कालिकापुराणम्/अध्यायः ५२

विकिस्रोतः तः
Jump to navigation Jump to search

।।और्व्व उवाच।।
एवं वदति भूतेशे तदा वेतालभैरवौ।
प्राहतुर्व्योमकेशं तौ हर्षोत्फुल्लविलोचनौ।। ५२.१ ।।

।।वेतालभैरवावूचतुः।।
पार्वत्या न हि जानीवो ध्यानं मन्त्रं विधिं तथा।
कथमाराधयिष्यावो भगवन् सम्यगुच्यताम्।। ५२.२ ।।

।।भीगवानुवाच।।
महामायाविधिं मन्त्रं च भवतोः सुतौ।
उपदेक्ष्यामि तत्त्वेन येन सर्वं भविष्यति।। ५२.३ ।।

।।और्व्व उवाच।।
इत्युक्त्वा स महामायाध्यानं मन्त्रं विधिं तथा।
कथयामास गिरिशस्तयोः सम्यङ् नृपोत्तम।। ५२.४ ।।

यदष्टादशभिः पश्चात्पटलैश्च स भैरवः।
स निर्णयविधिं कल्पं निबबन्ध शिवामृते।। ५२.५ ।।

।।सगर उवाच।।
कीदृङ् मन्त्रं पुरा शम्भुरवोचदुभयोस्तयोः।
येनाराध्य महामायां तौ गणेशत्वमापतुः।। ५२.६ ।।

सकल्पं सरहस्यं च साङ्गं तच्छ्रीतुमुत्सहे।
दशाष्टपटलैर्यत् तु निबबन्ध स भैरवः।। ५२.७ ।।

।।और्व्व उवाच।।
बहुत्वाद् वदितुं तस्य चिरेणैव तु शक्यते।
तस्मात् सद्यः समुद्‌धृत्य यन्महादेवभाषितम्।
संक्षेपात् कथये तत्त्वं तच्छृणुष्व नृपोत्तम।। ५२.८ ।।

पृच्छन्तौ पार्वती मन्त्रं तदा वेतालभैरवौ।
जगाद स महादेवः शृणुत मन्त्रकल्पकौ।। ५२.९ ।।

।।श्रीभगवानुवाच।।
शृणु मन्त्रं प्रवक्ष्यामि गुह्याद् गुह्यतमं परम्।
अष्टाक्षरं तु वैष्णव्या महामायामहोत्सवम्।। ५२.१० ।।

अस्य श्रीवैष्णवीमन्त्रस्य नारऋषिः शम्भुर्देवता।
अनुष्टुप् छन्दः सर्वार्थसाधने विनियोगः।। ५२.११ ।।

हान्तान्तयुर्वो रान्तश्च नान्तो णान्तस्तथैव च।
कैकादशाष्टादिषष्ठः खान्तो विष्णुपुरःसरः।। ५२.१२ ।।

एभिरष्टाक्षरैर्मन्त्रं शोणपत्रसमप्रभम्।
ॐकारं पूर्वतः कृत्वा जप्यं सर्वैस्तु साधकैः।। ५२.१३ ।।

महामन्त्रमिदं गुह्यं वैष्णवीमन्त्रसंज्ञकम्।
मन्त्रं कलेवरगतं तस्मादङ्गं प्रकीर्तितम्।। ५२.१४ ।।

महादेवस्योर्ध्वमुखं बीजमेतत् प्रकीर्तितम्।
ॐकाराक्षरबीजं च यकारः शक्तिरुच्यते।। ५२.१५ ।।
सबीजं कथितं मन्त्रं कल्पं च शृणु भैरव।
तीर्थे नद्यां देवखाते गर्तप्रस्रवणादिके।। ५२.१६ ।।

परकीयेतरे तोये स्नानं पूर्वं समाचरेत्।
आचान्तः शुचितां प्राप्तः कृतासनपरिग्रहः।। ५२.१७ ।।

उत्तराभिमुखो भूत्वा स्थण्डिलं मार्जयेत् ततः।
करेणानेन मन्त्रेण यूं सहः क्षित्या इति स्वयम्।। ५२.१८ ।।

ॐ ह्रीं स इति मन्त्रेण आशापूरणकेन च।
तोयैरभ्युक्षयेत् स्थानं भूतानामपसारणे।। ५२.१९ ।।

ततः सव्येन हस्तेन गृहीत्वा स्थण्डिलं शुचिः।
मन्त्रं लिखेत् सुवर्णेन याज्ञिकेन कुशेन वा।। ५२.२० ।।

ॐ वैष्णव्यै नमः इति मन्त्रराजमथापि वा।
ततस्त्रिमण्डलं कुर्यात् तेनैव समरेखया।। ५२.२१ ।।

नित्यासु न हि पूजासु रजोभिर्मण्डलं लिखेत्।
पुरश्चरणकार्येषु तत्काम्येषु प्रयोजयेत्।। ५२.२२ ।।

रेखामुदीच्यां प्रथमं पश्चिमे तदनन्तरम्।
दक्षिणे तु ततः पश्चात् पूर्वभागे तु शेषतः।। ५२.२३ ।।

वर्णानां च सहद्वारैरेवमेव क्रमो भवेत्।
ॐ ह्रीं श्रीं स इति मन्त्रेण मण्डलं पूजयेत् ततः।। ५२.२४ ।।
हस्तेन मण्डलं कृत्वा कुर्याद् दिग्बन्धनं ततः।
आशाबन्धनमन्त्रेण पूर्वोक्तेन यथाक्रमम्।। ५२.२५ ।।

फडन्तेनात्मनाप्यत्र करेणैव निबन्धयेत्।
यवानां मण्डलैरेकमङ्गुलं चाष्टभिर्भवेत्।। ५२.२६ ।।

अदीर्घयोजितैर्हस्तैस्चतुर्विंशतिरङ्गुलैः।
तत्प्रमाणेन हस्तेन हस्तैकं तस्य मण्डलम्।। ५२.२७ ।।

पद्मं वितस्तिमात्रं स्यात् कर्णिकारं तदर्धकम्।
दलान्यन्योन्यसक्तानि ह्यायतानि नियोजयेत्।। ५२.२८ ।।

न न्यूनाधिकभागानि सबहिर्वेष्टितानि च।
मध्यभागे न्यसेद् द्वारं न्यूने नाधिके तथा।
सुबद्धं मण्डलं तच्च रक्तवर्णं विचिन्तयेत्।। ५२.२९ ।।

इतोऽन्यथा मण्डलमुग्रमस्याः करोति यो लक्षणभागहीनम्।
फलं न चाप्नोति न काममिष्टं तस्मादिदं मण्डलमत्र लेख्यम्।। ५२.३० ।।

इति शीकालिकापुराणे महामायाकल्पेऽष्टादशपटले द्विपञ्चाशत्तमोऽध्यायः।।