कालिकापुराणम्/अध्यायः ७०

विकिस्रोतः तः
Jump to navigation Jump to search

।।श्रीभगवानुवाच।।
निवेदनीयं यद्‌ द्रव्यं प्रशस्तं प्रयतं तथा।
तद्भक्ष्याद्यं पञ्चविधं नैवेद्यमिति गद्यते।। ७०.१ ।।

भक्ष्यं भोज्यं च लेह्यं च पेयं चोष्यं च पञ्चमम्।
सर्वत्र चैतन्नैवेद्यमाराध्येष्टे निवेदयेत्।। ७०.२ ।।

तेषु देव्याः कथये शृणुतं तु वाम् ।
भक्ष्यादिपञ्चकैर्देवी दत्तैरेवाभितुष्यति।। ७०.३ ।।

नादत्ते विधिवत् किंचिद् दत्तं चैतन्न विद्यते ।
नागरं च कपित्थं च द्राक्षां क्रमुकमेव च।। ७०.४ ।।

करकं वरदं कोलं कुष्माण्डं पनसं तथा।
बकुलं च मधूकं च रसालाम्रातकेशरम् ।। ७०.५ ।।

आक्षोडं पिण्डखर्जूरं करुणं श्रीफलं तथा।
औदुम्बरं च पुन्नागं माधवं कर्कटीफलम्।। ७०.६ ।।

जाम्बवं पिण्डखर्जूरं बीजपूरं च जाम्बवम्।
हरीतकीमामलक षड्‌विधं नागरङ्गकम्।। ७०.७ ।।

देवकं मधुकं शीतं पटोलं क्षीरवृक्षजम्।
पाटलं शालजं वृन्तमग्निजं कदलीफलम्।। ७०.८ ।।

तिन्दुकं कुसुमं पोतं कारविन्दं करूषकम्।
गर्भावर्तं च तत्‌पुष्पं क्षीरस्राव्यमनङ्गजम्।। ७०.९ ।।

कुमुदानां पङ्कजानां फलानि विविधानि च।
वन्यानां सकलैर्देवीं फलैः पुष्पैः प्रपूजयेत्।। ७०.१० ।।

ऋते श्लेष्मातकं बिम्बशैलकं वैष्णवीं तथा।
सर्वेषां फलजातीनां मध्ये देवीप्रियं फलम्।। ७०.११ ।।

लाङ्गलं मातुलुङ्गं च करमर्दं रसालकम्।
एवं फलानि देयानि कामाख्यायै च भैरव।। ७०.१२ ।।

त्रिपुरायै तथा सम्यक् पीठदेवीभ्य एव च।
शृङ्गाटकं कशेरुं च शालूकं च मृणालकम्।। ७०.१३ ।।

शृङ्गवेरं काञ्चनं च स्थूलं कन्दं बकुलकम्।
एवमादीनि कन्दानि देव्यै सर्वाणि चोत्सृजेत्।। ७०.१४ ।।

परमान्नं पिष्टकं च यावकं कृशरं तथा।
मोदकं पृथुकादीनि कन्दुपक्वानि चोत्सृजेत्।। ७०.१५ ।।

हविःशाल्योदनं दिव्य माज्ययुक्तं सशर्करम्।
निवेदयेन्महादेव्यै सर्वाणि व्यञ्जनानि च।। ७०.१६ ।।

क्षीरादीन्यथ गव्यानि माहिष्याणि च सर्वशः।
अजाविकमृगाणां च क्षीरादीनि निवेदयेत्।। ७०.१७ ।।

मध्वादीनि च सर्वाणि गुडधानाः सितां तथा।
अन्नानि चैव पानानि मांसानि विनिवेदयेत्।। ७०.१८ ।।

सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम्।
शाकमांसादिसम्भूतं माहादेव्यै निवेदयेत्।। ७०.१९ ।।

आभिषं परमान्नं च दधिसर्पिः सशर्करम्।
महादेव्यै निवेद्याथ वाजिमेधफलं लभेत्।। ७०.२० ।।

सितासम्मिश्रितां दत्त्वा सुरां मधुसमन्विताम्।
देवीलोके चिरं स्थित्वा राजा क्षितितले भवेत्।। ७०.२१ ।।

लाङ्गलं क्रमुकं दत्त्वा रुचकं करमर्दकम्।
सौभाग्ममतुलं प्राप्य देवीलोके महीयते।। ७०.२२ ।।

माषान् मुद्‌गान् मसूरां श्चतिलान् भङ्गास्तथैव च।
यवादीनन्यथ सर्वाणि यतायोग्यं निवेदयेत्।। ७०.२३ ।।

यथा यथा भवेद्भक्ष्यं यता द्रव्यं तथा तथा।
संस्कृत्य वेशवाराद्यैर्मदेव्यै निवेदयेत्।। ७०.२४ ।।

महावीरो मुनिर्वापि ब्राह्मणश्चेतरोऽथ वा।
यद् यद् भक्ष्यं स्वमर्थं तु प्रकल्प्यं स्याद् यथा यथा।। ७०.२५ ।।

तथा तथा महादेव्यै भक्तियुक्तो निवेदयेत्।
संस्कार्याण्यथ संस्कृत्य यया संस्कारकं भवेत्।। ७०.२६ ।।

संस्कार्यश्च यथा तस्यास्तत्‌तद् दद्यात्तथा तथा।
यत्‌पूतिगन्धसंयुक्तं दग्धं भोज्यंविवर्जितम् ।। ७०.२७ ।।

तदुक्तमपि नो दद्यान्महादेव्यै कदाचन।
ताम्बूलं गन्धसंयुक्तं कर्पूराद्यधिवासितम्।। ७०.२८ ।।

सञ्चूर्णेर्जलजानां च संस्कृतं विनिवेदयेत्।
वलिदानेषु विहिता य एव मृगपक्षिणः।। ७०.२९ ।।

तेषआं मांसानि मत्स्यानां मांसानि च निवेदयेत्।
खड्गवार्ध्रीणसच्छागमांसैर्मिश्रीकृतैः कृतम्।। ७०.३० ।।

व्यञ्जनं स्वादुगन्धाढ्यं पासितं सुमनोहरम्।
सकृद् दत्त्वा महादेव्यै सार्वभौमो नृपो भवेत्।। ७०.३१ ।।

मूलकैरेणमांसेन लोहपात्रे सुसंस्कृतम्।
व्यञ्जनं गन्धिनं दत्त्वा देवीलोकमवाप्नुयात्।। ७०.३२ ।।

खर्जूरं पिण्डखर्जूरं यवचूर्णं च साज्यकम्।
वैष्णव्यै विनिवेद्यैव राजसूयफलं लभेत्।। ७०.३३ ।।

कृशरान्नप्रदानेन सौभाग्यमतुलं भवेत्।
दत्त्वैव नारिकेलाम्बु वह्निष्टोमफलं लभेत्।। ७०.३४ ।।

जाम्बवं लवली-धात्री-श्रीफलानि निवेद्य च।
वह्निष्टोमफलं लब्ध्वा देवीलोकमवाप्युयात्।। ७०.३५ ।।

द्राक्षां सितासमायुक्तां नागरङ्गकसंयुताम्।
विनिवेद्य महादेव्ये लक्ष्मीवान् रूपवान् भवेत्।। ७०.३६ ।।

धान्यं च पृथुकं देव्यै दत्त्वा श्रियमवाप्नुयात्।
इक्षुदण्डं मुद्‌गमण्डं नवनीतं निवेद्य च।। ७०.३७ ।।

सौभाग्यमुत्तमं प्राप्य देवीलोके महीयते।
नवनीतसमायुक्तं तिलं देव्यै निवेद्य च।। ७०.३८ ।।

इह कामानवाप्यैव मृतो मोक्षमवाप्नुयात्।
अभक्ष्यवर्ज्यं सर्वान्नं व्यञ्जनेन समन्वितम्।। ७०.३९ ।।

भोज्यवत् परिकल्प्याथ महादेव्यै निवेदयेत्।
रत्नतोयसमायुक्तं सलिलं नारिकेलजम्।। ७०.४० ।।

क्षोराज्यमधुभिर्मिश्रं सितादधिसमन्वितम्।
यस्तैजसेन पात्रेण पेयं देव्यै निवेदयेत्।। ७०.४१ ।।

भक्तिप्रवणचित्तेन तस्य पुण्यफलं शृणु।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च।। ७०.४२ ।।

स्थित्वा देवीपुरे धीरः सार्वभौमौ भवेत् क्षितौ।
ततः परं तु कैवल्यमाप्नोति च यथेच्छया।। ७०.४३ ।।

कलायं च सनीवारं क्वथितं दधिसंयुतम्।
महादेव्यै निवेद्यैव काममिष्टमवाप्नुयात्।। ७०.४४ ।।

मरीचं पिप्पलीकोलं जीरकं तन्तुभं तथा।
संस्कारे च समक्षे च महादेव्यै निवेदयेत्।। ७०.४५ ।।

तिन्तिडीं खण्डसंयुक्तां भक्तियुक्तो निवेद्य च।
ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात्।। ७०.४६ ।।

राजमाषं मसूरं च पालङ्गं चाथ पोतिकाम्।
कालशाकं कलायं च ब्राह्मोमूलकमेव च।। ७०.४७ ।।

वास्तूकं च कलम्बीं च कञ्चुकं हिलमोचिकाम्।
चक्रं विद्रुमपत्रं च तथैव च पुनर्नवाम्।। ७०.४८ ।।

शाकानेतान् महादेव्यै योजयेद् भक्तिसंयुतः।
सोऽतुलां श्रियमाप्नोति मम लोके महीयते।। ७०.४९ ।।

श्रद्धापरीष्टिसंस्कारभक्तिद्रव्याभिसम्भ्रमम् ।
रागाधिक्यात् फलाधिक्यं हीनाद् वै हीनतां व्रजेत्।। ७०.५० ।।

मन्त्रकालविरुद्धानि नैवेद्यानि कदाचन।
देवेभ्यो नोपयुञ्जीत गुरुताविहितानि च।। ७०.५१ ।।

राजते वाऽथ सौवर्णे ताम्रे वा प्रस्तरेऽपि च।
पद्मपत्रेऽथवा दद्यान्नैवेद्यं मत्प्रियाप्रियम्।। ७०.५२ ।।

तैजसेषु च पात्रेषु सौवर्णं ताम्रमेव वा।
प्राशनार्थमुपादद्यादर्ध्यपात्रार्थमेव वा।। ७०.५३ ।।

यज्ञदारुमयं वापि पात्रः मध्यममिष्यते।
सर्वालाभे तु माहेयं स्वहस्तघटितं यदि।। ७०.५४ ।।

एतद् वां कथितं पुत्रौ नैवेद्यं वैष्णवीप्रियम्।
कामाख्यायास्तथा देव्यास्त्रिपुराया विशेषतः।

प्रदक्षिणनमस्कारौ साम्प्रतं शृणुतं युवाम्।। ७०.५५ ।।
इति श्रीकालिकापुराणे सप्ततितमोऽध्यायः।।