कालिकापुराणम्/अध्यायः ५३

विकिस्रोतः तः
Jump to navigation Jump to search

।।श्रीभगवानुवाच।।
ततो लमिति मन्त्रेण अर्घपात्रस्य मण्डलम्।
चतुष्कोणं विधायाशु द्वारपद्मविवर्जितम्।। ५३.१ ।।

ओं ह्रीं श्रीमितिमन्त्रेण अर्घपात्रं तु मण्डले।
विन्यसेत् प्रथमं तत्र पूजयित्वा समिध्यति ।। ५३.२ ।।

ओं ह्री ह्रौमितिमन्त्रेण गन्धपुष्पे तथा जलम्।
अर्घपात्रे क्षिपेत् तत्र मण्डलं विन्यसेत् ततः।। ५३.३ ।।

पूर्ववन्मण्डलं कृत्वा अर्घपात्रे ततो जलैः।
त्रिभागैः पूरयेत् पात्रं पुष्पं तत्र विनिःक्षिपेत् ५३.४ ।।

ततो ह्रीमिति मन्त्रेण आसनं पूजयेत् स्वकम्।
ततः क्षौमितिमन्त्रेण आत्मानं पूजयेद् बुधः।। ५३.५ ।।

गन्धैः पुष्पैः शिरोदेशे ततः पूजां समाचरेत् ।
ओं ह्रीं स इति मन्त्रेण पुष्पं हस्ततलस्थितम्।। ५३.६ ।।

संमृज्य सव्यहस्तेन घ्रात्वा वामकरेण तु।
ऐशान्यां निक्षिपेदेतत् पूर्वमन्त्रेण कोविदः।। ५३.७ ।।

रक्तं पुष्पं गृहीत्वा तु कराभ्यां पाणिकच्छपम्।
बद्‌ध्वा कुर्यात् ततः पश्चाद् दहनप्लवनादिकम्।। ५३.८ ।।

वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठिकाम् ।
तता दक्षिणतर्जन्यां वामाङ्गष्ठं नियोजयेत्।। ५३.९ ।।

उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः।
अङ्गुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च।। ५३.१० ।।

वामस्य पितृतीर्थेन मध्यमानामिके तथा।
अधोमुखे तु ते कुर्याद् दक्षिणस्य करस्य च।। ५३.११ ।।

कूर्मपृष्ठसमं पृष्ठं कुर्याद् दक्षिणहस्ततः ।
एवं बद्धः सर्वसिद्धिं ददाति पाणिकच्छपः।। ५३.१२ ।।

कुर्यात् तद्‌धृदयासन्नं निमील्य नयनद्वयम्।
समं कायशिरोग्रीवं कृत्वा स्थिरमना बुधः।। ५३.१३ ।।

ध्यानं समारभेद् देव्या दाहप्लवनपूर्वकम्।
अग्निं वायौ विनिक्षिप्य वायुं तोये जलं हृदि।। ५३.१४ ।।

हृदयं निश्चले दत्त्वा आकाशे निक्षिपेत्स्वनम् स्वकम् ।
ॐ हूं फडिति मन्त्रेण भित्त्वा रन्ध्रं तु मस्तके।। ५३.१५ ।।

शब्देन सहितं जीवमाकाशे स्थापयेत् ततः।
वाय्वग्नियमशक्राणां बीजेन वरुणस्य च।। ५३.१६ ।।

परास्थानपराश्चैतैः सार्धचन्द्रैः सविन्दुकैः।
शोषं दाहं तथोच्छादं पीयूषासेवनं परम्।। ५३.१७ ।।

यथाक्रमेण कर्तव्यं चिन्तामात्रं विशुद्धये।
ततस्तु देवीबीजेन अणुं जाम्बूनदाकृतिम्।। ५३.१८ ।।

तत्रासाद्य द्विधा कुर्यात् उम् ह्रीं श्रीमिति मन्त्रकाः।
तदूर्ध्वभागेषु हृद्लोकं स्वर्गं च खं तथा।। ५३.१९ ।।

निष्पाद्य शेषभागेन भुवं पातालवारिणि धारिणीम् ।
चिन्तयेत्तत्र सर्वाणि सप्तद्वीपां च मेदिनीम्।। ५३.२० ।।

तत्तेषु सागरांस्तांस्तु स्वर्णद्वीपं विचिन्तयेत्।
तन्मध्ये रत्नपयङ्क रत्नमण्डपसंस्थितम्।। ५३.२१ ।।

आकाशगङ्गातोयोधैः सदैव सेवितं शुभम्।
तत्पर्यङ्के रक्तपद्मं प्रसन्नं सर्वदाशिवम्।। ५३.२२ ।।

चिन्तयेत् स्वर्णमानाङ्कं सप्तपातालनालकम्।
आब्रह्मभुवनस्पर्शि सुवर्णाचलकर्णिकम्।। ५३.२३ ।।

तत्रस्थितां महामायां ध्यायेदेकाग्रमानसः।
शोणपद्मप्रतीकाशां मुक्तमूर्धजलम्बिनीं।। ५३.२४ ।।

चलत्काञ्चनामारुह्य कुण्डलोज्ज्वलशालिनीम्।
सुवर्णरत्नसम्पन्न द्वयधारिणीम्।। ५३.२५ ।।

शुक्लकृष्णारुणैर्नेत्रै स्त्रिभिश्चारुविभूषिताम्।
सन्ध्याचन्द्रसमप्रख्य-कपोलां लोललोचनाम्।। ५३.२६ ।।

विपक्व दाडिमीबीजदन्तान् सुभ्रू योगोज्ज्वलाम्।
बन्धूकदन्तवसनां शिरीषप्रभनासिकाम्।। ५३.२७ ।।

कम्बुग्रीवां विशालाक्षीं सूर्यकोटिसमप्रभाम्।
चतुर्भुजां विवसनां पीनोन्नतपयोधराम्।। ५३.२८ ।।

दक्षिणोर्ध्वेन निस्त्रिंशत्परेण सिद्धसूत्रकम्।
बिभ्रतीं वामहस्ताभ्यामभीति वरदायिनीम्।। ५३.२९ ।।

निम्ननाभि क्रमायातां क्षीणमध्यां मनोहराम्।
आनमन्नागपाशोरूं गुप्तगुल्फां सुपार्ष्णिकाम्।। ५३.३० ।।

बद्धपर्यङ्कसङ्कल्पां निवीरासनराजिताम्।
गात्रेण रत्नसंस्तम्भं सम्यगालम्ब्य संस्थिताम्।। ५३.३१ ।।

किमिच्छसीति वचनं व्याहरन्तीं मुहुर्मुहुः।
पञ्चाननं पुरःसंस्थं निरीक्षन्तीं सुवाहनम् ।। ५३.३२ ।।

मुक्तावली स्वर्णरत्नहा रकङ्कणादिभिः।
सर्वैरलङ्कारगणैरुज्ज्वलां सस्मिताननाम्।। ५३.३३ ।।

सूर्यकोटिप्रतीकाशां सर्वलक्षणसंयुताम्।
नवयौवनसम्पन्नां तथा सर्वाङ्गसुन्दरीम्।। ५३.३४ ।।

ईदृशीमम्बिकां ध्यात्वा नमः फडिति मस्तके।
स्वकीये प्रथमं साऽहमेव विचिन्त्य च।। ५३.३५ ।।

अङ्गन्यासकरन्यासौ ततः कुर्यात् क्रमेण च ।
एभिर्मन्त्रैः स्वरैः सह सृमीसूमैः क्रमान्वितैः।। ५३.३६ ।।

ओम् क्षौम् चैते सप्रणवां रक्तवर्णां मनोहराम्।
अङ्गुष्ठादिकनिष्ठान्तमन्त्रसंबेष्टनं फट्।। ५३.३७ ।।

प्रान्तेन कुर्याद् विन्यासं पूर्वं करतलद्वये ।
हृच्छिरः शिखाकवचनेत्रेषु क्रमतो न्यसेत्।। ५३.३८ ।।

ततस्तु मूलमन्त्रस्य वक्त्रे पृष्ठे तथोदरे।
बाह्वोर्गुह्ये पादयोश्च जङ्घयोर्जघने क्रमात्।। ५३.३९ ।।

विन्यसेदक्षराण्यष्टौ ओंकारं च तथा स्मरन्।
एभिः प्रकारैरति शुद्धदेहः पूजां सदैवार्हति नान्यथा हि।
शरीरशुद्धिं मनसो निवेशं भूतप्रसारं कुरुते नृणां तत्।। ५३.४० ।।

इति श्रीकालिकापुराणे महामायाकल्पे त्रिपञ्चाशोऽध्यायः।।