्तत्सूत्रेण सन्ध्यभाव इत्यर्थः. तत् विसन्धि विगतः सन्धिः सन्धिसूत्रेण परस्परमिलनं यत्र तत् तादृशं, विसन्ध्याख्यदोषवत् इत्यर्थः, वाक्यमिति शेषः, (पदमिदं वाक्यविशेषणम्, अन्यथा ल्कीवत्वानुपपत्तेरिति बोध्यम्)इति निर्दिष्ट#ं कथितमित्यर्थः। वक्तुरिच्छाकृतसन्ध्यभावस्यैव दोषत्वमिति यदुक्तं तदेव स्पष्टयति, नेति। -प्रगृह्यं सन्धिनिषेधकानुशासनविशेषः, तदादिः, तत्प्रभृतिरेव, (आदिना अनुकरणादीनां परिग्रहः) हेतुः यत्र तत्, सन्धिसूत्रेण यत्र सन्धिर्निषिद्धः इत्यर्थः, न तत्र विसन्धि दोषो न भवति इत्यर्थः. झ्र्तत्र प्रगृह्यहेतुको यथा, -अमी ईशा इत्यादि। असिद्धिहेतुको यथा, -"तत् उदित उदाहारिद्युतिः" इत्यादि। अत्र"लोपः शाकत्यस्य" (8/3/19 पा.) इति सूत्रेण विहितस्यापि लोपस्य "आद्गुणः" (6/1/87 पा.) इत्यनेन प्राप्तं गुणं प्रति "पूर्वत्रासिद्धम्"(8/2/1 पा.) इत्यनेनासिद्धिविधानादसिद्धिहेतुकोऽयं विश्लेषः। प्रगृह्यादिहेतुकस्य सन्ध्यभावस्य सकृत प्रयोगे एव दोषाभावः, असकृत प्रयोगे तु बन्धशैथिल्यनिबन्धनश्रवणोद्वेजकत्वात् दोष एव। अत्र विश्वनाथ- यथा, -"दलिते उत्पले एते अक्षिणी अमलाङ्गि! ते" एवंविधस्न्धिविश्लेषस्य असकृत प्रयोग एव दोषः। अनुशासनमुल्लङ्घ्य वृत्तभङ्गभयात् सन्धिविश्लेषस्य तु सकृदपि। यथा, -"वासवाशामुखे भाति इन्दुश्चन्दनविन्दुवत्" इति। तेन तु सन्धौ जुगुप्साव्यञ्जकाश्लीलत्वकष्टत्वयोः यद्दोषत्वमुक्तं, तत्तु शाब्दबोधाप्रतिकूलतयैव नास्याभिमतम्। तच#्च दर्शितं यथा, -"चलण्डड्डत्ध्;ामरचेष्टिम्" अत्र सन्धौ लण्डड्डत्ध्;ा इति पदस्य जुगुप्साव्यञ्जकमश्लीलत्वम्। "उर्वसावत्र तर्वालि मर्वन्ते चार्ववस्थितिः" अत्र सन्धौ कष्टत्वम्ट।।159।। विसन्दिदोषमुदाहरति, मन्दानिलेनेति। -नभसिआकाशे, चलता प्रावहता, मन्दनिलेन अङ्गनायाः गण्डड्डत्ध्;मण्डड्डत्ध्;ले कपोलदेशे, अस्मद्वपुषि अस्माकं शरीरेऽपि उद्भेदि उत्पन्नः, घर्माम्भः स्वेदजलं, लुप्तम् अपनीतम्। (अत्र चलता इत्याकारस्य अङ्गनेत्यकारेण सह दीर्घत्वविधायकसूत्रे सत्यपि केवलं वृत्तभङ्गभयेन सन्धिर्न कृत इत विसन्धिदोषः)।।160।। प्रगृह्यादिहेतुकं सन्ध्यभावः दर्शयति, मानेष्र्ये इत। -इह हिमऋतौ हेमन्ते, आसु वत्र्तमानासु, रात्रिसु हेमन्तनिशासु इत्यर्थः, प्रिये प्रणयिनि, स्त्रीणां मानेष्र्ये मानः प्रणयकोपः, ईष्र्या नायिकान्तरासङ्गजनितः कोपविशेषश्च ते, शीय्र्येते शार्णे भवतः, नश्यत इत्यर्थः, इत अत्र स्थले, ईदृशं व्यस्तं सन्ध्यभावः, प्राज्ञैः सूत्रकृद्भिः पण्डिड्डत्ध्;तैः, आम्रातं कथितम्। झ्र्तथा च, मानेष्र्ये इह इत्यत्र "ईदूदेद्विवचनं प्रगृह्यम्"(1/1/11 पा.) इति सूत्रेण द्विवचननिष्पन्नस्य एकारस्य सन्धिर्निषिद्ध, तथा हिमऋतौ इत्यत्र "ऋत्यकः" (6/1/118 पा.) इति सूत्रेण ऋकारे परे अकारस्य विकल्पेम सन्धिर्निषिद्धः इति बोध्यम्ट।।161।। अथ देशादीनां विरोधं निरूपयिष्यन् तेषां लक्षणानि प्रथमं निर्दिशति, देश इति। -अद्रिः पर्वतः, वनं राष्ट्रं राज्यम्, इत्येवमादिर्देशः, (आदिपदेन समुद्रादीनां ग्रहणम्) रात्रिर्दिवा ऋतवश्च कालः, (बहुवचनाक् मासवत्सरादीनां ग्रहणम्) कामार्थसंश्रयाः कामश्च अभिलाषश#्च, अर्थश्च तौ संश्रयौ जनकत्वेनाश्रयभूतौ इत्यर्थः, येषां तथोक्ताः, कामसाधकाः अर्थसाधकाश्च, नृत्यगीतप्रभृतयः (प्रभृतिशब्देन वादित्रादिपरिग्रहः) कलाः तन्त्रोक्ताः चतुःषटिप्रकाराः शिल्पविद्याविशेषाः; (ताश्च अस्मत्पितामहपादकृतवाचस्पत्याभिधाने कलाशब्दे दर्शित#ा#ः यथा, -"गीतादिविद्याभेदे, सा च चतुः-षष्टिविधा शैवतन्त्रोक्ता यथा-गीतं वाद्यं नृत्यं नाट्यम् आलेख्यं विशाषकच्छेद्यं तण्डुड्डत्ध्;लकुसुमबलिविकाराः पुष्पास्तरणं दशमवसनाङ्गरागाः मणिभूमिकाकम्र्म शयनरचनम् उदकवाद्यम् उदकघातः चित्रायोगाः माल्यग्रथनविकल्पाः केशशेखरापीडड्डत्ध्;योजनं नेपथ्ययोगाः कर्णपत्रभङ्गाः गन्धयुक्तिः भूषणयोजनम् इन्द्रजालं कौचुमारयोगाः हस्तलाघवं चित्रशाकपूपभक्ष्यविकारक्रिया पानकरसरागासवयोजनं सूचीवापकम्र्म वीणाडड्डत्ध्;मरुकसूत्रक्रीडड्डत्ध्;ा प्रहेलिका प्रतिमा दुर्वचकयोगाः पुस्तकवाचनं नाटिकाक्यायिकादर्शनं काव्यसमस्यापूरणं पट्टिकावेतरबाणविकल्पाः तर्कूकर्माणि लक्षमं वास्तुविद्या रूप्यरत्नपरीक्षा धीतुवादः मणिरागज्ञानम् आकरज्ञानं वृक्षायुर्वेदयगाः मेषकुक्कुटलावकयुद्धविधिः शुकसारिकाप्रलापनम् उत्सादनं केशमार्जनकौशलम् अक्षरमुष्टिकाकथनं म्लेच्छितकविकल्पाः देशभाषाज्ञानं पुष्पशकटिकानिमित्तज्ञानं यन्त्रामातृका धारणामातृका सम्पाट्यं मानसी काव्यक्रिया क्रियाविकल्पाः छलितकयोगाः अभिधानकोषच्छन्दोज्ञानं वस्त्रगोपनानि द्यूतिविशेषः आकर्षणक्रीडड्डत्ध्;ा बालकक्रीडड्डत्ध्;नकानि वैनायिकीनां विद्यानां ज्ञानं वैजयिकीनां विद्यानां ज्ञानं वैतलिकीनां विद्यानां ज्ञानम् इति भाग.945 अ.28 श्लोके टीकायां श्रीधरस्वामिलिखिताः")।।162।। चराचराणामिति। -चराचराणां जङ्गमस्थावराणां,भूतानां प्राणिनां क्षित्यादीनाञ्च, प्रवृत्तिः वात्र्ता, लोकसंज्ञिता लोकशब्दप्रतिपाद्या इत्र्थः। (लोक इति संज्ञा जाता अस्या इति अस्यजातार्थे इतच्-प्रत्ययः) हेतुविद्यात्मकः हेतुः कारमं, तढद्धठ्ठड़14;वचिता विद्या ज्ञानं, हेतुविद्या युक्तिमूलकशास्त्रं, दर्शनशास्त्रमित्यर्थः, तानि च तर्कादीन बोद्धशास्त्राणि च इति ज्ञातव्यं, तदात्मकः तन्मयः, न्यायः युक्तिमूलकदर्शनशास्त्रमेव न्यायपदवाच्यमिति निष्कर्षः, तथा सस्मृतिः स्मृतिः वेदार्थस्मरणजन्यम् ऋषिवाक्यं, मन्वादिसंहिता इति यावतं, तत्सहिता श्रुतिर्वेदः, आगमः आगमशब्दावाच्य इत्यर्थः।।163।। देशादिविरोधलक्षणामाह, तेष्वति।- तेषि तेषु उक्तेषु देशादिषु, अयथारूढम् अप्रसिद्धं, किञ्चित् यदि कवेः कवयितुः, प्रमादात् अनवदानात्, प्रवत्र्तते उपन्यस्तो भवति इत्येवंरूपेण वर्णितो भवतीत्यर्थ-, तदा एतत् ईदृशं वचनं, देशादिविरोधि तदाख्यदोषवदित्यर्थः, इति उच्यते, देशविरोधि कालविरोधि इत्यादिसंज्ञया अभिधीयते। (देश-काल लोकविरोधस्तु ख्यातविरुद्धतासंज्ञया कलान्यायागमविरोधश्च विद्याविरुद्धतासंज्ञया नवीनैरभिहित इति बोद्धव्यम्। सस्मृतिश्रुतिरित्यत्र श्रुतिपदेन कामकृषिगजतुरगखङ्गादिलक्षणशास्त्राणां ग्रहणमागन्यते इति द#िक्)।।164।। देशविरोधमुदाहरति, कर्पूरेति। -मलयानिलः मलयाचलप्रवाहितः वायुः कर्परपादपानां कर्परवृक्षाणाम्, आमर्सेन सम्पर्केण, सुरभिः, सुगन्धिः, तथा कलिढद्धठ्ठड़14;गवनसम्भीताः कलिङ्गदेशीयारण्यसमुत्पन्नाः, मजङ्गजा हस्तिन-, मृगप्रायाः मृगवत् अतिक्षुद्रा इत्यर्थः। (अत्र मलयाद्रौ कर्पूरपादानां नोत्पत्तिः, चीनादिदेसे एव तदुत्पत्तिरिति प्रसिद्धाभावात् अद्रिरूप देशविरोधः; तथा कलिङ्गवने मृगसदृसाः क्षद्रतरा मतङ्जाः न सम्भवन्ति इत्यप्रसिद्दवर्णनात् वनरूपदेशविरोधश्च विज्ञेयः)।।165।। अद्रिवनरूपयोर्देशयोरुदाहरमं दर्शयित्वा राष्ट्ररूपदेशविरोधमुदाहरति, चोला इति।-चोलाः कर्णाटान्तर्गतदेशभेदाः, कालगुरुभिः कृष्णवर्णागुरुभिः, श्यामाः कृष्णवर्णाः कावेय्र्याः कावेरीनद्याः तीरभूमयः येषु तथोक्ताः। (अत्र कावेरीतीरे कालगुरवो न जायन्ते इत राष्ट्रर#ूपदेशविरोधः) देशविरोधिन्याः वाचः इति ईदृशम् उक्तरूपं, प्रास्थानं प्रकृष्टं स्थानं दृष्टान्तस्थलमित्यर्थः। (अत्र "चोलाः कालगुरुश्यामाः केरलाः कुङ्कुमारुणाः। नमेरुवनसंच्छन्नाः कावेरीतीरभूमयः।।"इति पाठान्तरे पुस्तकान्तरेषु दृश्यते। उदाहरणान्तरं यथा, -"सौवीर#ेष्वस्ति नगरी मथुरानाम विश्रुता। अक्षोटनालिकेराढ्या यस्याः पय्र्यन्तभूमयः।।" इति)।।166।। "कालो रात्रिन्दिवत्र्तवः" इत्युक्तलक्षणस्य रात्रिदिवसषडड्डत्ध्;तुरूपस्य कालस्य यथाक्रमं पिरोधं दर्शयति, पद्मिनीति। -पद्मिनि नक्तं रात्रौ, उन्नद्रा विकसिता। (दिवस एव पद्मिन्या विकासस्य प्रसिद्धेः रात्राविति निद्र्देशात् अत्र रात्रिरूपकालविरोधः)। कुमुद्वती अढिद्धठ्ठड़14;नदिवा, स्फुटति विकसति। (रात्रावेव कुमुदिन्या विकासस्य प्रसिद्धेः अढिद्धठ्ठड़14;न इत्युक्तेः अत्र दिवारूपकालविरोधः) मधुः वसन्तः, उत्फुल्लाः विकसत्पुष्पाः, निचुलाःस इज्जलवृक्षा यत्र तथोक्तः। (निचुलानां प्रावृष्येवसस्य प्रसिद्धेः मिति वर्णनात् अत्र वसन्तत्र्तुरूपकालविरोधः)। नदाघः ग्रीष्मः, मेघेन मेघावरणेन, दुर्दिनं दुःखजनकदिनं यत्र तथोक्तः। (वर्षास्वेव दुर्दिनत्वप्रसिद्धेः निदाघ इति कथानात् अत्र निदाघत्र्तुरूपकालविरोधः। यद्यपि निदाघेऽपि कदाचित् दुर्दिनत्वं सम्भवति, वर्णितञ्च अकालदुर्दिनं मृच्छकटुकादौ, तथाऽप्यत्र व#िरोधपर्तिपादनात् ऋतुविशेषे प्रसिद्धस्य वस्तुनः ऋत्वन्तरे वर्णनमेव दोष इति निदाघो मेघदुर्दिन इत्यनेन सूच्यते। केचित्तु "निदाघो हिमजाङ्याकृत्" इति पाठान्तरमङ्गीकृत्य समाधानं कुर्वन्ति। "निदाघी मेघनिःस्वनः" इति च पाठान्तरम्)।।167।। श्रव्येति। -वर्षाः श्रव्याः श्रुतिसुखघकरत्वात् मधुरा इत्यर्थः, हंसानां गिरः यासु ताः (अत्र शरत्स्वेव हंसानां मधुरनादस्य प्रसिद्धेः वर्षाः इति कालविरोधः) शरदः मत्ताः हृष्टाः, वर्हिणः मयूराः यासु ताः। (अत्र वर्षास्वेव मयूराणां मत्ततायाः प्रसिद्धेः शरद इति वर्णनात् शरदृतुरूपकालविरोधः)। हेमन्तः निर्मलः हिमावरणाभावात् प्रदीप्तः, आदित्यो यत्र तथाभूतः। (अत्र हेमन्ते आदित्यस्य हिमावृतत्वात् निर्मलत्वम् अप्रसिद्धम् इति, हेमन्तत्र्तुरूपकालविरोधः); तथा शिशिरः शीतत्र्तुः, श्लाघ्यम् आदरणीयं, चन्दनं चन्दनानुलेप इत्यर्थः, यस्मिन् सः। (अत्र चन्दनस्य शैत्यात् शिशिरे तस्य श्लाघ्यत्वम् अप्रसिद्धम् इति शिशिरत्र्तुरूपकालविरोधः। एवञ्च ऋतूनां षणामेव विरोधाः दशिताः। उदाहारणान्तरं यथा, -"कदम्बकुसुमस्मेरं मधौ वनमशोभत"इति)।।168।। कलासु तौय्र्यत्रिकस्यैव समधिकप्रीतिप्रदत्वेन प्र#ाधानताया आदौ तद्विरोधमेव प्रदर्शयति, वीरेति। -वीरश्रृङ्गरयोः तदाख्ययोः रसयोः, क्रोधविस्मयौ स्थायिनौ बावौ, विरुद्धाविति शेषः, तथा हि वीरे उत्साहः, श्रृङ्गारे रतिः स्थायिभावत्वेन कथ्यते, क्रोधः रौद्ररस्य विसमयः अद्भुतरसस्य स्थायित्वेन निर्दिष्टौ, तदेवं स्थ#िते वीरश्रृङ्गाररसयोः व्यभिचारिरूपयोः क्रोधविस्मययोः स्थायित्वेन निर्देसः विरुद्धः, स च दोष एव इति भावः। (स्थायिभावश्च दर्पणकारेणोक्तः, यथा,-"अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङिकुरकन्दोऽसौ भावः स्थायीति सम्मतः।।" इति। "रसावस्थः परं भावः स्थायितां प्रतिपद्यते" इति च। क्रोधविस्मयौ च तेनैवोक्तौ यथा, -"प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते।।" तथा-"विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः।।" इति। रसविवेकस्य भरतादिभिः नाट्यशास्त्रे एव कृतत्वात्, "अष#्टौ नाट्ये रसाः स्मृताः" इति प्रकाशकारोक्तेश्च नाट्यरूपकलाविरोधोऽयम्)। गीतरूपकलाया अपि नाट्याङ्गत्वेन तथात्वात्तद्विरोधमाह, पूर्णोति। -पूर्णाः साकल्येन प्रयुक्ताः, सप्त सप्तसङ्ख्यका एव, स्वराः निषादादयः यत्र तथोक्तः, ("नि,#ादर्षभगान्धारषडड्डत्ध्;जमध्यमधैवताः। पञ#्चमश्चेत्यमी प्त तन्त्रीकण्ठोत्थिताः स्वराः।।" इत्यामरः) सोऽयं भिन्नमार्गः भिन्नः तत्तत्कालनिषिद्धस्वरासम्बलितः, मार्गः प्रयोगपन्थाः यस्य तादृशः सन्, प्रवत्र्तते प्रचलति, सङ्गीतशास्त्रे हि सप्तस्वराणामेकस्मिन् काले प्रयोगस्य निन्दितत्वेन तत्प्रयोगो न व#िधेय इति भावः। (अत्र साकल्येन प्रयुक्तसप्तस्वरत्वम् अमिश्स्वरप्रयोगस्य विरुद्धमिति कलाविरोधदोष एवेति फलितार्थः। कालविसेषे स्वरविशेषेप्रयोगस्य निषिद्धत्वम् उक्तं भरतेन यथा, -"प्रभाते सुरतो निन्द्यः ऋषभः पञ्चमोऽपि च। जनयेते प्रधनं ह्युक्षा पञ्चत्वं पञ्चमोऽपि च।। पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः। प्रगे प्रगीतो जनयेद्दर्शनस्य विपय्र्ययम्।।" इति)।।170।। कालविरोधमुपसंहरति, इत्थमिति। -इत्थम् अनेन प्रकारेण, कलानां चतुःषष्टिः तस्याः विरोधः, साधु सम्यक् यथा तथा, नीयतां ज्ञाततामित्यर्थः, यथा नाट्यगीतरूपयोः कलयोर्विरोधः प्रदर्शितः तथा अन्यासामपि कलानां विरोधः तत्तदुदाहरणेषु दृश्यतामिति निष्कर्षः। ननु चतुःषष्ट#िविधास्तावत् कला उक्ताः, तञ्ज्ञानमन्तरेण कथं तद्विरोधो ज्ञातव्य इत्याह, तस्या इति। -कलापरिच्छेदे तदाख्यग्रन्थे, तस्याःकलायाः, रूपं स्वरूपं, नाम इत्यर्थः, अविर्भविष्यति प्रकटष्यति, अनन्तरं कलापरिच्छेदं नाम ग्रन्थं करिष्यामि तत्रैव तासां विशेषो द्रष्टव्य इति भावः।।171।। लोकविरुद्धतां दर्शयति, आधूतेति। -अयं हस्ती आधूताः कम्पिताः , केशरा जटाः यस्य तथोक्तः, तुरङ्गमः अश्वः, तीक्ष्णे सूक्ष्माग्रे, श्रृङ्गे य्सय तादृसः, एरण्डड्डत्ध्;ः तदाख्यवृक्षःस, गुरुः महान्, सारः स्थिरांशो यस्य तथाभूतः, खदिरद्रुमः निः नास्ति सारो यस्य तादृक्। (हस्तिनः सकेशरत्वं तुरङ्गमस्य तीक्ष्णश्रृङ्गत्वम् एरण्डड्डत्ध्;स्य सारवत्त्वं तथा खदिरतरोः निःसारत्वं लोकविरुद्धम्। अत्र पूर्वोद्र्धे चरभूतयोरुत्तराद्र्धे अचरभूतयोः प्रवृत्तिरित्यवगन्तव्यम्)।।172।। लोकविरोधमुपसंहृत्य न्यायविरोधं प्रपञ्चयितुमाह, इतीति। -इति उक्तरूपः, लौकिकः लोकप्रसिद्ध एव, अयं विरोधः सर्वैः विद्विद्भिः, गर्हितः निन्दितः, तथा च देशादिविरोधापेक्षया लोकविरुद्धोपन्यासः प्रयोक्तुर्नितरां हास्यायेति भावः। सम्प्रति न्यायाख्यासु न्यायनाम्न#ीषु, हेतुविद्यासु युक्तिमूलकशास्त्रेषु, विरोधः निदश्र्यते उदाह्रियते।।173।। सौगतदर्शनरूपन्यायविरोधं दर्शयति, सत्यमिति। -सुगतः बुद्धः, संस्कारान् स्मृतिहेतुकभावनाख्यात्मवृत्तिगुणभेदान्, पूर्वानुभवजन्यज्ञानविशेषान् इत्यर्थः, अविनश्यरान् चिरस्थायिनः, सत्यमेव यथार्थमेव, आह, तथा हि तमेवार्थं जानीहि, सा पूर्वानुभूता, चकोराक्षी अद्याप#ि मे हृदि मनसि, स्थितैव स्मरणविषयीभवतीत्यर्तः, स्मृतिं प्रति संस्कारस्य हेतुत्वात् तस्य चाविनस्वत्वेन सार्वकालिकत्वात् इति भावः। (पदार्थमात्रस्य क्षणभङ्गुरत्वमिति वादिनान्तु तेषां सौगतानां मते भावमात्रस्यैव क्षणस्थायित्वात् संस्कारस्यापि क्षणिकत्वमेव अतस#्तस्याविनश्वरत्वकीत्र्तनं सौगतमतविरुद्धमिति हेतुविद्याविरोधः)।।174।। साङ्ख्यदर्शनरूपन्यायविरोधं दरशयति, कापिलैरिति। -कापिलैः कपिलमतानुसारिभिः साढद्धठ्ठड़14;ख्याविद्भिः, असदुद्भूतिः आसताम् अनित्यानां दुष्टानाञ्च, उद्भूतिः उद्बव, स्थान एव युक्तमेव, उपवण्र्यते कूत्त्र्यते, स्मात् अस्माभिः असकामेव सद्भिन्नानामेव, दुष्टानामेव इत्यर्थः, उद्भवाः प्रादुर्भावाः, दृश्यन्ते, प्रायेण दुर्जना एव जायन्ते न तु साधव इति भावः। (अयं भावः, -कपिलानुसारिणः सतः सदेव जायते न तु असदिति मन्यन्ते, ततश्चासदुत्पत्तिर्न तन्मतसिद्धा, एवं स्थितेऽपि असच्छब्दस्य श्लिष्टत्वेन वाक्यार्थयोर्हेतुहेतुमद्भावात् तस्य#ा युक्तत्ववर्णनमिति साङ्ख्यमतविरुद्धमेव; तथा चोक्तम्; -"असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात्। शक्तस्य शक्यकरणात् कारणभावाच्च सत्काय्र्यम्।।"इति)।।175।। न्यायविरोधमुपसंहरति, गतीति। -न्यायविरोधस्य सा एषा एवंप्रदर्शितसौगतकापिलोक्तप्राकारा, गतिः ज्ञानं, दृष्टान्त इत्यर्त-, सर्वत्र वैशषिकादिष्वपि, दृश्यते ज्ञायते। ("दृश्यते" इत्यत्र "दर्शिता" इति पाठान्तरम्)। आगमविरोधमुदाहत्र्तुमाह, अथेति। -अथ इदानीम्, आगमव#िरोधस्य श्रुतिस्मृतिविरोधस्य, प्रस्थानं गतिः उपदिश्यते।।176।। श्रुतिविरोधं दर्शयति, अनाहितेति। - एते अक्लिष्टाचारक्भूषणा- अक्षरसर्वाचारसमन्विताः, जातपुत्रा विप्राः अनाहिताग्नयः अकृताग्न्याधानाः अपि, वैश्वानरीं विश्वानरसम्बन्धिनीं, (विस्वानरस्तु भूतसमूहात्मकः विराट् पुरुषः, तथा च, -"विश्वानरमुपास्ते विद्यदादित्यवाय#ाकाशोदकपृथिव्यात्मकैः षड्ड्डित्ध्;भरुपेतम्" इति श्रुतेः) इÏष्ट यागं, वितन्वते कुर्वन्ति। (अत्र च श्रुतौ कृताग्न्याधानादेरेव वैश्वानरेष्ट्याधिकारप्रतिपादानात् अनाहिताग्नीनां तद्वर्णनं श्रुतिविरुद्धम्)।।177।। स्मृतिविरोधरूपमागमविरोधं दर्शयति, असाविति। -असौ जनः, अनुपनीतः अकृतोपनयसंस्कारः अपि, गुरोः सकाशात् वेदान् अधिजगे अधीतवान्; तथा हि स्वभावेन प्रकृत्या एव, शुद्धः निर्मलः, स्फुटिकः तदाख्यमणिविशेषः, संस्कारंशुदिं्ध, न अपेक्षति। (अत्र अनुपनीतस्य वेदाध्ययनं स्मृतिविरुद्धम्; उक्तञ्च मनुना, -"नाभिव्याहारयेत् ब्रह्मा स्वधानियमनादृते। शूद्रेण हि समस्तावत् यावत् वेदे न जायते।।" इति। अन्ये तु "धम्र्मार्थकामशास्त्रादिविरोधः कोऽपि यो भवेत्। तमागमविरोधाख्यं दोषमाचक्षते बुधाः।।" इत्यागमविरोधस्य लक्षणमभिधाय त्रिविधं भेदमङ्गीकुर्वन्ति। तत्र धर्मशास्त्रविरोधस्योदाहरणमिदमेव पद्यमाहुः। अर्थशास्त्रविरोधो यथा, -"कामोपभोगसाकल्यफलो राज्ञां महीजयः। अहङ्कारे जीयन्ते द्विषन्तः किं नयश्रिया?"।। इति। अत्र महीजयस्य फलत्वेन कामोपभोगानामर्थशास्त्रकारैरननुमतत्वात् शत्रुविजये च अहङ्कारस्याहेतुत्वादर्थशास्त्रविरोधः। कामशास्त्रविरोधो यथा, -"तवोत्तरोष्ठे विम्बोष्ठि।।" इति। अत्र उत्तरोष्ठे दशनाङ्कस्य कामशास्त्रकारैरननुज्ञातत्वात् कामशास्त्रविरोधः इति)।।178।। प्रागुक्तदेशादिविरोधाख्यदोषस्य कदाचित् गुणत्वमाह, विरोध इति। -एष उक्तरूपः, सकलः समग्रः अपि, देशाद्यागमपय्र्यन्तविषयोऽपीत्यर्थः, विरोधः कवेः कौशलात् वर्णनाचातुय्र्येण, विरुद्धवर्णनस्यापि वैचित्र्यप्रतिपादनेन इत्यर्थः., कदाचित् दोषगणनां दोषान्तर्भूतताम्, उत्क्रम्य विहाय, गुणवीथीं गुणमार्गं, विगाहते गुणत्वेन गणनीयो भवतीत्यर्थः।।179।। तत्र देशविरोधस्य गुणत्वं दर्शयति, तस्येति। -तस्य राज्ञः, प्रभावेण महिम् ना, तदुद्यानानि तस्य राज्ञः उद्यानानि, आद्र्राणि नवानि इत्यर्थः, अंशुकानि वस्त्राणि एव, प्रकाबालानि किशलयानि येषां तादृशानां, सुरशाखिना देवतरूणां, कल्पवृक्षाणामित्यर्थः, आस्पदं स्थानं, जज्ञिरे लेभिरे इत्यर्थः। (अत्र मानवोद्यानेषु सुरशाखिसम्भवो देशविरुद्धतया वर्णितोऽपि वर्णनीयस्य राज्ञः प्रभावातिशयं तथा ऐश्वय्र्यातिशयवर्णपोदात्तालङ्कारप्रतिपादनात् कवेः कौशलञ्च द्योतयतीति चमत्कारव्यञ्जनात् गुणवत्त्वमापद्यते इति फलितार्थः)।।180।। कालविरोधस्य कदाचित् गुणत्वमुदाहरति, राज्ञामिति। -राज्ञां प्रतिपक्षनृपाणां, विनाशपिशुनः विनाशसूचकः, ("पिशुनौ खलसूचकौ" इत्यमरः) खरमारुतः प्रचण्डड्डत्ध्;वायुः सप्तच्छदोदगमान् सप्तपर्णपुष्पाणि, धन्वन् कम्पयन्, कदम्बरजसा नोपपरागेण सह, चचार ववौ। (अत्र राज्ञामित्यनेनप्रतिपक्षोत्त्या वर्णनीयस्य राज्ञः युद्धयात्रायाः प्रतीतिः, मा च युद्धायात्रा सप्तच्छदोद्गमश्च शरत्सु एव भवति, कदम्बपुष्पाणि तु तदा न जायन्ते वर्षास्वेव तेषां प्रादुर्भावात्; ततश्च तद्रजसा सह सप्तच्छदोद्गमस्यैककालतच्वप्रतिपादनात् कालविरोधः। "अकाले फलपुष्पणि देशविदरवकारणम्" इति विष्णुधर्मोत्तरीयवचनेन अकालेऽपि फलपुष्पोद्गमस्य सम्भावनं, तथा खरमारुतवत् तस्याशुभसूचकत्वञ्च प्रतीयते, तेन प्रतिपक्षीयनरपतीनां नियतविनाशसूचनात् विजिगीषोः उत्कर्षातिशयव्यञ्जकतया गुण एव, कविकौशलञ्चात्र तादृसव्यङ्ग्यप्रतिपादनमेव इत्यवधेयम्)।।181।। कलाविरोधस्य क्वचित् गुणत्वमुदाहरति, दोल्ति। -दोलायाः यानविशेषस्य, अभिप्रेरणेन सवेगचालनेन, त्रस्ता भीताः, ये बभूजनाः तेषां मुखेभ्यः उद्गतम् उच्चरितं, लयस्य गीतवाद्यपादादिन्यामानां क्रियाकालयोः साम्यस्य, वैषम्यं वेपरीत्यं यत्र तादृशम, अपीति शेषः, गेयं गीत#ं, भयचकितत्वात् लयासङ्गतमपि गानमित्यर्थः, कामिनां रागम् अनुरागम्, अवद्र्धयत्। (गानस्य लयशुद्धिरेव रागवद्र्धनीति कलानियमः, अत्र च तद्वैपरीत्यमिति कलाविरोधः, बधूजनान् प्रति कामिनामत्यनुरागव्यञ्जकतयास गुण एव इति)।।182।। लोकविरोधस्यापि गुणत्वमुदाहरति, ऐन्दवादिति। -अयं कामो कामपरतन्त्रः, अबलाया विरहेण यः क्लेशः, तेन विढद्धठ्ठड़14;वलः व्याकुलः सन्, ऐन्देवात् चन्द्रसम्बन्धिनः, अर्चिषः किरणात्, किरणमपेक्ष्येत्यर्थः, (ल्यब्लोपे पञ्चमी) हव्यवाहनम् अÏग्न, शिशिरं शीतलं, गणयति मन्यते।(अत्र हव्यवाहनस्य शिशिरत्वं लोकविरुद्धं, तच्च विरहिणां चन्द्रकिरणस्यात्युद्दीपकत्वव्यञ्जनात् गुण एव)।।183।। न्यायविरोधस्य गुणत्वमुदाहरति, प्रमेय इत। -भगवत्स्तुतिरियम्। प्रमेयः प्रमाणजन्यज्ञानविषयोऽपि, अप्रमेयः अज्ञेयः असि, सफलः फलं काय्र्यं, विश्वरूपमित्यर्थः, तत्सहितः अपि, निष्फलः फलरहितः, काय्र्येषु निर्लिप्त इत्यर्थः, असि, त्वम् एकोऽद्वितीयोऽपि, अनेकःबहुरूपः, असि, अतः विश्वमूत्र्तये जगत्स्वरूपाय, ते तुभ्यं, नमः इत्यन्वयः। (प्रमेयत्वादिकं परस्परविरुद्धं नैकाधारवत्र्तीति नैयायिकी युक्तिः, सा चात्र विरुद्धतया भासमानाऽपि परमात्मनोऽचिन्त्यतच्वं व्यञ्जयन्तो गुणत्वमेवारोहति)।।184।। आगमविरोधस्य गुणत्वमुदाहरति, पञ्चनामिति। -पाञ्चलपुत्रिका द्रौपदी, पञ्चानां पाण्डुड्डत्ध्;पुत्राणां युधिष्ठिरभीमार्जुननकुलसहदेवानां, पत्नी भाय्र्या, अथच सतीनां साध्वीनाम्, अग्रणीः श्रेष्ठा च, आसीत्, हि यतः दैवः देवससम्बन्धौ, विधिः विधानम्, ईदृशः एवंविधः, आगमानधीन#ः इत्यर्थः, तेषां तस्याश्च देवांशतया शास्त्रोक्ततवादिति भावः। (एकस्या बहुपतित्वं सतीत्वञ्च आगमविरुद्धं, तच्चात्र दैवविधेः शास्त्रानधीनतया वैचित्र्यमावहद्गुण एवेति। केचित्तु धम्र्मविरुद्धे उदाहरणमिदं मन्यन्ते)।।185।। प्राक्प्रतिज्ञातगुणालढद्धठ्ठड़14;कारादिनिरूपणानन्तरं ग्रन्थमिममुपसंहारति, शब्देति। -इह अस्मिन् काव्यादर्शाख्ये ग्रन्थे, काव्यानां शब्दार्थालङ्कियाः शब्दार्थोभयनिष्ठाः स्वभावाख्यानादयः अलङ्काराः, तेषां शब्दार्थोभयनिष्ठाः स्वभावाख्यानादयः अलङ्काराः, तेषां शब्दार्थ#ाभ्यां शोभाजनकत्वादुभयनिष्ठत्वमित्यभिप्रायः, तथा सुकरा दुष्कराश्च चित्रमार्गाः चित्रालङ्काराणां मार्गा नियमाः, शब्दमात्रनिष्ठा यमकादय इत्यर्थः, तथा गुणाः श्लेषादयः, दोषाश्च अपार्थत्वादयः, (चकारात् काव्यलक्षण तन्मर्गादीनां ग्रहणम्) सङ्क्षिप्य दर्शिताः सङ्क्षेपेण निरीपिताः, बहुभेदतया च साकल्येन गुणादीनां भेदस्यादर्शितत्वादिति भावः।।186।। सङ्क्षेपदर्शितेऽप्यस्मिन् कथं फलसिद्धिर्भवतीत्युपपादयन् ग्रन्थं समापयति, व्युत्पन्नेति। -व्युत्पन्ना संस्कृता, बुद्धिर्यस्य तथोक्तः विशुद्धमतिरित्यर्थः, धन्यः सुकृतो, जनः इति शेषः, अमुना एतद्ग्रन्थोक्तेन, विधिदर्शिंतेन विधयो लक्षणानि, तैर्दर्शितेन निर#्दिष्टेन, दोषगुणयोः अपकर्षोत्कर्षधम्र्मयोः प्रोक्तलक्षणयोरिति यावत्, मार्गेण पथा, रीत्या इत्यर्थः,(गुणपदमत्रालङ्काराणामुलक्षक, तेषामपि काव्यशोभाजनकत्वेनोत्कपर्षाधायकत्वादिति बाध्यम्) कृतम् अभिसरणम अनुगमनं येन तादृशः सन्, काव्यनिर्मितौ तदवगतौ वा कृतयत्नःसन् इत्यर्थः, वशवर्त्तिनीभिः, वशवर्त्तिनीभिः प्रेमाधीनाभिः, कान्ताभिः, विधिदर्शितेन विद्युतप्रकाशादिरूपदैवप्राकाशितेन, दोषगुणयोर्मार्गेण अनेन पथा गमने महान् दोषः, अनेन पथा च तदभावरूपः गुमः, इत्येवं विविच्य निरूपितेन पथेत्यर्थः, कृताभिसरण- कृ-ताभिसारः, युवा इव, रमते प्रीतिमनुभवति, कीर्त्तिश्च लभते,(यथा कश्चित्युवकः दैवानुकूलतयापरिज्ञातेन सुपथावहाङ्गनाभिसाराय गत्वा तदङ्गनाप्रेमास्पदीभूतः प्रीतः कीर्त्तिमांश्चभवति, तथा देशाकालदिविषयपरिशीलनकुशलमतिः सुकृतौ मत्प्रदर्शितसङ्क्षिप्तगुणालङ्कारदोषादिलक्षणघटकवाक्यार्थपरिज्ञानेन काव्यमवगन्तुं कत्र्तुं वाप्रवृत्तःसन् सफलतया प्रीतिः लब्धकीर्त्तिश्च भवतीति भावः")। वसन्ततिलकं वृत्तम्।। 187)।।

इति श्रीमज्जीवानन्दविद्यासागरभट्टाचार्यविरचिताकाव्यादर्शविवृतिः