सामग्री पर जाएँ

कालिकापुराणम्/अध्यायः ८६

विकिस्रोतः तः


।।और्व्व उवाच।।
शृणु राजन् प्रवक्ष्यामि पुष्यस्नानविधिक्रमम्।
येन विज्ञानमात्रेण विघ्ना नश्यन्ति सन्ततम्।। ८६.१ ।।

पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत्।
सौभाग्यकल्याणकरं दुर्भिक्षमरणापहम्।। ८६.२ ।।

विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ।
वज्रे शूले हर्षणादौ योगे तु यदि लभ्यते।। ८६.३ ।।

तृतीयायुक्तपुष्यर्क्षं रविशौरिकुजेऽहनि।
तदा समस्तदषाणां तत् स्नानं हानिकारकम्।। ८६.४ ।।

ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः।
तदा पुष्ये तु नक्षत्रे कुर्यान्मासान्तरेऽपि च।। ८६.५ ।।

इयं तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा।
शक्रादिसर्वदेवानां शान्त्यर्थं च जगत्पतिः।। ८६.६ ।।

तुषकेशास्थिवल्मीक-कीटदेशादिवर्जिते।
शर्कराकृमिकुष्माण्ड-बहुकृष्टविवर्जिते।। ८६.७ ।।

काकोलूकैश्च कङ्कैश्च काकालैर्गृघ्रशौनकैः।
वर्जिते कण्टकिवने विभीतकविवर्जिते।। ८६.८ ।।

शिग्रुश्लेष्मातकाभ्यां तु जलौकाद्यैर्विवर्जिते।
स्वस्थाने चम्पकाशोक-वकुलादिविराजिते।। ८६.९ ।।

हंसकारण्डवाकीर्णे सरस्तीरेथवा शुचौ।
पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानमुत्तमम्।। ८६.१० ।।

ततः पुरोहितो राजा नाना वादित्रनिःस्वनैः।
प्रदोषसमये गच्छेत् तत् स्थानं पूर्ववासरे।। ८६.११ ।।

तस्य स्थानस्य कौवेर्यां दिशि स्थित्वा पुरोहितः।
सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः।। ८६.१२ ।।

गौरोचनाभिः सिद्धार्थैरक्षतैः सफलादिभिः।
गन्धद्वारेत्यादिभिर्मन्त्रैः सर्वाधिसिक्तकैः।। ८६.१३ ।।

अधिवास्य तु तत्स्थानं पूजयेत् तत्र देवताः।
गणेशं केशवं शक्रं ब्रह्माणं चापि शङ्करम्।। ८६.१४ ।।

उमया सहितं देवं सर्वाश्च गणदेवताः।
मातृश्च पूजयेत् तत्र नृपतिः सपुरोहितः।। ८६.१५ ।।

मङ्गलान् कलशान् कृत्वा नानानैवेद्यसञ्चयान्।
प्रदद्यात् पायसं स्वादुफलं मोदकयावकौ।। ८६.१६ ।।

अधिवास्य च तत् स्थानं दूर्वासिद्धार्थकाक्षतैः।
तत्स्थानाच्चापि भूतानि सारयेन्मन्त्रमीरयन्।। ८६.१७ ।।

अपसर्पन्तु ते भूता ये भूता भूमिपालकाः।
भूतानामविरोधेन स्नानकर्म करोम्यहम्।। ८६.१८ ।।

ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः।
आवाहयेदिमान् देवान् पूज्यान् पुष्याभिषेकतः।। ८६.१९ ।।

आगच्छन्तु सुराः सर्वे येऽत्र पूजाभिलाषिणः।
दिशो हि पालकाः सर्वे ये चान्येऽप्यंशभागिनः।। ८६.२० ।।

ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम्।
अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम्।। ८६.२१ ।।

स्वपूजां प्राप्य पातारो दत्त्वा शान्तिं महीभुजे।
ततस्तां नृपती रात्रिं नयेत् तु सपुरोहितः।। ८६.२२ ।।

स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः।
कृत्वा पूजां तु देवानां रात्रौ स्थाने नृपः स्वपेत्।। ८६.२३ ।।

शुभाशुभफलं स्वप्ने ज्ञेयं दोषज्ञसम्मते।
दुःस्वप्नदर्शनं चेत् स्यात् तदा पुष्याभिषेचने।। ८६.२४ ।।

होमं चतुर्गुणं कुर्याद् दत्त्वा चापि गवां शतम्।
गोवाजिकुंजराणां तु प्रासादस्य गिरेस्तरोः।। ८६.२५ ।।

आरोहणं शुभकरं राज्यश्रीवृद्धिकारकम्।
दधिदेवसुवर्णानां ब्रह्मणस्य प्रदर्शनम्।। ८६.२६ ।।

वीणादूर्वाक्षतफलं पुष्पच्छत्रविलेपनम्।
शीतांशु चक्रशंखानां पद्मस्य सुहृदस्तथा।। ८६.२७ ।।

लाभाः क्षयकराः शत्रौ रत्नाकरस्य भूभृतः।
दर्शनं चोपरागस्य निगडेन च बन्धनम्।। ८६.२८ ।।

मांसस्य भोजनं चैव पर्वतस्य विवर्तनम्।
नाभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम्।। ८६.२९ ।।

अगम्यागमनं कूप पङ्कगर्भावतीर्णता।
पर्वतस्य तथा नद्याः स्रोतसां लङ्घनं तथा।। ८६.३० ।।

स्वपुत्रमरणं चैव पानं रुधिरमद्ययोः।
भोजनं पायसस्यापि मनुष्यारोहणं तथा।। ८६.३१ ।।

कल्याणसुखसौभाग्य-राज्य-शत्रुक्षयं तथा।
एते स्वप्नाः प्रकुर्वन्ति नृस्य नृपसत्तम।। ८६.३२ ।।

ख रोष्ट्रमहिषाणां च आरोहो राज्यनाशनः।
नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः।। ८६.३३ ।।

रक्तवस्त्रपरिधानं रक्तमालानुलेपनम्।
रक्तां कृष्णां स्त्रियं चैव कामयत् मृत्युमाप्नुयात्।। ८६.३४ ।।

कूपान्तरे प्रवेशः स्वाद् दक्षिणाशागतिस्तथा।
पङ्के निमज्जनं स्नानं भार्यापुत्रविनाशनम्।। ८६.३५ ।।

लाभस्तस्य भवेत् स्वप्नेऽप्यरुत्पत्तिर्नृपभ्य च।
आदाय गर्भनाङीं तु शकुनो याति खञ्जनः।। ८६.३६ ।।

स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात्।
दीर्घं विंशतिहस्तं तु हस्तषोडशविस्तृतम्।। ८६.३७ ।।

कुर्यात् तु लक्षणोपेतं यज्ञमण्डलमुत्तमम्।
ततोऽपरेऽह्नि पूर्वाह्णेमातृणां पूजनं चरेत्।। ८६.३८ ।।

कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च।
चन्दनागुरुकस्तूरीधूमकर्पूरचूर्णकैः।। ८६.३९ ।।

सम्पूज्य मण्डलस्थानं तस्मिन् ह्रौं शम्भवे नमः।
अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः।। ८६.४० ।।

मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः।
कौशेयैर्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत्।। ८६.४१ ।।

चतुर्हस्तप्रमाणं तु मण्डलं विलिखेत् ततः।
हस्तप्रमाणं पद्मं तु मण्डलस्य प्रकीर्तितम्।। ८६.४२ ।।

द्वाराणि सार्धहस्तानि कर्णिकाकेशरोज्ज्वलम्।
सितं रक्तं च पीतं च कृष्णं हरितमेव च।। ८६.४३ ।।

शालिचूर्णैश्च कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः।
कुर्यात् तथाञ्जनैश्चूर्णै राजा मण्डवृद्धये।। ८६.४४ ।।

पद्मान्ततः समारभ्य तालं पश्चिमगामिनम्।
पश्चिमद्वारमध्ये चशतपत्रं विनिर्दिशेत्।। ८६.४५ ।।

प्रत्येकं द्वारमध्ये तु पद्मं चैवाष्टपत्रकम्।
कुर्यान्मण्डलभागज्ञश्चूर्णैरेव पृथक् पृथक्।। ८६.४६ ।।

चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत् ततः।
उत्सार्य सूत्रं प्रथमं मण्डलं पूजयेत् ततः।। ८६.४७ ।।

भवनाय नम इति ततो हस्तं वियोजयेत्।
सव्यावलम्बहस्तं तु रजःपात्रं समाचरेत्।। ८६.४८ ।।

मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद् यथेच्छया।
अधोमुखाङ्गुलीः कृत्वा पातयेच्च विचक्षणः।। ८६.४९ ।।

समारेखा तु कर्तव्या विच्छित्रा पुष्परञ्जिता।
अङ्गुष्ठपर्वनैपुण्यात् समा कार्या विजानता।। ८६.५० ।।

संसक्तविषमं स्थूलं विच्छिन्नं कृसरकृतिम्।
पर्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन।। ८६.५१ ।।

संसक्ते कलहं विद्यादूर्ध्व रेखे तु विग्रहम्।
अतिस्थूले भवेद् व्याधिर्नित्यं पीडाविमिश्रिते।। ८६.५२ ।।

बिन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः।
कृशायां चार्थहानिः स्याच्छिन्नायां मरणं ध्रुवम्।। ८६.५३ ।।

वियोगो वा भवेत् तस्य इष्टद्रव्यसुतस्य वा।
अविदित्वा लिखेद् यस्तु मण्डलं तु यथेच्छया।। ८६.५४ ।।

सर्वदोषानवाप्नोति ये दोषाः पूर्वमीरिताः।
सितसर्षपदूर्वाया रेखाः कार्या विजानता।। ८६.५५ ।।

विमलं विजयं भद्रं विमानं शुभदं शिवम्।
वर्धमानं च देवं च शताक्षं कामदायकम्।। ८६.५६ ।।

रुचिकं स्वस्तिकं चैव द्वादशैते तु मण्डलाः।
यथास्थानं यथायज्ञं योजनीया विचक्षणैः।। ८६.५७ ।।

सागरे मध्यमाने तु पीयूषार्थं सुरोत्करैः।
पीयूषधारणार्थाय निर्मिता विश्वकर्मणा।। ८६.५८ ।।

कलां कलां तु देवानामसित्वा ते पृथक् पृथक्।
यतः कृतास्तु कलसास्ततस्ते परिकीर्तिताः।। ८६.५९ ।।

नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत।
गोह्योपगोह्यो मरुतो मयूखश्च तथापरः।। ८६.६० ।।

मनोहाचार्यभद्रश्च विजयस्तनु दूषकः।
इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्तितः।। ८६.६१ ।।

तेषामेव क्रमाद् भूप नव नामानि यानि तु।
शृणु तान्यपराण्येव शान्तिदानि सदैव हि।। ८६.६२ ।।

क्षितीन्द्रः प्रथमः प्रोक्तो द्वितीयो जलसम्भवः।
पवनाग्नी ततो द्वे तु यजमानस्ततः परः।। ८६.६३ ।।

कोषसम्भवाम्ना तु षष्ठः स परिकीर्तितः।
सोमस्तु सप्तमः प्रोक्त आदित्यस्तु तथाष्टमः।। ८६.६४ ।।

विजयो नाम कलसो योऽसौ नवम उच्यते।
स तु पंचमुखः प्रोक्तो महादेवस्वरूपधृक्।। ८६.६५ ।।

घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयं तथा।
यथाकाष्ठां स्थितः सम्यग्वामदेवादिनामतः।। ८६.६६ ।।

मण्डलस्य तु पद्मान्ते पञ्चवक्त्रं घटं न्यसेत्।
क्षितीन्द्रं पूर्वतो न्यस्य पश्चिमे जलसम्भवम्।। ८६.६७ ।।

वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम्।
नैर्ऋत्ये यजमानं तु ऐशान्यां कोषसम्भवम्।। ८६.६८ ।।

सोममुत्तरतो योज्यं सौरं दक्षिणतो न्यसेत्।
न्यस्यैवं कलसांश्चैव तेषु चैतान् विचिन्तयेत्।। ८६.६९ ।।

कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः।
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः।। ८६.७० ।।

दिक्पाला देवताः सर्वा वेष्टयन्ति दिशो दश।
कुक्षौ तु सागराः सप्त सप्तद्वीपाश्च संस्थिताः।। ८६.७१ ।।

नक्षत्राणि ग्रहाः सर्वे तथैव कुलपर्वताः।
गङ्गाद्याः सरितः सर्वा वेदाश्चत्वार एव च।। ८६.७२ ।।

कलसे संस्थिताः सर्वे तेषु तानि विचिन्तयेत्।
रत्नानि सर्वबीजानि पुष्पाणि च फलानि च।। ८६.७३ ।।

वज्रमौक्तिकवैदूर्यमहापद्मेन्द्रस्फाटिकैः।
सर्वधाममयं बिल्वं नागरोदुम्बर तथा।। ८६.७४ ।।

बीजपूरकजम्बीरकाश्मीराम्रातदाडिमम्।
यवं शालिं च नीवारं गोधूमं सितसर्षपम्।। ८६.७५ ।।

कुङ्कुमागुरुकर्पूरमदनं रोचनं तथा।
चन्दनं च तथा मांसीमेलां कुष्ठं तथैव च।। ८६.७६ ।।

कस्तूरीपत्रचूर्णं च जलनिर्यासकाम्बुदम्।
शैलेयं वदरं जातीपत्रपुष्पे तथैव च।। ८६.७७ ।।

कालशाकं तथा पृक्का देवीपर्णकमेव च।
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम्।। ८६.७८ ।।

दूर्वां मोहनिकां भद्रां शतमूलीं शतावरीम्।
वर्णानां सरलां क्षुद्रां सहदेवीं गजाह्वयाम्।। ८६.७९ ।।

पूर्णकोषां सितां पीठां गुञ्जां शिरसिकानलौ।
व्यामकं गजदन्तं च शतपुष्पं पुनर्नवाम्।। ८६.८० ।।

ब्राह्मीं देवीं शिवां रुद्रां सर्वसन्धानिकां तथा।
समाहृद्य शुभानेतान् रुद्रां कलसेषु निधार्पयेत्।। ८६.८१ ।।

कलसस्य यथादेशं विधिं शम्भुं गदाधरम्।
यथाक्रमं पूजयित्वा शम्भु मुख्यतया यजेत्।। ८६.८२ ।।

प्रासादेन तु मन्त्रेण शम्भुं तन्त्रेण शङ्करम्।
प्रथमं पूजयेन्मध्ये नाना नैवेद्यवेदनैः।। ८६.८३ ।।

दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत्।
पूर्वं बहिः स्थापितेषु ग्रहाणां कलसेषु च।। ८६.८४ ।।

नवग्रहान् पूजयेत् तु मातृर्मातृघटेषु च।
सर्वे देवा घटे पूज्या घटास्तेषां पृथक् पृथक्।। ८६.८५ ।।

नवैव तत्र पूर्वोक्ताः स्मृता मुख्यतया नृप।
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः।। ८६.८६ ।।

यावकैः पायसैश्चैव यथासम्भवयोजितैः।
पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान्।। ८६.८७ ।।

दक्षिणे मण्डलस्याथ कुण्डं निर्मांय पायसैः।
समिद्भिः शालिसिद्धार्थैर्घृतैर्दूर्वाक्षतैस्तथा।। ८६.८८ ।।

केवलैश्च तथैवाज्यैः पूजितान् सकलान् सुरान्।
होमेन तोषयेद् वृद्ध्यै नृपः सर्त्विक्पुरोहितः।। ८६.८९ ।।

होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम्।
रोचनाख्यमर्लकारांस्तथा सर्वान् नियोजयेत्।। ८६.९० ।।

वृद्धावङ्गुलमङ्गुल्या षड्विंशङ्गुलिकावधि।
वृत्तं वा चतुरस्रं वा पद्मं त्रिकोणसंज्ञकम्।। ८६.९१ ।।

रत्नेशान् पद्ममध्ये तु गोमुष्टिकविनायकैः।
श्रीश्रीवृक्षवरारोहामुमादेवीं शुभान्विताम्।। ८६.९२ ।।

रत्नैः सर्वैरलङ्कारैः पट्टं कार्यं द्विहस्तकम्।
हस्तविस्तारमुच्छ्रायं नवहस्तं दशाङ्गुलम्।। ८६.९३ ।।
स्नानार्थं सार्धहस्तं च पट्टं वृत्तं गुणान्वितम्।
शय्या चतुर्गुणा दीर्घा धनुर्मानं तु पीठकम्।। ८६.९४ ।।

गजसिंहकृताटोपं हेमरत्नविभूषितम्।
सिंहाख्यं सार्धविस्ताराद् दण्डासनमथापि वा।। ८६.९५ ।।

व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत्।
अन्यैर्वा निर्मितां चर्ममृदुतूलकपूरिता।। ८६.९६ ।।

शय्या दीर्घार्घविस्तीर्णा चतुर्हस्ता सुलक्षणा।
वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया।। ८६.९७ ।।

अर्धचन्द्रसमं कुर्यादासनं चतुरस्रकम्।
उपधानानि शय्यायाः कर्णादिमूलभेदतः।। ८६.९८ ।।

षोडशैवात्र कार्याणि वर्णचित्रयुतानि च।
यानं सिंहासन पट्टं शय्योपकरणादिकम्।। ८६.९९ ।।

राज्ञो नूतनयोग्यं तद् वेद्या उत्तरतो न्यसेत्।
तेषां तु पश्चिमे स्वर्णरत्नौघखचिते वरे।। ८६.१०० ।।

पर्यङ्के यज्ञदार्वौघनिर्मिते महदास्तरे।
अर्धाच्छादनसंयुक्ते चर्मावृतचतुष्टये।। ८६.१०१ ।।

वृषभस्य तथोर्णायाः सिंहशार्दुलयोरपि।
पादपीठे रत्नयुते पादावारोप्य पार्थिवः।। ८६.१०२ ।।

तस्मिन् पर्यङ्कपीठस्थे चर्मावृतचतुष्टये।
नानालङ्कारभूषाढ्यं नृपतिं रत्नशालिनम्।। ८६.१०३ ।।

स्नापयेद् ब्राह्मणैः सार्धं राजानं सुखसङ्गतम्।
संवीतकम्बलं कृष्णं बहुवस्त्रैश्च शौभितम्।। ८६.१०४ ।।

कलसेवलिपुष्पाद्यैः शालिचूर्णैश्च स्नापयेत्।
अष्टौ षौडश विंशाष्टशतमधिकं च वा।। ८६.१०५ ।।

कलसानां समाख्याता अधिकस्योत्तरोत्तरम्।
जयकल्याणदैर्मन्त्रैर्मङ्गलोत्थैश्च शाम्भवैः।। ८६.१०६ ।।

वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम्।। ८६.१०७ ।।

आज्यं सुराणामाहारप्राज्ये लोकाः प्रतिष्ठिताः।
भौमान्तरिक्षं दिव्यं वा यत् ते कल्ममषमागतम्।। ८६.१०८ ।।

सर्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु।
ततोऽपनीयगात्रात् तु कम्बलं वस्त्रमेव च।। ८६.१०९ ।।

कलसैः स्नापयेद् भूपं पुष्पस्नानीयपूरितैः।
एभिर्मन्त्रैर्नरश्रेष्ठ तनुतत्त्वार्थंसाधकैः।। ८६.११० ।।

सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः।
ब्रह्मा विष्णुश्च रुद्राश्च साध्याश्च समरुद्गणाः।। ८६.१११ ।।

आदित्या वसवो रुद्रा अश्विनौ यौ भिषग्वरौ।
अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती।। ८६.११२ ।।

कीर्तिर्लक्ष्मीर्घृतिः श्रीश्च सिनीवाली कुहूस्तथा।
दितिश्च सुरसा चैव विनता कद्रुरेव च।। ८६.११३ ।।

देवपत्नयश्च याः प्रोक्ता देवमातर एव च।
सर्वास्त्वामषिञ्चन्तु सिद्धाश्चाप्सरसां गणाः।। ८६.११४ ।।

नक्षत्राणि मुहूर्ताश्च पक्षाहोरात्रसन्धयः।
संवत्सर निमेषाश्च कलाः काष्ठाः क्षणा लवाः।। ८६.११५ ।।

सर्वे त्वामभिषिञ्चन्तु कालस्यावयवस्तथा।
वैमानिकाः सुरगणा मनवः सागरैः सह।। ८६.११६ ।।

सरितश्च महानागा नागाः किंपुरुषास्तथा।
वैखानसा महाभागा द्विजा वैहायसाश्च ये।। ८६.११७ ।।

सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु।
मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः।। ८६.११८ ।।

भृगुः सनत्कुमारश्च सनकश्च सनन्दनः।
सनातनश्च दक्षश्च जैगीषव्योऽभिनन्दनः।। ८६.११९ ।।

एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ।
दुर्वासा दुर्विनीतश्च कण्वः कात्यायनस्तथा।। ८६.१२० ।।

मार्कण्डेयो दीर्घतमाः शुनःशेफो विदूरथः।
और्वः संवर्तकश्चैव च्यवनोऽत्रिः पराशरः।। ८६.१२१ ।।

द्वैपायनो यवक्रीतो देवरातः सहात्मजः।
एते चान्ये च बहवो वेदव्रतपरायणाः।। ८६.१२२ ।।

सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः।
पर्वतास्तरवो नद्यः पुण्यान्यततनानि च।। ८६.१२३ ।।

प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः।
वाहनानि च दिव्यानि सर्वे लोकाश्चराचराः।। ८६.१२४ ।।

अग्नयः पितारस्तारा जीमूताः खं दिशो जलम्।
एते चान्ये च बहवः पुण्यसंकीर्तनाः शुभाः।। ८६.१२५ ।।

तौयैस्त्वामभिषिञ्चन्तु सर्वोत्पातनिबर्हणैः।
इत्येवं शुभदैरेतैर्दिव्यैर्मन्त्रैस्तथापरैः।। ८६.१२६ ।।

सोरैर्नारायणै रौद्रैर्ब्रह्मशक्रसमुद्भवैः।
आपोहिष्ठा हिरण्येति सम्भवेति सुरेति च।। ८६.१२७ ।।

मानस्तोकेति मन्त्रेण गन्धद्वारेत्यनेन च।
सर्वमंगलमांगल्ये श्रीश्च ते ग्रहयोगिभिः।। ८६.१२८ ।।

इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः।
सर्वमंगलमन्त्रेण वस्त्रं कार्पासकं ध्रियात्।। ८६.१२९ ।।

आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत्।
ध्वजच्छत्रं चामरं च घण्टां चाश्वान् गजांस्तथा।। ८६.१३० ।।

मन्त्रं जप्त्वा धारयेत् तु ततो गच्छेद्धुताशनम्।
तत्र गत्वा वह्निमध्ये वह्नेः श्रीर्वीक्ष्य पार्थिवः।। ८६.१३१ ।।

निमित्तान्यनिमित्तानि लक्षयेत् तत्र बिन्दुभिः।
दैवज्ञकञ्चुक्यमात्यवन्दिपौरजनैर्वृतः।। ८६.१३२ ।।

वादित्रघोषैस्तुमलैस्तथा तौर्यत्रिकैः शुभैः।
कृत्वा शेषे पुनः शान्तिमाशीर्वाच्य च वै द्विजान्।। ८६.१३३ ।।

पूर्णां विधाय विधिवद् दक्षिणां कनकान्विताम्।
धान्यानि चाथ वासांसि दत्त्वा कुर्याद् विसर्जनम्।। ८६.१३४ ।।

ततः शेषजलैः सर्वानमात्यादीन् पुरोहितः।
सेचयेच्चतुरङ्गं च बलं चापि सराष्ट्रकम्।। ८६.१३५ ।।

एवं कृत्वा नृपः पश्चात् त्रिरात्रं संयतों भवेत्।
मांसमैथुनहीनश्च कुर्यान्माङ्गल्यसेवनम्।। ८६.१३६ ।।

पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते।
तस्यां पूज्या सदा देवी चण्डिका शंकरेण ह।। ८६.१३७ ।।

पाञ्चालिकाविहाराद्यैः शिशूनां कौतुकैस्तथा।
वैवाहिकेन विधिना मोहयेच्चण्डिकां शिवाम्।। ८६.१३८ ।।

चतुष्पथेषु सर्वेषु देवदेवीगहेषु च।
पताकाभिरलं कुर्यादेवं कुर्वन्न सीदति।। ८६.१३९ ।।

एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम्।
चतुरङ्गैः समं राजा भार्याभिस्तु नरैः सह।। ८६.१४० ।।

राज्यमण्डलसंयुक्तः परत्रेह न सीदति।
नातः परतरो यज्ञो नातः परतरोत्सवः।। ८६.१४१ ।।

नातः परतरा शान्तिर्नातः परतरं शिवम्।
अनेनैव विधानेन नृपतेरभिषेचनम्।। ८६.१४२ ।।

युवराज्याभिषेकं च कुर्याद्राजपुरोहितः।
नृपाभिषेककरणमादौ यदि समाचरेत्।। ८६.१४३ ।।

अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा।
अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा।
एवं यज्ञं नृपः कृत्वा परत्रेह न सीदति।। ८६.१४४ ।।

।। इति श्रीकालिकापुराणे षडशौतितमोऽध्यायः।। ८६ ।।