कालिकापुराणम्/अध्यायः ७७

विकिस्रोतः तः

।। सप्तसप्ततितमोऽध्यायः ।।
।।और्व्व उवाच।।
ततस्तु कामरूपस्य वायव्यां त्रिपुरान्तकः।
आत्मनो लिङ्गमतुलं जल्पीशाख्यं व्यदर्शयत्।। ७७.१ ।।

यत्र नन्दी समाराध्य महादेवं जगत्पतिम्।
अभिन्नेन शरीरेण गाणपत्यमवाप्नुयात्।। ७७.२ ।।

नन्दिकुण्डं महाकुण्डं यत्र नन्दी पुराऽकरोत्।
अभिषेकं लब्धवरं पीतं तोयमनुतमम्।। ७७.३ ।।

तत्र स्नात्वा च पीत्वा च कृतकृत्यो नरोत्तमः।
हरस्य सदनं याति नन्दिनोऽपि महाश्रियः।। ७७.४ ।।

तस्यासन्ने महादेवीं नातिदूरे व्यवस्थिताम्।
सिद्धेश्वरीं योनिरूपां महामायां जगन्मयीम्।। ७७.५ ।।

त्र्यम्बको दर्शयामास भैरवाय महात्मने।
यत्र नन्दी महामायामाज्ञया शशिधारिणः।। ७७.६ ।।

स्तुतिभिर्नतिभिः पूज्य गाणपत्यमवाप्नुयात्।
सुवर्णमानसस्तत्र नदमुख्यो मनोहरः।। ७७.७ ।।

नन्दिनोऽनुग्रहायाशु मानसाख्यं सरस्तु तत्।
आगतं चाज्ञया शम्भोः पूर्वमेव तपस्यतः।। ७७.८ ।।

जटोद्भवा तत्र नदी हिमवत्प्रभवा शुभा।
यस्यां स्नात्वा नरःपुण्यमाप्नोति जाह्नवीसमम्।। ७७.९ ।।

गौरीविवाहसमये सर्वैर्मातृगणैः कृतः।
जलाभिषेको भर्गस्य जटाजूटेषु यः पुरा।। ७७.१० ।।

तैस्तोयैरभवद्यस्माज्जटोदाख्या नदी ततः।
चैत्रे मासि सिताष्टम्यां स्नात्वा यस्यां नरो व्रजेत्।। ७७.११ ।।

पूर्णायुर्वै नरश्रेष्ठ शिवस्य सदनं प्रति।
द्वापरस्य तु या गङ्गा त्रिःस्रोताख्या सरिद्वरा।। ७७.१२ ।।

हिमवत्प्रभवा शुद्धचन्द्रविम्बाद् विनिर्गता।
यस्यां स्नात्वा महामाध्यां मातृयोनौ न जायते।। ७७.१३ ।।

चन्द्रसूर्यग्रहे स्नात्वा कैवल्यं प्राप्नुयान्नरः।
सितप्रभा नाम नदी महादेवातारिता।। ७७.१४ ।।

हिमवत्प्रभवा सापि सिता दक्ष समुद्रगा।
तस्यां दशहरायां तु दशम्यां शुक्लपक्षके।। ७७.१५ ।।

स्नात्वा विष्णुगृहे याति नरो वै मुक्तपातकः।
नवतोया नाम नदी ततः पूर्वस्थिता पुरा।। ७७.१६ ।।

नवं नवं नवं नित्यं कुर्वन्ती सा पुनाति हि।
नवतोया ततः प्रोक्ता हिमवत्प्रभवैव सा।। ७७.१७ ।।

तस्यां स्नात्वा महामाघ्यां नरो गच्छति देवताम्।
सम्पूर्णं माघमासं तु स्नात्वा विष्णुगृहं व्रजेत्।। ७७.१८ ।।

तासां नदीनां तु पतिरगदो नाम वै नदः।
पीठपूर्वो स्थितः पुण्यो ब्रह्मपादसमुद्भवः।। ७७.१९ ।।

हिमवत्प्रभवः सोऽपि देवगन्धर्वसेवितः।
तत्र स्नात्वा च पीत्वा च नरो ब्रह्मगृहं व्रजेत्।। ७७.२० ।।

कार्तिकं सकलं मासं योऽगदाख्ये महानदे।
पीठपूर्वे स्तितः पुणेये ब्रह्मपादसमुद्भवः।।
हिमवत्प्रभवः सोऽपि देवगन्धर्वसेवितः।
तत्र स्नात्वा च पीत्वा च नरो ब्रह्मगृहं व्रजेत्।।
स्नानं करोति मनुजस्तस्य पुण्यफलं शृणु।। ७७.२१ ।।

इह लोके त्वरोगः स प्राप्य चैवोत्तमं सुखम्।
शेषे ब्रह्मगृहं प्राप्य ततो मोक्षमवाप्नुयात्।। ७७.२२ ।।

नन्दिकुण्डे नरः स्नात्वा भक्तं कुर्यात् तदा निशि।
ततः परस्मिन् दिवसे गच्छेज्जल्पीशमन्दिरम्।। ७७.२३ ।।

तत्र स्नात्वा महानद्यां जल्पीशं प्रतिपूज्य च।
तस्यां निशि हविष्याशी संयतस्तां निशां नयेत्।। ७७.२४ ।।

ततोऽनुदिवसे प्राप्ते गच्छेत् सिद्धेश्वरीं शिवाम्।
तां पूजयेत् तथाष्टम्यामुवासं तथाचरेत्।। ७७.२५ ।।

चतुर्भुजा तु सा देवी पीनोन्नतपयोधरा।
सिन्दुरपुञ्जसङ्काशा धत्ते कर्त्री च खर्परम्।। ७७.२६ ।।

दक्षिणे बामबाहुभ्यामभीतिवरदायिनी।
जटामण्डितशीर्षा च रक्तपद्मोपरिस्थिता।। ७७.२७ ।।

पंचाक्षरजपान्तादिर्मन्त्रेस्याः परिकीर्तितः।
कामख्यातन्त्रमेवास्याः पूजने तन्त्रमीरितम्।। ७७.२८ ।।

एवं कृत्वा नरो धीरः पुनर्योनौ न जायते।
जामदग्न्यभयाद् भीताः क्षत्रियाः पूर्वमेव ये।। ७७.२९ ।।

म्लेच्छच्छद्माण्युपादाय जल्पीशं शरणं गताः।
ते म्लेच्छवाचः सततमार्यवाचश्च सर्वदा।। ७७.३० ।।

जल्पीशं सेवमानास्ते गोपायन्ति च तं हरम्।
त एव तु गणास्तस्य महाराजमनोहराः।। ७७.३१ ।।

तोषयित्वा तथा सर्वान् जल्पीशं पूजयेन्नरः।
वरदाभयहस्तोऽयं द्विभुजः कुन्दसन्निभः।। ७७.३२ ।।

तत्पुरुषस्य तु मन्त्रेण पूजयेद् देवमुत्तमम्।
एवं पुण्यकरः पीठो जल्पीशस्य महात्मनः।
एवं ज्ञात्वा नरो याति शंकरस्य पुरं प्रति।। ७७.३३ ।।

।। इति श्रीकालिकापुराणे सप्तसप्ततितमोऽध्यायः।। ७७ ।।