कालिकापुराणम्/अध्यायः ८१

विकिस्रोतः तः
Jump to navigation Jump to search

।। एकाशीतितमोऽध्यायः ।।
।।और्व्व उवाच।।
कमारूपे महापीठे स्नात्वा पीत्वा च देवताः।
पूजयित्वा च विपुला लोकाः स्वर्गं पुरा ययुः।। ८१.१ ।।

केचिद् भेजुश्च निर्वाणं केचिद् यान्ति स्म शम्भुताम्।
न यमस्तान् वारयितुं नेतुं च निजमन्दिरम्।। ८१.२ ।।

क्षमोऽभून्नरशार्दूल शिवायाजातसाध्वसः।
यमदूतं तत्र यान्तं बाधन्ते शंकरा गणाः।। ८१.३ ।।

न तद्भिया तत्र यान्ति यमदूताः प्रचोदिताः।
तथा दृष्ट्वाथ शमनः स्वक्रियापरिवर्जितः।। ८१.४ ।।

विधातारं समासाद्य वचनं चेदमब्रवीत्।
विधातः कामरूपेऽस्मिन् स्नात्वा पीत्वा च मानवः।। ८१.५ ।।

कामाख्यागणतां याति तथा शभ्भुगणेशताम्।
तत्र मे नाधिकारोऽस्ति न तान् वारयितुं क्षमः।। ८१.६ ।।

विधत्स्वात्रोचितां नीतिं युज्यते यदि गोचरे।
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः।। ८१.७ ।।

जगाम विष्णुभवनं सहैव समवर्तिना।
तमासाद्य तथा प्राह विष्णुंवै यमभाषितम्।। ८१.८ ।।

यथावत् सर्वलोकेशः स च तद्वाक्यमग्रहीत्।
सह ब्रह्मयमाभ्यां तु विष्णुः शम्भुं ययौ ततः।
सत्कृतस्ततेन पृष्टश्च प्राहेदं यमभाषितम्।। ८१.९ ।।

।।श्रीभगवानुवाच।।
सर्वदेवैः सर्वतीर्थैः सर्वक्षेत्रैस्तथैव च।
एतद् व्याप्तंकामरूपं नातोऽन्यद् विद्यते परम्।। ८१.१० ।।

इदं पीठं समासाद्य देवत्वं यान्ति मानवाः।
अमृतत्वं गणत्वं च तत्र शक्तो यमो नहि।। ८१.११ ।।

तथा कुरु महादेव यथा तत्र क्षमो यमः।
यमो निरस्तो यत्रास्ति मर्यादा न प्रदृश्यते।। ८१.१२ ।।

।।और्व्व उवाच।।
एतद् विष्णुवचः श्रुत्वाः विधिना सहितस्य तु।
अङ्गीचकार हृदये तद्वचः साध्यसाधने।। ८१.१३ ।।

विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः।
आदाय स्वगणान् सर्वान् कामरूपान्तरं यमौ।। ८१.१४ ।।

उग्रतारां ततो देवीं गणं च प्राह शङ्करः।
उत्सारयन्तु सकलान्निमाँल्लोकान् गणा द्रुतम्।। ८१.१५ ।।

उग्रतारे महादेवि त्वं चाप्युत्सारय द्रुतम्।
ततो गणाः कामरूपाद्देवी चाप्यपराजिता।। ८१.१६ ।।

लोकानुत्सारयामासुः पीठं कर्तुं हरस्यकम्।
उत्सार्यमाणे लोके तु चतुर्वर्णद्विजातिषु।। ८१.१७ ।।

सन्ध्याचलगतो विप्रो वसिष्ठः कुपितो मुनिः।
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया।। ८१.१८ ।।

गणैः सह धृतः प्राह शापं कुर्वन् सुदारुणम्।
यस्मादहं धृतो वामे त्वयोत्सारयितुं मुनिः।। ८१.१९ ।।

तस्मात् त्वं वाम्यभावेन पूज्या भव समन्त्रिका।
भ्रमन्ति म्लेच्छवद् यस्माद् गणानां मन्दबुद्धयः।। ८१.२० ।।

भवन्तु म्लेच्छास्तस्माद् वै भवन्तः कामरूपके।
महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः।। ८१.२१ ।।

तपोधनं मुनिं दान्तं म्लेच्छवद् वेदपारगम्।
तस्माद् म्लेच्छप्रियो भूयाच्छङ्करश्चास्थिभस्मधृक्।। ८१.२२ ।।

एतत् तु कामरूपाख्यं म्लेच्छैर्गुप्तं मदत्वरम्।
स्वयं विष्णुर्न चायाति यावत् स्थानमिदं पुनः।। ८१.२३ ।।

विरलाश्चागमाः सन्तु य एतत्प्रतिपादकाः।
विरलं यस्तु जानाति कामरूपागमं बुधः।। ८१.२४ ।।

स एव प्राप्ते कालेऽपि सम्पूर्णं फलभाप्स्यति।
एवमुक्त्वा वसिष्ठस्तु तत्रैवान्तरधीयत।। ८१.२५ ।।

ते गणा म्लेच्छतां याताः कामरूपे सुरालये।
वामाऽभूद्रुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत्।। ८१.२६ ।।

आगमा विरलाश्चासन् ये च मत्प्रतिपादकाः।
वेदमन्त्रविहीनं तु चतुर्वर्णविवर्जितम्।। ८१.२७ ।।

कामरूपं क्षणाज्जातं यद् यमेनानुसाश्तिम्।
आगतेऽपि हरौ मुक्ते शापात् पीठे फलप्रदे।। ८१.२८ ।।

यथा न सम्यक् स्थास्यन्ति तत्पीठे देवमानुषाः।
गुप्तये सर्वकुण्डानां ब्रह्मोपायं तथाऽकरोत्।। ८१.२९ ।।

अपुनर्भवकुण्डस्य सोमकुण्डस्य चोभयोः।
ब्रह्मोर्वशीकुण्डस्य नदीनामपि भूरिशः।। ८१.३० ।।

नदीनां पूर्वमुक्तानामनुक्तानां च गुप्तये।
सर्वस्यैकफलज्ञाने ब्रह्मोपायं तथाऽकरोत्।। ८१.३१ ।।

अमोघायां शान्तनोस्तु भार्यायां तनयं स्वकम्।
जलरूपं समुत्पाद्य जामदग्न्येन धीमता।। ८१.३२ ।।

अवतारयदव्यग्रं प्लवयन् कामरूपकम्।
स तु ब्रह्मसुतो धीरः प्लावयन् कुण्डसञ्चयान्।। ८१.३३ ।।

आच्छाद्य सर्वतीर्थानि भुवि गुप्तानि चाकरोत्।
लौहित्यमात्रं ये केचिज्जानन्ति तत्र वै नराः।। ८१.३४ ।।

ते लौहित्यस्नानफलं प्राप्नुवन्ति सुनिश्चितम्।
न जानन्ति च कुण्डानि नापि तीर्थानि चान्यतः।। ८१.३५ ।।

वसिष्ठशापादेतत् तु प्रवृत्तं तीर्थगोपनम्।
यः कश्चित् तत्र जानाति तीर्थानां च विशेषताम्।। ८१.३६ ।।

समवाप्नोति तत् स्नानफलं सम्यग् नरोत्तम।
सर्वा नदीः समाप्लाव्य सर्वतीर्थानि सर्वतः।
लौहित्यो ब्रह्मणः पुत्रो याति दक्षिणसागरम्।। ८१.३७ ।।

एवं ते कथितं राजन् कामरूपस्य कीर्तनम्।
यदन्यद्रोचते तुभ्यं तत् पृच्छ निगदामि ते।। ८१.३८ ।।

।। इति श्रीकालिकापुराणे एकाशीतितमोऽध्यायः।। ८१ ।।