कालिकापुराणम्/अध्यायः ८७

विकिस्रोतः तः
Jump to navigation Jump to search


।।और्व उवाच।।
अथातः शृणु राजेन्द्र शकोत्थानं ध्वजोत्सवम्।
यत् कृत्वा नृपतिर्याति न कदाचित् पराभवम्।। ८७.१ ।।

रवौ हरिस्थे द्वादश्यां श्रवणेन विडौजसम्।
अराधयेन्नपः सम्यक् सर्वविघ्नोपशान्तये।। ८७.२ ।।

राजोपरिर्चरो नाम वसुनामापरस्तु यः।
नृपस्तेनायमतुलो यज्ञः प्रावर्तितः पुरा।। ८७.३ ।।

प्रवृट्काले च नभसि द्वादश्यामसितेतरे।
पुराहितो बहुविधैर्वाद्यैस्तूर्यैः समन्वितः।। ८७.४ ।।

प्रथमं शककेत्वर्थ वृक्षमामन्त्र्य वर्धयेत्।
सांवत्सरो वार्धकिश्च कृतमङ्गलकौतुकः।। ८७.५ ।।

उद्याने देवातगारे श्मशाने मार्गमध्यतः।
ये जातास्तरवस्तांस्तु वर्जयेद् वासवध्वजे।। ८७.६ ।।

बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम्।
कुब्जं वृक्षादनीयुक्तं लताच्छन्नतरुं त्यजेत्।। ८७.७ ।।

पक्षिवाससमाकीर्णं कोटरैर्बहुभिर्युतम्।
पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत्।। ८७.८ ।।

नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः।
तान् सदा वर्जयेद् धीरः सर्वदा शक्रपूजने।। ८७.९ ।।

अर्जुनोऽप्यश्वकर्णश्च वटः प्रियकोषकश्च।
औदुम्बरश्च पंचैते केत्वर्थे ह्युत्तमाः स्मृताः।। ८७.१० ।।

अन्ये च देवदार्वाद्याः शालाद्यास्तरवस्तथा।
प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन।। ८७.११ ।।

धृत्वा वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत्।
यानि वृक्षेषु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः।। ८७.१२ ।।

उपहारं गृहीत्वेमं क्रियतां वासवध्वजम्।
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम।। ८७.१३ ।।

ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम्।
ततोऽपरेऽह्नि तं छित्त्वा मूलमष्टांगुलं पुनः।। ८७.१४ ।।

जले क्षिपेत् तथाग्रस्य छित्वैव चतुरङ्गुलम्।
ततो नीत्वा पुरद्वारं केतुं निर्माय तत्र वै।। ८७.१५ ।।

शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत्।
द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते।। ८७.१६ ।।

द्वात्रिंशत् तु ततो ज्यायान् द्वाचत्वारिंशदेव च।
ततोऽधिकः समाख्यातो द्वापञ्चाशत् तथोत्तमः।। ८७.१७ ।।

कुमार्यः पञ्च कर्तव्याः शक्तस्य नृपसत्तम।
शालमय्यस्तु ताः सर्वा अपराः शक्रमातृकाः।। ८७.१८ ।।

केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः।
मातृकार्धप्रमाणास्तु यन्त्रंहस्तद्वयं तथा।। ८७.१९ ।।

एवं कृत्वा कुमारीश्च मातृकाः केतुमेव च।
एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत्।। ८७.२० ।।

अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः।
द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम्।। ८७.२१ ।।

अच्युतं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत्।
शक्रस्य प्रतिमां कुर्यात् काञ्चनीं दाखीं च वा।। ८७.२२ ।।

अन्यतैजससम्भूतां सर्वाभावे तु मृन्मयीम्।
तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः।। ८७.२३ ।।

ततः शुभे मुहूर्ते तु केतुमुत्थापयेन्नृपः।
वज्रहस्त सुरारिघ्न बहुनेत्र पुरन्दर।
क्षेमार्थं सर्वलोकानां पूजेयं प्रतिगृह्यताम्।। ८७.२४ ।।

एह्येहि सर्वामरसिद्धसङ्घैरभिष्टुतो वज्रधरामरेश।
समुत्थितस्त्वं श्रवणाद्यपादे गृहाण पूजां भगवन्नमस्ते।। ८७.२५ ।।

एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः।
इति मन्त्रेण तन्त्रेण नानानैवेद्यवेदनैः।। ८७.२६ ।।

अपपैः पायसैः पानैर्गुडैर्धानाभिरेव च।
भक्ष्यैर्भोज्यैश्च विविधैः पूजयेच्छ्रीविवृद्धये।। ८७.२७ ।।

घटे तु दशदिक्पालान् ग्रहांश्च परिपूजयेत्।
साध्यादीन् सकलान् देवान् मातृः सर्वा अनुक्रमात्।। ८७.२८ ।।

ततः शुभे मुहूर्ते तु ज्ञानिवर्धकिसंयुतः।
केतूत्थापनभूमिं तु यज्ञवेद्यास्तु पश्चिमे।। ८७.२९ ।।

विप्रैः पुरोहितैः सार्धं गच्छेद्राजा सुमंगलैः।
रज्जुभिः पंचभिर्बद्धं यन्त्रश्लिष्टं समातृकम्।। ८७.३० ।।

कुमारीभिस्तु संयुक्तं दिक्पालानां च पट्टकैः।
बृहद्भिरतिकान्तैश्च नानाद्रव्यैः सुपूरितैः।। ८७.३१ ।।

यथावर्णैर्यथादेशे योजितैर्वस्त्रवेष्टितैः।
युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरै।। ८७.३२ ।।

भूषितं मुकुरैरुच्चैर्माल्यैर्बहुविधैस्तथा।
बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया।। ८७.३३ ।।

चित्रमाल्याम्बरैश्चैव चतुर्भिरपि तोरणैः।
उत्थापयेन्महाकेतुं राजकीयै शनैः शनैः।। ८७.३४ ।।

तमुत्थाय महाकेतुं पूजितं मण्डलान्तरे।
प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन्।। ८७.३५ ।।

यजेत् तं पूर्ववत् तत्र शचीं मातलिमेव च।
जयन्तं तनयं तस्य वज्रमैरावतं तथा।। ८७.३६ ।।

ग्रहांश्चाप्यथ दिकपालान् सर्वाश्च गणदेवताः।
अपूपाद्यैः पूतयेत् तु वलिभिः पायसादिभिः।। ८७.३७ ।।

पूजितानां च देवानां शश्वद्धोमं समाचरेत्।
होमान्ते तु बलिं दद्याद् वासवाय महात्मने।। ८७.३८ ।।

तिलं घृतं चाक्षतं च पूष्पं दूर्वां तथैव च।
एतैस्तु जुहुयाद् देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तम।। ८७.३९ ।।

ततो होमावसाने तु भोजयेद् ब्राह्मणानपि।
एवं सम्पूजयेन्नित्यं सप्तरात्रं दिने दिने।। ८७.४० ।।

ब्राह्मणैः सहिता राजा वेदवेदांगपारगैः।
सर्वत्र शक्रपूजासु यज्ञेषु परिकीर्तितः।। ८७.४१ ।।

त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः परः।
एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः।। ८७.४२ ।।

श्रवणर्क्षयुतायां तु द्वादश्यां पार्थिवः स्वयम्।
अन्त्यपादे भरण्यां तु निशि शक्रं विसर्जयेत्।। ८७.४३ ।।

सुप्तेषु सर्वलोकेषु यथा राजा न पश्यति।
षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम्।। ८७.४४ ।।

शक्रस्य नृपशार्दूल तस्मान्नेक्षेत तन्नपः।
विसर्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः।। ८७.४५ ।।

सार्धं सुरासुरगणैः पुरन्दर शतक्रतो।
उपहारं गृहीत्वेम महेन्द्रध्वज गम्यताम्।। ८७.४६ ।।

सूतके तु समुत्पन्ने वारे भौमस्य वा शनैः।
भूमिकम्पादिकोत्पाते वासवं न विसर्जयेत्।। ८७.४७ ।।

उत्पाते सप्तरात्रं तु तथोपप्लवदर्शने।
व्यतीत्य शनिभौमौ च ह्यन्यर्क्षेऽपि विसर्जयेत्।। ८७.४८ ।।

सूतके त्वथ संप्राप्ते व्यतीते सूतके पुनः।
यस्मिन् तस्मिन् चैव सूतकान्ते विसर्जयेत्।। ८७.४९ ।।

तथा केतुं नृपो रक्षेत् पतन्ति शकुना यथा।
न केतौ नृपशार्दूल यावन्नहि विसर्जनम्।। ८७.५० ।।

शनैः शनैः पातयेत् तु यथोत्थापनमादितः।
कृतं तथा यथा भग्ने केतौ मृत्युमवाप्नुयात्।। ८७.५१ ।।

विसृष्टं शक्रकेतुं तु सालङ्कारं तथा निशि।
क्षिपेदनेन मन्त्रेण त्वगाधे सलिले नृप।। ८७.५२ ।।

तिष्ठ केतो महाभाग यावत् संवत्सरं जले।
भवाय सर्वलोकानामन्तराय विनाशक।। ८७.५३ ।।

उत्थापयेत् तूर्यरवैः सर्वलोकस्य वै पुरः।
रहो विसर्जयेत् केतुं विशेषो यः प्रपूजने।। ८७.५४ ।।

एवं यः कुरुते पूजां वासवस्य महात्मनः।
स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात्।। ८७.५५ ।।

न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयः क्वचित्।
स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते।। ८७.५६ ।।

तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्य पार्थिव।
तस्य पूजा सर्वपूजा केशवाद्याश्च तत्रगाः।। ८७.५७ ।।

सकलकलुषहारि व्याधिदुर्भिक्षनाशं सकलभवनिवेशं सर्वसौभाग्यकारि।
सुरपतिगृहगाभिर्वार्चनं शक्रकेतोः प्रतिशरदमनेकैः पूजयेच्छ्रीविवृद्धयै।। ८७.५८ ।।

।। इति श्रीकालिकापुराणे सप्ताशीतितमोऽध्यायः।। ८७ ।।