काव्यादर्शः/तृतीयः परिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search

तृतोयः परिच्छदः

अव्येपेतव्यपेतात्मा व्यावृत्तिर्वर्णसंहतेः। यमकं तच्च पादानामादिमध्यान्तगोचरम्॥ 3-1॥ एकद्वित्रिचतुष्पादयमकानां विकल्पनाः। आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः॥ 3-2॥ अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः। सुकरा दुष्कराश्चैव दृस्र्यन्ते तत्र केचन॥ 3-3॥ मानेन मानेन सखि प्रणयोऽभूत् प्रिये जने। खण्डिड्डत्ध्;ता कण्ठमाश्लिष्य तमेव कुरु सत्रपम्॥ 3-4॥ मेघनादेन हंसानां मदनो मदनोदिना। नन्नुमानं मनः स्त्रीणां सह रत्या विगाहते॥ 3-5॥ राजन्वत्यः प्रजा जाता भवन्तं प्राप्य साम्प्रतम्। चतुरं चतुरम्बोधिरसनोर्वीकग्रहे॥ 3-6॥ अरणयं कैस्चिदाक्रान्तमन्यैः सद्म दिवोकसाम्। पदातिरथनागाश्वरहितैरहितैस्तव॥ 3-7॥ मधुरं मधुरम्भोजवदने वद नेत्रयोः। विभ्रमं भ्रमरभ्रन्त्या विडड्डत्ध्;म्बयति कि न्विदम्॥ 3-8॥ वारणो वा रणोद्दामो हयो वा स्मरः दिर्धरः। न यतो न यतोऽन्तं नस्तदहो विक्रमस्तव॥ 3-9॥ राजितैराजितैक्ष्ण्येन जीयते तेवादृशैर्नृपैः। नीयते च पुनस्तृÏप्त वसुधा वसुधारया॥ 3-10॥ करोति सहकारस्य कलिकोत्कलिकोत्तरम्। मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः॥ 3-11॥ कथं त्वदुपलम्भासाविहताविह तादृशी। अवस्था नालमारोढुमङ्गनामङ्गनाशिनी॥ 3-12॥ निगृह्य नेत्रे कर्षन्ति बालपल्लवशोभिना। तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः॥ 3-13॥ विशदा विशदामत्तसारसे सारसे जले। कुरुते करुतेनेयं हंसी मामन्तकामिषम्॥ 3-14॥ विषमं विषमन्वेति मदनं मदनन्दनः। सहेन्दुकलयापोढमलया मलयानिलः॥ 3-15॥ मानिनी मा निनीषुस्ते निषङ्गत्वमनङ्ग मे। हारिणी हारिणी शर्म तनुतां तनुतां यतः॥ 3-16॥ जयता त्वन्मुखेनास्मानकथं न कथं जितम्। कमलं कमलङ्कुर्वदलिमद्दलि मत्प्रिये॥ 3-17॥ रमणी रमणीया मे पाटला पाटलांशुका। वारुणीवारुणीभूतसौरभा सौरभास्पदम्॥ 3-18॥ इति पादादियमकमव्यपेतं विकल्पितम्। व्यपेतस्यापि वण्र्यन्ते विकल्पास्तस्य केचना॥ 3-19॥ मधुरेणदृशां मानंमधुरेण सुगन्धिना। सहकारोद्भमेनैव शब्दशेषं करिष्यति॥ 3-20॥ करोऽतिताम्रो रामाणां तन्त्रीताडड्डत्ध्;नविभ्रमम्। करोति सेष्र्यं कान्ते वा श्रवणोत्पलताडड्डत्ध्;नम्॥ 3-21॥ सकलापोल्लसनया कलापिन्यानुनृत्यते। मेघाली नर्तिता वातैः सकलापो विमुञ्चति॥ 3-22॥ स्वयमेव गलन्मानकलि कामिनि ते मनः। कलिकामद्य नीपस्य दृष्ट्वा कां नु स्पृशेद्दशाम्॥ 3-23॥ आरुह्याक्रीडड्डत्ध्;शैलस्य चन्द्रकान्तस्थलीमिमाम्। नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखावलः॥ 3-24॥ उद्धृता राजकादूर्वी ध्रियतेऽद्य भुजेन ते। वराहेणोद्धृता यासौ वराहेरुपरिस्थिता॥ 3-25॥ करणे ते रणेष्वन्तकरेण द्विषतां हताः। करेणवः क्षरद्रक्ता भान्ति सान्ध्यघना इव॥ 3-26॥ परागतरुरीजीव वातैध्र्वस्ता भटैश्चमूः। परागतमिव क्वापि परागतमम्बरम्॥ 3-27॥ पातु वो भगवत् विष्णुः सदानवघनद्युतिः। स दानवकुलध्वंसी सदानवरदन्तिहा॥ 3-28॥ कमलेः समकेशान्ते कमलोष्र्याकरं मुखम्। कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु॥ 3-29॥ मुदा रमममन्वीतमुदारमणिभूषणाः। मदभ्रमदृशः कर्तुमदभ्रजघनाः क्षमाः॥ 3-30॥ उदितैरन्यपुष्टानामारुतैर्मे हृतं मनः। उदितैरपि ते दूति!मारुतैरपि दक्षिणैः॥ 3-31॥ सुराजितढिद्धठ्ठड़14;वयो यूनां तनुमध्यासते स्त्रियः। तनुमध्या क्षरत्स्वेदसुराजितमुखेन्दवः॥ 3-32॥ इति व्यपेतयमकप्रभेदोऽप्येष दर्शितः। अव्यपेतव्यपेतात्मा विकल्पोऽप्यस्ति तद्यथा॥ 3-33॥ सालं सालम्बकलिकासालं सालं न वीक्षितुम्। नाली नालीनवकुलानाली नालीकिनीरपि॥ 3-34॥ कालं कालमनालक्ष्यतारतारकमीक्षितुम्। तारतारम्यरसितं कालं कालमहाघनम्॥ 3-35॥ याम यामत्रयाधीनायामया मरणं निशा। यामयाम दियास्वात्र्याया मया मथितैव सा॥ 3-36॥ इत्यादिपादयमकविकल्पस्येदृशी गतिः। एवमेव विकल्प्यानि यमकानीतराण्यपि॥ 3-37॥ न प्रञ्चभयाद् भेदाः कात्स्र्नेनाख्यातुमीप्सिताः। दुष्कराभिमता एव दश्र्यन्ते तत्र केचन॥ 3-38॥ स्थिरायते यतेन्द्रियो न हीयते यतेर्भवान्। अमायतेयतेऽप्यभूत् सुखाय तेयते क्षयम्॥ 3-39॥ सभासु राजन्नसुराहतैर्मुखै- र्महीसुराणां वसुराजितैः स्तुताः। न भसुरा यान्ति सुरान्न ते गुणाः प्रजासु रागात्मसु राशितां गताः॥ 3-40॥ तव प्रिया सञ्चरिताप्रमत्त या विभूषणं धार्यमिहाशुमत्तया। रतोत्सवामोदविशेषमत्तया न मे फलं किञ्चन कान्तिमत्तया॥ 3-41॥ भवादृसा नाथ!न जानते नते रसं विरुद्धे खलु सन्नतेनते। य एव दीनाः शिरसा नतेन ते चरन्त्यलं दैन्यरसेन तेन ते॥ 3-42॥ लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन। व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन॥ 3-43॥ श्रीमानमानमरवत्र्मसमानमान- मात्मानमानतजगत्प्रथमानमानम्। भूमानमानयति यः स्थितिमानमान- नामानमानमतमप्रतिमानमानम्॥ 3-44॥ सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरा तम्। सारसानुकृतसारसकाञ्ची सा रसायनमसारमवैति॥ 3-45॥ नयानयालोचनयानयानया- नयानयान्धान् विनयानयायते। न यानयासीर्जिनयानया नया- नयानयास्तं जनयानयाश्रितान्॥ 3-46॥ रवेण भौमो ध्वजवर्तिवीरवे। रवेजि सयत्यतुलास्त्रगौरवे॥ 3- रवेरिवोग्रस्य पुरो हरेरवे। रवेत तुल्यं रिपुमस्य भैरवे॥ 3-47॥ मयामयालम्ब्यकलामयामया- मयामयातव्यविरामयामया। मयामयार्तिं निशयामयामया- मयामयामूं करुणामयामया॥ 3-48॥ मतांधुनानारमतामकामता- मतापलब्धाग्रिमतानुलोमता। मतावयत्युत्तमताविलोमता- मताम्यकस्ते समता न वामता॥ 3-49॥ कालकालगलकालकालमुखकालकाल- कालकालपनकालकालघनकालकाल। कालकालसितकालका ललनिकालकाल- कालकालगतु कालकालकलिकालकाल॥ 3-50॥ सन्दष्टयमकस्थानमन्तादी पादयोद्र्वयोः। उक्तान्तर्गतमप्येतत् स्वातन्त्र्येणात्र कीत्र्यते॥ 3-51॥ उपोढरगाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता। न योजितात्मानमनङ्गतापिता- ङ्गतापि तापाय ममास नेयते॥ 3-52॥ अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः। पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः॥ 3-53॥ ना स्थेयः सत्त्वया वज्र्यः परमायतमानया। नास्थेयः स त्वयावज्र्यः परमायतमानया॥ 3-54॥ नरा जिता माननया समेत्य। न राजिता माननयासमेत्य॥ 3- विनाशिता वैभवतापनेन॥ 3-55॥ कलापिनां चारुतयोपयन्ति। वृन्दानि लापोढघनागमानाम्॥ 3- वृन्दनिलापोढघनागमानां। कलापिनां चारुतयोऽपयन्ति॥ 3-56॥ न मन्दयावर्जितमानसामत्या नमन्दयावर्जितमानसात्मया। उरस्युपास्तीर्णपयोधरद्वयं मया समालिङ्ग्यत जीवितेश्वरः॥ 3-57॥ सभासुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः। स भासुराणामबला विभूषिता विहारयन्निर्विश सम्पदः पुराम्॥ 3-58॥ कलं कमुक्तं तनुमध्यनामिका स्तनद्वयो च त्वदृते न हन्त्यतः। न याति भूतं गणेन भवन्मुखे कलङ्कमुक्तं तनुमद्ध्यनामिका॥ 3-59॥ यशश्च ते दिक्षु रजश्च सैनिका वितन्वतेऽजोपम!दंशिता युधा। वितन्वतेजोऽपमदं शितायुधा द्विषा च कुर्वंन्ति कुलं तरस्विनः॥ 3-60॥ बिभर्ति भूमेर्वलयं भुजेन ते भुजढद्धठ्ठड़14;गमोऽमा स्मरतो मदञ्चितम्। श्रृणूक्तमेकं स्वमवेत्य भूधरं भुजङ्गमो मा स्म रतो मदं चितम्॥ 3-61॥ स्मरानलो मानविवर्धितो यः स निर्वृतिं ते किमपाकरोति। समन्ततस्तामरसेक्षणो न समं ततस्तामरसे क्षणेन॥ 3-62॥ प्रभावतो नामन वासवस्य प्रभावतोऽनाम नवासवस्य। प्रभावतो नाम न वा सवस्य विच्छित्तिरासीत् त्वयि पिष्टपस्य॥ 3-63॥ परं पराया बलवा रणानां धूलीः स्थलीव्र्योम विधाय रुन्धन्। परंपराया बलवारणानाम् परं पराया बलवारणानाम्॥ 3-64॥ न श्रद्धधे वाचमज्ज!मिथ्या- भवद्धिधानामसमाहितानाम्। भवद्धिधानामसमाहितानां भवद्धिधानामसमाहितानाम्॥ 3-65॥ सन्नाहितोमानमराजसेन सन्नाहितोमानमराजसेन। सन्ना हितोमानमराजसेन सन्नाहितो मानम रोजसे न॥ 3-66॥ सकृद् द्विस्त्रिश्च योऽभ्यासः पादस्यैवं प्रदर्सितः। श्लोकद्वयं तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा॥ 3-67॥ विनायकेन भवता वृत्तोपचितबाहुना। स्वमित्रोद्धारिणाभीता पृथ्वीयमतुलाश्रिता॥ 3-68॥ विनायकेम भवता वृत्तोपचितबाहुना। स्वमित्रोद्धारिणाभीता पृथ्वी यमतुलाश्रिता॥ 3-69॥ एकाकारं चतुष्पादं तन्महायमकाढद्धठ्ठड़14;वयम्। तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया॥ 3-70॥ समानयासमानया समानया स मानया। समानयासमान या समानयासमानया॥ 3-71॥ धराधराकारधरा धराभुजां भुजामहीं पातुमहीनविक्रमाः। क्रमात् सहन्ते सहसा हतारयो रस्योद्ध्रा मानधुरावलम्बिनः॥ 3-72॥ आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा। यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम्॥ 3-73॥ यामताश कृतायासा सा यता कृशता मया। रमणारकतात तेस्तु स्तुतेताकरणामर॥ 3-74॥ नादिनोऽमदनाधीः स्वा नमे काचन कामिता। तामिका न च कामने स्वाधीना दमनोदिना॥ 3-75॥ यानमानयमाराविकशोनानजनासना। यामुदारशताधीनामायामायमनादि सा॥ 3-76॥ सा दिनामयमायामा नाधीता शरदामिया। नासनाजनना सोकविरामाय न मानया॥ 3-77॥ वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः। गोमूबिकेति तत् प्राहुर्दुष्करं तद्विदो यथा॥ 3-78॥ मदनो मदिराक्षीणामपाङ्गास्त्रो जयेदयम्। मदेनो यदि तत् क्षीणमनङ्गायाञ्जलिं ददे॥ 3-79॥ आहुरर्धभ्रमं नाम श्लोकार्धभ्रमणं यदि। तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वतः॥ 3-80॥ मनोभव तवानीकं नोदयाय न मानिनी। भयादमेयामा मा वा वयमेनोमया नत॥ 3-81॥ सामायामा माया मासा मारानायायाना रामा। यानावारारावानाया मायारामा मारायामा॥ 3-82॥ यः स्वरस्थानवर्णानां नियमो दुष्करोष्वसौ। इष्टश्चतुः प्रभृत्येषु दश्र्यते सुकरः परः॥ 3-83॥ आम्नायानामाहान्त्या वाग् गीतीरीरीः प्रीतार्भीतीः। भोगो रोगो मोदो मोहो धे ये चेच्छे देशे क्षेमे॥ 3-84॥ क्षितिविजितिस्थितिविहिति- वर्तरतयः परगतयः। उरु रुरुधुर्गुरु दुधुवु- र्युधि कुरवः स्वमरिकुलम्॥ 3-85॥ श्रीदीप्ती ह्रीकीर्ती गीःप्रीती। एधेते द्वे द्वे ते ये नेमे देवेशे॥ 3-86॥ सामायामा माया मासा मारानायायाना रामा। यानावारारावानाया मायारामामारायामा॥ 3-87॥ नयनानन्दजनने नक्षत्रगणशालिनि। अघने गगने दृष्टिरङ्गने!दीयतां सकृत्॥ 3-88॥ अलिनीलालकलतं कं न हन्ति घनस्तनि। आननं नलिलच्छायनयनं शशिकान्ति ते॥ 3-89॥ अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना। सदानघ सदानन्द नताङ्गासङ्गसङ्गत॥ 3-90॥ अगागाङ्गाङ्गकाकाकगाहकाघककाकहा। अहाहाङ्गखगाङ्कागखगकाककः॥ 3-91॥ रे रे रोरुरुरोरुगागोगोऽगाङ्गगोऽगगुः। किं केकाकाकुकः काको मामा गामा ममामम॥ 3-92॥ देवानां नन्दनो देवो नोदनो वेदनिन्दिनः। दिवं दुदाव नादेन दाने दानवनन्दिनः॥ 3-93॥ सुरिः सुरासुरासारिसारः सारसिसारसाः। ससार सरसीः सीरी ससूरूः स सुरारसी॥ 3-94॥ नूनं नुन्ननि नानेन नाननेनाननानि नः। नानेना ननु नानूनेनैनेनानानिनो निनीः॥ 3-95॥ प्रहेलिकीप्रकाराणां पुनरुद्दिश्यते गतिः॥ 3-96॥ क्रीडड्डत्ध्;ागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे। परव्यामोहने चापि सोपयोगाः प्रहेलिकाः॥ 3-97॥ आहुः समागतां नाम गूढार्थां पदसन्धिना। वञ्चितान्यत्र रूढेन यत्र शब्देन वञ्चना॥ 3-98॥ व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी। सा स्यात् प्रमुषिता यस्यां दुर्बोधर्था पदावली॥ 3-99॥ समानरूप गौणर्थारोपितैग्र्रथिता पदैः। परुषा लक्षणास्तित्वमात्रव्युत्पादितश्रुतिः॥ 3-100॥ संख्याता नाम संख्यानं यत्र व्यामोहकारणम्। अन्यथा भसते यत्र वाक्यार्थः सा प्रकल्पिता॥ 3-101॥ सा नामान्तरिता यस्या नाम्नि नानार्थकल्पना। निभृता निभृतान्यार्था तुल्यधर्मस्पृशा गिरा॥ 3-102॥ समानशब्देपन्यस्तसब्दपर्यायसाधिता। संमूढां नाम या साक्षान्निर्दिष्टार्थपि मूढये॥ 3-103॥ योगमालात्मकं नाम यस्याः सा पारिहारिकी। एकच्छन्नाश्रितं व्यज्य यस्यामाश्रयगोपनम्॥ 3-104॥ सा भवेदुभयच्छन्ना यस्यामुभयगोपनम्। संकीर्णा नाम सा यस्यां नानालक्षणसंकरः॥ 3-105॥ एताः षोडड्डत्ध्;श निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः। दुष्टप्रहेलिकाश्चान्यास्तैरधीताश्चतुर्दश॥ 3-106॥ दोषानपरिसंख्येयान् मन्यमाना वयं पुनः। साध्वीरेवाभिधास्यामस्ता दुष्टा यास्त्वलक्षणाः॥ 3-107॥ न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि। अस्थानरुदितैरेतैरलमालोहितेक्षणे॥ 3-108॥ कुब्जामासेवमानस्य यथा ते वर्धते रतिः। नैवं निर्विशतो नारीरमरस्त्रीविडड्डत्ध्;म्बिनीः॥ 3-109॥ दण्डेड्डत्ध्; चुम्बति पद्मिन्या हंसः कर्कशकण्टके। मुखं वल्गुरवं कुर्वंस्तुण्डेड्डत्ध्;नाङ्गानि घदृयन्॥ 3-110॥ खातयः कनि काले ते स्फातयः स्फीतवल्गवः। चन्द्रे साक्षाद्भवन्त्यत्र वायवो मम चारिणः॥ 3-111॥ अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा। पल्लवे पल्लवे चाद्र्रा यस्याः कुसुममञ्जरी॥ 3-112॥ सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा। मज्जन्त इव मत्तास्ते सौर सरसि संप्रति॥ 3-113॥ नासिक्यमध्या परितश्चातुर्वण्यविभूषिता। अस्ति काचित् पुरी यस्यामष्टवर्माढद्धठ्ठड़14;वया नृपाः॥ 3-114॥ गिरा स्खलन्त्य नम्रेण शिरसा दीनया दृशा। तिष्ठन्तमपि सोत्कम्पं वृद्धे!मां नानुकम्पसे॥ 3-115॥ आदौ राजेत्यधीराक्षि! पार्थिवः कोऽपि गीयते। सनातनस्च नैवासौ राजा नैव सनातनः॥ 3-116॥ हृतद्रव्यं जनं त्यक्त्वा धनवन्तं व्रजन्ति काः। नानाभङ्गिशताकृष्टलोका वेश्या न दुर्धराः॥ 3-117॥ जितप्रकृष्टकेसाख्यो यस्तवाभूमिसाढद्धठ्ठड़14;वयः। असौ मामुत्कमधिकं करोति कलभाषिणि॥ 3-118॥ शयनीये परावृत्य शयितौ कामिनौ रुषा। तथैव शयितौ रागात् स्वैरं मुखमचुम्बताम्॥ 3-119॥ विजितान्नभवद्वेषिगुरुपादहतो जन-। हिमापहामित्रधरैव्र्याप्तं व्योमाभिनन्दति॥ 3-120॥ न स्पृशत्यायुधं जातु न स्त्रीणां स्तनमण्डड्डत्ध्;लम्। अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः॥ 3-121॥ केन कः सह सम्भूय सर्वकार्येषु सन्निधिम्। लब्ध्वा भोजनकाले तु यदि दृष्टे निरस्यते॥ 3-122॥ सया सगजा सेना सभटेयं न चेज्जिता। अमातृकोऽयं मूढः स्यादक्षरज्ञस्तु नः सुतः॥ 3-123॥ सा नामान्तरितामिश्रवञ्चितारूपयोगिनी। एवमेवेतरासामप्युन्नेयः संकरक्रमः॥ 3-124॥ अपार्थ व्यर्थंमेकार्थं ससंशयमपक्रमम्। शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम्॥ 3-125॥ देशकालकलालोकन्यायागमविरोधि च। इति दोषा दशैवैते वज्र्याः काव्येषु सूरिभिः॥ 3-126॥ प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ। विचारः कर्कशप्रायस्तेनालीढने किं फलम्॥ 3-127॥ समुदायार्थशून्यं यत् तदपार्थमितीष्यते। तन्मत्तोन्मत्तबालानामुक्तेरन्यत्र दष्यति॥ 3-128॥ समुद्रः पीयते देवैरहमस्मि जरातुरः। अमी गर्जन्ति जीमूता हरेरैरावणः प्रियः॥ 3-129॥ इदमस्वस्थचित्तानामाबिधानमनिन्दितम्। इतरत्र कविः को वा प्रयुञ्जीतैवमादिकम्॥ 3-130॥ एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम्। विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते॥ 3-131॥ जहि शत्रुकुलं कृस्त्नं जय विश्वम्भरामिमाम्। न हि ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः॥ 3-132॥ अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः। यस्यां भवेदभिमता विरुद्धार्थपि भारती॥ 3-133॥ परदाराभिलाषो मे कथमार्यंस्य युज्यते। पिबामि तरलं कदा नु दशनच्छदम्॥ 3-134॥ अविशेषेंण पूर्वोक्तं यदि भूयोऽपि कीत्र्ये। अर्थतऋः शब्दतो वापि तदेकार्थं मतं यथा॥ 3-135॥ उत्कामुन्मनयन्त्यते बालां तदलकत्विषः। अम्भोधरास्तडिड्डत्ध्;त्वन्तो गम्भीराः स्तनयित्नवः॥ 3-136॥ अनुकम्पाद्यत्शयो यदि कश्चिद् विवक्ष्यते। न दोषः पुनरुक्तोऽपि प्रत्युतेयमलंकृतिः॥ 3-137॥ हन्यते सा वरारोहा स्मरेणाकाण्डड्डत्ध्;वैरिणा। हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी॥ 3-138॥ निर्णयार्थं प्रयुक्तानि संसयं जनयन्ति चेत्। वचांसि दोष एवासौ ससंशय इति स्मृतः॥ 3-139॥ मनोरथप्रियालोकरसलोलेक्षणे सखि। आराद्वृत्तिरसौ माता न क्षमा द्रष्टुमीदृशम्॥ 3-140॥ ईदृशं संशयायैव यदि जातु प्रयज्यते। स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा॥ 3-141॥ पश्याम्यनढद्धठ्ठड़14;गजातङ्कलङ्घितां तामनिन्दिताम्। कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया॥ 3-142॥ कामार्ता घर्मतप्ता वेत्यनिश्चयकरं वचः। युवानमाकुलीकर्तुमिति दूत्याह नर्मणा॥ 3-143॥ उद्देशानुगुणोऽर्थानामनुदेशो न चेत् कृतः। अपक्रमाभिधानं तं दोषमाचक्षते बुधाः॥ 3-144॥ स्थितिनिर्माणसंहारहेतवो जगतामजाः। शम्भुनारायणाम्भोजयोनयः पालयन्तु वः॥ 3-145॥ यत्नः सम्बन्धविज्ञानहेतुः कोऽपि कृतो यदि। क्रमलङ्घनमप्याहुर्न दोषं सूरयो यथा॥ 3-146॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति त्रिषु। आद्यन्तावायतक्लेशौ मध्यमः क्षणिकज्वरः॥ 3-147॥ शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धति। पदप्रयोगोऽशिष्टेष्टः शष्टेष्टस्तु न दुष्यति॥ 3-1148॥ अवते भवते बाहुर्महीमर्णवशक्वरीम्। महाराजन्नजिज्ञासौ नास्तीत्यासां गिरां रसः॥ 3-149॥ दक्षिणाद्रेरुपसरन् मारुतश्चूतपादपान्। कुरुते ललिताधूतप्रवालाङ्कुरसोभिनः॥ 3-150॥ इत्यादिशास्त्रमाहात्म्यद्रसनालसचेतसाम्। अपभाषणवद् भाति न च सौभाग्यमुज्झति॥ 3-151॥ श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः। तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यता॥ 3-152॥ स्त्रीणां सङ्गी।तविधिमयमा।दित्यवंशयो नरेन्द्रः पस्यत्यक्लि।ष्टरसमिह शि।ष्टैरमेत्यादि दुष्टम्। कार्याकार्या।ण्ययमविकला।न्यागमेनैव पश्यन्। वश्यामुर्वी।वहति नृप इ।त्यस्ति चैवं प्रयोगः॥ 3-153॥ लुप्ते पदान्ते शिष्टस्य पदत्वं निश्चितं यता। तता सन्धिविकारान्तं पदमेवेति वण्र्यते॥ 3-154॥ तथापि कटु कर्णानां कवयो न प्रयुज्यते। ध्वजिनी तस्य राज्ञः के तूदस्तजलदेत्यदः॥ 3-155॥ वर्णानां न्यूनताधिक्ये गुरुलघ्वयथास्थितिः। यत्र तङ्क्तिन्नवृत्तं स्यादेष दोषः सुनिन्दितः॥ 3-156॥ इन्दुपादाः।शिशिरा स्पृशन्तीत्यूनवर्णता। सहकारस्य किस।ल।यान्याद्र्राणीत्यधिकाक्षरम्॥ 3-157॥ ।का।मेन बाणा निशिता विमुक्ता मृगेक्षणाष्वित्ययथागुरुत्वम्। म।द।नबाणा निशिताः पततन्ति वामेक्षणास्वित्ययथालघुत्वमे॥ 3-158॥ न संहितां विवक्षामीत्यसन्धानं पदेषु यत्। तद्विसन्धीति निर्दिष्टं न प्रगृह्यादिहेतुकम्॥ 3-159॥ मन्दान्लेन चरता।अङ्गनागण्डड्डत्ध्;मण्डड्डत्ध्;ले। लुप्तमुद्भेदि घर्माम्बो नभस्यस्मन्मनस्यपि॥ 3-160॥ आसु रात्रिष्विति प्राज्ञैरज्ञातन्यङ्गमीदृशम्॥ 3-161॥ देशोऽद्रिवनराष्ट्रादिः कालो रातिं्रदिवर्तवः। नृत्यगीतप्रभृतयः कलाः कामार्थसंश्रयाः॥ 3-162॥ चराचराणां भूतानां प्रवृत्तिर्लोकसंज्ञिता। हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः॥ 3-163॥ तेषु तेष्वयथारूढं यदि किञ्चित् प्रवर्तते। कवेः प्रमादाद् देशादिविरोधोत्येतदुच्यते॥ 3-164॥ कर्पूरपादपामर्शसुरभिर्मलयानिलः। कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः॥ 3-165॥ चोलाः कालागरुश्यामाः कावेरीतीरभूमयः। इति देशविरोधिन्या वाचः प्रस्थानमीदृशम्॥ 3-166॥ मधुरत्फुल्लनिचुलो निदाघो मेघदुर्दिनः॥ 3-167॥ श्रव्यहंसगिरो वर्षाः शरदामत्तबर्हिणी। हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः॥ 3-168॥ इति कालविरोधस्य दर्शिता गतिरीदृशी। मार्गः कलाविरोधस्य मनागुद्दिश्यते यता॥ 3-169॥ वीरश्रृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ। पूर्णसप्तस्वरः सोऽयं भिन्नमार्गः प्रवर्तते॥ 3-170॥ इत्थं कलाचतुःषष्टौ विरोधः साधु नीयताम्। तस्याः कलापरिच्छेदे रूपसाविर्भविष्यति॥ 3-171॥ आधूतकेशरो हस्ती तीक्ष्णश्रृङ्गस्तुरङ्गमः। गुरुसारोऽयमेरण्डड्डत्ध्;ो निःसारः खदिरद्रुमः॥ 3-172॥ विरोधो हेतुविद्यासु न्यायाख्यासु निदश्र्यते॥ 3-173॥ सत्यमेवाह सुगतः संस्कारानविनश्वरान्। तथा हि सा चकोराक्षी स्थितैवाद्यापि मे हृदि॥ 3-174॥ कापिलैरदुद्भूतिः स्थान एवोपवण्र्यते। असतामेव दृश्यन्ते यस्मादस्माभिरुद्भावः॥ 3-175॥ गतिन्र्यायविरोधस्य सैषा सर्वत्र दृश्यताम्। अथागमविरोधस्य प्रस्थानं दर्शयिष्यते॥ 3-176॥ अनाहिताग्नयोऽप्येते जातपुत्रा वितन्वते। विप्रा वैश्वानरीमिष्टिमक्लिष्टाचारभूषणाः॥ 3-177॥ असावनुपनीतोऽपि वेदानधिजगे गुरोः। सेवभावशुद्धः स्फटिको न संस्कारमपेक्षते॥ 3-178॥ विरोधः सकलोऽप्येष कदाचित् कविकौशलात्। उत्क्रम्य दोषगणनां गुणवीथीं विगाहते॥ 3-179॥ तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे। आद्र्रांशुकप्रवालानामास्पदं सुरशाखिनाम्॥ 3-180॥ राज्ञां विनाशपिशुनश्चचार खरमारुतः। धुन्वन् कदम्बरजसा सह सप्तच्छदोद्गमान्॥ 3-181॥ दोलातिप्रेरणत्रस्तवधूजनमुखोद्गतम्। कामिनां लयवैषम्याद् गेयं रागमवर्धयत्॥ 3-182॥ ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम्। अबलाविरहक्लेसविक्लवो गणयत्ययम्॥ 3-183॥ प्रेमेयोऽप्यप्रमेयोऽसि सकलोऽप्यसि निष्कलः। एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये॥ 3-184॥ पञ्चानां पाण्डुड्डत्ध्;पुत्राणां पत्नी पञ्चालकन्यका। सतीनामग्रणीश्चासीद् दैवो हि विधिरीदृशः॥ 3-185॥ शब्दार्तालंक्रियाश्चित्रमार्गाः सुकरदुष्कराः। गुणा दोषाश्च काव्यानामिति संक्षिप्य दर्शिताः॥ 3-186॥ व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेंण दोषगुणयोर्वशवर्तिनीभिः। वाग्भिः कृताभिसरणो मदिरेक्षणाभि- र्धन्या युवेव रमते लभते च कीर्तिम्॥ 3-187॥