कालिकापुराणम्/अध्यायः ६२
| ← अध्यायः ६१ | कालिकापुराणम् अध्यायः ६२ [[लेखकः :|]] |
अध्यायः ६३ → |
द्विषष्टितमोऽध्यायः
भगवानुवाच
कामार्थमागता यस्मान्मया सार्धं महागिरौ ।
कामाख्या प्रोच्यते देवी नीलकूटे रहोगता ।। १ ।।
कामदा कामिनी कामा कान्ता कामाङ्गदायिनी ।
कामाङ्गनाशिनी यस्मात् कामाख्या तेन चोच्यते ।। २ ।।
एतस्याः शृणु माहात्म्यं कामाख्याया विशेषतः ।
या सा प्रकृतिरूपेण जगत्सर्वं नियोजयेत् ।। ३ ।।
मधुकैटभनाशाय महामायाविमोहितः ।
यदा संयुयुधे विष्णुस्तदैषामोहयद्धरिम् ।। ४ ।।
दैनन्दिने तु प्रलये प्रसुप्ते गरुडध्वजे ।
तस्य श्रवणविड्जातावसुरौ मधुकैटभौ ।। ५ ।।
कूर्मपृष्ठे स्थिता देवी विशीर्णेवाभवज्जलैः ।
तां विशीर्णां योगनिद्रा महामाया व्यलोकयत् ।। ६ ।।
तां वै दृढतरां पृथ्वीं कर्तुं प्रति तदेश्वरी ।
उपायं चिन्तयामास कथं पृथ्वी भवेद्दृढा ।। ७ ।।
इदानीमाज्यवत् पृथ्वी प्रवृत्ता कोमला जलैः ।
सृष्टिकाले जनान् सोढुं कथं शक्ता भविष्यति ।। ८ ।।
इति सञ्चिन्त्य सा माया जगतां सृष्टिरूपिणी ।
उपगम्य तदा विष्णुमाससाद सुनिद्रितम् ।। ९ ।।
तं तु सुप्तं समासाद्य जगन्नाथं जगत्पतिम् ।
वामहस्तकनिष्ठाग्रं तस्य कर्णे न्यवेशयत् ।। १० ।।
निवेश्य नखराग्रेण प्रोद्धृत्य श्रावणं मलम् ।
चूर्णीचकार सा देवी योगनिद्रा जगत्प्रसूः ।। ११ ।।
तत्कर्णमलचूर्णेभ्यो मधुर्नामासुरोऽभवत् ।
ततो दक्षिणहस्तस्य कनिष्ठाग्रं तु दक्षिणे ।। १२ ।।
कर्णे न्यवेशयद् देवी तस्मादप्युद्धृतं मलम् ।
तच्चापि क्षोदयामास करशाखाद्वयेन तु ।। १३ ।।
ततोऽभूत् कैटभो नाम बलवान् सोऽसुरो महान् ।
उत्पन्नः स च पानार्थं यस्मान्मृगितवान्मधु ।। १४ ।।
ततस्तस्य महादेवी मधुनामाकरोत्तदा ।
उत्पन्नः कीटवद्भाति महामायाकरे यतः ।। १५ ।।
ततोऽस्य कैटभं नाम महामाया तदाकरोत् ।
आवुवाच महामाया युध्यतां हरिणा सह ।। १६ ।।
युवां नो श्रद्धयेवात्र भवन्तौ निहनिष्यति ।
युवां यदा प्रभाषेथे आवां विष्णो वधान भो ।। १७ ।।
तदैवायं युवां हन्ता नान्यथा हरिरप्यथ ।
महामायामोहितौ तौ विष्णुगात्रं तदा गतौ ।। १८ ।।
भ्रममाणौ ददृशतुर्नाभिपद्मोत्थितं विधिम् ।
तमूचतुस्तौ धातारं हनिष्यावोऽद्य त्वामिह ।। १९ ।।
तं जागरय वैकुण्ठं यदि जीवितुमिच्छसि ।
ततो ब्रह्मा महामायां योगनिद्रां जगत्प्रसूम् ।। २० ।।
प्रसादयामास तदा स्तुतिभिर्बहुभिर्भयात् ।
चिरं स्तुताथ सा देवी ब्रह्मणा जगदात्मना ।। २१ ।।
प्रसन्ना तरसा व्यग्रमुवाच च यथाविधि ।
किमर्थं संस्तुता चाहं किं करिष्याम्यहं तव ।। २२ ।।
तद् वद त्वं महाभाग करिष्याम्यहमद्य ते ।
ततस्तेन महामाया प्रोक्ता धात्रा महात्मना ।। २३ ।।
प्रबोधय जगन्नाथं यावत्रो मां हनिष्यतः ।
सम्मोहय दुराधर्षावसुरौ मधुकैटभौ ।। २४ ।।
इत्युक्ता सा तदा देवी ब्रह्मणा जगदात्मना ।
बोधयामास वैकुण्ठं मोहयामास तौ तदा ।। २५ ।।
ततः प्रबुद्धः कृष्णस्तु ददर्श भयशालिनम् ।
ब्रह्माणं तौ तदा घोरावसुरौ मधुकैटभौ ।। २६ ।।
ततस्ताभ्यां स युयुधे ह्यसुराभ्यां जनार्दन ।
नाशकद्धारितुं वीरावसुरौ मधुकैटभौ ।। २७ ।।
अनन्तोऽपि फणाग्रेण तान्नो धर्तुं क्षमोऽभवत् ।
युध्यमानान् महावीरान् वैकुण्ठ मधुकैटभान् ।। २८ ।।
अथ ब्रह्मा शिलारूपां स्थितिशक्तिं तदाकरोत् ।
अर्धयोजनविस्तीर्णामर्धयोजनमायताम् ।। २९ ।।
तस्यां शिलायां गोविन्दो युयुधे नृपसत्तम ।
सह ताभ्यां शिला सा तु प्रविवेश जलान्तरम् ।। ३० ।।
तस्यां तु शक्त्यां मग्नायां तोये स युयुधे हरिः ।
पञ्चवर्षसहस्राणि बाहुयुद्धैर्निरन्तरम् ।। ३१ ।।
यदा वै नाशकद् हन्तुं तौ विष्णुर्जगतां पतिः ।
परां चिन्तां तदावाप विधातापि भयात् ततः ।। ३२ ।।
ततस्तावेव तं विष्णुमूचतुर्बलदर्पितौ ।
पुनः पुनर्जगन्मातृ-महामाया-विमोहितौ ।। ३३ ।।
तुष्टौ स्वस्त्वन्नियुद्धेन वरं वरय माधव ।
तवेष्टं सम्प्रदास्यावः सत्यमेतद् ब्रुवोऽधना ।। ३४ ।।
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ।
उवाच तौ युवां वध्यौ भवतां मे महाबलौ ।। ३५ ।।
इति देहि वरं मह्यं दातव्यं यदि विद्यते ।
तौ तदा प्राहतुर्नाशस्त्वत्तो नौ शोभनोऽधुना ।। ३६ ।।
तत्रावां जहि नो यत्र तोयं सम्प्रति विद्यते ।
तयोस्तद्वचनं श्रुत्वा माधवो जगतां पतिः ।। ३७ ।।
ब्रह्माणं मां च शीघ्रेण प्राहेदं चात्मसंज्ञया ।
ब्रह्मशक्तिशिलां शीघ्रमुद्धृत्य ध्रियतां यथा ।। ३८ ।।
तत्र स्थित्वा महाघोरौ हनिष्यामि महाबलौ ।
ततो ब्रह्मा ह्यहं चैव उद्दधार शिलां तु ताम् ।। ३९ ।।
तस्यां मध्ये पूर्वभागे ह्यह पर्वतरूपधृक् ।
ऊर्ध्वे स्थित्वा शिलां भित्त्वा प्रविवेश रसातलम् ।। ४० ।।
ऐशान्यामभवत् कूर्मः पर्वतश्चाग्रहीच्छिलाम् ।
वायव्यां तथानन्तो नैर्-ऋत्यां च सुरेश्वरी ।। ४१ ।।
महामाया जगद्धात्री शैलरूपप्रधारिणी ।
आग्नेययां च तथा विष्णुरेकरूपेण संस्थितः ।। ४२ ।।
ब्रह्मशक्तिशिलां गृह्णन् भगवान् परमेश्वरः ।
मध्ये ब्रह्मा त्वहं चैव वराहश्च तथापरः ।। ४३ ।।
ततो वराहपृष्ठस्य चरमे जगतांपतिः ।
स्थित्वा शिलामवष्टभ्य ब्रह्मशक्तिमधोगताम् ।। ४४ ।।
वामोरुजघने यत्नादारोप्य शिरसी तयो ।
जगदाधारभूतः स सर्वयत्नेन संयुतः ।। ४५ ।।
सर्वर्बलैः समाक्रम्य चिच्छेद च पृथक् पृथक् ।
मधुकैटभयोः सम्यग् ग्रीवयोः पृथिवीमृते ।। ४६ ।।
तस्य चाक्रमत स्थेम्ना ब्रह्मशक्तिरधोगता ।
ध्रियमाणापि देवौघैर्यत्नादपि मुहुर्मुहुः ।। ४७ ।।
ततस्तयोस्तु मृतयोः शरीरे जगतां पतिः ।
ब्रह्मशक्तिं समुद्धृत्य न्यधात् तस्यां प्रयत्नतः ।। ४८ ।।
उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः ।
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ।। ४९ ।।
मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा ।
अद्यापि पृथिवी देवी देवराक्षसमानुषैः ।। ५० ।।
अथ काले बहुतिथे व्यतीते प्राणिसर्जने ।
अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् ।। ५१ ।।
सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः ।
अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् ।। ५२ ।।
ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् ।
न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा ।। ५३ ।।
ततो मोहं समाक्रान्ततामादाय मृतामहम् ।
प्रातः पीठवरं तं तु भ्रममाण इतस्ततः ।। ५४ ।।
तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः ।
तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः ।। ५५ ।।
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् ।
पतितं तत्र सा देवी महामाया व्यलीयत ।। ५६ ।।
लीनायां योगनिद्रायां मयि पर्वतरूपिणिः ।
स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले ।। ५७ ।।
स तु शैलो महातुङ्गः पातालतलमाविशत् ।
तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् ।। ५८ ।।
स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः ।
शैलरूपोऽभवत् तेन शैलरूपेण मामधात् ।। ५९ ।।
ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि ।
स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः ।। ६० ।।
उद्धृतायां पृथिव्यां तु तयोर्मेदोविलेपनैः ।
सुदृढामकरोत् पृथ्वीं क्लेदितां तोयराशिभिः ।। ४९ ।।
मेदोविलेपनाद् यस्माद् गीयते मेदिनी च सा ।
अद्यापि पृथिवी देवी देवराक्षसमानुषैः ।। ५० ।।
अथ काले बहुतिथे व्यतीते प्राणिसर्जने ।
अगृह्णां दक्षतनयां भार्यार्थेऽहं वधूं वराम् ।। ५१ ।।
सा मेऽभूत् प्रेयसी भार्या प्रादाय समयं पितुः ।
अनिष्टकारी त्वं चेत् स्याः प्राणांस्त्यक्ष्ये तदा त्वहम् ।। ५२ ।।
ततो यज्ञे समस्तांस्तु स च वव्रे चराचरम् ।
न मां नापि सतीं वव्रे तदानीष्टान्मृता तु सा ।। ५३ ।।
ततो मोहं समाक्रान्ततामादाय मृतामहम् ।
प्रातः पीठवरं तं तु भ्रममाण इतस्ततः ।। ५४ ।।
तस्यास्त्वङ्गानि पर्यायात् पतितानि यतो यतः ।
तत् तत् पुण्यतमं जातं योगनिद्राप्रभावतः ।। ५५ ।।
तस्मिंस्तु कुब्जिकापीठे सत्यास्तद्योनिमण्डलम् ।
पतितं तत्र सा देवी महामाया व्यलीयत ।। ५६ ।।
लीनायां योगनिद्रायां मयि पर्वतरूपिणिः ।
स नीलवर्णः शैलोऽभूत्पतिते योनिमण्डले ।। ५७ ।।
स तु शैलो महातुङ्गः पातालतलमाविशत् ।
तस्या आक्रमणाद्गाढं ह्यन्तस्थं द्रुहिणो ह्यधात् ।। ५८ ।।
स तु पूर्वं ब्रह्मशक्तिं शिलां धर्तुं चतुर्मुखः ।
शैलरूपोऽभवत् तेन शैलरूपेण मामधात् ।। ५९ ।।
ब्रह्मा पर्वतरूपी स मयि पर्वतरूपिणि ।
स शक्तोऽधोऽगमद् गाढमाक्रान्तो मायया विधेः ।। ६० ।।
ततो वराहः संसक्तो मयि मां स तु माधवः ।
शैलरूपः शैलरूपं धर्तुं समुपचक्रमे ।। ६१ ।।
सोऽप्यधोऽयान्मया सार्धं तदा पर्वतरूपिणी ।
आक्रम्य देवीं पृथिवीं स्थितो भुवि निखानितः ।। ६२ ।।
शतं शतं योजनानां तुङ्गमासीद् गिरित्रयम् ।
तदाक्रान्तं महादेव्या सर्वमेव ह्यधोगतम् ।। ६३ ।।
क्रोशमात्रस्थितं तुङ्गशेषं तत्त्रितयस्य तु ।
एका समस्तजगतां प्रकृतिः सा यतस्ततः ।। ६४ ।।
ब्रह्मविष्णुशिवैर्देवैर्धृता सा जगतां प्रसूः ।
तत्र पूर्वो ब्रह्मशैलः श्वेत इत्युच्यते सुरैः ।। ६५ ।।
मद्रूपधारी शैलस्तु नील इत्युच्यते तथा ।
स तु मध्यगतः पीठस्त्रिकोणोलूखलाकृतिः ।। ६६ ।।
विभ्राजमानः सततं मध्ये ब्रह्मवराहयोः ।
वराहः शैलरूपो यः स चित्र इति कथ्यते ।। ६७ ।।
सर्वेषां संस्थितः पश्चाद् दीर्घः सर्वेभ्य एव तु ।
ऐशान्यां योऽभवत् कूर्मः शैलरूपो महाद्युतिः ।। ६८ ।।
मणिकर्णः स नाम्ना तु ख्यातो देवौघसेवितः ।
योऽनन्तरूपः शैलस्तु वायव्यां समवस्थितः ।। ६९ ।।
मणिपर्वतसंज्ञोऽसौ पर्वतो माधवप्रियः ।
महामाया गिरिर्यस्तु नैर्-ऋत्यां समवस्थितः ।। ७० ।।
स गन्धमादनो नाम्ना सर्वदा शङ्करप्रियः ।
वराहपृष्ठचरमे यतश्छिन्नौ महासुरौ ।। ७१ ।।
हरिणा तत्र संयातः पाण्डुनाथ इति स्मृतः ।
ब्रह्मशक्तिशिलायास्तु पूर्वभागे तु मध्यतः ।। ७२ ।।
यस्तु पर्वतरूपोऽहं स तु भस्मचलाह्वयः ।
एवं पुण्यतमे पीठे कुब्जिकापीठसंज्ञके ।। ७३ ।।
नीलकूटे मया सार्धं देवी रहसि संस्थिता ।
सत्यास्तु पतितं तत्र विशीर्णं योनिमण्डलम् ।। ७४ ।।
शिलात्वमगमच्छैले कामाख्या तत्र संस्थिता ।
संस्पृश्य तां शिलां मर्त्यो ह्यमरत्वमवाप्नुयात् ।। ७५ ।।
अमर्त्यो ब्रह्मसदनं तत्स्थो मोक्षमवाप्नुयात् ।
तस्याः शिलाया माहात्म्यं यत्र कामेश्वरी स्थिता ।। ७६ ।।
अद्भुतं यस्य गुह्ये तु लोहं भस्म भवेद्गतम् ।
सा चापि प्रत्यहं तत्र पञ्चमूर्तिधराभवत् ।। ७७ ।।
मोहार्थं सर्वलोकानां ममापि प्रीतये शिवा ।
अहं पञ्चमुखेनाशु पञ्चभागे व्यवस्थितः ।। ७८ ।।
ईशानः पूर्वभागस्थः कामेश्वर्याः प्रधानतः ।
ऐशान्यां वै तत्पुरुषो ह्यघोरस्तस्य सन्निधौ ।। ७९ ।।
सद्योजातोऽथ वायव्यां वामदेवस्तु सङ्गतः ।
देव्याश्चापि नरश्रेष्ठ पञ्चरूपाणि भैरव ।। ८० ।।
शृणु वेताल गुह्यानि देवैरपि सदैव हि ।
कामाख्या त्रिपुरा चैव तथा कामेश्वरी शिवा ।। ८१ ।।
शारदाथ महालोका कामरूपगुणैर्युता ।
मयि लिङ्गत्वमापन्ने शिलायां योनिमण्डले ।। ८२ ।।
सर्वे शिलात्वमगमच्छैलरूपाश्च निर्जराः ।
यथाहं निजरूपेण रेमे वै सह कामया ।। ८३ ।।
शिलारूपप्रतिच्छन्नास्तथा सर्वास्तु देवताः ।
शिलारूपप्रतिच्छन्नाः शैले शैले व्यवस्थिता ।। ८४ ।।
रमन्ते च स्वरूपेण नित्यं रहसि सङ्गताः ।
ब्रह्मा विष्णुर्हरश्चात्र दिक्पालाः सर्व एव ते ।। ८५ ।।
अन्येऽप्यत्र स्थिता देवाः सानुकूलाः सदा मयि ।
उपासितुं तदा देवीं कामाख्यां कामरूपिणीम् ।। ८६ ।।
नीलशैलस्त्रिकोणस्तु मध्यनिम्नः सदाशिवः ।
तन्मध्ये मण्डलं चारु त्रिंशच्छक्तिसमन्वितम् ।। ८७ ।।
उहा मनोभवा तत्र मनोभवविनिर्मिता ।
योनिस्तस्यां शिलायां तु शिलारूपा मनोहरा ।
वितस्तिमात्रविस्तीर्णा एकविंशाङ्गुलीयुता ।। ८८ ।।
क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी ।
अहामाया जगद्धात्री मूलभूता सनातनी ।। ८९ ।।
सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी ।
तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी ।। ९० ।।
तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः ।
पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः ।। ९१ ।।
तासां तु पीठनामानि शृणु चैकत्र भैरव ।
गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी ।। ९२ ।।
कोटीश्वरी वनस्था तु पाददुर्गा तथापरा ।
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी ।। ९३ ।।
स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः ।
सर्वतीर्थानि चैकत्र जलरूपाणि भैरव ।। ९४ ।।
स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा ।
विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत ।। ९५ ।।
कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः ।
लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते ।। ९६ ।।
ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती ।
गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः ।। ९७ ।।
सिद्धः स नाम्ना विख्याता द्वारे देव्याः प्रियः सुतः ।
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ।। ९८ ।।
भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरिर्यतः ।। ९९ ।।
जघने शिरसी कृत्वा जघान मधुकैटभौ ।
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा ।। १०० ।।
ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् ।
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ।। १०१ ।।
क्रमसूक्ष्मविनम्रा सा भस्मशैलानुगामिनी ।
अहामाया जगद्धात्री मूलभूता सनातनी ।। ८९ ।।
सिन्दूरकुङ्कुमारक्ता सर्वकामप्रदायिनी ।
तस्यां योनौ पञ्चरूपा नित्यं क्रीडति कामिनी ।। ९० ।।
तत्राष्टौ योगिनीर्नित्या मूलभूताः सनातनीः ।
पूर्वोक्ताः शैलपुत्र्याद्याः स्थिता देव्याः समन्ततः ।। ९१ ।।
तासां तु पीठनामानि शृणु चैकत्र भैरव ।
गुप्तकामा च श्रीकामा तथान्या विन्ध्यवासिनी ।। ९२ ।।
कोटीश्वरी वनस्था तु पाददुर्गा तथापरा ।
दीर्घेश्वरी क्रमादेव प्रकटा भुवनेश्वरी ।। ९३ ।।
स्वयोगिन्यः पीठनाम्ना ख्याता अष्टौ च देवताः ।
सर्वतीर्थानि चैकत्र जलरूपाणि भैरव ।। ९४ ।।
स्थितानि नाम्ना सौभाग्यसरस्यल्पापि पुण्यदा ।
विष्णुस्तु तीरे तस्यास्तु नाम्ना कमल इत्युत ।। ९५ ।।
कामुकाख्यस्तु वटुकः कामाख्याभ्यर्णसंस्थितः ।
लक्ष्मीः सरस्वती देव्यौ देव्याः सङ्गे व्यवस्थिते ।। ९६ ।।
ललिताख्याभवल्लक्ष्मीर्मातङ्गी तु सरस्वती ।
गणाध्यक्षः पूर्वभागे तस्य शैलस्य संस्थितः ।। ९७ ।।
सिद्धः स नाम्ना विख्यातो द्वारे देव्याः प्रियः सुतः ।
कल्पवृक्षः कल्पवल्ली तिन्तिडी चापराजिता ।। ९८ ।।
भूत्वा तस्मिन् महाशैले स्थितो देव्या धृतः प्रिये ।
वराहः पाण्डुनाथाख्यः स्थितस्तत्र हरियतः ।। ९९ ।।
जघने शिरसी कृत्वा जघान मधुकैटभौ ।
तस्यासन्ने ब्रह्मकुण्डं ब्रह्मणा निर्मितं पुरा ।। १०० ।।
ईशानाख्यः शिवो यत्र तत् सिद्धेश्वरसंज्ञकम् ।
शिलारूपं सिद्धकुण्डं मध्यस्थं विद्धि भैरव ।। १०१ ।।
तस्यासन्ने गयाक्षेत्रं क्षत्रं वाराणसी तथा ।
योनिमण्डलसंकाशं कुण्डं भूत्वा व्यवस्थितम् ।। १०२ ।।
तत्रैवामृतकुण्डं तु सुधासङ्घप्रपूरितम् ।
मम प्रियार्थमिन्द्रेण स्थापितं सह निर्जरैः ।। १०३ ।।
वामदेवाह्वयं शीर्षं श्रीकामेश्वरसंज्ञकम् ।
कामकुण्डं महापुण्यं तस्यासन्ने व्यवस्थितम् ।। १०४ ।।
केदारसंज्ञकं क्षेत्रं मध्यस्थं सिद्धकामयोः ।
दीर्घं चतुर्दशव्यामच्छायाच्छत्राह्वयं तु तत् ।। १०५ ।।
तस्यासन्ने शैलपुत्री गुप्तकामाह्वया तु सा ।
गुप्तकुण्डस्य मध्यस्था कामेशग्रावणि सङ्गता ।। १०६ ।।
कामेश्वरशिलासक्ता कामाख्यासंज्ञिता सदा ।
पूर्वभागेण संसक्ता योनेस्तु परमार्गतः ।। १०७ ।।
कामकामाख्ययोर्मध्ये कालरात्रिर्व्यवस्थिता ।
पीठे दीर्घेश्वरो नाम्ना सीमाभागे प्रचण्डिका ।। १०८ ।।
कामाख्याप्रस्तरप्रान्ते कूष्माण्डी नाम योगिनी ।
पीठे कोटीश्वरी नाम्ना योनिरूपेण संस्थिता ।। १०९ ।।
यच्चाघोराह्वयं शीर्षं तत्कामायास्तु दक्षिणे ।
पीठे भैरवनामा तु गदिते परमार्थिभिः ।। ११० ।।
चामुण्डा भैरवी नाम्ना भैरवासन्नसंस्थिता ।
नायिका कामदा भक्तेश्चण्डमुण्डविनाशिनी ।। १११ ।।
कामाभैरवयोर्मध्ये स्वयं देवी सुरापगा ।
हिताय सर्वजगतां देव्यास्तु प्रीतये सदा ।। ११२ ।।
सद्योजाताह्वयं शीर्षं पीठे त्वाम्रातकेश्वरम् ।
भैरवाख्ये गह्वरे तु स्थितं देवर्षिसेवितम् ।। ११३ ।।
विद्धि तत्रैव दुर्गाख्यां नायिकां योनिरूपिणीम् ।
सिद्धकामेश्वरी नाम्ना ख्याता देवेष नित्यशः ।। ११४ ।।
अजीर्णपत्रः सुच्छायो वृक्षस्तत्र सुसंस्थितः ।
आम्रातकः कल्पवृक्षः कल्पवल्लीसमन्वितः ।। ११५ ।।
पीठे तु सिद्धगङ्गाख्या स्वयं गङ्गा समुत्थिता ।
आम्रातकस्य निकटे मम प्रीतिविवृद्धये ।। ११६ ।।
पुष्कराख्यं तु तत्क्षेत्रं पीठे त्वाम्रातकाह्वयम् ।
ऐशान्यां तत्पुरुषाख्यं मम शीर्षं व्यवस्थितम् ।। २१७ ।।
भुवनेश्वरनाम्ना तु पीठे ख्यातं च भैरव ।
गह्वरं भुवनेशस्य भुवनानन्दसंज्ञकम् ।। ११८ ।।
तस्यासन्ने तु सुरभिः शिलारूपेण संस्थिता ।
कामधेनुरिति ख्याता पीठे कामप्रदायिनी ।। ११९ ।।
योऽसौ शरभमूर्तिर्मे मध्यखण्डप्रचण्डकः ।
महाभैरवनामाभूत् कोटिलिङ्गाह्वयस्तु सः ।। १२० ।।
मूर्तिभिः पञ्चभिः पञ्चभागेषु समवस्थितः ।
अहं पश्चादतिप्रात्या भैरवाख्यः स्थितो धरे ।। १२१ ।।
महागौरी तु या देवी योगिनी सिद्धरूपिणी ।
सा ब्रह्मपर्वते चास्ते शिलारूपेण चोर्ध्वतः ।। १२२ ।।
अतीवरूपसम्पन्ना नाम्ना सा भुवनेश्वरी ।
यत्र ब्रह्मा तु संसक्तो मयि पर्वतरूपिणि ।। १२३ ।।
कल्पवल्ली तु तत्रास्ते नाम्ना सा त्वपराजिता ।
कामधेनुरदूरस्था पूर्वभागे महेश्वरी ।। १२४ ।।
श्रीकामाख्या योनिरूपा चण्डिका सा तु योगिनी ।
आग्नेययां विद्धि तां संस्थां सर्वकामप्रदां शुभाम् ।। १२५ ।।
योगिनी चण्डघण्टाख्या पीठेऽभूद् विन्ध्यवासिनी ।
योगिनी स्कन्दमाता तत्पीठेऽभूद् वनवासिनी ।। १२६ ।।
कात्यायनी पीठनाम्ना पाददुर्गेति गद्यते ।
नैर्-ऋत्यां नीलशैलस्य प्रान्ते सा संस्थिता शिवा ।। १२७ ।।
योऽसौ नन्दी मम तनुः स तु पाषाणरूपधृक् ।
संस्थितः पश्चिमद्वारि हनुमान् पीठनामतः ।। १२८ ।।
और्व उवाच
इति तस्य वचः श्रुत्वा शम्भोरमिततेजसः ।
भैरवस्य तु पप्रच्छ वेतालोऽपि समुत्सुकः ।। १२९ ।।
वेतालभैरवावूचतुः
श्रुतः पीठक्रमस्तात देव्याः पूजाक्रमस्तथा ।
श्रोतुमिच्छामि मूर्तीनां पञ्चानामपि शङ्कर ।। १३० ।।
रूपाणि पञ्चमूर्तीनां मन्त्राणि च समन्ततः ।
तत्र मन्त्राणि तन्त्राणि वद नौ वृषभध्वज ।। १३१ ।।
ईश्वर उवाच
शृणु वक्ष्यामि वेताल मन्त्रं तन्त्रं पृथक् पृथक् ।
कामाख्यापञ्चमूर्तीनां रूपं कल्पं च भैरव ।। १३२ ।।
कामस्थं काममध्यस्थं कामदेवपुटीकृतम् ।
कामेन कामयेत् कामी कामं कामे नियोजयेत् ।। १३३ ।।
ज्येष्ठं तु व्यञ्जनं ब्रह्मन् परः शान्तं तदुच्यते ।
प्रथमं क्रमतः कुर्यात्तत्संसक्तं सुधामयम् ।। १३४ ।।
प्रजापतिस्तथा शक्रबीजं संस्थादिसंयुतम् ।
चन्द्रार्धसहितं बीजं कामाख्यायाः प्रचक्ष्यते ।। १३५ ।।
इदं धर्मप्रदं काममोक्षार्थानां प्रदायकम् ।
इदं रहस्यं परममन्यत्र तु सुदुर्लभम् ।। १३६ ।।
श्रोत्रेणोद्यम्य शृणुयाद् गुरुवक्त्रान्नरोत्तमः ।
स कामानखिलान् प्राप्य शिवलोके महीयते ।। १३७ ।।
श्रुतिसकलितसारं देवकण्ठौघहारं
सकलकलुषहारि श्रीधरानन्दकारि ।
सुनयसुभगगोभिभ्राजयेद्यद्यशोभि-
स्तदिह शिवसमस्तं विघ्नहन्त्रीङ्गितार्थम् ।। १३८ ।।
नयनकरभकारि ध्यानिनां चोपकारि
प्रणयिसुनयसंस्थं देवसत्याह्निकस्थम् ।
परमपदविशीर्णं सर्वदौर्भाग्यजीर्णं शृणु शिवपदरूपं
कामदेव्याः स्वरूपम् ।। १३९ ।।
श्रवणगगनमात्रा चार्दितं यस्य नाम
प्रभवति बहुभूत्यै नीतिमार्गैकधाम ।
सुरगणगणनायां कुण्डली यस्य शक्ति-
स्तदिह परमरूपं चिन्तनीयं हताशैः ।। १४० ।।
रविशशियुतकर्णा कुङ्कुमापीतवर्णा
मणिकनकविचित्रा लोलकर्णा त्रिनेत्रा ।
अभयवरदहस्ता साक्षसूत्रप्रशस्ता
प्रणतसुरनरेशा सिद्धकामेश्वरी सा ।। १४१ ।।
अरुणकमलसंस्था रक्तपद्मासनस्था
नवतरुणशरीरा मुक्तकेशी सुहारा ।
शवहृदि पृथुतुङ्गस्तन युग्मा मनोज्ञा
शिशुरविसमवस्त्रा अर्वकामेश्वरी सा ।। १४२ ।।
विपुलविभवदात्री स्मेरवक्त्रा सुकेशी
अलितनखरदन्ता सामिचन्द्रावनम्रा ।
मनसिजदृषदिस्था योनिमुद्रालसन्ती
अवनगमनशक्ता संश्रुतस्थानहागा ।। १४३ ।।
चिन्त्या चैवं विद्युदग्निप्रकाशा
धर्मार्थाद्यं साधकैर्वाञ्छितार्थैः ।
कल्प्यन्तु त्रीण्यर्यतदं सम्यगर्यं
वेताल त्वं भैरव श्रीप्रतिष्ठम् ।। १४४ ।।
तस्मिन्नर्धं मण्डलं यद्धि पश्चात्
कार्यं चैतच्चन्दनैः पुष्पयुक्तैः ।
पर्यायो यो लेखने पूर्वमुक्तो देवीतन्त्रे सोऽत्र पूर्व विधेयः ।। १४५ ।।
इति श्रीकालिकापुराणे कामाख्यापूजातन्त्रे द्विषष्टितमोऽध्यायः ।। ६२ ।।