काव्यभूषणशतकम्

विकिस्रोतः तः
काव्यभूषणशतकम्
श्रीकृष्णवल्लभः
१९३०

काव्यभूषणशतकम् । भदृश्रीकृष्णबल्लभकविप्रणीत काव्यभूषणशतकम् ।

हेरम्बस्य कपोलसीम्नि मलिनां मालामलीनां घना-
मालोक्य प्रतिबिम्बितां हरशिरोगङ्गातरङ्गोपरि ।
न्यस्तानेन कलिन्दजापि शिरसीतीर्ष्याकुलाया मरू-
दुल्गल्कोकनदच्छदच्छविभृतो देव्या दृशः पान्तु वः ॥ १॥
श्रीकृष्णे सत्यभामाकुचकलशभुवि स्फीतमातङ्गकुम्भो-
तुङ्गायां पारिजातस्रजमुपनयति प्रेमभाजा करेण ।
तस्मिञ्जम्भाभियातिद्विरदकरधिया विस्मृतेर्ष्यारसाया
रुक्मिण्याः क्लान्तभङ्गावलिललितरुचः पान्तु दृग्भङ्गयो वः ॥२॥
नालीकस्य प्रणाली कलयति नयनं निन्हुते चान्द्रमस्याः
शोभायाः सान्द्रमस्या वदनमपि मदं गोधिरर्धेन्दुरोधी ।
संबिभ्राते ध्रुवावप्यसमशरधनुर्बिभ्रमं भासि भव्या
सौमेरव्याः स्तनश्रीनवजलदलतापेशलः केशपाशः ॥ ३ ॥
तत्पाणिप्रतिषिध्यमानरभसाक्षेपस्खलन्मत्कर-
व्यापारप्रथमानकङ्कणझणत्काराभिरामोदयः ।
आविर्भावलवोल्लसत्कुचरुचिप्रस्तारविस्तारित-
प्रस्तावव्यतिरेकविधुदुदयो लभ्येत सभ्यः क्षणः ॥ ४ ॥
श्रीखण्डान्वयभाजि वाति मरुति प्रत्यङ्गनाभिः समं
पश्यन्तीषु सखीषु दैववशतो नेदीयसि प्रेयसि ।
उद्ग्राहोर्ग्रहणेच्छया सुमनसां वामभ्रुवः संभ्रमा-
द्वक्षोजावरणस्य यत्प्रकरणं तत्किं गिरां गोचरः ॥ ५॥
पर्यञ्चत्केशपाशं चलदलकलतं मन्दविस्पन्दतारं
स्वेदाम्भोबिन्दुजालस्तबकितपुलकोच्छासिताम्यत्कपोलम् ।


१, इन्द्रहस्ती. २. ललाटम्. ४१० गु० काव्यमाला।

श्वासावेगानुवारोच्छ्वसितकुचतटव्यस्तहस्तं जिघृक्षा-
भूमीभूतोत्तरीयं वरयुवतिवपुर्धन्यमात्रानुभाव्यम् ॥ ६ ॥
नाभौ स्थितिस्पृशि महासरसीसनाभौ
मुक्तावलावपि सुपर्वतरङ्गवत्याम् ।
लावण्यसारजलधौ कलधौतगात्रि
चक्षुस्तृषां मम मृषा न कृशां करोषि ॥ ७ ॥
दृग्भङ्गे श्रवणेन साकमरुणे योगं समासेदुषि
प्रत्यापृष्टदरस्फुटत्पुटकिनीपत्रान्तरालेऽनिले।
यो वेणीमवगाहते वरतनोः सर्वात्मना श्रेयसां
तस्य व्याहरणे बिलेशेयपतिः किं लेशतोऽपि क्षमः ॥ ८॥
मधौ सन्माधुर्थे तरुणि विपिने फुल्लतरुणि
प्रसूनैः सामोदे मरुति रुतिमातन्वति पिके ।
प्रशस्ते प्रस्तावे रतिरमणबाणवणगण-
प्रणेये प्राणेशे नमति परुषा मा भव रुषा ॥ ९॥
तादात्म्यानुभवात्स्तनस्तबकयोः सौहित्यमप्रामुव-
न्मुक्तादामनि मेरुरेष सरसं ग्रीवां समालिङ्गति ।
रत्यावेशविवर्तविभ्रमवशाहक्षोजमालिङ्गति
व्यक्तं नायकसंगतादवयवादन्यत्र संयुज्यते ॥ १०॥
वालामुक्ताकलापग्रथनगुणशिखोपाप्रयुग्मस्य योग-
ग्रन्थौ गारुत्मतोऽयं मणिररुणगुणोदग्रगुच्छश्चकास्ति ।
धम्मिल्लव्यालहालाहलगरलसमास्वादनाखादितेन
प्रादुर्भूतेन तापज्वलदनलशिखाजाल केनेव युक्तः ॥ ११ ॥
तव श्रवणभूषणं कुवलयं विहाय क्षणा-
दतिश्चसितसौरभं व्यवसितः समासादितुम् ।
प्रमोदभरमन्थरः प्रियतमाघरद्वारक-
त्वदीयनयनाञ्जनच्छलमलिः समालम्बते ।। १२ ।।

२. शेषनागः. १. गहायाम. काव्यभूषणशतकम् । 3

ज्योत्स्नीं कुन्तलभारबन्धघटनामुक्ताफलस्रक्छला-
च्छयामां न्यस्य विभावरीं च कबरीभारापदेशात्त्वयि ।
सर्वस्वेऽपहृते सुपर्वभिरयं क्षीणः कलानां निधि-
स्त्वद्वक्त्रद्युतिसंचयादवयवं गृह्णाति संपूर्तये ॥ १३ ॥
राजीवस्य विधीयते रुचिभरैराजीवनं शोचत-
स्ताराजीवितवल्लभस्य महसां राजी पराजीयते ।
मालिन्याकृतिसंविदर्पणविधावानीयते दर्पणः
कंदर्पः क्रियते त्रिलोकविजये दर्पस्पूगास्येन ते॥ १४ ॥
पुष्पेषोर्धनुषि ध्रुवोर्द्वयमसामञ्जस्यमासञ्जय-
त्यङ्गीकारयति प्रथां च वितथा भङ्गिदृशोराशुगाम् ।
वेणी सुन्दरि चञ्चरीकमद्संकोचं चरीकर्त्यसा
वालापः पिकपञ्चमस्स नयते लोपं चमत्कारिताम् ॥ १५ ॥
कामोत्तप्तं मरकतमहाग्रावहारो गभीरे
मग्नं नाभीसरसि हृदयं जग्रसेऽनेकपं मे ।
लीलावेशप्रचलितकरः कोऽप्यहीनारिकेतु-
स्तद्भङ्गेन प्रतिनिधिमिहैवानुरूपं व्यतानीत् ॥ १६ ॥
पादाङ्गुष्ठशिखैकसंश्रितधरं प्रत्युल्लसद्वेपथु
ग्रीवाग्रोन्नमनप्रयत्नवहलक्षामायमाणत्रिकम् ।
दोरुत्क्षेपणजायमानवलयवाणं कुरङ्गीदृशो
माकन्दाग्रिममञ्जरीग्रहदशासंस्थानमत्यद्भुतम् ॥ १७ ॥
प्रत्यग्राभासि भाखरसुभगमुभयतो लग्नलम्बालकामं
बालामालान्तराले विलसति तिलकं नागरे नागरेणोः (१) ।
स्वर्भानोः केशभारात्कवलितगलितं मण्डलं चण्डरश्मे-
र्भूयस्तत्रैव संवेशयितुमभिमतं सूत्रयन्त्रानुषङ्गात् ॥ १८ ॥
कपोलव्यालोलश्रवणनवमाकन्दकलिका-
मरन्दव्यामिश्रास्तव वरतनु खेदपृषतः ।

38

काव्यमाला।

रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवे-
द्भेदोपक्रान्तकणितरशनादाम जघनम् ॥ १९ ॥
प्रभायामध्वर्यो रतिदयित आवाति पवने
गृहीत्वा होतारं भ्रमरकलमुद्गातरि पिके ।
सति प्राणाभीष्टे सुरुचिरतदीक्षे वलयज-
प्रणादः पुण्याहध्वनिमिव तरुण्या विहितवान् ॥२०॥
अङ्ग रङ्गस्थलं ते कुवलयनयने मन्मथः सूत्रधारो
ह्रीभारः स्थापकोऽयं तरलितवलयकाणभङ्गिश्च नान्दी ।
द्रष्टा केलिप्रदीपस्तरुणिमललितं नाटनीयं बसन्तः
सध्या व्यस्यन्नुरोजावरणजवनिकां नायकोऽयं प्रविष्टः ।। २१॥
केलीभिः कलहायमानवल्यं सारावहारावलि
प्रेकच्छृङ्खलमेखलाकलकलं शिञ्जानमञ्जीरकम् ।
व्यालोलालकमव्यलीकपुलकं खेदाम्भसा जालकै-
रामीलतिलक कलेवरमलंकारायते केवलम् ॥ २२ ।।
निश्वासानिलसंगमाविलचलनासाग्रमुक्ताफलं
लीलाविच्छुरणक्रमप्रचुरतापन्नकणन्नूपुरम् ।
मुक्तादामलतानिकामजनितप्रक्षोभवक्षोरुहं
बालेऽहं किल ते विलक्षणमिलत्कौतूहलं केलिभिः ॥ २३ ॥
स्तने वृहतिकारणद्धृहतिकाञ्चलेनावृते
भृशं मम दृशि स्पृहास्पृशि वरोरु जाता रुजा।
विलेखविषयीभवद्विचकिले तु मन्दानिले
समुत्थितमुदारया बत मुदा रयापन्नया ॥ २४ ॥
दलानां विश्लेषं कुवलयकुलानामनुवनं
सृजन्तः कोकानां ध्रुवमवयवानां रतिसुवः ।
नभस्वन्तोऽत्यन्तं निधुवनपरिक्लान्तयुवती-
जनस्वेदोद्भेदोपहतिषु वहन्ति प्रतिभुवः ॥ २५॥

काव्यभूषणशतकम् ।

हेलाविध्वस्तमध्वाकुलबकुलकुलाश्चम्पकोत्कम्पकोष-
प्रत्यामर्शाप्ततर्षाः परिमिलितदलन्मल्लिकावल्लिकायाः।
कुन्दावस्कन्दमन्दा बहुविहितपरिस्यन्दमाकन्दवृन्दाः
खेदाम्भोबिन्दुसान्द्रं तव नवपवना देहमालादयन्तु ॥ २६ ॥
भुजो बिसचये नवे किसलये च बिम्बाधरो
वरोरु हसितं विधो रुचि सरोरुहे लोचनम् ।
भ्रुवौ मदनकार्मुके रजनिकामुके ते मुखं
दिशन्ति कुसुमे घृणामवयवाः सुमेरौ कुचौ ॥ २७ ॥
माकन्दप्रसवोल्लसत्परिमलग्रस्यन्दिमन्दानिल
व्यस्तैकाञ्चलयापि कञ्चलिकया विस्र स्तसंदानितौ ।
त्वद्वक्षोरुहजातरूपकलशौ रम्भोरु संभावितौ
साकल्येन विलोकनादपि चमत्कारं दधाते दृशोः ॥ २८ ॥
बिभ्राणे विभ्रमेणोद्वलितललिततामञ्जनासञ्जनेन
व्यञ्जाने खञ्जनादप्यधिकमधुरता कञ्जवन्मञ्जुभूते ।
मय्युत्खेदे निदापात्प्रतियुबतिरतिनान्तिभाराद्धजन्त्या
भुग्नीभावं ध्रुवा ते वरतनु नयने कौतुकं मे सुवाते ॥ २९ ॥
गञ्चलवशंवदः कमल (१) शम्बरद्वेषिणो
गुणत्वपदशालिनः पुनरिहोभयत्रालिनः ।
कचैरसुवचैः समं तव तुलार्थिनो वातुला-
श्चिरेण मदिरेक्षणे जगदिरे द्विरेफा इति ॥ ३० ॥
त्वदोष्ठे वर्तिष्णावरुणिमनि मैत्रावरुणिना-
प्यवाच्या बिम्बाभा तरुणिममहस्युत्तरुणिते ।
गिरा जीवस्यापि प्रचरति पराजीवनकृता
तुला सम्राजीव क्व तव दृशि राजीवसमता ॥ ३१ ॥
धारावाहिकबाह्यनिर्गतरसं दृग्युग्ममभ्यन्तरा-
वच्छिन्नाग्निशिखान्वयं च हृदयं दूरं भवत्यागते ।

काव्यमाला।

किं वा पल्लवयामि वाचमधुना वामभ्रुवो जीवित-
श्वासाभ्यामपि कण्ठहृद्गततया स्थानं विपर्यासितम् ।। ३२ ।।
अगुच्छरुचिरौ कुचौ पदमसत्तुलाकोटिकं
विभाति जघनस्थलं न रशनाध्वनेर्गोचरः ।
निरूपणपथातिगं निरूपमत्वमाजानिकं
भवद्विरहतो भवत्यवयवेषु तस्याः स्फुटम् ॥ ३३ ।।
कोऽहं त्वत्पक्षपातं भृगुभुवि रचयन्यासि यत्पक्षपातं
स्वं कोऽताप्सीत्कृशानूनभि यदमिलनात्वं कृशा नूनमेवम् ।
का स्नातो राजसूयावसृथजलभरैः साभ्यसूयासि यस्मि-
न्केनाराद्धः कपाली तव समधिगता तन्वि येनाङ्कपाली ॥ ३४ ॥
को वा भीष्मंसुवं व्यगाढ हृदयं यद्भव्यगाढक्रम
पादाको नु धरां चलं सुतनु ते नेत्राञ्चलं यं प्रति ।
कः लातोऽमरकण्टकाम्भसि यदाशिश्लिक्षया कण्टकाः
केनाराधि स राधिकापतिरसि स्मेराधिकारे यतः ॥ ३५ ॥
मुखं तावदाकाकुमुदसुहृदो दर्पदलनं
स्तनौ हेमनावद्युतिमदसमग्रावनतिदौ ।
परीक्षायामूरू करिकरचमूरूपजयिनौ
हशोर्भङ्गी दुग्धोदधिलहरिरुग्धोरणिनिधिः ।। ३६ ।।
कुचौ जम्भारातिद्विपकरटसंभाव्यसुषमौ
मतावूरू रम्भारुचिनिचयदम्भापहतया ।
प्रशस्तप्रारम्भाभ्यधिकसुभगंभावुकतया
मृगाक्षि त्वं रम्भावयवपरिरम्भादरहरी ॥ ३७॥
माणिक्याभरणं चकोर शिशुके कर्षत्यलातभ्रमा-
द्विम्बभ्रान्तिवशेन दन्तवसनं केलीशुके चुम्बति ।
आकारोऽयमभिन्नवत्तव दृशोनासाग्रविन्यस्तयो-
राचष्टे हृदयस्य बाह्यविषयव्यावृत्तिमात्यन्तिकीम् ॥ ३८॥


१. आलिङ्गनम्. २. गङ्गाम्. ३. नर्मदोद्गमस्थले शिवक्षेत्रविशेषः. काव्यभूषणशतकम् ।

कर्पूरायितसैकताय शिशिरक्षोदायमानातप-
व्यूहाय व्यजनानिलायितमहाझ्ज्झामरुद्रं हसे ।
अस्मै तन्वि निदाघवासरवयोमध्याभिसारक्रमो-
त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ॥ ३९ ॥
निंसाने सरसं कपोलफलकं बिम्बाधरं बाधय-
त्याश्लिष्यत्यपि संमति विमतिमप्याहत्य नैव व्यनक् ।
नीवीं जीवितवल्लभे शिथिलयत्युद्ग्रीविकां तन्वती
सद्रीची जनरूपणाय मृगदृक्प्रत्यग्रमन्वग्रहीत् ॥ ४०॥
रागस्तादृश एव दन्तवसने तादृक्स्तने स्थासको
धम्मिल्लोऽपि तथाविधो विसदृशं नो वा दृशोरञ्जनम् ।
किं त्वन्तः प्रचलायितं दरचलच्छोणाड्ड्य संवर्तिका-
कारं चक्षुरनक्ति वल्लभसमास्वादावतीर्णामिमाम् ॥ ४१ ॥
आदाय स्वयमेतदीयविषयं नासाग्रदेशं दृशौ
तन्मुक्ताफलकं कपोलफलके पर्यस्यदश्रुच्छलात् ।
सोऽप्येवं परिगृह्य पाणिशिखरं वामभ्रुवो विभ्रमा-
त्तन्मुद्रागतपद्मरागमनयोरेवोपरि न्यस्तवान् ॥ ४२ ॥
अत्याक्षीत्करमाशु कम्बुवलयो जातं विहस्तं मन-
स्तत्कामेन शरैः क्षतं नयनयोरासीत्पुनः सात्रता ।
ते स्वान्तर्गतमञ्जनं व्यजहतां काञ्ची बभूवाध्वनिः
सा प्रौज्झज्जघनं बभावजघनस्तापस्तु तस्यास्तनौ ॥ ४३ ॥
बक्षोजद्वयकुम्भसीम्नि करयोनोर्विसंवादिनो-
र्भग्ने दामनि पद्मरागगुलिका व्याकीर्यमाणा बभुः ।
आचार्यप्रवरेण नव्यवयसा सूत्रेण गर्भीकृता
नीता भाष्यकृतास्मरेण बहुतां हृद्भागभावा इव ॥ ४४ ॥
नवतरुणिमा सोद्रेकोष्मा महांस्तपवासरः
कचमयतनुर्धम्मिल्लोऽसावकालबलाहकः ।

काव्यमाला।

अभिमतमरुद्व्याधूतोऽयं विमुञ्चति मल्लिका-
मुकुलकरका दृष्टिद्रोणीदलप्रसरच्छिदः ॥ ४५ ॥
तावत्सारधधीप्रसारघटना तावन्मिलिक्षा बला-
दीक्षावस्तु (2) वितायतामथ सिताखादेऽपि तावद्ग्रहः ।
तावद्भातु सुधारसेऽपि बहुधा जन्मस्पृहां वीरुधां (१)
यावत्तावक एष बाधरहितं बिम्बाधरः पीयते ॥ ४६ ।।
अरुणदरुणः स्वस्यायोगं रसेन मधुद्विषा
स्थितमविरतं सक्तं यस्सिन्दधाति मनोभवः ।
अजनि जनभृच्छोभा मुक्ताफलेन सुधारुचा
वद दिविषदः कस्याकाङ्क्षास्पदं न रदच्छदः ॥ ४७ ॥
भृतायां सिन्दूरैस्तव तरुणि सीमन्तसरणा-
वियं वल्ली कापि स्फुरति नवमुक्ताफलमयी ।
निपीतार्का भीषावुदरभुवि धम्मिल्लतमसो
रुचीनां चान्द्रीणामुपरि पतयालुस्ततिरिव ॥ ४८॥
भवन्ति करका इमा यदि पयोधरौ तौ स्वयं
द्विपेन्द्रकरटौ यदि स्वयममूस्तदा मुक्तिकाः ।
मरन्दमयविप्रोषो यदि सरोजगुच्छावमू
वरोरु यदि भूधरौ तदुदबिन्दवो नैर्झराः ।। ४९ ॥
गात्राणामनुलेपनायवहितः खाभाविकः श्रीभरो
विन्यासेन विभूषणस्य विहतं साकल्यतो दर्शनम् ।
आमुक्तैरथ दामभिः सुमनसां तत्सौरमं मिश्रितं
प्रावारेण तनूरुचां प्रसरणं किंचिद्विपर्यासितम् ॥ ५० ॥
वदनं करतोययावरुद्धं नयनं च स्थितिमाप नासिकायाम् ।
न तनुर्विषयग्रहं व्यतानीदविमुक्तैकसरःस्थितस्तदात्मा ॥ ५१ ॥
तत्कालापहृतारुणांशुकतया जाताकुला पद्मिनी
व्यक्तिं प्राप तमिस्रमुल्लसिततां लेभे सुधादीधितिः ।


१, निपीतसूर्य किरणे. काव्यभूषणशतकम् । सद्योऽकम्पत कोकयोयुगमभूद्विस्फारभृत्तारको भेजे का कुमुदावली न हसितं........ रागस्यातिशयोऽन्तरुच्छ्वसितता म्लानिर्बहिर्मात्रभूः संभोगे सति वल्लभस्य युगपहिम्बाधरे त्वय्यपि । मानस्यातिशयोदये कठिनता वक्षोजयो रम्भया सादृश्यं पुनरूरुसीम्नि सरसीभावोऽभिनाभि स्थितः ॥ ५३ ।। भूमीभृत्सुतनुः स्तनस्तव वरारोहा त्वमुद्रीयसे मध्यं ते गगनं कलावति महामानं पुनस्ते मनः । रम्भारूपभृदूरुरिन्दुवदने सारालकेशोद्भव- प्रीतिर्मूर्धनि भाति साश्रमलिकं कान्ते नुतोयान्वयः (१) ॥ ५४॥ आभोगः स्तनयोर्महत्यतिमहान्मुक्तास्रजं भासुरो माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः । भालं खच्छविरोचनं बलिरसावप्यास्त एवोदरे रोम्णां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ॥ ५५ ॥ प्रतीतेयं नामीसरसि तव शैवाललतिका बलग्ने त्वाकाशे नवजलदलेखा विलसति । स्तने मेरौ जम्बूरसलहरिका रोमवितति- र्झरी कालिन्द्यास्तु स्फुरति मधुरायां त्वयि भृशम् ॥ ५६ ॥ स्तनः प्रभवितस्तया यदि वितस्तया रेवया मुखं विहितसेवयाप्यबहिरेव यात्यन्वयम् । तनौ भवति गोदया सह मिलत्तरङ्गोदया सदारुणसुतासुदारुणतया रुणद्धि ज्वरम् ॥ ५७ ।। अलिन्दे चेत्कालिन्द्यवसरयुता द्वारि सरयूः कपोलान्तर्गोलाप्युरसि सुरसिन्धुः स्फुरति चेत् । वितस्ता विन्यस्ता हृदि कुचभरे वा विनिहिता भवेद्रेवा जह्याद्रुजमियमसह्यामपि तदा ॥ ५८ ॥ काव्यमाला।

पूरो वैवस्वतस्य स्वसुरुरसिशयः सर्वदैव स्वतः स्या-
प्राप्तामोदा बरीवर्त्यपि च यदि तनूसीम्नि गोदावरी सा ।
संजज्ञे भीष्मसूर्यद्यवयवनिचये ग्रीष्मसूर्यप्रभास्त-
त्तापाः संतानवन्तस्तव परविरहो यात्यलं तानवं तत् ।। ५९ ॥
मिनत्ति जलनीलिका नवपिपीलिकापङ्क्ति-
द्विभाति हिमवालुकाप्यहिमवालकायोगवत् ।
करालति मृणालकं बहलजालहालाहलं
निशाकरकरावली वहति हा पिशाचीदशाम् ।। ६० ।।
अभिनववधूरीषन्मात्रं हृदाविवरीषया
परिशिश्लिक्षा यावत्यावारकं समुदीक्षते ।
सरभसतरं तावत्तिर्यङ्मवर्त्नयन्त्रण-
द्रुतविदलितग्रन्थौ कूपसके विजितं मया ॥ ६१ ॥
विदूरे शिश्निक्षा शयननिविविक्षा न तनुते
विहारस्यागाराज्जिगमिषति कान्तेऽपि मिषति ।
करस्पर्शेऽपीन्दोरिव मम निकोचं रचयति
प्रसूनाकाराणामियमवयवानां कमलिनी ।। ६२ ।।
संप्रेरिता कुसुमसायकवनवेन
बीडेन नूतनवधूर्विनिवर्त्यमाना ।
अन्योन्यसंमुखविसृत्वरतुल्यवेग-
वातद्वयान्तरगता नलिनीव भाति ॥ ६३ ॥
करयोः कलहायमानयोरुभयोरेव पयोधरोपरि ।
वलयावलयो बलाबलं बहुवेलं पतयालदो जगुः ॥ ६४ ॥
व्यापारप्रचयः पयोधरतिरोधानानुकूलो मृगी-
नेत्रायाः करयोयं (!) प्रियकरं रोद्धुं न पर्याप्तिमान् ।
इच्छां खस्य फलोपधानमवधीकृत्याप्यनाखादित-
स्वात्मानं गमयन्ब्रवीति मदनापेक्षां ह्रियो हीनताम् ॥६५॥

१. कर्पूरम्. काव्यभूषणशतकम् । आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभम् । आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुम् ॥ ६६ ॥ कुसुभविशिखपाजापत्यकतुर्युवतीजना- न्तरकरणभूनिनन्थेविमोचनकार्मणम् । नवरतिकलानाट्यप्रस्तावनाकुसुमाञ्जलिः कुमुदसुहृदो देवस्यासावुदेति रुचां चयः ॥ ६७ ॥ सर्वखं भुवनस्य विभ्रमततेरुज्जीवनं भावना- बल्लीनां प्रमदावनं निधुवनक्रीडासमालम्बनम् । आयुष्यं सवनं स्मरस्य ललितस्योद्भावनं कामिना- मेकं संवननं दृशां विजयते वामझुवो यौवनम् ॥ ६८ ॥ किमप्याविर्भूते वयसि परिचुम्बत्यवयवा- प्रियाया राजीवस्तबककमनीयं कुचयुगम् । उपन्यस्तः सज्जन्नुपरि परिकर्मप्रकरणे मुखावच्छेदेन स्पृशति सुकृती नायककरः ॥ ६९ ॥ आरव्वा किमु केतकीकिसलयैर्माला किमायामिनी- कर्पूरस्य परम्परा मलयजक्षोदस्य लेखाथवा । धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकहशोर्मझी कथं गीयते ॥ ७० ॥ ज्योत्स्लाभिः सप्यमानाः सुरभिरजनयः कोकिलानां कलापः केलीकोलाहलेनाकुलयति ककुभो जाग्रदेवास्त्यनङ्गः । इन्भङ्गानुग्रहाय स्पृह्यति दयितः काकुवश्या वयस्याः सध्रीचीने नवीने वयसि नयसि किं त्वं वृथा वासराणि ॥ ७१।। श्लथीभूतं नैव स्तनमयमिदं पद्ममुकुलं दशौ मुग्धे रोमावलितिमिरवीथी प्रसरति । काव्यमाला।

सविस्तारं ताराललितमवलग्नेऽतितनुता
मृगाक्षि त्वं श्यामा मनसिजनिदाघस्य घटसे ।। ७२ ॥
अयं जयति खञ्जनोपमदृशः समासञ्जय-
न्मृगीमदनिषद्वरः स्तनभुवोऽभितः श्यामताम् ।
स्फुरत्कनककुण्डलनममयादहंपूर्विका-
वशाधुगपदापतन्निव मधुब्रतानां ब्रजः ॥ ७३ ॥
सामस्त्येन विधीयमानघुसृणालेपे भवत्याः स्तने
तद्रूपेण चकास्ति चूचुकगतं रूपं पराभूतवत् ।
कस्तूरीभिरुपस्कृते तु सहसा विस्तारिणा तद्भुवा
रूपेणैव तदीयरूपमुदितव्यत्यासमाभासते ॥ ७४ ॥
संयोगे यत्र साध्ये सति बहुगणनं द्रव्यमेवास्ति पक्षो
बाहुकिं(?)प्रमाया घटितविषयतासाधनं कंचिदर्थम् ।
किं चासौजन्यरूपं गमयति सरसंवृत्त्यसामान्यधर्मः
सा व्याप्तिप्रक्रियेव श्रमयति हृदयं भूयसा वारसुभ्रूः ।। ७५ ।।
यन्नीहारकलङ्कितोत्पलदलावस्थानदुःस्से दशौ
श्वासो वेपथुमातनोति कुचयोरन्तनिरुद्धो बलात् ।
यत्स्तम्बेरममृद्यमाननलिनीतुल्या दशेयं तनो-
स्तकल्याणि किमीरयाणि हृदयं कान्तः समानान्तवान् ।। ७६ ॥
खाभोगेन मलीमसत्दमतुलं कृत्वा विहाय स्तनौ
विसस्तापघने रसत्यपि मनाक्श्रोत्रप्रियंभावुकम् ।
म्लानेथं रजसापि संस्कृतिमनापन्ना तनुस्तावकी
बाले नोज्झति बालवायजपल्लेखेव सोल्लासताम् ।। ७७ ।।
किमञ्जनशलाकया जितवलाकया मौक्तिक-
स्रजाप्यलमथानया रशनया फलं किं भवेत् ।
रुचां न पदमास्पदं किमु विना तुलाकोटिना
मधूनि मधुरान्तरैः (१) कथमुपक्रियेरन्प्रिये ।। ७८ ॥

२. कस्तूरीकर्दमः. ३. वैदूर्यशलाकेव. १. रात्रिः काव्यभूषणशतकम् । आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत्कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन्समासज्जताम् । नन्वेतत्कुरुनायकस्य हृदयं तस्मात्समाधीयतां संभूतस्तपसोऽत्र यो रतिरसो मापार्थतो हीयताम् ॥ ७९ ॥ एकेयं रसना न शब्दमभज जेऽनुवार परा नेत्रं किंचिदनूरुसङ्गमभवज्जातोरुसङ्गं परम् । रागः कश्चन निर्जगाम हृदयात्तस्थौ तथैवापरो बाह्ये सत्पुलकोऽन्तरे विपुलको जातोऽङ्कभूसंभ्रमः ।। ८० ॥ पश्यामि द्विजराजमश्रुतिमितं खर्भानुमास्थान्वितं चन्द्रं प्रत्यरुचिं चकोरमलिनैर्माणिक्यमुम्लानकम् । चन्द्रं हस्तगमालिराशिविहितामोदं सुमेरुं पुनः कौसुम्भावरणेन हीनमधुना किं स्यादिति त्रस्यते ।। ८१ ।। यत्तित्याजयिषांबभूव सहसा विन्ध्याचलो बन्धुना पद्मानां विहितं परिक्रमममुं तत्सत्यताशङ्कया। यत्रासीत्रपया मलीमसमुखो मेरुस्तिरश्चीनता तत्कालीनमवैमि तं तव कुचावामेचकचुकौ (!) ।। ८२ ॥ उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत्साहसम् । रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यके पदरोपणं पुनरपर्यन्ता विपर्यस्तता ॥ ८३ ॥ प्रिये तस्या नेदीयसि गुपरागोऽप्यसुकरो भुजाबीरुद्वन्धं नयति वलयादप्यतिनयम् । प्रसह्य प्रावारं हरति रुचिरप्यङ्गचिरो रहस्याविख्याता विलिखति न सख्यामपि पदम् ॥ ८४ ।। बन्धं त्यक्तवती विशेषकबरी श्यामा स्वयं न त्वियं हारात्प्रस्थिरनायको न तु ततोऽप्येषा विहारस्थितात् । ५५.गु० काव्यमाला। चित्रं प्रास्थत भाग्यवैभवभुवो भालान्न हृद्वल्लभा द्व्यत्यासं रतिराससाद सुदृशो बाबैब नाभ्यन्तरी ।। ८५ ॥ सद्वक्षोजा मनोजो वरतनुरतनुर्मीनदृङ्मीनकेतु- र्जन्मस्थानं रतीनां रतिपतिरसमा जिह्मगाः पञ्चबाणाः । रम्भोरू रम्भयोरुमधुरमधुमुवं विनती तद्वयस्यो वामाक्षि त्वं च कामोऽपि च कथय कथं सर्वदैवानुकूलौ ॥८६॥ नीतं प्रागितरेतराभिमततामुद्दिश्य कुञ्जस्थलं संप्राप्यावसरं चिरेण रजनावागच्छतोः कामिनोः । आशङ्काशतशालिनोविधिवशान्मध्येऽध्वनि श्लिष्यतो- र्जातोऽद्रुम एव शैलगमनोद्युक्तस्य मध्वागमः ॥ ८७ मध्येकञ्चलिकं कर प्रियतमे विन्यस्यति त्रस्यति ग्रन्थि तस्य विधित्सति श्लथमथ व्यायन्तुमायस्यति । वक्षो स्पृशतीवव्यवनम(१)त्युन्मुद्रति द्राग्दृशौ सुभ्रूर्मुद्रयति क्षतं वितरति व्यङ्गेऽभितः कण्टकान् ॥ ८८ ॥ अन्वञ्चद्विटपाय सज्जदसितप्रावारकोपान्तकं रोलम्रनिचुम्ब्धमानसिकतं कस्तूरिकासौरभात् । प्रश्यकौसुमदामशङ्खवलयच्छेदैरदो मिश्रितं श्रेयःपुञ्जविजृम्मितस्य गमकं यूनोनिकुञ्जस्थलम् ॥ ८९ ॥ आसन्ना नन्दिनी वा पतिरतिगृहभूरस्तु दैनंदिनी वा निर्वाहं मैहिकं वा परिहरतु महो मैहिकाभावनं वा। घूत्कारानम्वुकाकाः सहचरि परितस्तन्वतां जम्बुका वा साक्ष्ये मे पद्मिनी वा भवतु कुमुदिनी संभ्रमादगि नीतिम् ।। ९०॥ संरब्धं बहु भालयेन मरुता प्रोद्घाटितं पाटवं भूयः पाटलया कदम्बकुसुमैराडम्बरथुम्बितः । मध्येपद्मवनं मरालयुवभिर्नक्तं दिवं क्रन्दितं नैवं सत्यपि किं नृशंसहृदये योगं प्रति लेहवान् ।। ९१॥ १. 'अर्के चेन्मधु विन्देत किमर्थ पर्वतं व्रजेत्. २. मलयसंबन्धिना. काव्यभूषणशतकम्। ४५

कृत्वा शान्तनवावगाहरभसं प्राग्ज्योतिषे भावतो
दत्त्वा निग्रहमोजसां द्विजपतेराधाय हानिं गुरोः ।
अत्युद्दामपृषत्कवृष्टिनिवहैराधेय भूयो मदं
निर्मायापिहितं पयोदविजयो जेता न शल्यं कुतः ।। ९२ ।।
दैवात्सत्यपि विप्रिये तव समालोके न यामि प्रिये
तस्यामेव न लजसे तब कथं कामं तदा वर्तयन् ।
किं कुमो हतवेधसा त्वयि परा सीमा गुणानां परं
मत्सख्यामधिका न्यधीयत तया सार्धं विशेषज्ञता ॥ ९३ ॥
मलयजरजोजालास्फालाविलो गमितोऽनिलो-
ऽनुमतसुमनोगुम्फाः शेफालिका विनिभालिताः ।
वृतमपि घनस्तोमैव्योमेक्षितं विषमच्छद-
द्रुमकुसुममप्यालिख्यन्तां किमालि मनोरथाः ॥ ९४ ॥
बध्नाति गन्धफलिकोत्कलिकोपबन्धं
शेफालिकां शबलयन्ति सखि द्विरेफाः ।
उल्लाघयत्यतिभिदाधनतां निदाघ-
श्चन्द्रानने रचय तन्मिलने रुचं द्राक् ॥ ९५ ॥
नैवातप्यत किं चतुर्भिरनलै|न्तद्विषत्पञ्चमै-
न सान्द्रीयत वृष्टिभिः किमु कृशश्चान्द्रायणैः किं न सः।
यस्मिन्ससितमाननं विदधती दृग्मङ्गिभङ्गीकृतं
श्रोत्रोत्तंससहस्रपत्रमहसं व्यापारयस्यादरात् ॥ ९६ ।।
उद्यत्तारुण्यवारुण्यतिशयितमदोच्छ्रासचारुण्यतीव
प्रोदञ्चत्पञ्चवाणप्रचुररुचिरहक्चञ्चरीकप्रपञ्चे।
मन्दश्रीश्चन्द्रमास्ते सति सुतनु मुखे प्रोच्छृसत्तन्द्रमास्ते
हीनं शोभाभिरम्भोरुहमपि रजनौ नैति रम्भोरु हासम् ॥ ९७ ।।


१. चम्पककलिका. काव्यमाला। लीला कापि न शीलिताथ न मनाग्विाजते विभ्रमो नो किंचित्किलकिञ्चितं परिचितं वेला विलासस्य का। उल्लासेन कुशेशयस्य कलिकां संभाविता भाविनो रोलम्बा इव निर्विलम्बितमिमां चुम्बन्ति यूनां दृशः ॥ ९८ ॥ बलादाली कालीयकमुपद्धाति स्तनभुवि प्रभूतायामम्भोरुहमुकुलदम्भोलि भिदि। स्वरूपेणाजेयः स किल वनितायाः स्तनभुवा सरोजाताभाया हृदयदयिते नखपनयः (१) ।। ९९ ॥ आलिङ्गन्नतिसौरभानवयवान्बिम्बाधरं पाटलं चुम्बन्नाकलयन्पयोधरतटीं शृण्वन्रुतं हांसकम् । पश्यन्वानिशमायतां हशमुपस्कुवल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ॥ १०० ।। अहानि प्रोल्लासं दधुरतिघना नन्वपधना बभूवुः सर्वाशा हिमकरकराघ्यायमिलिताः । गजश्रीबन्धुः श्रवणमतिचक्राम नितरां भवत्यामासन्नः कुसुमसमयो वामनयने ।। १०१।। अर्धेन्दुः क्षतमर्दितस्तमकृत प्रस्थानकस्थासकं विश्लिष्टावरणं रदत्रणगणैः साबाधबिम्बाधरम् । खेदाम्भःपृषताभिमृष्टतिलकं खस्तोरुयुग्मं जय- त्यामीलन्नयनाञ्चलं परिगलद्धम्मिल्लकं तद्वपुः ॥ १०२ ॥ विद्वद्वन्दकमौलिभूषणलसत्पाण्डित्यलीलाञ्चित- श्रीमच्छ्रीधरभट्टसूनुरमलप्रज्ञाधराराधितः । भट्टश्रीयुतकृष्णवल्लभसुधीर्वर्षे शरेष्वष्टभू (१८५५)- माने काव्यविभूषणाभिधमिदं काव्यं व्यधादद्भुतम् ॥ १०३ ॥ इति श्रीकृष्णवल्लभकवि विरचितं काव्यभूषणशतकम् ।

"https://sa.wikisource.org/w/index.php?title=काव्यभूषणशतकम्&oldid=292979" इत्यस्माद् प्रतिप्राप्तम्